वाचस्पत्यम्
आतु to आत्मध
links:
Menu अ–ह
Prev आज्ञ–आति
Next आत्मन्
आतु
आतुरोपद
आत्म
आत्मज
UpasanaYoga
.org

आतु = पु० अत–उण्। भेलके। (भेला) उडपे।

आतुच् = पु० “आतुचिर्गमनार्थ इति” ऋ० भा० आधारे क्विप्। सूर्य्यस्यास्तगतिकाले तस्य निम्लोचनकाले अस्तकाले “यदद्यसू उदिते यन्मध्यदिन आतुचि” ऋ० ८, २७, २१, “आतुचि सायम्” भा०।

आतुजि = त्रि० आ + तुज–हिंसाबलादाननिकेतनेषु इन्। हिंसके बलस्यादायके च। “पिबतं सोममातुजी” ७, ६६ ६८, “आतुजी हिंसकौ आदातारौ वां” भा०।

आतुर = त्रि० ईषदर्ये आ + अत–उरच्। कार्य्याक्षमे उज्ज्व० “घृतमुत्तमं विधिविपक्वमाहितं प्रपिबन्निदं जयति कुष्ठमातुरः” उज्ज्व० वैद्य० २ पीडिते च। “रावणावरजा तत्र राघवं मदनातुरा” रघुः। “न स्नानमाचरेद्भुक्त्वा नातुरो न महानिशि” “बालवृद्धातुरैविना” “आकाशेशास्तु विज्ञेया बालवृद्धकृशातुरा” इति च मनुः। आतुरे नियमो नास्ति” स्मृतिः।

आतुरसंन्यास = न० ६ त०। संन्यासभेदे सन्यासशब्दे तद्विधिर्वक्ष्यते।

आतुरोपक्रमणीय = पु० आतुरमधिकृत्य रोगनिवारणाय उपक्रमणीयम्। आतुरस्य चिकित्मार्थमायुर्व्याध्यृत्वग्निवयोदेहबलसत्वसात्म्यप्रकृतिभेषजदेशानुसारेणौपक्रमणीये १ व्यापारभेदे तदधि कृत्यकृतोग्रन्थः छ। २ तत्प्रतिपादकग्रन्थे च। स च सुश्रुतान्तर्गतोऽध्यायभेदः। तत्रोक्तविशेषं ज्ञात्वा वैद्यैरातुरस्य रोगनिवारणायोपक्रमणेयम्। स चाध्यायस्तावद्दर्श्यते यथा “अथात आतुरोपक्रवणीयमध्यायम् व्याख्यास्यामः।। आतुरमुपक्रममाणेन भिषजायुरवादौ परीक्ष्येत। सत्यप्यायुषि व्याध्यृत्वग्निवयोदेहबलसत्सात्म्यप्रकृतिभेषजदेशान् परीक्षेत।। तत्र महापाणिपादपार्श्व पृष्ठस्त- नाग्रदशनवदनस्कन्धललाटम् दीर्घाङ्गुलिपर्व्वोच्छासप्रेक्षणबाहुम् विस्तोर्ण्णभ्रूस्तनान्तरोरस्कम् ह्रस्वजङ्घामेढ्रग्रीवम् गम्भीरसत्वस्वरनाभिमनुच्चैर्ब्बद्धस्तनमुपचितमहारोमशकर्णम् पश्चान्मस्तिष्कम् स्रातानुलिप्तमूर्द्धानुपूर्व्व्या विशुष्यमाणशरीरम् पश्चाच्च विशुष्यमाणहृदयम् पुरुषम् जानीयाद्दीर्घायुः खल्वयमिति। तमेकान्तेनोपक्रमेत्। एभिर्लक्षणैर्व्विपरीतैरल्पायुर्मिश्रैर्म्मध्यमायुरिति।। भवन्ति चात्र।। गूढसन्धिसिरास्नायुः संहताङ्गः स्थिरेन्द्रियः। उत्तरोत्तरसुक्षेत्रो यः स दीर्घायुरुच्यते।। गर्भात्प्रभृत्यरोगो यः शनैः समुपचीयते।। शरीरज्ञानविज्ञानैः स दीर्घायुः समासतः।। मध्यमस्यायुषो ज्ञानमत ऊर्द्ध्वं निबोध मे। अधस्तादक्षिगायस्य लेखाः स्युर्व्यक्तमायताः।। द्वे वा तिस्रोऽधिका वापि पादौ कर्णौ च मांसलौ। नासाग्रमूर्द्ध्वञ्च भवेदूर्द्ध्वलेखाश्च पृष्ठतः।। यस्य स्युस्तस्य परममायुर्भवति सप्ततिः। जघन्यस्यायुषो ज्ञानमत ऊर्द्ध्वं निबोध मे।। ह्रस्वानि यस्य पर्व्वाणि सुमहच्चापि मेहनम्। तथोरस्यवलीढानि नच स्यात्पृष्ठमायतम्।। ऊर्द्ध्वञ्च श्रवणौ स्थानान्नासा चोच्च शरीरिणः। हसतो जल्पतो वापि दन्तमांसम् प्रदृश्यते। प्रेक्षते यश्च विभ्रान्तम् स जीवेत्पञ्चविंशतिम्।। अथ पुनरायुषो विज्ञानार्थमङ्गप्रत्यङ्गप्रमाणसारानुपदेक्ष्यामः। तत्राङ्गान्यन्तराधिसकिथबाहुशिरांसि तदवयवाः प्रत्यङ्गानीति। तत्र स्वैरङ्गुलैः पादाङ्गुष्ठप्रदेशिन्यौ द्व्यङ्गुलायते। प्रदेशिन्यास्तु मध्यमाऽनामिका कनिष्ठिका यथोत्तरम् पञ्चमभागहीना। चतुरङ्गुलायते पञ्चाङ्गुलविस्तृते प्रपद पादतले। पञ्चचतुरङ्गुलायतविस्तृता पार्ष्णिः। चतुर्दशाङ्गुलायतःपादः। चतुर्दशाङ्गुलपरिणाहानि पादगुल्फ जङ्घाजानुमध्यानि। अष्टादशाङ्गुला जङ्घा जानूपरि ष्टांद्द्वात्रिं शदङ्गुलमेवं पञ्चाशत्। जङ्घायामसमावूरू। द्व्यङ्गुलानि वृषणचिवुकदशननासापुटभागकर्ण्णमूलनयनान्तराणि। चतुरङ्गुलानि मेहनवदनान्तरनासाकर्ण्णललाटग्रीवोच्छ्रायदृष्ट्यन्तराणि। द्वादशाङ्गुलानि भगविस्तारमेहननाभिहृदयग्रीवास्तनान्तरमुखायाममणिबन्धप्रकोष्ठस्थौल्यानि। इन्द्रवस्तिपरिणाहांसपीठकूर्परान्तरायामः षोडशाङ्गुलः। चतुर्विंशत्यङ्गुलो हस्तः। द्वात्रिंशदङ्गुलपरिमाणौ भुजौ द्वात्रिं शत्परिणाहावूरू। मणिबन्धकूर्परान्तरं षोडशाङ्गुलम्। तलं षट्चतुरङ्गुलायामविस्तारम्। अङ्गुष्ठमूलप्रदेशिनीश्रवणापाङ्गान्तरमध्यमाङ्गुल्यौ पञ्चा- ङ्गुले। अर्द्धचतुरङ्गुले प्रदेशिन्यनामिके। सार्द्धत्र्यङ्गुलौ कनिष्ठाङ्गुष्ठौ। चतुर्विशतिविस्तारपरिणाहं मुखग्रीवम्। त्रिभागाङ्गुलुविस्तारा नासापुटमर्य्यादा। नयनत्रिभागपरिणाहा तारका। नवमस्तारकांशोदृष्टिः। केशान्तमस्तकान्तरमेकादशाङ्गुलम्। मस्तकादवटुकेशान्तो दशाङ्गुलः कर्णावट्वन्तरं चतुर्दशाङ्गुलम्। पुरुषोरःप्रमाणविस्तीर्णा स्त्रीश्रोणिः। अष्टादशाङ्गुलविस्तीर्ण्णमुरः। तत्प्रमाणा पुरुषस्य कटी। सविंशमङ्गुलशतं पुरुषायाम इति। भवन्ति चात्र। पञ्चविंशे ततो वर्षे पुमान् नारी तु षोडशे। समत्वागतवीर्य्यौ तौ जानीयात् कुशलो भिषक्। देहः स्वैरङ्गुलैरेष यथावदनुकीर्त्तितः। युक्तःप्रमाणेनानेन पुमान् वा यदि वाऽङ्गना। दीर्घमायुरवाप्नोति वित्तञ्च महदृच्छति। मध्यमं मध्यमैरायुर्व्वित्तं हीनैस्तथाऽवरम्। अथ सारान् वक्ष्यामः। स्मृतिभक्तिप्रज्ञाशौर्य्यशौचोपेतं कल्याणाभिनिवेशं सत्त्वसारं विद्यात्। स्निग्धं संहतश्वेतास्यिदन्तनखं बहुलकामप्रजं शुक्रेण। अकृशमुत्तमबलं स्निग्धगम्भीर स्वरं सौभाग्योपपन्नं महानेत्रञ्च मज्ज्ञा। महाशिरःस्कन्धदृढदन्तहन्वस्थिनखमस्थिभिः, स्निग्धमूत्रस्वेदस्वरं वृहच्छरीरमायाससहिष्णुं मेदसा। अच्छिद्रगात्रं गूढास्थिसन्धिं मांसोपचितञ्च मांसेन। स्निग्धताम्रनखनयनतालुजिह्वौष्ठपाणिपादतलं रक्तेन। सुप्रसन्नमृदुत्वग्रोमाणं त्व्कसारं विद्यादित्येषां पूर्ब्बं पूर्ब्बं प्रधानमायुःसौभाग्ययोरपि। भवति चात्र। सामान्यतोऽङ्गप्रत्यङ्गप्रमाणादथ सारतः। परीक्ष्यायुः सुनिपुणो भिषक् सिध्यति कर्म्मसु। व्याधिविशेषास्तु प्रागभिहिताः सर्व्व एवैते त्रिविधाःसाध्या याप्याः प्रत्याख्येयाश्च तत्रैतान् भूयस्त्रिधा परीक्षेत किमसावौपसर्गिकः प्राक्केवलोऽन्यलक्षण इति। तत्रौपसर्गिको यः पूर्व्वोत्पन्नं व्याधिं जघन्यकालजातो व्याधिरुपसृजति स तन्मूलएवोपद्रवसंज्ञः। प्राक्केवलो यः प्रागेवोत्पन्नो व्याधिरपूर्ब्बरूपोऽनुपद्रवश्च। अन्यलक्षणो यो भविष्यद्याधिख्यापकः स पूर्व्वरूपसंज्ञः। तत्र सोपद्रवमन्योन्याविरोधेनोपक्रमेत बलवन्तमुपद्रवं वा। प्राक्केवलं यथास्वं प्रतिकुर्व्वीत। अन्यलक्षणे त्वादिव्याधौ प्रयतेत। भवति चात्र। नास्ति रोगो विना दोषैर्यस्मात्तस्माद्विचक्षणः। अनुक्तमपि दोषाणां लिङ्गैर्व्याधिमुपाचरेत्। प्रागभिहिता ऋतवः। शीते शीतप्रतीकारौष्णे चोष्कनिवारणम्। कृत्वा कुर्य्यात् क्रियां प्राप्तां क्रियाकालं न हापयेत्। अप्राप्ते वा क्रियाकाले प्राप्ते वा न कृता क्रिया। क्रियाहीना-ऽतिरिक्ता वा साध्येष्वपि न सिध्यति। यात्युदीर्ण्णं शमयति नान्यं व्याधिं करोति च। सा क्रिया न तु या व्याधिं हरत्यन्यमुदीरयेत्। (व्रणप्रश्ने) प्रागभिहितोऽग्निरन्नस्य पाचकः। स चतुर्व्विधो भवति दोषानभिपन्न एको विक्रियामापन्नस्त्रिविधोभवति विषमो वातेन, तीक्ष्णः पित्तेन, मन्दः श्लेष्मणा, चतुर्थः समः सर्वसाम्यादिति। तत्र यो यथा कालमन्नमुपयुक्तं सम्यक्पचति। स समः समैर्दोषैः। यः कदाचित्सम्यक्पचति कदाचिदाध्मानशूलोदावर्त्तातिसारजठरगोरवान्त्रकूजनप्रवाहणानि कृत्वा। स विषमः। यः प्रभूतमप्युपयुक्तमन्नमाशु पचति स तीक्ष्णः स एवाभिवर्द्धमानोऽत्यग्निरित्याभाष्यते स मुहुर्मुहुः प्रभूतमप्युपयुक्तमाशुतरं पचति पाकान्ते च गलताल्वोष्ठशोषदाहसन्तापान् जनयति। यःस्वल्पमप्युपयुक्तमुदरशिरोगौरवकासश्वासप्रसेकच्छर्दिगात्रसदनानि कृत्वा महता कालेन पचति स मन्दः। विषमो वातजान् रोगान् तीक्ष्णः पित्तनिमित्तजान्। करोत्यग्निस्तथा मन्दो विकारान् कफसम्भवान्। तत्र समे परिरक्षणं कुर्व्वीत, विषमे स्निग्धाम्ललवणैः क्रियाविशेषैः प्रतिकुर्व्वीत, तीक्ष्णे मधुरस्निग्धशीतैर्व्विरेकैश्च, एवमेवात्यग्नौ विशेषेण माहिषैश्च क्षीरदधिसर्पिर्भिर्मन्दे कटुतिक्तकषायैर्वमनैश्च। जाठरो भगवानग्निरीश्वरोऽन्नस्य पाचकः। सौक्ष्म्याद्रसानाददानो विवेक्तुं नैव शक्यते। प्राणापानसमानैस्तु सर्व्वतः पवनैस्त्रिभिः। ध्मायते पाल्यते चापि स्वे स्वे स्थाने व्यवस्थितैः। वयस्तु त्रिविधम् बालम् मध्यम् वृद्धमिति। तत्रोनषोडशवर्षा बालास्तेऽपि त्रिविधाः क्षीरपाः क्षीरान्नादा अन्नादाइति तषु संबत्सरपराः क्षीरपा द्विसंवत्सरपराः क्षीरान्नादाः परतोऽन्नादा इति।। षोडशसप्तत्योरन्तरे मध्यम् वयस्तस्य विकल्पी वृद्धिर्य्यौवनम् संपूर्ण्णता हानिरिति। तत्रा विंशतेर्वृद्धिः, आ त्रिंशतो यौवनम्, आ चत्वारिंशतःसर्व्वधात्विन्द्रियबलवीर्य्यसम्पूर्णता। अतऊर्द्ध्वमीषत् परिहाणिर्य्यावत्सप्ततिरिति। सप्ततेरूर्द्ध्वंक्षीयमाणधात्विन्द्रियबलवोर्य्योत्साहमहन्यहनि वलीपलितखालित्यजुष्टं कासश्वासप्रभृतिभिरुपद्रवैरभिभूयमानम् सर्व्वक्रियास्वसमर्थम् जीर्णागारमिवाभिवृष्टमवसीदन्तम् वृद्धमाचक्षते।। तत्रोत्तरोत्तरासु वयोऽवस्थासूत्तरोत्तरा भेषजमात्राविशेषा भवन्त्यृते च परिहाणेस्तत्राद्यापेक्षया प्रतिकुर्वीत। भवन्ति चात्र।। बाले विवर्द्धते श्लेष्मा मध्यमे पित्तमेव तु। भूयिष्ठं वर्द्धते बायुर्वृद्धे तद्वीक्ष्य योजयेत्।। अग्निक्षार- विरेकैस्तु बालवृद्धौ विवर्जयेत्। तत्साध्येषु विकारेषु मृद्वीम् कुर्य्यात्क्रियाम् शनैः।। देहः स्थूलः कृशो मध्य इति प्रागुपदिष्टः। कर्शयेद्वृंहयेच्चापि सदा स्थूलकृशौ नरौ। रक्षणञ्चैव मध्यस्य कुर्व्वीत सततम् भिषक्।। बलमभिहितगुणम् दौर्ब्बल्यञ्च स्वभावदोषजरादिभिरवेक्षितव्यम्।। यस्माद्बलवतः सर्व्वक्रियाप्रवृत्तिस्तस्माद्बलमेवप्रधानमधिकरणानाम्।। केचित् कृशाः प्राणवन्तः स्थूलाश्चाल्पबला नराः। तंस्मात् स्थिरत्वव्यायामैर्ब्बलं वैद्यः प्रतर्कयेत्।। सत्वन्तु व्यसनाभ्युदयक्रियादिस्थानेप्ववैकल्यकरम्। सत्त्ववान् सहते सर्व्वं संस्तभ्यात्मानमात्मना। राजसः स्तभ्यमानोऽन्यैः सहते नैव तामसः।। प्रकृतिम् भेषजम् चोपरिष्टाद्वक्ष्यामः।। सात्म्यानि तु देशकालजात्यु तुरोगव्यायामोदकदिवास्वप्नरसप्रभृतीनि प्रकृतिविरुद्धान्यपि यान्यबाधकराणि भवन्ति। यो रसः कल्पते यस्य सुखायैव निषेवितः। व्यायामजातमन्यद्वा तत्सात्म्यमिति निर्दिशेत्।। देशस्त्वानूपो जाङ्गलः साधारण इति।। तत्र बहूदकनिम्नोन्नतनदीवर्षगहनो मृदुशीतानिलो बहुमहापर्वतवृक्षो मृदुसुकुमारोपचितशरीरमनुष्यप्रायः कफवातरीगभूयिष्ठश्चानूपः।। आकाशसमः प्रविरलाल्पकण्टकिवृक्षप्रायोऽल्पवर्षप्रस्रवणोदपानोदकप्रायौष्णदारुणवातः प्रविरलाल्पशैलः स्थिरकृशशरोरमनुष्यप्रायोवातपित्तरोगभूयिष्ठश्च जाङ्गलः।। उभयदेशलक्षणः साधारण इति।। भवन्ति चात्र।। समाः साधारणे यस्माच्छीतवर्षोष्ममारुताः। दोषाणाम् समता जन्तोस्तस्मात्साधारणो मतः।। न तथा बलवन्तः स्युर्जलजा वा स्थलाहृताः। स्वदेशे निचिता दोषा अन्यस्मिन् कोपमागताः।। उचिते वर्त्तमानस्य नास्ति देशकृतम् भयम्। आहारस्वप्नचेष्टादौ तद्देशस्य गुणे सति। देशप्रकृतिसात्म्यर्त्तुविपरीतोऽचिरोत्थितः। सम्पत्तौ भिषगादीनां बलसत्वायुषां तथा।। केवलः समदेहाग्नेः सुखसाध्यतमो गदः। अतोऽन्यथा त्वसाध्यः स्यात् कृच्छ्रो व्यामिश्रलक्षणः।। क्रियायास्तु गुणालाभे क्रियामन्यां प्रयोजयेत्। पूर्ब्बस्यां शान्तवेगायां न क्रियास ङ्करो हितः।। गुणालाभेऽपि सपदि यदि सैव क्रिया हिता। कर्त्तव्यैव तदा व्याधिः कृच्छ्रसाध्यतमो यदि।। यए वमेनं विधिमेकरूपं बिभर्त्ति कालादिवशेन धीमान्। स मृत्युपाशान् जगतो गदौघान्छिनत्ति भैषज्यपरश्वधेन”।।

आतुरोपद्रव = पु० ६ त०। आतुरस्य उपद्रवे ते च उपद्रवा संप्रतीकारोपायाः सुश्रुते दर्शिता यथा “अथात आतुरोपद्रवचिकित्सितं व्याख्यास्यामः। स्नेहपीतस्य वान्तस्य विरिक्तस्य स्रुतासृजः। निरूढस्य च कायाग्निर्मन्दो भवति देहिनः।। सोऽन्नैरत्यर्थगुरुभिरुपयुक्तैः प्रशाम्यति। अल्पोमहद्भिर्बहुभिश्छादितोऽग्निरिवेन्धनैः।। सचाल्पैर्लघुभिश्चान्नैरुपयुक्तैर्विवर्द्धते। काष्ठैरणुभिरल्पैश्च सन्धुक्षित इवानलः। हृतदोषप्रमाणेन सदाहारविधिः स्मृतः। त्रीणि चात्र प्रमाणानि प्रस्थोऽर्द्धाढकमाढकम्।। तत्रावरं प्रस्थमात्रं द्वे शेषे मध्यमोत्तमे।। प्रस्थे परिस्रुते देया यवागूः स्वल्पतण्डुला। द्वे चैवार्द्धाढके देया तिस्रश्चाप्याढके गते।। विलेपीमुचिताद्भक्ताच्चतुर्थांशकृतां ततः। दद्याद्युक्तेन विधिना क्लिन्नसिक्थामपिच्छिलाम्।। अस्निग्वलवणां स्वच्छमुद्गयूषयुतान्ततः। अंशद्वयप्रमाणेन दद्यात्सुस्निग्धमोदनम्।। ततः सघृतमन्नेन हृद्येनेन्द्रियबाधिना। त्रीनंशान् वितरेद्भोक्तुमातुरायौदनं मृदुम्। ततो यथोचितं भक्तम्भोक्तुमस्मै विचक्षणः।। लावणैर्हरिणादीनां रसैर्द्दद्यात्सुसंस्कृतैः। हीनमध्योत्तमेष्वेव विरेकेषु विधिः स्मृतः।। एकद्वित्रिगुणः सम्यगाहारस्य क्रमो हि सः। कफपित्ताधिकान्मद्यनित्यान्हीनविशोधितान्।। पेयाभिष्यन्दवत्तेषां तर्पणादिक्रमो हितः। वेदनालाभनियमशोकवैचित्त्यहेतुभिः।। नरानुपोषितांश्चापि विरक्तवदुपाचरेत्। आढकार्द्धाढकप्रस्थसङ्ख्या ह्येषा विरेचने।। एको विरेकः श्लेष्मान्तो न द्वितीयोऽस्ति कश्चंन। बलं यत्त्रिविधं प्रोक्तमतस्तत्र क्रमस्त्रिधा।। तत्रानुक्रममेकन्तु बलस्थः सकृदाचरेत्। द्विराचरेन्मध्यबलस्त्रीन्वारान्दुर्ब्बलस्तथा।। केचिदेवं क्रमं प्राहुर्मन्दमध्योत्तमाग्निषु। संसर्गेण विवृद्धेऽग्नौ दोषकोपभयाद्भजेत्।। प्राक्स्वादुतिक्तौ स्निग्धाभ्ललवणान्कटकं ततः। स्वाद्वस्ललवणान्भूयः स्वादुतिक्तावतः परम्।। स्निग्धरूक्षान्रसांश्चैव व्यत्यासात्स्वस्थवत्ततः। केवलं स्नेहपीतो वा वान्तो यश्चापि केवलम्।। स सप्तरात्रं मनुजो भुञ्जोत लघु भोजनम्। कृतः सिराव्यधो यस्य कृतं यस्य च शोधनम्।। स ना परिहरेन्मासं यावद्वा बलवान्भवेत्। एकैकस्मिन्परिहरेद्वस्तौ वस्तौ त्र्यहं त्र्यहम्।। तृतीये तु परीहारे यथायोगं समाचरेत्। तैलपूर्णाममृद्भाण्डसधर्माणो व्रणातुराः।। स्निग्धशुद्धाक्षिरोगार्त्ता ज्वरातीसारिणश्च ये। क्रुध्यतः कुपितं पित्तं कुर्य्यात्तांस्तानुपद्रवान्।। आयास्यतः शोचतो वा चित्तं विभ्रममृच्छति। मैथुनोपगमाद्घोरान् व्याधीनाप्नोति दुर्मतिः।। आक्षेपकं पक्षघातमङ्गप्रग्रहमेव च। गुह्यप्रदेशे श्वयथुं कासश्वासौ च दा- रुणौ।। शुक्रवच्चापि रुधिरं सरजस्कं प्रवर्त्तते। लभते च दिवास्वप्नात्तांस्तान् व्याधान् कफात्मकान्।। प्लीहोदरं प्रतिश्यायं पाण्डुतां श्वयथुं ज्वरम्। मोहं सदनमङ्गानामविपाकं तथाऽरुचिम्।। तमसा चाभिभूतस्तु स्वप्नमेवाभिनन्दति। उच्चैः सम्भाषणाद्वायुः शिरस्यापादयेद्रुजम्।। आन्ध्यं जाड्यमजिघ्रत्वं बाधिर्य्यं मूकतां तथा।। हनुमोक्षमधीमन्थं मर्द्दितञ्च सुदारुणम्। नेत्रस्तम्भं निमेषं वा तृष्णां कासं प्रजागरम्।। लभते दन्तचालं च तांस्तांश्चान्यानुपद्रवान्। यानयानात्तु लभते च्छर्द्दिमूर्च्छाभ्रमक्लमान्।। तथैवाङ्गग्रहं घोरमिन्द्रियाणाञ्च विभ्रमम्। चिरासनात्तथा स्नानाच्छ्रोण्यां भवति वेदना।। अतिचङ्क्रमणाद्वायुर्जङ्घयोः कुरुते रुजः। सक्थिप्रशोषं शोफं वा पादहर्षमथापि वा।। शींतसम्भोगतोयानां सेवा मारुतवृद्धये। ततोऽङ्गमर्द्दविष्टम्भशूलाध्मानप्रवेपकाः।। वातातपाभ्यां वैवर्ण्यं ज्वरं चापि समाप्न्रयात्। विरुद्धाध्यशनान्मृत्युं व्याधिं वा घोरमृच्छति।। असात्म्यभोजनं हन्याद्बलवर्णमसंशयम्। अनात्मवन्तः पशुवद्भुञ्जते येऽप्रमाणतः।। रोगानीकस्य ते मूलमजीर्णं प्राप्नुवन्ति हि। व्यापदां कारणं वीक्ष्य व्यापत्स्वेतासु बुद्धिमान्।। प्रयतेतातुरारोग्ये प्रत्यनीकेन हेतुना।। विरिक्तवान्तैर्हरिणैणलावकाः शशश्च सेव्यः समयूरतित्तिरिः। सषष्टिकाश्चैव पुराणशालयस्तथैव मुद्गा लघु यच्च कीर्त्तितम्”।। एवमन्येऽपि ततएवावगम्याः।

आतुर्य्य = न० आतुरस्य भावः ष्यञ्। १ आतुरत्वे २ फलनाशके ज्वरांशभेदे च “ज्वरांशाश्च वस्तुभेदेन नानाविधाः” हरि० १८३ अध्या० दर्शिताः। “कृष्णौवाच। शृणुष्व ज्वर। सन्देशं यथा लोके चरिष्यसि। सर्व्वजातिषु विन्यस्तस्तथा स्थावर जङ्गमे। त्रिधा विभज्य चात्मानं मत्प्रियं यदि काङ्क्षसे। चतुप्पदान् भजैकेन द्वितीयेन च स्थावरान्। तृतीयो यश्चतुर्भागो मानुषेषु प्रपत्स्यसे। त्रिधा भूतं वपुः कृत्वा पक्षिषु त्वं भव ज्वर!। चतुर्थो यस्तृतीयस्य भविष्यति च ते ध्रुवम्। एकान्ततश्चतुर्भागः खीरकश्च चतुर्थकः। मानुषेष्वेकपादेन वस त्वं प्रविभज्य वै। जातिष्वथ विशेषासु शिवसत्वं शृणुष्व मे। वृक्षेषु कीटरूपेण तथा सङ्कोच पत्रकः। पाण्डुपत्रश्च विख्यातः फलेष्वातुर्य्यमेव च पद्मिनोषु हिमोभूत्वा पृथिव्यामपि चोषरः। अपान्तु पीलिकां विद्याः शिखोद्भेदश्च वर्हिणाम्। गैरिकः पर्वतेष्वेव मत्प्रसादाद्भविष्यसि। गोष्वपस्मारको भूत्वा खोरकश्च भविष्यसि। एवं विविधरूपेणभविष्यसि महीतले। दर्शनात् स्पर्शनाच्चैव प्राणिनां बधमेष्यसि। ऋते देवमनुष्यांश्च नान्यस्तां विषहिष्यते”। “आतुर्य्यं जालकैकदेशे सङ्कोचः नीलकण्ठः।

आतृण्ण = त्रि० आ + तृद–क्त। १ हिंसिते २ छिन्ने च। “तस्मादातृण्णात् प्रेरितो वृक्षादिवाहतात्” शत० ब्रा०।

आतृप्य = न० आतृप्यत्यनेन आ + तृप–बा० करणे क्यप्। (आता) फलभेदे।

आतोद्य = न० सनन्तात् तुद्यते आ + तुद–ण्यत्। वीणादौ वाद्ये। “स्रजमातोद्यशिरोनिवेशिताम्” “आतोद्यं ग्राहयामास समत्याजयदायुधम्” इति च रघुः।

आत्त = त्रि० आ + दा–क्त। गृहीते “गामात्तसारां रघुरप्यवेक्ष्य” रघुः।

आत्तगन्ध = त्रि० आत्तोगृहीतोऽरि णा गन्धो गर्व्वो यस्य। १ शत्रुणाभिभूते, २ गृहीतगन्धे षुप्पादौ च। “नात्तगन्धमबधूय शत्रुभिः” माघः आत्तगन्धमनाघ्रातसौरभमनभिभूतञ्चेति” मल्लिनाथः।

आत्तगर्व्व = त्रि० आत्तोगृहोतोगर्व्वोयस्य। १ अभिभूते।

आत्मकर्म्मन् = त्रि० ६ त०। आत्मनः स्वस्य कर्त्तव्ये कार्य्ये “आत्मकर्म्मक्षमं देहं क्षात्रोधर्म्म इवाश्रितः” रघुः।

आत्मकाम = त्रि० आत्मानं कामयते कम–णिङ् अण् उप० स०। विषयान्तरेच्छानिवर्त्तनेन १ आत्ममात्राभिलाषुके २ आत्ममात्रज्ञानेच्छायुक्ते। “योऽकामोनिष्काम आप्तकाम आत्मकामः न तस्य प्राणा उत्क्रामन्ति” वृ० उ०। “आप्ताः कामा येन स आप्तकामः काम्यन्ते कामाः आत्मकामत्वेन यस्यात्मैव नात्यःकामयितव्यो वस्त्वन्तरभूतः पदार्थोभवति। “आत्मैवान्तरोबाह्यः कृत्स्नः प्रज्ञानघन एकरसोनोर्द्ध्वं न तिर्य्यग्नाधः” नात्मनोऽन्यत् कामयितव्यं वस्त्वन्तरं यस्य “यस्य सर्वमात्मैवाभूत् तत् केन कं पश्येत् शृणुया त्विजानीयाद्वा” सर्वात्मभूतं विजानन् किं कामयेत ज्ञायमानोह्यन्यत्वेन पदार्थः कामयितव्यो भवति नचासावन्यो ब्रह्मविद आप्तकामस्यास्ति” भा०। आत्मकामस्यैव यथाप्तकामता तथाप्तकामशब्दे वक्ष्यते।

आत्मकामेय = त्रि० आत्मकामाया इदम् ढक्। आत्मकामासम्बन्धिनि ततः स्वार्थे राजन्या० वुञ्। आत्मकामेयकःतदर्थे।

आत्मगुप्त = त्रि० आत्मना गुप्तः। स्वशक्त्यैव रक्षिते। (आलकुशी) लताभेदे स्त्री तस्याःस्पर्शने हि अतिकण्डूयनं नृणां भवति तद्भयाच्चान्यैर्नसा स्पृश्यते इति तस्या आत्मगुप्तत्वम्।

आत्मग्राहिन् = त्रि० आत्मानं आत्मार्थमेव वा गृह्णाति ग्रहणिनि १ उदरम्भरौ २ आत्मज्ञे च।

आत्मघातिन् = त्रि० आत्मानं देहं हन्ति हन्–णिनि ६ त०। “व्यापादयेत् वृथात्मानं स्वयं योऽग्न्युदकादिभिः। अवैधेनैव मार्गेण आत्मघाती स उच्यते” इत्युक्तलक्षणे आत्मनः स्वशरीरस्य प्राणेन सह वियोजयितरि जने आत्मघातश्च द्विविधः वैधोऽवैधश्च अवैधोऽपि द्विविधः ज्ञानपूर्ब्बकस्तदपूर्ब्बकश्च। तत्र वैधात्मघाते न दोषः तदाहतुः मनुवृद्धगर्गौ “वृद्धः शौचमृते लुप्तः प्रत्याख्यातभिषक्क्रियः। आत्मानं घातयेद्यस्तु भृग्वग्न्यनशनाम्बुभिः। तस्य त्रिरात्रमाशौचं द्वितीये त्वस्थिसञ्चयः। तृतीये तूदकं कृत्वा चतुर्थे श्राद्धमाचरेत्” हेमाद्रौ अवैधात्मघातनिन्दनेन तत्राधिकारिणमाह विष्णुध०। “नरस्तु व्याधिरहितो न त्यजेदात्मनस्तनुम् असूर्य्या नाम ते लोका अन्धेन तमसावृताः। तांस्ते प्रत्यभि गच्छन्ति ये के चात्महनोजनाः। अरिष्टैरात्मनोज्ञात्वामृत्युकालमुपस्थितम्। व्याधितोभिषजा त्यक्तः पूर्ण्णेचायुषि चात्मनः। यथायुगानुसारेण संत्यजेदात्मनस्तनुम्। तस्मिन् काले तनुंत्यक्त्वा यथेष्टफलमाप्नुयात्” अपरार्के ब्रह्मगर्भः “यो जीवितुं न शक्नोति महाब्याध्युपपीडितः। सोऽग्न्युदकं र्महायात्रां कुर्व्वन्नपि न दुष्यति”। तेन प्रयागाद्यतिरिक्तेऽपि अचिकित्सरोगादीनामधिकारः। एतच्च वानप्रस्थस्यैवेति विज्ञानेश्वरादयः। “आसां महर्षिचर्य्याणां त्यक्त्वाऽन्यतमया तनुम्। वीतशोकभयो विप्रो ब्रह्मभूयाय कल्पते” इति मनुना वानप्रस्थस्यैव मरणाधिकारप्रतिपादनात्। गृहस्थस्याप्यधिकार इति निर्णयसिन्धुः। प्रयागाद्यतिरिक्ते विप्रस्य तु नाधिकारः “शूद्राश्च क्षत्रिया वैश्या अन्त्यजातास्तथाधमाः। एते त्यजेषुः प्राणान् वै वर्ज्जयित्वा द्विजं नृप! पतित्वा ब्राह्मणस्तव ब्रह्महा चात्मघातकृत्” तद्धृत वचनात् अब्राह्मणोवै स्वर्गादि महाफलजिगीषया। प्रविशेजज्वलनं तोयं करोत्यनशनं तथेति” आदित्य पु० वाक्याच्च। तत्र प्रयागादिषु सर्व्वे वर्ण्णा वैधात्मघाताधिकारिणः यथा “दुश्चिकित्स्येर्महारोगैः पीडितस्तु पुमानपि। प्रविशेज्ज्वलनं दीप्तं करोत्यनशनं तथा अगाधतोयराशिं च भृगोः पतनमेव च। गच्छेन्महापथं वापि तुषारगिरिमादरात्। प्रयागवटशाखायां देहत्यागं करोति च। स्वयंदेहविनाशञ्च काले प्राप्ते महामतिः। उत्तमान् प्राप्नुयाल्लोकान्नात्मघाती भवेत् क्वचित्। महापापक्षयात् स्वर्गे दिव्यान् भोगान् समश्नुते। एतस्मिन्नधिकारस्तु सर्वेषां सर्वजन्तुषु। नराणामथ नारीणां सर्ववर्ण्णेषु सर्वथा। ईदृशं मरण येषां जीवानां कुत्रचिद्भवेत्। अशौचं तुत्र्यहं तेषां वज्रानलहतेषु च” आदि० पु० “वाराणस्यां म्रियते यः प्रत्याख्यातभिषक्क्रियः काष्ठपाषाणमध्यस्थो जाह्नवीजलमध्यगः। अविमुक्तोन्मुखस्तस्य कर्णमूलगतोहरः। प्रणवं तारकं ब्रूते नान्यथा कुत्रचित् क्वचित्” मात्से, भारते च” न लोकवचनात्तात! न वेदवचनादपि मतिरुत्क्रमणीया ते प्रयागमरणं प्रति” अतएव विष्णुधर्मे रोग्यादिमरणमुक्त्वोक्तम् “यथायुगानुसारेण संत्यजेदात्मनस्तनुमिति” प्रयागादौ विशेषः त्रिस्थलीसेतौ स्कान्दे “यथा कथचित्तीर्थेऽस्मिन् प्राणत्यागं करोति यः। तस्यात्मघातदोषो न प्राप्नुयादोप्सितान्यपि। पाद्मेविष्णुः “देहत्यागं तथा धीराः कुर्वन्ति मम सन्तिधौ। मत्तनुं प्रविशन्त्येव न पुनर्जन्मने नराः” कौर्मेः व्याधितो यदि वा दीनः क्रुद्धोवापि भवेन्नरः। गङ्गायमुनमासाद्य यस्तु प्राणान् परित्यजेत् ईप्सितान् लभते कामान्वदन्ति मुनिपुङ्गवाः” तथा “या गतिर्योगयुक्तस्य सत्वस्थस्य मनीषिणः। सा गतिस्त्यजतः प्राणान् गङ्गायमुनसंगमे”। वाराहे “तत्र योमुञ्चति प्राणान् वटमूलेषुसुन्दरि! सर्वलोकानतिक्रम्य मम लोकं प्रपद्यते”। तथा “अकामोवासकामो वा वटमूलेषु सुन्दरि! शीघ्रं प्राणान्प्रमुञ्चेत यदीच्छेत्परमां गतिम्” तथा “पञ्चयोजनविस्तीर्णे प्रयागस्य तु मण्डले। व्यतीतान् पुरुषान् सप्त भविष्यांश्च चतुर्दश। नरस्तारयते सर्वान् यस्तु प्राणान्परित्यजेत्” ब्राह्मे “ध्यात्वा विष्णुपदाम्भोजं प्रयागे विष्णुतत्परः तनुन्त्यजति वै माघे तस्य मुक्तिर्न संशयः। दुष्कृतोऽपि दुराचारो ब्रह्महत्यादिपातकी। हरिं ध्यात्वा त्यजेद्देहं प्रायशो मुक्तिभाग्भवेत्” भविष्योत्तरे “समाः सहस्राणि तु सप्त वै जले दशैकमग्नौ पतने च षोडश। महाहवे षष्टिरशीति गोग्रहे अनाशने भारत! चाक्षया गतिः अग्निप्रवेशं ये कुर्युरविमुक्ते विधानतः प्रविशन्ति मुखन्ते मे निःसंदिग्धं वरानने! इति सामान्यतोऽपि फलमुक्तम् एवमन्येऽपि विघयोज्ञेयाः। एवं विहित मरणं तु कलौ निषिद्धमेव “भृग्वग्निमरणं चैव वृद्धादिमरणं तथेति माधवीये कलिवर्ज्ज्येषूक्तेः यत्तुगौडाः प्रयागादिमरणं ब्राह्मणभिन्नयिषयमित्याहुस्तत् त्रिस्थलीसेतुकृता दूषितं प्रागुक्तवचनात् “सर्वेन्द्रियवियुक्तस्य स्वव्यापाराक्षमस्य च प्रायश्चित्तमनुज्ञातमग्निपातो महापथः। धर्मार्जनासमर्थस्य कर्त्तुःपापाङ्कितस्य च। ब्राह्मणस्याप्यनुज्ञातं तीर्थे प्राणविमोक्षणमिति” हेमाद्रौ विवस्वदुक्तेश्च अपरार्के चैवमेव। सहगमनं कलौ भवत्येव “कलौ नान्या गतिः स्त्रीणां सहानुगमनादृत इति ब्रह्मवैवर्त्तात् एतेन मरणान्तिकप्रायश्चित्तमपि व्याख्यातम् काशीखण्डादौ चातुर्वर्ण्यस्य तनुत्यागविधयश्च युगान्तरपरा एवं प्रयागेऽपि। अवैघात्मघाते तु “आत्मघातिनमुपक्रम्य” विहितं तस्य नाशौचं नाग्निर्नाप्युदकक्रियेति कू० पु० वचनात् नाशौचादि। तस्य च क्रियाकरणे चान्द्रायणद्वयसहितं वर्ण्णिबधप्रायश्चित्तं नारायणबलिं च कृत्वा वत्सरादूर्द्धं क्रिया कर्त्तुं शक्यते। वत्सरान्ते तु सर्बमौर्ध्वदेहिकंकुर्य्यात् इति हेमाद्रिप्रभृतयः। “गोब्राह्महतानाञ्च पतितानां तथैव च। ऊर्द्धं संवत्स्वरात् कुर्य्यात्सर्वमेवौर्ध्वदेहिकमिति हेमाद्रौ षट्विंशन्मतात्, ब्राह्मे “क्रियते पतितानान्तु गते संवत्सरे क्वचित् देशधर्मप्रमाणत्वाद्गयाकूपे स्वबन्धुभिः मार्तण्डपादमूले वा श्राद्धं हरिहरौ स्मरन्” सूर्यपद इत्यर्थः तत्र वर्षमध्येऽपि कृत्यमुक्तमपरार्के वायुपुराणे “शुक्लपक्षे तु द्वादश्यां कुर्य्यात् श्राद्धन्तु वत्सरे। द्वादशाहनि वा कुर्याच्छुक्ले च प्रथमेऽहनि” छागलेयः “नारायण बलिः कार्योलोकगर्हाभयान्नरैः। तथा तेषां भवेच्छौचं नान्यथेत्यब्रवीद्यमः” व्यासः “नारायणं समुद्दिश्य शिवं वा यत्प्रदीयते। तस्यशुद्धिकरं कर्म तद्भवेन्नैतदन्यथेति” सचात्मघातादिप्रायश्चित्तं कृत्वा कार्यः तदुक्तं हेमाद्रौ षट्त्रिंशशन्मते “कृत्वा चान्द्रयणं पूर्व्वं क्रिया कार्या यथाविधि। नारायणबलिः कार्य्योलोकगर्हाभयान्नरैः। पिण्डोदकक्रियाः पश्चादृषोत्सर्गादिकं च यत्। एकोद्दिष्टानि कुर्व्वीत सपिण्डीकरणं तथा। इन्द्रियैरपरित्यक्ताये च मूढाविषादिनः। घातयन्ति स्वमात्मानञ्चाण्डालादिहताश्च ये। तेषां पुत्राश्च पौत्राश्च दयया समभिप्लुताः यथा आद्धं प्रतन्वन्ति विष्णुनामप्रतिष्ठितम् तथा ते संप्रवक्ष्यामि नमस्कृत्य स्वयम्भुवम्” इति हेमाद्रौ तेनैवोक्तेश्च तत्रैव बौधाय नोऽपि “अथ नारायणबलिं व्यख्यास्यामोऽभिशस्तपतितसुरापात्मत्यागिनां ब्राह्मणहतानाञ्च द्वादशवर्षाणि त्रीणिवा कुर्वीतेति” गृह्यपरिशिष्टे तु चण्डालादीत्याद्युक्त्वा “दग्ध्वा शरीरं प्रेतस्य संस्थाप्यास्थीनि यत्नतः। प्रायश्चित्तं तु कर्त्तव्यं पुत्रैश्चान्द्रायणत्रयमित्युक्तम्। प्रमादमरणे तु नदोषः मदनरत्ने ब्राह्मे “प्रमादादपि निःशङ्कस्त्वकस्माद्विधिचोदितः चाण्डालैर्ब्राह्मणैश्चौरैर्निहतोयत्र पुत्रचित्। तस्य दाहादिकं कार्य्यं यस्मान्न पतितस्त सः। चान्दायर्ण तप्तकृच्छ्रद्वयं तस्य विशुद्धये। यद्वा कृच्छान पञ्चदश कृत्वा तु विधिना दहेत् “बुद्धिपूर्व्वमृतानां तु त्रिंशल्कृच्छ्रं समाचरेदित्युक्तम्” स्मृतिरत्नावल्यां तु द्विगुणं प्रायश्चित्तं कृत्वार्वागप्यब्दात्सर्वं कार्यमित्युक्तम् आत्मनोघातशुद्व्यर्थ चरेच्चान्द्रायणद्वयं तप्तकृच्छ्रचतुष्कञ्च त्रिंशत्कृच्छ्राणि वा पुनः। अर्वाक् संवत्सरात्कुर्य्याद्दहनादि यथोदितम् कृत्वा नारायणबलिमनित्यत्वात्तदायुष इति” इदञ्चात्मबधनिमित्तं तत्तज्जातिबधप्रायश्चित्तेन समुच्चितं कार्य्यम्। प्रमादमरणे तु “अथ कश्चित् प्रमादेन म्रियेताग्न्युदकादिभिः तस्याशौचं विधातव्यं कर्तव्या चोदकक्रिया” इत्युक्तेः सर्वं कार्य्यं तत्र तु “तोयाग्निनृपगोविप्रैरन्वक्षञ्चात्मघातिनाम्” याज्ञवल्क्येन सद्यःशौचं विहितं प्रागुक्तवचने त्र्यहाशौचमिति तत्र त्र्यहाशौचसद्यः शौचयोर्विकल्पैति भेदः। त्र्यहाशौचमिति रघुनन्दनादयः। सद्यः शौचमिति मिताक्षरा। ण्वुल् आत्मघातकोऽप्यत्र त्रि०।

आत्मघोष = पु० आत्मानं घोषयति स्वशब्दैः। १ काके, २ कुक्कुटे, च, ताभ्यां हि (का का) (कु कु) स्वस्वध्वनिनैवात्मनामैकदेशो घोष्यते इति तयोस्तथात्वम्।

आत्मज = पु० आत्मनो मनसो देहाद्वा जायते, आत्मा वा जायते जन–ड। १ मनोभवे २ पुत्रे च “अङ्गादङ्गात् सम्भवति पुत्रवत् दुहिता नृणामिति” स्मृतिः “आत्मा वै जायते पुत्र इति” श्रुतिः ३ कन्यायां, ४ मनोजन्यायां बुद्धौ चं स्त्री। “चलिताः पुरःपतिमुपेतुमात्मजाः” माघः वन्द्यं युगं चरणयोर्जनकात्मजायाः” रघुः। क्त। आत्मजातोऽप्यत्र पुंस्त्री०।

आत्मजन्मन् = पु० आत्मनो जन्म यस्य। अपत्ये “अत आहर्त्तुमिच्छामि पार्वतीमात्मजन्मने” कुमा०। “तमात्मजन्मानमजं चकार” रघुः। ६ त०। पुत्ररूपात्मोपत्तौ न० “तस्यामात्मानुरूपायामात्मजन्मसमुत्सुकः” रघुः।

आत्मज्ञान = न० आत्मनोज्ञानम्। यथार्थरूपेणात्मनो ज्ञाने तज्ज्ञानस्य च मोक्षसाधनत्वं श्रुतावुक्तम् “अभयंवै जनक! प्राप्तोऽसि येनात्मानमेवावेः” “महान्तं विभुमात्मानं मत्वा धीरो न शोचति” श्रुतिः आत्मस्वरूपञ्च आत्मशब्दे वक्ष्यते तस्य इत्रस्मात् भेदज्ञानं यथास्वरूपज्ञानञ्चात्मज्ञानम् तच्च साक्षात्काररूपम् तस्यैव मोक्षसाधनत्वात् “आत्मज्ञाने शमे च स्याद्वेदाभ्यासे च यत्नवान्”। “सर्वेषामपि चैतेषामात्मज्ञानं परं स्मृतम्। तद्ध्यग्र्यं सर्वविद्यानां प्राप्यतेऽह्यमृतं यतः” इति च मनुः। ६ त०। आत्मबोधादयोऽप्यत्र।

आत्मतत्त्व = पु० आत्मनस्तत्त्वम्। आत्मनो यथार्थस्वरूपे १ चै- तन्यरूपे मतभेदे २ कर्त्तुत्वादिरूपे। आत्मतत्त्वं च उदयनाचार्यैः चार्व्वाकादिमतनिरसनेन आत्मतत्त्वविवेके दर्शितम् यथा “इह खलु निसर्गप्रतिकूलस्वभावं सर्व्वजनसंवेदनसिद्धं दुःखं जिहासवः सर्वएव तद्धानोपायमविद्वांसोऽनुसरन्तः सर्वाध्यात्मविदेकवाक्यतया तत्त्वज्ञानमेव तदुपायमाकर्णयन्ति न ततोऽन्यम्, प्रतियोग्यनुयोगितया आत्मैव तत्त्वतोज्ञेयः। तथाहि यदि नैरात्म्यं यदि वात्मास्ति वस्तुभूत उभयथापि नैसर्गिकमात्मज्ञानमतत्त्वज्ञानमेवेत्यत्राप्येकवाक्यतैव वादिनाम् अत आत्मतत्त्वं विविच्यते इत्यादिना, विस्तरस्तु तत्रैव अवगन्तव्यः आत्मैव तत्त्वं परमपदार्थः। ३ आत्मरूपे परमपदार्थे च।

आत्मतुष्टि = क्रि० आत्मन्येव तुष्टिरस्य। आत्ममात्रज्ञानलाभेन १ प्राप्ततुष्टौ आत्मज्ञे ब्रह्मविदि। ६ त०। २ आत्मनः सन्तोषे स्त्री। सा च विकल्पविषये धर्म्मे प्रमाणम् “वेदोऽखिलो धर्म्ममूलं स्मृतिशीले च तद्विदाम्। आचारश्चैवसाधूनामात्मनस्तुष्टिरेव चेति” मनूक्तेः।

आत्मत्यागिन् = त्रि० आत्मानं देहं त्यजति त्यज–घिनुण्। आत्मधातिनि आत्मघातिशब्दे उदाहरणा

आत्मदर्श = पु० आत्मा देहः दृश्यतेऽत्र दृश–आधारे घञ्। १ दर्पणे आदर्शे हेम०। “प्रसादमात्मीयमिवात्मदर्शः” रघुः। भावे घञ् ६ त०। २ आत्मनोदर्शने आत्मसाक्षात्कारे।

आत्मदर्शन = म० आत्मा दृश्यते साक्षात्क्रियतेऽनेन दृश–करणे ल्युट् ६ त०। आत्मसाक्षात्कारसाधने १ श्रवणे २ मनने ३ निदि ध्यासने, “आत्मा वा अरे द्रष्टव्यः श्रोतव्योमन्तव्योनिदिध्यासितव्यः” इति श्रुतौ साक्षात्कारसाधनतया श्रवणादीनां त्रयाणां विधानात् तेषां तथात्वम् “श्रोतव्यः श्रुति वाक्येभ्योमन्तव्य श्चोपपत्तिभिः” इत्युपक्रम्य “एते दर्शनहेतव” इत्युक्तेश्च तेषां तथात्वम् भावे ल्युट्। २ आत्मसाक्षात्कारे “एष वै परमोधर्म्मो यद्योगेनात्मदर्शनम्”, ३ आत्मत्वेन सर्वभूतेषु ज्ञाने च “स्त्र्यालोकालम्भविगमः सर्वभूतात्मदर्शनम्” या०।

आत्मद्रोहिन् = त्रि० आत्मने द्रह्यति द्रुह–णिनि। आत्मघातिनि

आत्मध्यान = न० आत्मनोध्यानम् योगविशेषः। आत्मसात्कारसाधने मानसवृत्तिभेदे। तत्प्रकारश्च शङ्खस्मृतौदर्शितः “ध्यानं प्रोक्तं प्रवक्ष्यामि सर्वस्माद्योगतः शुभम्। हृदिस्थादेवताः सर्वा हृदि प्राणाः प्रतिष्ठिताः। हृदि ज्योत्तींषिभूयश्च हृदि सर्व्वं प्रतिष्ठितम्। स्वदेहमरणिं कृत्वा प्रणवञ्चोत्तरारणिम्। ध्याननिर्म्मथनाभ्यान्तु विष्णुं पश्येद्धृदि स्थितम्। हृद्यर्कश्चन्द्रमःसूर्य्यः सोममध्ये हुताशनः। तेजोमध्ये स्थितं तत्त्वं तत्त्वमध्ये स्थितोऽच्युतः। अणो- रणीयान् महतो महीयानात्मास्य जन्तोर्न्निहितोगुहायाम्। तेजोमयं पश्यति वीतशोकोधातुः प्रसादान्महिमानमात्मनः। वासुदेवस्तमोऽन्धानां प्रत्यक्षोनैव जायते। अज्ञानपटसंवीतैरिन्द्रियैर्विषयेप्सुभिः। एष वै पुरुषोविष्णुर्व्यक्ताव्यक्तः सनातनः। एष धाता विधाता च पुराणानिष्कलः शिवः। वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात्। मन्त्रैर्विदित्वा न बिभेति मृत्योर्नान्यः पन्था विद्यतेऽस्यायनाय। पृथिव्यापस्तथा तेजोवायुराकाशमेव च। पञ्चेमानि विजानीयान्महाभूतानि पण्डितः। चक्षुः श्रोत्रे स्पर्शनञ्च रसना घ्राणमेवच। बुद्धीन्द्रियाणि जानीयात् पञ्चेमानि शरीरके। शब्दोरूपं तथा स्पर्थोरसोगन्धस्तथैव च। इन्द्रियस्थान् विजानीयात् पञ्चैव विषयान् बुधः। हस्तौ पादावुपस्थञ्च मुखं पायुस्तथैव च। कर्म्मोन्द्रियाणि पञ्चैव नित्यं सन्ति शईरके। मनोबुद्धिस्तथैवात्मा व्यक्ताव्यक्तं तथैव च। इन्द्रियभ्यः पराणीह चत्वारि प्रवराणि च। तथात्मानं तद्व्यतीतं पुरुषं पञ्चविंशकम्। तन्तु ज्ञात्वा विमुच्यन्ते ये जनाः साधुवृत्तयः। इदन्तु परमः शुद्धमेतदक्षरमुत्तमम्। अशब्दमरसस्पर्शमरूपं गन्धवर्ज्जितम्। र्निदुःखमसुखं शुद्धं तद्विष्णोः परमं पदम्। विज्ञानसारथिर्यस्तु मनःप्रग्रहबन्धनः। सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्। आराग्रशतशोभागः कल्पितस्तु सहस्रधा। तस्यापि शतशोभागाज्जीवः सूक्ष्मौदाहृतः। महतः परमव्यक्तमव्यक्तात् पुरुषः परः। पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः। एष सर्व्वेषु भूतेषु तिष्ठत्यविरलः सदा। दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः”। जोवात्मपरमात्मानोरेकतया क्वचिदोश्वरधर्मेण क्वचिच्च जीवधर्मेण ध्यानमुच्यते। आत्मस्वरूपमुक्त्वा तस्य ध्यान प्रकारः या० स्मृतौ उक्तः यथा। “अनन्यविशयं कृत्वा मनोबुद्धिस्मृतीन्द्रियम्। ध्येय आत्मा स्थितोयोऽसौ हृदये दीपवत् प्रभुः” “आत्मव्यतिरिक्तविषयेभ्यो मनोबुद्धिस्मृतीन्द्रियाणि प्रत्या हृत्यात्मैकविषयाणि कृत्वात्मा ध्येयः योऽसौ प्रभुर्निर्वातस्थप्रदीपवद्देदीप्यमानो निष्प्रकम्पोहृदि तिष्ठति एतदेव तस्य ध्येय त्वं यच्चित्तवृत्तेर्बहिर्विषयावभासतिरस्कारेणात्मप्रवणतानाम शरावसम्पुटनिरुद्धप्रभाप्रतानप्रसरस्येव प्रदीपस्यै कनिष्ठत्वम्” मिता०।

***