आज्ञप्त = त्रि० आ + ज्ञा–णिच् पुक् क्त ह्रस्वः। आदिष्टे कृतादेशे
आज्ञप्ति = स्त्री आ + ज्ञा–णिच् पुक् ह्रस्वः। आज्ञायाम्।
आज्ञा = स्त्री आ + ज्ञा–अङ्। १ आदेशे आदेशश्च निकृष्टस्य भृत्यादेः कृत्यादौ प्रवृत्त्यर्थव्यापारभेदः। “आज्ञया नरपतेर्द्विजन्मनां दारकर्ममृतसूतके तथा। बन्धमोक्षमखदीक्षणेष्वपि क्षौरमिष्टमखिलेषु चोडुषु” ज्योति०। “तथेति शेषामिव भर्त्तुराज्ञाम्” कुमा०। “पश्चात् वनाय तच्छेति तदाज्ञां मुदितोऽग्रहीत्” रघुः। “अनतिक्रमणीया दिवस्पतेराज्ञा” शकु०। “दूरापावर्ज्जितच्छत्रैस्तस्याज्ञां शासनार्पिताम्” रघुः “शिरोभिराज्ञामपरे महीभुजः”। माघः। २ ज्योतिषोक्तें लग्नावधिदशमभावे तन्त्रीक्ते भ्रूमध्यस्थे सुषुम्णानाड्यन्तर्गते ४ आज्ञाचक्रे च विवरणमाज्ञाचक्रशब्दे। “आज्ञासंक्रमणं तत्र गुरोराज्ञेति कीर्त्तितेति” तन्त्रम्।
आज्ञाकर = त्रि० आज्ञया करोति कृ–अच् ३ त०। आज्ञानुसारेण कर्मकर्त्तरि दासादौ णिनि आज्ञाकारी तत्रैव त्रि० स्त्रियां ङीप्। क्विप् आज्ञाकृत् तत्रैवार्थे त्रि०।
आज्ञाचक्र = न० आज्ञासंज्ञकं चक्रम्। तन्त्रप्रसिद्धेदेहावस्थितसुषुम्णानाडीमध्यगते भ्रूमध्यस्थे द्विदले पद्माकारे चक्रभेदे। विशुद्धचक्रमुक्त्वा “आज्ञाचक्रं तदूर्ड्वन्तु आत्मनोऽधिष्ठितं परम्। आज्ञासंक्रमणं तत्रगुरोराज्ञेति कीर्तिता”। तत्र निहितचित्तस्य पुरुषस्य सर्वपदार्थसाक्षात् कारेण “एवं भूतम्, एवं वर्त्तते, एवं भविष्यतीति” ज्ञानेन गुरोरीश्वरस्य तदूर्द्धं सहस्रदलकमले स्थितस्याज्ञायाः “इतः परं त्वया इत्थं कर्त्तव्यमिति” नियोगस्य संक्रमणं भवति तेन तदाज्ञाख्यं चक्रमित्यर्थः। यथा च षट्चक्राणां देहे स्थितिस्तथोक्तं शारदायाम्। “षण्णवत्यङ्गुलायामं शरीरमुभयात्मकम्। गुदध्वजान्तरे कन्दमुत्सेधाद्द्व्यङ्गुलं विदुः। तस्य द्विगुणविस्तारं विन्दुरूपेण शोभितम्। नाड्यस्तत्र समुद्भूता मुख्यास्त्रिस्रः प्रकीर्त्तिताः। इडा वामे स्थिता नाडी पिङ्गला दक्षिणे मता। तयोर्म्मध्यगता नाडी सुषुम्णा वंशमांश्रिता। पादाङ्गुष्ठादपक्रान्ता शिखाभ्यां शिरसा पुनः। ब्रह्मस्थानं समापन्ना सोमसूर्य्याग्निरूपिणी। तस्यामध्यगता नाडी चित्राख्या योगिवल्लभा। व्रह्मरन्ध्रं विदुस्तस्यां पद्मसूत्रनिभं परम्। आधारांश्च विदुस्तत्र मतभेदाननेकधा। दिव्यमार्गमिमं प्राहुरमृतानन्दकारकम्। इडया सञ्चलेच्चन्द्रः पिङ्गलायां दिवाकरः। ज्ञातौ योगनिदानज्ञैः सुषुम्णायाञ्च ताबुभौ। आधारकन्दमध्यस्थं त्रिकोणमति मुन्दरम्। ज्योतिषां निलयं दिव्यं प्राहुरागमवेदिनः। तत्र विद्युल्लताकारा कुण्डली परदेवता। परिस्फुरति सर्व्वात्मा सुप्ताहिसदृशाकृतिः। बिभर्त्ति कुण्डली शक्तिरात्मानं हंसमाश्रिता। हंसः प्राणाश्रयोनित्यं प्राणा नाडी पथाश्रयाः। आधारादुत्थितोवायुर्यथावत् सर्व्वदेहिनाम्। देहं प्राप्य खनाडीभिः प्रयाणं कुंरुते बहिः। द्वादशाङ्गुलमानेन तस्मात् प्राण इतीरितः”। तत्त्वचिन्तामणौ षष्ठप्रकाशे। “आज्ञानामाम्बुजं तद्धिमकरसदृशं ध्यानधाम प्रकाशम् हक्षाभ्यां वै कलाभ्यां प्रविल- सितवपुर्युग्मपत्रं सुशुभ्रम्। तन्मध्ये हाकिनी सा शशिसमधवला वक्त्रषट्कं दधाना विद्यामुद्रां कपालं डमरुजपवटीं बिभ्रती शुद्धचित्ता। एतत्पद्मान्तराले निवसति च मनः सूक्ष्मरूपं प्रसिद्धम्” एतदभिप्रायेणैव “मनोऽपि भ्रूमध्ये निवसत्यानन्दलहर्य्यामुक्तम्। मनसस्तत्र स्थित्या च तदुपहितजीवस्यापि तत्रैव स्थितिः। एवञ्च श्रुतौ हार्द्दविद्यायां “हृद्ययं तस्माद्वृदयम्” इत्युक्तिस्तु हृदये ध्यानार्थाइत्यविरोधः। महानिर्वाणतन्त्रे शरीर एव चतुर्द्दश भुवनामि सूक्ष्मरूपेण स्थितानि तानि च तत्रैव ध्येयानीत्युक्तं तत्र कुत्र किं ध्येयमित्याकाङ्खायां मूलाधारादिकं भूरादिलोकतया ध्येयमित्युक्तम् तत्र विशुद्धचक्रस्य जनोलोकतया ध्येयतामुक्त्वाह। “एतत्पद्मस्योर्द्धदेशे ज्ञानपद्मं सुदुर्लमम्। दलद्वयसमायुक्तं पूर्णचन्द्रस्य मण्डलम्। पद्ममध्ये वीजकोषे स्मरेच्चिन्तामणेः पुरीम्। तन्मध्ये नवकोणञ्च यन्त्रं परमदुर्लभम्। शम्भुवीजं हि तन्मध्ये साकारं हंसरूपकम्। हंसः परब्रह्मरूपः साकारः शिवरूपकः। तारचञ्चुर्वरारोहे निर्गमागमपक्षवान्। शिवशक्तिपदद्वन्द्वं विन्दुत्रयविलोचनः। विहारश्चास्य हंसस्य हेमपङ्कजपूजिते। एवं हंसोमणिद्वीपे तस्य क्रोडे परः शिवः। वामे तस्य सिद्वकाली सदानन्दस्वरूपिणी। तस्याः प्रसादमासाद्य सर्वकर्त्ता महेश्वरः। तपोलोक इदं भद्रे! सर्व्वलोकस्य दुर्लभम्। यत्र ब्रह्मादयो देवा ध्यानयोगं सदाभ्यसेत्। मनसापि न लभ्येत योगेन तपसा न च। तपोलोकं गोलोकस्य चतुर्लक्षगुणं शिवे!। ब्रह्मलोकेषु ये देवा वैकण्ठे ये सुरादयः। शम्भुलोके वसेद्योहि तेजोभक्तिपरायणः। तपसापि न लभ्येत तपोलोकगतिं शिवे। तपीलोकसमोनास्ति लोकमध्ये सुलोचने!। सालोक्यं हि महोलोके सारूप्यं जनलोकके। सायुज्यं च तपोलोके निर्व्वाणं हि तदूर्द्धके। ततो ब्रह्मादयो देवास्तपोलोकार्थिनः सदा। इति ते कथितं कान्ते! चक्रषट्कस्य लक्षणम्। यज्ज्ञानादमरश्चैव जीवन्मुक्तश्च साधकः। यज्ज्ञात्वा जननींगर्भं न विशेत्तु, कदाचन”।
आज्ञात = त्रि० आ + ज्ञा–क्त सम्यग्ज्ञाते “आज्ञातं यदनाज्ञातं यज्ञस्य क्रियते मिथः” यजु० शिवसङ्कल्पः।
आज्ञातीर्थ = न० ६ त०। तन्त्रे मानसस्नानाङ्गे ध्येयतयोक्ते आज्ञाचक्राख्ये तीर्थे। “आज्ञाचक्रे सदा ध्यात्वा स्नाति निर्व्वाणसिद्धये”। रुद्रयामलम्।
आज्ञान = न० आ + ज्ञा–ल्युट्। आज्ञाकरणे मानसवृत्तिभेदे। मानसवृत्तयश्च यथा। “संज्ञानं विज्ञानं प्रज्ञानं मेधा दृष्टिर्धृतिर्मतिर्मनीषा जूतिः स्मृतिः संकल्पः क्रतुरसुः कामोवशः इति सर्व्वाण्येवैतानि प्रज्ञानस्य नामधेयानि” ऐ० उ०। “तदन्तःकरणोपाधिकस्योपलब्धुः प्रज्ञानरूपस्य ब्रह्मण उपलब्ध्यर्था अन्तःकरणवृत्तयो बाह्यान्तर्वर्त्तिविषयविषयास्ता इमा इत्युच्यन्ते। संज्ञानं संज्ञप्तिश्चेतनभावः। आज्ञानम् आज्ञप्तिरीश्वरभावः। विज्ञानं कलादिपरिज्ञानम्। प्रज्ञानं प्रज्ञप्तिः प्रज्ञता। मेधा ग्रन्थधारणे सामर्थ्यम्। दृष्टिरिन्द्रियद्वारा सर्वविषयोपलब्धिः। धृतिर्धारणमवसन्नानां शरीरेन्द्रियाणां ययोत्तम्भनं भवति। धृत्या शरीरमुद्वहन्तीति हि वदन्ति। मतिर्मननम्। मनीषा तत्र स्वातन्त्र्यम्। जूतिश्चेतसोरुजादिदुःखिभावः। स्मृतिः स्मरणम्। संकल्पः शुक्लकृष्णादिभावेन संकल्पनम् रूपादीनाम्। क्रतुरध्यवसायः। असुः प्राणनादिजीवनक्रियानिमित्ता वृत्तिः। कामोऽसन्निहितविषयाकाङ्क्षा। वशः स्त्रीव्यतिकराद्यभिलाष इत्येवमाद्याः अन्तःकरणवृत्तयः” शङ्करभाष्यम्।
आज्ञानुग = त्रि० आज्ञामनुगच्छति अनु + गम–ड ६ त०। आदेशानुसारेण गन्तरि दासादौ क्त आज्ञानुगतोऽप्यत्र त्रि०।
आज्ञानुगामिन् = त्रि० आज्ञामनुगच्छति अनु + गम–णिनि ६ त० स०। आज्ञानुगते स्त्रियां ङीप्।
आज्ञानुयायिन् = त्रि० आज्ञाममुयाति अनु + या–णिनि ६ त० स स्त्रियां ङीप्। आज्ञानुसारेण गन्तरि दासादौ।
आज्ञानुवर्त्तिन् = त्रि० आज्ञामनुवर्त्तते अनु + वृत–णिनि ६ त० स्त्रियां ङीप्। आज्ञानुसारेण वर्त्तमाने दासादौ।
आज्ञानुसारिन् = त्रि० आज्ञामनुसरति अनु + सृ–णिनि ६ त० स्त्रियां ङीप्। आज्ञानुसारेण कर्म्मकारके दासादौ
आज्ञापक = त्रि० आज्ञापयति आदिशति आ + ज्ञा–णिच् ण्वुल्। आज्ञाकारके स्वामिप्रभृतौ।
आज्ञापत्र = न० आज्ञाज्ञापकं पत्रम् शाक० त०। आदेशज्ञापके पत्रे (हुकुमनामा)
आज्ञाभङ्ग = पु० आज्ञाया आदेशस्य भङ्गः स्वविषयेषु प्रचाराभावः। आदेशस्याकरणेन आदिष्टविषयेषु प्रचाराभावे (हुकुम ना माना)। “दंष्ट्राभङ्गं मृगाणामधिपतय इव त्यक्तमानावलेपान्नाज्ञाभङ्गं सहन्ते नरप! नृपतयस्त्वादृशाः सार्व्वभौमाः” इति “चन्द्रगुप्तस्य चेतसः पीडामुपचिन्वता चाणक्येन क्रियमाणे चाज्ञाभङ्गे त्वयोपश्लोकैरुपश्लोक- यितव्य” इति च मुद्राराक्षसम्।
आज्ञावह = पु० आज्ञां वहति वह–अच्। आदेशवाहके आज्ञानुकूले दासादौ
आज्ञासम्पादिन् = पु० आज्ञाम् आदिष्टविषयं सम्पादयति सम् + पद + णिच्–णिनि ६ त० स० स्त्रियां ङीप्। आदिष्ट विषयसम्पादके अनुकूले दासादौ।
आज्य = न० आज्यते आ + अन्ज–क्यप् नलोपः। १ घृते। “सर्पिर्विलीनमाज्यं स्याद्घनीभूतं वृतं भवेदित्युक्ते २ विलीने सर्पिषि “स्रुवेण दक्षभागादाज्यं गृहीत्वा” भवदेवः “पूतं पवित्रेणेवाज्यमापः शुन्धन्तु मैनसः” द्रुपदमन्त्रः ३ श्रीवासे चन्द्रने पु० अजयपालः। “आजिमीयुस्तस्मादाज्यानामाज्यत्वमिति निरुक्तेसामस्तोमभेदे। स च” स्तोमः सामवि० ब्रा० भा० उक्तः “वहिष्पवमानसूक्तस्व आद्यम् अग्न आयाहिवीतये” इत्यादि सूक्तम्, आनो मित्रावरुण इति द्वितीयम् “आयाहि मुच्य आहत इति” तृतीयम्। “इन्द्राग्नी आगतमित्यादि चतुर्थम्” उत्तरा० १ प्र० ३, ५, ६, ७, सूक्तानि तान्येतानिं प्रातः सवने गायत्रसाम्ना गीयसानानि आज्यस्तोत्राण्युच्यन्ते तेषु चाज्यस्तोत्रेषु पञ्चदश स्तोमो भवति तस्य स्तोमस्य विष्टुतिरेवमाम्नायते। “पञ्चभ्योहिंकरोति स तिसृभिः स एकया स एकया पञ्चभ्योहिंकरोतिस एकया स तिसृभिः स एकया पञ्चभ्योहिङ्करोति स एकया स एकया स तिसृभिः” सामविधानब्राह्मणम् “एवं त्रिरावर्त्त्यं तत्र प्रथमावृत्तौ प्रथमायास्त्रिरावृत्तिः द्वितीयावृत्तौ मध्याया स्त्रिरभ्यासः। तृतीयावृत्तौ उत्तमायास्त्रिरभ्यासः। सोऽयं पञ्चदशस्तोम इति”
आज्यदोह = न० सामवेदिपाठ्ये सूक्तभेदे “वामदेव्यं वृहत्साम ज्येष्ठसाम रथन्तरम्। तथा पुरुषसूक्तञ्च रुद्रसूक्तं ततः परम्। आज्यदोहानि सामानि शान्तिकं भारुडानि च। पश्चिमे द्वारपालौ तु पठेतां सामगौ तथा” दानपारि० पु० तानि च सामानि देवव्रतसंज्ञकानि त्रीणि यथा। “अधि पतायि मित्र पतायि क्षत्रप तायि स्वाः प तायि धनप ता २, यि ना २, माः। मन्युना वृत्रहा सूर्य्येण स्वराद्यन्नेन मघवा दक्षिणास्य प्रिया तनूराज्ञा विशं दाधार। वृषभस्त्वष्टा वृत्रेण शचीपतिरन्नेन पयः पृथिव्या सृणिकोऽग्निना विश्वं भूतम्। व्यभवो वायुना विश्वाः। प्रजा अभ्यपवथा वषट्कारेणार्द्धभाक् सोमेन सोमपाः समिज्या परमेष्ठी। ये देवादेवाः। दिविषदः। स्थलभ्यो वो देवादेवेभ्यो नमः। ये देवादेवाः। अन्तरिक्षसदः। स्थलेभ्यो०। ये देवा०। पृथिवीषदः। स्थलेभी०। ये देवा०। असुषदः। स्थलेभ्यो०। ये देवा० दिक्षुसदः। स्थलेभ्यो०। ये देवा०। आशासदः। स्थलेभ्यो०। अवज्यामिव धन्वने विते मन्युन्नयामसि मृडतां नैह अस्मभ्यम्। इडा २, ३, भा। यैदं विश्वं भूतं युयो २,। आउ। वा २, ३, ना २, ३, ४, माः।। १।। अधिप तायि मित्रप तायि क्षत्रप तायि। स्वःप तायि धनप ता २, यि। ना २, माः। नम उत्ततिभ्यश्चोत्तन्वानेभ्यश्च नमो नीषङ्गिभ्यश्चोपवीतिभ्यश्च नमोऽस्यद्भ्यश्च प्रतिदधानेभ्यश्च नमः प्रविध्यद्भ्यश्च प्रव्याधिभ्यश्च नमः त्सरद्भ्यश्च त्सारिभ्यश्च नमः श्रीतृभ्यश्च श्रायिभ्यश्च नमस्तिष्टद्भ्यश्चोपतिष्ठद्भ्यश्च नमो यते च वियते च नमः पथे च विपथाय च अवज्यामिव धन्वने इत्यादि प्राग्वत्।। २।। अधिप। तायि। मित्रप। तायि क्षत्रप। तायि। स्वःप। तायि। धनप। ता २, यि। ना २, माः। नमोऽन्नाय नमोऽन्नपतय एकाक्षाय चावपन्नादाय च नमो नमः। रुद्राय तीरसदे नमः स्थिराय स्थिरधन्वने नमः प्रतिपदाय च पटरिणे च नमस्त्रियम्बकाय च कप्रर्द्दिने च नम आश्रयेभ्यश्च प्रत्याश्रयेभ्यश्च नमः क्रव्येभ्यश्च विरिम्फेभ्यश्च नमः संवृते च विवृते च अवज्यामित्यादि पूर्ब्बं वत् ३। (सामारणौ ५ प्र० १ अ० ६, ७, ८ गा०) गानाशक्तौ अधिपतये इत्याद्यनुवाकं त्रिधा जपेत् अधिपतये मित्रंपतये क्षत्रपतये स्वःपतये धनपतये नम इत्येव पठनीयमेवमग्रेऽपि अस्मभ्यमित्यनन्तरं य इदं विश्वं भूतं युयोवे नम इति नीषङ्गीत्यत्र निषङ्गीत्येव पठनीयमन्यत् गानांशं स्तोभं विहाय समानम्।
आज्यप = पु० आज्यं पिबन्ति आज्य + पा–क उप० स०। पुलस्त्यस्य पुत्रे वैश्यानां पितृदेवेषु। “सोमपा नास विप्राणां क्षत्रियाणां हविर्भुजः। वैश्यानामाज्यपा नाम शूद्राणान्तु सु कालिनः” मनुः। “पुलस्त्यस्याज्यपाःपुत्राः” इति भा० आ० प०। “देवा~ आज्यपा~ आवहेति” “देवा आज्यपा अग्निंहोत्रायावहेति” च शत० ब्रा०।
आज्यभाग = पु० आज्यस्य भागः। १ घृतैकदेशे “सरस्वत्याज्यभागा भवति” शत० ब्रा०। घृतस्य २ वैदिकाहुतिभेदे च स च ऋग्वेदिनामग्नेरुत्तरभागे स्रुवेणाग्नये दीयमान आहुतिविशेषः तद्दक्षिणभागे सोमाय दीयमान आहुतिभेदश्च। “तूष्णीमाघार्य्याघारावाज्यभागौ जुहुयादग्नये स्वाहा सोमाय स्वाहेति” आश्व० गृ०। यजुर्वेदिनान्तु अग्नये स्वाहा इदमग्नये इति उत्तरपूर्ब्बार्द्धे सोमाय स्वाहा इदं सोमायेति दक्षिणपूर्व्वार्द्धे इति भेदः। “ता उहैता देवताऊचुः याइमा अग्नीषोमावन्वाजग्नुरग्नीषोमौ युवं वै नौभूधियभाजौस्थोययोर्वामिदं युवयोरस्मानन्वाभजतमिति। तौहोचतुः किमावयोस्ततः स्यादिति यस्यै कस्यै च देवतायै हविर्निर्व् पास्त्रद्वां पुरस्तादाज्यस्य यजानिति तस्माद्यस्यै कस्यै च देवतायै हविर्निर्वपन्ति तत्पुरस्तादाज्यभागावग्नीषोमाभ्यां यजन्ति” शत० ब्रा०। इति तयोः सर्व्वदेवानां यज्ञस्यादौ आज्यभागदानं विहितम्। “आज्यभागाभ्यां चरत्याग्नेयेन सौम्येन” कात्या० ३, ३, १,।
आज्यभुज् = पु० आज्यं मन्त्रेण प्रक्षिप्तं विलीनं सर्पिः भुङ्क्ते भुज–क्विप्। १ हविर्भुजि वह्नौ तन्मुखेन हविर्भोजे २ देवे च।
आञ्जन = न० आ + अञ्ज–ल्युट्। समन्तादभ्यञ्जने। “तेज वा एतक्ष्योर्यदाञ्जनम्” ऐ० ब्रा० अञ्जनायां भवः अण्। २ हनुमति वानरभेदे स च दाशरथिसहायः “दाशरथिवलैरिवाञ्जननीलनलपरिगतप्रान्तैः” काद०। अञ्जनस्येदम् अण्,। ३ अञ्जनसम्बन्धिनि त्रि०।
आञ्जनिक्य = न० अञ्जनाय हितम् ठन् ततः पुरो० भावे कर्म्मणि च यक्। अञ्जनसाधनत्वे।
आञ्जनेय = पु० अञ्जनाया अपत्यं ढक्। अञ्जनागर्भजाते हनूमति वानरे। “अञ्जनागर्भसंभूतो वायुपुत्रो महाबलः”। हनुमत्स्तुतिः।
आञ्जलिक्य = न० आञ्जलिरेव स्वार्थे कन् ततः पुरो० यक् अञ्जलिकरणे।
आञ्जिनेय = पु० अञ्जिन्यां भवः ढक् (आजनाइ) कीटभेदे।
आञ्जिहिषा = स्त्री आंहितुमिच्छा आ + अन्ह–सन्–अ। आगमनेच्छायाम् “आंहिष्ट जाताञ्जिहिषः” भट्टिः।
आटरूष = पु० अटरूष एव स्वार्थे अण्। वासकवृक्षे स्वार्थे कन् तत्रैव “आटरूषकवर्ण्णाभाहयाः यान्त्यनुयायिनाम्” भा० द्रो० प०।
आटविक = त्रि० अटव्यां चरति भवो वा ठक्। अरण्यचारिणि “प्रच्छन्नवञ्चकास्त्वेते ये स्तेनाटविकादयः” मनुः “दण्डेषु सुहृत्कुमाराटाविकाः सामन्तसैनिकाद्याश्च” सा० द० २ “सैन्यभेदे। सैन्यानि च षडविधानि। यथा “मौलं भृत्यः सुहृच्छ्रेणी द्विषदाटविकं बलम्” मल्लिनाथ धृतकोषः। तदभिप्रायेर्णव “षड्विधं बलमदायेति” रघुः।
आटवी = स्त्री अटव्याः सन्निकृष्टा पूः अण्। दक्षिणदिक्स्थयवनपुरीभेदे। सहदेवदिग्विजयवर्ण्णने। “दूतैरेव वशे चक्रे करञ्चैनानदापयत् “पाण्ड्यांश्च द्रविडांश्चैव सहितांश्चोड्रकेरलैः। अन्ध्रांस्तालवनांश्चैव कलिङ्गानुष्ट्रकर्ण्णिकान्। आटवीञ्च पुरीं रम्यां यवनानां पुरं तथा” भा० स० प०।
आटि = पु० आ + अट्–इण्। १ शरारिपक्षिणि। २ मत्स्यभेदे च जातित्वेन स्त्रियां वा ङीप्। छात्र्यादिषु पाठात् शालाशब्दे परेऽस्योदात्तत्वम्।
आटिक = त्रि० आटाय गमनाय प्रवृत्तः ठण्। गमनप्रवृत्ते स्वार्थे ष्यञ्। आटिक्यमप्यत्र न०।
आटिकी = स्त्री आटम् अटनमर्हति अण्–ङीप्। गृहाद्बहिर्गन्तुमर्हायामनुपजातपयोधरायां स्त्रियाम्। “मटचीहतेषु कुरुष्वाटिक्या सह जाययोषस्तिर्ह चाक्रायण इभ्यग्रामे प्रद्राण उवास” छा० उ०। आटिक्याऽनुपजातपयोधरादि स्त्रीव्यञ्जनया जायया सह” इति भा०।
आटीकन = न० आटीक्यत ईषद्गम्यते आ + टीक–ल्युट्। वत्सानां प्रथममल्पगतौ स्वार्थे कन् तत्रैव हारा~ लान्ततया पाठः प्रामादिकः।
आटीमुख = न० आट्याः शरारिभेदस्य मुखमिव मुखमस्य। सुश्रुतोक्ते शस्त्रभेदे “सूचीकुशपत्राटीमुखशरारीमुखेत्यादि विंशतिशस्त्रगणनायाम् सुश्रु० अर्द्धधारशब्दे विवृतिः।
आटोप = आ + तुप–घञ् पृषो० ठत्वम्। १ दर्पे, २ संरम्भे, ३ आडम्बरे च। “साटोपमुर्व्वीमनिशं नदन्तः” माघः “मदजलदुर्द्दिनान्धकारगजघटितघनघटाटोपपरिपालितापि” काद० “साटोपं परिक्रम्य” वेणी० “कलापरुचिराटोपनिचितान् मुकुटानिव” भा० व० प०। ४ वातजन्ये उदरशब्दभेदे “आमाटोपापचिश्लेष्मगुल्मेक्रिमिविकारिणाम्” सुश्रु०।
आडम्बर = पु० आ + डवि–क्षेपे, अरन्। १ हर्षे, २ दर्पे, ३ तूर्य्यस्वने, ४ आरम्भे ५ संरम्भे, ६ अक्षिलोम्नि, घनगर्ज्जिते, ७ आयोजने च। मत्वर्थे इनि! आडम्बरिन् तद्युक्ते त्रि०।
आडारक = पु० अड–उद्यमे घञ् ततः आरक् ऋषिभेदे। ततः गोत्रप्रत्ययस्य बहुषु लुक्।
आडि = पु० अड–उद्यमे इण्। स्वनामख्याते मत्स्यभेदे। शरारीविहगे च पुंस्त्री० स्त्रीत्वे वा ङीप् स्वार्थे कन् आडिकाप्यत्र।
आडू = पु० अल ऊ लस्य डः नि० वृद्धिः। (भेला) उडपे।
आढक = पु० आढौकते आ + ढौक–घञ् पृ०। “अष्टमुष्टिर्भवेत् कुञ्चिःकुञ्चयोऽष्टौ तु पुष्कलम्। पुष्कलानि च चत्वारि आढकः परिकीर्त्तित इति” मतभेदे चतुर्विंशत्यधिकसहस्रमुष्टिमाने “द्वादशप्रसृतिभिः कुडवस्तच्चतुर्गुणोत्तरं प्रस्थाढकद्रोणा, इत्युक्ते द्विनवत्युत्तरशतप्रसृतिमाने च एतच्च धान्यादेर्माने। सुवर्ण्णादिमाने तु सुश्रुतः। “द्वादश धान्यमाषाः मध्यमाष्टसुवर्ण्णमाषकः ते षोडश सुवर्णम्। अथ मध्यमनिष्पावा एकोनविंशतिर्द्धरणं तान्यर्द्धऋतीयानि कर्षं ततश्चोर्द्ध्वं चतुर्गुणमभिबर्द्धयन्तः पलकुडवप्रस्थाढकद्रोणा इत्यभिनिष्पद्यन्ते इत्युक्ते २५६ पलमाने च। अर्द्धर्चादिपाठात् कोपधादन्तत्वेऽपि अस्य पु० न० लिङ्गता। अस्य परिमाणवाचकत्वात् आढकोव्री हिरित्यादौ प्रथमायाः परिमाणमर्थः आढकपरिमाण परिच्छेद्योब्रीहिरित्यादि बोधः। आढकं सम्भवति अवहरति पचति वा ख टञ् वा। आढकीनः आढकिकः आढकमितधान्यस्थापने तदवहारके च पात्रे तत्पाचके सूदादौ त्रि० ठञि स्त्रियां ङीप् इति भेदः।
आढकजम्बु = पु० आढकमिता जाम्बूर्यत्र देशे। स्थूलजम्बुयुक्तदेशेऽतत्र भवः वृद्धात्प्राचाम् ठञ् छस्यापवादकः। आढकजम्बुकः। तत्र भवे त्रि०।
आढकी = स्त्री आढौकते अच् पृषो० गौ० ङीष्। (अरहर) इति ख्याते शमीधान्यभेदे। “आढकी तुवरी रूक्षा मधुरा शीतला लघुः ग्राहिणी वातजननी वर्ण्या पित्तकफास्रजित्” भावप्र० फले अस्य पुस्त्वमपि “आढकांश्च मसूरांश्च कोद्रवान् लवणं त्यजेत्” काशी० ख० वैश्वदेवे वर्जने।
आढ्य = त्रि० आ + ध्यै–क पृषो०। १ युक्ते, २ विशिष्टे ३ सम्पन्ने ४ धनिनि च। युक्ते धनाढ्यः पुण्याढ्यः विनयाढ्यः। सम्पन्नः सम्पद्युक्तः “आढ्यास्तथाऽव्यसनिनः स्वनुरक्ताश्च सर्व्वदा” भा० स० प० ५ अ०। “आढ्योदृप्यति दृप्तोधर्म्ममतिक्रामति धर्ममतिक्रामन् पापं करोतीति नीलकण्ठधृता स्मृतिः “घेनुःपञ्चभिराढ्यानाम्” स्मृतिः “आढ्यादिव प्रापणिकादजस्रम्” माघः।
आढ्यकुलीन = पुंस्त्री आढ्यकुले भवः खः। आढ्यकुलभवे।
आढ्यङ्करण = न० अनाढ्यमाढ्यं करोत्यनेन आढ्य + कृकरणे ख्युन् मुम् उप० स०। अभूताढ्यस्य आढ्यताकरणे।
आढ्यचर = त्रि० भूतपूर्व्व आढ्यः चरट्। भूतपूर्ब्बाढ्ये स्त्रियां ङीप्।
आढ्यतम = त्रि० अतिशयेन आढ्यः तमप्। अतिशयाढ्ये।
आढ्यपदि = अव्य० आढ्यं पदं प्रहरणं यत्र द्विदण्ड्या० इच इजन्तत्वादव्ययत्वम्। आढ्यपदप्रहरणयुक्ते युद्धे।
आढ्यम्भवन = न० अनाद्य आद्योभवत्यनेन आद्य + भू–करणे ख्युन् मुम् उप० स०। अनाद्यस्य आद्यभवनसाधने।
आढ्यम्भविष्णु = त्रि० अनाढ्य आढ्यो भवति आढ्य + भू–खिष्णु- च् मुम् उप० स०। अभूतपूर्ब्बाढ्ये आढ्यताम् प्राप्ते “आढ्यम्भविष्णुर्यशसा कुमारः” भट्टिः।
आढ्यम्भावुक = त्रि० अनाद्य आद्योभवति आद्य + भू–खुकञ् मुम् उप० स०। अनाढ्ये आढ्यतया भूते।
आढ्यवात = पु० आढ्योवातोयत्र। “ककमेदोवृतो वायुर्यदोरू प्रतिपद्यते। तदाङ्गमर्द्दशैथिल्यरोमहर्षरुजाज्वरैः निद्रया चार्द्दितौ स्तब्धौ शीतलावप्रचेतनौ। गुरुकावस्थिरावूरू न स्वाविव च मन्यते। तमूरुस्तम्भमित्याहुराढ्यवातमथापरे” सुश्रुतोक्तलक्षणे ऊरुस्तम्भरोगे।
आणक = त्रि० अणक एव स्वार्थे अण्। १ अधमे कुत्सिते मुकुटः। “आणकं सुरतं नाम दम्पत्योः पार्श्वसंस्थयोः” इत्युक्त लक्षणे २ सुरतभेदे न०।
आणव = न० अणोर्भावः पृथ्वादि० वा अण्। अणुत्वे।
आणवीन = त्रि० अणुधान्यानां शर्षपादीनां भवनं क्षेत्रम् वा खञ्। (सुनाडाङ्गा) क्षेत्रभेदे क्षत्र शर्षपाद्यणुधान्यान्युत्पद्यन्ते तस्मिन्। पक्षे यत् अणव्यमप्यत्र।
आणि = पुंस्त्री० अण–इण् स्त्रियां वा ङीप्। रथचक्राग्रस्थे १ कीलके, २ कोटौ ३ सीम्नि च। “मयोभुवा सरथा यातमर्वाग्गन्तं निधिं धुरमाणि र्न नाभिम्” ऋ० ४, ४३, ८। “आणिं न रथ्यममृताधितस्थुः” ऋ० १, ३५, ६, सुश्रुतोक्ते मर्म्मस्थानभेदे, अत ऊर्द्ध्वं प्रंत्येकशोमर्म्मस्थानं व्याख्यास्याम” इत्युपक्रम्य। “जानुन ऊर्द्ध्वमुभयतस्त्र्यङ्गुलमाणिर्नाम तत्रशोफाभिवृद्धिः स्तव्धसक्थिता च” उक्रम्।
आणीवेय = पुंस्त्री० अणिरस्त्यस्य वा दीर्घः अणीवः ऋषिभेद स्तस्यापत्यम् शुभ्रा० ढक्। अणीवर्षेरपत्ये।
आण्ड = त्रि० अण्डेभवः अण्। १ अण्डसम्भवे पक्षिप्रभृतौ स्त्रियां ङीप् वेदे तु क्वचित् टाप्। “आण्डेव भित्त्वां शकुनस्य गर्भम्” ऋ० १, ६८, ७, २ अण्डजाते हिरण्यगर्भे पु० “तदण्डमभवद्धैमं सहस्रांशुसमप्रभम्। तस्मिन् जज्ञे स्वयं ब्रह्मा सर्व्वलोकपितामह” इति मनूक्तेस्तस्याण्डजातत्वात् तथात्वम्। “विराड्वहेमावाण्डौ स्वराट् च” शत० ब्रा०। अण्डमेव स्वार्थे अण्। ३ पुरुषवृषणेस्वार्थिकप्रत्ययस्य क्वचित् लिङ्गवचनातिक्रमस्येष्टत्वात् पु० “यस्य ह्याण्डौ भवतः रेतः सिञ्चति” शत० ब्रा०। “आनन्दनन्दामाण्डौ मे” यजु० २०, ९, “आण्डौ वृषणौ” वेददी०। “अण्डं वृषणोऽस्त्यस्य अण्। ४ वृषणयुक्ते “आण्डौ वै रेतःसिचौ” शत० ब्रा०। अण्डेन निर्वृत्तः अण्। अण्डनिर्वृत्ते ५ कपालरूपे द्युलोके भूलोके च। “तस्मिन्नण्डे स भगवानुषित्वा परिवत्सरम् स्वयमेवात्मनो ध्यानात्तदण्डमकरोद्द्विधा। ताभ्यां स शकलाभ्याञ्च दिवं भूमिञ्च निर्ममे इति” मनुनाऽण्डशकलाभ्यां तयोरुत्पत्तिप्रतिपादनात्तयोस्तथात्वम्।
आण्डज = पु० अण्डात् जायते जन–ड स्वार्थे अण्। १ अण्डजे पक्षिसर्पादौ। २ तच्छरीरे न० “तेषां खल्वेषां भूतानां त्रीण्येव वीजानि भवन्त्याण्डजं जीवजमुद्भिज्जम्” इति छा० उ०। “तेषां जीवाविष्टानां खल्वेषां पक्ष्यादीनां भूतानामेषामिति प्रत्यक्षनिर्द्देशान्नतु तेजः प्रभृतीनाम्। तस्मात्तेषां खल्वेषां भूतानां पशुपक्षिस्थावरादीनां त्रीण्येव नातिरिक्तानि वीजानि कारणानि भवन्ति। कानि तानीत्युच्यन्ते। अण्डजमण्डाज्जातम् अण्डजमेवाण्डजं पक्ष्यादि। पक्षिसर्पादिभ्यो हि पक्षिसर्पादयो जायमाना दृश्यन्ते। तेन पक्षी पक्षिणां वीजम् सर्पः सर्पाणां वीजम्। तथाऽन्यदप्यण्डाज्जातं तज्जातीयानां वीजमित्यर्यः।। नन्वण्डाज्जातमण्डजमुच्यतेऽतोऽण्डमेवं वीजमिति युक्तं कथमाण्डजं वीजमुच्यते। सत्यसेवं स्याद्यदि त्वदिच्छातन्त्रा श्रुतिः स्यात्स्वतन्त्रा श्रुतिर्यत आहाण्डजाद्येव वीजं नाण्डादीति। दृश्यते चाण्डजाद्यभावे तज्जातीयसन्तत्यभावो नाण्डाद्यभावे। अतोऽण्डजादीन्येव वीजान्यण्डजादीनाम्” भा०।
आण्डायन = त्रि० अण्डेन निर्वृत्तः पक्षा० फक्। अण्ड निर्वृत्ते त्रि०।
आण्डीर = पु० आण्डमस्त्यस्य ईरच्। वृषणयुक्ते इत्यपरे अण्डीर इत्येव साधुरित्यन्ये।
आण्डीवत = पु० राजभेदे। तेन निर्वृत्तम् कण्वा० फिञ्। आण्डीवतायनिः तन्निर्वृत्ते त्रि०।
आत् = अव्य० अत–विण्। १ अनन्तरमित्यर्थे। “आदस्य वातो अनुवाति शोचिः” ऋ० १, १४८, ४ २ अपिचेत्यर्थे “विश्वकर्मा विमना आद्विहायाधाता विधाता परमोत् सन्दृक्” यजु० १७, २६, “आत् अपि च” वेददी० आ + स्वरूपे तकार। ३ आकाररूपे वर्ण्णे पु० “आतश्चोपसर्गे कः” पाणिनिसूत्रम्।
आत = त्रि० आ + अत् अच्। सततगते प्रसृते। “पक्षोभिः श्रयमाणाउदातैः” यजु० २९, ५, “आतैः प्रसृतैः” वेददी०
आतक = त्रि० अत + ण्वुल्। १ सततगन्तरि २ सर्पभेदे पु० “बाहुकश्चाजशृङ्गश्च धूर्त्तकः प्रातरातकौ। कौरव्यकुलजास्त्वेते प्रयाता हव्यवाहनम्” भा० आ० ५७ अ०।
आतङ्क = पु० आ + तकि–घञ्। १ रोगे, “दीर्घतीव्रामयग्रस्तं ब्राह्मणं गामथापि वा। दृष्ट्वा पथि निरातङ्कं कृत्वा वा ब्रह्महा शुचिः” या० २ सन्तापे, “प्रश्नेन च विजानीयात् देशं कालं जातिसात्म्यमातङ्कं समुत्पत्तिं वेदनासमुच्छ्रायम्” इत्यादि सुश्रुतः। ३ सन्देहे, ४ मुरजशब्दे, ५ भये च। “पुरुषायुषजीविन्यो निरातङ्कानिरीतयः” रघुः।
आतञ्चन = न० आ + तन्च–ल्युट्। १ वेगे, २ प्रापणे, ३ आप्यायने दुग्धादौ दध्यादिभावापादनाय ४ अम्लद्रव्यप्रक्षेपे, (दम्बल देओया) ५ निक्षेपे, ६ उपद्रवे ७ द्रवद्रव्यप्रक्षेपेण कठिनद्रव्यस्य चूर्णने गलितस्वर्ण्णादेर्द्रव्यान्तरयोगेण ८ जारणे च। करणे ल्युट्। ९ दधिसाधन द्रव्ये (दम्बल)। गोभ्योहिदशविधाः दुग्धादय उत्पद्यन्ते यथोक्तं श्रुतौ “प्रतिधुक् तस्यै शृतं तस्यै शरस्तस्यै दधि तस्यै मस्तु तस्या आतञ्चनं तस्यै नवनीतं तस्यै घृतं तस्या आमिक्षा तस्यै वाजिनम्” शत० ब्रा०। तत्र प्रतिधुक् सद्योदुग्धम् १ शृतं पक्वं पयः २। शरः पक्कक्षीरस्योपरि सारभूतम् ३। घनीभूतं वस्तु दधि ४। दधिभवं सारभूतमुदकं मस्तु ५,। नवनीतघृते ६, ७, प्रसिद्धे आतञ्चनं दधिभावकारणम् ८। आमिक्षा तप्ते पयसि दध्यानयने सति यत् घनीभूतं वस्तु जायते सामिक्षा९। द्रवात्मकं वाजिनम् १०” मा० “यत्पूर्ब्बेद्युर्दुग्धं हविरातञ्चनं तत्कुर्बोत कात्या०।
आतत = त्रि० आ + तन–क्त। विस्तृते “आततज्यमकरोत् स संसदा” रघुः।
आततायिन् = त्रि० आततेन विस्तीर्णेन शस्त्रादिना अयितु शीलमस्य अय–णिनि। बधोद्यते। विषयभेदेन आततायि बधे दोषादोषौ” प्रा० वि० उक्तौ यथा वृह० “नाततायिवधे हन्ता किल्विषं प्राप्नुयात् क्वचित्। विनाशार्थिनमायान्तं घातयन्नापराध्नुयात्”। किल्विषाभावःप्रायश्चित्तनिषेधार्थः अपराधा भावोदण्डनिषेधार्थः। यतः “सर्वत आत्मानं गोपायातेति” श्रुतिमूलमिदम् अतः पलायनादिनापि रक्षणा भावे इदं बोद्धव्यम्। कात्यायनः। “आततायिनमायान्त मपि वेदान्तगं रणे। जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत्” जिघांसी सन् इयाद्गच्छेदित्यर्थः। देवलः। “उद्यम्य शस्त्रमायान्तं भ्रूणमप्याततायिनम्। निहत्य भ्रूणहा न स्यादहत्वा भ्रूणहा भवेत्”। भ्रूणोब्राह्मणविषेषः। दोषदर्शनं नियमार्थम्। मनुविष्णू। “गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम्। आततायिनमायान्तं हन्यादेवाविचारयन्” एवकारोनियमार्थः। तथा “नाततायिबधे दोषो हन्तुर्भवति कश्चन। प्रकाशं वाऽप्रकाशं वा मन्युस्तन्मन्युमृच्छति”। यस्माद्धन्तृमन्युर्हन्यमानमन्यु नाशयति न पुनः पुरुषोहन्ति हन्यते वेति हननविधेरपवादः। आततायिन- माह वशिष्ठः। “अग्निदोगरदश्चैव शस्त्रपाणिर्धनापहः। क्षेत्रदारापहारी च षडेते आततायिनः”। विष्णुकात्यायनौ। उद्यतासिविषाग्निञ्च शापोद्यतकरन्तथा। आथर्व्वणेन हन्तारं पिशुनञ्चैव राजसु। भार्य्यातिक्रमिणञ्चैव विद्यात्सप्ताततायिनः। यशोवित्तहरानन्यानाहुर्द्धर्म्मार्थहारकान्”। विशेषमाह कात्यायनः। “अनाक्षारितपूर्ब्बोयस्त्वपराधे प्रवर्त्तते। प्राणद्रव्यापहारे च प्रवृत्तस्याततायिता”। अनाक्षारितोऽनपकृतः। तेन पूर्ब्बकृतापकारस्य मारणोद्यतस्य नाततायिता। तेन प्रत्युपकारकवधे दोषएव। ननु आततायिनोरपि गोब्राह्मणयोर्हनने दोषमाह सुमन्तुः। “नाततायिबधे दोषोऽन्यत्र गोब्राह्मणात् यदा हन्यात् प्रायश्चित्तं कुर्य्यात्”। तथा भविष्ये। “घातकानपि गोविपान्न हन्याद्वै कदाचनेति”। अतःपूर्ब्बवचनविरोधः। सत्यम्। अत्र व्यवस्थामाह कात्यायनः। “आततायिनि चोत्कृष्टे तपःस्वाध्यायजन्मतः। बधस्तत्र तु नैव स्यात् पापे हीने बधोमतः”। जन्मपदेन जातिः कुलञ्चोच्यते। तेन हन्त्रपेक्षया तपोविद्याजातिकुलैरुत् कृष्टोनायतायी बध्यस्तदन्योबध्यएव। अतएव भगवद्गीताया माह। “पापमेवाश्रयेदस्मान् हत्वैतानाततायिन” इति। एतान् भीष्मादीन् अत्यन्तोत्कृष्टगुणानित्यर्थः। एवंभूताततायिनश्चाहनने फलमप्याह वृहस्पतिः। “आततायिनमुत्कृष्टं वृत्तस्वाध्यायसंयुतम्। योन हन्याद्बधप्राप्तंसोऽश्वमेधफलं लभेत्”। यद्यपि “गुरुम्बहुश्रुतं हन्यादिति”। श्रूयते। तथापि गुरोः सकाशात् कुलविद्यातपोभिः शिष्यस्याप्युत्कर्षसम्भवः। एवं बहुश्रुतादावपि। एवमधमवर्णस्योत्तमवर्ण्णो न बध्यः। पूर्ब्बकृतापकारविषयं वा सुमन्तुवचनम्। गौरातताय्यपि न बध्यः। “नखिनां शृङ्गिणाञ्चैव दंष्ट्रिणाञ्चाततायिनाम्। हस्त्यश्वानान्तथान्येषां बधे हन्ता न दोषभागिति” कात्यायनवचनं गोव्यतिरिक्तशृङ्गिविषयम्। विशेषमाह कात्यायनः। उद्यतानान्तु पापानां हन्तुर्दोषो न विद्यते। निवृत्तस्तु यदारम्भाद्ग्रहणं न बधःस्मृतः” इत्यन्तेन। तत्रत्यम्रूणशब्दार्थमाह देबलः “अनूचानो गुणोपेतो यज्ञस्वाध्याययन्त्रितः। भ्रूण इत्युच्यते शिष्टैः शेषभोजी जितेन्द्रियः”। मिताक्षरायामपि “गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम्। आततायिनमायान्तं हन्यादेवाविचारयन्। नाततायिबधे दोषो हन्तुर्भवति कश्चन। प्रच्छन्नं वा प्रकाशं वा मन्युस्तन्मन्युमृच्छति”। तथा “आततायिनमायान्तमपि वेदान्तगं रणे। जिघांसन्त- ञ्जिघांसीयान्न तेन ब्रह्महा भवेत्” इत्याद्यर्थशास्त्रम्। “इयं विशुद्धिरुदिता प्रमाप्याकामतोद्विजम्। कामतो ब्राह्मणबधेनिष्कृतिर्न विधीयत” इत्यादि धर्म्मशास्त्रमनयोर्विरोधे धर्मशास्त्रं बलवदिति युक्तम्। अनयोरेकविषयत्वासम्भवेन विरोधाभावान्न बलावलचिन्ता अवतरति। तथा हि “शस्त्रंद्विजातिभिर्ग्राह्यन्धर्मोयत्रोपरुध्यते” इत्युपक्रम्य “आत्मनश्च परित्राणेदक्षिणानाञ्च सङ्गरे। स्त्रीविप्राभ्युपपत्तौ च धर्मेण घ्नन्न दुष्पती” त्यात्मरक्षणे दक्षिणादीनां यज्ञोपकरणानां च रक्षणे युद्धे च स्त्रीब्राह्मणहिंसायाञ्च आततायिनमकूटशस्त्रेण घ्नन् न दण्डभागित्युक्त्वा तस्यार्थ वादार्थमिदमुच्यते। “गुरुं वा बालवृद्धौ वेत्यादि”। गुर्वादीनत्यन्ताबध्यानप्याततायिनोहन्यात् किमुतान्यानिति। वाशब्दश्रवणादपि वेदान्तगमित्यत्राप्यपिशब्दस्य श्रवणान्न गुर्वादीनां बध्यत्वप्रतीतिः “नाततायिबधे दोषोऽन्यत्र गोब्राह्मणबधादिति” सुमन्तुवचनात्। “आचार्य्यं च प्रवक्तारम् पितरम्मातरं गुरुम्। न हिंस्याद्ब्राह्मणान् गाश्च सर्वांश्चैव तपस्विन” इति मनुवचनाच्च। आचार्य्यादीनामाततायिनां हिंसाप्रतिषेधेनेदं वचनमर्थबन्नान्यथा हिंसामात्रप्रतिषेधस्य सामान्यशास्त्रेणैव सिद्धत्वात्। “नाततायिबधे दोषोहन्तुर्भवति कश्चन” इत्यतदपि ब्राह्मणादिव्यतिरिक्तविषयमेव। यतः “अग्निदोगरदश्चैव शस्त्रपाणिर्द्धनापहः। क्षेत्रदारहरश्चैव षडेते आततायिनः” तथा “उद्यतासिविषाग्निश्च शापोद्यतकरस्तथा। आथर्वणेन हन्ता च पिशुनश्चापि राजनि। भार्य्यातिक्रमकारी च रन्ध्रान्वेषणतत्परः। एवमाद्यान् विजानीयात्सर्बानेवाततायिन” इति–सामान्येनाततायिनोदर्शिताः। अतश्च ब्राह्मणादय आततायिन आत्मादित्राणार्थं हिंसानभिसन्धिना निवार्यमाणाः प्रमादाद्यदि विपद्येरंस्तत्र लघु प्रायश्चित्तं राजदण्डाभावश्चेति”। ब्राह्मणाद्यातताधिबधे दोष उक्तः। अतएव भीष्मादीनामाततायिनामपि हननेन “अश्वमेधेन शुध्यन्ति महापातकिनस्त्विमे” इति भारते युधिष्ठिरादीनां महातकित्वमुक्तम्।
आतनि = त्रि० आ–तन–इन्। आतानके विस्तारके। “त्वं विशिक्षुरसि यज्ञमातनिः” ऋ० २, १, १०।
आतप् = त्रि० आतपति आ + तप–क्विप्। तापके “परिवामरुषावयोघृणावरन्त आतपः” ऋ० ५, ७३, ५। “आतपः आतापिनः” भा०।
आतप = पु० आ–तप–घ। १ उद्द्योते, २ निविडकिरणे रौद्रे च। “आतपः कटुकोरूक्षः स्वेदमूर्च्छातृषा- प्रदः। दाहवैवर्ण्यजननोनेत्ररोगप्रकोपनः” सुश्रुतः। “भवति वपुरवाप्तच्छायमेवातपेऽपि” माघः। “आतपात्ययसंक्षिप्तनीवाराषु निषादिभिः” रघुः। “तमातपक्लान्तमनातपत्रम्” रघुः। “शृङ्गाणि यस्यातपवन्ति सिद्धाः” कुमा०। “शीतातपाभिघाताश्च विविधानि भयानि च” मनुः। आतपश्च विरलसंयोगापन्नः सूर्य्यस्य किरणभेदः स एव रौद्रशब्दाभिधेयः प्रकाशस्तु ततोऽपि विरलसंयोगापन्न इति प्रकाशरौद्रयोर्भेदः। अस्य च निविडतेजस्कत्वादुष्णस्पर्शवत्त्वम् तेन दुःखदायकत्वं मनुनोक्तम्। एवं “आतापतापितभूमौ माधव! माधव! मा धावेति” यशोदावाक्येऽपि। ३ प्रकाशे “छायातपौ ब्रह्मविदोवदन्ति” श्रुतिः।
आतपत्र = न० आतपात् त्रायते त्रै–क। छत्रे। स्वार्थे कन्। आतपत्रकमप्यत्र। “तमातपक्लान्तमनातपत्रम्”। “एकातपत्रं जगतः प्रभुत्वम्”। “पद्मा पद्मातपपत्रेण भेजे सास्राज्यदीक्षितम्” इति च रघुः। “राज्यं स्वहस्तधृतदण्डमिवातपत्रम्” शकु०। “तस्यातपत्रं बिभराम्बभूवे” माघः। “निजातपत्रस्य तलस्थले नलः” नैष० आतपत्रोत्पत्तिर्यथा भार० आनु० प० ९२, ९३ अ०। “यदिदं श्राद्धकृत्येषु दीयते भरतर्षभ!। छत्रञ्चोपानहौ चैव केनैतत् संप्रवर्त्तितम्। कथञ्चैतत् समुत्पन्नं किमर्थञ्चैव दीयते। न केवलं श्राद्धकृत्ये पुण्यकेष्वपि दीयते। बहुष्वपि निमित्तेषु पुण्यमाश्रित्य दीयते। एतद्विस्तरतो ब्रह्मन्! श्रोतुमिच्छामि तत्त्वतः। भीष्म उवाच। शृणु राजन्नवहितश्छत्रोपानहविस्तरम्। यथैतत् प्रथितं लोके यथा चैतत् प्रवर्त्तितम्। यथा चाक्षय्यतां प्राप्तं पुण्यताञ्च यथा गतम्। सर्वमेतदशेषेण प्रवक्ष्यामि नराधिप!। जमदग्नेश्च संवादं सूर्य्यस्य च महात्मनः। पुरा म भषवान्साक्षाद्धनुषाऽक्रीडत प्रमो।। सन्धाय सन्धाय शरांश्चिक्षेप किल भार्गवः। तान् सर्व्वान् रेणुका क्षिप्तांस्तस्येषून् दीप्ततेजसः। आनीय सा तदा तस्मै प्रादादसकृदच्युत!। अथ तेन–स शब्देन ज्यायाश्चैव शरस्य च। प्रहृष्टः सम्प्रचिक्षेप सा च प्रत्याजहार तान्। ततो मध्याह्नमारूढे ज्येष्ठामूले दिबाकरे। स सायकान् द्विजो मुक्त्वा रेणुकामिदमब्रवीत्। गच्छानय विशालाक्षि! शरानेतान् धनुश्च्युतान्। यावदेतान् पुनः सुभ्रु! क्षिपामीति जनाधिप!। सा गच्छन्त्यन्तरा छायां वृक्षसाश्रित्य भाविनी। तस्थौ तस्य हि सन्तप्तं शिरः पादौ तथैव च। स्थित्वा सा तु मुहूर्त्तं वै भर्त्तुः शापभयाच्छुभा। ययावानयितुं भूयः सायकानलिनेक्षणा। प्रत्याजगाम च शरांस्तानादाय यशस्विनी। सा वै खिन्ना सुचार्व्वङ्गी पद्भ्यां दुःखं नियच्छती। उपाजगाम भर्त्तारं भयाद्भर्त्तुः प्रवेपती। स तामृषिस्तदा क्रुलो वाक्यमाह शुभाननाम्। रेणके! किं चिरेण त्वमागतेति पुनः पुनः। रेणुकोवाच। शिरस्तावत् प्रदीप्तं मे पादौ चैव तपोधन! सूर्य्यतेजोनिरुद्धाऽहं वृक्षच्छायां समाश्रिता। एतस्मात् कारणाद्ब्रह्मंश्चिरायैतत् कृतं मया। एतच्छ्रुत्वा मम विभो! मा क्रुधस्त्वं तपोधन!। जमदग्निरुवाच। अद्यैनं दीप्तकिरणं रेणुके! तव दुःखदम्। शरैर्निपातयिष्यासि सूर्य्यमस्त्राग्नितेजसा। भीष्म उवाच। स विस्फार्य्य धनुर्द्दिव्यं गृहीत्वा च शरान् बहून्। अतिष्ठत् सूर्य्यमभितो यतो याति ततोमुखः”। इत्येवं क्रोधेन आत्मानं (सूर्य्यं) पातयितुमिच्छवे जमठग्नये विप्ररूपं धृत्वागत्य तं च परितोष्य तस्मै छत्रसुपानहौ च सूर्य्योददावित्युक्तं ततोऽध्यायान्तरे यथा। “एतावदुक्त्वा स तदा तूष्णीमासीद्भृगूत्तमः। अथ सूर्य्योऽददत्तस्मै च्छत्रोपानहमाशु वै। सूर्य्य उवाचे। महर्षे! शिरसस्त्राणं छत्रं मद्रश्मिवारणम्। प्रतिगृह्णीष्व पद्भ्याञ्च त्राणार्थं चर्म्मपादुके। अद्यप्रभृति चैवेह लोकं सम्प्रचरिष्यति। पुण्यकेषु च सर्व्वेषु परमक्षय्यमेव च। भीष्म उवाच। छत्रोपानहमेतत्तु सूर्य्येणैतत् प्रवर्त्तितम्। पुण्यमेतदभिख्यातं त्रिषु लोकेषु भारत!। तस्मात् प्रयच्छ विप्रेषु च्छत्रोपानहमुत्तमम्। धर्मस्तेषु महान् भावी न मेऽत्रास्ति विचारणा। छत्रं हि भरतश्रेष्ठ! यः प्रदद्याद्द्विजातये। शुभम् शतशलाकं वै स प्रेत्य मुखमेधते”। एतल्लक्षणं छत्रशब्दे वक्ष्यते।
आतपवत् = त्रि० आतपोऽस्त्यत्र मतुप् मस्य वः। आतपयुक्ते “शृङ्गाणि यस्यातपवन्ति सिद्धाः” कुमा०।
आतपवर्ष्य = त्रि० आतपे निमित्तेसति वर्षन्ति बा० कर्त्तरि यत्। वृष्टिजले “अन्तरिक्षात् प्रतिगृह्यातपवर्व्याः” कात्या० १५, ४, ५, अन्तरिक्षात् ग्रहीतव्या आतपवर्षणाः या आतपे वर्षन्ति ताः। अन्तरिक्षात् प्रतिगृह्य भूमिपतनात् प्रागेवाकाशात् पतन्तीरादाय ग्रहीतव्या” कर्क०। अतएव वृष्टिजलस्यातपनिमित्तत्वात् नैमित्तिकत्वाभिप्रायेण तासां यज्ञकाले ग्रहणासम्भवेन पूर्ब्बं संग्राह्यतोक्ता “यूपमुत्तरेण नैमित्तिक्यसम्भवात्” कात्या० १५, ४२ “या आपोनिमित्तेन प्राप्यन्ते ता नैमित्तिक्यः यथा गोरुण्व्याः आतपवर्ष्यास्तासामस्मिन् काले ग्रहणासम्भवात् अतः पूर्व्वं गृहीत्वा यूपमुत्तरेण पुनर्ग्रहणमिति” कर्कः। अतएव श्रुत्या वृष्टेरातपनिमित्तत्वमुक्तम् “तस्माद्यत्र क्वचित् शोचति स्वेदते वा पुरुषस्तेजस एव तदध्यापोजायन्ते” इति छा० उ० पुरुषदेहस्य सन्ताप स्वेदयोरातपनिमित्तत्वात् वृष्टेरातपहेतुकत्वम्। व्यक्तमाह यादवः “तासां शतानि चत्वारि रश्मीनां वृष्टिसर्ज्जने चतुः शतं वृष्टिवाहाः सर्व्वास्ता अमृताः स्त्रियः” इति सूर्य्यरश्मीनां मध्ये चतुःशतस्य वृष्टिषर्ज्जकत्वेन वृष्टेरातपनिमित्तकत्वमत्र व्यक्तमेव।
आतपवारण = न० आतपं वारयति वृ–णिच् ल्यु। छत्रे। “नृपतिककुदं दत्त्वा यूने सितातपवारणम्” “अनुदितान्यसितातपवारणम्” इति च रघुः।
आतपात्यय = पु० ६ त०। रौद्रापगमे सूर्य्यकिरणविगमे। “आतपात्ययसंक्षिप्तनीवारासु निषादिभिः” रघुः।
आतपाभाव = ६ त० पु० आतपस्याभावरूपायाम् छायायाम्।
आतपीय = त्रि० आतपस्य सन्निकृष्टदेशादि उत्करा० छ। आतपसन्निकृष्टदेशादौ।
आतपोदक = न० आतपे लक्ष्यमाणमुदकम् शा० त०। सूर्य्यमरीचौ–लक्ष्यमाणे उदके मृगतृष्णिकायाम्।
आतमाम् = अव्य० आ + तमप् आमु। अतिशयाभिमुख्ये अत्यन्तसमन्ताद्भावे च “महोदेवं कथमातमाऽख्यायत आत्मा हि महदुक्थम्” शतं० ब्रा०।
आतर = पु० आतरत्यनेन आ + तॄ–अप्। नद्यादेः तरणार्थं देये शुक्ले “आतरलाघवहेतोर्मुरहर! तरणिं तवावलम्बे” इत्युद्भटः द्रव्यभेदे आतरमानमुक्तं मनुना “पणं यानन्तरे दाप्यम्पुरुषोऽर्द्धपणन्तरे। पादम्पशुश्च योषिच्च पादार्द्धं रिक्तकः पुमान्। भाण्डपूर्णानि यानानि तार्य्यं दापोयानि सारतः। रिक्तभाण्डानि यत् किञ्चित् पुमांसश्चापरिच्छदाः”
आतर्पण = न० आ + तृप–ल्युट्। १ तृप्तौ। णिच्–ल्युट्। २ प्रीणने ३ मङ्गलालेपने। कर्त्तरि ल्युट्। ४ तृप्तिकारके त्रि०।
आतव = पु० आ + तु–अप्। १ हिंसने कर्त्तरि अच्। २ हिंसके त्रि० ३ राजभेदे पु० तस्वापत्थम् अश्वा० फक्। आतवायनः तदपत्ये पुंस्त्री०।
आता = स्त्री आभिमुख्येन अत्यते गम्यते प्राणिभिः आ + अतकर्म्मणि घञ्। दिशि निरु०। “प्रये द्वितादिव अञ्जन्त्याताः” ऋ० ३, ४३, ६।
आतान = पु० आतन्यते आ + तन–घज्। १ आभिमुख्येन विस्तारे २ दीर्घविस्तारे पटादिवयनार्थं दीर्घविस्तारे (टाना देओया) “यथा लूता आतानवितानाभ्यां जालं विस्तारयतीति” वेदान्तप्र० कर्म्मणि घञ्। ३ वित्तार्य्ये ४ क्रियमाणे च “एष एव नित्य एकाहातानः” शत० ब्रा०।
आतानक = त्रि० आ + तन–ण्वुल्। विस्तारके।
आतापि = पु० आ + तप इण्। असुरभेदे स चागस्त्येन भक्षितः “आतापिर्भर्क्षितोवेन वातापिश्च महासुरः। समुद्रःशोषितोयेन स मेऽगस्त्यः प्रसीदतु” मन्त्रलिङ्गादवगम्यते।
आतापिन् = पु० आतपति आ + तप–णिनि। (चिल) पक्षिभेदे क्षीरस्वामी।
आतायिन् = पु० आ + ताय–णिनि। (चिल्) इतिख्यातेपक्षिभेदे।
आतार = पु० आतीर्य्यतेऽनेन आ + तॄ–बा० घञ्। नावातरणार्थे देवे शुक्ले।
आताली = अव्य० आ + तल बा० ईण्। विधुरस्याकुलोकरणे ऊर्य्या० “आतालीकृत्य विधुरमाकूलीकृत्येत्यर्थः” गणरत्नम्।
आति = पु० अत–इण्। शरारिपक्षिणि। “सुपर्ण्णः पार्ज्यन्य आतिर्वाहसोः” यजु० २४, ३४। “ता आतयोन तन्वः शुम्भतः स्वा” ऋ० १९, ९५। २ सततगन्तरि त्रि०।
आतिथिग्व = पु० अतिथिमभिगच्छति गम–ड्व अतिथिग्वोदिवोदासोराजा तस्यापत्यम् अण्। दिवोदासराजपुत्रे। “पराहन्नतिथिग्वाय शस्यं करिष्यन्” ऋ० ६, २६, ३ “अतिथिग्वाय अतिथीनामभिगन्त्रे दिवोदासाय” भाष्योक्तेः दिवोदास एव ऋग्वेदेऽतिथिग्वत्वेन प्रसिद्धः “सुरथा~ आतिथिग्वे स्वभीशू~ रार्क्षे” “षडश्वा~ आतिथिग्व इन्द्रोते बधूमतः” ऋ० ८, ६८, १६, १७। “आतिथिग्व एतन्नामकराजस्य पुत्रः तस्मै” भा०।
आतिथेय = न० आतिथये इदं ढक्। १ अतिथिनिमित्तके भोजनादौ। “आतिथेयमनिवारितातिथिः” माघः “दैवपित्र्यातिथेयानि तत्प्रधानानि यस्य तु” मनुः। तत्र साधु ढञ्। २ अतिथिसपर्य्यायां कुशले त्रि०। “प्रययावातिथेयेषु वसन्नृषिकुलेषु सः” रघुः। “शय्योत्थायं मृगान् विध्यन्नातिथेयो विचक्रमे” भट्टिः “प्रत्युज्जगामातिथिमातिथेयः” रघुः। स्त्रियां ङीप्। “तमातिथेयी बहुमानपूर्ब्बया” कुमा०
आतिथ्य = न० अतिथेरिदं ञ्य। १ अतिथिपरिचर्य्यायाम्। “तमातिथ्यक्रियाशान्तरथक्षोभपरिश्रमम्” रघुः “लघुपतन कस्य यथोचितमातिथ्यं विधाय” हितो०। स्त्रीत्वमपि “आतिथ्यायाः प्राक्प्रायणीयम्” शत० ब्रा० भाष्यम् अतिथिपरिचर्य्याप्रकारश्च परिशिष्टखण्डे वक्ष्यते। स्वार्थे ष्यञ्। २ अतिथौ हेम०।
आतिदेशिक = त्रि० अतिदेशादागतः ठक्। अतिदेशप्राप्ते। यथा प्रकृतिधर्मस्य विकृतौ आतिदेशिकत्वम्। “आतिदेशिकमनित्यम्” इति व्या० परिभाषा।
आतियात्रिक = त्रि० अतियात्रायां नियुक्तः ठक्। आतिवाहिकदेवे विवरणमातिवाहिकशब्दे।
आतिरेक्य = न० अरिच्यते कर्मणि घञ् तस्य भावः ष्यञ्। अतिरेके वृद्धौ स्वपरिणातिरेके।
आतिवाहिक = त्रि० अतिवाहे इहलोकात् परलोकप्रापणे नियुक्तः ठक्। एतल्लोकात् परलोकप्रापणे ईश्वरनियुक्ते अर्चिराद्यभिमानिदेवगणे धूमाद्यभिमानिदेवगणे च। “आतिवाहिकास्तल्लिङ्गात्” शा० सू०। अतिवाहने नियुक्ताश्च द्विविधाः दक्षिणमार्गे उत्तरमार्गे च तत्र कर्मिणां दक्षिणमार्गेण ज्ञानिनाञ्चोत्तरमार्गेण गमनात् तत्र नयनाय ईश्वरनियुक्ता धूमादयः अर्च्चिरादयश्च ते च छा० उ० दर्शिता यथा। “अथ य इमे ग्राम इष्टापूर्त्ते दत्तमित्युपासते ते धूममभि सम्भवन्ति धूमाद्रात्रिं रात्रेरपरपक्षनपरपक्षाद्यान्षड्दक्षिणैति मासांस्तान्नैते संवत्सरमभिप्राप्नुवन्ति मासेभ्यः पितृलोकं पितृलोकादाकाशमाकाशाच्चन्द्रमसमेष सोमो राजा तद्देवानाभन्नं तं देवा भक्षयन्ति”। “इष्टापूर्त्ते इष्टमग्निहोत्रादि वैदिकं कर्म्म, पूर्व्वं वापीकूपतडागारामादिकरणम्। दत्तं च बहिर्वेदि, यथाशक्त्यर्हेम्यो द्रव्यसम्भागो दत्तम्। इत्येवंविधं परिचरणपरित्राणाद्युपासते। इतिशब्दस्य प्रकारदर्शनार्थत्वात्। ते दर्शनवर्ज्जितत्वाद्धूमं धूमाभिमानिनीं देवतामाभिमुख्येन सम्भवन्ति प्रतिपद्यन्ते। तयाऽतिवाहिता धूमाद्रात्रिं रात्रिदेवतां, रात्रेरपरपक्षदेवताम्, एवमेव कृष्णपक्षाभिमानिनीमपरपक्षात् यान् षण्मासान् दक्षिणा दक्षिणां दिशमेति सविता तान् मासान् दक्षिणायनान् षण्मासाभिमानिनीर्देवताः प्रतिपद्यन्त इत्यर्थः। सङ्घचारिण्यो हि षण्मासदेवता इति मासानिति बहुवचनप्रयोगस्तासु। नैते कर्म्मिणः प्रकृताः संवत्सरं संवत्सराभिमानिर्नी देवतामभिप्राप्नुवन्ति। कुतः पुनः संवत्सरपाप्तिप्रसङ्गो यतः प्रतिषिध्यते। अस्ति हि संवत्सरस्य प्रसङ्गोह्येकस्यावयवभूते दक्षिणोत्तरायणे तत्रार्चिरादिमार्गप्रवृत्तानामुदगयनमासेभ्योऽवयविनः संवत्सरस्य प्राप्तिरुक्ता। अत इहापि तदव- यवभूतानां दक्षिणायनमासानां प्राप्तिं श्रुत्वा तदवयविनः संवत्सरस्यापि पूर्व्ववत्प्राप्तिरापन्नेत्यतस्तत्प्राप्तिः प्रतिषिध्यते नैते संवत्सरमभिप्राप्नुवन्तीति। मासेभ्यः पितृलोकं, पितृलोकादाकाशमाकाशाच्चन्द्रमसम्। कोऽसौ यस्तैः प्राप्यः चन्द्रमाः य एष दृश्यतेऽन्तरिक्षे सोमो राजा ब्राह्मणानां तदन्नं देवानां तं चन्द्रमसमन्नं देवता इन्द्रादयो भक्षयन्ति। अतस्ते धूमादिना गत्वा चन्द्रभूताः कर्म्मिणो देवैर्भक्ष्यन्ते नन्बनर्थायेष्टादिकरणं यद्यन्नभूता देवैर्भक्ष्येरन् नैष दोषः। अन्नमित्युपकरणमात्रस्य विविक्षतत्वात्। न हि ते कवलोत्क्षेपेण देवैर्भक्ष्यन्ते। किं तर्ह्युपकरणमात्रं देवानां भवन्ति ते स्त्रीपशुभृत्यादिवत्। दृष्टश्चान्नशब्द उपकरणेषु स्त्रियोऽन्नं पशवोऽन्नं राज्ञामित्यादि। न च तेषां स्त्र्यादीनां पुरुषोपभोग्यत्वेऽप्युपभोगो नास्ति। त मात्कर्मिणो देवतानामुपभोग्या अपि सन्तः सुस्विनो देवैः क्रीडन्ते। शरीरञ्च तेषां तेषूपभोगयोग्यं चन्द्रमण्डले आप्यमारभ्यते। तदुक्तं “पुरस्ताच्छ्रद्धा शब्दा आपो द्युलोकाग्नौ हुताः सोमो राजा सम्भवन्तीति”। ता आपः कर्म्म समवायिन्य इतरैश्च भूतैरनुगताः द्युलोकं प्राप्य चन्द्रत्वमापन्नाः शरीराद्यारम्भिका इष्टाद्युपासकानां भवन्ति। इति” भा० पितृयानःपन्था दर्शितः देवयानस्तु। “अथ यदु चैवास्मिञ्छव्यं कुर्व्वन्ति यदि च नार्च्चिषमेवाभिसम्भवन्त्यर्च्चिषोऽहरह्न आपूर्य्यमाणपक्षमापूर्य्यमाणपक्षादुयान् षडुदङ्ङेति मासांस्तान्मासेभ्यः संवसत्सरं, संवत्सरादादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः स एतान् ब्रह्म गमयत्येष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्त्तं नावर्त्तन्ते नावर्त्तन्ते” “अथेदानीं यथोक्तब्रह्मविदो गतिरुच्यते यद्यदि उ च एवास्मान्नेवंविदि शव्यं शवकर्म्म मृते कुर्व्वन्ति यदि च न कुर्व्वन्ति ऋत्विजः, सर्व्वथाप्येवंवित्तेन शवकर्म्मणा अकृतेनापि न प्रतिबद्धो ब्रह्म प्राप्नोति न च कृतेन शवकर्म्मणाऽस्य कश्चनाभ्यधिको लोकः “न कर्म्मणा वर्द्धते नो कनीयानिति” श्रुत्यन्तरात्। शवकर्म्मण्यनादरं दर्शयन् विद्यां स्तौति, न पुनः शवकर्म्म एवंविदो न कर्त्तव्यमिति। अक्रियमाणे हि शवकर्म्मणि कर्म्मणां फलारम्भे प्रतिबन्धः कश्चिदनुमीयते अन्यत्र। यत इह विद्याफलारम्भकाले शवकर्म्म स्याद्वा न वेति विद्यावतोऽप्रतिबन्धेन फलारम्भं दर्शयति। ये सुखाकाशमक्षिस्थं संयद्वामनीत्वेनोपासते प्राणसहितामग्निविद्यां, तेषामन्यत्कर्म्म भवतु मा वा भूत् सर्ब्बथापि तेऽर्च्चिषमेवाभिसम्भवन्त्यर्च्चिरभिमानिनीं देवतामभिसम्भवन्ति प्रतिपद्यन्त इत्यर्थः। अर्च्चिषोऽर्च्चिर्देवताया अहरहरभिमानिनीं देवतामह्न आपूर्य्यमाणपक्षं शुक्लपक्षदेवतामापूर्य्यमाणपक्षान् षण्मासानुदङ्ङुत्तरां दिशमेति सविता तान्मासानुत्तरायणदेवतां, तेभ्यो मासेभ्यः संवत्सरं संवत्सरदेवतां ततः संवत्सरादादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्तत्स्थांस्तान् पुरुषः कश्चिद्ब्रह्मलोकादेत्यअमानवो मानव्यां सृष्टौ भवो मानवो न मानवोऽऽमानवः स पुरुष एतान् ब्रह्म सत्यलोकस्थं गमयति गन्तृगन्तव्यगमयितृत्वव्यपदेशेभ्यः। सन्मात्र ब्रह्मप्राप्तौ तदनुपपत्तेः। “ब्रह्मैव सन् ब्रह्माऽप्येतीति हि वक्तुं न्याय्यम्। सर्व्वभेदनिरासेन सन्मात्रप्रतिपत्तिं वक्ष्यति। न चादिष्टो मार्गो गमनायोप्रतिष्ठते। “स एनमविदितो न भुनक्तीति” श्रुत्यन्तरात्। एष देवपथो देवैरर्चिरादिभिर्गमयितृत्वेनाधिकृतैरुपलक्षितः पन्था देवपथ उच्यते। ब्रह्म गन्तव्यं तेन चोपलक्षित इति ब्रह्मपथः। एतेन प्रतिपद्यमाना गच्छन्तो ब्रह्म इमं मानवं मनुसम्बन्धिनं मनोः सृष्टिलक्षणमावर्त्तं नावर्त्तन्ते। आवर्त्तन्तेऽस्मिन् जननमरणप्रबन्धचक्रारूढा घटीयन्त्रवत् पुनः पुनरित्यावर्त्तस्तं न प्रतिपद्यन्ते। नावर्त्तन्त इति द्विरुक्तिः सफलाया विद्यायाः परिसमाप्तिदर्शनार्थां” भा०। यथा चैषामातिवाहिकत्वं तथा निरूपितम् शा० सू० भा०। “आतिवाहिकास्तल्लिङ्गात्” सू०। “तेष्वेवार्चिरादिषु संशयः किमेतानि मार्गचिह्नान्युत भोगभूमयोऽथ वा नेतारोगन्तृणामिति। तत्र मार्गलक्षणभूता अर्चिरादय इति तावत् प्राप्तं तत्स्वरूपत्वादुपदेशस्य। यथा हि कश्चिल्लोको ग्रामं नगरं वा प्रतिष्ठासमानोऽनुशिष्यते गच्छेस्त्वममुं गिरिं ततोन्यग्रोधं ततोनदीं ततोग्राभं ततोनगरं वा प्राप्स्यसीति। एवमिहाप्यर्चिरर्चिषोऽहरह्न अपूर्य्यमाणपक्षमित्याह। अथ वा भोगभूमयएता इति प्राप्तम्। तथा हि लोकशब्देनाग्न्यादीनुपबध्नाति अग्निलोकमागच्छतीत्यादि। लोकशब्दश्च प्राणिनां भोगायतनेषु भाष्यते सनुष्यलोकः पितृलोको देवलोक इति च। तथा च ब्राह्मणम् “अहोरात्रेषु लोकेषु सृज्यन्त” इत्यादि। तस्मान्नातिवाहिका अर्चिरादयः। अचेतनत्वादपि तेषामातिवाहिकत्वानुपपत्तिः। चेतना हि लोके राजनियुक्ता पुरुषाः दुर्गेषु मार्गेष्वतिवाह्यानतिवाहयन्तीत्येवं प्राप्ते ब्रूमः। आतिवाहिका एवैते भवितुमर्हन्ति। कुतः तल्लिङ्गात्। तथा हिचन्द्रमसोविद्युतं तत्पुरुषोऽमानवः स एतान् ब्रह्म गमयतीति सिद्धवद्गमयितृत्वं दर्शयति। यावद्वचनं वाचनिकमितिन्यायात्। तद्वचनं तद्विषये एवोपक्षोणमि तिचेन्न प्राप्तमानवत्वनिवृत्तिमात्रपरत्वाद्विशेषणस्य। यद्यर्चिरादिषु पुरुषा गमयितारः प्राप्तास्ते च मानवास्ततोयुक्तं तन्निवृत्त्यर्थं पुरुषविशेषणममानव इति। ननुलिङ्गमात्रभगमकं न्यायाभावात्। नैष दोषः। उभयव्यामोहात्तत्सिद्धेः। एतावदर्चिरादिमार्गगास्ते देहवियोगात्सं पिण्डितकरणग्रामाइत्यस्वतन्त्राः। अर्च्चिरादीनामप्यचेतनत्वादस्वातन्त्र्यमित्यतोऽर्चिराद्यभिमानिनश्चेतना देव ताविशोषा अतियात्रायां नियुक्ता इति गम्यते। लोकेऽपि हि मत्तमूर्च्छि तादयः संपिण्डिकरणग्रामाः परप्रयुक्तवर्त्मानो भवन्ति। अनवस्थितत्वादप्यर्चिरादीनां न मार्गलक्षणत्वोपपत्तिः। न हि रात्रौ प्रेतस्याहःस्वरूपाभिसम्भव उपपद्यते। न च प्रतिपालनमस्तीत्युक्तमधस्तात्। ध्रुवत्वाद्देवतात्मनां नायं दोषो भवति। अर्चिरादिशब्दताचैषामर्चिराद्यभिमानादुपपद्यते। अर्चिषोऽहरित्यादि निर्देशस्त्वातिवाहिकत्वेऽपि न विरुध्यते। अर्चिषा हेतुनाहरभिसम्भवन्ति अह्ना हेतुनापूर्य्यमाणं पक्षमिति। तथा च लोके प्रसिद्धेष्वप्यातियात्रिकेष्वेवंजातीयक उपदेशोदृश्यते गच्छ त्वमितोबलवर्माणं ततोजयसिंहं ततः कृष्णगुप्तमिति। अपिचोपक्रमे तेऽर्चिषमभिसन्धवन्तीति सम्बन्धमात्रमुक्तं न सम्बन्धविशेषः कश्चित्। उपसंहारे तु “स एतान् ब्रह्म गमयतीति” सम्बन्धविशेषोऽतिवाह्यातिवाहकत्वलक्षण उक्तः तेन सएवोपक्रमेऽपीति निर्द्धार्य्यते। संपिण्डितकरणग्रामत्वादेव च गन्थृणां न तत्र भोगसम्भवः। लोकशब्दस्तु अनुपभुञ्जानेष्वपि गन्तृषु गमयितुं शक्यते अन्येषां तल्लोकवासिनां भोगभूमित्वात्। अतोऽग्निस्वामिकं लोकं प्राप्तोऽग्निनाऽतिवाह्यते वायुस्वामिकलोकं प्राप्तो वायुनेति योजयितव्यम्। कथं पुनरातिवाहिकत्वपक्षे वरुणादिषु तत्सम्भवः विद्युतोह्यधिवरुणादय उपक्षिप्ताः। विद्युतश्चानन्तरमा ब्रह्मप्राप्तेरमानवस्यैव पुरुषस्य गमयितृत्वं श्रुतमित्यतौत्तरं पठति। “वैद्युतेनैव तच्छ्रुतेः”। ततो विद्युदभिसम्भवादूर्द्धं विद्युदनन्तरवर्त्तिनैवामानयेन पुरुषेण वरुणलोकादिष्वतिवाह्यमाना ब्रह्मलोकं गच्छन्तोत्यवगन्तव्यम्। तान् वैद्युतान् पुरुषोऽमानवः स एतान् ब्रह्मलोकं गमयतीति तस्यैव गमयितृत्वश्रुतेः। वरुणादयस्तु तस्यैवाप्रतिबन्धकरणेन साहचर्य्यानुष्ठानेन वा केनचिदनुग्राहकाइत्यवगन्तव्यम्। तस्मात्सूक्तमातिवाहिकादेव तात्मानोऽर्चिरादय इति” शाङ्करभाष्यम्। अतिवाहे अतिवाहकाले इतोलोकान्तरगतिकाले भवः ठञ्। मनुष्याणां गृत्युकालभवे २ देहभेदे पु० शरीरविशेषणत्वे न०। “तत्क्षणादेव गृह्णाति शरोरमातिवाहिकम्। ऊर्द्ध्वं व्रजन्ति भूतानि ग्रीण्यस्मात्तस्य विग्रहात्”। विष्णुघ०। त्रीणि भूतानि तोजीवाय्वाकाशानि उर्द्धं गच्छन्ति गुरुत्वाभावात् पृथिवीजले तु गुरुत्वादधोगच्छत इत्यभिप्रायः तत्क्षणात् मृत्युक्षणं प्राप्येत्यर्थः “आतिवाहिकसंज्ञोऽसौ देहो भवति भार्गव! केवलं तन्मनुष्याणां नान्येषां प्राणिनां क्वचित्”। इति च तत्रैवोक्तम्। पञ्चभूतानामुर्द्ध्वाधोगतिश्च स्थूलभूतविषया सूक्ष्माणान्तु लिङ्गशरीराश्रयतया सर्वजीवानां देहान्तरप्राप्तौ तद्देहारम्भसाधनतयासहैव गमनम् यथाह “तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम्” शा० सू० व्याख्यातभिदं शङ्कराचार्य्येण “जोवोमुख्यप्राणसचिवः सेन्द्रियः समनस्कोविद्याकर्म्मपूर्ब्बप्रज्ञापरिग्रहः पूर्ब्बदेहं विहाय देहान्तरं प्रतिपद्यत इत्ये तदवगतं अथैनमेते प्राणा अभिसमायन्तीत्येवमादेरन्यन्नवतरं रूपं कुरुते इत्येवमन्तात् संसारप्रकरणस्थाच्छव्दात् धर्म्माधर्म्म फलोपभोगसंभवाच्च। स किं देहवीजैर्भूतसूक्ष्मैरसंपरिष्वक्तो गच्छति आहोस्वित् संपरिष्वक्त इति चिन्त्यते किं तावत् प्राप्तं असंपरिष्वक्त इति। कुतः करणोपादानवत् भूतोपादानस्याश्रुतत्वात्। “स एतास्तेजोमात्राः समभ्याददानः” इत्यत्र तेजोमात्राशब्देन करणानामुपादानं संकीर्त्तयति वाक्यशेषे चक्षरादिसंकीर्त्तनात्। नैवं भूतमात्रीपादानसंकीर्त्तनमस्ति सुलभाश्च सर्व्वत्र भूतमात्रा यत्रैव देह आरव्धव्यस्तत्रैव सन्तीति ततश्च तासां नयनं निष्पयोजनम्। त स्मादसंपरिष्वक्तोयातीत्येवं प्राप्ते पठत्याचार्थ्यः “तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्त” इति। तदन्तरप्रतिपत्तौ देहात् देहान्तरप्रतिपत्तौ देहवीजैर्भूतसूक्ष्मैः संपरिष्वक्तो गच्छतीत्यवगन्तव्यं कुतः प्रश्ननिरूपणाभ्याम्। तथा हि प्रश्नः “वेत्थ यथा पञ्चम्यामाहुतावापः पुरुष वचसो भवन्तीति”। निरूपणञ्च प्रतिवचनं द्युपर्ज्जन्य पृथिवीपुरुषयोषित्सु पञ्चस्वग्निषु श्रद्धासोमवृष्ट्यन्नरेतोरूपाः पञ्चाहुतीर्दर्शयित्वा “इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति”। तस्मादद्भिः परिवेष्टितो जीवोरं हतीति गम्यते। नन्वन्या श्रुतिर्जलौकावत् पूर्ब्बं देहं न मुञ्चति यावद्देहान्तरं न क्रामतीति दर्शयति तद्यथा तृणजलायुकेति तत्राप्परिवेष्टितस्यैव जीवस्य कर्म्मोपस्थापितप्रतिपत्तव्यदेहविषयभावाय दीघींभावमात्रं जलौकयोपमीयत इत्यविरोधः। एवं श्रुत्युक्ते देहान्तरप्रतिपत्ति प्रकारे सति याः पुरुषमतिप्रभवाः कल्पनाः व्यापिनां करणानामात्मनश्च देहान्तरप्रतिपत्तौ कर्म्मवशाद्व्रत्तिलाभस्तत्र तत्र भवति केवलस्यैव वात्मनोवृत्तिलाभस्तत्र तत्र भवति। इन्द्रियाणि तु देहवदभिनवान्येव तत्र तत्र भोगस्थान उत्पद्यन्ते, मनएव वा केवलं भोगस्थानमभिप्रतिष्ठते जीवएव वा उत्प्लुत्य देहाद्देहान्तरं प्रतिपद्यते शुकैव वृक्षाद्वृक्षान्तरमित्येवमाद्याः, ताः सर्व्वाएवानादर्त्तव्याः श्रुति विरोधात्। ननूदाहृताभ्यां प्रश्नप्रतिवचनाभ्यां केवलाभिरद्भिः संपरिष्वक्तो रंहति इति प्राप्नोति अप्शब्दश्रवणसामर्थ्यात् तत्र कथं सामान्येन प्रतिज्ञायते सर्व्वैरेव भूतसूक्ष्मैः संपरिष्वक्तो रंहतीत्यतौत्तरं पठति। “त्र्यात्मकत्वात्तुभूयस्त्वात्” सू०। “तुशब्देनचोदितामाशङ्कामुच्छिनत्ति त्र्यात्मिका ह्यापः त्रिवृत्करणश्रुतेः तास्वारम्भिकास्वभ्युपगतास्वितरदपि भूतद्वयमवश्याभ्युपगन्तव्यं भवति त्र्यान्मकश्चदेहः त्रयाणामपि तेजोबन्नानां तस्मिन् कार्य्योपलब्धेः पुनश्च त्र्यात्मकः त्रिधातुकत्वात् त्रिभिर्वातपित्तश्लेष्मभिर्व्याप्तत्वात् न स भूतान्तराणि प्रत्याख्याय केबलाभिरद्भिरारब्धुं शक्यते। तस्माद्भूयस्त्वापेक्षोऽयम् “आपः पुरुषवचसैति” प्रश्नप्रतिवचनयोरप्शब्दो न कैबल्यापेक्षः सर्व्वदेहेषु हि रसलोहितादिद्रवभूयस्त्वं दृश्यते। ननु पार्थिवोधातुर्भूयिष्ठोदेहेषूपलक्ष्यते नैष दोषः इतरापेक्षयापां बाहुल्यं भविष्यति दृश्यते च शुक्रशोणितलक्षणे पि देहवीजे द्रवबाहुल्यम्। कर्म्म च निमित्तं कारणं देहान्तरारम्भे कर्म्माणि चाग्निहोत्रादीनि सोमाज्यपयः प्रभृतिद्रवद्रव्यव्यपाश्रयाणि कर्म्मसमवायिन्यश्चापः श्रद्धाशब्दोदिताः सह कर्म्मिभिर्द्युलोकाख्येऽग्नौ हूयन्त इति वक्ष्यति तस्मादप्यपां बाहुल्य प्रसिद्धिः। बाहुल्याच्चाप्शब्देन सर्व्वेषामेव देहवीजानां भूतसूक्ष्माणामुपादानमिति निरवद्यम्। “प्राणगतेश्च” सू० “प्राणानाञ्च देहान्तरप्रतिपत्तौ गतिः श्राव्यते “तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तं सर्व्वे प्राणाअनूत्क्रामन्तीत्यादि” श्रुतिभिः। सा च प्राणानां गतिर्नाश्रयमन्तरेण सम्भवतीत्यतः प्राणगतिप्रयुक्तानां तदाश्रयभूतानामपामपि भूतान्तरोपसृष्टानां गतिरवगम्यते। न हि निराश्रयाः प्राणाःक्वचिद्गच्छन्ति तिष्ठन्ति वा जीवतोऽदर्शनात्” भा०। मनुरपि “यदाणुमात्रिकोभूत्वा वीजं स्थास्नु चरिष्णुच। समाविशति संसृष्टस्तदा मूर्त्तिं विमुञ्चति” सूक्ष्मभूतैःसंसृष्टस्यैव गतिमाह। अत्र अणुपदं पुर्य्यष्टकोपलक्षणम्। “भूतेन्द्रियमनोबुद्धिवासनाकार्यवायवः। अविद्या चाष्टकं प्रोक्तं पुर्य्यष्टकमिदं पुनः” सनन्दोक्तेः “पुर्य्यष्टकेन लिङ्गेन प्राणाद्येन स युज्यते। तेन बद्धस्य वै बन्धोमोक्षीमुक्तस्य तेन वै” ब्रह्मपु० उक्तेश्च मंसृतिकाले पुर्य्यष्टकस्य परलोकगामित्वसिद्धेः। आतिवाहिकशरीरसत्त्वेऽन्यथानुपपत्तिरेव प्रमाणम् तत्स्वरूपञ्चोक्तं सांख्यसूत्रभाष्यादौ। “तद्वीजात् संसृतिः” सू०। तस्य शरीरस्य वीजात् त्रयोविंशतितत्त्वरूपात् सूक्ष्माद्धेतोः पुरुषस्य संसृतिर्गतागते भवतः कूटस्थस्य विभुतया स्वतो गत्याद्यसम्भवादित्यर्थः त्रयोविंशतितत्त्वेऽवस्थितो हि पुरुषस्तेनैवोपाधिना पूर्ब्बकृतकर्मभोगार्थं देहाद्देहं संसरति। “मानसं मनसैवायमुपभुङ्क्ते शुभाशुभम्। वाचा वाचा कृतं कर्म कायेनैव तु कायिकम्” इत्यादिस्मृतिभिः पूर्वसर्गीयकरणैरेवोत्सगेतः सर्गान्तरेषूपभोगसिद्धेः। अतएव ब्रह्मसूत्रम् “तदन्तरप्रतिपत्तौ रं हति सम्परिष्वक्त इति”। संसृतेरवधिमप्याह। “आविवेकाच्च प्रवर्त्तनमविशेषाणाम्” सू०। “ईश्वरानीश्वरत्वादिविशेषरहितानां सर्वेषामेव पुंसां विवेकपर्य्यन्तमेव प्रवर्त्तनं संसृतिरावश्यकी विवेकोत्तरं च न सा तत्र हेतुमाह। “उपभोगादितरस्य” सू०। इतरस्याविवेकिन एव स्वीयकर्मफलभोगावश्यम्भावादित्यर्थः। देहसत्त्वेऽपि संसृतिकाले भोगो नास्तीत्याह। “सम्प्रति परिमुक्तो द्वाभ्याम्” सू। सम्प्रति संसृतिकाले पुरुषो द्वाभ्यां शीतोष्णसुखदुःखादिद्वन्द्वैः परिमुक्तो भवतीत्यर्थः। तदेतत्कारिकयोक्तम्। “संसरति निरुपभोगं भावैरधिवासितं लिङ्गम्”। इति। भावा धर्माधर्मवासनादयः। अतः परं शरीरद्वयं विशिष्य वक्तुमुपक्रमते। “मातापितृजं स्थूलं प्रायश इतरन्न तथा” सू०। स्थूलं मातापितृजं प्रायशो बाहुल्येनायोनिजस्यापि स्थूलशरीरस्य स्मरणादितरच्च सूक्ष्मशरीरं न तथा न मातापितृजं सर्गादावुत्पन्नत्वादित्यर्थः। तदुक्तं कारिकया। “पूर्व्वोत्पन्नमसक्तं नियतं महदादि सूक्ष्मपर्यन्तम्। संसरति निरुपभोगं भावैरधिवासितं लिङ्गम्” इति नियतं नित्यं द्विपरार्धस्थायि गौणनित्यं प्रतिशरीरं लिङ्गोत्पत्तिकल्पने गौरवात्। प्रलये तु तन्नाशः श्रुतिस्मृतिप्रामाण्यादिष्यते। गतिकाले भोगाभाववचनमुत्सर्गाभिप्रायेण। कदाचित् तु वायवीय- शरीरप्रवेशतो गमनकालेऽपि भोगो भवति। अतो यममार्गे दुःखभोगवाक्यान्युपपद्यन्ते। स्थूलसूक्ष्मशरीरयोर्मध्ये किमुपाधिकः पुरुषस्य द्वन्द्वयोगस्तदवधारयति। “पूर्वोत्पत्तेस्तत्कार्यत्वं भोगादेकस्य नेतरस्य” सू०। पूर्वं सर्गादावुत्पत्तिर्यस्य लिङ्गशरीरस्यतस्यैव तत्कार्यत्वं सुखदुःखकार्यकत्वं कुत एकस्य लिङ्गदेहस्यैव सुखदुःखाख्यभोगात् न त्वितरस्य स्थूलशरोरस्य मृतशरीरे सुखदुःखाद्यभावस्य सर्वसम्मतत्वादित्यर्थः। उक्तस्य सूक्ष्मशरीरस्य स्वरूपमाह। “सप्तदशैकं लिङ्गम्” सू०। सूक्ष्मशरीरमप्यधाराधेयभावेन द्विविधं भवति तत्र सप्तदश मिलित्वा लिङ्गशरीरं तच्च सर्गादौ समष्टिरूपमेकमेव भवतीत्यर्थः। एकादशेन्द्रियाणि पञ्च तन्मात्राणि बुद्धिश्चेति सप्तदश। अहङ्कारस्य बुद्धावेवान्तर्भावः। चतुर्थसूत्रे वक्ष्यमाणप्रमाणादेतान्येव सप्तदशलिङ्गं मन्तव्यं न तु सप्तदश एकं चेत्यष्टादशपरतया व्याख्येयम्। उत्तरसूत्रेण व्यक्तिभेदस्योपपाद्यतयात्र लिङ्गैकत्वे एकशब्दस्यतात्पर्याबधारणाच्च। “कर्मात्मा पुरुषो योऽसौ बन्धमोक्षैः प्रयुज्यते। स सप्तदशकेनापि राशिना युज्यते च सः” इति मोक्षधर्मादौ लिङ्गशरीरस्य सप्तदशत्वसिद्धेश्च सप्तदशावयवा अत्र सन्तीति सप्तदशको राशिरित्यर्थः। राशिशब्देनस्थूलदेहवल्लिङ्गदेहस्यावयवित्वं निराकृतम्। अवयविरूपेण द्रव्यान्तरकल्पनायां गौरवात्। स्थूलदेहस्य चावयवित्वमेकतादिप्रत्यक्षानुरोधेन कल्प्यत इति। अत्र च लिङ्गदेहे बुद्धिरेव प्रधानेत्याशयेन लिङ्गदेहस्य भोगः प्रागुक्तः। प्राणश्चान्तःकरणस्यैव वृत्तिभेदः। अतो लिङ्गदेहे प्राणपञ्चकस्याप्यन्तर्भाव इत्यस्य सप्तदशावयवकस्य शरीरत्वं स्वयं वक्ष्यति “लिङ्गशरीरनिमित्तक इति सनन्दनाचार्य” इति सूत्रेण। अतो भोगायतनत्वमेव मुख्यं शरीरलक्षणम्। तदाश्रयतया त्वन्यत्र शरीरत्वमिति पश्चाद्व्यक्तीभविष्यति। “चेष्टेन्द्रियार्थाश्रयः शरीरमिति” तु न्यायेऽपि तस्यैव लक्षणं कृतमिति। ननु लिङ्गंचेदेकं तर्हि कथं पुरुषभेदेन विलक्षणा भोगाः स्युस्तत्राह। “व्यक्तिभेदः कर्मविशेषात्” सू० यद्यपि सर्गादौ हिरण्यगर्भोपाधिरूपमेकमेव लिङ्गं तथापि तस्य पश्चाद्व्यक्तिभेदो व्यक्तिरूपेणांशतो नानात्वमपि भवति। यथेदानीमेकस्य पितृलिङ्गदेहस्य नानात्वमंशतो भवति पुत्रकन्यादिलिङ्गदेहरूपेण। तत्र कारणमाह कर्मविशेषादिति। जीवान्तराणां भोगहेतुकर्मादेरित्यर्थः। अत्र विशेषवचनात् समष्टिसृष्टिर्जीवानां साधारणैः कर्मभिर्भवतीत्यायातम्। अयं च व्यक्तिभेदो मन्वादिष्वप्युक्तः। यथा मनौ समष्टिपुरुषस्य षडिन्द्रियोत्पत्त्यनन्तरम्। “तेषां त्ववयवान् सूक्ष्मान् षण्णामप्यमितौजसाम्। सन्निवेश्यात्ममात्रासु सर्वभूतानि निर्ममे” इति षण्णामिति समस्तलिङ्गशरीरोपलक्षणम्। आत्ममात्रासु चिदंशेषु संयोज्येत्यर्थः। तथा च तत्रैव वाक्यान्तरम्। “तच्छरीरसमुत्पन्नैः कार्यैस्तैः करणैः सह। क्षेत्रज्ञाः समजायन्त गात्रेभ्यस्तस्य धीमतः”। इति नन्वेवं भोगायतनतया लिङ्गस्यैव शरीरत्वे स्थूले कथं शरीरत्वव्यवहारस्तत्राह। “तदधिष्ठानाश्रये देहे तद्वादात् तद्वादः” सू०। तस्य लिङ्गस्य यदधिष्ठानमाश्रयो वक्ष्यमाणभूतपञ्चकं तस्याश्रये षाट्कौशिके देहे तद्वादो देहवादस्तद्वादात् तस्याधिष्ठानशब्दोक्तस्य देहस्य वादादित्यर्थः लिङ्गसम्बन्ध्वादधिष्ठानस्य देहत्वमधिष्ठानाश्रयत्वाच्च स्थूलस्य देहत्वमिति पर्यवसितोऽर्थः। अधिष्ठानशरीरं च सूक्ष्म पञ्चभूतात्मकं वक्ष्यते तथा च शरीरत्रयं सिद्धम्। यत् तु “आतिवाहिक एकीऽस्ति देहोऽन्यस्त्वाधिभौतिकः। सर्वासां भूतजातानां ब्रह्मणस्त्वेक एव किम्” इत्यादिशास्त्रेषु शरीरद्वयमेव श्रूयते तल्लिङ्गशरीराधिष्ठानशरीरयोरन्योऽन्यनियतत्वेन सूक्ष्मत्वेन चैकताभिप्रायादिति। ननु षाट्कौशिकातिरिक्ते लिङ्गशरीराधिष्ठानभूते शरीरान्तरे किं प्रमाणमित्याकाङ्क्षायामाह। “न स्वातन्त्र्यात् तदृते छायावच्चित्रवच्च” सू०। “तल्लिङ्गशरीरं तदृतेऽधिष्ठानं विना स्वातन्त्र्यान्न तिष्ठति। यथा छाया निराधारा न तिष्ठति यथा वा चित्रमित्यर्थः तथा च स्थूलदेहं त्यक्त्रा लोकान्तरगमने लिङ्गदेहस्याधारभूतं शरीरान्तरं सिध्यतीति भावः। तस्य च स्वरूपं कारिकायामुक्तम्। “सूक्ष्मा मातापितृजाः सह प्रभूतैस्त्रिधा विशेषाः स्युः। सूक्ष्मास्तेषां नियता मातापितृजा निर्वन्तते” इति। अत्र तन्मात्रकार्यं मातापितृजशरोरापेक्षया सूक्ष्मं यद्भ तपञ्चकं यावल्लिङ्गस्थायि प्रोक्तं तदेव लिङ्गाधिष्ठानं शरीरमिति लब्धं कारिकान्तरेण। “चित्रं यथाश्रयमृते स्थाण्वादिभ्यो विना यथा छाया। तद्वद्विना विशेषैर्न तिष्ठति निराश्रयं लिङ्गम्”। इति। विशेषैः स्थूलभूतैः सूक्ष्माख्यैः, स्थूलावान्तरभेदैरिति यावत्। अस्यां कारिकायां सूक्ष्माख्यानां स्थूलभूतानां लिङ्गशरीराद्भेदावगमेन “पूर्वोत्पन्नमसक्तं नियतं महदादि सूक्ष्मपर्यन्तम्”। इत्यादिपूर्वोदाहृतकारिकायां सूक्ष्मभूतपर्यन्तस्य लिङ्गत्वं तार्थः किन्तु महदादिरूपं यल्लिङ्गं तत् स्वाधारसूक्ष्मप- र्यन्तं संसरति तेन सह संसरतीत्यर्थः। नन्वेवं लिङ्गघटकपदार्थाः कियन्त इति कथमवधार्यमिति चेत्। “वासनाभूतसूक्ष्मं च कर्माविद्ये तथैव च। दशेन्द्रियं मनो बुद्धिरेतल्लिङ्गं विदुर्बुधाः इति वाशिष्ठादिवाक्येभ्यः। अत्र लिङ्गशरीरप्रतिपादनेनैव पुर्यष्टकमपि व्याख्येयमित्याशयेन बुद्धिधर्माणामपि वासनाकर्माविद्यानां पृथगुपन्यासः। भूतसूक्ष्मं चात्र तन्मात्रा। दशेन्द्रियाणि च ज्ञानकर्मेन्द्रियभेदेन पुरोद्वयमित्याशयः। यत् तु मायावादिनो लिङ्गशरीरस्य तन्मात्रस्थाने प्राणादिपञ्चकं प्रक्षिपन्ति पुर्यष्टकं चान्यथा कल्पयन्ति तदप्रामाणिकमिति। ननु मूर्तद्रव्यतया वाय्वादेरिव लिङ्गस्याकाशमेवासङ्गेनाधारोऽस्तु व्यर्थमन्यत्र सङ्गकल्पनमिति तत्राह। “मूर्तत्वेऽपि न सङ्घातयोगात् तरणिवत्” सू० मूर्तत्वेऽपि न स्वातन्त्र्यादसङ्गतयावस्थानं प्रकाशरूपत्वेन सूर्यस्येव सङ्घातसङ्गानुमानादित्यर्थः। सूर्यादीनि सर्वाणि तेजांसि पार्थिवद्रव्यसङ्गेनैवावस्थितानि दृश्यन्ते लिङ्गं च सत्त्वप्रकाशभयमतो भूतसङ्गतमिति। लिङ्गस्य परिमाणमवधारयति। “अणुपरिमाणं तत्कृतिश्रुतेः” सू० तल्लिङ्गमणुपरिमाणं परिच्छिन्नं न त्वत्यन्तमेवाणु सावयवस्योक्तत्वात्। कुतः कृतिश्रुतेः क्रियाश्रुतेः। “विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि च” इत्यादिश्रुतेर्विज्ञानाख्यबुद्धिप्रधानतया विज्ञानस्य लिङ्गस्याखिलकर्मश्रवणादित्यर्थः। विभुत्वे सति क्रिया न संम्भवति। तद्गतिश्रुतेरिति पाठस्तु समीचीनः। लिङ्गशरीरस्य च गतिश्रुतिः “तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तं सविज्ञानो भबति सविज्ञानमेवानूत्क्रामतीति” सविज्ञानो बुद्धिसहित एव जायते सविज्ञानं यथा स्यात् यथा संसरति चेत्यर्थः। परिच्छिन्नत्वे युक्त्यन्तरमाह। “तदन्नमयत्वश्रुतेश्च” सू० तस्य लिङ्गस्यैकदेशतोऽन्नमयत्वश्रुतेर्न विभुत्वं सम्भवतीति। विभुत्वे सति नित्यतापत्तेरित्यर्थः। सा च श्रुतिः “अन्नमयं हि सौम्य! मन आपोमयः प्राणस्तेजोमयी वागित्यादिः”। यद्यपि मन आदीनि न भौतिकानि तथाप्यन्नसंसृष्टसजातीयांशपूरणादन्नमयत्वादिव्यवहारो बोध्यः। अचेतनानां लिङ्गानां किमर्थं संसृतिर्देहाद्देहान्तरसञ्चार इत्याशङ्कायामाह। “पुरुषार्थं संसृतिर्लिङ्गानां सूपकारवद्राज्ञः” सू० यथा राज्ञः सूपकाराणां पाकशालासु सञ्चारो राजार्थं तथा लिङ्गशरीराणां संसृतिः पुरुषार्थमित्यर्थः” प्र० भाष्यम् सूक्ष्मदेहसत्त्वे प्रमाणं सांख्यतत्त्वकौमुद्यामित्थं दर्शितम्। “स्यादेतद्बुद्धिरेव साहङ्कारेन्द्रिया कस्मान्न संसरति कृतं सूक्ष्मशरीरेणाप्रामाणिकेनेत्यत आह। “चित्रं यथाश्रयमृते स्थाण्वादिभ्योविना यथा छाया। तद्वद्विना विशेषैर्न तिष्ठति निराश्रयं लिङ्गम्”। लिङ्गनात् ज्ञापनात् बुद्ध्यादयोलिङ्गं तत् अनाश्रितं न तिष्ठति। जन्मप्रयाणान्तराले बुद्ध्यादयः प्रत्युत्पन्नशरीरश्रिताः प्रत्युत्पन्नपञ्चतन्मात्रवत्त्वे सति बुद्ध्यादित्वात् दृश्यमानशरीरवृत्तिबुद्ध्यादिवत्। विना विशेषैरिति सूक्ष्मैः शरीरैरित्यर्थः। आगमश्चात्र भवति “अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमोवलादिति”। अङ्गुष्ठमात्रत्वेन सूक्ष्मतामुपलक्षयति आत्मनोनिष्कर्षासम्भवेन सूक्ष्ममेव शरीरं पुरुषस्तदपि हि पुरि स्थूलशरीरे शेते”। एवञ्च सर्वेषां भूतानां संसरणकाले सूक्ष्मदेहस्यावश्यकत्वे स्थिते मनुष्याणामेव दाहाद्यूर्द्धम् आतिवाहिकदेहान्तरोत्पत्तिर्नत्वन्येषां प्रागुक्तवचनात् असति तु दाहादो नृणां श्माशानिकभूतभावप्राप्तिरिति भेदः यथोक्तम्” शुद्धित० विष्णु०। “अतिवाहिकसंज्ञोऽसौ देहो भवति भार्गव!। केवलं तन्मनुष्ठाणां नान्येषां प्राणिनां क्वचित्” इत्युपक्रम्य प्रेतपिण्डैस्तथा दत्तैर्देहमाप्नोति भार्गव!। भोगदेहमिति प्रोक्तं क्रमादेव न संशयः। प्रेतपिण्डा न दीयन्ते यस्य तस्य विमोक्षणम्। श्माशानिकेभ्यो भूतेभ्यो नाकल्पमेव विद्यते। तत्राऽस्य घातना घोरा शीतवातातपीद्भवा इति” अत्र प्रे तकार्य्याकरणे दोषाभिधानम्। निन्दार्थवादी विधेयस्तुत्यर्थम् “न निन्द्यं निन्दनीयं निन्दति किन्तु विघेयं स्तोताति” न्यायात्। एतच्च विद्वद्भिन्नविषयम् छा० उ० विदुषः दैवात्तदकरणेऽपि अर्चिरादिप्राप्तेरुक्तेः “अथ यदु चैवास्मिन् शव्यं कुर्व्वन्ति यदि न, अर्चिषमेवाभिसन्धवन्तीति”। एतद्भाष्यञ्च ६५१ पृष्ठे प्राग् दर्शितन्। एवं गयाश्राद्धादावपि “अग्निदग्धाश्च ये जीवा नाग्निदग्धास्तथाऽपरे तेषामुरद्धणार्थाय इमं पिण्डं ददाम्यहमिति। मन्त्रलिङ्केनानग्निदग्धस्याप्युद्धारप्रतिपादनात्। निष्कर्षस्त संसृतिकाले प्राणिमात्रस्य सूक्ष्मदेहप्राप्तिः तत्र पश्वादीनां दाहादिकर्म्मादिकमन्तरेणापि स्वस्वकर्म्मानुसारेण देहान्तरप्राप्तिः मनुष्याणान्तु विद्वदादिव्यतिरिक्तानां दाहादिकमन्तरेण श्माशानिकभूतभावप्राप्तिः कृते तु दाहादौ आतिवाहिकदेहप्राप्तिः पूरकपिण्डादौ पुनः प्रेतदेहप्राप्तिः सपण्डीकरणात्परं भोगदेहप्राप्तिः। तीर्थमृतानां न तु प्रेतदेह इति भेदः “कृते सपिण्डीकरणे नरः संवत्सरात्परम्। प्रेतदेहं परित्यज्य भोगदेहं प्रपद्यते इत्युक्तेः” “ततः स नरकेयाति स्वर्गे वा स्वेन कर्मणा” इत्युक्तेश्च विदुषां महातीर्थमृतानां तु दैवात् दाहादिकार्य्याकरणेऽपि अर्च्चिरादिमार्गेण तत्तत्स्थानयोग्यदेहप्राप्तिरिति।
आतिशय्य = न० अतिशय एव स्वार्थे ष्यञ्। अतिशये।
आतिश्वायन = त्रि० अतिक्रान्तः श्वानम् नि० न समासान्तः अतिश्वा दासः अत्यधीनत्वात् अतिश्वन् + चतुरर्थ्यां पक्षा० फक्। दाससन्निकृष्टदेशादौ।
आतिष्ठ = न० अति + स्था–क षत्वम् अतिष्ठस्तस्य भावः अण्। अतिक्रम्य स्थितौ उत्कर्षे। “आधिपत्याय स्वावश्यायातिष्ठायाऽऽरोहामि” ऐ० व्रा०।
***