आगत = त्रि० आ + गम–क्त। १ आयाते, २ उपस्थिते, ३ प्राप्ते च। “हेयं दुःखमनागेतम्” पात० “क्रमादभ्यागतं द्रव्यं हृतमभ्युद्धरेत्तुयत्” स्मृतिः। “पितृतआगतम् पित्र्यमिति” दायभा०। “तत आगतः” पा०। आगता वत जरेव हिमानी सेव्यतां सुरतरङ्गिणी” उद्भटः भावे क्त। ४ आगमने न० “गतागतं कामकामा लभन्ते” गीता।

आगति = स्त्री आ + गम–क्तिन्। १ आगभने “लोकस्यास्य गतागतिम्” रामा०। २ प्राप्तौ च तासामध्वर्य्युरागतौ यवो वृषीव मोदते” ऋ० २, ५, ६,। वेदैः शास्त्रैः सविज्ञानैर्जन्मना मरणेन च। आर्त्त्या गत्या तथाऽऽगत्या” याज्ञवल्क्यः।

आगत्य(म्य) = अव्य० आ + गम–ल्यप् वा मोलोपे तुक्। आगमनं कृत्वेत्यर्थे तत्त्वमागत्य सत्येन” याज्ञ०। “आगत्य विल्वशाखायां चण्डिके! कुरु सन्निधिम्” पुरा०।

आगन्तव्य = त्रि० आ + गम–तव्य। १ आगम्ये प्राप्ये “आगन्तव्यं तु नोद्रष्ट्रुं पुनराश्रममण्डलम्” भावे तव्य। २ अवश्योगमने न० आगन्तव्य झटितिमथुरामण्डलात् गोपकान्ते! पदाङ्कदूतम्।

आगन्तु = पु० आ + गम–तुन्। १ अनियतस्थायिनि अतिथौ “वैदर्भमागन्तुमजं गृहेशम्” रघुः। २ हठादुपस्थिते च आगन्तुना सह मैत्री न कर्त्तव्या” हितो०। ३ आगमनशीले त्रि०। स्वार्थे कन्। आगन्तुकोऽप्यत्र।

आगन्तुज = त्रि० आगन्तोः हठादुपस्थितात् जायते जन–ड। हठोपस्थितजाते रोगादौ। “आगन्तुजे भिषग्रोगे शस्त्रेणोत्कृत्य यत्नतः”। “दोषागन्तुजमृत्युभ्योरसमन्त्रविशारदौ” सुश्रुतः।

आगम = पु० आ + गम–घञ्। १ आगतौ २ प्राप्तौ ३ उत्पत्तौ च “आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत!” गीता, आगम्यते प्राप्यतेऽनेन करणे घञ्। ४ सामाद्युपाये “आगमैः सदृशारम्भ आरम्भसदृशोदयः” रघुः आगम्यते स्वत्वभनेन। स्वत्वप्रापके ५ क्रयप्रतिग्रहादौ “आगमोनिष्फलस्तत्र भुक्तिःस्तोकापि यत्र नो” या० स्मृतिः “अनागमन्तु यो भुङ्क्ते बहून्यब्दशतान्यपि” स्मृतिः” यादशागमस्व प्रामाण्यं तन्निरूपितम् मिता०। “भोगमात्रस्य स्वत्वव्यभिचारात् कीदृशोभोगः प्रमाणमित्यत आह। “आगमोऽभ्यधिकोभोगाद्विना पूर्व्वेक्रमागतात्” या० स्वत्वहेतुः प्रतिग्रहक्रेयादिरागमः। स भोगादभ्यधिकोबलीयान् स्वत्वबोधने० भोगस्यागमसापेक्षत्वात्। यथाह नारदः। “आगमेन विशुद्धेन भोगोयाति प्रमाणताम्। अविशुद्धागमो भोगः प्रामाण्यं नैव गच्छतीति”। न च भोगमात्रात्स्वत्वावगमः परकीयस्याप्यपहारादिनोपभोगसम्भवात्। अतएव “भोग तु केवलंयस्तु कीर्त्तयेन्नागमं क्वचित्। भोगच्छलापदेशेन विज्ञेयः स तु तस्कर” इति स्मर्य्यते। अतश्च सागमोदीर्घकालो निरन्तरो निराक्रोशः प्रत्यर्थिप्रत्यक्षश्चेति पञ्चविशेषणयुक्तो भोगः प्रमाणमित्युक्तम्भवति। तथा च स्मर्य्यते। “सागमो दीर्घकालश्चाविच्छेदोऽन्यरवोज्झितः। प्रत्यर्थिसन्निधानश्च परिभोगोऽपि पञ्चधेति”। क्वचिच्चागमनिरपेक्षस्यापि भोगस्य प्रामाण्यमित्याह। विना पूर्व्वक्रमागतादिति। पूर्ब्बेषां पित्रादीनां त्रयाणां क्रमः पूर्बक्रमस्तेनागतो यो भोगस्तस्माद्विना आगमोऽभ्यधिक इति सम्बन्धः। स पुनरागमादभ्यधिकः आगमनिरपेक्षः प्रमाणमित्यर्थः तत्राप्यागमज्ञाननिरपेक्षो न सत्त्वनिरपेक्षः सत्ता तु तेनैवावगम्यत इति बोद्धव्यम्। विना पूर्ब्बक्रमागतादित्येतच्च स्मार्त्तकालप्रदर्शनार्थम्। “आगमोऽभ्यधिकोभोगादिति” च स्मार्त्तकालविषयम्। अतश्च स्मरणयोग्येकाले योग्यानुपलब्ध्यागमाभावनिश्चयसम्भवादागम ज्ञानसापेक्षस्यैव भोगस्य प्रामाण्यम्। स्मार्त्ते तु काले योग्यानुपलब्ध्यभावेनागमाभावनिश्चयासम्भवादागमज्ञान निरपेक्ष एव सन्ततो भोगः प्रमाणम्। एतदेव स्यष्टीकृतङ्कात्यायनेन। “स्मार्त्तेकाले क्रिया भूमेः सागमा भुक्तिरिष्यते स्मार्त्तेत्वनुगमाभावात् क्रमात् त्रिषुरुषागता”। स्मार्त्तश्च कालो वर्षंशतपर्य्यन्तः “शतायुर्वै पुरुष इति” श्रुतेः। अनुगमाभावादिति योग्यानुपलब्ध्यभावेनागमाभावनिश्चयाभावादिति। अतश्च वर्षशताधिको भोगः सन्ततोऽप्रतिरवः प्रत्यर्थिप्रत्यक्षश्चागमाभावे चानिश्चिते अव्यभिचारादाक्षिप्तागमः स्वत्वं गमयति। स्मार्त्तेऽपि कालेऽनागमस्मृतिपरम्परायां सत्यां न भोगः प्रमाणम्। अतएव “अनागमन्तु यो भुङ्क्ते बहून्यब्दशतान्यपि। चौरदण्डेनतम्पापन्दण्डयेत्पृथिवीपति” रित्युक्तम्। न चानागमन्तु यो भुङ्क्तैत्येकवचननिर्द्देशाद्बहून्यब्दशतान्यपीत्यपिशब्दप्रयोगात् प्रथमस्य पुरुषस्य निरागमे चिरकालोपभोगेऽपि दण्डविधानमिति मन्तव्यं द्वितीये तृतीये वा पुरुषे निरागमस्य भोगस्य प्रामाण्यप्रसङ्गात् नचैतदिष्यते “आदौ तु कारणन्दानं मध्ये भुक्तिस्तु सागमेति” नारदस्मरणात्। तस्मात् सर्वत्र निरागमोपभोगे “अनागमन्तु योभुङ्क्त इत्येतद्द्रष्टव्यम् यदपि “अन्यायेनापि यद्भुक्तं पित्रा पूर्बतरैस्त्रिभिः। न तच्छक्यमपाहर्त्तुं क्रमात्त्रिपुरुषागतमिति”। पित्रा सह पूर्बतरैस्त्रिभिरिति योज्यम्। तत्रापि क्रमात् त्रिपुरुषागतमित्यस्मार्त्तकालोपलक्षणम्। त्रिपुरुषविवक्षायामेकवर्षाभ्यन्तरेऽपि पुरुषत्रयातिक्रमसम्भवाद्द्वितीये वर्षे निरागमस्य भोगस्य प्रामाण्यप्रसङ्गः तथा सति “स्मार्त्ते काले क्रिया भूमेः सागमा भुक्तिरिष्यत” इति स्मृतिविरोधः। “अन्यायेनापि यद्भुक्तमित्येतच्चान्यायेनापि भुक्तमपहर्त्तुन्न शक्यं किम्पुनरन्यायानिश्चयैति व्याख्येयमपिशब्द श्रवणात्। यच्चोक्तम्। “यद्विनागममत्यन्तम्भुक्तं पूर्ब्बैस्त्रिभिर्भवेत्। न तच्छक्यमपाकर्त्तुं क्रमात् त्रिपुरुषागतमिति” तत्राप्यत्यन्तमागमं विनेत्यत्यन्त मुपलभ्यमानमागमं विनेति व्याख्येयम्। न पुनरागम स्वरूपं विनेति आगमस्वरूपाभावे भोगशतेनापि न स्वत्वं भवतीत्युक्तं क्रमात्त्रिपुरुषागतमित्येतदुक्तार्थम्। ननु स्मरणयोग्ये काले भोगस्यागमसापेक्षस्य प्रामाण्यमनुपपन्नम्। तथाहि। यद्यागमः प्रमाणान्तरेणावगतस्तदा तेनैव स्वत्वावगमान्न भोगस्य स्वत्वे आगमे वा प्रामाण्यम् अथ प्रामाणान्तरेण नागमोऽवगतः कथन्तद्विशिष्टोभोगः प्रमाणम्। उच्यते। प्रामाणान्तरेणावगतागमसहित एव निरन्तरोभोगः कालान्तरे स्वत्वङ्गमयति। अवगतोऽप्यागमोभोगरहितो न कालान्तरे स्वत्वङ्गमयितुमलं मध्ये दानविक्रयादिना स्वत्वापगमसम्भवादिति सर्वमनवद्यम्। आगमसापेक्षो भोगः प्रमाणमित्युक्तम्। आगमस्तर्हिभोगनिरपेक्ष एव प्रमाणमित्यत आह। “आगमेऽपि बलं नैव भुक्तिस्तोकापि यत्र नो” या० यस्मिन्नागमे स्वल्पापिभुक्तिर्नोनास्ति तस्मिन्नागमे बलं सम्पूर्णं नैवास्ति। अयमभि सन्धिः स्वत्वनिवृत्तिपरस्वत्वापादनञ्च दानम्। परस्वत्वापादानं च परो यदि स्वीकरोति तदा सम्पद्यते नान्यथा। स्वीकारस्त्रिविधोमानसो वाचिकः कायिकश्चेति। तत्र मानसोममेदमिति संकल्परूपः। वाचिकस्तु ममेदमित्याद्यभिव्यवहारोल्लेखी स विकल्पकः प्रत्ययः। कायिकः पुनरुपादानाभिमर्शनादिरूपोऽनेकविधः तत्र च नियमः स्मर्य्यते “दद्यात्कृष्णाजिनम्पुच्छे गां पुच्छे करिणङ्करे। केशरेषु तथैवाश्वन्दासींशिरसि दापयेदिति”। आश्वलायनोऽप्याह। “अनुमन्त्रयेत् पाणिनाभिमृशेत् प्राणिनं कन्यां चेति”। तत्र हिंरण्यवस्त्रादावुदकदानान्तमेवोपादानादिसम्भवात् त्रिविधोऽपि स्वीकारः सम्पद्यते। क्षेत्रादौ पुनः फलोपभोग व्यतिरेकेण कायिकस्वीकारासम्भवात् स्वल्पेनाप्यपभोगेन भवितव्यम्। अन्यथा दानक्रयादेः सम्पूर्णतान भकतीति फलोपभोगलक्षणकायिकस्वीकारविकलश्चागमो दुर्बलो भवति तत्सहितादागमात्। एतच्च द्वयोः पूर्ब्बापरकालापरिज्ञाने। पूर्वापरकालज्ञाने तु विगुणोऽपि पूर्व्वकालागम एव बलीयानिति। अथ वा “लिखितं साक्षिणोभुक्तिः प्रमाणं त्रिविधं स्मृत” मित्युक्तम्। एतेषां समवायेकुत्र कस्य प्राबल्यमित्यत्रेदमुपतिष्ठते। “आगमोऽभ्यधिको भोगाद्विनापूर्व्वक्रमागतात्। आगमेऽपि बलं नैव भुक्तिः स्तोकापि यत्र नो” इति अयमर्थः। आद्ये पुरुषे साक्षिभिर्भावितश्चागमो भोगादभ्यधिकोबलवान्पूर्वक्रमागताद् भोगा द्विना। स पुन पूर्व्वक्रमागतो भोगश्चतुर्थे पुरुषे लिखितेन भावितादागमात्बलवान् मध्यमे तु भोगरहितादागमात् स्तोकभोगसहितोऽप्यागमो बलवानिति। एतदेव नारदेन स्पष्टीकृतं “आदौ तु कारणन्दानं मध्ये भुक्तिस्तु सागमा। कारणं भुक्तिरेवैका सन्तता या चिरन्तनीति” “पश्यतो ब्रुवत इत्यत्र विंशतिवर्षभोगादूर्द्ध्वं भूमेर्द्धनस्यापि दशवर्षभोगादूर्द्धं फलानुसरणं न भवतीत्युक्तम्। तत्र फलानुसरणवद्दण्डानुसरणमपि न भविष्यतीत्याशङ्क्य पुरुषव्यवस्थया प्रमाणव्यवस्थया च दण्डव्यवस्थां दर्शयितुमाह। “आगमस्तु कृतोयेन सोऽभियुक्तस्तमुद्धरेत्। न तत्सुतस्तत्सुतो वा भुक्तिस्तत्र गरीयसो” या०। येन पुरुषेण भूम्यादेरागमःस्वीकारः कृतः। स पुरुषः कुतस्ते क्षेत्रादिकमित्यभियुक्तस्तमागमं प्रतिग्रहादिकं लिखितादिभिरुद्धरेत् भावयेत्। अनेनचाद्यपुरुषस्यागममनुद्धरतोदण्ड इत्युक्तं भवति तत्सुतो द्वितीयोऽभियुक्तोनागममुद्धरेत्, किन्तु अविच्छिन्नाप्रतिरवसमक्षभोगम्। अनेनचागममनुद्धरतो द्विती यस्य न दण्डोऽपि तु विशिष्टम्भोगमनुद्धरतो दण्ड इति प्रतिपादितम्। तत्सुतस्तृतीयोनागमं नापि विशिष्टम्भोगमुद्धरेदपि तु क्रमागतम्भोगमात्रम्। अनेनापि तृतीयस्य क्रमायातभोगानुद्धरणे दण्डोनागमानुद्धरणे न विशिष्टभोगानुद्धरणे वेत्यभिहितम्। तत्र तयोर्द्वितीययोर्भुक्तिरेव गरीयसी। तत्रापि द्वितीये गुरुः तृतीये गरोयसीति विवेक्तव्यम्। त्रिष्वप्यागमानुद्धंरणेऽर्थहानिः समानैव दण्डे तु विशेष इति तात्पय्यार्थः। उक्तञ्च। “आगमस्तु कृतोयेन स दण्ड्यस्तमनुद्धरन्। न तत्सुतस्ततसुतो वा भोगहानिस्तयोरपि”। अस्मार्त्तकालोपभोगस्यागमज्ञाननिरपेक्षस्य प्रामाण्यमुक्तं विना पूर्ब्बक्रमागता दित्यत्र तस्यापवाद माह। “योऽभियुक्तः परेतः स्यात्तस्य रिक्थी तमुद्धरेत्। न तत्र कारणम्भुक्तिरागमेन विनाकृता” या० यदा पुनराहर्त्त्रादिरभियुक्तोऽकृतव्यवहारनिर्णय एव परेतःस्यात्परलोकगतोभवेत्तदा तस्य रिक्थी पुत्रादि स्तमागममुद्धरेत्। यस्मात्तत्र तस्मिन् व्यवहारे भुक्तिरागमरहिता साश्यादिभिः साधितापि न प्रमाणम्।” व्यव० त० रघुनन्दनेन तु षष्ट्यब्दएव स्मार्त्तकालतया उक्तः। यथा तद्धृतं व्यासवाक्यम् “वर्षाणि विंशतिं भुक्ता स्वामिनाऽव्याहता मही। भुक्तिः सा पौरुषी भूमेर्द्विगुणा तु द्विपौरुषो। त्रिपौरुषी तु त्रिगुणा न तत्रान्वेष्य आगम” इति। त्रिपुरुषभोगे विशेषमाह तत्रैव व्यासः। प्रपितामहभुक्त यत् तत्पुत्रेण विना च तम्। तौ विना यस्य पित्रा च तस्य भोगस्त्रिपौरुषः। पिता पितामहोयस्य जोवेच्च प्रपितामहः। त्रयाणां जीवतां भोगो विज्ञेयस्त्वेकपुरुषः” इति एवञ्च शतषष्टिवर्षयोः स्मार्त्तकालत्वं देशभेदात् व्यवस्थापनीयम्। अत्रापवादः। “भुक्तिस्त्रैपौरुषी सिध्येदपरेषां न संशयः। अनिवृत्ते सपिण्डत्वे सकुल्यानां न सिध्यति। अस्वामिना च यद्भुक्तं गृहक्षेत्रापणादिकम्। सुहृद्बन्धुसकुल्यस्य न तद्भोगेन होयते। विवाह्यश्रोत्रिवैर्भुक्तं राज्ञाऽमात्यैस्तथैव च। सुदीर्घेणापि कालेन तेषां स्वत्वं न सिध्यति” वृह०। अत्रापि विशेषमाह तत्रैव “स्त्रीधनञ्च नृपेन्द्राणां कदाचन न जीर्य्यति। अनागमं भुज्यमामपि वर्षशतैरपि” आगम्यते तत्त्वमनेन। ६ तत्त्वावेदकशास्त्रे “तस्मादपि चासिद्धं परोक्षमाप्तागमात् सिद्धम्” सा० का०। “सिद्धं सिद्धैः प्रमाणैस्तु हितं वात्र परत्र वा आगमः शास्त्रमाप्तानामाप्तास्तत्त्वार्थवेदिनः” इत्युक्ते ७ शास्त्रमात्रे “शृण्वतां जायते भक्तिस्ततो गुरुमुपासते। स च विद्यागमान् वक्ति विद्यायुक्स्वाश्रितो नृप!” देवीषु०। स च गुरुः विद्यासाधनमागमं वक्ति उपदिशतीत्यर्थः। ८ वेदे च “रक्षोहागमलघ्वसन्देहाः प्रयोजनम्” “आगमः खल्वपि ब्राह्मणेन निष्फारणोधर्मः षडङ्गोवेदोऽध्येयः ज्ञेयश्चेति” फ० भा०। “आगमः प्रयोजकः प्रवर्त्तकः नित्यकर्मतां व्याकरणाध्ययनस्य दर्शयति प्रयोजनशब्देन फलं प्रयोजकश्चेति कैयठः। “आगमपदेन श्रुतिरिति” उद्द्योतः। “बहवोप्यागमैर्भिन्नाः पन्थानः सिद्धिहेतवः” रघुः। ९ मन्त्रे च “सर्ववेदः क्रियामूलं ऋषिभिर्बहुधोदितः। कालोदेशः क्रिया कर्त्ता कारणं कार्य्यमागमः। द्रव्यं फलमिदं ब्रह्मन्नवरोक्तोऽजयाहरिः”। भा० १२, ११ अध्या० “तत्र कालः प्रातरादिः देशः समादिः क्रियाऽनुष्टानं कर्त्ता ब्राह्मणादि, कारणं स्त्रुवादि कार्य्यं यागादि आगमोमन्त्रादिः द्रव्यं व्रीह्यादि फलं स्वर्गादि” इति श्रीधरः। आ + गम–गत्यर्थत्वात् ज्ञाने भावे घञ्। १० शब्दजन्यबोधे “प्रत्यक्षमनुनानञ्च शास्त्रञ्च विविघागमम्। त्रयं सुविदितं कार्य्यं धर्म्मशुद्धिमभीप्सुना” मनुः। विविधानां धर्म्माणामागमोयस्मात्विविधागमम्। करणे घञ्। ११ शाब्दबोधसाधने शब्दरूपप्रमाणे च “ऐन्द्रिह्यमनुमानञ्च प्रत्यक्षमपि चागमम्। येतु सम्यक्परीक्षन्ते कुतस्तेषामबुद्धिता” रामा० “आगतः शिववक्त्रेभ्यो गतश्च गिरिजानने। मग्नश्च हृदयाम्भोजे तस्मादागम उच्यते” यामलोक्ते ११ तन्त्रशास्त्रे पुं न० तथा च आगतादीतामाद्यक्षरयुक्तत्वात् तथात्वम् रुद्रयामले तु मतं श्रीवासुदेवस्येति पाठः क्लीवत्वेन “आगमोक्तविधानेन कलौ देवान् यजेत् सुधीः न हि देवाः प्रसीदन्ति कलौ चान्यविधानतः। पञ्चवर्ण्णैर्भवेद्दीक्षाह्यागमोक्तैः शृणुप्रिये!। यां कृत्वा कलिकाले च सर्वाभीष्टं लभेन्नरः” तन्त्रसारे यामलम्” प्रसङ्गात्तन्त्ररूपागमस्य प्रामाण्यं तदुपासनादिषु कलौ अधिकारिविशेषस्य कर्त्तव्यता च प्रदर्श्यते। निजनिजकर्मवासनारूपपाशबद्धान् अनात्मज्ञान् जन्ममरणादिक्लेशभाजः संसारपारं गन्तुमसमर्थान् प्राणिनो बिलोक्य परमेश्वरः वेदेन कर्मकाण्डोपासनाकाण्डब्रह्मकाण्डात्मकार्थान् समुपदिदेश। तत्र वेदानाम् उच्छिन्नप्रायतया क्रमशो रागबाहुल्येन तदुक्तधर्मेषु उच्छिन्नप्रायेषु सत्सु अनुच्छिन्नानामप्यर्थस्य दुर्मेधसामिदानीन्तनादोनां दुरधिगमतया आयासबाहुल्येन च तत्राप्रवर्त्त मानानां क्रमशोविलप्तेषु श्रौतधर्म्मेषु कथङ्कारमुद्धारः स्यादित्याकलय्य कारुण्योदयेन वेदार्थप्रकाशनार्थं सुगमोपायेन जैमिनिव्यासनारदादिरूपोपधिभिरुपहितः सन् तत्तद्ग्रन्थान् प्रणीतवान्। तत्र कर्म्मकाण्डार्थो जैमिना सन्वादिभिश्च सम्यक्तया व्याकृतः उपासनाकाण्डार्थः स्वयं शिवमूर्त्त्या तन्त्रशास्त्रं, नारदादिमूर्त्त्या च पञ्चरात्रादिकं विधाय विवृतः ब्रह्मकाण्डार्थश्च वेदव्यासमूर्त्त्येति विवेकः। ततश्च धर्मे वेदस्यैव स्वतःप्रमाणत्वेन वेदमूलकत्वादन्येषां प्रामाण्यंतत्र स्मृतीनामिव आगमस्यापि वेदमूलकत्वमनुमीयते। वेदएव रामतापनीयनृसिंहतापनीयाद्यात्मके आगमोक्तोपसनादिसंवादात् तन्मूलकत्वाधिगमात् येषां च मूलानि नाधिगम्यन्ते तेषामपि प्रामाण्यं स्मृति वाक्यवत् अनुमातव्यम् भ्रमप्रमादादिशून्यत्वहेतोः स्मृतिकर्त्तॄणामिव आगमकर्त्तुः शिवस्य सत्त्वात् तन्त्रवाक्यस्य स्मृतिबाक्यवत् प्रामाण्यम् न च बौद्धागमादिवत् विप्रलम्भकवाक्यत्वं रागद्वेषादेस्तस्मिन्नसत्त्वात्। तत्रृ कृर्मकाण्डार्थे सर्वेषामपर्य्युदस्तानामधिकारः मुमुक्षोरपि तत्त्वज्ञानपर्य्यन्तं चित्तशोधनार्थं प्रत्यवायपरिहारार्थं च कर्म्मणां कर्त्तव्यतोपदेशात् “तमेतं ब्राह्मणा विविदिषन्ति वेदानुवचनेन यज्ञेन तपसेत्यादि” श्रुतेः “आरुरुक्षोर्मुनेर्योगम् कर्म कारणमुच्यते। योगारूढस्य तस्यैव शमः कारणमुच्यते” गीतावाक्याच्च। ततोऽन्येषामपि ईश्वरार्पणेन फलानभिसन्धानेन च कृतानां कर्म्मणां बन्धाहेतुत्वात् क्रमशोमुक्तिः फलम्। एवमुपासनाकाण्डार्थेऽपि सर्वेषामधिकारः श्रुतौ तपसेति निर्द्देशात् “सर्वं खल्विदं ब्रह्म तज्जला- निति शान्त उपासीत स क्रतुं कुर्व्वीतेति” श्रुत्या सोपाधिकस्ये श्वस्योपासनाविधानाच्च। उपासना च मानसी क्रिया ध्यानपरपर्य्याया तत्र निराकारस्य ब्रह्मणोऽसम्भवात् सोभाधिकेश्वरविषयैवोपासना कर्त्तव्या। सा च गुणोपाधिविशिष्टस्येव तत्तदाकारोपहितस्यापि सम्भवति “चिन्मयस्याद्वितीयस्य निष्कलस्याशरीरिणः। उपासकानां सिड्यथे ब्रह्मणोरूपकल्पना” इत्युक्तेः। कल्पना च न स्वेच्चया किन्तु शास्त्रादिसिद्धैव। तथा चागमपुराणादिषु यानि यानि रूपाणि वर्णितानि तद्रूपेणैव। उपासना कर्त्तव्या। ब्रह्मकाण्डार्थे तु कर्मभिश्चित्तशुद्धौ साकारोपासनेन तदैकाग्र्यवतः वेदान्तोक्तसाधनचतुष्ठयवत एवाधिकार इति भेदः। तत्र तान्त्रिकोपासने कर्त्तव्येऽपि देवोभूत्वा देवं यजेत्” इत्युक्तेः भूतशुद्ध्यादिना आत्मानं शोधयित्वा उपास्यदेवेनैकोभूतमात्मानं ध्यात्वैवोपासनं कार्य्यम् “अथयोऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मि न स वद यथा पशुरेव स देवानामिति” श्रुत्या भेदेनोपासानाया निन्दनात् तान्त्रिकोपासनेऽपि कर्त्तव्ये वैदिककर्म्मसु सावित्रजत्मरूपो पनयनसंस्कारस्येव तन्त्रोक्तदीक्षायाएवाधिकारप्रयोजकत्वम् तत्र दीक्षायाञ्च सर्वेऽपि वर्ण्णा अनुलोम् प्रतिलोमजाश्चाधिकारिणः “मां हि पार्थ! व्यपाश्रित्य येऽपि स्युः पापयोनयः। स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिमिति” गीतायां भगवदुपासने सर्वेषामधिकारस्य पतिपादनात्। अत्र “पुरा णादौ कश्चित् विशेषो दर्शितः यथा “यानि शास्त्राणि दृश्यन्ते लोकेऽस्मिन् विविधानि च। श्रुतिस्मृतिविरुद्धानि तेषां निष्ठा तुतामसी। करालभैरवञ्चापि यामल वाममाश्रितम्। एवंविघानि चान्यानि मोहनार्थानि तानि तु। मया सृष्टानि चान्यानि मोहायैव भवार्ण्णवे” इति देवीपुराणवचने वाममाश्रितमिति विशेषणात् श्रुतिस्मृति विरुद्धानीति निर्द्देशाच्च श्रुतिस्मृतिविरुद्धवाममार्ग स्यैव निन्दनात् तत्रैवाधिकारिविशेषस्यानधिकारो न तु तन्त्रोक्तेष्वपि इतरांशेषु वेदाविरुद्धेषु इति निर्णयः। वस्तुतः “सौत्रामण्यां सुरां पिबेत्” इति श्रुत्या विहितस्य सौत्रमण्यां सुरासेवनस्येव वामदेवसामोपासकस्य “न काञ्चन परिहरेदिति” सर्व्वस्त्रीगमनस्येव अधिकारिविशेषविषये तस्यापि ग्राह्यता। अतएव मनुना “न मांसभक्षणे दोषो न मद्ये न च मैथुने। प्रवृत्तिरेषा भूतानां निवृत्तिश्च महाफलेति” सामा- न्यतो विहितमद्यादौ न दोष इत्युक्तम्। कुलाचारशब्दे वक्ष्यमाणस्य कुलाचारधर्म्मस्य प्रायेणेदानीन्तनानां दुष्कर त्वेन सुतरां तन्मार्गस्य तन्त्रनिर्द्दिष्टाधिकारिणामिदानीमसत्त्वात् नैव कर्त्तव्यता। अथ कश्चित् प्राग्भववासनाव शादधिकारी सम्पद्यते तथापि कूलचूडामणौ “यत्रासवं तु देयं स्यात् ब्राह्मणस्तु विशेषतः। तत्रार्द्रकरसं दद्यात् ताम्रे वा विसृजेन्मधु। देव्यास्तु दक्षिणे भागे चक्रपार्श्वे निवेदयेत्। मद्यद्रव्यं तु शूद्रस्य नान्येषान्तु कदाचन”। “वैश्यस्य माक्षिकं शुद्धं क्षत्रियस्य तु साज्यकम्। ब्राह्मणस्य गवां क्षीरं ताम्रे वा विसृजेन्मधु। नारिकेलोदकं कांस्ये सर्वेषां चैव शोधनम् इति” च द्विजातीनामासवदाननिषेधेन गौणकल्प एवाधिक्रियते न मुख्यकल्पे। “पीत्वापीत्वा पुनः पीत्वा पतितोधरणीतले! उत्थाय च पुनः पीत्वा पुनर्जन्म न विद्यते” इति वचनन्तु चतुर्थाश्रमविषयमिति तन्त्रसारः। “निस्त्रैगुण्येपथि विचरतां को विधिः को निषेध” इत्युक्तेश्चतुर्थाश्रमस्य विधिनिषेधातिक्तान्तत्वेऽपि परमहंसाश्रमस्येव दोषाभाव इति युक्तमुत्पश्याभः। “वरं प्राणाः प्रगच्छन्तु ब्राह्मणोनार्पयेत् सुराम्” ब्राह्मणो मद्यदानेन ब्राह्मण्यादेव हीयते” वृहत्सङ्गमतन्त्रम्। अतएव कालिका पु० “अवश्यं विहितं यत्र मद्यं तत्र द्विजः पुनः। नारिकेलोदकं कांस्ये ताम्रे वा विसृजेन्मधु” इत्यनुकल्पो गृहस्थद्विजातिमात्रे विहितः एवं मत्स्यमांसयोर्निषिद्धयोरपि वाममार्गिणां दाना दिकं न स्मृतिविरुद्धं “देवान् पितॄन् समभ्यर्च्य खादन् सांसं न दोषभाक्” इति मनुनां देवार्चनावशिष्टमांसभोजनस्य विधानात्। एतदपि दिव्यभावविषयमिति तन्त्रसारः “मादकं सर्वदा वर्ज्यं मद्यं मांसं सुलोचने!। ज्ञानेन संस्कृतं तत्तु महापातककनाशनमिति” कुलार्ण्णवोक्तेः। ज्ञानेन सर्वनरेषु आत्मत्वज्ञानेनेत्यर्थः। तदपि न श्रुतिविरुद्धं विश्वनरेषु आत्मदृष्टिमतो वैश्वानरसामोपासकस्य सर्वान्नभक्षण विधानवत् तस्यापि तादृशज्ञानमाहात्म्येन तत्र पापानुत् पत्तिसम्भवात् यथा वैश्वानरसामोपासकं प्रकृत्य “न किञ्चनानन्नं भवति आश्वभ्य आशकुनिभ्य इति” छा० उ० सर्व्वान्नभोजनं विहितमेवमस्यापि ज्ञानेन पूतत्वान्न तद्भक्षणं दोषावहमिति। “कृते श्रुत्युदितोमार्गस्त्रेतायां श्रुतिनोदितः। द्वापरे तु पुराणोक्तः कलावागमसम्मतः” इत्यागमवचनं तु प्रशंसापरम् रागादिबाहुल्येन श्रौतादिघर्मस्य कलावसम्भवैति तादृशानां तन्त्राधिका- रित्वसूचनार्थञ्च “चकार मोहशास्त्राणि केशवः सशिवस्तथा। कापिलं नाकुलं वामं भैरवं पूर्ब्बपश्चिमम्। पाञ्चरात्रं पाशुपतं तथान्यानि सहस्रशः, कर्म्म पु० “शृणु देवि प्रवक्ष्यामि तामसानि यथाक्रमम्। येषां श्रवणमात्रेण पातित्यं ज्ञानिनामपि। प्रथमं हि मयैवोक्तं शैवं पाशुपतादिकम्” पद्मपु० इत्यादिवचनैरागमस्य तामसत्वेन मोहशास्त्रत्वेन निषिद्धत्वेऽपि वेदाविरुद्धांशस्यग्राह्यतैव। “तथापि योऽंशोमार्गाणां वेदेन न विरुध्यते। सोऽंशः प्रमाणमित्युक्तः केषाञ्चिदधिकारिणाम्” सूतसंहितावचनात् अत्र केषाञ्चिदित्युक्तेः न सर्वेषायधिकारितेति सूचितम् तत्राधिकारिणः शाम्बपु० दर्शिताः। “श्रुतिभ्रष्टः स्मृतिप्रोक्तप्रायश्चित्तपराङ्मुखः। क्रमेण श्रौतसिद्ध्यर्थं ब्राह्मणस्तन्त्रमाश्रयेत्” “पाञ्चरात्रं भागवतं तन्त्रं वैखानसाभिधम्। वेदभ्रष्टान् समुद्दिश्य कमलापतिरुक्तवान्” इति च। ततश्च इदानीन्तनानां विशेषतो गौडदेशवासिनां श्रौतधर्म्माग्निहोत्रादिधर्म्मोच्छेददर्शनेन तत्पापनाशाय प्रायश्चित्तपराङ्मुखतादर्शनेन च श्रौतमार्गभ्रष्टतया क्रमेण श्रौताधिकारस्य प्राप्त्यर्थं तन्त्रोक्तोपासनादिषु वेदाविरुद्धेषु अधिकारः। वेदविरुद्धेषु वाममार्गेषु तु चतुर्थाश्रमस्य तन्त्रोक्ताद्भुताश्रमस्यैवाधिकारः न गृहस्थद्विजानाम् प्रागुक्तैः वचनजातै र्ब्राह्मणादिषु मुख्यमद्यदानसेवनयोर्निषेधात् गृहस्थशूद्रस्य तु मुख्येऽप्यधिकारः द्विजानामनुकल्पाचरणेन तन्मार्गाश्रयणेऽप्यधिकार इतिविवेकः। तल्लक्षणन्तु “सृष्टिश्च प्रलयश्चैव देवानां च तथार्च्चनम्। साधनञ्चैव सर्व्वेषां पुरश्चरणमेव च। षट्कर्म्मसाधनञ्चैव ध्यानयोगश्चतुर्विधः सप्तभिर्लक्षणैर्युक्तं त्वागमं तद्विदोविदुः” इति आगमभेदाश्च तन्त्रशब्दे वक्ष्यन्ते। अतएव कलिधर्म्म प्रकरणे” एवं क्रियायोगपरैः पुमान् वैदिकतान्त्रिकैः। अर्च्चन्नुभयतः सिद्धिम् मत्तोविन्दत्यभीप्सितम्” भाग० १२ स्कन्धे२७ अध्याये तान्त्रिकपथेनाप्यर्चनं विहितम्। “अथ सूतकिनः पूजां वक्ष्याम्यागमनोदिताम्” शा० रा०। आगच्छति प्रकृतिप्रत्ययावनुपहत्य उत्पद्यते कर्त्तरि संज्ञायां घ। १३ व्याकरणोक्ते प्रकृतिप्रत्ययानुपघातके अट् इट् इत्यादौ शब्दभेदे “आगमादेशयोर्मध्ये बलीयानागमोविधिः” व्याकरणान्तरपरि० “यदागमास्तद्गुणीभूतास्तद्ग्रहणेन गृह्यन्ते”। “आगमशास्त्रमनित्यम्” इति च परिभा०। “आगमा आद्युदात्ताः” “आगमा अविद्यमानवद्भवन्तीति” च का० वा०

आगमन = न० आ + गम–भावे ल्युट्। १ किञ्चिद्देशावधिकविभानजनकक्रियायामागतौ। “संवत्सरे व्यतीते तु पुनरागमनाय च” दुर्गाविसर्ज्जनमन्त्रः। २ प्राप्तौ “एतत्ते सर्व्वमाख्यातं वैरस्यागमनं महत्” रामा०। ३ उत्पतो च “आगमापायिनोऽनित्याः” गीता।

आगमवत् = त्रि० आगमं अस्त्यर्थे मतुप् मस्यवः स्त्रियां ङीप्। आगमयुक्ते

आगमवृद्ध = त्रि० आगमेन तज्ज्ञानेन वृद्धः। शास्त्रालोचनाजनितपरिणतज्ञाने “प्रतीप इत्यागमवृद्धसेवी” रघुः।

आगमवेत्तृ = त्रि० आगमं वेत्ति विद–तृच् ६ त० स्त्रियां ङीप्। आगमाभिज्ञे।

आगमवेदिन् = त्रि० आगमं वेत्ति विद–णिनि ६ त०। आगमवेत्तरि २ शङ्कराचार्य्यपरमगुरौ गौडपादाचार्य्ये पु०।

आगमापायिन् = त्रि० आगमश्च अपायश्च तौ विद्येते अस्य इनि स्त्रियां ङीप्। उत्पत्तिविनाशशीले “आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत!” गोता।

आगमावर्त्ता = स्त्री आगममात्रेण प्राप्तिमात्रेण आवर्त्तते कण्डूयनमस्याः आ + वृत–अपादाने घञ्। वृश्चिकाल्यां (विछाति) क्षुपभेदे।

आगमिक = त्रि० आगमादागतः ठञ्। आगमप्राप्ते।

आगमित = त्रि० आ + गम–स्वार्थे–णिच्–क्त। अधीते ज्ञाते २ पठिते। प्रेरणे णिच् क्त। यापिते ३ प्रापिते च।

आग(गा)मिन् = त्रि० आ + गम–भविष्यति णिनि गम्यादीनामुपसंख्यानमित्युक्तेः वा ह्रस्वः। भयिष्यदागमने ग्रामगर्मा” सि० कौ०। “यद्वागामिक्रिमामुख्यकालस्याप्यन्तरालवत्” कात्या० स्मृ० “आगामिवर्त्तमानाहर्युक्तायां निशि पक्षिणी” अमरः स्त्रियां ङीप्। “आगामिनीं जगृहिरे जनतास्तरूणाम्” माघः।

आगर = पु० आगोर्य्यते उद्वमितुमारभ्यते चन्द्रमा अत्र आ + गॄ–आधारे अप्। अमावास्यायां तत्र शेषयामे भक्षिता हि चन्द्रकलाः देवैः उद्वमितुमारभ्यन्ते इति तस्यास्तथात्वम्। “चर्द्दश्यष्टमांशे च क्षीणो भवति चन्द्रमाः। अमावास्याष्टमांशे च ततः किल भवेदणु” इत्युक्तेस्तस्यास्तथात्वम्।

आगवीन = त्रि० गोः प्रत्यर्पणपर्य्यन्तं कर्म्म करोति गर्य्यादायामव्ययीभा० आगु + कर्म्मकारकार्थे ख। गोःप्रत्यर्पणपर्य्यन्तकर्मकरे गोपालकभेदे। गोपालकश्च द्विविधः दिषामात्रं गोःप्रचारणे नियुक्तः। दिवारात्रं योगक्षेमे नियुक्तश्च। “दिवा वक्तव्यता पाले रात्रौ स्वामिनि तद्गृहे। वोगक्षे- मेऽन्यथा चेत्तु पालोवक्तव्यतामियात्” मनुना दिवारात्र भेदेन पालकद्वयविषये दोषभेदविधानात् तथा विभागः। तत्र दिवापालकविषये याज्ञ० “यथार्पितान् पशून् गोपः सायं प्रत्यर्पयेत्तथा। प्रमादमृतनष्टांश्च प्रदाप्यः कृतवेतन” इति।

आगस् = न० “इण आग अपराधे” उणा० इण्–असुन् आगादेशः। १ अपराधे “मदीये हृदये नूनं सखि! नागो न विद्यते। वदन्ती सर्पसर्पेति किं नालिङ्गसि मामिति” उज्ज्वलदत्तीये। “सहिष्ये शतमागांसि सूनीस्त इति यत्त्वया” माघः। “अभ्यर्ण्णमागस्कृतमस्पृशद्भिः” रघुः। “दासे कृतागसि भवत्युचितः प्रहारः” सा० द० अपराधश्च स्वकर्त्तव्यकर्म्मणः स्खलनम्। अपराधशब्दो २३२ पृ० विवृतिः आगस्कर्त्ता आगस्कारी। २ पापे ३ दण्डे च।

आगस्ती = स्त्री अगस्त्येयम् अण् स्त्रियां ङीप् यलोपः। दक्षिणस्यां दिशि।

आगस्तीय = त्रि० अगस्तये हितम् छण् यलोपः। अगस्त्यहितकारके।

आगस्त्य = त्रि० अगस्त्यस्येदम् यञ् यलोपः। अगस्त्यसम्बन्धिनि दक्षिणदिग्मागे “कौबेरदिग्भागमपास्य मार्गमागस्त्यमुष्णांशुरिरावतीर्ण्णः” माघः “अगस्त्यस्य स्थितिस्थानमुक्तम्” सू० सि० “अशीतिभागैर्याम्यायामगस्त्योमिथुनान्तगः”। स्वकीयक्रान्ति विभागस्थानात् दक्षिणस्यामशीत्यंशैस्तारात्मकः अगस्त्यः मिधुनान्तगः कर्कादिभागे स्थितः” रङ्गनाथः। एवञ्च तस्य दक्षिणदिग्भागगतत्वेन तद्भागस्यागस्त्यसम्बन्धित्वम् अगस्तेरपत्यं गर्गा० यञ्। २ अगस्तेरपत्ये पुंस्त्री० अगस्त्य + कण्वादि० अण्। ३ तद्गोत्रापत्ये पुंस्त्री उभयत्र स्त्रियां ङीप् यलोपः।

आगाध = त्रि० अगाध एव स्वार्थे अण्। १ अतलस्पर्शे २ दुरधिगमे च।

आगान्तु = पु० आ + गम–तुन् नि० वृद्धिः। १ अतिथौ २ आगन्तुकशब्दार्थे च।

आगामक = त्रि० आगमयति भविष्यद्वस्तु बोधयति आ + गमणिच्–ण्वुल्। भविष्यदावेदके। “मतिरागामिका ज्ञेया बुद्धिस्तत्कालदर्शिनी”।

आगामिन् = त्रि० आगमिवत्। – १ आगन्तुके २ भविष्यत्कालवृत्तौ च।

आगामुक = त्रि० आ + गम–उकञ्। आगमनशीले। “सुग्रीवञ्चार्जितं मित्रं सर्व्वाश्चागामुकान् द्रुतम्” भट्टिः।

आगार = न० अग–कुटिलायां गतौ घञ आगमृच्छति ऋ–अण् उप० स०। गृहे भवने।

आगारगोघिका = स्त्री ७ त०। गृहगोघिकायाम्(टिक्टिकि)।

आगारधूम = पु० आगारं गृहं धूसयति दसान्वितं करीति धूम + णिच्–अण्। (झुल) १ गृहधूमे। ७ त० गृहवृत्तिधूमे च

आगुर् = स्त्री आ + गुर्–क्विप्। प्रतिज्ञायाम् “अस्य यज्ञस्यागुर उदृचमशीय” श्रुतिः।

आगुरण = न० आ + गुर–ल्युट्। उद्यमे पृ० दीर्घः आगूरणमप्यत्र।

आगू = स्त्री आ + गम–क्विप् “ऊ च गमादीनाम् मलोपे ऊकारदेशः प्रतिज्ञायाम्। वधूवद्रूपम्।

आगूर्ण्ण = त्रि० आ + गुर–क्त। १ उद्यते। भावे क्त २ उद्यमे न०।

आगूर्त्त = त्रि० आ + गुर–क्त “नसत्तेत्यादिना” पा० नि० वेदे नत्वाभावः १ उद्यते। भावे क्त। २ उद्यमे न०।

आगूर्त्तिन् = त्रि० आगूर्त्तमनेन इष्टा० इनि। कृतोद्यमे “आगूर्त्ती वा एष भवति यो दर्शपौर्ण्णमासाभ्यां यजते” श्रुतिः।

आग्नापौष्ण = त्रि० अग्निश्च पूषा च द्व० आनङ् अग्नापूषाणौ तौ देवते अस्य अण् द्विपदवृद्धिः बा० नेत्। अग्नापूषदेवताके हविरादौ। “आग्नापौष्ण, इन्द्रापौष्णः” कात्या० १५, २।

आग्नावैष्णव = त्रि० अग्निश्च विष्णुश्च द्व० आनङ् अग्नाविष्णूतौ देवते अस्य अण् द्विपदवृद्धिः “इद्वृद्धौ” पा० इत्त्वेप्राप्ते “विष्णौ न” वार्त्ति० नेत्त्वम्। अग्नाविष्णुदेवताके हविरादौ। “अथश्वोभूते आग्नावैष्णवमेकादशकपालं पुरोडाशं निर्वपति” “तत्मादाग्नावैष्णव एकादशकपालः पुरोडाशो भवति” इति च शत० ब्रा०। “आग्नावैष्णव ऐन्द्रावैष्णवः” कात्या० १५, २ अग्नाविष्णुशब्दौ विद्येते यत्र विमुक्ता० अण्। अग्नावैष्णवशब्दयुक्ते २ अध्याये ३ अनुवाके च।

आग्निक = त्रि० अग्नेरिदं बा० ठक्। अग्निसम्बन्धिनि। “प्रकृतान्यौद्ग्रभणानि हुत्वा सप्ताग्निकान्याकूतिमिति” कात्या० १६, ५। “द्विश्च स्थाल्याः स्रुवेणेत्येतदप्याग्निके भवति” कर्कधृता श्रुतिः।

आग्निदात्तेय = त्रि० अग्निदत्त + चतुरर्थ्यां सख्या० ढक्। अग्निदत्तसन्निकृष्टदेशादौ।

आग्निपद = त्रि० अग्निपदे दीयते कार्य्यं वा व्युष्टा० अण्। अग्निस्थाने १ दीयमाने २ कार्य्येवा पदार्थे।

आग्निमारुत = त्रि० अग्निश्च मरुतश्च द्व० आनङ् अग्नामरुतौ तौ देवते अस्य अण् द्विपदवृद्धिः इद्वृद्धौ” पा० इत्। अग्ना मरुतदेवताके १ शस्त्रेस्तोत्रभेदे २ हविरादौ च।

आग्निवारुण = त्रि० अग्निश्च वरुणश्च द्व० ईत् अग्नीवरुणौ तौ देवते अस्य अण् द्विपदवृद्धिः “इह्द्धौ” पा० इत्। अग्नीवरुणदेवताके हविरादौ।

आग्निवेश्य = पुंस्त्री अग्निवेशस्य ऋषेरपत्यम् गर्गा० यञ्। तदृषेरपत्ये “पुरोहितञ्च कौरव्य! वेदबेदाङ्गपारगम्। आग्निवायञ्च राजानम्” भा० आश्व० प० ६४ अ० स्त्रियां ङीप् यलोपः। आग्निवेशी तद्गोत्रजस्त्रियाम्।

आग्निशर्म्मि = पुंस्त्री० अग्निशर्म्मणोऽपत्यं बाह्वा० इञ्। तदपत्ये ततः गोत्रे फक्। आग्निशर्म्मायणः तद्गोत्रजे पुं स्त्री० आग्निशर्म्मौभवः गहा० छ। अग्निशर्म्मीयः तद्भवे त्रि०

आग्निष्टोमिक = पु० अग्निष्टोमं क्रतुं वेत्ति तत्प्रतिपादकग्रन्थमधीते वा ठक्। १ अग्निष्टोमयज्ञाभिज्ञे २ तत्प्रतिपादकग्रन्थपाठके च। अग्निष्टोमग्रन्थस्य व्याख्यानः ग्रन्थः ठञ्। अग्निष्टोमयज्ञव्याख्याने ३ ग्रन्थे ४ विवृतौ स्त्री ङीप्।

आग्निष्टोमिकी = स्त्री० अग्निष्टोसस्य दक्षिणा ठञ् ङीप्। अग्निष्टोमदक्षिणायाम्।

आग्नीध्र = न० अग्निमिन्धे अग्नीत् तस्य शरणम् “अग्नीधः शरणे रण् भञ्च” वार्त्ति० रण्भत्वान्न जश्। अग्नीधोयजमानस्य स्थाने उपचारात् २ साग्निके द्विजे सि० कौ०। अग्निं धारयति धृ–मूल० क पूर्ब्बपददीर्घश्च स्वार्थे अण् इति वा। साग्निके यजमाने द्विजे। “प्रति वीहि प्रस्थितं सौम्यं मधु पिवाग्नीध्रात्” ऋ० २, ३६, १। अग्नीध्र + स्वार्थे अण्। ३ अग्नीध्रस्थाने स्त्रियां ङीप् अग्निध्री तदाधारभूमौ स्त्री। स्वार्थे गहा० छ आग्नीध्रीयः। अग्निस्थाने “गार्हपत्याद्वा अग्नीघ्रीयमागच्छति” श्रुतिः आग्नीध्रस्येदम् वृद्धात् छः। आग्नीघ्रसम्बन्धिनि त्रि०। “आग्नीध्रीयं प्रथमं चिनोति” श्रुतिः।

आग्नीध्र्या = स्त्री अग्नीध्रस्थानमर्हति यत्। अग्निस्थानार्हशालायाम्।

आग्नेन्द्र = त्रि० अग्निश्च इन्द्रण द्व० आनङ् तौ देवते अस्य अण् “नेन्द्रस्य परस्य” इति पा० नोत्तरपदवृद्धिः वृद्ध्यभावात् नेत्। अग्नेन्द्रदेवताके हविरादौ स्त्रियां ङीप्। “या वा आग्नेन्द्र्यैन्द्राग्नी सा” श्रुतिः।

आग्नेय = त्रि० अग्नेरिदम् अग्निर्देवता वास्य ढक्। अग्निदेवताके १ हविरादौ “आग्नेयः षुरोडाशो भवति” शत० ब्रा० २ अग्निसम्बन्धिनि च ३ कृत्तिकानक्षत्रे न० तस्य अग्निदेवताकत्वात्तथात्वम् “आग्नेयाप्पतिदैवतेति” ज्योति०। अग्निना प्रोक्तं पुराणं ढक्। “आग्नेयं वेदसस्मितम्” इत्युक्ते अग्निप्रोक्ते महापुराणभेदे अग्निपुराणशब्दे विवृतिः ४ प्रतिपदि तिथौ स्त्री तस्याः तद्देवताकत्वमुक्तं यथा “अग्निः प्रजापतिः गौरी गणेशोऽहिर्गुहोरविः। शिवोदुर्गायमोविश्वोहरिः कामोहरः शशी। पितरः प्रतिपदादीनां तिथीनामघिपाः क्रमात्”। “५ स्वर्ण्णे तस्य तद्वीर्य्यजातखात् तथात्वम्। अग्निरेतः शब्दे विवृतिः। ६ कार्त्तिकेये पु० तस्य तद्वीजजातत्वात् तथात्वम् अग्निकुमारशब्दे विवृतिः। ७ रुधिरे न० जठरानलजायमानत्वात् देहस्थपित्तरूपाग्नेर्विकारत्वात् वाऽस्य तथात्वम्। अग्नये हितम् ढक्। जठरानलादिवृद्धिकरे वैद्यकोक्ते ८ द्रव्यभेदे त्रि० ९ बाह्याग्निबर्द्धके जतुप्रभृतौ च १० अग्निपर्व्वते ११ देशभेदे च पु० तस्य देशस्याग्न्यधिष्ठितत्वात् तथात्वम् स च देशः। दक्षिणापथसन्निकृष्टकिष्किन्ध्यादेशसमीपस्थः माहेष्मतीपुरीयुक्तः तत्र हि वह्निः नीलराजकन्यासौन्दर्य्येण मोहितःताञ्चकमेऽथ वाञ्चोढ्वा तत्साहाय्यार्थं तत्रैव पुर्य्यां स्वयं स्थितः यथोक्तम्” भा० स० प० “तत्र माहिष्मतीवासी भगवान् हव्यवाहनः। श्रूयते हि गृहीतो वै पुरस्तात् पारदारिक। नीलस्य राज्ञो दुहिता बभूवातीव शोभना। साग्निहोत्रमुपातिष्ठद्बोधनाय पितुः सदा। व्यजनैर्धूयमानोऽपि तावत् प्रज्वलते न सः। यावच्चारुपुटौष्ठेन वायुना न विधूयते। ततः स भगवानग्निश्चकमे तां सुदर्शनाम्। नीलस्य राज्ञः सर्व्वेषामुपनीतश्च सोऽभवत्। ततो ब्राह्मणरूपेण रममाणो यदृच्छया। चकमे तां वरारोहां कन्यामुत्पललोचनाम् तन्तु राजा यथाशास्त्रमशिषद्धार्म्मिकस्तदा। प्रजज्वाल ततः कोपाद्भगवान् हव्यवाहनः। तं दृष्ट्वा विस्मितो राजा जगाम शिरसावनिम्। ततः कालेन तां कन्यां तथैव हि तदा नृपः। प्रददौ विप्ररूपाय वह्नये शिरसा नतः। प्रतिमृह्य च तां सुभ्रूं नीलराज्ञः सुतां तदा। चक्रे प्रसादं भगवांस्तस्य राज्ञो विभावसुः। वरेण च्छन्दयामास तं नृपं स्विष्टिकृत्तमः। अभयञ्च स जग्राह स्वसैन्ये वै महीपतिः। ततः प्रभृति ये केचिदज्ञानात्तां पुरीं नृपाः। जिगीषन्ति बलाद्राजंस्ते दह्यन्ते स्म वह्निना। तस्यां पुर्य्यां तदा चैव माहिष्मत्यां कुरुद्वह!। वभूवुरनतिग्राह्या योषितश्छन्दतः किल। एवमग्निर्व्वरं प्रादात् स्त्रीणामप्रतिवारणे। स्वैरिण्यस्तत्र नार्य्यो हि यथेष्टं विचरन्त्युत। बर्ज्जयन्ति च राजानस्तत्पुरं भरतर्षभ। भयादग्नेर्म्महाराज! ततः प्रभृति सर्व्वदा। सहदेवस्तु धर्म्मात्मा सैन्यं दृष्ट्वा भयार्द्दितम्। परीतमग्निना राजन्नाकम्पत यथाऽचलः। उपस्पृश्य शुचिर्भूत्वा सोऽब्रवीत् पावकं ततः। सहदेय उवाच। त्वदर्थोऽयं समारम्भः कृष्णवर्त्मन्नमोऽस्तु ते। मुखं त्वमसि देवानां यज्ञस्त्वमसि यावक!। पावनात् पावकश्चासि वहनाद्धव्यवाहनः। वेदास्त्वदर्थं जाता वै जातवेदास्ततो ह्यसि। चित्रभानुः सुरे- शश्च अनलस्त्वं विभावसो!। स्वर्गद्वारस्पृशश्चासि हुताशो ज्वलनः शिखी। वैश्वानरस्त्वं पिङ्गेशः प्लवङ्गो भूरितेजसः। कुमारसूस्त्वं भगवान् रुद्रगर्भो हिरण्यकृत्। अग्निर्द्ददातु मे तेजो वायुः प्राणं ददातु मे। पृथिवी बलमादध्याच्छिवञ्चापो दिशन्तु मे। अपां गर्भ! महासत्त्व! जातवेदः! सुरेश्वर!। देवानां मुखमग्ने! त्वं सत्येन विपुनीहि माम्। ऋषिभिर्ब्राह्मणैश्चैव दैवतैरसुरैरपि। नित्यं सुहुतयज्ञेषु सत्येन विपुनीहि माम्। धूमकेतुः शिखी च त्वं पापहानिलसम्भवः। सर्वप्राणिषु नित्यस्थः सत्येन विपुनीहि माम्। एवं स्तुतोऽसि भगवन् प्रीतेन शुचिना मया। तुष्टिं पुष्टिं श्रुतिञ्चैव प्रीतिञ्चाग्ने। प्रयच्छ मे। वैशम्पायन उवाच। इत्येवं मन्त्रमाग्नेयं पठन् यो जहुयाद्विभुम्। ऋद्धिमान् सततं दान्तः सर्वपापैः प्रमुच्यते। सहदेव उवाच। यज्ञविघ्नमिमं कर्त्तुं नार्हस्त्वं हव्यवाहन!। एवमुक्त्वा तु माद्रेयः कुशैरास्तीर्य्य मेदिनीम्। विघिवत् पुरुषव्याघ्रः पावकं प्रत्युपाविशत्। प्रमुखे तस्य सैन्यस्य भियोद्विग्नस्य भारत। न चैनमत्यगाद्बह्निर्वेलामिव महोदधिः। तमुपैत्य शनैर्वह्निरुवाच कुरुनन्दनम्। सहदेवं नृणां देवं सान्त्वपूर्वमिदं वचः। उत्तिष्ठोत्तिष्ठ कौरव्य! जिज्ञासेयं मया कृता। वेद्मि सर्वभभिप्रायं तव धर्म्मीसुतस्य च। मया तु रक्षितव्येयं पुरी भरतसत्तम। यावद्राज्ञो हि नीलस्य कुले वंशधराः नृपः” १२ अग्न्युपासने मन्त्रे १३ अग्निसम्बन्धिधारणाभेदे स्त्री “आग्नेय्या धारणया देहं दग्ध्वेति भूतशुद्धिः। “देहं धारणयाग्नेय्या दग्ध्वा धामाविशत् स्वकम्” भाग० १४ दक्षिणपूर्ब्बायां दिशि स्त्री। अग्नेर्भक्तः ढक्। १५ अग्निभक्ते आग्नेयो वै ब्राह्मणो देवतया” श्रुतिः अग्नेरपत्यम् अग्नेरागतम् अग्नौ भवः अग्निनादृष्टं सामेति वा ढक्। १६ अग्ने रपत्ये १७ अग्नितआगते १८ त्रि० अग्निना दृष्टे सामनि न० “मन्त्रं भौमं तथा तथाग्नेयं वायव्यं दिव्यमेव च। वारुणं मानसञ्चैव सप्त स्नानानि चक्षते” इति विभज्य “आग्नेयं भस्मना स्नानमिति” पराशरोक्ते भस्ममर्द्दनपूर्वके १९ स्नाने न०। “प्रतापयुक्तस्तेजस्वी नित्यं स्यात् पापकर्मसु दुष्टसामन्तहिंस्रश्च तदाग्नेयं व्रतं स्मृतमिति” मनूक्ते २० नृपतिचरितभेदे न० अग्नौ अग्न्युद्दीपने साधु ढक्। २१ अग्न्युद्दीपनसाधने जतुघृतादौ त्रि० “जिघ्राणोऽस्य वसागन्धं सर्पिर्जतुविमिश्रितम्। कृतं हि व्यक्तमाग्नेयमिदं वेश्य परन्तप!” “अदीदं गृहमाग्नेयं विहितं मन्थते भवान्” इति च भा० आ० प० १४४ अध्या०। २२ अग्न्युद्दीपन साधने घृते २३ अस्त्रविशेषे च न०। तत आगतः ढक्। अग्निप्रकृतिके २४ कीटभेदे ते च चतुर्विंशतिविधाः यथाहसुश्रुतः। “कौण्डिल्यकः करभको वरटी पत्रवृश्चिकः। विनाशिका ब्रह्मणिका विन्दलोभ्रमरस्तथा। बाह्यकी पिच्चिटः कुम्भो वर्च कीटोऽरिसेदकः। पद्मकीटो दुन्दुभिश्च मकरः शतपादकः। पञ्चालकः पाकमत्स्यः कृष्णतुण्डोऽथ गर्द्दभी। क्लीतः कृमिसरारीच यश्चाप्युत्क्लेशकः स्मृतः। एते ह्यग्निप्रकृतयश्चतुर्विंशतिरेव च। तैर्भवन्तीह दष्टानां रोगाः पित्तनिमित्तजाः। “अग्नायी देवताऽस्य ढक् पुंवद्भावः। २५ स्वाहादेवताकेस्थालीपाके।

आग्न्याधानिकी = स्त्री अग्न्याधानस्य यज्ञस्य दक्षिणा ठञ्। अग्न्याधानदक्षिणायाम्।

आग्रभोजनिक = पु० अग्रभोजनं नियतं दीयतेऽस्मै ठञ्। नियतम् अग्रभोजनदानसम्प्रदाने विप्रभेदे। (अग्रदानी)।

आग्रयण = त्रि० अग्रे अयणं भोजनं शस्यादेर्येन कर्म्मणा पृ० ह्रस्वदीर्घः व्यत्ययः। नवान्नागमनिमित्ते साग्निककर्त्तव्ये यज्ञभेदे तत्प्रकारः आश्वलीयश्रौतसूत्रे दर्शितो यथा “आग्रयणं व्रीहिश्यामाकयवानाम् १। शस्यं नाश्नीयादग्निहोत्रमहुत्वा २। यदा वर्षस्य तृप्तः स्यादथाग्रयणेन यजेत ३। अपि हि देवा आहुस्तृप्तो नूनं षर्षस्याग्रयणेन हि यजत इति अग्निहोत्रीं वै नानादयित्वा तस्याः पयसा जुहुयात् ४। अपि वा क्रिया यवेषु ५। इष्टिस्तु राज्ञ ६। सर्वेषां चैके ७। श्यामाकेष्ट्यां सौम्यश्चरुः ८। सोम! यास्ते मयोभुवो या ते धामानि दिवि या पृथिव्यामित्यवान्तरेडाया नित्यं जपमुक्त्वा सव्ये पाणौ कृत्वेतरेणाभिमृशेत् प्रजापतये त्वा ग्रहं गृह्णामि मह्यं श्रिये मह्यं यशमे मह्यमन्नाद्याय ९। भद्रान्नः श्रेयः समनैष्ट देवास्त्वयावसेन समशीमहि त्वा। स नो मयोभूः पितवाविशे ह शन्नो भव द्विपदे शं चतुष्पद इति प्राश्याचम्य नाभिमालभेतामोऽसि प्राण! तदृतं ब्रवीम्यमासि सर्व्वानसि प्रविष्टः। स मे जरां रोगमपनुद्य शरीरादमा म एधि मामृधाम इन्द्रेति १०। एतेन मक्षिणो भक्षान् सर्वत्र नवभोजने ११। अथ व्रीहियवानां धाय्ये विराजौ १२। अग्नीन्द्राविन्द्राग्नी वा विश्वे देवाः सोमो यदि तत्र श्यामाकोद्यावापृथिवी १३। आद्या ये अग्निमिन्धते सुकर्माणः सुरुचो देवयन्तो विश्वे देवास आगत ये के च ज्मामहि नो अहिमाया मही द्यौः पृथिवी च नःप्रपूर्वजे पितरानव्यसीभिरिति १४। “अग्रे अयनं भक्षणं येन कर्म्मणा तदाग्रयणम्। प्रथमद्वितीययोर्ह्रस्वदीर्घत्वव्यत्ययः। एषान्त्रयाणां द्रव्याणां संवत्सरे प्रथमनिष्पन्नानाम् आग्रयणं नाम कर्म कर्त्तव्यमित्यर्थः। व्रीहिशब्दस्य प्रथमनिपातो व्रीहीणां प्राधान्यख्यापनार्थम्। तेन कालचोदना व्रीह्याग्रयणस्यैव भवति। श्यामाकशब्दस्य मध्यनिपातो व्रीहिकालाद्–यवकालो भिन्न इति ज्ञापयति?। सस्यं नवनिष्पन्नं, तन्नाश्नीयात् आग्रयणेनानिष्ट्वा। यद्याग्रयणेनानिष्टवतो नवनिष्पन्नेनाशनेन विना निर्व्वाहो न स्यात् तदा तेषां द्रव्याणां तत्कालनिष्पन्नेन सायम्प्रातरग्निहोत्रं हुत्वाऽश्नीयात्। ततः काल आगते त्वाग्रयणं कुर्य्यात्। अग्निहोत्रमहुत्वा नाश्नीयादितिवचनादाग्रयणेनानिष्ट्वाप्यग्निहोत्रं हुत्वाऽश्नतो न दोष इति गम्यते। सस्यग्रहणं व्रीह्याद्यन्यदपि यन्निष्पन्नं तस्य सर्वस्य प्रतिषेधार्थम् २। यदा वर्षतृप्तिर्लोकस्य भवति तदाग्रयणेन यजेत। अनेन प्रकारेण व्रीह्याग्रयणस्य शरत्काल उक्तो भवति। एतमेव कालं श्रुत्या समर्थयति३। अथाग्रयणेन यजेतेति इष्टिरेवाग्रयणशब्देनोक्ता, इदानीमिदमप्युच्यते। अग्निहोत्रहोमार्था धेनुरग्निहोत्रीत्युच्यते। तां व्रीहिश्यामाकयवानामन्यतमम् आशयित्वा तस्याः पयसा सायंप्रातरग्निहोत्रं जुहुयात्। इष्टिः प्रथमकल्पः, तदसम्भवेऽयमनुकल्पः इति द्वावेवाग्रयणकल्पावत्रोच्येते ४। यवैराग्रयणस्य क्रिया भवेत् अक्रिया वेति बिकल्प ५।! त्रयाणां वर्ण्णानामविशेषेणकल्पद्वये प्राप्ते राज्ञो विशेष उच्यते इष्टिरेव नान्य इति ६। सर्वेषामपि वर्ण्णानामिष्टिरेवेत्येके मन्यन्ते७। श्यामाकाग्रयणे इष्ट्यां सोमदैवत्यश्चरुर्भवति। कालो वर्षा ऋतुः, शास्त्रान्तरे दर्शनात्८। इतिकाराध्याहारेण सूत्रच्छेदः। नित्यजपशब्देनेडे भागमिति मन्त्र उच्यते। तस्य नित्यत्वे सत्यपि नित्यवचनम् एतेन भक्षिण इति विध्यतिदेशे तद्वर्ज्जितस्य प्रापणार्थम्९। स्मृतिप्राप्तस्याचमनस्य विधानं यस्मिन् देशे आचमनं कृतं तस्मिन्नेव देशे स्थितस्य च नाभ्यालम्भनसिद्ध्यर्थम् १०। एतेन विधानेन सर्वभक्षेषु, सर्वे भक्षिणः सर्वान् भक्षान् भक्षयेयुः। सर्वत्रवचनं प्रकरणोत्कर्षार्थम्। नवभोजनवचनं लौकिकेऽपि नवभोजने प्रापणार्थम्। सर्वत्रवचनात् प्रकरणादुत्कृष्टमपि नवभोजनवचनाल्लौकिक एव व्यवतिष्ठते। वैदिकेऽग्निहोत्रहोमे “नावानां सवनीयान्, इत्यत्र न प्राप्नुयात्, तत्रापि प्रापणार्थं भक्षणवचनम् ११। अथानन्तरं व्रीहीणां यवानां चाग्रयणेष्टिरु- च्यते। तत्र व्रीह्याग्रयणस्य काल उक्तः, वसन्तो यवाग्रयणस्य। तत्र हि तेषां प्रथमः पाक इति तन्त्रे विशेषाभावात् उभयोः सहवचनं तयोर्धाय्ये विराजौ च भवतः। “इतरत् पौणमासं तन्त्रं वैराजम्” इत्येता वतैवोक्तेऽपि तावन्मात्रविकारसिद्धौ सत्यां धाय्याविराजग्रहण विकल्पेन वृधन्वतोरपि प्रापणार्थम् १२। आद्ययोर्विकल्पेनैता देवता गृह्यन्ते। यदि श्यामाकाग्रयणमस्यामेवेष्टौ समानतन्त्रेण क्रियते तदा सोमस्तृतीयो भवति १३। इन्द्राग्न्योः सोमस्य चोक्ता याज्यानुवाक्यावृत्तिः” १४। “य आहिताग्निराग्रयणेनानिष्ट्वा प्राश्नायात्” श्रुतिः अतोऽकरणे दोषश्रवणान्नित्यत्वम्। अतएव कर्कपद्धतौ नित्यानि तु अग्निहोत्रदर्शपौर्ण्णमासदाक्षायणाग्रयणपशुचातुर्मास्यादीनि अवश्य कर्त्तव्यानीत्युक्तम्। २ तन्निमित्तकेष्टौ नवशस्येष्टौ स्त्री गौरा० ङीप्। “इन्द्रेण सहितं यस्य हविराग्रयणं स्मृतम्। अग्निराग्रयणोनाम भानोरेवान्वयस्तु स इत्युक्ते ३ सूर्य्यान्वयजे वह्निभेदे पु०। उपचारात् ४ आग्रयणकाले “व्रीह्याग्रयणानन्तरं यवाग्रयणादर्वाग्व्रीहिभिरेव दर्शपौर्ण्णमासौ कार्य्यौ यवाग्रयणानन्तरं प्राग्व्रीह्याग्रयणाद्यवैरेव। अथवा व्रीहिभिरेव इति” कर्कः। “शस्यान्ते नवशस्येष्ट्या तथर्त्वन्ते द्विजीऽध्वरैः” मनुव्याख्यायां पूर्ब्बार्ज्जितधान्यादिशस्ये समाप्ते शरदि यवानामिति सूत्रकारवचनात् असमाप्ते पूर्ब्ब शस्ये नवशस्योत्पत्तौ आग्रयणेन यजेतेति शस्यक्षयस्यानियतत्वात् धनिनां बहुहायनजीवनोचितशस्यसम्भवाच्च” कुल्लू० आग्रयणञ्च कर्म्माशुद्धकाले न कर्त्तव्यम् यथोक्तम् “वाप्यारामतडागकूपेत्यादिनोपक्रम्य” “गोदानाग्रहयण प्रपाप्रथमकोपाकर्म्मवेदव्रत” मित्यादीन्युद्दिश्य “श्रवणयोर्वेधं परीक्षां त्यज वृद्धत्वास्तशिशुत्व इज्यसितयोर्न्यूनामासे तथा” मुहू० चि० उक्तेः। “सोमयोगादिकर्माणि त्याज्यानि स्यु र्मलिम्लुचे। तथैवाग्रयणाधानचातुर्य्यास्यादिकान्यह्यपि” गृ० परि० उक्तेः। “बाले वा यदि वृद्धे शुक्रे वास्तं गते गुरौ। मलमासैवेतानि वर्ज्जयेत्” वृद्धगर्गोक्ते।

आग्रह = पु० आ + ग्रह–अप्। १ आवेशे आसक्तौ अभिनिवेशे “चलेऽपि काकस्य पदार्पणाग्रहः” नैष०। २ आक्रमे ३ अनुग्रहे ४ ग्रहणे च।

आग्रहायण = पु० अग्रहायण्या मृगशीर्षनक्षत्रेण युक्ता पौर्ण्णमासी आग्रहायणी अस्त्यत्र मासे ज्योत्स्ना० अण्। १ चान्द्रमार्गशीर्षे मासि अग्रहायण्या युक्ता पौर्णमासी अण्। २ चान्द्रमार्गशीर्षमासपोर्ण्णमास्यां स्त्री। “आग्रहायण्या ऊर्द्ध्वं तिसृष्वेवाष्टकासु” स्मृतिः। “कार्त्तिक्या आग्रहायणी मासे” सि० कौ०। यथा च मृगशीर्षनक्षत्रसम्बन्धात् मासस्य मार्गशीर्षत्वं तथोक्तम् सू० सि० “नक्षत्रनाम्ना मासास्तु ज्ञेयाः पर्व्वान्तयोगतः” इति “पूर्णमास्यां मृगशीर्षनक्षत्रयोगात् मार्गशीर्षश्चान्द्रमासः मृगशीर्ष एव अग्रहायणीनामा पौर्णमास्यां तत्सम्बन्धयोग्यत्वमेव तदर्थः अत एव “कार्त्तिक्यादिषु संयोगे कृत्तिकादि द्वयं द्वयम्। अन्त्योपान्त्यौ पञ्चमश्च त्रिधा मासत्रयं स्मृतम्” सू० सि० तेन कृत्तिकारोहिणीभ्यां कार्त्तिकी मृगार्द्राभ्यां मार्गशीर्ष इत्यादि क्रमेण नक्षत्रद्वयसम्बन्धस्तत्रोक्तः।

आग्रहाय(ण)णिक = न० आग्रहायण्यां देयमृणं वुञ् ठञ् वा। आग्रहायण्यां देये ऋणे।

आग्रहायणिक = पु० आग्रहायणी पूर्ण्णिमाऽस्मिन्मासे ठक्। चान्द्रमार्गशीर्षे मासि।

आग्रहारिक = त्रि० अग्रहारोऽग्रभागोनियतं दीयतेऽस्मै ठञ्। (अग्रदानो) विप्रे।

आग्रायण = पुंस्त्री अग्रनामकस्य ऋषेः गोत्रापत्यम् नडा० फक्। अग्रनामर्षे गोत्रापत्ये १ अग्रेऽयनं। शस्यस्यास्त्यस्य ज्योस्ना० अण्। २ नवशस्येष्टौ।

आघट्टक = पु० आघट्टयति रोगान् ण्वुल्। रक्तापामार्गे राजनि० चालके त्रि०।

आघट्टना = स्त्री आ + घट्ट–युच्। चालनायां “रणद्धिराघट्टनया नभस्वतः” माघः।

आघट्टित = त्रि० आ + घट्ट–क्त। चालिते।

आघमर्षण = न० अघमर्षणे विहितम् अण्। अघानां नाशनाय विहिते सूक्तभेदे अघमर्षणशब्दे तच्च दर्शितम्।

आघर्ष = पु० आ + घृष–घञ्। मर्द्दने “गण्डस्थलाघर्षगलन्मदोदक” भाघः। भावे ल्युट्। आघर्षणमप्यत्र न०।

आघाट = पु० आ + हन–कर्त्तरि संज्ञायां घञ् पृ० नि० तस्य टः। १ अपामार्गे २ आघातके त्रि०। “यत्राघाटाः कर्कर्य्यः संवदन्ति” श्रुतिः।

आघाटिन् = त्रि० आ + हन–णिनि पृ० नि०। आघातके “आघाटिमिरिव धावयन्” ऋ० १, ०, १४६, २।

आघात = पु० आ + हन–घञ्। १ बधे २ आहनने ३ ताडने च तीव्राघातप्रतिहततरु स्वन्धलग्नैकदन्तः” मेघ०। “अभ्यस्यन्ति तटाघातं निर्जितैरावतागजाः” कुमा०। “सूत्राघातःस उच्यते” सुश्रुतः। आधारे धञ्। ४ बधस्थाने। “आघातं नीयमानस्य बध्यस्येव”।

आघातन = न० आहन्यतेऽत्र आ + हन–स्वार्थे णिच्–आधारे ल्युट्। १ बधस्थाने हारा० भावे ल्युट्। २ हनने।

आघार = पु० आ + घृ–णिच्–कर्मणि अच्। १ घृते। भावे अच्। आहितवह्नेः वायव्यकोणादारभ्याग्नेयं यावत् नैरृतीमारभ्य ऐशानीं यावच्चावच्छिन्नधारया २ घृतसेचने। “तूष्णीमाघारावाघार्य्याज्यभागौ जुहुयादग्नये स्वाहा सोमाय स्वाहा” आश्व० गृ०। “तूष्णीं मन्त्रवर्जम् उत्तरपश्चिमाया आरभ्य दक्षिणपूर्ब्बाम् प्रत्यविच्छिन्नामाज्यधारां हरेत् तथा दक्षिणपश्चिमामारभ्य उत्तरणपूर्ब्बां प्रत्याघारयेत्” तद्वृत्तिः इति ऋग्वेदिनाम्। यजुर्वेदिनान्तु मन्त्रोच्चारपूर्ब्बकंतत्सेचननिति भेदः उभयवेदिनामपि आधारकाले प्रजापतीन्द्रयोर्मन सा ध्यानम् आज्यं च स्रुवे चतुर्व्वारं ग्राह्यमिति विवेकः।

आघूर्णित = त्रि० आ + घूर्ण–क्त। १ चलिते, २ भ्रान्ते च।

आघृणि = पु० आगतो घृणिर्दीप्तिरस्य। सूर्य्ये। “एहि वां विमुचो न पादाघृणे! संसचावहै”। “रायोधारास्याघृणे वसो!” ऋ० ६, ५५, १, ३। आघृणे! आगतदीप्ते! हे पूषन्!” भा०।

आघोषण = न० आ + घुष–ल्युट्। सर्व्वत्र प्रचारणायोच्चैःशब्दकरणे। णिच्–युच्। आघोषणाप्यत्र स्त्री।

आघ्राण = त्रि० आ + घ्रा–क्त। १ गृहीतगन्धे पुष्पादौ नासिकया यस्य गन्धज्ञानं जातं तस्मिन् २ तृप्ते च भावे क्त। ३ गन्घग्रहणे ४ तृप्तौ च न०।

आघ्रात = त्रि० आ + घ्रा–क्त वा तस्य नत्वाभावः। १ गृहीतगन्धे पुष्पादौ २ तृप्ते ३ अस्पृष्टे च “युग्माद्यनाघ्राततिथिविषयम्” ति० त० रघुनन्दनः।

आघ्रेय = त्रि० आ + घ्रा–यत्। घ्राणेन ग्राह्ये “आघ्रेयः सर्व्वदेवानाम्” धूपदानमन्त्रः।

आङ् = अव्य० अत–बा० डाङ् प्रयोगे तस्य ङित्त्वम्। आशब्दार्थे तच्छब्दे विवृतिः तत्र ईषदर्थे आताम्रः आपिङ्गलः अभिव्याप्तौ ब्रह्मास्त्यासकलात्। सीमायाम् “आसमुद्रक्षितीशानामानाकरथवर्त्म नाम्” रघुः धातुविशेषयोगेनार्थंविशेषे आगच्छति आतिष्ठते आलम्बते “तुलां यदारोहति दन्तवाससा” अभ्यासे आवृत्तिः अभ्यावृत्तः। प्रत्यावृत्तौ प्रत्यागच्छति। समन्ताद्वृत्तौ आचितः आकीर्ण्णः।

आङ्कशायन = त्रि० अङ्कुशेन निर्वृत्तादि सङ्काशा० चतुरर्थ्याम् फक्। अङ्कुशनिर्वृत्तादौ।

आङ्कशिक = त्रि० अङ्कुशः प्रहरणमस्य ठक्। अङ्कुशप्रहरणयुक्ते।

आङ्ग = न० अङ्ग + स्वार्थे अण्। १ कोमलाङ्गे अङ्गादागतः अण्। व्याकरणप्रसिद्धे २ अङ्गाधिकारविहिते कार्य्ये “वर्ण्णादाङ्गं बलीयः” परिभाषा अङ्गदेशे भवः अण्। ३ अङ्कदेशभवे त्रि० बहुवचने तु तस्य लुक् अङ्गाः। अङ्गानां राजा अण्। ४ अङ्गदेशस्यराजनि बहुषु लुक् अङ्गाः तद्राजषु। स्त्रियां प्राच्यत्वान्न लुक्, आङ्गी।

आङ्गक = त्रि० अङ्गेषु जनपदेषु भवः वुञ्। १ अङ्गदेशभवे। अङ्गाः क्षत्रियाः तद्देशनृपतयो भक्तिरस्य वुञ्। अङ्गदेशक्षत्रिया यस्य सेव्याः तस्मिन् २ बहूनामङ्गदेशक्षत्रियाणां सेवके। अङ्गा जनपदोभक्तिरस्य वुञ्। ३ बहुत्ववदङ्गजनपदसेवके च त्रि०।

आङ्गविद्य = त्रि० अङ्गविद्यां वेद “अङ्गक्षत्रधर्म्मत्रियागाद्विद्यान्तान्नेति वक्तव्यम्” वार्त्ति० ठको निषेधात् अण्। १ व्याकरणाद्यङ्गविद्यावेत्तरि। तद्व्याख्यानो ग्रन्थः ऋगयनादि० अण्। २ अङ्गविद्याव्याख्याने ग्रन्थे अङ्गविद्यायां भवः अण्। ३ तद्विद्याभवे।

आङ्गार = न० अङ्गाराणां समूहः भिक्षादि० अण्। अङ्गारसमूहे।

आङ्गिक = त्रि० अङ्गेन अङ्गचालनेन निर्वृत्तम् अक्षद्यूता० ठक्। भावव्यञ्जके अङ्गनिष्पन्ने नटादीनां १ भ्रूविक्षेपादौ। “भवेदभिनयोऽवस्थानुकारः स चतुर्विधः। आङ्गिकोवाचिकश्चैवमाहार्य्यः सात्विकस्तथा” सा० द०। स्त्रीणां चेष्टाविशेषे २ हावादौ। “यौवने सत्वजास्तासामष्टाविंशति सङ्ख्यकाः। अलङ्कारास्तत्र हावभावहेलास्त्रयोऽङ्गजाः” सा० द०। हावादयश्च तत्तच्छब्दे बक्ष्यन्ते “अङ्गं मृदङ्ग तद्वाद्यं शिल्पमस्य ठक्। मृदङ्गवादनशिल्पके त्रि०।

आङ्गिरस = पुंस्त्री० अङ्गिरसोऽपत्यम् अण्। १ अङ्गिरस ऋषेरपत्ये “अध्यापयामास पितॄन् शिशुराङ्गिरसः कविः” मनुः। बहुत्वेऽणो लुक्। अङ्गिरसः स्त्रियां न लुक् ङीप्। “आथर्वणीराङ्गिरसीर्दैवोर्मनुष्यजाउत” अथ० ८, ५, ९। २ वृहस्पतौ तस्य तदपत्यत्वम् भा० आ० प० ६६ अ०। “अङ्गिरसस्त्रयः पुत्राः लोके सर्व्वत्र विश्रुताः। वृहस्पतिरुतथ्यश्च संवर्त्तश्च धृतव्रतः”। अङ्गिरसा दृष्टम् अण्। अथर्ववेदोक्ते ३ सूक्तभेदे “अर्थर्घ्वाङ्गिरसं नीलरुद्रं देव्यपराजिता। मधु सूक्तं रौधसञ्च शान्तिकाध्यायमेव च। अथर्व्वाणौ द्वारपालौ पठेतामुत्तराश्रितौ” दानपारि० पुरा०। तच्च सूक्तं अथर्वसंह्रितायां १८, १, ५८, ५९, ६०, ६१ मन्त्र चतुष्कात्मकम्, “अङ्गिरसौ नः पितरः” इत्यादिकम्। तच्च तुलादानादिपद्धतौ अस्माभिः १८५ पृ० दर्शितम् अङ्गिनामङ्गानां रसः सारः स्वार्थे अण्। ४ आत्मनि। “सोऽयास्य आङ्गिरसोऽङ्गानां हि रसः” इति वृ० उ०। “आङ्गिरस आत्मा कार्य्यकरणानाम् कथमाङ्गिरसः!। प्रसिद्धं हि यदङ्गिनामङ्गानां रसत्वं तदपायेशोषप्राप्तेरिति वक्ष्यामः यस्माच्चायमङ्गिरसत्वात् विशेषानाश्रयत्वाच्च कार्य्यकरणानां साधारण आत्मा विशुद्धश्च तस्माद् वागादीनपास्य प्राण एवात्मत्वेनांश्रयितव्य इति वाक्यार्थः” श० भा०।

आङ्गिरसेश्वर = पु० आङ्गिरसेन प्रतिष्ठितः ईश्वरः। काशीक्षेत्रस्थे आङ्गिरसप्रतिष्ठिते शिवलिङ्गभेदे।

आङ्गुरि(लि)क = पु० अङ्गुलि (रि) व इवार्थे कन्। वा रत्वम्। अङ्गुल्याकृतौ पदार्थे।

आङ्गूष = पु० अङ्गति गच्छति देवान् अगि–ऊपच अङ्गषःततः स्वार्थे अण्। स्तोत्रे। “तिरः पुरू चिदश्विना रजां स्याङ्गूषः” ऋ० ३, ५८, ५। “आङ्गूषं स्त्रोत्रम्” भा०। “प्रमन्महे शवसानाय शूषमाङ्गूषम्” यजु ३४, १६। “अस्मा इदुप्रय इव प्रयंसि भराम्याङ्गूषं बाधे सुवृक्ति” ऋ० १, ६१, २।

आङ्ग्य = त्रि० अङ्गे भवः आङ्गः चतरर्थ्यां संकाशा० यत्। अङ्गभवसन्निकृष्टदेशादौ।

आचके = अव्य० आ + चक ए–विभक्तिप्रतिरूपकम्। कामनायाम् निरु०। “त्वामवस्युराचके” यजु० २१, १। आचके कामये” वे० दी०। “रम्नातुरुद्रोवसुभिराचके” य० ४, २१।

आचक्षाण = त्रि० आ + चक्ष–शानच्। आख्यानं कुर्व्वति।

आचतुर = अव्य० चतुःपर्य्यन्तम् अव्ययी० अच् समा०। चतुःपर्य्यन्ते “आचतुरं हीमे पशवोद्वन्द्वं मिथुनायन्ते”। माता पुत्रेण मिथुनं गच्छति पौत्रेण प्रपौत्रेण “तत्पुत्रादिनापीति मर्य्यादार्थः” सि० कौ०।

आचक्षुस् = त्रि० आ + चक्ष–बा० उसि। आख्यानकर्त्तरि।

आचतुर्य्य = न० अचतुरस्य भावः “न नञ्पूर्ब्बात् इत्यादि” पा० सू० चतुरादिपर्य्युदासात् भावे ष्यज् प्रत्ययः। अनैपुण्ये

आचम = पु० आ + चम–घञ् वा ह्रस्वः। आचमनशब्दार्थे “दध्ना सह पलैकन्तु शुद्धं वारि तथाचमे” तन्त्रसा०।

आचमन = ग० आ + चम–भावे ल्युट्। १ जलादेः पाने स्मृत्युक्ते कर्म्माङ्गे २ कर्त्तृसंस्कारके २ क्रियाभेदे च, आ० तत्त्वे “आचमने उदकग्रहणप्रकारपरिमाणञ्चाह भरद्वाजः। ‘आयतं पर्वणां कृत्वा गोकर्णाकृतिमत्करम्। संहताङ्गुलिना तोयं गृहीत्वा पाणिना द्विजः। मुक्त्वाङ्गुष्ठकनिष्ठाभ्यां शेषेणाचमनं चरेत्। मासमज्जनमात्रास्तु संगृह्य त्रिः पिवेदपः’। पाणिना दक्षिणेन “त्रिःपिवेद्द- क्षिणेनापः” इति आदिपुराणोक्तेः। मार्कण्डेयः। “सपवित्रेन हस्तेन कुर्य्यादाचमनक्रियाम्। नोच्छिष्टं तत्पवित्रन्तु भुक्तोच्छिष्टन्तु वर्जयेत्”। मदनपारिजाते हारीतः। ‘ग्रन्थिर्यस्य पवित्रस्य न तेनाचमनञ्चरेत्’। ग्रन्थना ग्रन्थिरिति समुद्रकरोऽपि। आचमनानुवृत्तौ देवलः। ‘न गच्छन् न शयानश्च न क्रमन् न परान् स्पृशन्। न हसन् नैव संजल्पन् नात्मानञ्चैव वीक्षयन्’। क्रमन् कम्पमान इति रत्नाकरः। आत्मानं आत्मस्थानं हृदथं वीक्षयन् इति स्वार्थे णिच्। नेत्यनुवृत्तौ। ‘केशान्नीवीमघःकायं संस्प शन् धरणीमपि। यदि स्पृशति चैतानि भूयः प्रक्षालयेत् करम्”। अधःकायं नाभेरधः प्रदेशम्। करं दक्षिणम्। आचमनानुवृत्तौ गोभलः। “नान्तरीयैकदेशेन कल्पयित्वोत्तरीयकम्” इति। अन्तरी यमधःपरिधानं तदेकदेशेन उत्तरीयं कृत्वा। मरीचिः। “न बहिर्जानुस्त्वरया नासनस्थो नचोत्थितः। न पादुकास्थो नाचित्तः शुचिः प्रयतमानसः। उपस्पृस्य द्विजो नित्यं शुद्धः पूतो भवेन्नरः। भुक्त्वासनस्थोऽप्याचामेत् नान्यकाले कदाचन”। जलस्थलोभयकर्म्मानुष्ठानार्थं जलस्थलैकचरणेनाचमनं कर्त्तव्यमित्याह पैठीनसिः। “अन्तरुदके आचान्तोऽन्तरेव पूतोबहिरुदके आचान्तो बहिरेव शुद्धो भवति तस्मादन्तरेकं बहिरेकं च पादं कृत्वा आचामेत् मर्वत्र शुद्धो भवति” इति। जानुनऊर्द्ध्वजलेषु तिष्ठन्नेवावामेत्। “जानोरूर्द्धं जले तिष्ठान्नाचान्तः शुचितामियास्। अधस्तात् शतकृत्वोऽपि समाचान्तो न शुध्यति” इति विष्णूक्तेः। हारीतः। “आर्द्रवासा जले कुर्य्यात् तर्पणाचमनं जपम्। शुष्कवासा स्थले कुर्य्यात् तर्पणाचमतं जपम्। कात्यायनः। “स्नानमाचमनं होमं भोजनं देवतार्च्चनम्। प्रौढपादो न कुर्व्वीत स्वाध्यायं पितृतर्पणम्। आसनारूढपादस्तु जानुनोर्जङ्घयोस्तथा। कृतावसक्थिको यस्तुं प्रौढपादः स उच्यते”। आसनरूढपादः आसनारूढपादतलः। जानुनोर्जङ्घयोः कृतावसक्थिकः वस्त्रादिना कृतपृष्ठजानुजङ्घावन्धः तुद्वयेन भेदप्रतीतेः। अत्र च “अनेको द्वाह्ये दारुशिले भूभिसमे इष्टकाश्च संकीर्णभूता” इति वौधायनवचनात् तथाविधपादोऽपि कुर्य्यात्। व्यासः। “शिरः प्रावृत्य कण्ठं वा मुक्तकच्छशिखोऽपि वा। अकृत्वा पादयोः शौचमाचान्तोऽप्यशुचिर्भवेत्। अपः पाणिनखाग्रेषु आन्तामेद्यस्तु वै द्विजः। सुरापाणेन तत्तुल्यमित्येवमृषिरब्रवीत् संवृत्यैति”। मुखं संवृत्य अलोम कौष्टस्पर्शो यथा न मवतीति तात्पंर्य्यम्। तथाच वशिष्ठः। “आचान्तः पुनराचामेत् वासोविपरिधाय च। ओष्ठौ संस्यश्य च तथा यत्र स्यातामलोमकौ”। एवञ्च प्रागुक्तहारीतवचने यत् ओष्ठयोर्मार्जनमुक्तं तत्सलोमकयोरेवेति। एतदनन्तरं वामहस्तं पादौ शिरश्च दक्षिणेन पाणिना जलेनाभ्युक्षयेत्। तथाच कामधेनावापस्तम्बः। “त्रिराचामेत् हृद्गताभिरद्भिस्त्रिरोष्ठौ परिमृजेत्। द्विरित्येके दक्षिणेन पाणिना सव्यं प्रोक्ष्य पादौ शिरश्च”। गोभिलः। “त्रिराचामेत् द्विः प्रमृजीत पादावभ्युक्ष्य शिरोऽभ्युक्षयेत् इन्द्रि याण्यद्भिः स्पृशेत् अक्षिणी नासिके कर्णाविति”। इन्द्रियाणि इन्द्रियायतनानि इन्द्रियाणाममूर्त्तत्वात् तिसृभिरिति तर्ज्जनीमध्यमानामिकाभिः “तर्ज्जन्यनामामध्याभिर्मुखं पूर्वं स्पृशेदिति व्रह्मचारिकाण्डधृतभविष्यात्। “ध्राणं नासापुष्टद्वयं “तर्ज्जन्थङ्गुष्ठयोगेन स्पृशेन्नासापुटद्वम्” इति शङ्खात्। एवं पुनःपुनरिति चक्षुःश्रोत्रद्वयाभिप्रायेण श्रोदत्तोऽप्येवम्। तेन दक्षिणं स्पृष्ट्वा वामं स्पृशेत्। व्यक्तं कामधेनावाचारचिन्तामणावापस्तम्बः। “चक्षषी नासिके कर्णौ सकृत् सकृदुपस्पृशेत्”। द्विरित्येके द्विरिति शाख्यन्तरीयम् अत्र गोभिलीयापस्तम्बीयप्राठक्रमो न ग्राह्यः तत्क्रमस्य “श्रुत्यर्थपठनस्थानमुख्यप्रावर्त्तिकाः” इति जैमिनिसूत्रात् “घ्राणं पश्चादनन्तरमिति” दक्षोक्तशब्दक्रमेण बलवता बावात्। अतएव दक्षेणैव प्रतिज्ञातम्। “उक्तं कर्म्म क्रमो नोक्तः न कालस्त्वत एव हि। द्विजानान्तु हितार्थाय दक्षस्तु स्वयमब्रवीत्”। अतश्छन्दोगपरिशिष्टेन गोभिलास्पष्टक्रमः स्पष्टीकृतः। यथा “त्रिःप्राश्यापोद्विरुन्मृज्य मुखमेतान्युपस्पृशेत्। आस्यनासाक्षिकर्णांश्च नाभिवक्षःशिरोऽंसकान्”। अत्र नासाक्षीत्युक्तम्। सर्वात्राङ्गुष्ठयोगेन करणमाह पैठीनसिः। “अग्निरङ्गुष्ठस्तस्मात्तेनैव सर्व्वाणि स्थानानि स्पृशेत्”। नाभिस्पर्शानन्तरं जलस्पर्शमाह व्यासः। “ततः स्पृशन्नाभिदेशं पुनरपश्च संस्पृशेत्”। इन्द्रियस्पर्शानन्तरं भविष्ये। “यद्भूमावुदकं वीर! समुत्सृजति मानवः। वासुकिप्रमुखान् नागान् तेन प्रीणाति मानवः”। पैठीनसिः। “स्पृष्ट्वा प्राणान् यथासंख्यं पादौ प्रोह्य पयः शुचिः। सव्ये पाणौ ततः शेषा अपोविनिनयेदिति” प्राणान् इन्द्रियाणीति रत्नाकरः। शेघा आचमनावशिष्टाः इति मदनपारिजातः। एतत्परमेव ‘अन्ततः प्रत्युपस्पृश्य शुचिः’ इति गोभिलसूत्रम्। अक्ष्यादिस्पर्शसहितमाचमनं कृत्वा उदकं स्पृष्ट्वा शुचिरिति सरला। अन्तत उपस्पृशेनात् पाणिना उदकस्पर्शं कृत्वा शुचिर्भवतोति भट्टभाष्यम्। अतएवोपस्पर्शममिधाय ततो जलशेषं वामहस्ते त्यजेदिति पितृदयिता। एतेन द्विजातीनामपि द्विराचमने ओष्ठजलस्पर्शमात्रं शास्त्रार्थः “प्रत्युपस्पृश्यान्ततः शुचिर्भवति” इति गोभिलगृह्यादिति छन्दोगाह्निंकं निरस्तम्। “हृदयं स्पृशंस्त्वेवमेवाचामेत्” इति तदनन्तरसूत्रेण हृदयस्पृग्जलनियमात्। “उच्छिष्टोऽत्रैवातोऽन्यथा भवत” इति सूत्रान्तरेण हृद्गतत्वाभावे “उच्छिष्टत्वाभिधानात् एतदनन्तरमेवाथ प्रत्युपस्पर्शनम्” इत्यादिना द्विराचमनादिविधानाच्च। वायुपुराणे। “निष्ठीवने तथाभ्यङ्गे तथा पादावसेचने। उच्छिष्टस्य च संभाषात् अशुच्युपहतस्य च। सन्देहेषु च सर्वेषु शिखां मुक्त्वा तथैव च। विना यज्ञोपवीतेन नित्यमेवमुपस्पृशेत्। उष्ट्रवायससंस्पर्शे दर्शने चान्त्यवासिन्धम”। प्रागर्द्धे कृत इति शेषः। सन्देहेषु अप्रायत्यस्येति शेषः। शिखां मुक्त्वा अनन्तरं बद्ध्वा यज्ञोपवीतेन विना स्थित्वा पुनः परिधाय चाचामेदित्यर्थः। हारीतः। “स्त्रीशूद्रोच्छिष्टसंभाषणे मूत्रपुरीषोत्सर्गदर्शने देवमभिगन्तुकाम आचामेदिति”। देवलः। “उच्छिष्टं मानवं स्पृष्ट्वा भोज्यं चापि तथाविधम्। तथैव हस्तौ पादौ च प्रक्षाल्याचम्य शुद्ध्यति”। तथाविधमुच्छिष्टम्। याज्ञवल्क्यः। “स्नात्वा पीत्वा क्षुते सुप्ते भुक्त्वा रथ्योपसर्पणे। आचान्तः पुनरांचामेत् वासोविपपरिधाय च”। ब्रह्मपुराणम् “होमे भोजनकाले च सन्ध्ययोरुभयोरपि। आचान्तः पुनराचामेत् अन्यत्रापि सकृत् सकृत्। द्विराचम्य ततः शुद्धः स्मृत्वा विष्णुं सनातनम्” स्मृतिः। “क्षुते निष्ठीविते सुप्ते परिधानेऽश्रुपातने। कर्म्मस्थ एषु नाचामेद्दक्षिणं श्रवणं स्पृशेत्”। साङ्ख्यायनः। “आदित्यावसवोरुद्रा वायुरग्निश्च धर्म्मराट्। विप्रस्य दक्षिणे कर्णे नित्यं तिष्ठन्ति देवताः”। अत्र हेतुमाह पराशरः। “प्रभासादीनि तीर्थानि गङ्गाद्याः सरितस्तथा। विप्रस्य दक्षिणे कर्ण्णे वसन्ति मनुरब्रवीत्”। मार्कण्डेयपुराणभ्। “कुर्य्यादाचमनं स्पर्शं गोपृष्ठस्यार्कदर्शनम्। कुर्व्वीतालभनञ्चापि दक्षिणश्रवणस्य च। यथाविभवतोह्येतत् पूर्व्वाभावे ततः परम्। न पूर्ब्बस्मिन् विद्यमाने उत्तरप्राप्तिरिष्यते”। पुराणसारवायुपुराणयोः। “यः कर्म कुरुते मोहादनाचम्यैव नास्तिकः। भवन्ति हि वृथा तस्य क्रियाः सर्व्वा न संशयः”। इत्यन्तम्। मदनपारिजांतेऽत्र विशेष उक्तः। वृद्धशाता “कृत्वाथ शौचं प्रक्षाल्य स्नात्वैव इन्द्रियोपहतस्तूपोष्य स्रात्वा” “कृत्वाथ शौचं प्रक्षाल्य पादौ हस्तौ च मृज्जलैः। निबद्धशिखकच्छस्तु द्विज आचमनं चरेत्” प्रचेताः। “अनुष्णफे नशीताभिराचामेदिति”। आतुराणामुष्णोदकमप्यविरुद्धम्। तथाचापस्तम्बः “उदकेनातुराणाञ्च तथोष्णेनोष्णपायिनामिति”। अत्राचमनं भवतीति शेषः। योगीश्वरः “अन्तर्जानु शुचौ देशे उपविष्टौदङ्मुखः। प्राग्वा ब्राह्मेण तीर्थेन द्विजो नित्यमुपस्पृशेत्। तथा “कनिष्ठादेशिन्यङ्गुष्ठमूलान्यग्रं करस्य च। प्रजापतिपितृब्रह्मदेवतीर्थान्यनुक्रमात्”। दक्षः। “प्रक्षाल्य पादौ हस्तौ च त्रिःपिवेदम्बु वीक्षितम्। संवृत्याङ्गुष्ठमूलेन द्विःप्रमृज्यात्ततोमुखम्। वीक्षितमित्येतदहर्विषयम्। “रात्रावनीक्षितेनैव शुद्धिरुक्ता मनीषिभिरिति” यमस्मरणात् मनुः। त्रिराचामेदपः पूर्ब्बं द्विःप्रमृज्यात्ततोमुखम्। खानि चोपस्पृशेदद्भिरात्मानं शिरएव च” गौतमः। “त्रिश्चतुर्वा अप आचामेदिति” चतुर्ग्रहणं पित्रपक्षयेति केचित्। त्रिर्ग्रहणेन तुष्ट्यभाव इत्यन्ये। भरद्वाजः। संहताङ्गुलिभिस्तोयं गृहीत्वा दक्षिणेन तु। मुक्ताङ्गुष्ठकनिष्ठे तु शेषेणाचमनं चरेत्। ब्राह्मेण विप्रस्तीर्थेन नित्यकालमुपस्पृशेत्। कायत्रैदशिकाभ्यां वा न पित्रेण कदाचन। कायं प्राजापत्यं त्रैदशिकं दैवम्। यस्मिन् आचमनप्रयोगे च येन ब्राह्मादितीर्थं स्वीकृतं तेनैव स प्रयोगः कार्य्यो न तीर्थान्तरेण। दक्षः। “संहताङ्गुलिभिः पूर्व्वं आस्यमेवमुपस्पृशेत्। अङ्गुष्ठेन प्रदेशिन्या घ्राणं पश्चादनन्तरम्। अङ्गुष्ठानामिकाभ्याञ्च चक्षुःश्रोत्रे पुनः पुनः। नाभिं कनिष्ठाङ्गुष्ठाभ्यां हृदयन्तु तलेन वै। सर्वाभिश्च शिरः पश्चात् बाहू चाग्रेण संस्पृशेत्। याज्ञवल्क्यः। “अद्भिस्तु प्रकृतिस्थाभिर्हीनाभिः फेनबुद्वुदैः। त्रिःप्राक्षाल्य द्विरुन्मृज्य खान्यद्भिः समुपस्पृशेत्”। अत्र विशेषमाह पैठीनसिः। “सव्ये पाणौ शेषा अपो निनयेदिति”। शेषा आचमनावशिष्टाः। वृहत्शङ्खस्त्वन्यथोपपस्पर्शनमाह। “तर्ज्जन्यङ्गुष्ठयोगेन स्पृशेत् स्कन्धद्वयन्ततः। अङ्गुष्ठस्यानामिकाया योगेन श्रवणे स्पृशेत्। कनिष्ठाङ्गुष्ठयोगेन स्पृशेत् स्कन्धद्वयं ततः। नाभिञ्च हृदयं तद्वत् स्पृशेत् पाणितलेन तु। संस्पृशेच्च तथा शीर्षमिति”। शङ्खस्तु “ततोऽङ्गुलिचतुष्केण स्पृशेन्मूर्द्धानमा– दितः। तर्ज्जन्यङ्गुष्ठयोगेन स्पृशेन्नेत्रद्वयं पृथक्। मध्य- मानामिकाभ्यान्तु स्पृशेन्नासापुटे क्रमात्। अङ्गुष्ठेन कनीयस्याः कर्णौ संयोगतः स्पृशेत्। तर्ज्जन्यङ्गुष्ठयोगेन नाभिं हृदि तु संस्पृशेत्”। पैठीनसिः। “अग्निरङ्गुष्ठस्तस्मात्तेनैव सर्व्वाणि स्थानानि स्पृशेदिति”। अत्र स्वस्वशाखानुसारेण व्यवस्थितो विकल्पः। यत्र शाखायामङ्गमेव नाम्रातम् अङ्गुष्ठादिविशेषो वा नाम्रातः। तच्छाखीयानां त्वैच्छिको विकल्पः येषान्तु स्वशाखायां कतिपयाङ्गस्पर्शनं नाम्नातम्। तेषान्तु स्वशाखोक्त क्रमानुसारी शाखान्तरोक्तक्रमः अनुक्ताङ्गस्पर्शे भवतीति व्यवस्था। उदकपरिमाणमाह याज्ञवल्क्यः। हृत्कण्ठतालुगाभिश्च यथासंख्यं द्विजातयः। शुध्येरन् स्त्री च शूद्रश्चसकृत् स्पृष्टाभिरन्ततः”। अन्ततस्तालुगाभिः। हृदङ्गमापरिमाणमाह उशनाः। “मासमज्जनमात्रा हृदयङ्गमा भवन्ति”। आचमनप्रसङ्गात् सपवित्राचमने कश्चन विशेषः प्रदर्श्यते। तत्र मार्कण्डेयः। “सपवित्रेण हस्तेन कुर्य्यादाचमनक्रियाम्। नोच्छिष्टं तत्पवित्रन्तु भुक्तोच्छिष्टन्तु वर्जयेत्। एतद्दक्षिणकराभिप्रायम्। हारीतेन वामे निषेधात्। “वामहस्ते कुशान्कृत्वा समाचामति योद्विजः। उपस्पर्शो भवेत्तेन रुधिरेण मलेन चेति”। एतत् केवलवामहस्ताभिप्रायम्। हस्तद्वयाश्रयस्पर्शने गोभिलेन फलस्मरणात्। “उभयत्र स्थितैर्दर्भैः समाचामति योद्विजः। सोमपानफलं तस्य भुक्त्वा यज्ञफलं भवेदिति”। अत्र विशेषमाह हारीतः। सव्यापसव्यौ कुर्व्वीत सपवित्रकरौ वुधः। ग्रन्थिर्यस्य पवित्रस्य न तेनाचमनं भवेदिति। पवित्रलक्षणमाह कात्यायनः। “अनन्तर्गर्भिणं साग्रं कौशं द्विदलमेव च। प्रादेशमात्रं विज्ञेयं पवित्रं यत्र कुत्रचित्”। मार्कण्डेयः। “चतुर्भिः कुशपिञ्जलैर्ब्राह्मणस्य पवित्रकम्। एकैकं नूनमुदिष्टं वर्णे वर्ण्णे यथाक्रमम्। त्रिभिर्दर्भैः शान्तिकर्म्म पञ्चभिः पौष्टिकं तथा। चतुर्भिश्चाभिचाराख्यं कुर्व्वन् कुर्य्यात् पवित्रकमिति”। अथाचमननिमित्तानि तत्र मनुः। “उत्तोर्य्योदकमाचामेदवतीर्य्य तथैव च”। हारीतः। “स्त्रीशूद्रोच्छिष्टाभिभाषणे मूत्रपुरीषोत्सर्गदर्शने देवतामभिगच्छंस्तु काम आचमेत्”। अथ द्विराचमननिमित्तानि। तत्र याज्ञवल्क्यः। “स्नात्वा पीत्वा क्षुते सुप्ते भुक्त्वा रथ्योपसर्पणे। आचान्तः पुनराचामेद्वासोविपरिधाय च” बौधायनः। “भोजने हवने दाने उच्चारे च प्रतिग्रहे। हविर्भक्षणकाले वा तद्द्विराचमनं स्मृतम्”। ब्रह्मपुराणे। होमे भोजन- काले च सन्ध्ययोरुभयोरपि। आचान्तः पुनराचामेत् अन्यत्र च सकृत् सकृत्”। अङ्गिराः। “चण्डलादीन् जपे होमे दृष्ट्वाचम्य विशुद्ध्यति। श्वादीन् दृष्ट्वापि वाचामेत् कर्णं वा दक्षिणं स्पृशेत्। जानुनोरधस्तात्खादिस्पर्शे आचमनमन्यत्र स्नानविधानात्। उदकाभावेऽसामर्थ्ये वा दक्षिणश्रवणस्फर्शः। अनेनैवाभिप्रायेण वृहस्पतिः। “पित्रमन्त्रोच्चरे रौद्रे आमालम्भेऽधमेक्षणे। अधोवायुसमुत्सर्गे आक्रन्दे क्रोधसम्भवे। मार्जारमूषिकस्पर्शे प्रवासिऽनृतभाषणे। निमित्तेषु च सर्वेषु दक्षिणं श्रवणं स्पृशेत्”। तथा “आर्द्रं तृणं गोमयं वा भूमिं वा संस्पृशेद् द्विजः”। सांख्यायनः। क्षुते निष्ठीवने इत्यादि प्रागुक्तम्। आचारसागरे। अपःपीत्वौषधं जग्ध्वा कृत्वा ताम्बूलचर्व्वणम्। सौगन्धिकानि सर्वाणि नचाचामेद् विचक्षणः। अपोजग्ध्वेति अमृतोपधानमसीत्यादिभिर्म्मन्त्रैरपोजग्ध्वानन्तरं नित्यं नाचामेदित्यर्थः। वौधायनः। “पादक्षालनशेषेण नाचामेद्वारिणा द्विजः। शुभाभावे पिबेत् किञ्चित्क्षिप्त्वा भूमौ जलं स्पृशेत्”। आपस्तम्बः। “सन्ध्यार्थे भोजनार्थे वा पित्रर्थे वा तथैव च। शूद्राहृतेन नाचामेत् जपेज्याहवनेषुच”। यमः। तावन्नोपस्पृशेत् विप्रोयाकद्वामेन संस्पृशेत्। उदके चोदकस्थस्तु स्थलस्थस्तु स्थले शुचिः। पादौस्थाप्योभयत्रापि आचान्तोभयतः शुचिः”। जले स्थले चैकैकं पादं कृत्वाचान्त उभयत्र जलकर्मणि स्थलकर्मणि च शुद्धो भवतीत्यर्घः। “अकृत्वा पादयोः शौचं तिष्ठन्मुक्तशिखोऽपि वा। विना यज्ञोपवीतेन आचान्तोऽप्यशुचिर्भवेत्”। तिष्ठन्निति स्थलविषयम्। विष्णुना तिष्ठतोपि जलेऽभ्यनुज्ञानात्। “जान्वोरुर्द्धं जले तिष्ठन्नाचान्तः शुचितामियात्। अधस्तात् शतकृत्वोपि समाचान्तो न शुद्ध्यति”। अधस्तान्निषेधाज्जानुदध्नेऽप्यविरुद्धम्। तथा च स्मर्य्यते। “जानुमात्रे जले तिष्ठन्निति” अत्राचान्तः शुचिरिति वाक्यशेषः। तथा “सोपानत्कोनचोष्णीषी पर्य्यङ्कशययानगः। दुर्देशे प्रपतंश्चैव नाचमन् शुद्धिमाप्नुयात्। नरगोखरयानाश्वहस्त्यधीरोहकस्तथा। आचान्तः कर्म्मशुद्धः स्यात्ताम्बूलौषधजग्धिकृत्। भुक्त्वासनस्थोऽप्याचामेत् नान्यकाले कदाचन। न पादुकास्थो न त्वरितो नचायज्ञो पवीतवान्। स्पृशन्ति विन्दवः पादो जङ्घे चामतः परान्। भौमिकैस्ते समाज्ञेया नचैवाप्रयतो भवेत्। परेषामाचमनीयोदके दीयमाने ये विन्द्रवः पादयोः पतन्ति ते नाऽ- शुद्धात्यर्थः”। “न तिष्ठन्नुद्धृतोदकेनाचामेन्न शूद्राशुच्येकपाण्यावर्ज्जितेन” गौ० स्पष्टः क्रमः काशीखण्डे उक्तः। “प्रागास्य उदगास्यो वा सूपविष्टः शुचौ भुवि। उपस्पृशेद्विहीनायां तुषाङ्गारास्थिभस्मभिः। अनुष्णाभिरफेनाभिरद्भिर्जुष्टाभिरत्वरः। ब्राह्मणोब्राह्मतीर्थेन दृष्टिपूताभिराचमेत्। कण्ठगाभिर्नृपः शुव्येत्तालुगाभिस्तथोरुजः। स्त्रीशुद्रावास्यसंस्पर्शमात्रेणापि विशुध्यतः। समस्ताङ्गुलिनोद्धृत्य पाणिना दक्षिणेन तु। त्यक्ताङ्गुष्ठकनिष्ठाभ्यां शेषेणाचमनं विदुः। शिरः प्रावृत्य कण्ठं वा जले मुक्तशिखोऽपि वा। अक्षालितपदद्वन्द्व आचान्तोऽप्यशुचिर्मतः। त्रिःपीत्वाम्बुविशुद्ध्यर्थं ततः खानि विशोधयेत्। अङ्गुष्ठमूलदेशेन द्विर्द्विरोष्ठाधरौ स्पृशेत्। अङ्गुलीभिस्त्रिभिः पश्चात् पुनरास्यं स्पृशेत् सुधीः। तर्ज्जन्यङ्गुष्ठकोष्ठौ च घ्राणरन्ध्रे पुनः पुनः। अङ्गुष्ठानामिकाभ्यां च चक्षुःश्रोत्रे पुनः पुनः। कनिष्ठाङ्गुष्ठयोगेन नाभिरन्ध्रमुपस्पृशेत्। स्पृष्ट्वा तलेन हृदयं समस्ताभिः शिरः स्पृशेत्। अङ्गुल्यग्रैस्तथास्कन्धौ साम्बु सर्व्वत्र संस्पशेत्। आचान्तः पुनराचामेत् क्षुते रथ्योपसर्पणे। स्नात्वा भुक्त्वा पयः पीत्वा प्रारम्भे शुभकर्मणाम्। सुप्त्वा वासः परीधाय तथा दृष्ट्वा प्यमङ्गलम्। प्रमादादशुचिं स्पृष्ट्वा द्विराचान्तः शुचिर्भवेत्”। सन्ध्याङ्गाचमने शाखिभेदे मन्त्रविशेषोऽपि स्मर्य्यते। “सायमग्निश्च मेत्युक्त्वा प्रातः सूर्य्येत्यपः पिबेत्। आपः पुनन्तु मध्याह्ने ततश्चाचमनं चरेत्” एभिराचमनं चरेदिति शौनकीये पाठः। मैत्रायणीय गृह्य परि०। “प्रातः सूर्य्यश्चमेत्युक्त्वा सायमग्निश्च मेति च। आपः पुनन्तु मध्याह्ने कुर्यादाचमनं ततः”। “ततः प्राणायामानन्तरमिति” आ० त० रघु० “प्राणस्यायमनं कृत्वा आचामेत् प्रयतोऽपि सन्। अन्तरं स्विद्यते यस्मात्तस्मादाचमनं स्मृतम्” योगि० या०। मदनपारिजाते। “सन्ध्याचमने बौधायनः अथातः सन्ध्योपासनविधिं व्याख्याष्यामः तीर्थं गत्वा प्रयतोऽभिषिक्तप्रक्षालितपाणिपादः अप आचम्याग्निश्च मा मन्युश्चेनि सायमपः पीत्वा, सूर्यश्च मामन्युश्चेति प्रातरपः पीत्वेति” अग्निश्च सूर्य्यश्चेति यजुर्वेदिनामिमौ मन्त्रौ च्छन्दोगानां तु सन्ध्याचभने गौतमोक्तौ मन्त्रौ द्रष्टव्यौ “अहश्च मादित्यश्च पुनात्विति प्रातः रात्रिश्च मा वरुणश्च पुनात्विति सायमिति” “एतौ च मन्त्रौ प्रजापतिदृष्ट्वौ लिङ्गोक्तदैवतौ चेति” अनयोश्च मन्त्रयोः सामविदिविषयकत्वेन तत्रोक्तावपि तयोः सम्यगज्ञानात् “यजुः सर्व्वत्र पीयते” इत्युक्तेश्च यजुर्वेदोक्ता- वेव प्रागुक्तौ सामवेदिभिः प्रयुज्येते। तज्ज्ञाने तु तावेव प्रयोक्तव्यौ। काशीकाण्डे तु “इमं मन्त्रं ततश्चोक्त्वा कुर्य्यादाचमनं द्विजः। आचार्य्याः केचिदिच्छन्ति शाखाभेदेन चापरे। अन्तश्चरसि भूतेषु गुहयां विश्वतोमुख!। त्वं यज्ञस्त्वं वषट्कार आत्माज्योतीरसोऽमृतम्”। आचमने मन्त्रान्तरमुक्तम्। तदपि शाखिभेदाद्यवस्थाप्यम्। मधुपर्कानाङ्गाचमने वेदिभेदेन मन्त्रभेदा मत्कृत तुलादानादिपद्धतौ दृश्याः। विस्तरभयात्तेऽत्रनोक्ताः। तान्त्रिकाचमनन्तु शाक्तवैष्णवभेदात् द्विधा तत्र। शाक्ताचमनं यथा। “आत्मविद्याशिवैस्तत्त्वैराचामेत् साधकाग्रणीः। वह्निकान्तां परे दत्त्वा शुद्धेन पाथसाचमेत्” स्वतन्त्रतन्त्रम् “आचामेदात्मतत्त्वाद्यैः प्रणवाद्यैर्द्विठान्तकैः” मालिनीत। तथा च ओ~ आत्मतत्त्वाय स्वाहा ओ~ विद्यातत्त्वाय स्वाह ओ~शिवतत्त्वाय स्वाहेति मन्त्राः। काल्यादौ विशेषः तन्त्रसारे “कालिकाभिस्त्रिभिः पीत्वा काल्यादिभिरुपस्पृशेत्। द्वाभ्यामौष्ठौ द्विरुन्मृज्य चैकेन क्षालयेत् करम्। मुखघ्राणेक्षणश्रोत्रनाभ्युरस्कं भुजौ क्रमात्। आचम्यैवं भवेत् काली वत्सरात्तां प्रपश्यति” भैरवोत०। काल्यादयश्च “काली कपालिनी कुल्ला कुरुकुल्ला विरोधिनी। विप्रचित्ता तथोग्रोग्रप्रभा दीप्ता ततःपरम्। नीला घना बलाका च मात्रा मुद्रा मिता च ताः” इत्युक्ताः प्रयोगस्तु क्रीमित्यादिमूलमन्त्रेण त्रिरपः पीत्वा ओं काल्यै नमः कपालिन्यै नमः इति द्विरुन्मृजेत्। ओं कुल्लायै नमः करं क्षालयेत् ओं कुरुकुल्लायै नमः मुखस्य स्पर्शः। ओं विरोधिन्यैनमः ओं विप्रचित्तावै नमः दक्षवामनासिकयोः! ओंउग्रायै नमः ओं उग्रप्रभायै नमः नेत्रेयोः। ओं दीप्तायै नमः ओं नोलायै नमः श्रोत्रयोः। ओं घनायैनमः इति नाभेः। ओं वलाकायै नमः वक्षसः, ओं मात्रायै नमः शिरसः। ओं मुद्रायै नमः ओं मितायै नमः इत्यंसौ स्पृशेत्। ताराचमनं तु “ताराभेदैस्त्रिभिः पीत्वा मायया क्षालयेत् करम्। स्त्री~हूमोष्ठौ द्विरुन्मृज्य फट्कारैः क्षालयेत् करम्। आस्यं नासे दृशौ श्रोत्रे नाभिवक्षःशिरोभुजान्। वैरोचनादिभिः स्पृष्ट्वा सर्वपापैः प्रमुच्यते आचम्य भैरवो भूत्वा वत्सरात्तां प्रपश्यति” भैरवीत०। यथा ओंउग्रतारायैनमः ओं एकजटायै नमः ओंनीलसरस्वत्यैनमः इति त्रिरपः पीत्वा ह्रीमिति वीजेन करं क्षालयेत्। स्त्री~हूनित्येताभ्यामोष्ठौ द्विरुन्मृज्य फडिति करं क्षालयेत्। ओं वैरचनाय नमः इति मुखम् ओं शङ्घपाण्डराय नमः ओं पद्मनाभाय नमः दक्षवामनासिके। ओं तावकाय नमः ओं मामकाय नमः नेत्रे। ओं पाण्डवाय नमः तारकाय नमः श्रोत्रे, ओं असिताभाय नमः नाभिम् ओं पद्मान्तकाय नमः वक्षः। ओं यमान्तकाय नमः शिरः। ओं विघ्नान्तकाय नमः ओं नरान्तकाय नम इति असौ स्पृशेत्। वैष्णवाचमनं तु “केशवाद्यैस्त्रिभिः पीत्वा द्वाभ्या प्रक्षालयेत् करौ। द्वाभ्यामौष्ठौ च संमृज्य द्वाभ्यां मृज्यात् मुखं ततः। एकेन हस्तं प्रक्षाल्य, पादावपि तथैकशः। संप्रोक्ष्यैकेन मूर्द्धानं ततः सङ्कर्षणादिभिः। आस्यनासाक्षिकर्णांश्च नाभ्युरस्कं भुजौ क्रमात्। स्पृशेदेवं भवेदाचमनञ्च वैष्णवान्वये” गौत० सचतुर्थीनमोऽन्तैश्च नामभिर्विन्यसेत् सुधीः” निबन्धे। ततश्च ओं केशवाय नमः इत्यादि नामभिराचमनम्। केशवादयश्च “केशवनारायण माधवगोविन्दविष्णुमधुसूदनत्रिविक्रमवामनश्रीधरहृषीकेशपद्मनाभदामोदरसङ्कर्षणवासुदेवप्रद्युम्नानिरुपुरुषोत्तमाधोक्षजनृसिंहाच्युतजनार्द्दनोपेन्द्रहरिविष्णवः” तन्त्रसा० एताश्च चतुर्विंशतिर्विष्णुमूर्त्तयः। विष्णोर्द्विधोत्कीर्त्तनं मूर्त्ति भेदाभिप्रायेण चतुर्विंशतिमूर्त्तिशब्दे च तद्विवरणम्। अन्यदेवतानान्तु मूलमन्त्रेणाचमनमिति विवेकः। आचम्यते अनेन करणे ल्युट्। ३ आचमनसाधने देवतार्चनोपचारभेदे। “जातीफललवङ्गकक्कोलतोयञ्च षट्पलम्। प्रोक्तमाचमनमिति” तन्त्रसारोक्ते जातीफलादिचूर्ण्णमिश्रिते षट्पलमिते जले तत्साधने ४ जलमात्रे च भावे ल्युट्। पूजायां दत्ताचमनीयजलस्य ४ पाने च। “सुवर्ण्णकलसेनैवाचमनं कुरु केशव!। पद्मचक्रधरो देव! कृपालो! परमेश्वर!” विष्णुपूजाचमनदानमन्त्रः।

आचमनक = न० आचमनस्य कं जलमत्र। १ पतद्गृहे (पिकदानि) (डावर) आचंम्यतेऽनेन करणे ल्युट्। स्वार्थे कन्। २ आचमनीयजलादौ।

आचमनीय = न० आचमनाय दीयते वृद्धात् छ आ + चम–करणे बा० अनीयर् वा। आचमनीयार्थेदेये जातीफलादिचूर्ण्णमिश्रिते षट्पलमिते १ जले आचमनशब्दे प्रमाणमुक्तम्। “आचमनीयमाचनीयमाचमनीयं प्रतिगृह्यतामिति” भवदे० कर्मणि अनीयर्। पेयजले २ स्वार्थे कन् तत्रैव। अर्घ्यमाचनीयकम्” षोडशोपचारः “उच्छिश्चोऽप्यशुचिर्वापि यस्य स्मरणमात्रतः। शुद्धिमाप्नोति तस्मैते पुनराचमनीयकम्” गौतमीयम्।

***