—आ—

= अव्य० आप–क्विप् पृ० पलोपः। १ वाक्ये (वाक्यस्यान्यथात्वद्योतने पूर्ब्बंमेवममंस्था इदानीमेवमिति प्रतिपादने) २ स्मृतौ (आ एवं मन्यसे इति स्मृतस्यान्यथा प्रतिपादने) ३ अनुकम्पायाम्। ४ समुच्चये, ५ अङ्गीकारे, ६ ईषदर्थे ७ क्रियायोगे, ८ सीमायां ९ व्याप्तौ च। वाक्यस्मृतिभिन्नेऽस्य ङित्त्वमिच्छन्ति अङितोऽस्य एकाज्निपातत्वात् प्रगृह्यसंज्ञा ङितस्तु न। अतवोक्तम् “मर्य्यादायामभिविधौ क्रियायोगेषदर्थयोः। य आकारः स ङित् प्रोक्तः वाक्यस्मरणयोरङित्” तत्र सीमायाम् आ–आत्मबोधात् आत्मबोधात् “लौकिकं तद्वदेवेदं प्रमाणं त्वात्मनिश्चयात्”। व्याप्तौ ब्रह्मास्त्यासकलात्। सकलं व्याप्येत्यर्थः। एतदर्थे विकल्पेन अव्ययीभावः। आत्मबोधम्। आसकलम्। धातुयोगः उपसर्गः। यथा आगच्छत् ग्रामात्। ईषदर्थे आकम्पः आकेकरः। वाक्यञ्च वाक्यार्थद्योतकता। स्मरणं प्रमाणान्तरावावगतस्य नतु शब्दमात्रेणावगतस्येति तयोर्भेदः।

आकन = पु० आ + कन–अच्। ऋषिभेदे कर्ण्णा० फिञ्। आकनायनिः तद्गणे आनक इति वा पाठः।

आकम्प = पु० आ + ईषदर्थे कपि–घञ्। ईषत्कम्पे।

आकम्पन = त्रि० आकम्पते आ + कपि–युच्। १ ईषत्कम्पनशीले। २ भावे ल्युट्। ईषत्कम्पे न०। आ + कपि–णिच्–ल्यु। ३ ईषच्चालके त्रि०। ततएव भावे ल्युट्। ४ ईषच्चालने न०।

आकम्पित = त्रि० आ + कपि–कर्त्त रि क्त। १ ईषत्कम्पिते “अनोकहाकम्पितपुष्पगन्धी” रघुः। भावे क्त। २ ईषत्कम्पने न०। णिच्–कर्म्मणि क्त। ३ ईषच्चालिते त्रि०।

आकत्य = न० न कतः स्वच्छताकारी अकतस्तस्य भावः ष्यञ्। अस्वच्छत्वकारित्वे। “न नञ्पूर्व्वात्तत्पुरुषादि त्यादि” पा० सूत्रे तस्य पर्य्युदासात् तत्पुरुष एव ष्यञ्। बहुब्रीहौ तु तलादि। अकतता अकतत्वम्।

आकम्प्र = त्रि० आ + कपि–र। ईषत्कम्पशीले।

आकर = पु० आकुर्व्वन्ति संघीभूय कुर्व्वन्ति व्यवहारमत्र आ + कृ–घः। १ समूहे, “शब्दाकरकरग्राममर्थमण्डलमण्डलम्” कविल्पद्रु० “बभूव वज्राकरभूषणायाः रघुः”। २ श्रेष्ठे च। आकीर्य्यन्ते धातवोऽत्र कॄ–अप्। ३ रत्नाद्युत्पत्तिस्थाने “आकरे पद्मरागाणां जन्म काचमणेः कुतः” हितो० “शुचीनाकरकर्म्मान्ते भीरूनन्तर्निवेशने” “आयव्ययौ च नियतावाकारान् कोषमेव च” “सर्व्वाकरष्वधीकारो महायन्त्रप्रवर्त्तनम्” मनुः। “दिलीपसूनुर्भणिराकरोद्भवः” रघुः। ४ स्थानमात्रे च कमलाकरः पद्माकरैत्यादि। “हरिदश्वः कमलाकरानिव” रघुः “शैलोन्द्रोहिमवान्नाम धातूनामाकरो महान्” रामा०। आकरः स्यपरभूरिकथानां प्रायशो हि सुहृदां सहवासः” नैष०।

आकरिक = त्रि० आकरे नियुक्तः ठञ्। स्वर्ण्णाद्युत्पत्तिस्थानेषु राज्ञा नियुक्ते तत्र हि नियुक्तस्य लोभाधिक्येन पापसम्भवात् तत्राधिकारस्य मनुना उपपातकमध्ये परिगणना कृता। “सर्व्वाकरेष्वंधीकार इति”।

आकरिन् = त्रि० आकरः उत्पत्तिस्थानं प्राशस्त्येनास्त्यस्य इनि स्त्रियां ङीप्। “प्रशस्ताकरजाते। “दधतमाकरिभिः करिभिः क्षतैः” किरा०।

आकर्ण = अव्य० कर्ण्णपर्य्यन्तम् अव्य०। कर्ण्णपर्य्यन्ते “आकर्ण्ण मुल्लसितमस्य विकाशिकाशम्” माघः।

आकर्णन = न० आ + कर्ण्ण–ल्युट्। श्रवणे “मुदा तदाकर्ण्ण न तत्पराभूत्” नैष०।

आकर्ष = पु० आकृष्यते विषयान्तरतोऽनेन आ + कृष–घञ्। १ पाशके, २ शारिफलके, ३ द्यूते, ४ इन्द्रिये धन्विनो ५ धनुरभ्यासे च। भावे घञ्। ६ आकर्षणे। आधारे घञ्। ७ निकषे उपले। खलादिगतं धान्वमाकृष्यतेऽनेन करणे घञ्। अङ्कुशाकारे (आकु~डा) इति ख्याते ८ काष्ठभेदे। “आकर्षः श्वेव आकर्षश्वः” सि० कौ०। आकर्षति कर्त्तरि अच्। ९ आकर्षके त्रि०। मध्वित्याकर्षैः कुशैः” कात्या० १३, ३, २०। मध्वाकर्षैः कुशैः” कर्क० “आकर्षस्तेऽवाक्फलः सुप्रणीतोहृदि प्रौढोमन्त्रपदः समाधिः” भा० स० ६ अ० आकर्षकः हृदयाकर्षकः समाधिः चिन्तनम् अवाक्फलः नीचफलः। आकर्षे (षे) ण चरति ष्ठल् आकर्षिकः। आकर्षणचारिणि त्रि० स्त्रियां ङीष्।

आकर्षक = पु० आकर्षति सन्निकृष्टस्थं लौहं आ + कृष–ण्वुल्। (चुम्बक) इति ख्याते १ अयस्कान्ते। २ आकर्षणकर्त्तरि त्रि० आकर्षे नियुक्तः आकर्षादि० कन्। आकर्षनियुक्ते “आकषः निकषोपल इति रेफरहितः पाठः युक्तः” सि० कौ०।

आकर्षण = त्रि० आ + कृष–ल्युट्। अन्थत्र स्थितस्य वस्तुनः १ बलेन अन्यत्र नयने “योषिदाकर्षणे चैव विनियोगः प्रकीर्त्तितः” तन्त्रम्। आकृष्यतेऽनेन करणे ल्युट्। २ आकर्षणसाधने तन्त्रोक्ते षट्कर्म्मान्तर्गते विधानभेदे च। यथा “अथाकर्षणविधानानि कथयामि समासतः। यदुक्तं त्रैपुरे तन्त्रे यच्चोक्तं भूतडामरे। श्रीवीजं मान्मथं वीजं लज्जावीजं समुद्धरेत्। प्रथमं प्रणवं दत्त्वा त्रिपुरादेविपदन्ततः। अमुकीति पदं द्व्यन्तमांकर्षेति द्विधा पदम्। खाहान्तं मन्त्रमुद्धृत्य जपेद्दशसहस्रकम्। षट्कोणञ्च समालिख्य रक्तचन्दनकुङ्कुमैः। षडङ्गङ्कारयेन्मन्त्री लज्जावीजसमन्वितम्। षड्दीर्घभाक्खरैणैव नादविन्दुविभूषितम्। रक्तपुष्पाक्षतधूपनैवेद्यैः परिपूज्य ताम्। भावयंश्चेतसा देवीं त्रिनेत्रां चन्त्रशेखराम्। बालार्ककिरणप्रख्यां सिन्दूरारुणविग्रहाम्। पद्मञ्च दक्षिणे पाणौ जपमालाञ्च वामके। मन्त्रस्यास्य प्रसादेन रम्भामपि तथोर्व्वशीम्। आकर्षयेन्न सन्देहः किं पुनर्मानुषीमिह। भूर्ज्जपत्रे समालिख्य कुङ्कुमालक्तवारिणा। काश्मीरागुरुकस्तूरीरोचनामिलितेन तु। अनामारक्तमिश्रेण कामलाक्षीमनुं जपेत्। (आ~ श्रीं कामलाक्षि अमुकोमाकर्षय आकर्षय हु~ फट्)। इमं मन्त्रं जपेदादौ सहस्रैकं जपेत् पुनः। भूर्जपत्रं समादाय गुलिकां कारयेत् सुधीः। तेनैव साध्यपादोत्थमृत्तिकापङ्कवेष्टितम्। शोधितं तेजसा भानोर्वेष्टयेत् कटुभिस्त्रिभिः। प्रतिमां स्त्रीनिभां कृत्वा तस्यां क्षिपेत्तथोदरे। गुलिकां पातयेत् पात्रे प्रतिमां साध्यरूपिणीम्। तादृशाभिमुखोभूत्वा निर्जने निशि साधकः। यावद्गच्छति चित्तञ्च तावद्रूपं जपेन्मनुम्। यावदायाति संत्रस्ता मदनालसविग्रहा” तन्त्रसा०। तत्र होमसाधनद्रव्यमुक्तं तत्रैव। “आकर्षणे तथा लोध्रं सतिलं मधुरान्वितम्”।

आकर्षणी = स्त्री आकृष्यतेऽनया आ + कृष–ल्युट् टित्त्वात् ङीप्। उच्चस्थपुष्पाद्याहरणार्थे (आङ्शि) १ यष्ठिकाभेदे। २ मुद्राभेदे च मुद्राशब्दे विवरणम्।

आकर्षा(षा)दि = पु० पाणिन्युक्ते कन् प्रत्ययनिमित्ते शब्दगणभेदे आक(ष)र्ष, त्सरु, पिशाच, पिचण्ड, अशनि, अश्मन्, चय, निचय, विजय, जय, आचय, नय, पाद, दीप, ह्रद, ह्राद, ह्लाद, गद्गद, शकुनि “आकर्षा(षा)दिभ्यः कन्” पा०।

आकर्षिन् = त्रि० आ + कृष–णिनि। आकर्षकारके स्त्रियां ङीप्। सम्पूर्व्वात् तु। दूरगामिनि गन्धे। सहि दूरादेव नासिकां प्राप्य घ्रातृपुरुषं स्वग्रहणायानुकूलयन् समाकर्षतीवेति तस्य तथात्वम्।

आकलन = न० आ + कल–ल्युट्। १ आकाङ्क्षायाम्, २ ग्रहणे ३ संग्रहे ४ गणने ५ऽनुसन्धाने च “सेव्यापि सानुनयमाकलनाय यन्त्रा” माघः।

आकलित = त्रि० आ + कल–क्त। १ अनुसृते २ ग्रथिते च। प्रहितभुजाऽऽकलितस्तनेन निन्ये”। “सुवर्ण्णसूत्राकलिताधराम्बराम्” इति च माघः।

आकल्प = पु० आ + कृप–णिच्–घञ्। १ वेशरचनायाम्, २ भूषणे च “रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम्” शिवध्यानम्। “आकल्पसाधनैस्तैस्तैरुपसेदुः प्रसाधकाः” “अकृतकविधिसर्व्वाङ्गीण माकल्पजातम्” रघुः। ३ कल्पपर्य्यन्ते अव्य०। “आकल्पं नरकं भुङ्क्ते” इति स्मृतिः

आकष = पु० आकष्यते यत्र कष–अच्। स्वर्णादिकषणसाधने (कोष्ठि) प्रस्तरभेदे। आकषे नियुक्तः कन्। आकषकः तत्रनियुक्ते त्रि० तेन चरति ष्ठल् आकषिकः तेन चारिणि। स्त्रियां ङीष्।

आकस्मिक = त्रि० अकस्मादित्यव्ययं कारणाभावे कारणं विना भवः विनया० ष्ठक् टिलोपः। अकस्माद्भवे। स्त्रियां ङीष्। जगत आकस्मिकत्ववादिनश्चार्वाका इत्थमाहुः। अकस्मादेव भवति कार्य्यं न किञ्चिदपेक्षमिति तदेतन्मतम् गौ० सू० उक्तम्। “अनिमित्ततोभावोत्पत्तिः कण्टकतैक्ष्ण्यादिवत्” एतदवतरणिकायां वृत्तिः। यदि कार्य्याणामाकस्मिकत्वं तदा न परमाण्वादीनामुपादानत्वं न वेश्वरस्य निमित्तत्वमत आचस्मिकत्वनिराकरणाय प्रकरणमारभते तत्र पूर्ब्बेपक्ष सूत्रम् अनिमित्तत इत्यादि। प्रथमार्थे तसिल्। अनिमित्ता भावोत्पत्तिरित्यर्थः तथा च घटाद्युत्पत्तिर्न कारणनियम्या उत्पत्तित्वात् कण्टकतैक्ष्ण्यमयूरचित्रताद्युत्पत्तिवत् इति सूत्रतात्पर्य्यम्” कुसुमा० हरि० “अकस्मादिति किं हेतुनिषेधपरं वा स्वातिरिक्त हेतुनिषेधपरं परिमार्थिकहेतुनिषेधपरं वा। अत्रोभयत्राहेतुकत्वमन्त्येऽलीकहेतुकत्वं पर्य्यवस्यति”। तथा च आकस्मिकशब्दस्य तादृशार्थचतुष्टयपरता। “स्वभावा- दित्यर्थ परं वेत्युक्तेश्च स्वाभाविकार्थताऽपि तु सर्व्वद० सं० “नन्वदृष्टानिष्टौ जगद्वैचित्र्यमाकस्मिकं स्यादिति चेन्न तद्भद्रं स्वभावादेव तदुपपत्तेः” अतएवोक्तम् “अग्निरुष्णो जलं शीतं शीतस्पर्शस्तथानिलः। केनेदं चित्रितं तस्मात् स्वभावादेव तत्स्थितिरिति चार्व्वाकमतम् तस्यायुक्तत्वपरीक्षणं चार्व्वाकशब्दशेषे दृश्यम्।

आकाङ्क्षा = स्त्री आ + काङ्क्ष–अङ्। १ अभिलाषे, न्यायमते २ वाक्यार्थज्ञानहेतौ यत्पदं विना यत्पदस्यानन्वयस्तत्पदे तत्पदवत्त्वरूपे, संबन्धे ३ पदान्तरव्यतिरेकेणान्वयाभावे च “यत्पदेन विना यस्यानुभावकता भवेत् आकाङ्क्षा” भाषा० शब्दचिन्ताणौ तु “अथ केयमाकाङ्क्षेत्याक्षिप्य “उच्यते अभिधानापर्य्यवसानमाकाङ्क्षेति” लक्षयित्वा स्वयमेव तद्विवृतंयथा “यस्य येन विनास्वार्थान्वयाननुभावकत्वं तस्य तदपर्य्यसानं नाम, विभक्तिधात्वाख्यातक्रियाकारकपदानां परस्परं विना परस्परस्य न स्वार्थान्वयानुभावकत्वम्। परमते नीलोघटोनास्तीति नीलं घटमानयेत्यादौ नामार्थानां कारकाणाञ्च न परस्परमन्वयबोघः। विशेषणान्वितविभक्त्यर्थानन्वयादिति विशिष्टवैशिष्ट्येनैवान्वयः। किन्त्वार्थः समाजः। अस्माकन्तु नीलघटयोरभेदानुभवबलादभेद एव संसर्गः। विशेषणविभक्तिः साधुत्वार्था। यद्वा समानविभक्तिकयोरभेदानुभवबलाद्विशेषणान्वितविभक्तेरभेदार्थकत्वम् अतोविशेषणविशेष्यभावानुभावकत्वं तत्तत्पदयीर्न परस्परं विना। द्वारमित्यध्याहारं विना प्रतियोग्यलाभान्न स्वार्थान्वयानुभावकत्वम् विश्वजिता यजेत” मयेदं कार्य्य मिति प्रवर्त्तकं तात्पर्य्यविषयज्ञानं नाधिकारिणं विनेति तदाकाङ्क्षा। यद्वा कर्त्तुरिवाधिकारिणोऽप्याक्षेपादेव लाभ इति तदन्वयोन शाब्दः किन्त्वानुमानिकः। गौणलाक्षणिकयोरननुभावकत्वपक्षे तदुपस्थापितस्वाप्यध्याहृतस्येवेतरपदं विना नानुभावकत्वम् घटः कर्मत्वमानयनं कृतिरित्यादावभेदेन नान्वयबोधोऽयोग्यत्वात् तत्तत् पदेभ्यस्तात्पर्य्यविषयतत्तत्पदार्थस्वरूपज्ञानञ्च पदान्तरं विनैव घटमानयतीत्यत्रेव क्रमेण तथान्वयतात्पर्य्येऽपि क्रियाकारकभावेन नान्वयबोधः नामविभक्तिधात्वाख्यातक्रियाकारकपदार्थानामन्वयबोधे तान्येव समर्थानि न तु तदर्थकानि पदान्तराणि अग्निः करणत्वमोदनः कर्म्मता पाकः कृतिरिष्टसाधनता इति पदेभ्योऽग्निनौदनं पचेतेत्यत्रेवान्वयाबोधनात् अग्निकरणकौदनकर्मकपाकविषयकृतिरिष्टसाधनमिति वाक्यं न पदम्। अतएव द्वारभित्यत्र पिधेहीति पदाध्याहारः। क्रियापदार्थस्यान्यत उपस्थितावपि कारकानन्वयात्। असामर्थ्यन्तु स्वभावात्। अनासन्नमप्यासन्नदशायामासन्नभ्रमेणैवान्वयबोधसमर्थमेव। वह्निना सिञ्चतीत्यत्र क्रियाकारकपदयोरन्वयबोधसामर्थ्येऽप्ययोग्यताज्ञानं प्रतिबन्धकं दाहे समर्थस्याग्नेर्मणिरिव। अतएव योग्यताभ्रमात् प्रतिबन्धकाभावे ततोऽप्यन्वयबोधः। न हि स्वभावतोऽसमर्थमारोपितसामर्थ्यमिह भवति पचतिवेति प्रकृते तु पदार्थस्वरूपज्ञानं न त्वन्वयभ्रमोऽपि। पुरुषपदं विनापि राज्ञ इत्यस्य पुत्रेण समं स्वार्थानुभावकत्वमिति न तदाकाङ्क्षा यद्वा त्रयाणां स्मरणेऽजनितान्वयबोधदशायां पुरुषान्वयतात्पर्य्याभावान्नान्वयबोध इत्यग्रेऽपि तथा। न च पुत्रस्योत्थिताकाङ्क्षत्वात्तेनैवान्वयबोध इति वाच्यं तात्पर्य्यवशात् क्वचित् पुरुषेणैव प्रथमसन्वयबोधात् अतएवान्वयबोधसमर्थत्वे सत्यजनिततात्पर्य्यविषयान्वयबोधकत्वमाकाङ्क्षेति केचित्। प्रकृतिपत्ययाभ्यामन्वयबोधे जनितेऽपि वाक्यैकवाक्यतावत् क्रियाकारकपदयोरजनितान्वयबोधकत्वमाकाङ्क्षा। नव्यास्तु पदविशेषजन्या पदार्थोपस्थितिः, घटः कर्मत्वमानयनं कृतिरित्येवंविधपदाजन्यपदार्थोपस्थितिर्वाऽऽसत्तिरन्वयबोधाङ्गमित्यासत्त्यभावादेवं विघशब्दान्नान्वयबोधः त्वयाप्येवंविधपदार्थोपस्थितेनाकाङ्क्षाहेतुत्वेनावश्यमुपेयत्वात् जनितान्वयबोधान्नान्वयान्तरबीधस्तात्पर्य्याभावादित्याकाङ्क्षायाः कारणत्वमेव नास्ति किन्तु स्वजनकोपस्थितेः परिचायकत्वमिति”। अत्र दिङ्मात्रं माथुरी व्याख्या प्रदर्श्यते प्रपञ्चस्तु तत एवावगन्तव्यः। “सिद्धान्तयति अभिधानेति अभिधानपदं करणव्युत्पत्त्याशब्दोच्चारणपरम् अभिधत्तेयतस्तस्यापर्य्यवसानं फलानुत्पादस्तथा च तदुच्चारणजन्यतादृशशाब्दबुद्धौ तदुच्चारणजन्यतादृशशाब्दधीप्रागभाव आकाङ्क्षा इति फलितं तच्च पूर्ब्बोक्तरूपेण दुष्टम्। न चाभिधानपदं भावव्युत्पत्त्या शाब्दबोधपरं तस्यापर्य्यससानम् अभावः तथा च तादृशशाब्दबोधे तादृशशाब्दबोधाभाव आकाङ्क्षा इति फलितमिति वाच्यं घटः कर्मत्वमित्यादावतिव्याप्ते रित्यतः पारिभाषिकमभिधानापर्य्य वसानपदार्थमाह यस्येति। यत् पदतिष्ठं यत्पदं विनेत्यर्थः। न स्वार्थान्वयानुभावकत्वमिति न यादृशान्वयबोध इत्यर्थः तस्य तदिति तत्पदस्य तत्पदवत्त्वमित्यर्थः। अपर्य्यवसानं तादृशान्वयबोधेऽभिधानापर्य्यावसानं तथा च यत्पदनिष्ठयत् पदव्यतिरेकप्रयुक्तयादृशबुद्ध्यभावः तत्पदस्य तत्पदवत्त्वं तादृशान्वयबुद्धे रभिधानापर्य्यवसानमिति फलितार्थः। पदत्वमत्र शब्दत्वम्। प्रयुक्तत्वञ्च कारणाभावात् कार्य्याभाव इति प्रतीतिसाक्षिकः स्वरूपसम्बन्धविशेषः तत्प्रतियोगिजन्यतादृशप्रतियोगिकत्वं तत्प्रयुक्तत्वम्। भवति चाव्यवहितपूर्ब्बवर्त्तितारूपसमभिव्याहारसम्बन्धेन घटपदनिष्ठस्यानुस्वारपदस्य व्यतिरेक प्रयुक्तो घटवत्कर्मत्वमिति भेदान्वयबुद्ध्यभाव इति। घटपदस्यानुस्वारपदवत्त्वं तादृशान्वयबोधस्याकाङ्क्षा। एवं विनिगमना विरहेणाव्यवहितोत्तरवर्त्तितारूपसमभिव्याहारसम्बन्धेनानुस्वारपदनिष्ठस्य घटपदव्यतिरेकप्रयुक्तोऽपि घटवत् कर्भत्वमिति भेदान्वयबुद्ध्यभाव इति तादृशशाब्दबोधेऽनुस्वारपदस्य घटपदवत्त्वमपि आकाङ्क्षा। अव्यवहित पूर्ब्बवर्त्तिता रूपसमभिभ्याहारसम्बन्धेन घटपदस्य कर्मत्वपदवत्त्वम्, अव्यवहितोत्तरवर्त्तितारूपसमभिव्याहारसम्बन्धेन कर्मत्वपदस्य घटपदवत्त्वञ्च न घटवत् कर्म त्वमिति भेदान्वयबोधे आकाङ्क्षाअव्यवहितपूर्व्ववर्त्तितारूपसमभिव्याहारसम्बन्धेन घटपदनिष्ठस्य कर्मत्वपदस्याव्यवहितोत्तरवर्त्तितारूपसमभिव्याहारसम्बन्धेन कर्मत्वपदनिष्ठस्य घटपदस्य च व्यतिरेकयोर्घटवत् कर्मत्वमिति भेदान्वयबुद्ध्यभावाप्रयोजकत्वात्। कारणाभावस्यैव कार्य्याभावप्रयोजकत्वात् अव्यवहितपूर्ब्बवर्त्तितासम्बन्धेन घटपदनिष्ठस्य कर्मत्वपदस्याव्यवहितोत्तरवर्त्तिता सम्बन्धेन कर्मत्वपदनिष्ठस्य घटपदस्य भेदान्वयबुद्धावहेतुत्वात्”।

“वेदान्तपरिभाषायान्तु अन्यथोक्तं यथा तत्र पदार्थानां परस्परजिज्ञासाविषयत्वयोग्यत्वमाकाङ्क्षा क्रियाश्रवणे कारकस्य कारकश्रवणे क्रियायाः करणश्रवणे इतिकर्त्तव्यतायाश्च जिज्ञासाविषयत्वःत्। अजिज्ञासोरपि वाक्यार्थबोधात् योग्यत्वमुपात्तं तदवच्छेदकञ्च क्रियात्वकारकत्वादिकमिति नातिव्याप्तिः। अभेदान्वये च सनानविभक्तिकपदप्रतिपाद्यत्वं तद। च्छेदकमिति तत्त्वमस्यादि वाक्येषु नाव्याप्तिः। एतादृशाभिप्रायेणैव बलाबलाधिकरणे “सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिन” मित्यत्र वैश्वदेवयागस्यामिक्षान्वितत्वेन न वाजिनाकाङ्क्षेत्यादिव्यवहारः। ननु तत्रापि वाजिनस्य जिज्ञासाविषयत्वेऽपि तद्योग्यत्वमस्त्येव, प्रदेयद्रव्यत्वस्य यागनिरूपितजिज्ञासाविषयतावच्छेदकत्वात् इति चेन्न स्वसमानजातीयपदार्थान्वयबोधविरहसहकृतप्रदेयद्रव्यत्वस्यैव तदवच्छेदकत्वेन वाजिनद्रव्यस्य स्वसमानजातीयामिक्षाद्रव्यान्वयबोधसहकृतत्वेन तादृशावच्छेदकत्वाभावात्। आमिक्षायान्तु नैवं, वाजिनाम्वयस्य तदानुपस्थानात्। उदाहरणान्तरेष्वपि दुर्ब्बलत्व प्रयोजकाकाङ्क्षाविरह एवमेव द्रष्टव्यः”। “आकाङ्क्षेयं तगुरुतया नैव गन्तुं समर्थेति” पदाङ्कदूतम् “साकाङ्क्ष शब्दैर्योबोधः पदार्थान्वयगीचरः” इति “योग्यतार्थगताकाङ्क्षा शब्दनिष्ठानुभाविका” इति शब्दशक्ति० “वाक्यं स्याद्योग्यताकाङ्क्षासत्तियुक्तः पदोच्चयः” सा० द० “आकाङ्क्षाप्रतीति पर्य्यवसानविरहः स च जिज्ञारूपः” सा० द०।

आकाङ्क्षित = त्रि० आ + काङ्क्ष–कर्म्मणि क्त। इच्छाविषये।

आकाङ्क्षिन् = त्रि० आकाङ्क्षति आ + काङ्क्ष–णिनि। इच्छावति “अफलाकाङ्क्षिभिर्यज्ञोविघिदृष्टोय इज्यते। यष्टव्यमे वेति मनः समाधाय स सात्विकः” गोता। स्त्रियां ङीप्। “तं भावार्थप्रसवसमयाकाङ्क्षिणीनां प्रजानाम्” रघुः।

आकाय = पु० आ + चि–कर्म्मणि घञ् चितौ कुत्वम्। १ चीयमानेऽग्नौ “आकायमग्निं चिन्वीत” सि० कौ० उ० २ निवासे इति केचित् तत्र कुत्त्वं चिन्त्यमूलम्।

आकार = पु० आ + कृ–घञ्। १ मूर्त्तौ, २ अवयवसंस्थानविशेषे च। आक्रियते आविष्क्रियते हृद्गतोभावोऽनेन आकृ–करणे घञ्। ३ हृद्गतभावावेदके मुखप्रसादवैवर्ण्यरूपे प्रीत्यप्रीतिसूचके देहचेष्टने। भावे घञ्। ४ हृद्गगतभावावेदने, ५ इङ्गिते च। “आकारश्छाद्यसानोऽपि न शक्योविनिगूहितुम्। बलाद्धि विवृणोत्येव भावमन्तर्गतं नृणाम्” “आकारसदृशप्रज्ञः” रघुः। “तस्य संवृतमन्त्रस्य गूढाकारेङ्गितस्य च” रघुः। इङ्गितं हृहतोभावो बहिराकार आकृतिः”। सज्जनः। ६ तादात्म्ये ७ अभेदोपगमे च। आकरश्च सांख्यादिभतसिद्धः अभेदस्थानीयः पदार्थभेदः विषयिताविशेषो वा। “यत् संबद्धं सत् तदाकारोल्लेखि विज्ञानं तत् प्रत्यक्षमिति” सां० सू०। “सम्बद्धं भवत् सम्बद्धवस्त्वाकारधारि भवति यद्विज्ञानं बुद्धिवृत्तिस्तत् प्रत्यक्षम् स्वार्थसन्निकर्षजन्याकाराश्रयो वृत्तिः प्रत्यक्षमिति फलितम्। “वृत्तिः संबन्धार्थं सर्पती” त्यागामिसूत्रात् वृत्तेर्न सन्निकर्षजन्यत्वमित्याकाराश्रयग्रहणम् चक्षुरादि द्वारकबुद्धिवृत्तिश्च प्रदीपस्य शिखातुल्या बाह्यार्थसन्निकर्षानन्तरमेव तदाकारोल्लेखिनी भवतीति नासम्भवः” भा०। वेदान्तिभिरपि अन्तःकरणस्य सावयवत्वस्वीकारेण बुद्धिवृत्तेस्तदाकारत्वमुररीकृतं यथोक्तं वेदा० परिभा०। “यथा तडागोदकं छिद्रान्निर्गत्य कुल्यात्यना केदारान् प्रविश्य तद्वदेव चतुष्कोणाद्याकारं भवति तथा तैजसमन्तःकरणमपि चक्षुरादिद्वारा धटादिविषयदेशं गत्वा घटादिविषयाकारेण परिणमते। स एव परिणामो वृत्ति- रित्युच्यते। अनुमित्यादिस्थले तु अन्तःकरणस्य न वह्न्यादिदेशगमनं वह्न्यादेश्चक्षुराद्यसन्निकर्षात् तथा चायं घटैत्यादि प्रत्यक्षस्थले घटादेस्तदाकारवृत्तेश्च बहिरेकत्र देशे समवस्थानात् तदुभयावच्छिन्नं चैतन्यमेकमेव विभाजकयोरप्यन्तःकरणवृत्तिघटादिविषययोरेकदेशस्थितत्वेन भेदाजनकत्वात्”। सचाकारस्तेषां मते बाह्यवस्तुविषयसत्त्वेन तत्सन्निकर्षेण सम्भवति। बाह्यवस्तुसत्त्वानङ्गीकर्तृमते तु अनादिवामनयैव तदाकारोल्लेख इति यथोक्तं सर्व्वदर्शन स०”। “तस्मात् स्वव्यतिरिक्तग्राह्यविरहात्तदात्मिका बुद्धिः स्वयमेव स्वात्मरूपप्रकाशिका प्रकाशवदिति सिद्धम्। तदुक्तम् “नान्योऽनुभाव्यो बुद्ध्यास्ति तस्या नानुभवोऽपरः। ग्राह्यग्राहकवैधुर्य्यात् स्वयं सैव प्रकाशते” इति। ग्राह्यग्राहकयोरभेदश्चानुमातव्यः यत् येन वेद्यते तत्ततो न भिद्यते यथा ज्ञानेनात्मा, वेद्यन्ते ज्ञानेन नीलादयः। भेदे हि सत्यधुना अनेनार्थस्य सम्बन्धित्वं न स्यात् तादात्म्यस्य नियमहेतोरभावात् तदुत्पत्तेरनियामकत्वात् यश्चायं ग्राह्यग्राहकसंवित्तीनां पृथगवभासः स एकस्मिंश्चन्द्रमसि द्वित्वावभास इव भ्रमः अत्राप्यनादिरविच्छिन्नप्रवाहाऽभेदवासनैव निमित्तम्। यथोक्तम् “सहोपालम्भनियमादभेदो नीलतद्धियोः। भेदश्च भ्रान्तिविज्ञानैर्दृश्येतेन्दाविवाद्वये” इति। अविभागोऽपि बुद्ध्यात्मा विपर्य्यासितदर्शनैः। ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यत इति” च। न च रसवीर्य्यविपाकादि समानमाशामोदकोपार्जितमोदकानां स्यादिति वेदितव्यं वस्तुतो वेद्यवेदकाकारविधुराया अपि बुद्धेर्व्यवहर्तृ परिज्ञानानुरोधेन विभिन्नग्राह्यग्राहकाकाररूपवत्तया तिमिराद्युपहताक्षाणां केशेन्द्रनाडीज्ञानाभेदवदनाद्युपप्लववासनासामर्थ्याद्व्यवस्थोपपत्तेः पर्य्यनुयोगायोगात्। यथोक्तम् “अवेद्यवेदकाकारा यथा भ्रान्तैर्निरीक्ष्यते। विभक्तलक्षणाग्राह्यग्राहकाकारविप्लवाः। तथा कृतव्यवस्थेयं केशाद्रिज्ञानभेदवत्। यदा तदा न सञ्चोद्या ग्राह्यग्राहकलक्षणेति”। तस्माद्बुद्धिरेवानादिवासनावशादनेकाकारावभासत इति सिद्धम्”। “अन्येतु न तन्मन्यन्ते तथा हि यदुक्तं ग्राह्यं वस्तुजातं नास्तीति तदयुक्तं प्रमाणाभावात्। न च सहोपालम्भनियमः प्रमाणमिति वक्तव्यं वेद्यवेदकयोरभेदसाधकत्वेनाभिमतस्य तस्याप्रयोजकत्वेन सन्दिग्धविपक्षव्यावृत्तिकत्वात्। ननु भेदे सहोपालम्भनियमात्मकं साधनं न स्यादिति चेन्न ज्ञानस्यान्त र्मुखतया च भेदेन प्रतिभासमानतया एकदेशत्वैककालत्वलक्षणसहत्वनियमासम्भवाच्च। नीलाद्यर्थस्य ज्ञानाकारत्वे अहमिति प्रतिभासः स्यात् नत्विदमिति प्रतिपत्तिः प्रत्ययादव्यतिरेकात्। अथोच्येत ज्ञानस्वरूपोऽपि नीलाकारो भ्रान्त्या बहिर्वद्भेदेव प्रतिभासत इति न तत्राहमुल्लेख इति। यथोक्तं “परिच्छेदान्तराद्योऽय भागो बहिरिव स्थितः। ज्ञानस्याभेदिनो बाह्य प्रतिभासोऽप्युवप्लव” इति “यदन्तर्ज्ञेयतत्त्वं तद्बहिर्वदवभासत” इति च। तदयुक्तं बाह्यार्थाभावे तदुत्पत्तिरहिततया बहिर्वदित्युपमानोक्तेरयुक्तेः न हि वसुमित्रो बन्ध्यापुत्रवदवभासत इति प्रेक्षावानाचक्षीत भेदप्रतिभासस्य भ्रान्तत्वे अभेदप्रतिभासस्य प्रामाण्यं, तत्प्रामाण्ये च भेदप्रतिभासस्य भ्रान्तत्वमिति षरस्पराश्रयप्रसङ्गाच्च अविसंवादान्नीलतादिकमेव संविदाना बाह्यमेवोपाददते जगत्युपेक्षन्तेऽवान्तरमिति व्यवस्थादर्शनाच्च। एवञ्चायमभेदसाघको हेतुर्गोमयपायसीयन्यायवदाभासतां भजेत्। अतोबहिर्वदिति वदता बाह्यं तद्ग्राह्यमेवेति भावनीयमिति भवदीय एव वाणो भवन्तं प्रहरेत्। ननु ज्ञानाभिन्नकालस्यार्थस्य बाह्यत्वमनुप्रपन्नमिति चेत् न तदनुपपन्नम् इन्द्रियसन्निकृष्टस्य विषयस्योत्पाद्ये ज्ञाने स्वाकारसमर्पकतया समर्पितेन चाकारेण तस्यार्थस्यानुमेयतोपपत्तेः अतएव प्रर्य्यनुयोगपरिहारौ समग्रहीषाताम्। “भिन्नकालं कथं ग्राह्यमिति चेत् ग्राह्यतां विदुः। हेतुत्वमेव च व्यक्तेर्ज्ञानाकारार्पणक्षममिति”। तथा च यथा पुष्ट्या भोजनमनुमीयते यथा च भाषयया देशः यथा वा सम्भ्रमेण स्नेहः तथा ज्ञानाकारेण ज्ञेयमनुमेयम्”। आकारे कुशलः ठञ् आकारिकः। तत्र निपुणे त्रि०।

आकारगुप्ति = स्त्री गुप–क्तिन् आकारस्य हृद्गतभावस्य गुप्ति र्गोपनम्। रत्यादिजनितमुखप्रसादस्य भयजनितविषादादेश्च अन्यहेतुकत्वप्रख्यापनेन वास्तविकत्वापह्नेवे गोपने।

आकारण = न० आ + कृ–णिच् ल्युट्। १ आह्वाने। युच् स्त्रीत्वात् टाप्। आकारणाप्यत्र।

आकाल = अव्य० कालपर्य्यन्तम् अव्ययी०। यत्काले निमित्तं पूर्ब्बदिने जातम् तत्परदिने तत्कालपर्य्यन्ते “भार्य्याः परमगुरुसंस्थायां चाकालमभोजनं कुर्व्वीरन्निति” आपस्त०।

आकालिक = त्रि० अकाले भवं ठञ्। १ असमयोत्पन्ने वस्तुनि। स्त्रियां ङीप् “आकालिकों वीक्ष्य मधुप्रवृत्ति” मिति कुमारः। समानकालौ आद्यन्तौ यस्य समानकालस्य आकलडादेशः इकञ्च नि० इति मल्लि०। २ आशुविनाशिनि, आद्यन्तयोरभावात्,। आकालं व्याप्नोति ठञ्। ३ पूर्ब्बदिवसे यत्समये उत्पत्तिः परेद्युस्तत्समयपर्य्यन्तव्यापके काले “आकालिकमनध्यायमेतेष्विति” “एतानाकालिकान् विद्यादनध्यायानृतावपि” “आकालिकमनध्यायं विद्यात् सर्व्वाद्भुतेषु च” इति च मनुः। आशुविनाशित्वात् ४ विद्युति स्त्री।

आकाश = पुंन० समन्तादाकाशन्ते सूर्य्यादयोऽत्र। १ स्वनामख्याते द्रव्यभेदे। स च न्यायादिमते नित्यः सर्वमूर्त्तसंयोगी शब्दमात्रविशेषगुणकः संण्वापरिमाणपृथक्त्वसंयोगविभागरूपसामान्यगुणकश्च। तत्सत्त्वे प्रमाणञ्च मुक्ता० दर्शितम् यथा “शब्दोविशेषगुणः चक्षुर्ग्रहणायोम्यबहिरिन्द्रियग्राह्यजातिमत्त्वात्, स्पर्शवत्। शब्दोद्रव्यससवेतः गुणत्वात् संयोगवत् इत्यनुमाने शब्दस्य द्रव्यसमवेतत्वे सिद्धे शब्दो न स्पर्शवद्विशेषगुणः अग्निसंयोगासमवायिकारणकत्वाभावे सति अकारणगुणपूर्ब्बकप्रत्यक्षत्वात्, सुखवत्। पाकजरूपादौ व्यभिचारवारणाय सत्यन्तं, पटरूपादौ व्यभिचारवारणाय अकारणगुणपूर्ब्बकेति, जलपरमाणुरूपादौ व्यभिचारवारणाय प्रत्यक्षेति। शब्दोन दिक्कालमनोगुणः विशेषगुणत्वात्, नात्मविशेषगुणः बहिरिन्द्रियग्राह्यत्वात् रूपवत् इत्थञ्च शब्दाधिकरणं नवमं द्रव्यं गगननामकं सिध्यतीति। न च वाय्ववयवेषु सूक्ष्मशब्दक्रमेण वायौ कारणगुणपूर्ब्बकः शब्दौत्पद्यतामिति वाच्यम् अयावद्द्रव्यभावित्वेन वायुविशेषगुणत्वाभावात्”। “व्याख्यातञ्च दिनक० “शब्दः पृथिव्या द्यष्टद्रव्यातिरिक्तद्रव्याश्रितः अष्टद्रव्यानाश्रितत्वे सति द्रव्याश्रितत्वात् इत्येवंरूपं बोध्यम्। दर्शितं सूचितम्। अत्रानुमाने स्वरूपासिद्धिं परिहर्त्तुमाह तथाहीति घटादौ व्यभिचारवारणाय चक्षुर्ग्रहणायोग्येति आत्मनि व्यभिचारवारणायबहिरिन्द्रियग्राह्येति रसत्वादौ व्यभिचारवारणायजातिमदिति एतच्चानुमानमग्रिमद्रव्यसमवेतत्वसाधकानुमाने स्वरूपासिद्धिनिरासायेति बोध्यम्। गुणत्वादिति एतदनुमानेनोक्तपरिशेषानुमानहेतौ विशेष्यासिद्धिर्निरस्ता। विशेषणासिद्ध्युद्धारमाह शब्दोन स्पर्शवद्विशेषगुण इति। न स्पर्शवतोद्रव्यस्य पृथिव्यादिचतुष्टयस्य विशेषगुण इत्यर्थः। अकारणगुणपूर्ब्बकप्रत्यक्षत्वादिति अकारणगुणपूर्ब्बकत्वे सति प्रत्यक्षत्वादित्यर्थः। हेतुसत्त्वं प्रतिपादयितुं पाकज इति। जलपरमाण्विति अनित्यानां पार्थिवरूपा- दीनां केषाञ्चिदग्निसंयोगासमवायिकारणत्वात् केषाञ्चित्कारणपूर्व्वक्त्वादत्रोपेक्षा। न दिक्कालेति शब्द इत्यनुवर्त्तते बहिरिन्द्रियेति। मनसोऽन्यदिन्द्रियं बहिरिन्द्रियं तेन प्रत्यक्षत्वादित्यर्थः। एतेनानात्मगुणग्राहकेन्द्रियत्वं बाह्येन्द्रियत्वं तच्च मनस्यप्यतिप्रसक्तं तेनापि रूपादिग्रहणादिति निरस्तम्। इत्थञ्च अनेन प्रकारेण पृथिव्याद्यष्टद्रव्यानाश्रितत्वसिद्धौ च। सिद्ध्यति इति पूर्ब्बोक्तपरिशेषानुमानेन सिद्ध्यतीत्यर्थः। नन्वेतत्सर्वं तदोपपद्येत यदि शब्दस्य विशेषगुणत्वे किञ्चित्प्रमाणं स्यात् तत्रैवच न मानं पश्याम इति चेत् न शब्दोविशेपगुणः लौकिकप्रत्यासत्त्येन्द्रियग्राह्यत्वे सति लौकिकप्रत्यासत्त्या द्वीन्द्रियग्रहणयोग्यताराहित्ये च सति गुणत्वव्याप्यजातिमत्त्वादित्यनुमानस्यैव तत्र प्रमाणत्वात् प्रभात्वमादाय व्यभिचारवारणाय गुणत्वव्याप्येति गुरुत्वत्वमादाय व्यभिचारवारणाय प्रथमं सत्यन्तं, संख्यात्वमादाय व्यभिचारवारणाय द्वितीयं सत्यन्तम्। सांसिद्धिकद्रवत्वस्नेहधर्माधर्ममावनासु प्रकृतहेतोरभावेऽपि तत्र हेत्वन्तरेणैव विशेषगुणत्वं साधनीयमिति भावः। पूर्व्वोक्तानुमाने बाधं स्वरूपासिद्धिं च आशङ्कते न चेति। वायाविति तथा च स्पर्शवद्वायुगुणत्वस्य तत्र सत्त्वात्तदभावसाधने बाध इति भावः। कारणगुणपूर्ब्बकत्वकथनं तु अकारणगुणपूर्ब्बकत्वघटितहेतोरसिद्धिप्रदर्शनार्थम्। अपावद्द्रव्यभावित्वेनेति स्वाश्रयनाशजन्यनाशप्रतियोगि यद्यत् तद्भिन्नत्वेनेत्यर्थः। ननु तथाप्याकाशे प्रत्यक्षमेव प्रमाणं किमिति नोपन्यस्तमिति चेन्न चाक्षुषत्वे प्रयोजकस्य महत्त्वे सत्युद्भूतरूपवत्त्वस्याकाशेऽसंभवेन चक्षुषः प्रमाणत्वासम्भवात्। ननु यदि आकाशे न चाक्षुषस्तदेह पक्षीति चाक्षुषेऽधिकरणत्वेन किंभासत इति चेदालोक एवेति कल्प्यम्”। निष्क्रमणप्रवेशनाद्युत्क्षेपणधर्म्मवत्त्वादाकाशसिद्धिरिति सांख्यादयोमन्यन्ते” सांख्यमताभिप्रायेणैव सुश्रुते। “आन्तरीक्षास्तु शब्दः शब्देन्द्रियं सर्वच्छिद्रसमूहो विविक्तता चेत्युक्तम्”। “शब्दःश्रोत्रेन्द्रियञ्चापि छिद्राणि च विविक्तता। वियतोदर्शिता एते गुणा गुणाविचारिभिरिति” च वेदान्तिभिरुक्तमिति वेदितव्यम्। तदेतन्मतंवै० सूत्रे निराकृतम् यथा “निष्क्रमणं प्रवेशनमित्याकाशस्य लिङ्गम् २ ०। तदलिङ्गमेकद्रव्यत्वात् कर्म्मणः २१। कारणान्तरानुकॢप्तिवैधर्म्याच्च २२। संयोगादभाबः कर्म्मणः २३। कारणगुणपूर्व्वकः कार्य्यगुणो दृष्टः २४। कार्य्यान्तराप्रादुर्भावाच्च शब्दः स्पर्शवतामगुणः २५ परत्र समवायात् प्रत्यक्षत्वाच्च नात्मगुणो न मनोगुणः २६। परिशेषाल्लिङ्गमाकाशस्य २७। द्रव्यत्वनित्यत्वे वायुना व्याख्याते २८। तत्त्वम्भावेन २९। शब्दलिङ्गाविशेषाद्विशेषलिङ्गाभावाच्च ३०।” सू० “इतिशब्दः प्रकारार्थः उत्क्षेपणादीन्यपि कर्म्माणि सगृह्लाति स्पर्शवद्द्रव्यसञ्चारो, निष्क्रमणं, प्रवेशनञ्च तत्कार्य्यमाकाशस्य लिङ्गमिति सांख्याः २०। तदेतद् दूषयितुमाह। निष्क्रमणप्रवेशनादिकर्म्म न तावत् समवायिकारणतया आकाशमनुमापयति कर्म्मण एकद्रव्यत्वात् एकमात्रमूर्त्तसमवायिकारणकत्वात् न कर्म्मापि व्यासज्यवृत्तीत्युक्तं न वाऽमूर्त्तवृत्तीति २१। ननु चासमवायिकारणतयैवाकाशमनुमापयिष्यति निष्क्रमणप्रवेशनादीत्यत आह। अनुकॢप्तिर्लक्षणम् अनुकल्प्यते ज्ञाप्यतेऽनेनेति व्युत्पत्त्या, कारणान्तरस्य असमवायिकारणस्य याऽनुकॢप्तिर्लक्षणं तद्वैधर्म्म्यादित्यर्थः। द्रव्यन्तावदसमवायिकारणं न भवत्येव असमवायिकारणता च कारणैकार्थप्रत्यासत्त्या कार्य्यैकार्थप्रत्यासत्त्या च, प्रथमा तन्तुरूपाणां पटरूपं प्रति, इयञ्चासमवायिकारणता महतीति संज्ञां लभते गुरुप्रतिपत्तिकत्वात्, द्वितीया च यथा आत्ममनःसंयोगस्य ज्ञानादिकं प्रति, इयञ्चासमवायिकारणता लघ्वीति संज्ञां लभते लघुप्रतिपत्तिकत्वात्, आकाशस्य तु निष्क्रमणप्रवेशनादौ कर्म्मणि न समवायिकारणता नाप्यसमवायिकारणता तथाच न कर्म्माकाशसत्त्वे लिङ्गमिति २२। ननु निमित्तकारणमस्तु कर्म्मण्याकाशम्, दृश्यते ह्याकाशे पक्षिकाण्डादीनां सञ्चारमत आह। मूर्त्तसंयोगेन कर्म्मकारणस्य वेगगुरुत्वादेः प्रतिबन्धात् कर्म्मणोऽभावोऽनुत्पादो न त्वाकाशाभावात् तस्याव्यापकत्वात्, तस्मादाकाशान्वयोऽन्यथासिद्ध एव नाकाशनिमित्ततां साधयतीत्यर्थः २३। एवं सांख्यमते दूषिते शब्दमाकाशे लिङ्गमुपपादयिष्यन् परिशेषानुमानाय पीठमारचयन्नाह। पृथिव्यादिलक्षणे कार्य्ये ये विशेषगुणा रूपादयस्ते कारणगुणपूर्व्वका दृष्टाः शब्दोऽपि विशेषगुणः जातिमत्त्वे सति वाह्यैकेन्द्रियमात्रग्राह्यत्वात् रूपादिवत् तथाच तादृशं कार्य्यं नोपलभ्यते यत्र कारणगुणपूर्व्वकः शब्दः स्यादित्यर्थः २४। ननु वीणावेणुमृदङ्गशङ्खपटहादौ कार्य्ये शब्द उपलभ्यते तथाच तत्कारणगुणपूर्व्वकः स्यादत आह। भवेदेवं यथा तन्तुकपालादिषु रूपरसाद्यनुभूयते तत्सजातीयञ्च रूपरसाद्यन्तरं पटघटादावुपलभ्यते तथा वीणावेणुमृदङ्गाद्यवयवेषु यः शब्द उपलब्धस्तत्सजातीयश्चेत् वीणावेणमृदङ्गादावप्युप- लभ्येत नचैवम्, प्रत्युत निःशब्दैरेवावयवैर्वोणाद्यारम्भदर्शनात् नोरूपैस्तु तन्तुकपालादिभिः पटघटाद्यारम्भस्यादर्शनात् किञ्च यदि शब्दः स्पर्शवतां विशेषगुणः स्यात् तदा तत्र तार–तारतर–मन्द–मन्दतरादिभावो नानुभूयेत नह्येकावयव्याश्रिता रूपादयो वैचित्र्येणानुभूयन्ते तस्मान्न स्पर्शवद्विशेषगुणः शब्दः २५। नन्वात्मगुणो मनोगुणो वा शब्दी भविष्यतीत्यत आह। शब्दो यद्यात्मगुणः स्यात् तदाऽहं सुखी यते जाने इच्छामीत्यादिवत् अहं पूर्य्ये अहं वाद्ये अहं शब्दवानित्यादि धीः स्यात् नत्वेवमस्ति, किन्तु शङ्खः पूर्य्यते, वीणा वाद्यते इति प्रतियन्ति लौकिकाः। किञ्च शब्दो नात्मगुणः बाह्येन्द्रियग्राह्यत्वात् रूपादिवत्, अपि च शब्दो यद्यात्मयोग्यविशेषगुणः स्याद्वधिरेणाप्युपलभ्येत दुःखादिवत्। तस्मात् सुष्ठूक्तं परत्र समवायादिति, अमनोगुणत्वे हेतुमाह प्रत्यक्षत्वादिति, नात्ममनसोर्गुण इति समासे कर्त्तव्ये यदसमासकरणं तेन तुल्यन्यायतया प्रत्यक्षत्वादित्यनेनैव हेतुना दिक्कालयोरपि गुणत्वं शब्दस्य प्रतिषिद्धमिति सूचितम् २६। यदर्थमयं परिकरस्तदाह शब्द इति शेषः। अत्रापि शब्दः क्कचिदाश्रितो गुणत्वात् रूपादिवदिति सामान्यतोदृष्टोदष्टद्रव्यातिरिक्तद्रव्य सिद्धिः। गुणश्चायं बाह्यैकेन्द्रियग्राह्यजातीयत्वात् रूपादिवत् अनित्यत्वे सति विभुसमवेतत्वात् ज्ञानादिवत् अनित्यत्वञ्च साधयिष्यते। परिशेषसिद्धस्य द्रव्यस्यावयवकल्पनायां प्रमाणाभावान्नित्यत्वं, सर्व्वत्र शब्दोपलब्धेर्विभुत्वम् २७। शब्दलिङ्गस्य द्रव्यस्य द्रव्यत्वनित्यत्वे अतिदेशेन साधयन्नाह। अद्रव्यवत्त्वाद्यथा वायोर्नित्यत्वं तथाकाशस्यापि, गुणवत्त्वाद्यथा वायोर्द्रव्यत्वं तथाकाशस्यापीत्यर्थः २८। तत् किं बहून्याकाशानि एकमेव वेत्यत आह। व्याख्यातमिति विपरिणतेनान्वयः। भावः सत्ता सा यथैका तथाकाशमप्येकमेवेत्यर्थः २९। नन्वनुगतप्रत्ययमहिम्ना सत्ताया एकत्वं सिद्धम् आकाशे कथमेकत्वं तद्दृष्टान्तेन सेत्स्यतीत्यत आह। तत्त्वमाकाशस्य सिद्धमित्यर्थः। वैभवे सति सर्वेषां शब्दानां तदेकाश्रयतयैवोपपत्तावाश्रयान्तरकल्पनायां कल्पनागौरवप्रसङ्गः अन्यदपि यदाकाशं कल्पनीयं तत्रापि शब्द एव लिङ्गं तच्चाविशिष्टं न च विशे षसाधकं भेदसाधकं लिङ्गान्तरमस्ति। आत्मनां यद्यपि ज्ञानादिकमविशिष्टमेव लिङ्गं तथापि व्यवस्थातो लिङ्गान्तरादात्मबानात्वसिद्धिरिति वक्ष्यते” ३० उप०। इत्थं च तस्य नित्यत्वं निरवयवद्रव्यत्वादिति सिद्धम्। सांख्यादयस्तु शब्दतन्मात्रतस्तदुत्पत्ति मुररीचक्रुः “प्रकृतेर्महान् महतोऽहङ्कारोऽहङ्कारात् पञ्चतन्मात्राणि” इत्युपक्रम्य “पञ्चभ्यः पञ्चभूतानि” इत्युक्तेः। वेदान्तिनस्तु अविद्यासहकृतब्रह्मण एव सकाशात्तदुत्पत्तिमङ्गीचक्रुः तस्य चोत्पत्तिमत्त्वे “तस्माद्वा एतस्मादात्मनः आकाशः सम्भूतः” इति श्रुति र्मानम्। यतो वा इमानि भूतानि जायन्ते इत्यादिश्रुत्या ब्रह्मणः सर्व्वभूतकारणत्वान्यथानुपत्त्याऽपि तस्योत्पत्तिमत्त्वम्। श्रुतेर्गौणोत्पत्तिपरत्वं च आशङ्गापूर्ब्बकं शा० सूत्रभाष्ययोर्निराकृतं यथा। “नवियदश्रुतेः सू० “वेदान्तेषु तत्र तत्र भिन्नप्रस्थाना उत्पत्तिश्रुतय उपलभ्यन्ते। केचिदाकाशस्योत्पत्तिमामनन्ति केचिन्न। तथा केचिद्वायोरुत्पत्तिमामनन्ति केचिन्न। एवं जीवस्य प्राणानाञ्च। एवमेव क्रमादिद्वारकोऽपि विप्रतिषेधः श्रुत्यन्तरेषु लक्ष्यते। विप्रतिषेधाच्च परपक्षाणामनपेक्षत्वं स्थापितं तद्वत् स्वपक्षस्यापि विप्रतिषेधादेवानापेक्षत्वमाशङ्क्येतेत्यतः सर्ववेदान्तगतसृष्टिश्रुत्यर्थनिर्मिलत्वाय परः प्रपञ्च आरभ्यते। तदर्थ निर्मिलत्वे च फलं यथोक्ताशङ्कानिवृत्तिरेव। तत्र प्रथमं तावदाकाशमाश्रित्य विचिन्त्यते किमस्योत्पत्तिरस्त्युत नास्तोति। तत्र तावत् प्रतिपद्यते। न वियदश्रुतेरिति न खल्वकाशमुत्पद्यते कस्मात् अश्रुतेः नह्यस्योत्पत्तिप्रकरणे श्रवणमस्ति। छान्दोग्ये हि “सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयमिति” सच्छब्दवाच्यं ब्रह्म प्रकृत्य “तदैक्षत तत्तेजोऽसृजतेति च पञ्चानां महाभूतानां मध्यमं तेजआदिं कृत्वा त्रयाणां तेजोऽबन्नानामुत्पत्तिः श्राव्यते। श्रुतिश्च नः प्रमाणमतीन्द्रियार्थविज्ञानोत्पत्तौ। न चात्र श्रुतिरस्त्याकाशोत्पत्तिप्रतिपादिनी तस्मान्नास्त्याकाशस्योत्पत्तिरिति” भा० “अस्ति तु” सू०। तुशब्दः पक्षान्तरपरिग्रहे। मा नामाकाशस्य छान्दोग्ये भूदुत्पत्तिः श्रुत्यन्तरे त्वस्ति। तैत्तिरीयकाः समामनन्ति “सत्यं ज्ञानमनन्तं ब्रह्मेति” प्रकृत्य “तस्माद्वा एतस्मादात्मन आकाशः सम्भूत” इति। ततश्च श्रुत्योर्विप्रतिषेधः क्वचित्तेजःप्रमुखा सृष्टिः क्वचिदाकाशप्रमुखेति। नन्वेकवाक्यताऽनयोः श्रुत्योर्युक्ता। सत्यं युक्ता न तु सावगन्तुं शक्यते कुतः “तत्तेजोऽसृजतेति” सकृच्छ्रु तस्य स्रष्टुः स्रष्टव्यद्वयेन सम्बन्धानुपपत्तेः तत्तेजोऽसृजत तदाकाशमसृजतेति। ननु सकृच्छ्रुतस्य कर्त्तुः कर्त्तव्यद्वयेन सम्बन्धो दृश्यते यथा स सूपं पक्त्वौदनं पचतीति। एवं तदाकाशं सृष्ट्वा ते- जोऽसृजतेति योजयिष्यामः। नैवं युज्यते प्रथमजत्वं हि छान्दोग्ये तेजसोऽवगम्यते तैत्तिरीयके त्वाकाशस्य। नचोभयोः प्रथमजत्वं सम्भवति। एतेनेतरश्रुत्यक्षरविरोघोऽपि व्याख्यातः। तस्माद्वा एतस्मादात्मन आकाशः सम्भूत इत्यत्रापि तस्मात् आकाशः सम्भूतस्तस्मात्तेजः सम्भूतमिति सकृच्छुतस्यापादानस्य सम्भवनस्य च वियत्तेजोभ्यां युगपत्सम्बन्धानुपपत्तेः। वायोरग्निरिति च पृथगाम्नानात्। अस्मिन् विप्रतिषेधे कश्चिदाह। “गौण्यसम्भवात्” सू०। नास्ति वियत उत्पत्तिः अश्रुतेरेव। या त्वितरा वियदुत्पत्तिवादिनी श्रुतिरुदाहृता सा गौणी भवितुमर्हति। कस्मात्? असम्भवात्। नह्याकांशस्योत्पत्तिः सम्भावयितुं शक्या श्रीमत्कणभुगभिप्रायानुसारिषु जीवत्सु। ते हि कारणसामग्र्यसम्भवादाकाशस्योत्पत्तिं वारयन्ति। समवाय्यसमवायिनिमित्तकारणेभ्यो हि किल सर्व्वमुत्पद्यमानमुत्पद्यते। द्रव्यस्य चैकजातीमनेकञ्च द्रव्यं समवायि कारणम्भवति। नचाकाशस्यैकजातीथमनेकञ्च द्रव्यमारम्भकमस्ति यस्मिन् समवायिकारणेऽसमवायिकारणे च तत्संयोगे आकाशमुत्पद्येत। तदभावात्तदनुग्रहप्रवृत्तं निमित्तकारणं दूरापेतमेवाकाशस्य भवति। उत्पत्तिमताञ्च तेजःप्रभृतीनां पूर्ब्बोत्तरकालयोर्विशेषः सम्भाव्यते प्रागुत्पत्तेः प्रकाशादिकार्य्यं न बभूव पश्चाच्च मवतीति। आकाशस्य पुनर्न पूर्ब्बोत्तरकालयोर्विशेषः सम्भावयितुं शक्यते। किं हि प्रागुत्पत्तेरनवकाशमशुषिरमच्छिद्रं बभूवेति शक्यतेऽध्यवसातुम्। पृथिव्यादिवैधर्म्म्याच्च विभुत्वादिलक्षणादाकाशस्याजत्व सिद्धिः। तस्माद्यथा लोके आकाशं कुरु आकाशोजात इत्येवं जातीयको गौणः प्रयोगो भवति यथा च घटाकाशः करकाकाशो गृहाकाश इत्येकस्याप्याकाशस्यैवंजातीयको भेदव्यपदेशो भवति। वेदेऽपि आरण्यानाकाशेष्वालभेरन्निति। एवमुत्पत्तिश्रुतिरपि गौणी द्रष्टव्या भा० “शब्दाच्च” सू०। शब्दःखल्वप्याकाशस्याजत्वं ख्यापयति। अत आह “वायुश्चान्तरिक्षञ्चैतदमृतमिति” न चा मृतस्योत्पत्तिरुपपद्यते। “आकाशवत् सर्व्वगतश्च नित्य इति” चाकाशेन ब्रह्मणोनित्यत्वसर्व्वगतत्वाभ्यां धर्म्माभ्यामुपसिमानः आकाशस्यापि तौ धर्म्मौ सूचयति। न च तादृशस्योत्पत्तिरुपपद्यते। यथाऽनन्तोयमाकाश एवमनन्तआत्मा वेदितव्य इति चोदाहरणम्। आकाशशरीरं ब्रह्म आकाशआत्मेति। नह्याकाशस्योत्पत्तिमत्त्वे ब्रह्मण- स्तेन विशेषणं सम्भवति नीलेनेवोत्पलस्य। तस्मान्नित्य मेवाकाशेन साधारणं ब्रह्मेति गम्यते” भा०। “स्याच्चैकस्य ब्रह्मशब्दवत्” सू०। इदंपदोत्तरं सूत्रम्। स्यादेतत् कथं पुनरेकस्य सम्भूतशब्दस्य तस्माद्वा एतस्मादात्मन आकाशः सम्भूत इत्यस्मिन्नधिकारे परेषु तेजःप्रभृतिष्वनुवर्त्तमानस्य मुख्यत्वं आकाशे च गौणत्वमिति। अत उत्तरमुच्यते। स्याच्चैकस्यापि सम्भूतशब्दस्य विषयविशेषवशाद्गौणोमुख्यश्च प्रयोगः ब्रह्मशब्दवत्। यथैकस्यापि ब्रह्मशब्दस्य “तपसा ब्रह्म विजिज्ञासस्व तपो ब्रह्म” इत्यस्मिन्नधिकारेऽन्नादिषु गौणः प्रयोग आनन्दे च मुख्यः यथा च तपसि ब्रह्मविज्ञानसाधने ब्रह्मशब्दोभक्त्या प्रयुज्यते अञ्जसा तु विज्ञेये ब्रह्मणि तद्ववत्। कथं पुनरनुत्पत्तौ नभसः “एकमेवाद्वितीय” मितीयं प्रतिज्ञा समर्थ्यते। ननु नभसा द्वितीयेन सद्वितीयं ब्रह्म प्राप्नोति, कथञ्च ब्रह्मणि विदिते सर्व्वं विदितं स्यादिति। तदुच्यते। एकमेवेति तावत्कार्य्यापेक्षयोपपद्यते। यथा लोके कश्चित् कुम्भकारकुले पूर्ब्बेद्युर्मृदं दण्डचक्रादीनि चोपलभ्यापरेद्युश्च नानाविधान्यमत्राणि प्रसारितान्युपलभ्य ब्रूयात् मृदेवेहैकाकिनी पूर्ब्बेद्युरासीदिति। स च तयावधारणया मृत्कार्य्यजातमेव पूर्ब्बेद्युर्नासीदित्यभिप्रेयात् न चक्रदण्डादि तद्वत्। अद्वितीय श्रुतिरधिष्ठात्रन्तरं वारयति यथा मृदोऽमत्रप्रकृतेः कुम्भकारोऽधिष्ठाता दृश्यते नैवं ब्रह्मणोजगत्प्रकृतेरन्योऽधिष्ठितास्तीति। न च नभसापि द्वियीयेन सद्वितीयं ब्रह्मप्रसज्यते। लक्षणान्यत्वनिमित्तं हि नानात्वं न च प्रागुत्पत्तेर्ब्रह्मनभसोर्लक्षणान्यत्वमस्ति। क्षीरोदकयोरिव संसृष्टयोर्व्यापित्वामूर्त्तत्वादिधर्म्मसामान्यात्। सर्गकाले तु ब्रह्म जगदुपादयितुं यतते स्तिमितमितरत्तिष्ठति तेनान्यत्वमवसीयते। तथाकाशशरीरं ब्रह्मेत्यादि श्रुतिभ्योपि ब्रह्माकाशयोरभेदोपचारसिद्धिः। अतएव च ब्रह्मविज्ञानेन सर्वविज्ञानसिद्धिः। अपि च सर्वं कार्य्य मुत्पद्यमानमाकाशेनाव्यतिरिक्तदेशकालमेवोत्पद्यते ब्रह्मणा चाव्यतिरिक्तदेशकालमेवाकाशं भवतीत्यतो ब्रह्मणा तत्कार्य्येण च विज्ञातमेवाकाशं भवति यथा क्षीरपूर्णे घटेकतिचिदबिवन्दवः प्रक्षिप्ताः सन्तः क्षीरग्रहणेनैव गृहीता भवन्ति। न हि क्षीरग्रहणादब्विन्दुग्रहणं परिशिष्यते एवं ब्रह्मणा तत्कार्य्यैश्चाव्यतिरिक्तदेशकालत्वाद्गृहीतमेव ब्रह्मग्रहणेन नभो भवति। तस्माद्भाक्तं नभसः सम्भवश्रवणमिति एवं प्राप्ते इदमाह। “प्रतिज्ञाऽहानिरव्यति- रेकात्शब्देभ्य”। सू० “येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातमिति” “आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदं सर्वं विदितमिति” “कस्मिन्नु भगवोविज्ञाते सर्वमिदं विज्ञातं मवतीति” न काचन सद्बहिर्वा विद्यास्तीति “चैवंरूपा प्रतिवेदान्तं प्रतिज्ञा विज्ञायते तस्याः प्रतिज्ञाया एवमहानिरनुपरोधः स्यात् यद्यव्यतिरेकः कृत्स्नस्य वस्तुजातस्य विज्ञेयाद्ब्रह्मणः स्यात्। व्यतिरेके हि सत्येकविज्ञानेन सर्वं विज्ञायत इतीयं प्रतिज्ञा हीयेत। सचाव्यतिरेक एवमुपपद्यते यदि कृत्स्नं वस्तुजातमेकस्मात् ब्रह्मण उत्पद्यते। शब्देभ्यश्च प्रकृतिविकारव्यतिरेकन्यायेनैव प्रतिज्ञासिद्धिरवगम्यते। तथा हि “येनाश्रुतं श्रुतं भवतीति” प्रतिज्ञाय मृदादिदृष्टान्तैः कार्य्यकारणाभेदप्रतिपादनपरैः प्रतिज्ञैषा समर्थ्यते। तत्साधनायैव चोत्तरे शब्दाः “सदेव सोम्येदमग्र आसीत्” “एकमेवा द्वितीयं ब्रह्म” “तदैक्षत तत्तेजो सृजते” इत्येवंकार्य्यजातं ब्रह्मणः प्रदर्श्याव्यतिरेकं प्रदर्शयन्ति “ऐतदात्म्यमिदं सर्व्वम्” इत्यारम्या प्रपाठकपरिसमाप्तेः। तद्तद्याकाशं न ब्रह्मकार्यं स्यात् न ब्रह्मणि विज्ञाते आकाशं विज्ञायेत ततश्च प्रतिज्ञाहानिः स्यात्। न च प्रतिज्ञाहान्या वेदस्याप्रामाण्य युक्त कर्त्तुम्। तथा च प्रतिवेदान्तं ते ते शब्दास्तेन तेन दृष्टान्तेन तामेव प्रतिज्ञां ज्ञापतन्ति “इदं सर्वं यदयमात्मा” “ब्रह्मैवेदममृतं पुरस्तात्” इत्येवमादयः। तस्मात् ज्वलनादिवदेव गगनमप्युत्पद्यते। यदुक्तमश्रुतेर्न वियदुपद्यत इति तदयुक्तं वियदुत्पत्तिविषयस्य श्रुत्यन्तरस्य दर्शितत्वात् “तस्माद्वा एतस्मादात्मन आकाशः सम्भूत” इति। सत्यं दर्शितं विरुद्धन्तु “तत्तेजोऽसृजत” इत्यनेन श्रुत्यन्तरेण। न एकवाक्यत्वात् सर्वश्रुतीनाम्। भवत्वेकवाक्यत्वमविरुद्धानाम् इह तु विरोध उक्तः। सकृच्छ्रुतस्थ स्रष्ठुः स्रष्टव्यद्वय सम्बन्धासम्भवात्, द्वयोश्च प्रथमजत्वासम्भवाद्विकल्पा सम्भवाच्चेति। नैष दोषः तेजःसर्गस्य तैत्तिरीयके तृतीयत्वश्रवणात् “तस्माद्वा एतस्मादात्मन आकाशः सम्मूतः आकाशाद्वायुः वायोरग्रिरिति”। अशक्या हीयं श्रुतिरन्यथा परिणेतुम्। शक्या तु परिणेतु छान्दोग्यश्रुतिः तदाकाशं वायुञ्च सृष्ट्वा “तत्तेजोऽसृजतेति”। न हीयं श्रुतिस्ते जोजनिप्रधाना सती श्रुव्यन्तरप्रसिद्धामाकाशस्योत्पत्तिं वारयितु शक्नाति एकस्य वाक्यस्य व्यापारद्वयासम्भवात्। स्रष्टा त्वेकोपि क्रमेणानेक स्रष्टव्यं सृजेत् इत्येकवाक्यत्वकल्पनायां सम्भवन्त्यां न विरुद्धार्थत्वेन श्रतिर्हातव्या। नचास्माभिः सकृच्छ्रतस्य स्रश्चु। स्रष्टव्यद्वय सम्बन्धोऽभिप्रेयते श्रुत्यन्तरवशेन स्रष्टव्यान्तरोपसंग्रहात्। यथा च “सर्वं खल्विदं ब्रह्म तज्जलान्” इत्यत्र साक्षादेव सर्वस्य वस्तुजातस्य ब्रह्मजत्वं श्रूयमाणं न प्रदेशान्तरविहितं तेजःप्रमुखमुत्पत्तिक्रमं वारयति एवं तेजसोपि ब्रह्मजत्वं श्रूयमाणं न श्रुत्यन्तरविहितं नभःप्रमुखसुत्पत्तिक्रमं वारयितुमर्हति। ननु शमविधानार्थमेतद्वाक्यं “तज्जलानिति शान्त उपासीतेति” श्रुतेः नैतत्सृष्टिवाक्यं न तस्मादेतत्प्रदेशान्तरप्रसिद्धं क्रममनुरोद्धुमर्हति। “तत्तेजोसृजतेत्येतत्सृष्टिवाक्यं तस्मादत्र यथाश्रुति क्रमोग्रहीतव्य इति। नेत्युच्यते। न हि तेजःप्राथम्यानुरोधेन श्रुत्यन्तरप्रसिद्धोवियत्पदार्थः परित्यक्तव्यो भवति पदार्थधर्म्मत्वात् क्रमस्य। अपि च तत्तेजोऽसृजतेति नात्र क्रमस्य वाचकः कश्चित् शब्दोऽस्ति अर्थात्तु क्रमोगम्यते स च वायोरग्निरित्यनेन श्रुत्यन्तरप्रसिद्धेन क्रमेण निवार्य्यते। विकल्पसमुच्चयौ तु वियत्ते जसोः प्रथमजत्वविषयौ असम्भवानभ्युषगमाभ्यां निवारितौ। तस्मान्नास्ति श्रुत्योर्विप्रतिषेधः। अपि च छान्दोग्ये “येनाश्रुतं श्रुतं भवतितो” त्येतां प्रतिज्ञां वाक्योपक्रमे श्रुतां समर्थयितुमसमाम्नातामपि वियदुत्पत्तावुपसंख्यातव्यं किमङ्ग पुनस्तेत्तिरीयके समाख्यातं न संगृह्यते। यच्चोक्तमाकाशस्य सर्वेणानन्यदेशत्वात् ब्रह्मणा तत्कार्य्यैश्च सह विदितमेव तद्भवति अतो न प्रतिज्ञा हीवते। न च “एकमेवाद्वितीयमिति” श्रुतिकोपो भवति क्षीरोदकवत् ब्रह्मनभमोरव्यतिरकोपपत्तेरिति। अत्रोच्यते न क्षीरोदकन्यायेनेदमेकविज्ञानेन सर्व्वविज्ञानं नेतव्यम्। मृदादिदृष्टान्तप्रणयनाद्धि प्रकृतिविकारन्यावेनैवेदं सर्वविज्ञानं नेतव्यमिति गम्यते। क्षीरोदकन्यायेन सर्वविज्ञानं कल्प्यमानं न सम्यग्विज्ञानं स्यात्। न हि क्षीरज्ञानगृहीत स्योदकस्य सम्यग्ज्ञानगृहीतत्वमस्ति। न च वेदस्य पुरुषाणामिव मायालोकवञ्चनादिभिरर्थावधारणमुपपद्यते। सावधारणा चेयम् “एकमेवाद्वितीयमिति” श्रुतिः क्षीरोदकन्यायेन नीयमाना पीड्येत। न च स्वकार्य्यापेक्षयैवेदं वस्त्वकदेशविषयं सर्वविज्ञानमेकाद्वितीयतावधारणञ्चेति न्याय्यम्। मृदादिष्वपि हि तत्सम्भवान्न तदपूर्ब्बवदुपन्यसितव्यम्भवति “श्वेतकेतो यन्नुसोम्येदं महामना अनूचानमानीस्तब्धोऽस्युत तमादशमप्राक्षोयेनाश्रुतं श्रुतम्भवती” त्यादिना। तस्मादशेषवस्तुविषयमेवेदं सर्वविज्ञानं सर्वस्य ब्रह्मकार्य्यत्वापेक्षयोपन्यस्यत इति द्रष्टव्यम्। यत् पुनरेतदुकमसम्भवाद्गौणी गगनस्योत्पत्तिश्रुतिरिति। अत्र व्रूमः “यावद्विकारन्तु विभागो लोकवत्” सू०। तु शब्दीऽसम्भवाशङ्काव्यावृत्त्यर्थः। न खल्वाकाशोत्पत्तावसम्भवाशङ्का कर्त्तव्या यतोयावत् किञ्चित् विकारजातं दृश्यते घटघटिकोदञ्चनादि वा कटककेयूरकुण्डलादि वा सूचीनाराचनिस्त्रिंशादि वा तावानेव विभागोलोके लक्ष्यते नत्वविकृतं किञ्चित् कुतश्चिद्विभक्तमुपलभ्यते। विभागश्चाकाशस्य पृथिव्यादिभ्योऽवगम्यते तस्मात् सोऽपि विकारो भवितुमर्हति। एतेन दिक्कालमनःपरमाणूनां कार्य्यत्वं व्याख्यातम्। नन्वात्मापि आकादिभ्यो विभक्त इति तस्यापि कार्य्यत्वं घटादिवत् प्राप्नोति, न “आत्मन आकाशः सम्भूत इति श्रुतेः। यदि ह्यात्मापि विकारः स्यात्तस्मात् परमन्यन्न श्रुतमित्याकाशादि सर्व्वं कार्य्यं निरात्मकमात्मनः कार्य्यत्वे स्यात् तथा च शून्यवादः प्रसज्येत। आत्मत्वादेवात्मनो निराकरण शङ्कानुपपत्तिः। नह्यत्मागन्तुकः कस्यचित्, स्वयंसिद्धत्वात्। नह्यत्मात्मनः प्रमाणमपेक्ष्य सिध्यति। तस्य हि प्रत्यक्षादीनि प्रमाणान्यन्यसिद्धये उपादीयन्ते। नह्याकाशादयः पद्रार्थाः प्रमाणनिरपेक्षाः स्वयंसिद्धाः केनचिदभ्युपगम्यन्ते। आत्मा तु प्रमाणादिव्यवहाराश्रयत्वात् प्रागेव प्रमाणादिव्यवहारात् सिद्ध्यति। नचेदृशस्य नराकिरणं सम्भवति। आगन्तुकं हि वस्तु निराक्रियते न स्वरूपम्। य एव हि निराकरणकर्त्ता तदेव तस्य स्वरूपम्। नह्यग्नेरौष्ट्यमग्निना निराक्रियते। तथाहमेवेदं जानामि वर्त्तमानं वस्तु अहमेवातीततरञ्चाज्ञासिषम् अहमेवानागततरञ्च ज्ञास्यामीत्यतीतानागतवर्त्तमानभावेनान्यथाभवत्यपि ज्ञातव्ये न ज्ञातुरन्यथाभावोऽस्ति सर्वदा वर्त्तमानस्वभावत्वात्। तथा भस्मीभवत्यपि देहे नात्मन उच्छेदोवर्त्त मानस्वभावत्वादन्यस्वभावत्वं वा न सम्भावयितुं शक्यम्। एवमप्रत्याख्ये यस्वभावत्वादेवाकार्य्यत्वमात्मनः कार्यत्वञ्चाकाशस्य। यत्तूक्तं स्वसमानजातीयमनेकं कारणद्रव्यं व्योम्नोनास्तीति तत्प्रत्युच्यते। न तावत् स्वसमानजातीममेवारभते न भिन्नजातीयमिति नियमोऽस्ति न हि तन्तूनां तत्संयोगानाञ्च समानजातीयत्वमस्ति द्रव्यत्वगुणत्वाभ्युपगमात्। न च निमित्त कारणानामपि तुरीवेमादीनां समानजातीयत्वनियमोऽस्ति। स्यादेतत् समवायिकारणविषयएव समानजातीयत्वाभ्युपगमो न कारणान्तरविषय इति तदप्यनैकान्तिकम्। सूत्रगोबालैर्ह्यनेकजातीयैरेका रज्जुः सृज्यमाना दृश्यते। तथा सूत्रैरूर्णादिभिश्च विचित्रान् कम्बलान् वितन्वते। सत्त्व- द्रव्यत्वाद्यपेक्षया वा समानजातीयत्वे कल्प्यमाने नियमानर्थक्यम् सर्वस्य सर्वेण समानजातीयत्वात्। नाप्यनेकमेवारभते नैकमिति नियमोऽस्ति अणुमनसोराद्यकर्मारम्भाभ्युपगमात्। एकैकोहि परमाणुर्मनश्चाद्यं स्वकर्म्मारभते न द्रव्यान्तरैः संहत्येत्यभ्युपगम्यते। द्रव्यारम्भ एवानेकद्रव्यारम्भकत्वनियम इति चेन्न परिणामाभ्युपगमात्। भवेदेष नियमो यदि संयोगसचिवं द्रव्यं द्रव्यान्तरस्यारम्भकमभ्युपगम्येत तदेव तु द्रव्यं विशेषवदवस्थान्तरमापद्यमानं कार्यं नामाभ्युपगम्यते तच्च क्वचिदनेकं परिणमते मृद्वीजाद्यङ्कुरादिभावेन क्वचिदेकं परिणमते क्षीरादि दध्यादिभावेन। नेश्वरशासनमस्ति अनेकमेव कारणं कार्यं जनयतीति। अतः शास्त्रप्रामाण्यादेकस्माद्ब्रह्मण आकाशादि महाभूतोत्पत्तिक्रमेण जगज्जातमिति निश्चीयते। तथा चोक्तं “उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धीति”। यच्चोक्तमाकाशोत्पत्तौ न पूर्ब्बोत्तरकालयोर्विशेषः सम्भावयितुं शक्यत इति तदयुक्तं येनैव हि विशेषेण पृथिव्यादिभ्यो व्यतिरिच्यमाणं नभः स्वरूपवदिदानीमध्यवसोयते स एव विशेषः प्रागुत्पत्तेर्नासीदिति गम्यते। यथा च न ब्रह्मस्थूलादिभिः पृथिव्यादिस्वभावैः स्वभाववत् “अस्थूलमनण्वित्यादि” श्रुतिभ्यः एवमाकाशस्वभावेनापि न स्वभाववत् अनाकाशमिति श्रुतेरवगम्यते। तस्मात् प्रागुत्पत्तेरनाकाशमच्छिद्रमिति स्थितम्। यदप्युक्तं पृथिव्यादिवैधर्म्यादाकाशस्याजत्वमिति तदप्यसत्। श्रुतिविरोधे सत्युत्पत्त्यसम्भवानुमानस्याभासत्वोपपत्तेः उत्पत्त्यनुमानस्य च दर्शितत्वात् अनित्यमाकाशमनित्यगुणाश्रयत्वात् घटादिवदित्यादिप्रयोगसम्भवाच्च। आत्मनानैकान्तिकमिति चेन्न तस्यौपनिषदं प्रति अनित्यगुणाश्रयत्वासिद्धेः। विभुत्वादीनाञ्चाकाशस्योत्पत्तिवादिनं प्रत्यसिद्धत्वात्। यच्चैतदुक्तं शब्दाच्चेति। तत्रामृतत्वश्रुतिस्तावद्वियति “अमृता दिवौकस इतिवद्द्रष्टव्या उत्पत्तिप्रलययोरुपपादित्वात्। “आकाशवत् सर्व्वगतश्च नित्यः” इत्यपि प्रसिद्धमहत्त्वेनाकाशेनोपमानं क्रियते निरतिशयमहत्त्वाय नाकाशसमानत्वाय। यथेषुरिव सविता धावतीति क्षिप्रगतित्वायोच्यते नेषुतुल्यगतित्वाय तद्वत्। एतेनानन्तत्वोपमानश्रुतिर्व्याख्याता। “ज्यायानाकाशादिति” श्रुतिभ्यश्च ब्रह्मणः सकाशात् आकाशस्योनपरिमाणत्वसिद्धिः। “न तस्य प्रतिमास्तीति च ब्रह्मणोऽनुपमानत्वं दर्शयति। “अतोऽन्यदार्त्तमिति” च ब्रह्मणोऽन्येषामाकाशादीनामार्त्तत्वं दर्शयति। तपसि ब्रह्मशब्दवदाकाशस्य जन्मश्रुतेर्गौणत्वमित्येतदाकाशसम्भव श्रुत्यनुमानाभ्यां परिहृतम्। तस्मादब्रह्मकार्यं वियदिति सिद्धम्”। तस्य जन्यत्वेऽपि आप्रलयस्थायित्वात् गौणनित्यत्वम्। वैशेषिकाणां नित्यत्वानुमानं तु बलवदागमविरुद्धत्वात् नरकपालशुचित्वानुमानवत् बाधितमिति द्रष्टव्यम्। सांख्यमते दिक्कालयोराकाशएवान्तर्भावः अतएव सां० कौमुद्याम् कालरूपतत्त्वान्तरं निराकृतं यथा “कालश्च वैशेषिकाभिमत एकोन अनागतादिव्यवहारभेदं प्रवर्त्तयितुमर्हतीति तस्मादयं यैरुपादिभेदैरनागतादिभेदं प्रतिपद्यते सन्तु त एवोपाधयोऽनागतादिव्यवहारहेतवः कृतमत्रान्तर्गडुना काले नेति सांख्याचार्य्याः तस्मान्न कालरूपतत्त्वान्तराभ्युपगम इति” सूत्रे तु आकाशप्रकृतिकत्वं तयोरुक्तम् यथा “दिक्कालावाकाशादिभ्यः” सू०। नित्यौ यौ दिक्वालौ तावाकाशप्रकृतिभूतौ प्रकृतेर्गुणविशेषावेव। अतो दिक्कालयोर्विभुत्वोपपत्तिः। “आकाशवत् सर्वगतश्च नित्य” इत्यादि श्रुत्युक्तं विभुत्वं चाकाशस्योपपन्नम्। यौ तु खण्डदिक्कालौ तौ तु तत्तदुपाधिसंयोगादाकाशादुत्पद्येते इत्यर्थः। आदिशब्देनोपाधिग्रहणमिति। यद्यपि तत्तदुपाधिविशिष्टाकाशमेव खण्डदिक्कालौ तथापि विशिष्टस्याति रिक्तताभ्युपगमवादेन वैशेषिकनयेनास्य कार्य्यतावत् तत्कार्य्यत्वमत्रोक्तम्” सां० भा०। पदार्थखण्डने शिरोमणिना अस्य ईश्वरस्वरूपानतिरेक उक्तः “दिक्कालावीश्वरान्नातिरिच्येते गगनमपि तथेति”। सौगतमतसिद्धे आवरणाभावरूपे निरुपाख्ये २ पदार्थभेदे च। तदेतत् मतम्” शा० सू० भाष्ययोर्निराकृतम् “आकाशे चाभावात्” सू०। “यच्च तेषामेवाभिप्रेतं निरोधद्वयमाकाशञ्च निरुपाख्यमिति तत्र निरोधद्वयस्य निरुपाख्यत्वं पुरस्तान्निराकृतम् आकाशस्येदानीं निराक्रियते। आकाशे चायुक्तोनिरुपाख्यत्वाभ्युपगमः प्रतिसंख्याप्रतिसंख्यानिरोधयोरिववस्तुत्वप्रतिपत्तेरविशेषात् आगमप्रामाण्यात्तावदात्मनः आकाशःसम्भूतैत्यादि श्रुतिभ्यः आकाशस्य वस्तुत्वसिद्धिः। विप्रतिपन्नानपि प्रति शब्दगुणानुमेयत्वं वक्तव्यं गन्धादीनां गुणानां पृथिव्यादिवस्त्वाश्रयत्वदर्शनात्। अपि चावरणाभावमात्रमाकाशमिच्छतस्तव एकस्मिन्सुपर्ण्णे पतत्यावरणस्य विद्यमानत्वात् सुपर्ण्णान्तरस्य पित्सतोऽनवकाशत्वप्रसङ्गः यत्रावरणाभावस्तत्र पतिष्यतीति चेत् येनावरणाभावो विशिष्यते तत्तर्हि वस्तु भूतमेवाकाशं स्यान्नावरणाभावमात्रम् अपि चावरणाभावमात्रमाकाशं मन्यमानस्य सौगतस्य स्वाभ्युपगमविरोधः प्रसज्येत। सौगते हि समये पृथिवीभगवन्! किंसन्निश्रयेत्यस्मिन् प्रश्नप्रतिवचनप्रवाहे पृथिव्यादीनामन्ते वायुः किंसन्निश्रय इत्य स्य प्रश्नस्य प्रतिवचनं भवति वायुराकाशसन्निश्रय इति तदाकाशस्यावस्तुत्वे न समञ्जसं स्यात् तस्मादप्ययुक्तमाकाशस्यावस्तुत्वम्। अपि च निरोधद्वयमाकाशञ्च त्रयमप्येतन्निरुपाख्यमवस्तु नित्यञ्चेति विप्रतिषिद्धं नह्यवस्तुनोनित्यत्वमनित्यत्वं वा सम्भवति वस्त्वाश्रयत्वाद्धर्म्मधर्म्मिव्यवहारस्य। धर्म्म धर्मिभावे हि घटादिवद्वस्तुत्वमेव स्यात् न निरुपाख्यत्वम्” भा०। आ समन्तात् काशते अच्। “रतिमाकाशभवा सरस्वती” कु० “आकाशगङ्गापयसः पतेताम्” माघः आकाशात्तु विकुर्व्वाणात् सर्व्वशब्दवहः शुचिः मनुः” “घटसंवृतआकाशे नीयमाने यथा घटे” सां० प्र० भा० “आकाशो जायते तस्मात् तस्य शब्दगुणः स्मृतः” मनुः। रूपादिषु मध्ये शब्दमात्रग्राहकतया श्रोत्रस्याकाशात्मकत्वेऽपि कर्ण्णशस्कुन्तीरूपोपाधिभेदान्नानात्वमौपाधिकमेकस्यादिशः प्राचीत्वादिवत् एकस्य कालस्य क्षणादित्ववच्च। ३ परब्रह्मणि “आकाशोहवै नामरूपयोर्निर्वर्हिता ते यदन्तरा तदन्वेष्टच्यं तद्वाव विजिज्ञासितव्यम्” श्रुतिः “यावानयमाकाशस्तावानयमन्तर्हृदयाकाश” इति छा० उ०। “आकाशस्तल्लिङ्गात्” शा० सू०। “आकाशवत् सर्वगतश्च नित्यः” श्रुतिः गीता च। ४ छिद्रे गणितादिप्रसिद्धे ५ शून्याङ्के च।

आकाशकक्षा = स्त्री ६ त०। ब्रह्माण्डपुटवेष्टने लोकालोकपर्वतरूपसीमापर्य्यन्तव्यापके सूर्य्यकिरणस ञ्चारावधिभूते वृत्ताकारे गगनस्थे गोलक्षेत्रे। तन्मितिरुक्ता” सि० शि० “कोटिघ्नैर्नख नन्दषट्कनखभूभूभृद्भुजगेन्दुभिर्ज्योतिःशास्त्रविदोवदन्ति नभसः कक्षामिमां योजनैः १८७१२०६९२००००००००। तद्ब्रह्माण्डकटाहसम्पुटतटे केचिज्जगुर्वेष्टनम् केचित् प्रोचुरदृश्यदृश्यकगिरिं पौराणिकाः सूरयः। करतलकलितामलकवदमलं सकलं विदन्ति ये गोलम्। दिनकरकरनिकरकरम्बिततमसो नभसः परिधिरुदितस्तैः।” तथा च सूर्य्यकिरणप्रचारावधिस्थानस्य नभःकक्षात्वेन कल्पितम्। वस्तुतोऽपरिच्छिन्नत्वादाशस्य ततोऽपि सत्त्वात् न तन्मात्रमानम्। अतएव “ब्रह्माण्डमेतन्मितमस्तु नो वेति” ब्रह्माण्डस्यानिर्द्धारितप्रमाणकत्वं तत्रोक्तम्। व्याख्यातं च प्र० मि० “एभिस्तुल्यां गणकाः नभसः कक्षामाकाशपरिघिं वदन्ति तत्र कथमनन्तस्याकाश- स्येयत्ता वक्तुं शक्यते इत्याशङ्क्य अहर्पतिद्युतिभाजोनभसः परिधेरिदं मानं वदन्ति अतएव पौराणिकागणकाः ब्रह्माण्डपरिघिं वदन्ति केचिल्लोकालोकं वदन्ति यतस्तदन्तर्वर्त्तिन एवार्करश्मयः। एवमन्ये वदन्तीति नास्माकं मतमित्यर्थः प्रमाणशून्यत्वात्”। करतलकलितसकलब्रह्माण्डगोला एवं वक्तुं शक्नुवन्ति न वयम्”। तेन पौराणिकमतमेतत् सूर्य्यकिरणसञ्चारस्थानपर्य्यन्तत्वोपाधिना तत्कल्पनमिति द्रष्टव्यम्।

आकाशकल्प = पु० ईषदसमाप्तः आकाशः आकाश + कल्पप्। ब्रह्मणि “निस्सङ्गत्वाद्विभुत्वाच्च तथाऽनश्वरभावतः। ब्रह्मव्योम्नोर्न भेदोऽस्ति चैतन्यं ब्रह्मणोऽधिकम्” इत्युक्तेः व्योमगतजडताशून्यतया ततोवैलक्षण्यात् तस्य तत्कल्पत्वम्।

आकाशगङ्गा = स्त्री आकाशपथवाहिनी गङ्गा। मन्दाकिन्याम्। “उभौ यदि व्योम्नि पृथक्प्रवाहावाकाशगङ्गापयसः पतेताम्” माघः। आकाशनद्यादयोऽप्यत्र। आकाशस्यावलम्बनत्वाभावेऽपि मेरुशिखरस्यात्युच्चतया स्यर्गताकल्पनेन तस्यैवाकाशतुल्यता ततएव वहने आकाशे वहनोत्प्रेक्षणात् तथात्वम्। अतएव गङ्गाया स्त्रिपथगामित्वं पुराणेषूक्तम् यथा च गङ्गायास्त्रिपथगत्वं तथा गङ्गाशब्दे वक्ष्यते

आकाशगा = स्त्री आकाशे अत्युच्चस्थाने सुमेरुशिखरे गच्छति गम–ड। १ स्वर्गगङ्गायाम् २ आकाशगामिमात्रे त्रि०।

आकाशजननी = स्त्री आकाशस्य छिद्रस्य जननीव पोषिका। छिद्रवत्यां प्रगण्ड्याम्। दुर्गमध्यस्थितानां जनानां बाह्यार्थदर्शनार्थं छिद्रवती भित्तिः प्रगण्डी तद्द्वारैव हि रिपुप्रत्यासत्तौ आग्नेयास्त्रं स्वयमलक्षिततया बहिः सेन्यैः क्षिप्यते। दुर्गनिर्माणोपदेशे “प्रगण्डीः कारयेत् सम्यगाकाशजननीस्तथा। आपूरयेच्च परिखां स्थाणुनक्रझषाकुलाम्” शा० भा० प० ६९ अ० “सञ्चारो यत्र लोकानां दूरादेवावबध्यते प्रगण्डी सा च विज्ञेया बहिःप्राकारसंज्ञिता” प्रगण्डीं परिभाष्य “दुर्गप्राकारभित्तौ शूराणामुपवेशस्थानानि प्रगण्डी। आकाशजननी तत्रैव एककक्षायां भित्तौ तत्रत्यानां रक्षणभूतायां बाह्यार्थदर्शनानि क्षुद्रच्छिद्राणि यद्द्वाराग्नेयास्त्रगुलिकाः प्रक्षिप्यन्ते इति” नीलक०।

आकाशदीप = पु० आकाशे दीयमानोदीपः। “तुलायां तिलतैलेन सायंसन्ध्यासमागमे। आकाशदीपं यो दद्यात् मासमेकं निरन्तरम्” ब्रह्माण्डपु० उक्ते तुलास्थरवौ सायमुच्चस्थाने दीयमाने दीपे।

आकाशभाषित = न० आकाशे भाषितम्। अलक्ष्यशरीराणां अदृश्यानां देवादीनां गगनोद्भवे वचने आकाशवाण्याम्।

आकाशमण्डल = न० आकाशोमण्डलमिव। १ नभोमण्डले आकाशस्य निरयवत्वेन अनवच्छिन्नत्वेन च वेष्टनाकार मण्डलाभावेऽपि भूगोलवृत्तोपाधिकृतं तदीयं मण्डलमिव भवति। योहि नभोभागो भूगोलनानावृतः सन् दृष्टिप्रचार पथवर्त्त्यालोकगन् तस्यैव भूगोलोपाधिना गोलाकारत्वं कल्प्यते। एतेनापि प्रमाणेन भूमेर्गोलाकारत्वानुमानम् यदि भूमिर्गोलाकारा न स्यात् कथं तदाऽनन्तानवच्छिन्नस्याकाशस्य गोलाकारत्वमुपलक्ष्येत कस्यचिदुपाधेरेव च स्यभावात् तस्य गोलाकारत्वमुपलक्ष्यते इति कल्प्यम् अन्यस्य च परिधेरदर्शनात् परिशेषात् भुमेरेव तथात्वसिद्धिरिति तस्या गोलाकारता तद्वशाच्चाकाशस्य तथात्वकल्पनमिति “आकाशमण्डलभध्यमध्यास्ते” काद० नभोमण्डलादयोऽप्यत्र “नैतन्नमीमण्डलमम्बुराशिः” सा० द० तन्त्रोक्ते भूतशुद्धौ चिन्तनीये भ्रूमध्यावधिब्रह्मरन्ध्रान्तस्थिते वृत्ताकारे स्वच्छे २ नभोमण्डले च “वृत्तं दिवस्तत् षड्विन्दुलाञ्छितं मातरिस्वनः” तन्त्र०। पदार्थादर्शे, भूतशुद्धौ वायोराकाशे विलापनमभिधाय “ततोभ्रूमध्यादि ब्रह्मरन्ध्रपर्य्यन्तं स्वच्छं वर्त्तुलमाकाशमण्डलम्” इत्युक्तम्। तदेव मण्डलं विद्वेषे चिन्तनीयम् यथोक्तं “जलस्य मण्डलं प्रोक्त” मित्युपक्रम्य “वृत्तं दिवस्तद्विद्वेषे” मन्त्रमहो०।

आकाशमय = पु० आकाश + प्रायार्थे मयट्। आकाशप्राये आत्मनि। “स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयो वाङ्मयः प्राणमयः चक्षुर्मयः श्रोत्रमय आकाशमयो वायुमयस्तेजोमयः अम्मयः पृथिवीमयः” शत० ब्रा०। “योऽयमात्मनः संसारसंबन्धः स वास्तवो न भवति किन्त्वौ पाधिक एवेति तदुपाघीन् दर्शयितुमात्मनो वास्तवरूपमाह स वा इति। स प्रकृतः संसारी अयमविद्यातत्कार्य्यविनिर्मुक्तः स्वप्रकाशोऽपरोक्षः आत्मा कूटस्थःसाक्षी चिद्धातुरेवम्भूतः सोऽयमात्मा वै ब्रह्म अशनायाद्यतीतः परमात्मैव। ब्रह्मैव सन्नयमात्माऽविद्ययाऽब्रह्मवत् प्रतिपन्नः पुनः सम्यग्ज्ञानात्तत्प्रध्वंसे ब्रह्मैवावतिष्ठतैति भावः। इदानीं यत्प्रयुक्तमेवंविधब्रह्मात्मनो बन्धस्तानुपाधीनाह विज्ञानमय इति विज्ञानं बुद्धिस्तत्प्रायः बुद्धेरैक्याध्यासाद्धि तद्धर्म्मस्य कर्त्तृत्वादेरात्मनि आरोपितत्वं तत्प्रायत्वम्। अस्मिन् प्रकरणे सर्वोऽपि मयट् प्रायार्थे न तु विकारार्थे तत्र तदसम्भवात्” शा० भाष्यम्।

आकाशमांसी = स्त्री आकाशभवा मांसी। क्षुद्रजटामांस्याम् राजनि०।

आकाशमूली = स्त्री आकाशे भूमिशून्यदेशे मूलमस्याः ङीप्। कुम्भिकायाम् (पाना)।

आकाशयान = न० आकाशे यायतेऽनेन या–करणे ल्युट् ७ त०। आकाशगमनसाधने विमाने।

आकाशरक्षिन् = पु० आकाशे इव अत्युच्चप्राचीरोपरि स्थितः सन् रक्षति रक्ष–णिनि। दुर्गबहिःप्राचीरोपरिस्थिते रक्षके। “सञ्चारोयत्र लोकानां दूरादेवावबुध्यते। प्रगण्डी सा च विज्ञेया बहिःप्राकारसंज्ञिता। प्रणिधिस्तत्र यत्नेन कर्त्तव्यो भूतिमिच्छता। स एवाकाशरक्षीति ह्युच्यते शास्त्रकोविदैः”। भा० शा० अ० ६९ व्या० नी० क०।

आकाशवचन = न० आकाशे वचनम्। पात्राप्रवेशेऽपि तदीयवाक्यं प्रविष्टपात्रेण श्रुत्वा आकाशवाक्यत्वेन कल्गिते नाटकाङ्गे १ वाक्यभेदे “नेपथ्यीक्तं श्रुतं तत्र आकाशवचनं तथा। समाश्रित्यापि कर्त्तव्यमामुखं नाटकादिषु” सा० द०। अलक्षितशरीरतया देवादिभिरुच्चार्य्यमाणे २ वाक्ये च।

आकाशवत् = त्रि० आकाशः गम्यतयाऽस्त्यस्य मतुप् मस्य वः स्त्रियां ङीप्। आकाशगामिनि “प्रतिगृह्य दक्षिणमूरुमपाच्छाद्य तस्मिन् सादयित्वाऽकाशवतीभिरङ्गलीरपिदध्यात्” आश्वला० श्रौ० सू०।

आकाशवर्त्मन् = न० आकाशोवर्त्मेव गम्यत्वात्। आकाशरूपे पथि।

आकाशवल्ली = स्त्री आकाशस्य वल्ली शाखेव अत्युच्चशिखत्वात्। (असरवेल इति) ख्यातायां लतायाम् राजनि०।

आकाशवाणी = स्त्री आकाशे भवा वाणी। अदृश्योत्पादकपुरुषत्वेनाकाशादिवोत्पन्नायां देवादिवाचि।

आकाशसलिल = न० आकाशत् पतितं सलिलम्। आकाशात् पतिते जले। तच्च चतुर्विधं मेघादिधारानिस्मृतं धारं, चन्द्रकरतआगतं कारम्, तुषारकृतं तौषारम्, संहत हिमखण्डेननिर्वृत्तं च हैमम्। तच्च सुश्रुते दर्शितम् अम्बुशब्दे ३३० पृष्ठे उक्तम्।

आकाशस्फटिक = पु० आकाशेभवः स्फटिकैव। वर्षोपले करकाख्ये संहतजलखण्डे। तदुत्पादविलयौ श्रोपतिराह। “उद्भूतैः पांसुभिर्भूमेः प्रचण्डपवनोच्चयात्। मेघमण्डलमानीतैर्मालिन्यपरिवर्ज्जितैः। मिश्रणाज्जलविन्दूनां पिण्डभावोभवेदिह। दृषद्वन्निपतन्त्येते द्रवन्ते च पुनःक्षितौ”।

आकाशास्तिकाय = पु० कर्म्म० अर्हन्मतसिद्धे जीवभिन्ने आवरणाभाबरूपे पदार्थभेदे। सच अर्हच्छब्दे ३८२ पृष्ठे दर्शितः

आकाशीय = त्रि० आकाशस्येदं छ। नाभसे “वायव्यमिदमाकाशीयमिति”। “शब्दबहुलमाकाशीयं तन्मार्दवशौषिरलाघवमिति” च सुश्रुतः। दिगा० यत् आकाश्यमप्यत्र त्रि०।

आकाशे = अव्य० आ + काश–के। “दूरस्थामाषणं यत् स्यादशरीरनिवेदनम्। परोक्षान्तरितं वाक्यं तदाकाशे निगद्यते” भरतोक्ते नाटकाङ्गे वाक्यभेदे “कञ्चुकी (दृष्ट्वा आकाशे) विहङ्गिके। अपि श्वश्रूजनपादबन्धनं कृत्वा प्रतिनिवृत्ता भानुमती” (कर्ण्णं दत्त्वा) किं कथयसि आर्या एषा भानुमतीत्यादि” वेणीस०।

***