अह = गतौ आत्म० भ्वा० सक० इदित् सेट्। अंहते आंहिष्ट। आनंहे “आनंहिरेऽद्रिं प्रति चित्रकूटम्” “आंहिषातां रघुव्याघ्रौ शरभङ्गाश्रमं ततः” भट्टिः। रि अंह्रिः पादः असुन् अंहः पापम्। इन् बा० नलुक्। अहिःसर्पः केदारश्च। “एवा त इन्द्रोचथमहेम” ऋ० २, १९, ७, वेदे तु बा० नलुक्। लटः पञ्चानां लिटः पञ्चकादेशे ब्रुवश्चाहादेशः आह आहतुः आहुः आत्थ आहथुः “इत्याह भगवान् मनुः” इत्यादौ तु चादिगणपठितं विभक्ति प्रतिरूपमाहेति।

अह = दीप्तौ चुरा० इदित् उभ० अक० सेट्। अंहयति ते आञ्जिहत् त।

अह = व्याप्तौ स्वा० प० सक० सेट्। अह्नोति। आहीत् आह।

अह = अव्य० अहि–घञ् पृ० नलोपः। १ प्रशंसायां २ क्षेपे, ३ वियोगे, ४ निग्रहे, ५ आचारातिशये, ६ अर्च्चने च। “अत्यह तदिन्द्रोऽमुच्यत देवो हि सः” “इदमहेदं सत्वं कृशपश्वल्पाज्यमथायम्” शत० व्रा०।

अहंयु = त्रि० अहमहङ्कारोऽस्त्यस्य युस्। १ गर्व्वयुक्ते २ अभिमानिनि “अहंयुनाथ क्षितिपः शुभंयुः” भट्टिः।

अहंश्रेयस् = त्रि० अहमित्यव्ययम् अहमेव श्रेयान् यत्र। अहंश्रेयानितिनिर्ण्णयप्रयोजने। “अथ हप्राणा अहंश्रेयसि व्यूदिरेऽहंश्रेयानहश्रेयानस्मीति” छा० उ० “अथ ह प्राणाः एवं यथोक्तगुणाः सन्तोऽहंश्रेयान् अहंश्रेयान् अहं श्रेयानस्मोति एतस्मिन् प्रयोजने व्यूदिरे नाना विरुद्ध्वं वा ऊदिरे उक्तवन्तः” भा०। “ते हेमे प्राणा अहंश्रेयसे विवदमाना ब्रह्म जग्मुः” वृ० उ०। “ते इमे प्राणा वागादयोऽहंश्रेयसे अहंश्रेयानित्येतस्मै प्रयोजनाय विवदमानाः विरुद्धं वदमाना ब्रह्म जग्मुः” भा०।

अहः(हस्क)कर = पु० अहः करोति कृ–ट वा सत्वम्। सूर्य्ये २ अर्कवृक्षे च।

अहः(हर्प)पति = पु० अह्नः पतिः उदयेन प्रवर्त्तकत्वात्। वा रो रः। १ सूर्य्ये २ अर्कवृक्षे।

अहः(हश्शे)शेष = पु० अह्नः शेषः वा सत्वम्। १ दिवावसाने अहःशेषो यत्र ब०। २ अशौचाद्यन्तिमदिने।

अहङ्कार = पु० अहमिति क्रियतेऽनेन कृ–घञ्। १ अहमित्यभिमाने आत्मनि उत्कर्षावलम्बने २ गर्व्वे ३ तदाश्रये अन्तःकरणभेदे “मनोबुद्धिरहङ्कारश्चित्तं करणमान्तरम्। संशयोनिश्चयो गर्व्वःस्मरणं विषया इमे” वेदा० परि०। सांख्यमतसिद्धे ४ अभिमानकारणे महत्तत्त्वजन्ये पञ्चतन्मात्रादीनां कारणे तत्त्वभेदे च यथोक्तं सां० का०। “प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद्गणश्च षोडशकः। तस्मादपि षोडशकात् पञ्चभ्यः पञ्च भूतानि” इत्युद्दिश्य तल्लक्षणकार्य्ये तत्रैवोक्ते यथा “अभिमानोऽहङ्कारस्तस्मात् द्विविधः प्रवर्त्तते सर्गः। एकादशकश्च गणस्तन्मात्रपञ्चकं चैव”। व्याख्यातं च कौ० “अभिमानोऽहङ्कारः यत् खल्वालोचितं, मतञ्च तत्राहमधिकृतः, शक्तः खल्वहमत्र, मदर्था एवामी विषयाः, मत्तोनान्योऽत्राधिकृतः कश्चिदस्त्यतोऽहमस्मीति योऽभिमानः सोऽसाधारणव्यापारत्वादहङ्कारः तमुपजीव्य हि बुद्धिरध्यवस्यति “कर्त्तव्यमेतन्मयेति”। तस्य कार्य्यभेदमाह तस्मात् द्विविधः प्रवर्त्तते सर्गः। प्रकारद्वयमाह एकादशकश्च गणः इन्द्रियाह्वयः तन्मात्रपञ्चकञ्चैव द्विविधएव सर्गोऽहङ्कारात् न त्वन्यैत्येवकारेणावधारयति”। “सत्त्व रजस्तमसां साम्यावस्था प्रकृतिः प्रकृतेर्महान् महतोऽहङ्कारोऽहङ्कारात् पञ्च तन्मात्राण्युमयमिन्द्रियम्” सा० सू०। अहङ्कारसत्त्वे प्रमाणमपि दर्शितम् “बाह्याभ्यन्तराभ्यां तैश्चाहङ्कारस्य” सा० सू० “बाह्याभ्यन्तराभ्यामिन्द्रियाभ्यां तैः पञ्चतन्मात्रैश्च कार्य्यैस्तत्कारणतयाहङ्कारस्यानुमानेन बोधः इत्यर्थः। अहङ्कारश्चाभिमानवृत्तिकमन्तःकरणद्रव्यं नत्वभिमानमात्रं द्रव्यस्यैव लोके द्रव्योपादानत्वदर्शनात्। सुषुप्त्यादावहङ्कारवृत्तिनाशेन भूतनाशप्रसङ्गाद्वासनाश्रयत्वेनैवाहङ्काराख्यद्रव्यसिद्धेश्चेति। अत्रेत्थमनुमानम्। तन्मात्रेन्द्रियाणि अभिमानवद्द्रव्योपादानकानि अभिमानकार्यद्रव्यत्वात्। यन्नैवं तन्नैवम्। यथा पुरुषादिरिति। नन्वभिमानवद्द्रव्य मेवासिद्धमिति चेदहं गौर इत्यादिवृत्त्युपादानतया चक्षुरादिवत् तत्सिद्धेः। अनेन चानुमानेन मन आद्यतिरेकमात्रस्य तत्कारणतया प्रसाध्यत्वात्। अत्र चायमनुकूलस्तर्कः। “बहु स्यां प्रजाये य” इत्यादि श्रुतिस्मृतिभ्यस्तावद्भूतादिसृष्टेरभिमानपूर्ब्बकत्वाद्बुद्धिवृत्तिपूर्ब्बकसृष्टौ कारणतयाभिमानः सिद्धः। तत्रचैकार्थसमवायप्रत्यासत्त्यैवाभिमानस्य सृष्टिहेतुत्वं लाघवात् कल्प्यत इति। नन्वेवं कुलालाहङ्कारस्यापि घटोपादानत्वापत्त्या कुलालमुक्तौ तदन्तःकरणनाशे तन्निर्मितघटनाशः स्यात् न चैतद्युक्तम् पुरुषान्तरेण स एवायं घट इति प्रत्यभिज्ञायमानत्वादिति चेन्नैवम् मुक्तपुरुषभोगहेतुपरिणामस्यैव तदन्तःकरणमोक्षोत्तरमुच्छेदात्। न तु परिणामसामान्यस्यान्तःकरणस्वरूपस्य वोच्छेदः “कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वादिति” योगसूत्रे मुक्तपुरुषोपकरणस्याप्यन्यपुरुषार्थसाधकत्वसिद्धेरिति। अथ वा घटादिष्वपि हिरण्यगर्भाहङ्कार एव कारणमस्तु न कुलालाद्यहङ्कारस्तथापि सामान्यव्याप्तौ न व्यभिचारः समष्टिबुद्ध्याद्युपादानिकैव हि सृष्टिः पुराणादिषु सांख्ययोगयोश्च प्रतिपाद्यते न तु तदंशव्यष्टिबुद्ध्याद्युपादानिका यथा महापृथिव्या एव स्थावरजङ्गमाद्युपादानत्वं न तु पृथिव्यंशलोष्टादेरिति” सां० प्रव० भा०। मनुनाप्युक्तम् “मनसश्चाप्यहङ्कारमभिमन्तारमीश्वरम्”। “अहङ्कारश्च वीररसे व्यभिचारिभावः। अस्याधिष्ठाता” शङ्करः। निरहङ्काररूपत्वाद्दयावीरादिरेष नः” सा० द० “नाहङ्कारात् परोरिपुः”। “अहङ्कारविमूढात्मा कर्त्ताहमिति मन्यते” गीता।

अहङ्कारिन् = त्रि० अहमभिमानं करोति कृ–णिनि। १ अभिमानवति २ गर्वयुक्ते।

अहङ्कृत = त्रि० अहमिति कृतं येन। १ सगर्चे २ अभिमानवति च। “जातिरूपवयोवृत्तिविद्यादिभिरहङ्कृतः” याज्ञ०। “यस्य नाहङ्कृतोभावो बुद्धिर्यस्य न लिप्यते” गीता।

अहङ्कृति = स्त्री अहम् + कृ–क्तिन्। अहङ्कारशब्दार्थे।

अहत = न० हन–क्त न० त०। “ईषद्धौतं नवं श्वेतं सदशं यन्न धारितम्। अहतं तद्विजानीयात् पावनं सर्वकर्म्मसु” १ इत्युक्तलक्षणे “निर्ण्णेजकाक्षालितं यदहतं तत् प्रचक्षते २ इत्युक्तलक्षणे च वस्त्रे “अहतैश्चैव वासोभिर्माल्यैरुच्चावचैरपि” भा० स० प० ४ अ०। अहतवासा इत्यादौ करकङ्कणादिवत् तत्काले अहतत्वादिबोधनाय। ३ भोगेनानाशिते “पञ्चद्रौणिक एवैकः सुवर्ण्णस्याहतस्य वै” भा० स० प० ४९ अ० ४ हतभिन्ने च त्रि०।

अहति = स्त्री अभावे न० त०। १ हननाभावे अविनाशे “अजीवातवेऽहतये पवस्व” ऋ० ९, ९६४ न० त०। २ हननशून्ये विनाशशून्ये त्रि०।

अहन् = न० न जहाति न त्यजति सर्वथा परिवर्त्तनम्। न + हा–कनिन्। १ दिवमे। “अहनि च तमस्विन्यां सार्द्धप्रहरयामान्तः” स्मृतिः। “अन्योन्यसंसक्तमहस्त्रियामम्” रघुः। अहःशब्दश्च दिवसएव प्रसिद्धः “अहो अहोभिर्महिमा हिमागमे” नैष० क्वचित्तु दिनरात्रिपरः यथा “मासैर्द्वादशभिर्वर्षं दिव्यं तदहरुच्यते” सू० सि०। “विप्रः शुध्येत् दशाहेन द्वादशाहेन भूमिः। वैश्यः पञ्चदशाहेन” मनुः। “अघाहेषु निवृत्तेषु” “द्वादशाहः प्रशस्यते” स्मृतिः तत्परिमाणमुक्तं कालमाध० विष्णुध०। “लघ्वक्षरसमामात्रा निमेषः परिकीर्त्तितः। ततः सूक्ष्मतरः कालोनोपलभ्योभृगूत्तम! नोपलभ्यं यथा द्रव्यं सुसूक्ष्मं परमाणुतः। द्वौ निमेषौ त्रुटिर्ज्ञेयः प्राणः पञ्चत्रुटिः स्मृतः। विनाडिका तु षट्प्राणा तत्षष्टिर्नाडिका स्मृता। अहोरात्नं तु तत्षष्ट्या नित्यमेतत् प्रकीर्त्तितम्। त्रिंशन्मुहूर्त्ताश्च तथा अहोरात्रे प्रकीर्त्तिताः। तत्र पञ्चदशप्रोक्ता राम। रात्रौ दिवा तथा। उत्तरां तु यदा काष्ठां क्रमादाक्रमते रविः। तदा क्रमाद्भवेवृद्धिर्दिवसस्य महाभुज!। तदाश्रितमुहूर्त्तानां तदा वृद्धिः प्रकीर्त्तिता। दिनवृद्धिर्यदा राम! दोषाहानिस्तदा भवेत्। तदाश्रितमुहूर्त्तानां हानिर्ज्ञेया तथा तथा। यदा तु दक्षिणां काष्ठां क्रमादाक्रमते रविः। दिवसस्य तदा हानिर्ज्ञातव्या तावदेव तु। क्षीयन्ते तस्य हानौ च तन्मुहूर्त्तास्तथैव च। रात्र्याश्रिताश्च वर्द्धन्ते रात्रयश्च क्रमेण तु। यदा मेषं सहस्रांशुस्तुलाञ्चैव प्रपद्यते। समरात्रिन्दिवः कालो मुहूर्त्तश्च तदा समः”। मुहूर्त्तानां स्रौतस्मार्त्त ज्यौतिषाणि नामानि त्रिविधानि तत्र श्रौतानि कालमा० द्रष्टव्यानि। ज्यौतिषाणि आह कश्यपः “गौरीवल्लभसर्पमित्रपितरो वस्वम्बुविश्वाह्वया ब्रह्माम्भोरुहसम्भवेन्द्रहुतग्देवेशनक्तञ्चराः। तोयेशार्य्यमयोनयोदश तथा पञ्चाप्यमी वासरे”। रुद्राजाहिर्बुध्नपूषाश्विनाः स्युः कीनाशोऽग्निर्द्धातृचन्द्रादितीज्यः। विष्णुर्भानुस्त्वष्टृघात्रा मुहूर्त्ता रात्रौ क्रूरास्त्वन्तकाजाग्निरुद्राः”। स्मार्त्तनामानि तु “रौद्रश्चैत्रश्च मैत्रश्च तथा सारस्वतः स्मृतः। सावित्रो वैश्वदेवश्च गान्धर्वः कुतपस्ततः। रोहिणस्तिलकश्चैव विभवोनिरृतिस्तथा। शम्बरोविजयश्चैब दिवा पञ्चदशस्मृताः। शङ्करश्चाजपादश्च तथाहिर्बुध्नमैत्रकौ अश्विनौ याम्य आग्नेयो वैधात्रश्चान्द्र एव च। आदितेयोऽथ जैवश्च वैष्णवः सौर एव च। ब्राह्मोनाभस्वतश्चैव मुहूर्त्ताः क्रमशोनिशि”। एतदनुसारेणैव “ब्राह्मे मुहूर्त्ते किल तस्य देवीति” रघुः “मैत्रे मुहूर्त्ते शशलाञ्छनेन” कुमा० “आरभ्य कुतपे श्राद्धं कुर्य्यादारोहिणं बुधः” इत्यादि प्रयोगः। अह्नश्च द्विधा त्रिधा चतुर्द्धा पञ्चधा पञ्चदशधेति पञ्चधा विभागकल्पनापि दृश्यते। तत्र द्विधा विभागाभिप्रायेण। “यथा चैवापरः पक्षः पूर्ब्ध पक्षात् विशिष्यते। यथा श्राद्धस्य पूर्ब्बाह्णादपराह्णो विशिष्यते” मनुः त्रिधा विभागे “ऊर्द्ध्वं सूर्य्योदयात् प्रोक्तं मुहूर्त्तानां तु पञ्चकम्। पूर्व्वाह्णः पञ्चकं प्रोक्तं मध्याह्नस्तु ततः परम्। अपराह्णस्ततः प्रोक्तं मुहूर्त्तानां तु पञ्चकम्”। “तस्मादह्नः पूर्ब्बाह्णे देवा अशनमभ्यवहरन्ति मध्यदिने मनुष्याः अपराह्णे पितरः” गौत० “पूर्ब्बाह्णोवै देवानां मध्यन्दिनं मनुष्पाणामपराह्णः पितॄणाम्” श्रुतिः चतुर्द्धा विभागे गोभिलः। “पूर्ब्बाह्णः प्रहरं यावत् मध्याह्नःप्रहरस्ततः। आतृतीयादपराह्णः सायाह्नश्च ततः परम्”। पञ्चधा विभागमाहव्यासः। “मुहूर्त्तत्रितयं प्रातस्तावदेव तु सङ्गवः। मध्याह्नस्त्रिमुहूर्त्तः स्यादपराह्णोऽपि तादृशः। सायास्त्रस्त्रिसुहूर्त्तः स्यात् स्वस्वकार्य्ये पुरस्कृतः” एवमेव दक्षोक्तविभागः तच्चाहः नवविधम् “ब्राह्मं दिव्यं तथा पैत्रं प्राजापत्यं गुरोस्तथा। सौरञ्च सावनञ्चान्द्रमार्क्षं मानानि वै नव” सू० सि०। तत्र ब्राह्मम् “इत्थं युगसहस्रेण भूतसंहारकारकः। कल्पो ब्राह्ममहःप्रोक्तं शर्वरी तस्य तावतीति”। दिव्यमुक्तं तत्रैव “मासैर्द्वादशभिर्वर्षंदिव्य तदहरुच्यते”। सुरासुराणामन्योन्यमहोरात्रं विपर्य्ययात् यत् प्रोक्तं तद्भवेद्दिव्यं भानोर्भगणपूरणात्। पित्र्यमाह “त्रिंशत्तिथ्यात्मको मासश्चान्द्रः पित्र्यमहः स्मृतम् निशा च मासपक्षान्तौ तयोर्मध्ये विभागतः”। “भचक्रभ्रमणं नित्यं नाक्षत्रं दिनमुच्यते। मन्यन्तरव्यवस्था च प्रजापत्यमुदाहृतम् इति संक्रान्त्यासौरमुच्यते इति च सू० सि० वाहस्पत्यमब्दशब्दे उक्तम् तेषु नवसु मध्ये चतुर्भिरेव व्यवहारः “चतुर्भिर्व्यवहारोऽत्र सौरचान्द्रार्क्षसावनैः” वार्हस्पत्येन षष्ठ्यब्दं ज्ञेयं नान्यैस्तु नित्यशः। सू० सि० तत्र सौरनाक्षत्रादिप्रमाणमुक्तम्। “नाडीषष्ठ्या तु नाक्षत्रमहोरात्रं प्रकीर्त्तितम्। तन्त्रिंशताभवेन्मासः सावनोऽर्कोदयैस्तथाइति चान्द्रमाह “अर्काद्विनिःसृतः प्राचीं यद्यात्यहरहः शशी तच्चान्द्रमसमंशैस्तु ज्ञेया द्वादशभिस्तिथिः” एतेषां कार्य्यभेदे ग्रहणमाह स एव “तिथिः करणमुद्वाहः क्षौरं सर्व्वाः क्रियास्तथा। व्रतोपवासयात्राणां क्रिया चान्द्रेण गृह्यते। उदयादुदयः भानोः सावनं परिकीर्त्तितम्। सावनानि स्युरेतेन यज्ञकालावधिस्तु तैः। सूतकादिपरिच्छेदो दिनमासाब्दपास्तथा। मध्यमग्रहभुक्तिश्च सावनेनैव गृह्यते। अस्य तत्पुरुषान्ते टच् समा० पुंस्त्वञ्च एकाहः दीर्घाहः पुण्याहं तु न०। अव्ययादिपूर्ब्बपदत्वे एकदेशिसमासे द्विगौ च टच् अह्नादेशश्च अत्यह्नः मध्याह्नः पूर्ब्धाह्ण” पु०। उत्तरपदद्विगावेव अह्नादेशः न समाहारद्विगौ द्व्यहः त्र्यहः। उत्तरपदे तु द्व्यह्नप्रिय एवं तड्वितार्थे नाह्नादेशः द्व्यहीनः इत्यादि। कालत्वात् भवादौ ठञ् अह्नादेशः आह्निकः ख अहीनः दिनभवे त्रि०। २ विष्णौ तस्य सर्व्वदा प्रकाशमानत्वात् तथात्वम्” “अहः संवत्सरो मासः” विष्णुस०। अर्च्चिरादिमार्गे आतिवाहिके ३ अहरभिमानि देवे–च। “ते अर्च्चिषमभिसम्पद्यन्ते अर्च्चषोऽहः अह्न आपूर्य्यमाणपक्षम्” छा० उ०। एतदधिकृत्य “अतिवाहिकास्तल्लिङ्गात्” शा० सूत्रे आतिवाहिकत्वमेषां निर्ण्णीतम् ४ रात्रौ च। “यामश्चत्वारश्चारोर्मत्याना महनी उभे”। “अयने अहनी प्राहुरिति च” भा० ३ स्क०

अहना = स्त्री अहर्मुस्वत्वेनास्त्यस्याः अच् नि० टिलोपाद्यभावः। ऊषायाम् निरु०। “गृहंगृहमहना यात्यच्छा” ऋ० १, १२३, ४ “अहना ऊषेति” भाष्यम्।

अहन्ता = स्त्री अहमित्यव्ययमस्मदर्थे तस्य भावः तल्। अस्मदर्थभावे २ समतायाञ्च।

अहम् = अव्य० अह–अमु। अहङ्कारार्थे, अस्मदर्थे “अहमर्थोदयोयोऽयं चित्तात्मा वेदनात्मकः। एतच्चित्तद्रुमस्यास्य वीजं विद्धि महामते” वासि०। अहंप्रत्ययः। अहङ्गारः

अहमहमिका = स्त्री अहमहंशब्दोऽस्त्यत्र वीप्सायां द्वित्वम् ठन् न टिलोपः। १ परस्पराहङ्कारे २ अहमेवाग्रेयास्याभोति रूपायामन्योन्योक्तौ च।

अहम्पूर्व्विका = स्त्री अहं पूर्ब्बोऽहं पूर्ब्ब इत्यभिधानं यत्र। योधादीनां औत्सुक्यात् अहमेव पूर्व्वं यास्यामीत्यध्यवसायेनोक्तौ “जवादहंपूर्ब्बिकया यियासुभिः” किरा०।

अहम्प्रत्यय = पु० अहमित्याकारकः प्रत्ययः। अहमस्मि ममेत्याद्याकारे बोधे। “अहम्प्रत्ययलिङ्गानि च वैदिकानि” वृ० उ० भा०। “नचायमेकान्तेनाविषयः अहम्प्रत्यय विषयत्वात्” शा० भा०। अहंशब्दालम्बनश्चात्मा स च देह एवेति चार्वाकाः। क्षणिकविज्ञानमेवेति बौद्धाः देहादिव्यतिरिक्त इति आस्तिकदर्शनानुसारिणः।

अहम्भद्र = त्रि० अहमेव भद्र इति निर्ण्णयोवत्र। अहंश्रेयः शब्दार्थे “अथातोमनसश्च वाचश्च अहंभद्र उदितम् मनश्च ह वै वाक्चाहं भद्र ऊदाते। तद्ध मन उवाच अहमेव त्वच्छेयोऽस्मि न मया त्वं किञ्चनानभिगतं वदसि यन्ममत्वं कृतानुविन् वर्त्त्यास्यहमेव त्वच्छेयोऽस्मीति अथ ह वागुवाच अहमेव त्वच्छेयस्यस्मि यद्वै त्वं वेत्वाहं तद्विज्ञापयाम्यहं संज्ञापयामीति” शत० ब्रा०।

अहम्मति = स्त्री अहमित्याकारा मतिः ज्ञानं मन + क्तिन्। १ अविद्यायाम् अन्यस्मिन्नन्यधर्म्मावभासके २ अज्ञाने।

अहर = त्रि० न हरति अच् न० त०। १ हारकभिन्ने हरोहारकः न० ब०। २ हारकशून्ये गणितोक्ते शुद्धे ३ राशौ ४ असुरभेदे पु० असुरशब्दे उदा०।

अहरादि = पु० अह्नः आदि। प्रभाते “शशधरमहरादौ रागवानुष्णरश्मिः” माघः। वार्त्तिं कोक्ते पत्यादिशब्द परे रोःस्थाने रेफादेशनिमित्ते अहन् गिर्–धुर् इति शब्दगणे।

अहर्गण = पु० अह्नां गणः। दिनवृन्दे दिनसमूहे। ग्रहाणां मध्यमावादिज्ञानसाधनानि सृष्ट्यवधि श्वेतवराहकल्पावधि कल्यारम्भावधि वा इष्टदिनपर्य्यन्तं यानि दिनानि गतानि तेषां समूहे। तत्र सृष्ट्यद्यर्हगणस्तावत् “इत्यं युगसहस्रेण भूतसंहारकारकः। कल्पोब्राह्ममहःप्रोक्तं शर्वरी तस्य तावती। परमायुः शतं तस्य तयाहोरात्रसंख्यया। आयुषोऽर्द्धमितं तस्य शेषे कल्पोऽयमादिमः। कल्पादस्माच्च मनवः षट् व्यतीताः ससन्धयः। वैवस्वतस्य च मनोर्युतानां त्रिघनो गतः। अष्टाविंशाद्युगादस्माद्यातमेतत् कृतं युगम्। अतः कालम् प्रसंख्याय संख्यामेकत्र पिण्डयेत्”। सू० सि० तदानयनप्रकार उक्तः। तत्र सृष्ट्यादिकस्य अहर्गणस्यानयनमित्थम्। ब्राह्मदिनमानं मनुष्यपरिमाणेन ४३२००००००० वर्षाः रात्रिमानञ्च तथा, इत्यहोरात्रमानम् ४८६४००००००० वर्षाः ब्राह्माहोरात्रमानम् ३६० गुणितं तस्य वर्षमानम् १७५१०४०००००००० एवं वर्षशतं ब्रह्मणः परमायुः १७५०४०००००००००० तस्यायुषोऽर्द्धम् ८७५५ २०००००००००० वर्षागताः। मन्वन्तरसंख्या ३० ६७२० ००० षड्भिर्गुणिताः १८४०३२०००० एते वर्षाः षण्णां मनूनां गताः। तथा सन्धयश्च सप्त कृतयुगप्रमाणा गतास्तत्र युगसन्धिमानम् १७२८००० कृतप्रमाणवर्षाः सप्तभिर्मुणिताः १२०९६००० वर्षाः। सप्तमस्य वैवस्वतमनोः २७ युगानि गतानि तेषां समष्टिः ११६६४०००० वर्षाः सत्यादीनां त्रयाणां गतानां युगानां मानम् ३८८८०००। एवमादिसृष्टितः वर्त्तमानयुगान्तर्गतद्वापरयुगपर्य्यन्तम्। ८७५५२१९७२९४४००० वर्षाः गताः परार्द्धतः १९७२९४४००० वर्षा गताः। वर्त्तमान महायुगात् ३८८८००० वर्षागताः। एवमब्दपिण्डं कृत्वा तत्र कलियुगगताब्दापिण्डं यीज्यम्। एतानि च सौररूपाणीति ३६० गुणितानि सौरदिनवृन्दानि गतानि भवन्ति। “मध्यमग्रहभुक्तिश्च सावनेन इत्युक्तेः सावनैरेव ग्रहमध्यभावज्ञानमतस्तेभ्यः सि० शि० चान्द्रसावनानयनं दर्शितम्। यथा “कथितकल्पगतोऽर्कसमागणो रविगुणो गतमाससमन्वितः। खदहनै ३० र्गुणितस्तिथिसंयुतः पृथगतोऽधिकमास १५९३३००००० समाहतात्। रविदिनानि १५५५२०००००००० गताधिकमासकैः कृतदिनैः सहितो द्युगणो विधोः। पृथगतः पठितावम् २५०८२५५०००० संगुणाद्विधुदिना १६०२९९९०००००० प्तगतावमवर्जितः। भवति भास्करवासरपूर्व्वको दिनगणो रविमध्यमसावनः। अधिकमासदिनक्षयशेषतोद्युघटिकादिकमत्र न गृह्यते”। “अत्र वासना। कल्पगताब्दा द्वादशगुणिता रविमासा जातास्ते चैत्रादिगतचान्द्रतुल्यैः सौरैरेव युतास्त्रिंशद्गुणा इष्टमासप्रतिपदादिगततिथितुल्यैः सौरैरेव दिनैर्युताः। एवं ते सौरा जातास्तेभ्यः पृथक्स्थितेभ्योऽधिमासानयनं त्रैराशिकेन। यदि कल्पसौरदिनैः कल्पाधिमासा लभ्यन्ते तदैभिः किमिति। फलं गताधिमासाः। तैर्दिनीकृतैः पृथक् स्थितः सौराहर्गणैः सहितश्चान्द्रो भवति। यतः सौरचान्द्रान्तरमधिमासदिनान्येव। अथ चान्द्राद् द्युगणादवमानयनं त्रैराशिकेन। यदि कल्पचान्द्राहैः कल्पावमानि लभ्यन्ते तदैभिः किमिति। फलं गतावमानि। तैरूनश्चान्द्रोऽहर्गणोऽतः कर्त्तव्यः। यतः सावनचान्द्रान्तरेऽवमान्येव। एवं कृते सति रवेर्मध्यमः सावनाहर्गणो भवति न स्फुटः। मध्यमस्फुटाहर्गणयोर्भेदो गोले कथितः। स चाहर्गणोऽर्कादिः। यतः कल्पादौ रविवासरः। अत्राऽधिमासानयनेऽधिमासशेषं न स्थाप्यम्। न पुनस्तस्माद्दिनाद्यवयवा ग्राह्याः। एवमवमशेषमपि। न तस्माद्घटिकादिकं ग्राह्यम्। नन्वनुपातः सावयवो भवति कुतस्तदवयवा न ग्राह्याः। तत्कारणं गोले कथितं व्याख्यातं च” प्रमिता०। मध्यमग्रहादप्यहर्गणानयनं तत्रैवोक्तम्। “साग्रात् स चक्राच्च खगात् क्वहघ्नात् तत्कल्पचक्राप्तमहर्गणः स्यात्”। निरग्रचक्रादपि कुट्टकेन वक्ष्येऽग्रतोऽग्राच्च तथाग्रयोगात्। “ग्रहस्य भगणराशिभागकला विकला अन्ते विकलाशेषं च कुदिनैः संगुण्य स्वच्छेदेन विभज्योपर्युपरि निक्षिपेत्। तद्यथा। भगणादिग्रहे विकलाशेषावधि कल्पकुदिनगुणे विकलाशेषस्थाने कुदिनैर्विभज्य विकलास्थाने फलं प्रक्षिप्य तत्र षष्ट्या ६० विभज्य कलास्थाने निक्षिप्यैवं भगणान्तं यावत्। तत्र कल्पभगणैर्हृतेऽहर्गणः स्यात्। अत्रोपपत्तिर्विलोमगणितेन। तथा निरग्रचक्रादपि ग्रहात् तथा केबलादग्रादपि तथा शेषयोः शेषाणां वा योगादहर्गणानयनमग्रत इति प्रश्नाध्याये कुट्टकविधिना वक्ष्यते” प्रमि०। कलिगतादप्यहर्गणानयनं तत्रैव। “कलिगतादथ वा दिनसञ्चये दिनपतिर्भृगुजप्रभृतिस्तदा। कलिमुखध्रुवकेण समन्वितो भवति तद्द्युगणोद्भवखेचरः”। “अत्र कलिगताहर्गणेऽयं विशेषः। शुक्राद्यो वारो गणनीयः। यतः कल्पगताहर्गणात् कलिमुखे शुक्रवारो भवति। तत्र च ये ग्रहास्ते ध्रुवसंज्ञाः कल्पिताः। तद्द्युणभवः खेचरश्च कलिमुखध्रुवकेण समन्वितः कार्य इत्यत्र वासनापि सुगमा” प्रमि०। कुट्टकविधिश्च वीजगणिते दर्शितो यथा। “अस्य गणितस्व ग्रहगणिते महानुपयोगः। तदर्थं किञ्चिदुच्यते। “कल्प्याथ शुद्धिर्विकलावशेषं षष्टिश्च भाज्यः कुदिनानि हारः। तज्जं फलं स्युविकला गुणस्तु लिप्ताग्रमस्माच्च कला लवाग्रम्। एवं तदूर्द्धं च तथाधिमासावमाग्रकाभ्यां दिवसा रवीन्द्वोः”। “ग्रहस्य विकलावशेषाद्ग्रहाहर्ग्गणयोरानयनम्। तद्यथा। षष्टिर्भाज्यः। कुदिनानि हारः। विकलावशेषं शुद्धिरिति प्रकल्प्य साध्ये गुणाप्ती। तत्र लब्धिर्विकलाः स्युर्गुणस्तु कलावशेषम्। एवं कलावशेषं शुद्धिः षष्टिर्भाज्यः कुदिनानि हारः। फलं कलाः। गुणोंऽशशेषम्। एवमंशशेषं शुद्धिस्त्रिंशद्भाज्यः कुदिनानि हारः। फलं भागाः। गुणोराशिशेषम्। एवं राशिशेषं शुद्धिर्द्वादश भाज्यः। कुदिनानि हारः। फलं गतराशयोगुणोभगणशेषम्। एवं कल्पभगणा भाज्यः। कुदिनानि हारः। भगणशेषं शुद्धिः। फलं गतभगणाः। गुणोऽहर्ग्गणः स्यादिति। अस्योदाहरणानि त्रिप्रश्नाध्याये। एवं कल्पाधिमासाभाज्योरविदिनानि हारोऽधिमासशेषं शुद्धिः। फलं गताधिमासाः। गुणो गतरविदिवसाः। एवं युगावमानि भाज्यश्चन्द्रदिवसा हारोऽवमशेषं शुद्धिः। फलं गतावमानि। गुणोगतचन्द्रदिवसाइति” प्रमि०। अहर्गणानयने अधिमासावमपरित्यागे कारणमाह” सि० शि० “अहर्गणस्यानयनेऽर्कमासाश्चैत्रादिचान्द्रैर्गणकान्विताः किम्। कुतोऽधिमासावमशेषके च त्यक्ते यतः सावयवोऽनुपातः। दर्शावधिश्चान्द्रमसो हि मासः सौरस्तु संक्रान्त्यवधिर्यतोऽतः। दर्शाग्रतः संक्रममानतः प्राक् सदैव तिष्ठत्यधिमासशेषम्। दर्शान्ततो याततिथिप्रमाणैः सौरैस्तु सौरा दिवसाः समेताः। यतोऽधिशेषोत्थदिनाधिकास्ते त्यक्तं तदस्सादधिमासशेषम्। तिथ्यन्तसूर्य्योदययीस्तु मध्ये सदैव तिष्ठत्यवमावशेषम्। त्यक्तेन तेनोदयकालिकः स्यात् तिथ्यन्तकाले द्युगणोऽनुपातः”। “मध्यममानेन यावत्यमावास्या तदन्ते चान्द्रामासान्तः। मध्यमार्कस्य यस्मिन् दिने संक्रान्तिस्तत्र संक्रान्तिकाले रविमासान्तः। तयोः रविचन्द्रमासान्तयोरन्तरे यावत्यस्तिथयः सावयवास्ता अधिमासशेषतिथयः। यतः सौरचान्द्रान्तरमधिमासाः। अहर्गणानयने गताब्दा रविगुणास्ते सौरा मासा जाताः। अतस्तेषु चैत्रादिचान्द्रतुल्याः सौरा एव मासा योजितास्ते संक्रान्त्यवधयो जातास्तेषु त्रिंशद्गुणेषु गततिथितुल्याः सौरा एव दिवसा योजिताः। अतः सौरचान्द्रान्तरेणाविका जातास्तदन्तरमधिमासशेषदिनानि भवन्ति सौरचान्द्रान्तरत्वात्। अतोऽधिमासशेषदिनास्तेभ्यः शोध्याः। अथ चाधिमासानयनेऽनुपातलब्धैरधिमासैर्दिनीकृतैस्तच्छेषदिनैश्च युक्ताः सौराहाश्चान्द्राहा भवितुमर्हन्ति। एवमत्राधिमासशेषदिनानि क्षेप्याणि। तत्र शोध्यानि। अतः कारणादधिमासशेषं त्यक्तम्। अथावमशेषत्यागकारणमुच्यते। तिथ्यन्तानन्तरं यावतीभिर्घटीभिः सूर्य्योदया अवमशेषघटिकाः यतश्चान्द्रसावनान्तरमवमानि। यद्यवमशेषं न त्यज्यते लब्धावमैरवमशेषघटिकाभिश्च तिथय ऊनीक्रियन्ते तदा तिथ्यन्ते सावनोऽहर्गणो भवति। अथ च सूर्य्योदयोऽवधिः साध्यः। तिथ्यन्ताहर्गणोऽवमशेषघटीभिर्युक्तः सन्नुदयावधिर्भवति। अतोऽवमशेषे त्यक्ते स्वतः सूर्य्योदयावधिर्भवति” प्रमि०। “अहर्गणोमध्यमसावनेन कुतश्चलत्वात् स्फुटसावनस्य। तदूनखेटा उदयान्तराच्च कर्म्मोद्भवेनोनयुताः फलेन” सि० शि० अहर्गणे विशेषमाह सि० शि०। “अभीष्टवारार्थमहर्गणश्चेत् सैको निरेकस्तिथयोऽपि तद्वत्। तदाधिमासावमशेषके च कल्पाधिमासावमयुक्तहीने”। “इह किल स्थूलतिथ्यानयने यस्यां तिथौ यो वार आगतः स चेदहर्गणे नागच्छति तदाहर्गणं सैकं निरेकं कृत्वा ग्रहाः साध्या इति ज्योतिर्विदां संप्रदायो युक्तियुक्त एव। यतोऽहर्गणस्य वारो नियामकः। एवं कृते यो विशेषः सोऽभिधीयते। तिथयोऽपि तद्वदित्यादि। अत्रैतदुक्तं भवति। यदा वारार्थं सैकोऽहर्गणः कृतस्तदाधिमासावमशेषास्यां चन्द्रार्कानयने कोष्ट्याहतैरङ्ककृतेन्दुविश्वैरित्यादौ द्वादशगुणास्तिथयोऽर्कभागेषु याः क्षेप्यास्ताः सैकाः कृत्वा द्वादशगुणाः क्षेप्याः। यदा निरेकोऽहर्गणः कृतस्तदा निरेकम्। तथा यदि सैकोऽहर्गणस्तदाधिमासशेषं कल्पाधिमासैर्युतं कार्य्यम्। अवमैरवमशेषं च। यतः सैकासु तिथिषु सैकोऽहर्गणो निरेकासु निरेकः। तथा प्रतिदिनमधिमासशेषस्याधिमासैरुपचयोऽवमैरवमशेषः स्यात् युक्तमुक्तम्” इति प्रमिता०।

अहर्जर = पु० अहोभिःपरिवर्त्तमानो लोकान् जरयति जृणिच्–अच्, अहानि वाऽस्मिन् जीर्य्यन्ति आधारे अप् वा। “संवत्सरे “यथापः प्रवता यन्ति यथा मासा अहर्ज्जरम्” वृ० उ०।

अहर्दिव = न० अहश्चं दिवा च समा० द्व० तुल्यार्थकतया वीप्सा गम्यते। १ प्रतिदने इत्यर्थे “य इत्यमखास्थ्यमहर्दिवं दिवः” माघः अर्श आद्यच्। २ तद्वृत्तौ त्रि०। “अहर्दिवाभिरूतिभिः”।

अहर्नाथ = पु० ६ त०। १ दिनपतौ २ अर्कवृक्षे चाहरधिषादयोऽप्यत्र।

अहर्निश = न० अहश्च निशा च समा० द्व०। अहोरात्रयोः “तयोः समुच्चयो मासः पितॄणां तदहर्निशम्” भा० ६ स्क०। “तस्य सोऽहर्निशस्यान्ते प्रसुप्तः प्रतिबुध्यत” मनुः

अहर्बान्धव = पु० अह्नि बान्धव इव प्रकाशकत्वात्। १ सूर्य्ये। २ अर्कवृक्षे च।

अहर्भाज् = स्त्री इष्ठकाभेदे। “रात्रिसहस्रेण रात्रिसहस्रेणैकैकां परित्रितं सम्पन्नामुपासीताहःसहस्रेणाहःसहस्रेणैकैकामहर्भाजम्”। शत० ब्रा०।

अहर्मणि = पु० अह्नि मणिरिव प्रकाशकत्वात्। १ सूर्य्ये २ अर्कवृक्षे च।

अहर्लोक = पु० इष्टकाभेदे। “ततोयाः षष्टिश्च त्रीणि च शतान्यहर्लोकास्ता अह्नामेव साप्तिः क्रियते” शत० ब्रा०।

अहर्विद् = पु० अहः एकाहसाध्यम् अग्निष्टोमं वेत्ति विद–क्विप्। एकाहसाध्याग्निष्टोमवेत्तरि “सुतसोमा अहर्विदः” ऋ० १, २, २।

अहल्य = त्रि० न हलेन कृष्यम्। १ हलाकृष्ये क्षेत्रे। २ देशभेदे पु०। ३ गोतमर्षिपत्न्यां स्त्री। अहल्योत्पत्तिर्यथा। “मौद्गल्यस्य सुतो ज्येष्ठोब्रह्मर्षिः सुमहायशाः। इन्द्रसेना यतोर्गभं वध्रस्थं प्रत्यपद्यत। वध्रस्थान्मिथुनं जज्ञे मेनकायामिति श्रुतिः। दिवोदासश्च राजर्षिरहल्या च यशस्विनी। शरद्वतश्च दायादमहल्या सभसूयत। शतानन्दमृषिश्रेष्ठम् तस्यापि सुमहायशाः” हरि० ३२ अ० शरद्वतः इति गोतमस्य नामान्तरम्। यद्वंशजातः कृपाचार्य्यः शारद्वत इति गौतम इति चाख्यायते। तस्यागोतमशापकथा अफलशब्दे २६८ पृष्ठेदृश्या। तस्याः शापविमोचनमुक्तम्। “तस्मात् प्रविश्य रामाशु गौतमस्याश्रमं विभो!। तारयेमां महाभागामहल्यां शापविप्लुताम्। विश्वामित्रवचः श्रुत्वा रामः सौमित्रिणा सह। विश्वावित्रं पुरस्कृत्य प्रविवेशाश्रमं ततः। स ददर्श सहभागां तपसा द्योतितप्रभाम्। सेन्द्रैरपि सुरैः साक्षादनालक्ष्यां समागतैः। प्रयत्नान्निर्म्मितां धात्रा दिव्यां मायामयीमिव। धूमेनापि परिताङ्गीं दीप्तामग्निशिखामिव। तुषारेणावृतां साभ्रां पूर्णचन्द्रप्रभामिव। मध्येऽम्भसो दुराधर्षां दीर्प्ता सूर्य्यप्रभामिव। सा हि गोतमवाक्येन दुर्निरीक्ष्या बभूव ह। त्रयाणामपि सोकानां यावद्रामस्य दर्शनम्। दृष्ट्वैव राघवौ तस्याः पादौ जगृह तुस्तदा। सा च तौ पूजयामास स्मृत्वा गौतमभाषितम्। पाद्यार्घासनसत्कारैर्यथावत् प्रीतमानसा। प्रतिजग्राह रामश्च पूजां तां विधिवत् तदा। सस्वनुर्देववाद्यानि पुष्पवृष्टिः पपात खात्। गन्धर्वाप्सरसां चैव महानासीत् समागमः। साधु साध्विति देवाश्च तदाहल्यामपूजयन्। विशुद्धां तपसोग्रेण तदा रामसमागमे। गोतमोऽथ महातेजा दृष्ट्वा दिव्येन चक्षुषा। स्वमाश्रमपदं राममागतं प्रत्यपूजयत्। समेत्य भार्यया चैव पूतयाऽहल्यया तदा। तयैव सहितोभूयस्तपस्तेपे महायशाः” इति रामा० आ०। “अहल्या द्रौपदी कुन्ती तारा मन्दोदरी तथा। पञ्च कन्याः स्मरेर्न्नित्यं महापातकनाशनम्” प्रातःस्मरणीये पुरा०।

अहल्याजार = पु० ६ त०। इन्द्रे तत्कथा अफलब्दे २६८ पृष्ठे।

अहल्यानन्दन = पु० ६ त०। शतानन्दे ऋषौ। तस्योत्पत्तिकथा अहल्याशब्दे उक्ता अहल्यासुतादयोःप्यत्र।

अहल्याह्रद्र = पु० ३ त०। गोतमाश्रमस्थे स्वनामख्याते तीर्थभेदे “ततोगच्छेत ब्रह्लर्षेर्गोतमस्य वनं प्रियम्। अहल्या या ह्रदे स्नात्वा ब्रजेत परमां गतिम्” भा० वब ८४ अ०।

अहल्लिक = पु० अहनि लीयते ली–ड नि० संज्ञायां कन्। प्रेते। प्रेताहि रात्रौ चरन्तो दिवा णीयन्ते इति प्रसिद्धम्। “अहल्लिकेतिहोवाच याज्ञवल्क्यः” वृ० उ०। “अहल्लिकेति होवाच याज्ञवल्क्यो नामान्तरेण संबोधनं कृतवान्” भा०। “नामान्तरेण अहनि लीयते इति प्रेतवाचिनेति” शेषः आनन्दगिरिः।

अहस्कर = पु० अहःकरवत्। १ सूर्य्ये, “अलञ्चकारास्य बधूरहस्करः” माघः। २ अर्कवृक्षे च।

अहस्त = त्रि० न स्तः हस्तौ यस्य। हस्तशून्ये प्राणिनि १ छागादौ “अहस्ताश्च सहस्तानां शूराणां चैव भीरवः” मनुः २ छिन्नहस्ते च। “अपादहस्तो अपृतन्यदिन्द्रम्” ऋ० १, ३२, ७।

अहस्पति = पु० अहःपतिवत्। १ सूर्य्ये २ अर्कवृक्षे च।

अहह = अव्य० अहं जहाति अहम् + हा–क पृषो०।। १ सम्बोधने २ आश्चर्प्ये, ३ खेदे, ४ क्लेशे, ५ प्रकर्षेच। “अहहारे त्वा शूद्र” छा० उ० “अहह महतां निःसीमानश्चरित्रविभूतयः” वीरच० “अहह कष्टमपण्डितता विधेः” गणर०।

अहहा = अव्य० अहं जहाति हा–डा। “अहहशब्दार्थे” “भिक्षित्वाऽपि बुभुक्षितं यदहहा” गणरत्न०।

अहार्य्य = पु० हृ–ण्यत् न० त०। १ पर्व्वते। २ हर्त्तुसशक्ये ३ अभेद्ये च त्रि०। “तत्रात्मभूतैः कालज्ञैरहार्य्यैः परि- चारकैः” मनुः अहार्य्यैरभेद्यैः” कुल्लू०। अहार्य्ये मेवं मृगनाभिपट्टम्” गणरत्न०। “अहार्य्यं ब्राह्मणद्रव्यं राज्ञां नित्यमिति स्थितिः” मनुः।

अहि = पु० आहन्ति आ + हन + डिन् टिलोपः आङो ह्रस्वश्च। १ सर्पे, लोकप्रसिद्धसर्पभेदादि सुश्रुते दर्शितम्। “अशीतिस्त्वेव सर्पाणां भिद्यते पञ्जधा तु सा”। “दर्व्वीकरा मण्डलिनो राजिमन्तस्तयैव च। निर्व्विषा वैकरञ्जाश्च त्रिविधास्ते पुनः स्मृताः।। दर्व्वीकरा मण्डलिनो राजिमन्तश्च पन्नगाः। तेषु दर्व्वीकरा ज्ञेया विंशतिः षट्चपन्नगाः। द्वाविंशतिर्मण्डलिनो राजिमन्तस्तथा दश। निर्व्विषा द्वादश ज्ञेया वैकरञ्जास्त्रयस्तथा। वैकरञ्जोद्भवाः सप्त चित्रामण्डलिराजिलाः। पदाभिमृष्टा दुष्टा वा क्रुद्धा ग्रासार्थिनोऽपि वा। ते दशन्ति महाक्रोधास्तद्धि त्रिविधमुच्यते। सर्पितं रदितं वापि तृतीयमथ निर्व्विषम्। सर्पाङ्गाभिहतं केचिदिच्छन्ति खलु तद्विदः। पदानि यत्र दन्तानामेकं द्वे वा बहूनि च।। निमग्नान्यल्परक्तानि यान्युद्धृत्य करोति हि। चञ्चुमालकयुक्तानि वैकृत्यकरणानि च। सङ्क्षिप्तानि सशोफानि विद्यात्तत् सर्पितं भिषक्। राज्यः सलोहिता यत्र नीलाः पीताः सितास्तथा। विज्ञेयं रदितं तत्तु ज्ञेयमल्पविषञ्च तत्। अशोफमल्पदुष्टासृक् प्रकृतिस्थस्य देहिनः। पदं पदानि वा विद्यादविषं तच्चिकित्सकः। सर्पस्पृष्टस्य भीरोर्हिभयेन कुपितोऽनिलः। कस्यचिद् कुरुते शोफं सर्पाङ्गाभिहतन्तु तत्। व्याधितोद्विग्नदष्टानि ज्ञेयान्यल्पविषाणि तु। तथातिवृद्धबालातिदष्टमल्पविषं स्मृतम्। सुपर्णदेवब्रह्मर्षियक्षसिद्धनिषेविते।। विषघ्नौषधियुक्ते च देशे न क्रमते विषम्। रथाङ्गलाङ्गलच्छत्रस्वस्तिकाङ्कुशधारिणः।। ज्ञेयादर्व्वीकराः सर्पाः फणिनः शीघ्रगामिनः। मण्डलैर्विविधैश्चित्राः पृथवो मन्दगामिनः।। ज्ञेया मण्डलिनः सर्पा ज्वलनार्कसमप्रभाः। स्निग्धा विविधवर्णामिस्तिय्युगूर्द्ध्वन्तु राजिभिः।। चित्रिता इव ये भान्ति राजिमन्तस्तु ते स्मृताः। मुक्तारूप्यप्रभा ये च कपिला ये च पन्नगाः।। सुगन्धिनः सवर्णाभास्ते जात्या ब्राह्मणाः स्मृताः। क्षत्रियाः स्निग्धवर्णास्तु पन्नगा भृशकोपनाः।। सूर्य्यचन्द्राकृति च्छत्नं लक्ष्म तेषां तथाम्बुजम्। कृष्णा वज्रनिभा ये च लोहिता वर्णतस्तथा। धूम्राः पारावताभाश्च वैश्यास्ते पन्नगाः स्मृताः।। महिषद्वीपिवर्ण्णाभास्तथैव परुषत्वचः। भिन्न- वर्णाश्च ये केचिच्छूद्रास्ते परिकीर्त्तिताः।। कोपयन्त्यनिलं जन्तोः फणिनः सर्व्व एव तु। पित्तं मण्डलिनश्चापि कफञ्चानेकराजयः।। अपत्यसमवर्णाभ्यां द्विदोषकरलक्षणम्। ज्ञेयौ दोषैश्च दम्पत्योर्विशेषश्चात्र वक्ष्यते।। रजन्याः पश्चिमे यामे सर्पाश्चित्राश्चरन्ति हि। शेषेषूक्ता मण्डलिनो दिवा दर्व्वीकराः स्मृताः।। दर्व्वीकरास्तु तरुणा वृद्धा मण्डलिनस्तथा। राजिमन्तो वयोमध्ये जायन्ते मृत्युहेतवः।। नकुलाकुलिता बाला वारिविप्रहताः कृशाः। वृद्धा मुक्तत्वचो भीताः सर्पास्त्वल्पविषाः स्मृताः। तत्र दर्व्वीकराः। कृष्णसर्पो हाहाकृष्णः कृष्णोदरः श्वेतकपोतो महाकपोतो वलाहको महासर्पः शङ्खपालो लोहिताक्षो गवेधुकः परिसर्पः खण्डफणः ककुदपद्मो महापद्मो दर्भपुष्पो दधिमुखः पुण्डरीको भ्रुकुटीमुखो विष्किरः पुष्पाभिकीर्णो गिरिसर्प ऋजुसर्पः श्वेतोदरो महाशिरा अलगर्द्दो आशीविष इति।। मण्डलिनस्तु। आदर्शमण्डलः श्वेतमण्डलो रक्तमण्डलश्चित्रमण्डलः पृषतो रोध्रपुष्पो मिलिन्दको गोनसो वृद्धगोनसः पनसो महापनसो वेणुपत्रकः शिशुको मदनः पालिंहिरः पिङ्गलस्तन्तुकः पुष्पपाण्डुः षडगोऽग्निकी बभ्नुः कषायः कलुषः पारावतो हस्ताभरणश्चित्रक एणीपद इति।। राजिमन्तस्तु। पुण्डरीको राजिचित्रोऽङ्गुलराजिर्विन्दुराजिः कर्दमकस्तृणशोषकः सर्षपकः श्वेतहनुर्दर्भपुष्पश्चक्रको गोधूमकः किक्किसाद इति।। निर्व्विषास्तु। गलगोली शूकपत्रोऽजगरो दिव्यको वर्षाहिकः पुष्पशकली ज्योतीरथः क्षीरिकापुष्पकोऽन्धा हिकोऽहिपताकोगौराहिको वृक्षेशय इति। वैकरञ्जास्तु त्रयाणां दर्व्वीकरादीनां व्यतिकराज्जाताः। तद्यथा। माकुलिः पोटगलः स्निग्धराजिरिति। तत्र कृष्णसर्पेण गोनस्यां वैपरीत्येन वा जातो माकुलिः। राजिलेन गोनस्यां वैपरीत्येन वा जातः पोटगलः। कृष्णसर्पेण राजिमत्यां वैपरीत्येन वा जातः स्निग्धराजिरिति। तेषामाद्यस्य पितृवद्विषोत्कर्षो द्वयोर्मातृवदित्येके। त्रयाणां वैकरञ्जानां पुनर्दिव्येलकरोध्रपुष्पकराजिचित्रकाः पोटगलः पुष्पाभिकीर्णो दर्भपुष्पो वेल्लितकः सप्त तेषामाद्यास्त्रयो राजिलवत् शेषा मण्डलिवत्। एवमेतेषां सर्पाणामशीतिरिति। तत्र महानेत्रजिह्वास्यशिरसः पुमांसः, सूक्ष्मनेत्रजिह्वास्यशिरसः स्त्रियः। उभयलक्षणामन्दविषा अक्रोधा नपुंसका” इति। तेषां बहूनि पुराणे नामान्युक्तानि तेषां प्रधान्यतो भारते कतिचिदुक्तानि “बहुत्वान्नामधेयानि पन्नगानां तपोधन!। न कीर्त्तयिष्ये सर्व्वेषां प्राघान्येन तु मे शृणु। शेषः प्रथमतो जातो वासुकिस्तदनन्तरम्। ऐरावतस्तक्षकश्च कर्कीटकधनञ्जयौ। कालियो मणिनागश्च नागश्चापूरणस्तथा। नागस्तथा पिञ्जरक एलापत्रोऽथ वामनः। नीलानीलौ तथा नागौ कल्माषशवलौ तथा। आर्य्यकश्चोग्रकश्चैव नागः कलशपोतकः। सुरामुखो दधिमुखस्तथा विमलपिण्डकः। आप्तः करोटकश्चैव शङ्खो वालिशिखस्तथा। निष्णानको हेमगुहो नहुषः पिङ्गलस्तथा। बाह्यकर्णो हस्तिपदस्तथा मुद्गरपिण्डकः। कम्बलाश्वतरौ चापि नागः कालीयकस्तथा वृत्तसंवर्त्तकौ नागौ द्वौ च पद्माविति श्रुतौ। नागः शङ्खमुखश्चैव तथा कुष्माण्डकोऽपरः। क्षेमकश्च तथा नागो नागः पिण्डारकस्तथा। करवीरः पुष्पदंष्ट्रो विल्वको विल्वपाण्डरः। मूषकादः शङ्खशिराः पूर्णभद्रो हरिद्रकः। अपराजितो ज्योतिकश्च पन्नगः श्रीवहस्तथा। कौरव्यो धृतराष्ट्रश्च शङ्खपिण्डश्च वीर्य्यवान्। विरजाश्च सुबाहुश्च शालिपिण्डश्च वीर्य्यवान्। हस्तिपिण्डः पिठरकः सुमुखः कौणपाशनः। कुठरः कुञ्जरश्चैव तथा नागः प्रमाकरः। कुमुदः कुसुदाक्षश्च तित्तिरिर्हलिकस्तथा। कर्द्दमश्च महानागो नागश्च बहुमूलकः। कर्कराकर्करौ नागौ कुण्डोदरमहोदरौ। एते प्राधान्यतो नागाः कीर्त्तिता द्विजसत्तम!। बहुत्वान्नामधेयानामितरे नानुकीर्त्तिताः। एतेषां प्रसवो यश्च प्रसवस्य च सन्ततिः। असंख्येयेति मत्या तान्न व्रवीमि तपोधन!। बहूनीह सहसाणि प्रयुतान्यर्व्वुदानि। च। अशक्यान्येव संख्यातुं पन्नगानां तपोधन! भा० आ० ३५ अ०। “अहिपरिकरभाजो भास्मनैरङ्गरागैः” माघः। महतोऽप्येनसोमासात्त्वचेवाहिर्विमुच्यते” “न पक्ष्यहिप्रेष्यनाम्नीं न च भीषणनामिकाम्” लूताहि शरटानाञ्च तिरश्चां चाम्बुचारिणमिति” च मनुः। ३ सूर्य्ये, इन् ४ राहौ, ५ पथिके, अह–व्याप्तौ इन्। ६ वृत्रासुरे तस्य सर्व्वलोकव्यापकत्वात्तन्नामकत्वम् स च विश्वरूपपितुस्त्वष्टुःपुत्रः तदुत्पत्तिकथा भाग० ६ स्क० ९ अ० “हतपुत्रस्ततस्त्वष्टा जुहावेन्द्राय शत्रवे। इन्द्रशत्रो! विबर्द्ध्वस्व मा चिरं जहि विद्विषम्। अथान्वाहार्य्यचनादुत्थितो घोरदर्शनः। कृतान्त इव लोकानां युगान्तसमये यथा। विष्वग्विवर्द्धभानं तमिषुमानं दिनेदिने। दग्धशैल प्रतीकाशं सन्ध्याभ्रानीकवर्च्चसम्।। तप्तताम्रशिखा- श्मश्रुं मध्याह्नार्कोग्रलोचनम्। देदीप्यमाने त्रिशिखे शूल आरोप्य रोदसी।। अत्यन्तमुन्नयन्तञ्च चालयन्तं पदा महीम्। दरीगम्भीरवक्त्रेण पिवता च नभस्तलम्।। लिहता जिह्वयर्क्षाणि ग्रसता भुवनत्रयम्। महता रौद्रदंष्ट्रेण जृम्भमाणं मुहुर्मूहुः। वित्रस्तादुद्रुवुर्लोकावीक्ष्य सर्व्वे दिशोदिश।। येनावृताइमे लोकास्तपसा त्वाष्ट्रमूर्त्तिना। सर्व्वेवृत्र इति प्रोक्तः पापः परमदारुणः”।। ७ खले, ८ वञ्चके, ९ सर्पस्वामिके अश्लेषानक्षत्रे च। “मृदुगणस्तीक्ष्णोऽहि रुद्रेन्द्रयुक्” ज्यो०। “द्रुतं धनुःखण्डमिवाहिद्विविषः” किरा०। “अद्विषस्तद्भवता निशम्यताम्” माघः। १० आहन्तरि त्रि० “अहिरसि बुध्न्यः” ताण्ड्य०। अहिराहन्तारिप्रभृतीनाम्” मा०। अह–व्याप्तौ इन्। ११ जले महीव्यापित्वात्तत्त्वम् १२ व्यापके १३ व्याप्ते च त्रि०। १४ द्यावापृथिव्योः द्वि० व० १५ पृथिव्यां १ ६ स्त्रीगव्याञ्च स्त्री वा ङीप् नागनामत्वात् तज्जातत्वाच्च १७ सीसे धातौ। तस्योत्पत्त्यादिकम् भावप्र० “दृष्ट्वा भोगिसुतां रम्यां वासुकिस्तु व्यमोचयत्” वीर्य्यं जातस्ततो नागः सर्वरोगापहोनृणाम्” सीसं बध्नं तथा वप्रंयोगेष्टं नागनामकम् (नागोभुजशः) सीसं रङ्गगुणं ज्ञेयं विशेषान्मेहनाशनम्। नागस्तु नागशततुल्यबलं ददाति व्याधिं विनाशयति जीवनमातनोति। वह्निं प्रदीपयति कामबलं करोति मृत्युं च नाशयति सन्ततसेवितः सः। पाकेन हीनौ किल वङ्गनागौ कुष्ठानि गुण्मांश्च तथातिकष्टम्। पाण्डुप्रमेहानिलमादशोथभगन्दरादीन् कुरुतः प्रभुक्तौ” तस्य पाकविधिमाह तत्रैव। ताम्बूलरस संपिष्टशिलालेपात् पुनः पुनः। द्वात्रिंशद्भिः पुटैर्नागो निरूप्यं भस्म जायते। (शिला मनःशिला) अन्यच्च। “अश्वत्थचिञ्चात्वक्चूर्ण्णं चतुर्थाशेन निक्षिपेत्। तत्पात्रे विद्रुतो नागो लोहदर्व्या प्रचालितः। यामैकेन भवेद्भस्म तत्तुल्या स्यान्मनःशिला। काञ्जिकेन द्वयं घृष्ट्वा पचेत् दृढपुटेन तम्। स्वाङ्गशीतं पुनः पिष्ट्वा शिलया काञ्जिकेन च। पुनः पचेत् समेताभ्यामेवं षष्टिपुटैर्मृतिः”।

अहिंसक = त्रि० न हिनस्ति हिन्स–ण्वुल् न० त०। हिंसारहिते

अहिंसा = स्त्री हिन्म–अङ् न० त०। १ वाङ्ममनःकायैः परपीडाभावे, २ प्राणिपीडानिवृत्तौ, ३ अशास्त्रीयप्राणिपीडनाभावे च “अहिंसापरमो धर्म्म” इति स्मृतिः। “या वेद विहिता हिंसा नियतास्मिंश्चराचरे। अहिंसामेव तां विद्यात् वेदाद्धर्म्मोहि निर्बभौ” मनुना वैधहिंसायां दोषाभावौक्तः एतच्च मीमांसकादिनये सांख्यनये तु शास्त्रीयहिंसायामपि दोषः यथोक्तं सां० का०। “दृष्टवदानुश्रविकः स ह्यविशुद्धिक्षयातिशययुक्तः”। अविशुद्धिर्हिंसादोषसंसर्गः यथा च वैधहिंसायां दोषसंसर्गस्तथोक्तमशुद्धिशब्दे ४७६ पृष्ठे। एतस्याश्च भावरूपत्वं गीतायामुक्तम् “बुद्धिर्ज्ञानमसम्मोहः क्षमा सत्यं दमः शमः। अहिंसा समता तुष्टिः” इत्युपक्रम्य “भवन्ति भावा भूतानां मत्तएव पृथग्विधाः”। इयञ्च साधारणधर्म्मः। “अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः एतत् सामासिकं धर्मं चातुर्वण्येऽब्रवीन्मनुः” इति मनूक्तेः “क्षमा सत्यं दमः शौचं दानमिन्द्रियसंयमः। अहिंसा गुरुशुश्रूषा तीर्थानुसरणं दया, आर्जवं ह्रीरलोभश्च देवब्राह्मणपूजनम्। अनभ्यसूया च तथा धर्म्मः सामान्य उच्यते “विष्णूक्तेः “अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः। दानं शमोदया क्षान्तिः सर्वेषां धर्म्मसाधनमिति” याज्ञ० उक्तेश्च “सर्वेषां पुरुषाणां ब्राह्मणाद्याचण्डालान्तं धर्म्मसाधनमिति” “साधारणधर्मश्चाहिंसादिः” “न हिंस्यात् सर्वाभूतानोति” श्रुत्युक्तः आचाण्डान्तं साधारणधर्मः” मिता०। इयञ्च “अहिंसासत्यास्तेयब्रह्मचर्य्यापरिग्रहा यमाः” पात० उक्तो यम भेदः, “अहिंसा नाम मनोवाक्कायैः सर्वदा सर्वभूतानामपीडनं सा परमः शुद्धोधर्मः “अहिंसा परमोघर्म” इत्युक्तेः अन्ये सत्यादय एतस्या एव शुद्ध्यर्थाः तथा चोक्तं “स खल्वयं ब्राह्मणो यथा यथा तानि व्रतानि समादित्सति तथा तथा प्रमादकृतेभ्यो हिंसानिदानेभ्यो निवर्त्तमानस्तामेवावदातरूपामहिंसां करोतीति” वृत्तिः। तस्याश्च कथंकर्त्तव्यता तदपि “वितर्कबाधने प्रतिपक्षभावनम्” पात० सू० दर्शितम् “एतेषां यमनियमानां वितर्कैर्हिंसादिसंकल्पैः हनिष्याम्येनमसत्यं वदिष्यामि परस्वमादास्ये इत्यादिभिः बाधने प्राप्ते सति यमपरो ब्राह्मणः प्रतिपक्षभाव नं कुर्य्यात् घोरेषु संसाराङ्गारेषु पापच्यमानेन येन मया शरणमुपगतः सर्वभूताभयप्रदानेन यमादिधर्म्मः स खल्वहं त्यक्त्वा हिंसादीन् पुनस्तानाददानस्तुल्यः शुना। यथा श्वा वान्ताशी तथा त्यक्तस्य पुनरादाने इति वितर्क प्रतिपक्षान् भावयेदित्यर्थः” वृत्तिः। वितर्काणां स्वरूपप्रकारकारणावान्तरभेदफलानि पञ्चभिः पदैः क्रमेण वदन् प्रतिपक्षभावनं स्फुटयति। “वितर्काः कृतकारितानुमोदिता लोभक्रोधमोहपूर्ब्बका मृदुमध्यातिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम्” पात० सू०। “वितर्क्यन्त इति वितर्काहिंसादयः इति स्वरूपोक्तिः। तत्र- हिंसा त्रिप्रकारा स्वयंकृता, कुर्विति कारिता, साधुसाध्वि त्यनुमोदिता चेति तत्रेकैका पुनस्त्रिविघा भवति कारणभेदात् मांसादिलोभेन, अपकृतमनेनेति क्रोधेन, धर्मो भविष्यतीति मोहेन च। एवं नवविधा जाता हिंसा। लोभक्रोधमोहा अपि प्रत्येकं त्रिविधा भवन्ति मृदुमध्यातिमात्रत्वेन। तत्पूर्ब्बकाहिंसादयोऽपि मृदवोमध्या अतिमात्राश्च भवन्ति। तथा कृतकारितानुमोदिताश्च प्रत्येकं नवधा भवन्तीति हिंसायाः सप्तविंशतिर्भेदा भवन्ति। मृदुमध्यातिमात्रा अपि प्रत्येकं त्रिधा भवन्ति मृदुमृदुर्मध्यमृदुस्तीव्रमृदुःमृदुमध्योमध्यमध्यस्तीव्रमध्यः मृदुतीव्रोमध्यतीव्रस्तीव्रतीव्रश्चेति एवं लोभो नवविधः एवं क्रोधमोहाविति तत्पूर्ब्बकृताहिंसा सप्तविंशतिभेदाभवन्ति तथा कारितानुमोदिता चेत्थमेकाशीतिभेदा हिंसा भवति” वृत्तिः। तेषां फलान्याह दुःखाज्ञानानन्तफला इति। मनुनापि “अनुमन्ता विशसिता नियन्ता क्रयविक्रयी। संस्कर्त्ता चोपहर्त्ता च षडेते घातकाः स्मृताः” इत्यनेन अनुमत्यादीनां हिंसासाधनत्वमुक्तम् यममध्येऽहिंसाफलमप्याह पात० सू०। “अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः”। अहिंसासिद्धौ सत्यां तस्याऽ हिंसकस्य मुनिवर्य्यस्य सन्निधौ स्वभावविरुद्धानामपि अहिनकुलादीनां वैरत्यागः अस्याएव प्रभावात्। अतएव कविभिः अहिंसायमप्रभावादेव शान्ताश्रमः “विरोधिसत्त्वोज्झितपूर्व्ववत्सरमित्यादि” वर्ण्ण्यते।

अहिंसान = त्रि० न हिनस्ति हिन्स–शीलार्थे चानश् न० त०। हिंसाशीलभिन्ने “शर्म्मण्यहिंसानस्य सश्चिरे” ऋ० ५, ६४, ३।

अहिंस्र = त्रि० न हिंस्रः। १ हिंसाशीलभिन्ने। “अहिंस्रोदमदानाभ्यां जयेत् स्वर्गं तथा व्रतः” मनुः “हिंस्राहिंस्रे मृदुक्रूरे धर्म्माधर्म्मावृतानृते। यद्यस्य सोऽदधात्सर्गे तत्तस्य स्वयमाविशत्” मनुः। “हिंस्राहिंस्रे मृदुक्रूरे धर्म्माधर्म्मावृतानृते। ते एव प्रतिपद्यन्ते सृज्यमानाः पुनः पुनः” शा० भा० स्मृतिः। (कुलेखाडा) २ कुलिकवृक्षे पु० राजव०।

अहिका = स्त्री अहिरिव कायति प्रकाशते दुराक्रमत्वात्। १ शाल्मलिवृक्षे शब्दच०। २ ध्रुवनक्षत्रे पु०।

अहिकान्त = पु० अहेः कान्तः भक्ष्यत्वात्। वावौ सर्पस्य पवनाशनत्वेन वायोस्तत्कान्तत्वम्।

अहिक्षेत्र = पु० अहेः क्षेत्रमिव। प्राग्देशवर्त्ति देशभेदे। भा० व० २५३ अ० कर्ण्णदिग्विजये। “अवतीर्य्य ततः शैलात् पूर्ब्बां दिशमभिद्रुतः। अङ्गान् वङ्गान् कलिङ्गांश्च” इत्युपक्रम्य “आवशीरांश्च योधांश्च अहिक्षेत्रं च योघयन्। पूर्ब्बां दिशं विनिर्जित्य वत्सभूमिं तथाऽगमत्”।

अहिगण = पु० १ छन्दःशास्त्रप्रसिद्धे पञ्चमात्रात्मके आद्यगुरुके अन्त्यलघुत्रयरूपे सप्तमभेदे। ६ त०। २ सर्पाणां समूहे।

अहिच्छत्र = पु० अहेः फणाकारः छत्रश्छादकः। १ मेषशृङ्गीवृक्षे, २ नगरीभेदे स्त्री। ३ देशभेदे पु०। स च देशः पार्थेन निर्ज्जित्य द्रोणाय दत्तः। “अहिच्छत्रं च विषयं द्रोणः समभिपद्यत। एवं राजन्नहिच्छत्रा पुरीजनपदायुता युधि निर्ज्जित्य पार्थेन द्रोणाय प्रतिपादिता” भा० आ० प० १३९ अ०। तत्र द्रुपदराज्यं पूर्ब्बमासीत् यथोक्तं हरिवंशे २० अ० “अहिछत्रं स्वकं राज्यं पित्र्यं प्राप महाद्युतिः। द्रुपदस्य पिता राजन्! ममैवानुमते तदा। ततोऽभूद्द्रुपदोराजा द्रोणस्तेन निराकृतः। ततोऽर्ज्जुनेन तरसा निर्ज्जित्य द्रुपदं रणे। अहिच्छत्रं सकाम्पिल्यं द्रोणाया थापवर्ज्जितम्। प्रतिगृह्य ततोद्रोणः उभयं जयतांबरः। काम्पिल्लं द्रुपदायैव प्रायच्छद्विदितं तव” हरि० २० अ० तत्सीमाबन्धश्च भा० आ० प० १३७ अ० उक्तः। “कामन्दीमथ गङ्गायास्तीरे जनपदायुताम्। सोऽध्यवात्सीद्दीनमनाः काम्पिल्लञ्च पुरोत्तमम्”। दक्षिणांश्चापि पञ्चालान् यावच्चर्म्मण्वतीं नदीम्। द्रोणेन चैवं द्रुपदं परिभूयाथ पालिता”। अहिच्छत्रस्यं नामान्तरं प्रत्यग्रयः हेम०। अहिच्छत्रे भवः अण् आहिच्छत्रः। स्त्रियां ङीप् गुरूपोत्तमत्वेऽपि गोत्रार्खभिन्नत्वात् न ष्यङ् आहिच्छत्री” सि० कौ०।

अहिजित् = पु० अहिं सर्पं वृत्तासुरं वा जितवान् जि–क्विप् तुक् च। १ कृष्णे, २ इन्द्रे च। तत्र कृष्णस्य कालियदमनात्तथात्वम् तत्कथा हरि० ६९ अ०। “कृष्ण कृष्ण! महावाहो! गोपानां नन्दिवर्द्धन!। दम्यतामेष वै क्षिप्रं सर्पराजो विषायुधः। इमे नो बान्धवास्तात! त्वां मत्वा मानुषं विभो!। परिदेवन्ति करुणं सर्वे मानुषबुद्धयः। तच्छ्रुत्वा रौहिणेयस्य वाक्यं संज्ञासमीरितम्। विक्रीड्याऽस्फोटयन् बाहू भित्त्वा तं भोगबन्धनम्। तस्य पद्भ्यां समाक्रम्य भोगराशिं जलोत्थितम्। शिरस्सु कृष्णो जग्राह स्वहस्तेनावनाम्य च। तस्यारुरोह सहसा मध्य मं तन्महच्छिरः। सोऽस्य मूर्द्ध्निस्थितः कृष्णः ननर्त्त रुचिराङ्गदः। मृद्यमानः स कृष्णेन श्रान्तमूर्द्ध्वा भुजङ्गमः”। इति। इन्द्रस्य वृत्रासुरजयकथा भाग० ६ स्कन्धे ९ अ० “अथेन्द्रो वज्रमृद्यस्य निर्म्मितं विश्वकर्म्मणा। मुनेः शक्तिभिरुत्सिक्तं भगवत्तेजसान्वितम्” इत्युपक्रम्य इन्द्रवृत्रासुरयुद्धं वर्ण्णयित्वा “भित्त्वा वज्रेण तत्कुक्षिं निष्क्रम्य बलभिद्विभुः उच्चकर्त्त शिरः शक्रोगिरिशृङ्गमिवोजसा” इत्युक्तम्।

अहिजिह्वा = स्त्री अहेर्जिह्वेव तदाकारशिखत्वात्। नागजिह्वाख्यलतायाम्।

अहिण्डुका = स्त्री हिण्ड–उकञ् न० त०। सुश्रुतोक्ते कीटभेदे कीटशब्दे–विवृतिः “अहिण्डुकाभिर्दष्टे तोददाहकण्डूश्वयथवोमोहश्च”। “अहिण्डुकाभिर्दष्टानामापदोविषनाशनम्” इति च सुश्रुतः।

अहित = पु० न० त०। १ शत्रौ। २ पथ्यभिन्ने त्रि०। सुश्रुतोक्तानि अहितानि अपथ्यशब्दे २२६ पृष्ठे उक्तानि “अहिताननिलोद्भूतैस्तर्जयन्निव केतुभिः” रघुः “रामनाम इति तुल्यमात्मजे वर्त्तमानमहिते च दारुणे” रघुः “निन्दन्तस्तव सामर्थ्यं वदिष्यन्ति तवाहिताः” गीता। चतुर्ण्णामपि वर्ण्णानां प्रेत्य चेह हिताहितान्। अष्टाविमान् समासेन स्त्रीविवाहान्निबोधत” मनुः। “अहितो देहजोव्याधिर्हितमारण्यमौषधम्”।

अ(आ)हितुण्डिक = पु० अहेस्तुण्डं मुखं तेन दीव्यति ठन् ठञ् वा। १ व्यालग्राहिणि, २ सर्पखेलके च।

अहिद्विष् = पु० अहिं सर्पं वृत्रासुरं वा द्विष्टवान् द्विषभूते क्विप्। १ गरुडे, २ मयूरे, ३ नकुले, ४ इन्द्रे गरुड मयूरनकुलानां स्वभावसिद्धं तथात्वम् इन्द्रस्य वृत्तासुर द्वेष्टृत्वमहिजिच्छब्दे उक्तम् “अहिद्विषस्तद्भवता निशम्यताम्” माघः। क। अहिद्विषोऽप्युक्तार्थेषु।

अहिनकुलिका = स्त्री अहिनकुलयोवैंरम् वुन्। सर्पनकुलयोः स्वभावसिद्धे वैरे।

अहिनिर्मोक = पु० अहिना निर्मुच्यते निर् + मुच–कर्म्मणि घञ् ६ त०। सर्पकञ्चुके (खोलस) इति ख्याते।

अहिनिर्लयणी = स्त्री अहिर्निर्लीयतेऽस्याम् निर् + लो–ल्युट् ङीप्। (खोलस) इति ख्याते सर्पनिर्म्मोके। “तद्यथाऽहिनिर्लयणी वल्मीके मृता प्रत्यस्ता शेते” वृ० उ०।

अहिपताक = पु० अहिषु पताका तदाकारोऽस्त्यस्य अच्। सर्पभेदे अहिशब्दे ५८१ पृष्टे सुश्रुतोक्तस्तद्भेदोदृश्यः।

अहिपति = पु० ६ त०। वासुकिनागे। अहिनाथादयोऽप्यत्र।

अहिपुत्रक = पु० अहेः पुत्रः इव कायति प्रकाशते कै–क। सर्पाकारे नौकाविशेषे (छिप्)।

अहिपूतन = न० सुश्रुतोक्ते क्षुद्ररोगभेदे यथा “समासेन चतुस्त्रिंशत् क्षुद्ररोगा भवन्ति” इत्युपक्रम्य “निरुद्धगुदोऽहिपूतनं वृषणकच्छूर्गुदभ्रं शश्चेति” तान् गणयित्वा” “शकृन्मूत्र- समायुक्तेऽधौतेऽपाने शिशोर्भवेत्। स्विन्नस्यास्नाप्यमानस्य कण्डूरक्त कफोद्भवा। कण्डूयनात्ततः क्षिप्रंस्फोटाः स्रावश्च जायते। एकीभूतं व्रणैर्घोरं तं विद्यादहिपूतनम्” इति तस्य लक्षणाद्युक्तम्। अस्य स्त्रीत्वमपि।। “धात्र्याः स्तन्यं शोधयित्वा बाले साध्याहिपूतना”। “पटोलपत्रत्रिफलारसाञ्जनविपाचितम्। पीतं घृतं नाशयति कृच्छ्रामप्यहिपूतनाम्” “चिकित्सन् मुष्क कच्छूञ्चाप्यहिपूतनपानवत्” सुश्रु०।

अहिफेन = पु० अहेः फेनः गरलमिव तीक्ष्णगुणत्वात्। (आफिङ्) इति ख्याते १ वृक्षनिर्यासभेदे। ६ त० २ सर्पलालायाञ्च।

अहि(वु)बुध्न = पु० अहेरिव बुध्नो ग्रीवा यस्य। १ रुद्रभेदे, २ तद्देवताके २ उत्तरभाद्रपदनक्षत्रे ३ मुहूर्त्तभेदे च। पृ० अहिर्बु(र्वु)ध्नोऽहि(र्वु)र्बुध्न्योऽप्यत्र। तत्स्वरूपं ध्यानशब्दे वक्ष्यते। “अजैकपादहिर्बुध्नः विरूपाक्षश्च रैवतः” विष्णुध०। मुहूर्त्तभेदश्च अहःशब्दे ५७६ पृष्ठे उक्तः तन्नक्षत्रस्य तद्देवताकत्वञ्च अश्लेषाशब्दे ४९८ पृष्ठे उक्तम्।

अहिभय = न० अहेः, गृहस्थत्वात् आवृताकारत्वाच्च अहितुल्यात् स्वपक्षात् भयम्। राज्ञां स्वपक्षजनिते १ भये ६ त०। २ सर्पभये च।

अहिभयदा = स्त्री अहिभयं द्यति खण्डयति दो–क। सर्प भयनाशिकायाम् भूम्यामलक्याम्।

अहिभानु = पु० अहिर्व्याप्यो भानुस्तद्गतिरस्य। सूर्य्यगतिहेतौ वायौ प्रवाहानिलेनैव सूर्य्यगतेर्ज्योतिषोक्तेस्तथात्वम्। “मरुतो अहिभानवः” ऋ० १, १७२, १।

अहिभुज् = पु० अहिं भुङ्क्ते क्विप्। १ गरुडे, २ मयूरे, ३ नकुले च

अहिभृत् = पु० अहिमाभूषणतया बिभर्त्ति भृ–क्विप्। १ शिवे

अहिम = न० विरोधे न० त०। १ उष्णस्पर्शे २ तद्वति त्रि०।

अहिमद्युति = पु० अहिमा उष्णा द्युतिरस्य। १ सूर्य्ये २ अर्कवृक्षे च अहिमकरादयोऽप्यत्र।

अहिमन्यु = त्रि० अहिरिव हिंस्रोमन्युरस्य। १ हननशीले २ अहितुल्यहिंस्रक्रोधे च “शवसाऽहिमन्यवः” ऋ० १, ६४, ८। ६ त०। ३ सर्पक्रोधे च।

अहिमर्द्दनी = स्त्री अहिर्मर्द्द्यतेऽनया मृद–ल्युट्। गन्धनाकुलीनामलतायाम्।

अहिमाय = त्रि० अहेरिव कुटिला मायाऽस्य। वृत्रासुरादौ “वृहस्पतेरहिमायान् अभि द्यून्” ऋ० १, १९०, ४।

अहिमार = पु० अहिं मारयति मृ–णिच्–अण्। १ अरिमेदकवृक्षे सर्पमारके २ गरुडे ३ मयूरे ४ वृत्रासुरनाशके इन्द्रे च।

अहिमेद(क) = पु० अहिराहन्ताऽरिरिव मेदोऽस्य वा कप्। अरिमेदवृक्षे।

अहिरिपु = पु० ६ त०। १ गरुडे २ मयूरे ३ नकुले ४ कृष्णे च ५ वृत्रशत्रौ इन्द्रे च। अहिजिच्छब्दे विवृतिः।

अहिलता = स्त्री अहिलोकस्य पातालस्य लता शाक० त० अहिरिव लता वा दीर्घाकारत्वात्। १ ताम्बूल्याम् २ अहिद्वेष्ट्री लता शा० त०। २ गन्धनाकुल्याम्।

अहिविद्विष् = पु० ६ त०। १ गरुडे २ मयूरे ३ नकुले ४ कृष्णे ५ गन्धनाकुलीवृक्षे वृत्रशत्रौ ६ इन्द्रे च “द्रुतं धनुःखण्डमिवाहिविद्विषः” किरा०। क। अहिविद्विषोऽप्यत्र।

अहिशुष्म = त्रि० अह–व्याप्तौ इन् अहि व्यापि शुष्मं यस्य व्यापकबले। “आस्माञ्जगम्यादहिशुष्म!” ऋ० ५, ३३, ५।

अहिसक्थ = त्रि० अहिरिव दीर्घं सक्थि यस्य। १ सर्ब्बतुल्यदीर्घसक्थियुक्ते उपचारात् २ तदाधारदेशे पु०। तद्देशस्यादूरभवम् सुवास्त्वा० अण्। आहिसकथः। तद्देशादूरभवे देशादौ त्रि०।

अहिहत्य = न० हत्या हननं भावे क्यप् वेदे न०। १ वृत्रासुरहनने “अर्कमहिहत्ये ऊचुः” ऋ० १, १६१,। लोके स्त्रीत्वम्। २ सर्पहनने स्त्री।

अहिहन् = पु० अहिं सर्पं वृत्रासूरं वा हतवान् क्विप्। १ गरुडे २ इन्द्रे च।

अहीन = पु० अहोभिः साध्यते ख। अहःसमूहसाध्ये द्विरात्रादियागभेदे। स च ताण्ड्य० ब्रा० भाष्ये षोडश ऋत्विज उपक्रम्य “एतेऽहीनैकाहैर्याजयन्ति” आपस्त० उक्तः “तएते होत्रादिनामका षोडशर्त्विजोद्विरात्रादिभिरहीनसंज्ञकैरग्निष्टोमादिभिरेकाहसंज्ञकैर्याजयन्ति” भा० “अहीन यजनमशुचिकरमिति” श्रुतिः “अभिचारमहीनञ्च त्रिः कृत्वेह विशुध्यति” मनुः। अहीनामिनःस्वामी। २ सर्पराजे वासुकौ पु०। न हीनः। ३ अन्यूने त्रि० न न महीन महीन पराक्रमम् रघुः “वेदयज्ञैरहीनानां प्रशस्तानां स्वकर्म्मसु” मनुः “त्वत्तः सूतमहीनकीर्त्तेः” भा० आ० प०।

अहीनगु = पु० सूर्य्यवंश्ये नृपभेदे “अहोनगुर्नाम स गां समग्रा महीनवाहुद्रविणः शशास” रघुः “रामस्य तनयोजज्ञे कुश इत्यभिविश्रुतः। अतिथिस्तु कुशाज्जज्ञे निषधस्तस्य चात्मजः। निषधस्य नलः पुत्त्रोनभः पुत्रोनलस्य तु। नभस्य पुण्डरीकस्तु क्षेमधन्वा ततः स्मृतः। क्षेमधन्वसुतस्त्वासीद्देवानीकः प्रतापवान्। आसीदहीनगुर्नाम देवानीकात्मजः प्रभुः। अहीनगोस्तु दायादः सुधन्वा नाम पार्थिवः”। हरि० व० १६ अ०।

अहीनवादिन् = त्रि० न हीनः वादी। “अन्यवादी क्रियाद्वेषी नोस्थापता निरुत्तरः। आहूतप्रपलायी च हीनः पञ्चविधः स्मृतः” इति स्मृत्युक्तहीनभिन्ने वादिनि।

अहीमती = स्त्री अहिरस्त्यस्याम् मतुप् शरादि० दीर्घः। नदीभेदे

अहीर = पु० आभीरस्य पृषो० साघुत्वम्। आभीरे।

अहीरणादि = पु० अरीहणादिगणे पाठान्तरम् स च गणः तच्छब्दे उक्तः।

अहीरणि = पु० अहीन् ईरयति दूरीकरोति ईर–अनि। द्विमुखसर्पे तद्दर्शनाद्धीतरे सर्पाः पलायन्ते।

अहीश्रुव = पु० अहिरिव श्रूयते श्रु–क बा० दीर्घः। शत्रौ “पिप्रुंदासमहीश्रुवम्” ऋ० ८, ३२, २। “अहीश्रुवं शत्रुम्” भा०।

अहु = त्रि० अह–व्याप्तौ उन्। व्यापके स्त्रियां ङीप् “पर उर्वीर्वा अन्या उपसदः परोऽह्वीरन्याः” शत० ब्रा०। अंहते आधारे उन् अंहु भगे न०। “यदस्य अंहुभेद्या कृधु” य० २२, २८, “अंहु भगं भेद्यं विदार्य्यं यस्याः” दीपः।

अहुत = पु० नास्ति हुतं हवनं यत्र। धर्मसाधनत्वेऽपि अहोमे १ वेदपाठे। “अहुतं च हुतञ्चैव तथा प्रहुतमेव च। ब्राह्मं हुतं प्राशितञ्च पञ्च यज्ञान् प्रचक्षते” जपोऽहुतो हुतोहोमः प्रहुतो भौतिको बलिः। ब्राह्मं हुतं द्विजाग्रार्च्चा प्राशितं पितृतर्पणम्” मनुः यस्य हवनं न कृतं तादृशे २ हविरादौ त्रि०। “अथ यत् पुराणा नाश्नन्ति यथा अहुतस्य हविषो नाश्नीयात् एवं तत्तस्माद्दीक्षितस्य नाश्नीयात्” शत० ब्रा०।

अहृणान = त्रि० हृणी–रोषणे कण्ड्वा० ताच्छील्ये चानश् वेदे नि० न० त०। अक्रोधने। “किं मे हव्यमहृणानोजुषेत” ऋ० ७, ८६, २। लोके क्वचित् वेदे च अहृणीयमानः। “राजाना क्षत्रमहृणीयमानाः” ऋ० ५, ६२, ६।

अहे = अव्य–अह + ए। १ क्षेपे, वियोगे च। “अहे राम! घनश्याम! चुम्बामि मुखपङ्कजम्। यदि जीवामि शीकेन पुनः पश्यामि ते मुखम्”।

अहेड = त्रि० हेड–अनादरे अच् न० त०। अवज्ञाशून्ये

अहेडमान = त्रि० हेड–शानच् न० त०। आद्रियमाणे अवज्ञाशून्ये “अहेडमानो वरुणः” ऋ० १, २४, ११।

अहेतु = पु० न० त०। १ हेतुभिन्ने न० ब०। २ हेतुशून्ये त्रि० वा कप् अहेतुकोऽप्युक्तार्थे। हेतुः कारणमुद्देश्यञ्च। कारणञ्च कार्य्याव्यवहितक्षणे कार्य्याधिकरणे स्थितिशाली यथा घटादिकंप्रति मृत्तिकादि कटकादिकं सुवर्ण्णादि। तयोस्तदधिकरणेतत्पूर्ब्बं स्थितत्वात् तथात्वम्। कारणताग्राहकौ च अन्वयव्वतिरेकौ। मतभेदे तद्ग्राहकाणि कारणशब्दे वक्ष्यन्ते

अहेरु = पु० न हिनोति हि–रु न० त०। शतमूल्याम्।

अहैतुक = त्रि० हेतुत आगतम् ठञ् न० त०। १ हेतुतोऽप्राप्ते २ उद्दिश्यान्तरासक्ततयाऽकृते। ३ उपपत्तिशून्ये च। “यत्तु कृत्स्नवदेकस्मिन् कार्य्ये सक्तमहैतुकम्। अतत्त्वार्थवदल्पञ्च तत्तामसमुदाहृतम्” गीता।

अहो = अव्य० न + हा–डो। १ शोके, २ धिगर्थे, ३ विषादे, ४ दयायां, ५ सम्बोधने, ६ विस्मये, ७ प्रशंसायाम्, ८ वितर्के, ९ असूयायाञ्च “अहो महत्त्वं महतामपूर्ब्बम्” नीतिः “कुसुमधनुषोमन्दिरमहो” श्यामास्तवः। “अहो अहोभिर्महिमाहिमागमे” नैष०।

अहोरात्र = पु० अहश्च रात्रिश्च टच् समा०। सूर्य्योदयद्वयमध्यवर्त्तिकाले षष्टिदण्डात्मके मानुषे दिने पित्र्याद्यहोरात्रमानन्तु–अहश्शब्दे ५७६ पृष्ठे उक्तम्। त्रिंशत्कला मुहूर्त्तः स्यादहोरात्रस्तु तावतः। अहोरात्रे विभजते सूर्य्योमानुपदैविके” मनुः। “रात्राह्नाहाः पु० सि” पा० उक्तेः पुंस्त्वेऽपि आर्षत्वात् क्लीवम् “रात्रिञ्च तावतीमेव तेऽहोरात्र विदीविदुः” मनुः।

अहोरथन्तर = न० अह्नि गेयं रथन्तरम् सामभेदः न रो रः। दिवसे गेये रथन्तरनामकसामभेदे।

अहोरूप = न० अह्नो रूपम् न रो रः। दिवसरूपे।

अहोवत = अव्य० अहो च वत च द्व०। १ खेदे, २ सम्बोधने ३ अनुकम्पायाञ्च। “अहोवत महत् कष्टम्” गणरत्न० “अहोवत महत् पापम्” गीता “अहोवतासि स्पृहणीयवीर्य्यः” कुमा०

अह्नवाय्य = त्रि० ह्नु–बा० आय्य न० त०। निह्नवाकर्त्तरि। “सत्यं तत्तुर्वशे यदौ विदानो अह्नवाय्यम्” ऋ० ८, ४५, २७

अह्नाय = अव्य० ह्नु–घञ् वृद्धिः पृषो० वस्य यत्वं न० त०। शैघ्य्रे। “अह्नाय सा नियमजं क्लममुत्ससर्ज” कुमा० “अह्नाय तावदरुणेन तमो निरस्तम्” रघुः स्वच्छन्दोच्छलदच्छकच्छकुहरच्छातेतराम्बुच्छटा–मूर्च्छन्मोसमहर्षि हर्षविहितस्नानाह्निकाऽह्नाय वः” का० प्रा०।

अह्यर्षु = त्रि० अहिमाहन्तारं शत्रुमृषति ऋष–उ। शत्रु प्रति आभिमुख्येन गन्तरि “अह्यर्षूणां चिन्न्ययां अविष्याम्” ऋ० २। ३८। ३।

अह्रय = त्रि० न जिह्रेति ह्री–अच् न० त०। निर्लज्जे “वृणीमहे अह्रयं वाजमृग्मियम्” ऋ० ३, २, ४,।

अह्रयाण = त्रि० ह्री–बा० “आनच् न० त०। निर्लज्जे “अग्र एति युवतिरह्रयाणा” ऋ० ७, ८०, २।

अह्रि = पु० हृ–क्रि न० त०। कवौ। “शुक्रं दुदुह्रे अह्रयः” ऋ० ९, ५४, १।

अह्रुत = त्रि० ह्वृ–क्त न० त० पृ०। अकुटिले “समेनमह्रुत इमा गिरः” ऋ० ९, ३४, ६।

अह्रीक = पु० नास्ति ह्रीर्यस्य। १ क्षपणके तस्य दिगम्बरत्वेन लज्जाहीनत्वात्तथात्वम् २ निर्लज्जे त्रि०।

अह्वल = त्रि० न ह्वलति चलति ह्वल–अच् न० त० १ भल्लातके। २ विह्वलभिन्ने त्रि०।

इति श्रीतारानाथतर्कवाचस्पतिभट्टाचार्य्यसङ्कलिते वाचस्पत्ये वृहदभिधाने अकारादिकशब्दसमूहः समाप्तः।

***