अस्कन्न = त्रि० स्कन्द–क्त न० त०। अक्षरिते। “स्वस्कन्नं हविरसादिति” शत० ब्रा०।

अस्कम्भन = त्रि० स्कम्भ–ल्युट् न० त०। १ रोधनाभावे न० ब०। २ रोधनशून्ये। “अस्कम्भने संविताद्यामदृंहन्”। १०, १४९, १

अस्कृधोयु = त्रि० कृधृः ह्रस्वः निरु० न० त० पृ० साधु। १ अविच्छिन्ने २ अह्रस्वे च। “अस्मे धत्तं यदसदस्कृधोयु” ऋ० ७, ५३, ३। “युवोर्मित्रावरुणावस्कृधीयु” ऋ० ६, ६७, ११। अस्कृधोयुरजरः ६, २२ऽ३। “अस्कृधोयुरविच्छिन्नः” भा०।

अस्खलित = त्रि० न० त०। १ अप्रच्युते स्वकर्त्तव्ये २ अप्रमत्ते च “भूभूद्भिरप्यस्खलिता खलून्नतैः” माघः। “स मे चिरायास्खलितोपचाराम्” रघुः।

अस्त = च० अस्यन्ते सूर्य्यकिरणा यत्र आधारे क्त। १ पश्चिमाचले, “अधिरोढुमस्तगिरिमभ्यपतत्” माघः। “विडम्बय त्यस्तनिमग्नसूर्य्वन्” रघुः। कर्मणि क्त २ क्षिप्ते ३ अवसिते च त्रि० “निरस्तः परावसुः” भवदेवः। “गतिरपास्तसंस्था भतिः” मालती०। “निरस्तगाम्भीर्यमपास्तधैर्यम्” माघः। भावे क्त। ४ दर्शनायोग्यत्वे ५ अवसाने न०। आधारे क्त। ज्योतिषोक्ते ६ लग्नात् सप्तमे स्थाने न०। लग्नात् सप्तमस्थानस्य तथात्वञ्च तस्योदये लग्नस्यादर्शनहेतुत्वात्। तथा हि द्वादशराशिचक्रात्मकस्य प्रवहवायुनानिशं पश्चान्नीयमानस्य भचक्रस्य मध्ये दिवा षट् राशयो रात्रौ च षट् क्रमेणोद्गच्छन्ति तत्रोदितलग्नानां च षण्णामेव दर्शनयोग्यता इतरेषां षण्णां तु भूमण्डलेनाच्छादनान्न दृश्यता। तत्र यस्य यस्य राशेरुदयः यस्मिन् समये जायते ततः सप्तमराशेरुदयसमये तस्य तस्यास्तत्वम् अदर्शनयोग्यत्वं भवतीति सप्तमराशेरुदयकालस्यास्तकारित्वम्। “जन्मलग्नात् सुखास्तान्त्यरिपुरन्ध्रेष्वशोभना” नील० ता०। ७ अदर्शनप्राप्ते रव्यादिग्रहे त्रि० सूर्य्यादिग्रहाणामपि प्रागुक्तरीत्यास्वाधिष्ठितराश्यपेक्षया सप्तमराश्युदयेऽस्तत्वम् यथोक्तं सि० शि०। “निजनिजोदयलग्नसमुद्गमे समुदयोऽपि भवेद्भनभःसदाम्। भवति चास्तविलग्नसमुद्गमे प्रतिदिनेऽस्तमयः प्रवहक्रमात्” निशीष्टलग्नादुदयास्तलग्ने न्यूनाधिके यस्य खगः स दृश्यः। दिनेऽपि चन्द्रोरविसन्निधानात् नास्तंगतश्चेत् सति दर्शने भा”। “नक्षत्राणामप्युदयास्तज्ञापनमपि तत्रैव “दृक्कर्मणा पलभवेन तु केबलेन भानां मुनेर्मृगरिपोरुदयास्तलग्ने। कृत्वा तयोरुदयलग्नमिनं प्रकल्प्यंलग्नं ततो निजनिजे पठितेष्टकाले”। यत् स्यादसावुदयभानुरथास्तलग्नाद्व्यस्तं विभार्धमपि लग्नकमस्तसूर्यः। इष्टोनषष्टि ६० घटिकास्वथ वास्तलग्नाल्लग्नं क्रमेण भदलोनितमस्तसूर्यः। स्यादुद्गमो निजनिजोदयभानुतुल्ये सूर्येऽस्तभास्करसमेऽस्तमयश्च भानाम्। अत्राधिकोनकलिका रविभुक्तिभक्ता यातैष्यवासरमितिश्च तदन्तरे स्यात्। यस्योदयार्कादधिकोऽस्तभानुः प्रजायते सौम्यशरातिदैर्घ्यात्। तिग्मांशुसान्निध्यवशेन नास्ति धिण्यस्य तस्यास्वमयः कथञ्चित्”। “भानामगस्त्यस्य लुब्धकस्य च पूर्ब्बवदुदयास्तलग्ने साध्ये परन्तु केबलेन पलभवेन दृक्कर्मणा। द्रवस्य सता यनदृक्वर्मकत्वात् पुनरायनं दृक्कर्म न कर्त्तव्यमित्यर्थः। तत्रोदयलग्नमर्कं प्रकल्प्य लग्नं साध्यम्। तच्च खकाये पठितेष्टकाले। एवं यल्लग्नं सिध्यति स उदयार्को ज्ञातव्यः। अथ यदस्तलग्नमानीतं तच्चार्क प्तर्कल्प्य निजीतजेष्टकाते विलोमं लग्नं साध्यम्। तद्राशिवदृकाममस्तसूर्यरज्ञ” भवति। अथवेष्टघटिकोनाभिः षष्टिघटिकामिरस्त लग्नात् क्रमेण लग्नं साधितं तद्भदलोनितमस्तसूर्योभवति यदोदयभानुसमो भानुर्भवति तदा तस्य नक्षत्रस्योदयो भवति। यदास्तसूर्यसमस्तदास्तमयः। यदागस्त्योदयः किलाभीष्टदिनात् कियद्भिर्दिनैरिति विज्ञातुमिष्यते तदेष्टदिनार्कस्यागस्त्योदयार्कस्य चान्तरकला रविभुक्त्या भाज्याः। लब्धदिनैरगस्त्यस्योदय एष्यः यद्युदयार्को महान्। यद्यूनस्तदा गतः। अत्रोपपत्तिः उदयास्तलग्नसाधने तु पूर्ब्बं कथितैव। उदयलग्नोदये किल भस्योदयः यदीदयलग्नसमो रविर्भवति तदा रविणा सह तन्नक्षत्रमुदेति। तस्मादुदयात् प्राक् पठितेष्टघटिकातुल्यं कालं यावत् तन्नक्षत्रं रविप्रभाभिर्हतं क्षितिजादुपरिस्थमपि न दृश्यते। अथ पठितेष्टकाले यत् क्रमलग्नं तत्स्थानस्थितो रविरुदयार्कतुल्यो भवति तथा रव्यस्तमयादनन्तरं नक्षत्रास्तमयात् पूर्ब्धं प्रत्यक् क्षितिजादुपरिस्थमपि नक्षत्रं पठितेष्टकालं यावन्न दृश्यते। अथ नक्षत्रस्य क्षितिजादुपरिस्थितत्वात् प्रत्यक्क्षितिजस्थेनार्केण न्यूनेन भवितव्यम्। अतोऽस्तलग्नात् पठितेष्टकाले व्यस्तं कार्यम्। तल्लग्नं प्राक्क्षितिजस्थं भवति। अतः षड्भोनितं प्रत्यक्क्षितिजेऽस्तसूर्यो भवतीत्युपपन्नम्। इष्टोनषष्टि ६० घटिकास्वित्यादौ वासना सुगमैव। यस्य नक्षत्रस्योदस्तार्कादस्तार्कोऽघिको भवति तस्य नक्षत्रस्यार्कसान्निध्यवशादस्तं नास्तीति वेदितव्यम्। इदं कुत इत्यत आह सौम्यशरातिदैर्घ्यात्। थस्य भस्य सौम्यः शरी दीर्घो भवति तस्य पलोद्भवासवो बहवो भवन्ति।। तैर्विलोमलग्ने क्रियमाणे उदयलग्नमूनं भवति। अस्तलग्नं क्रियमाणमधिकं भवति। ताभ्यां ह्युदयास्तार्कौ साध्यौ। तत्रास्तार्केण किल न्यूनेन भवितव्यम्। अस्तार्कसमे रवौ किलादृश्यतारम्भस्ततः कियन्ति च दिनान्यदृश्यं भूत्वोदयार्कसमे रवौ तद्धिष्ण्यमुदेति। अत उदयार्केणाधिकेन भवितव्यम्। यतोऽर्कसन्निधिवशेनैतावुदयास्तौ। यथा यथा सौम्यशरस्य दीर्घत्वं यथा यथाक्षवशेन गोलस्य दक्षिणतो नामनं तथा तथोदयास्तार्कयोरल्पमन्तरं भवति। अल्पान्तरेऽल्पान्येव दिनानि तन्नक्षत्रमदृश्यं भवति। एवं यस्मिन् देशे उदयास्तार्कौ तुल्यो भवतस्ततः परं तस्मिन् देशे तस्य नक्षत्रस्यार्कासन्नभावेनादृश्यता इति युक्तितः सिद्धम्” प्रमि०। अस्तलग्नसाधनमप्युक्तं तत्रैव “यत्र लग्नमपमण्डलं कुजे तद्गृहाद्यमिह लग्नमुच्यते। प्राचि। पश्चिमकुजेऽस्तलग्नकं मध्यलग्नमिति दक्षिणोत्तरे” कुजे भूमिमण्डलगते रेखावृत्ते अपमण्डलं ततो निस्मरदुन्मण्डलम्। ग्रहाणामुदयास्तांशानाह तत्रैव। “प्राच्यामुदेति क्षितिजोऽष्टदस्रैः २८ शक्रै १४ र्गुरुः सप्तकुभिश्च १७ मन्दः। स्वस्वोदयान्तोनित ३६० चक्रभागै- ३३२। ३४६। ३४३। स्त्रयो व्रजन्त्यस्तमयं प्रतीच्याम्। खाक्षै ५० र्जिनै २४ र्ज्ञसितयोरुदयः प्रतीच्यामस्तञ्च पञ्चतिथिभि १५५ र्मुनिसप्तभूभिः १७७। प्रागुद्गमः शरनखै २०५ स्त्रिधृतिप्रमाणै–१८३ रस्तश्च तत्र दशवह्निभि ३१० रङ्गदेवैः ३३६। अवक्रबक्रास्तमयोदयोक्तभागाधिकोनाः कलिका विभक्ताः। द्राक्केन्द्रभुक्त्याप्तदिनैर्गतैष्यैरवक्रवक्रास्तमयोदयाः स्युः”। “बाले वा यदि वा वृद्ध्वे शुक्रे चास्तमुपागते। मलमास इवैतानि वर्ज्जयेद्देवदर्शनम्। पक्षं वृद्धस्तु पूर्ब्बेण दशाहं पश्चिमेज तु। प्रत्यग्बालो दशाहन्तु पूर्ब्बेण च दिनत्रयम्” ज्यो० त० पूर्ब्बेणेति प्रातःप्रातः पूर्ब्बदिशि दृष्ट्वा रविकिरणाच्छन्नतया न दृश्यते चेद्ग्रहस्तदा प्रागस्तमितः तत्रास्तमितात् प्राक् पक्षं वृद्धः। पश्चिमेनेति। एवं सायंसायं अपरदिशि दृष्ट्वा रविकिरणाच्छन्नतया न दृश्यते चेद्ग्रहस्तदा प्रत्यगस्तमितस्तत्रास्तमितात् प्राक् दशाहं वृद्धः”। “द्वात्रिंशद्दिवसाश्चास्ते जीवस्य भार्गवस्य च। द्वासप्ततिर्महत्यस्ते पादास्ते द्वादश क्रमात्”। इति ज्योतिर्विदुक्तकालानन्तरमपरदिशि दृश्यते चेत्तदा दशाहं प्रत्यग्बालः पूर्ब्बदिशि चेत्तदा दिनत्रयं प्राग्बाल इति भङ्ग्यन्तरेणाह। “पक्षं वृद्धोमहास्ते तु बालश्चात्र दशाहिकः। पादास्ते तु दशाहानि वृद्धोबालोदिनत्रयम्” इति च ज्यो० त० रघु०।

अस्तक = पु० अस्तं अपुनरावृत्तिम् अवसानं वा करोरि अस्त + णिच्–ण्वुल्। निर्व्वाणमोक्षे।

अस्तग = त्रि० अस्तमदर्शनं गच्छति गम–ड ६ त०। २ सूर्य्यकिरणाच्छन्नतया अदृश्ये ग्रहे २ अदर्शनगतमात्रे च। अस्तगतादयोऽप्यत्र।

अस्तगमन = न० अस्तस्यादर्शनस्य गभनम्। ग्रहाणां स्वाक्रान्तराश्यपेक्षया सप्तमराश्युदये अदर्शनगमने “भीमसेनं भजेथास्त्वं प्रागस्तगमनाद्रवेः” भा० आ० प० १५५ अ०।

अस्तम् = अव्य० अस–तमि। १ नाशे, २ अदर्शने च। “दण्डेनास्तमितत्विषा” कुमा०। “राज्यमस्तमिरेश्वरम्” रघुः। “सर्व्वञ्च तिलसंबन्धं नाद्यादस्तमिते रवौ”। “नेक्षेतोद्यन्तमादित्यं नास्तंयान्तं कदाचन” चतुरोऽस्तमिते सूर्य्ये शिशुचान्द्रायणं स्मृतम्” मनुः। “धृतिरस्तमिता गतिश्चुत्रता” रघुः।

अस्तमती = स्त्री अस्तमतति अत–अच्–गौरा० ङीष्। शालपर्ण्णी वृक्षे

अस्तमन = न० अन–बा–भावेऽप् अस्तम् अस्थस्य अनः गतिः। भूगोलकक्षया तिरोधानेन, १ सूर्य्यादेरदर्शनगमने “तिरोघानञ्च यत्रैति तदेवास्तमनं रवेः। नैवास्तमनमर्कस्य नोदयः सर्व्वदा सतः” इति ज्योतिषोक्तेस्तथात्वम् ब०। “उदयास्तमने नाथ! दर्शनादर्शने रवेः” पुरा० “उदयास्तंमनज्ञोहि न हृष्यति न शोचति” भा० ब० २५७ अ०। सूर्य्यास्तमनवेलायामासेदुस्ते महद्वनम्” भा० आ० प० २ अ० “उदयास्तमने भानुः प्रदक्षिणमवर्त्तत” भा० भी० प०। २ तत्काले च।

अस्तमय = पु० अस्तोमीयते ज्ञायते यत्र मिन्–अच् वा न आत्। १ प्रलये, २ सूर्य्यादेरदर्शने “करोत्यकालास्तमयं विवस्वतः” किरा०। “उदयश्चनाम सवितुस्तन्निवासिनां प्राणिनां चक्षुर्गोचरापत्तिस्तदत्ययश्चास्तमयः न परमार्थत उदयोऽस्तमयोवा” तन्निवासिनाञ्च प्राणिनामभावे तान् प्रति तेनैव मार्गेण गच्छन्नपि नैवोदेता नास्तमेतेति चक्षुर्गोचरतापत्तेस्तदत्ययस्य च तत्राभावात्” छा० उ० भाष्यम्। तथा च भूवृत्तार्द्धान्तरालस्थानएवोदयास्तमयौ भवतः “लङ्कापुरेऽर्कस्य यदोदयः स्यात् तदा दिनार्द्धं यमकोटिपुर्य्याम्। अघस्तदा सिद्धपुरेऽस्तकालःस्याद्रोमके रात्रिदलं तथैव” सि० शि०। भूवृत्त चतुर्थांशे स्थितानां पुरांमध्ये प्रथमपुर्य्यामुदये तृतीयेऽस्तत्वोक्तेस्तथात्वम्। शा० भाष्ये तु यदाऽमरावत्यां मध्याह्नगतः सविता तदा सांयामिन्यासुद्यन् दृश्यते तत्र मध्याह्नगोचरोवारुण्यासुद्यन् दृश्यते इत्युक्तम्” ग्रहाणां च सूर्य्यस्यातिप्रत्यासत्त्या प्रकाशाभावोऽस्तत्वम् तद्वियोगे चोदयः। “रविणास्तमयोगो वियोगस्तूदयो भवेत्” इत्युक्तेः अन्यग्रहाणां ३ रवियोगे च।

अस्तरण = न० अभावे न० त०। स्तरणाभावे। तत्र दीयते कार्य्यम् वा व्युष्टा० अण्। आस्तरणम् तत्र देये कार्ष्ये च त्रि०।

अस्ताघ = त्रि० अस्तमघं कालुष्य–यत्र। अतिगभीरे हेम०।

अस्ताचल = पु० अस्यन्ते किरणा यत्र आधारे क्त कर्म०। पश्चिमाचले अस्तगिरौ। “अस्ताचलचूडावलम्बिनि भगवति मरीचिमालिनि” काद० अस्ताद्रिप्रभृतयोऽप्यत्र।

अस्ति = अव्य० अस्–श्तिप्। १ स्थितौ, विद्यमानतायाञ्च “अस्ति नास्वि न जानातीति” चाण०। २ तद्वति च अस्तिक्षीरा अस्तिपरलोक इति मतिर्यस्य आस्तिकः नास्तिकः। चतुरर्य्यां पक्षा० फक्। आस्तायनः। तत्सन्निकृष्टदेशादौ त्रि०।

अस्तिकाय = पु० अस्ति कायः स्वरूपं यस्य। जैनमतसिद्धे विद्यमानतास्वरूपे पदार्थभेदे। अस्तिकायाश्च पञ्चविधाः जीवास्तिकायः पुद्गलास्तिकायः धर्म्मास्तिकायः अधर्म्मास्तिकायः आकाशास्तिकायश्चेति अर्हच्छब्दे ३८६ पृष्ठे विवरणम्। शा० भाष्ये तन्ममतमुन्यस्य निराकृतं यथा “सर्व्वेषामप्यन्येषामवान्तरप्रभेदान् बहुविधान् स्वसमयपरिकल्पितान् वर्ण्णयन्ति। सर्वत्र चेमं सप्तभङ्गीनयन्यायमवतारयन्ति। स्यादस्ति स्यान्नास्ति स्यादस्ति च नास्ति च स्याद वक्तव्यः स्यादस्ति चावक्तव्यः स्यान्नास्ति चावक्तव्यः स्यादस्ति नास्तिचावक्तव्यश्चेति। एवमेवैकत्वनित्यत्वादावपीमं सप्तभङ्गीनयुंयोजयन्ति। अत्राचक्ष्महे नायमभ्युपगमोयुक्त इति। कुतः “एकस्मिन्न सम्भवात्” सू०। नह्येकस्मिन् धर्मिणि युगपत्सदसत्त्वादि विरुद्धधर्मसमावेशः सम्भवति शीतोष्णवत्। यएते सप्त पदार्था निर्द्धारिता एतावन्त एवंरूपाश्चेति ते तथैव वा स्युः। नैव वा तथा स्युः। इतरथा हि तथा वा स्यु र्न तथा वेत्य निर्द्धारितरूपं ज्ञानं संशयज्ञानवदप्रमाणमेव स्यात्। ननु अनेकात्मकं वस्त्विति निर्द्धारितरूपमेव ज्ञानमुत्पद्यमानं संशयज्ञानवन्नाप्रमाणं सम्भवितुमर्हति। नेति व्रूमः निरङ्कुशं ह्यंनेकान्तं सर्व्ववस्तु प्रतिजानानस्य निर्द्धारणफलस्यापि वस्तुत्वाविशेषात् स्यादस्तिस्यान्नास्तीत्यादिविकल्पोपनिपातादनिर्द्धारणात्मकतैव स्यात्। एवं निर्द्धारयितुर्निर्द्धारणाफलस्य च स्यात्। पक्षेऽस्तिता स्याच्चापक्षे नास्तितेत्येवं सति कथं प्रमाणभूतः संस्तीर्थकरः प्रमाणप्रमेयप्रमातृ प्रमितिष्वनिर्द्धारितासूपदेष्टुं शक्नुयात् कथं वा तदभिप्रायानुसारिणस्तदुपदिष्टेऽर्थेऽनिर्द्धातिरूपे प्रवर्त्तेरन्। ऐकान्तिफलत्वनिर्द्धारणे हि सति तत्साधनानुष्ठानाय सर्व्वोलोकोऽनाकुलः प्रवर्त्तते नान्यथा। अतश्चानिर्द्धारितार्थं शास्त्रं प्रणयन्मत्तोन्मत्तवदनुपादेयवचनः स्यात्। तथा पञ्चानामस्तिकायानां पञ्चत्वसंख्यास्ति वा नास्ति वेति विकल्प्यमानं स्यादिति तदैकस्मिन् पक्षे। पक्षान्तरे तु न स्यादित्यतोन्यूनसंख्यात्वमधिकसंख्यात्वं वा प्राप्नुयात्! नचैषां पदार्थानामवक्तव्यत्वं सम्भवति अवक्तव्याश्चेन्नोच्येरन् उच्यन्ते चावक्तव्याश्चेति विप्रतिषिद्धम्। उच्यमानाश्च तथैवावधार्य्यन्तेनाबधार्य्याश्च इति च तथावदवधारणफलं सम्यग्दर्शनमस्ति वा नास्ति वा एवं तद्विपरीतमसम्यग्दर्शनमप्यस्ति वा नास्ति वेति प्रलपन्मत्तोन्मत्तपक्षस्यैव स्यान्न प्रत्याययितरूपपक्षस्य। स्वर्गापवर्गयोश्च पक्षे भावः पक्षेचाभावः तथा पक्षे नित्यता तथा पक्षेचानित्यता इत्यनवधारणायां प्रवृत्त्यनुपपत्तिः। अनादिसिद्धजीवप्रवृत्तीनाञ्च स्वशास्त्रावधृतभावानामयथावधृत स्वभावत्वप्रसङ्गः। एवं जीवादिषु पदार्थेष्वेकस्मिन् धर्मिणि सत्त्वासत्त्वयोर्विरद्धयोरसम्भवात् सत्त्वे चैकस्मिन् धर्मेऽसत्त्वस्य धर्म्मान्तरस्यासम्भवादसत्त्वे चैवं सत्त्वस्यासम्भवाद सङ्गतमिदमार्हतं मतम्। एतेनैकानेकनित्यव्यतिरिक्ताव्यतिरिक्ताद्यनेकान्ताभ्युपगमानिराकृतामन्तव्याः। यत्तु पुद्गलसंज्ञकेभ्योऽणुभ्यः सङ्घाताः सम्भवन्तीति कल्पयन्ति तत् पूर्ब्बेणैवाणुवादनिराकरणेन निराकृतम्भवतीत्यतोन पृथङ्निराकरणाय प्रयत्यते”। अस्तिनास्तिकायादयोऽप्युन्नेयाः। अणुवादनिराकरणञ्चारम्भवादशब्दे दृश्यम्।

अस्तिक्षीरा = स्त्री अस्ति क्षीरं यस्याः। बहुदुग्धवत्यां स्त्रीगव्यादौ।

अस्तित्व = न० अस्ति भावः त्व। विद्यमानत्वे। “न हि देहान्तरसम्बन्धिन आत्मनः प्रत्यक्षेणास्तित्वज्ञाने लौकायतिकाः बौद्धाश्च प्रतिकूलाः स्युः नास्त्यात्मेति” वृ० उ० भा०। “सर्व्वोह्यात्मास्तित्वं प्रत्येति न नाहमस्मीति” शा० भा०। तल्। अस्तिताप्यत्र स्त्री। “गौरस्तितावान् अस्तिपदसमभिव्याहृतगौःपदस्मारितत्वात्” शब्दश०।

अस्तिमत् = त्रि० अस्ति विद्यमानं धनमस्य मतुप्। धनिनि स्त्रियां ङीप्।

अस्तु = अव्य० अस–दीप्तौ तुन्। १ अनुज्ञायां, २ पीडायाम् ३ प्रतिक्षेपे ४ असूयायाम्, ५ प्रकर्षे, ६ अङ्गीकारे, ७ प्रशंसायाम्, ८ लक्षणे, ९ असूयापूर्बकाङ्गीकारे च। “अस्तोश्चेति वक्तव्यम्” वार्त्ति० सम्। अस्तुङ्कारः अभ्युपगमः।

अस्तेन = त्रि० न० त०। चोरभिन्ने।

अस्तेय = न० अभावे न० त०। १ स्तेयाभावे। “लोभस्य पुरतः केऽमी सत्यास्तेयापरिग्रहाः” प्रबोधच० “अहिंसासत्यास्तेयब्रह्मचर्य्यापरिग्रहायमाः” पात० सू० उक्ते २ यमभेदे च “बलाद्रहसि वा परवित्ताहरणं स्तेयं तदभावोऽस्तेयम्” वृत्तिः। तादृशयमानुष्ठानेऽवान्तरफलमपि तत्र दर्शितम्। “अस्तेयप्रतिष्ठार्या सर्वरत्नोपस्थानम्” पात० सू०। दिव्यरत्नानां स्वयमागत्यनिकटे उपस्थितिरित्यर्थः।

अस्तोभ = त्रि० नास्ति स्तोभः हुंफडादिः निरर्थकः शब्दोयत्र निरर्थकशब्दशून्ये “अस्तोभमनवद्यञ्च सूत्रं सूत्रविदो विदुः” विवरणं स्तोभशब्दे।

अस्त्य = न० अस्ति विद्यमानतायै हितम् यत्। गृहे निरुक्ते पाठान्तरम्।

अस्त्यान = न० स्त्यै–क्त भावे न० त०। १ निन्दायाम्, २ मर्त्सने च। कर्त्तरि क्त स्त्यानः संहत न० त०। तद्भिन्ने त्रि०।

अस्त्र = न० अस्यते क्षिप्यते अस–ष्ट्रन्। १ क्षोप्यास्त्रे शरादौ करणे ष्टुन्। २ चापे, धनुपि ३ रिपुक्षेपणसाधने प्रहरण मात्रे खड्गादावपि। “प्रयुक्तमप्यस्त्रमितो वृथा स्यात्” “प्रत्याहतास्त्रो गिरिशप्रभावात्”। “अतिप्रबन्धप्रहितास्त्र वृष्टिभिः” इति च रघुः। “अस्त्रज्वालावलीढप्रतिबलजलधेरन्तरौर्वायमाणः” वेणी०।

अस्त्रकण्टक = पु० अस्त्रं कण्टकैव। वाणे तस्याग्रस्य कण्टकाकारत्वात्तथात्वम्।

अस्त्रकार = त्रि० अस्त्रं करोति निर्म्मिमीते कृ–अण् उप० स०। शस्त्रनिर्म्माणकारके। ण्वुल्। अस्त्रकारकोऽप्यत्र।

अस्त्रचिकित्सा = स्त्री अस्त्रेण चिकित्सा। सुश्रुतोक्ते अस्त्रेण चिकित्साभेदे सा च यथा। “अस्मिन् शास्त्रे शस्त्रकर्म्मप्राधान्याच्छस्त्रकर्म्मैव तावत् पूर्व्वमुपदेक्ष्यामस्तत्सम्भारांश्च।। तच्च शस्त्रकर्म्माऽष्टविधम्। तद्यथा। छेद्यं भेद्यं लेख्यं वेध्यमेष्यमाहार्य्यं विस्राव्यं सीव्यमिति।। अतोऽन्यतमं कर्म्म चिकीर्षता वैद्येन पूर्व्वमेवोपकल्पयितव्यानि तद्यथा यन्त्रशस्त्रक्षाराग्निशलाकाशृङ्गजलौकालावूजाम्बवोष्ठपिचुप्लोतसूत्रपत्रपदृमधुघृतवसापयस्तैलतर्पणकषायालेपनकल्कव्यजनशीतोष्णोदककटाहादीनि परिकर्म्मिणस्तु स्निग्धाः स्थिरा बलवन्तः।। ततः प्रशस्तेषु तिथिकरणमुहूर्त्तनक्षत्रेषु दध्यक्षतान्नपानरत्नैरग्निं विप्रान् भिषजश्चार्च्चयित्वा कृतबलिमङ्गलस्वस्तिवाचनं लघु भुक्तवन्तं प्राङ्मुखमातुरमुपवेश्य यन्त्रयित्वा प्रत्यङ्मुखो वैद्यो मर्म्मसिरास्नायुसन्ध्यस्थिघमनीः परिहरन्ननुलीमं शस्त्रं निदध्यादापूयदर्शनात् सकृदेवापहरेच्छस्त्रमाशु च। महत्स्वपि च पाकेषु द्व्यङ्गुलं त्र्यङ्गुलं वा शस्त्रपदमुक्तं तत्रायतो विशालः समः सुविभक्त इति ब्रणगुणाः भवतस्तात्र।। आयतस्तु विशालस्तु सुविभक्तो निराश्रयः। प्राप्तकालकृतश्चापि व्रण कर्म्मणि शस्यते।। शौर्य्यमाशुक्रिया शस्त्रतैक्ष्ण्यमस्वेदवेपथू। असंमोहश्च वैद्यस्य शस्त्रकर्म्मणि शस्यते।। एकेन वा व्रणेनाशुध्यमानेनान्तराबुद्ध्यावेक्ष्यापरान् व्रणान् कुर्य्यात्। भवति चात्र।। यतो यतो गतिं विद्यादुत्सङ्गो यत्र यत्र च। तत्र तत्र व्रणं कुर्य्याद्यथा दोषो न तिष्ठति।। तत्र भ्रूगण्डशङ्खललाटाक्षिपुटौष्ठदन्तवेष्टकक्षाकुक्षिवङ्क्षणेषु तिर्य्यक्छेद उक्तः। चन्द्रमण्डलवच्छेदान् पाणिपादेषु कारयेत्। अर्द्धचन्द्राकृतींश्चापि गुदे मेढेऋ च बुद्धिमान्।। अन्यथा तु सिरास्नायुच्छेदन। दतिमात्रं वेदना चिराद्व्रणसंरोहो मांसकन्दीप्रादुर्भावश्चेति। मूढगर्भोदरार्शोऽश्मरीभगन्दरमुखरोगेष्वभुक्तवतः कर्म्म कुर्व्वीत। ततः शस्त्रमवचार्य्य शीताभिरद्भिरातुरमाश्वास्य समन्तात्परिपीड्याङ्गुल्या व्रणमभिमृज्य प्रक्षाल्य कषायेण प्लोतेनोदकमादाय तिलकल्कमधुसर्पिःप्रगाढामौषधयुक्तां वर्त्तिं प्रणिदध्यात्। ततः कल्केनाच्छाद्य नातिस्निन्धां नातिरूक्षां घनाङ्कवलिकान्दत्त्वा वस्त्रपट्टेन बघ्नीयाद्वेदनारक्षोघ्नैर्धूपै र्धूपयेद्रक्षोघ्नैश्च मन्त्रैरक्षां कुर्वीत। ततोगुग्गुल्वगुरुसर्जरसवचागौरसर्षपचूर्णैर्लवणनिम्बपत्रव्यामिश्रैराज्ययुक्तै र्धूपैर्धूपयेत्। आज्यशेषेण चास्य प्राणान् समालभेत”। “ततः कृतरक्षमातुरमागारं प्रवेश्याचारिकमादिशेत्। ततस्तृतीयेऽहनि विमुच्यैवं बघ्नीयाद्वस्त्रपट्टेन नचैनं त्वरमाणोऽपरेद्युर्म्मोक्षयेत्। द्वितीयदिवसे परिमोक्षणाद्विग्रथितो व्रणश्चिरादुपसंरोहति तोव्ररुजश्च भवन्ति। अत ऊर्द्ध्वं देशकालबलादीनवेक्ष्य कषायालेपनबन्धाहाराचारान्विध्यात्। नचैनं त्वरमाणः सान्तर्दोषं रोपयेत् स ह्यल्पेनाप्यपचारेणाभ्यन्तरमुत्सङ्गं कृत्वा भूयोऽपि विकरोति।। भवन्ति चात्र। तस्मादन्तर्ब्बहिश्चैव सुशुद्धं रोपयेद्व्रणम्। रूढेऽप्यजीर्ण्णव्यायामव्यघायादीन् विवर्जयेत्। हर्षं क्रोधं भयञ्चापि यावदास्थैर्य्य सम्भवात्।। हेमन्ते शिशिरे चैव वसन्तेचापि मोक्षयेत्। त्र्यहाद्द्व्यहाच्छरद्ग्रीष्मवर्षास्वपि च बुद्धिमान्।। प्रदीप्तागारवच्छीघ्रं तत्र कुर्य्यात् प्रतिक्रियाम्।। या वेदना शस्त्रनिपानजाता तीव्रा शरीरं प्रदुनोति जन्तोः। घृतेन सा शान्तिमुपैति सिक्ता कोष्णेन यष्टीमधुकान्वितेन।। अतिपातिषु रोगेषु नेच्छेद्विधिमिसं भिषक्” अस्त्राकारादि विवरणं तत्रैव “विंशतिः शस्त्राणि।। तद्यथा। लण्डलाग्रकरपत्रवृद्धिपत्रनखशस्त्रमुद्रिकोत्पलपत्रकार्द्धधारसूचीकुशपत्राटीमुखशरारीमुखान्तर्मुखत्रिकूर्चकुठारिकाव्रीहिमुखारावेतसपत्रकवडिशदन्तशङ्क्वेषण्य इति। तत्र मण्डलाग्रकरपत्रे स्यातां छेदने लेखने च। वृद्धिपत्रनखशस्त्रमुद्रिकोत्पलपत्रकार्द्धधाराणि छेदने भेदने च। सूचीकुशपत्राटीमुखशरारीमुखान्तर्मूखत्रिकूर्चकानि विस्रावणे। कुठा रिकाव्रीहिमुस्वारावेतसपत्रकाणि व्यधने सूची च। वडिशोदन्तशङ्कुश्चाहरणे। एषण्येबणे आनुलोभ्ये च। सूच्यः सेवने। इत्यष्टबिघे कर्म्मण्युपयोगः शस्त्राणां व्याख्यातः। तेषामथ यथायोगग्रहणसमासोपायः कर्म्मसु वक्ष्यते। तत्र वृद्धिपत्रं वृन्तफलसाधारणे भागे गृह्णीयाद्भेदनान्येवं सर्वाणि। वृद्धिपत्रं मण्डलाग्रञ्च किञ्चिदुत्तानपाणिना लेखने वहुशोऽवचार्य्य वृन्ताग्रे विस्रावणानि। विशेषेण बालवृद्धसुकुमारभीरुनारीणां राज्ञां राजपुत्त्राणाञ्च त्रिकूर्चकेन विस्रावयेत्। सलप्रच्छादितवृन्तमङ्गुष्टप्रदेशिनीभ्यां व्रीहिमुखम्। कुठारिका वामहस्तन्यस्तामितरहस्तमध्यमाङ्गल्याऽङ्गुष्ठविष्टब्धयाभिहन्यात्। आराकरपत्रैषण्यो मूले। शेषाणि तु यथायोगं गृह्णीयात्। तेषां नामभिरेवाकृतयः प्रायेण व्याख्याताः। तत्र नखशस्त्रैषण्यावष्टाङ्गुले सूच्यो वक्ष्यन्ते वडिशो दन्तशङ्कुश्चानताग्रे तीक्ष्णकण्टकप्रथमयवपत्र खे। एषणी गण्डूपदाकारमुखी। प्रदेशिन्यग्रप्रर्व्य प्रदश्म्प्रमांणा मुद्रिका। दशाङ्गुला शरारीमुखी साकर्कर्शोति कथ्यते! शेषाणि तु षडङ्गुलानि। तानि सुग्रहाणि सुलोहाति सुघाराणि सुरूपाणि सुसमाहितमुखाग्राण्यकरालानि चेति शस्त्रसम्पत्। तत्र वक्रं कुण्ठं खण्डं खरधारमतिस्थूलमत्यल्पमतिदीर्घमतिह्रस्वमित्यष्टौ शस्त्रदोषाः। अतो विपरीतगुणमाददीतान्यत्र करपत्रात्तद्धि खरधारमस्थिच्छेदनार्थम्। तत्र धारा भेदनानां मासूरी। लेख नानामर्द्धमासूरी। व्यधनानां विस्रावणानाञ्च कैशिकी। छेदनानामर्द्धकैशिकीति। तेषां पायना त्रिविधा क्षारोदकतैलेषु। तत्र क्षारपायितं शरशल्यास्थिच्छेदनेषु। उदकपायितं मांसच्छेदनभेदनपाटनेषु तैलपायितं सिराघनस्नायुच्छेदनेषु। तेषां निशानार्थं श्लक्ष्णशिला माषवर्ण्णा। धारासंस्थापनार्थं शाल्मलीफलकमितिं। भवति चात्र। यदा सुनिशितं शस्त्रं रोमच्छेदि सुसंस्थितम्। सुगृहीतं प्रमाणेन तदा कर्म्मसु योजयेत्।। अनुशस्त्राणि तु त्वक्सारस्फटिककाचकुरुविन्दजलौकाग्निक्षारनखगोजी शेफालिकाशाकपत्रकरीरबालाङ्गुलय इति। शिशूनां शस्त्रभीरूणां शस्त्राभावे च योजयेत्। त्वक्सारादि चतुर्व्वर्गं छेद्ये भेद्ये च बुद्धिमान्।। आहार्य्यच्छेद्यभेद्येषु नखं शक्येषु योजयेत्। विधिः प्रवक्ष्यते पश्चात् क्षारवह्निजलौकसाम्।। ये स्युर्मुखगता रोगा नेत्रवर्त्मगताश्च ये। गोजीसेफालिकाशाकप्रत्रैर्व्वि स्रावयेत्तु तान्।। एष्वेष्वेषण्यलाभे तु बालाङ्गुल्यङ्कुरा हिताः। शस्त्राण्येतानि मतिमान् शुद्धशैक्यायसानि तु। कारयेत्करणैः प्राप्तं कर्म्भारं कर्म्मकोविदम्।। प्रयोगज्ञस्य वैद्यस्य सिद्धिर्भवति नित्यशः। तस्मात्परिचयः कार्य्यः शस्त्राणामादितः सदा”।।

अस्त्रजित् = पु० अस्त्रं तदाघातजं व्रणं जयति निवारकत्वात्। (कवाटवेट्) वृक्षभेदे।

अस्त्रजीविन् = पु० अस्त्रेण जीवति णिनि। अस्त्रव्यापारेण जीविकावति शस्त्रजीव्यादयोऽप्यत्र अण् अस्त्रजीवोऽप्यत्र।

अस्त्रधारिन् = त्रि० अस्त्रं धारयति धारि–णिनि। अस्त्र धारके। ण्वुल्। अस्त्रधारकोऽप्यत्र।

अस्त्रमन्त्र = पु० अस्त्राणां प्रयोगसंहारयोर्मन्त्रः। १ शस्त्रप्रयोगादिमन्त्रभेदे। “सम्मोहनं नाम सखे! ममास्त्रं प्रयोगसंहारविभक्तमन्त्रम्”। “उदङ्मुखः सोऽस्त्रविदस्त्रमन्त्रम्” इति च रघुः। तन्त्रोक्ते अङ्गन्यासान्तर्गते फडिति २ मन्त्रे च।

अस्त्रमार्ज्ज = पु० अस्त्रं मार्ष्टि मृज–अण् उप० स०। शस्त्रतीक्ष्णताकारके। ण्वुल् अस्त्रमार्जकोऽप्यत्र।

अस्त्रयुद्ध = न० ६ त०। अस्त्रेण युद्धे।

अस्त्रविद् = पु० अस्त्रं तत्प्रयोगादि वेत्ति विद्–क्विप् ६ त०। शस्त्रप्रयोगाद्यभिज्ञे “सोऽस्त्रविदस्त्रमन्त्रम्” रघुः।

अस्त्रविद्या = स्त्री ६ त०। १ अस्त्रप्रयोगसंहारज्ञापकविद्यायाम् २ तद्बोधके शास्त्रे च धनुर्वेदशब्दे विवृतिः।

अस्त्रवेद = पु० अस्त्रस्य तत्प्रयोगादेः ज्ञापकोवेदः शाखम्। धनुर्वेदे तच्छब्दे विवृतिः।

अस्त्रसायक = पु० अस्त्रं क्षेप्यं सायकंइव। १ नाराचास्त्रे तस्य सायकतुल्यतया क्षेप्यत्त्वात्तथात्वम्। अस्यते शत्रुरनेन अस–करणे ष्ट्रन् कर्म्म०। २ सर्ब्बलौहमये वाणे।

अस्त्रहीन = त्रि० अस्त्रेण तत्प्रयोगेण बा हीनः। १ अस्त्रशून्यं २ शस्त्रव्यापारशून्ये वाग्युद्धादौ।

अस्त्रागार = न० ६ त०। आयुधागारे शस्त्रादिस्थापनगृहे।

अस्त्राघात = पु० ६ त०। अस्त्रेणाघाते।।

अस्त्राहत = त्रि० अस्त्रेणाहतः। १ शस्त्रहते २ शस्त्रेण क्षते च।

अस्त्रिन् = त्रि० अस्त्रं धनुरस्यास्ति इनि। १ धनुर्द्धरे, २ शस्त्रधारिमात्रेच। “अस्त्रीजनः षुनरनेन कृतः किल स्त्री” उद्भटः।

अस्थाग = त्रि० अस्थामस्थितिं गच्छति गम–ड। अगाधे हेम०।

अस्थान = न० अप्राशस्त्र्ये न० त०। अपकृष्टस्थाने अयोग्यस्थाने “अस्थाने पततामतोव महतामेतादृशी स्याद्गतिः” सा० द०।

अस्थाने = अव्य० स्थाने युक्तं न० त०। अयुक्ते।

अस्थायिन् = त्रि० विरोधे न० त०। चञ्चले स्त्रियां ङीप्।

अस्थावर = त्रि० विरोधे न० त०। स्थावरभिन्ने जङ्गमे। “प्रपौत्रपर्य्यन्तरहितस्य मृतस्य विभक्ताविभक्तस्थावरास्थावरधने पत्नी प्रथममधिकारिणीति दायभागानुसारिणः।

अस्थि = न० अस्यते अस + क्थिन्। मांसाभ्यन्तरस्थे (हाड) इति ख्याते धातुभेदे। अस्थिस्वरूपाद्युक्तं भावप्रका०। “मेदोयत्स्वाग्निना पक्वं वायुना चातिशोषितम्। तदस्थिसंज्ञां लभते स सारः सर्वविग्रहे। अभ्यन्तरगतैः सारैर्यथातिष्ठन्ति भूरुहाः। अस्थिसारैस्तथा देहाध्रियन्ते देहिनां ध्रुवम्। तस्माच्चिरविनष्टेषुत्वङमांसेषु शरीरिणाम्। अस्थीनि न विनश्यन्ति सारा एतानि सर्वथा”। अथास्थ्नां संख्यामाह। “शल्यतन्त्रेऽस्थिखण्डानां शतत्रयमुदाहृतम्। तान्येवात्र निगद्यन्ते तेषां स्थानानि यानि च। सविंशतिशतन्त्व स्थ्नां शाखासु कथितं बुधैः। पार्श्वयोः श्रोणिफलकेवक्षःपृष्ठोदरेषु च! जानीयाद्भिषगेतेषु शतं सप्तदशोत्तरम् ग्रीवायामूर्द्ध्वगां विद्यादस्थ्नां षष्टिं त्रिसंयुताम्”। तत्र शाखागतान्याह। “एकैकस्यां पादाङ्गुल्यां त्रीणि त्रीणि तानि पञ्चदश पादतले पञ्चास्थिशलाकास्तदाधारभूतमेकमस्थि। एवं षट् कूर्चे द्वे २ गुल्फे द्वे २ पार्ष्णावेकैकं २ जङ्घयोर्द्वे २ जानुन्येककैकम् २ एवं त्रिंशदेकस्मिन् सक्थिनि भवन्ति। एतेनेतरसक्थि बाहू च व्याख्यातौ। अथ पार्श्वादिगतान्याह। “पार्श्वयो षट्त्रिंशत् ३६ षट्त्रिंशत् ३६। शिश्ने भगे वा एकं १ नितम्बयोरेकैकं २ त्रिके एकम् १ वक्षस्यष्टौ ८ पृष्ठेत्रिंशत् अक्षकसंज्ञे द्वे २” योगात् ११७। अथ ग्रीवोर्ध्वगतान्याह। ग्रीवायां नव ९ कण्टनाड्यां चत्वारि ४ हन्वोरेकैकं २ दन्तेषु द्वात्रिंशत् ३२ नासायां त्रीणि ३ तालुन्येकं १ गण्डयोरेकैकं २ कर्णयोरेकैकं २ शङ्घयोरेकैकं २ शिरसि षट्। एतान्यस्थीनि पञ्चविधानि भवन्ति तानि यथा “तरुणानि कपालानि रुचकानि भवन्ति च। वलयान्यपि तानि स्युर्नलकानि च कानि चित्। अक्षिकोषश्रुति घ्राणग्रीवासु तरुणानि हि। शिरःशङ्खकपोलेषु ताल्वंसप्रोथजादिषु। कपालानि भवन्त्येषु, दन्तेषु रुचकानि च। प्रायः पार्श्वयुगे पृष्ठे वक्षोजठरपायुषु। पादयोर्बलयानि स्युर्नलकानि ब्रुवेऽधुना। हस्तपादाङ्गुलितले कूर्च्चे च मणिबन्धयोः। बाहुजङ्घाद्वये चापि जानीयान्नलकानि तु”। अथैषां प्रयोजनमाह “मांसान्यन्त्राणि बद्धानि शिराभिः स्नायुभिस्तथा। अस्थीन्यालम्बनं कृत्वा न दीर्य्यन्ते पतन्ति न” सुश्रुते। याज्ञ० तु “प्राधान्यात् अन्याथासंख्याऽभिहिता यथा। “स्थालैः सह चतुःषष्टिर्दन्ता वै विंशतिर्नखाः। पाणिपादशलाकाश्च तासां स्थानचतुष्टयम्। षष्ट्यङ्गुलीनां द्वे पार्ष्ण्योर्गुल्फेषु च चतुष्टयम्। चत्वार्य्यंरत्निकास्थीनि जङ्घयोस्तावदेव तु। द्वे द्वे जानुकपोलोरफलकांससमुद्भवे। अक्ष- तालूषके श्रोणोफलके च विनिर्द्दिशेत्। भगास्थ्येकं तथा पृष्ठे चत्वारिंशच्च पञ्च च। ग्रीवा पञ्चदशास्थिः स्याज्जत्र्वेकैकं तथा हनुः। तन्मूले द्वे ललाटाक्षिगण्डे नासा धनास्थिका। पार्श्वकाः स्थालकैः सार्द्धमर्वुदैश्च द्विसप्ततिः। द्वौ शङ्खकौ कपालानि चत्वारि शिरसस्तथा। उरःसप्तदशास्थीनि पुरुषस्यास्थिसंग्रहः” “अस्थिभिरस्थीनि मांसैर्मासानि त्वचा त्वचम्” इति श्रुतिः “मलमूत्रपुरीषास्थि निर्गतं ह्यशुचि स्मृतम्” मनुः अल्पार्थे कन्। अस्थिकं तत्रार्थे।

अस्थिकृत् = पु० कृ–क्विप् ६ त०। अस्थिकारके मेदसि धातौ। यथा मेदमीऽस्थिकरत्वं तथोक्तम् असृक्करशब्दे ५५८ पृष्ठे।

अस्थिच्छलित = न० “कण्ठकमश्वकर्ण्णं चूर्णितं पिच्छितमस्थिच्छलितं काण्डभग्नं मज्जानुगतमतिपातितं वक्रं छिन्नं पाटितं स्फुटितपिति द्वादशविधमिति” काण्डभग्नमुपक्रम्य “पार्श्वयोरस्थिहीनोद्गतमस्थिच्छलितमिति” सुश्रुतोक्ते काण्डभग्नरूपरोगनिदानभेदे।

अस्थिज = पु० अस्थ्नो जायते जन–ड। अस्थिधातोर्जाते मज्जनि यथा चास्थ्नोमज्जजन्म तथोक्तमसृक्करशब्दे ५५८ पृष्ठे।

अस्थिति = स्त्री अभावे न० त०। १ स्थित्यभावे अस्थैर्य्ये। “अस्थितेश्च शरीरस्य पुंसां चैवायुयः क्षयात्। आनन्त्यात् कुलधर्म्माणां द्वादशाहः प्रशस्यते” इति स्मृतिः। अस्थितिः सङ्गीतमुरजध्वनीनाम्” काद०। २ मर्य्यादाभावे। न० व०। ३ मर्य्यादाशून्ये ४ स्थैर्य्यशून्ये च त्रि०।

अस्थितुण्ड = पु० अस्थीव कठिनं तुण्डमस्य। विहङ्गमे।

अस्थिधन्वन् = पु० अस्थि अस्थिमयं धनुरस्य अनङ् समा०। शिवे।

अस्थिपञ्जर = पु० अस्थि पञ्जर इव। शरीरस्थास्थिसंहये पिञ्जराकारे कङ्काले।

अस्थिप्रक्षेप = पु० मृतस्यास्थ्नां गङ्गाजले विधानेन प्रक्षेपः। विघानेन मृतस्यास्थ्वां गङ्गाजले क्षेपणोतत्प्रकारश्च आदिपु० “भागीरथी यत्र यत्रास्ति तीर्थे कुलद्वये चापि यदा विपन्नः। तदा तदा तत्र तस्याथ भक्त्या भावेन चास्थीनि विनिक्षेपेच्च। स्नात्वा ततः गञ्चगव्येन सिक्त्वा हिरण्यमध्वाज्यतिलैश्च योज्य। ततश्च मृत्पिण्डपुटे निधाय पश्यन् दिशं प्रेतगणोपगूढाम्। नमोऽस्तु धर्म्माय वदन् प्रविश्य जलं स मे प्रीत इति क्षिपेच्च। उत्थाय भास्वन्तमवेक्ष्य सूर्य्यं स दक्षिणां विप्रमुखाय दद्यात्”। “एतदूर्द्ध्वं तीर्थचिन्तामणौ अन्यथा पठितम्” तद्यथा। “स्नात्वातथोत्तीर्य्य च भास्करञ्च दृष्ट्वा प्रदद्यादथ दक्षिणान्तु” इति। “एवं कृते प्रेतपुरस्थितस्य स्वर्गे स्थितिः स्याच्च महेन्द्रतुल्या” इति च। तत्प्रयोगश्च प्रा० त० दृश्यः।

अस्थिभक्ष = पु० अस्थि भक्षयति भक्ष–अण्। (हाडगिला) १ पक्षिणि, २ कुक्कुरे च। भुज–क्विप्। अस्थिभुगादयोप्यत्र।

अस्थिभङ्ग = पु० अ स्थ्नो भङ्गः। अस्थिभञ्जने “अस्थिभङ्गे गवाञ्चैव लाङ्गूलस्य च भेदने” स्मृतिः।

अस्थिमत् = त्रि० अस्थीनि सन्त्यस्य मतुप्। अस्थियुक्ते प्राणिनि “अस्थिमतां तु सत्त्वानां सहस्रञ्च प्रमाप्य च। पूर्णे चानस्यनस्थ्नां तु शूद्रहत्याव्रतं चरेत्”। किञ्चिदेव तु विप्राय दद्यादस्थिमतां बधे। अनस्थ्नां चैव हिंसायां प्राणायामेन शुध्यति” मनुः अस्थिमतां कृकलासादीनामनस्थ्नां मत्कुणादीनाम्” कुल्लू०।

अस्थिमय = त्रि० अस्थ्नोविकारः मयट् स्त्रियां ङीप्। अस्ति निर्म्मिते अस्त्रादौ।

अस्थिमाला = स्त्री अस्थिनिर्म्मिता माला। अस्थिनिर्म्मितगुटिकायां १ मालायाम् ६ त०। २ अस्थिश्रेणौ च।

अस्थिमालिन् = पु० अस्थिमयी मालाऽस्त्यस्य इनि। शिवे।

अस्थियुज् = पु० अस्थि युनक्ति युज–क्विन्। (हाडजोडा) हस्तिशुण्डावृक्षे।

अस्थिर = त्रि० न० त०। स्थिरभिन्ने चञ्चले। “अस्थिरत्वं ध्वजनाम्” काद०।

अस्थिविग्रह = पु० अत्यन्तकृशत्वात् अस्थिसारो विग्रहो देहोऽस्य। १ शिवानुचरे भृङ्गरीटे। २ अतिशीर्ण्णदेहे त्रि०।

अस्थिशृङ्खला = स्त्री अस्थ्नां शृङ्खलेव योजनहेतुः। (हाडजोडा) ग्रन्थिमति वृक्षे। “काण्डं त्वग्विरहितमस्थिशृङ्खलाया माषार्द्धं द्विदलमकञ्चुकं तदर्द्धम्। सम्पिष्टं सुतनु! ततस्तिलस्य तैले संपक्वं वटकमतीव वातहारि” वैद्य०।

अस्थिशेष = त्रि० अस्थिमात्रं शेषोऽस्य। मांसादिशून्ये अतिकृशे।

अस्थिसंहार = पु० अस्थीनि संहरति योजयति सम् + हृ–अण् (हाडजोडा) ग्रन्थिमति वृक्षे। “अस्थिसंहारकः प्रोक्तो वातश्मेष्महरोऽस्थि युक्। उष्णः सारः कृमिघ्नश्च दुर्ण्णामघ्नोऽक्षिरोगजित्। रूक्षः स्वादुर्लघुर्वृष्यः पाचनः पित्तलः स्मृतः” भा० प्र०।

अस्थिसंहारिका = स्त्री अस्थीनि संहरति योजयति सम् + हृ–ण्वुल्। (हाडजोडा) ग्रन्थिमति वृक्षे

अस्थिसञ्चय = पु० मृतस्यास्थ्नां गङ्गाजले प्रक्षेपार्थं सञ्चयः। गङ्गायां प्रक्षेपार्थं प्रथमादिदिने मृतस्य अस्थिसंग्रहे “नान्त्येष्टिर्नास्थिसञ्चयः स्मृतिः” ल्युट्। अस्थिसञ्चयनमप्यत्र न०। अस्थिसञ्चयनञ्च प्रथमादिदिनेषु कार्य्यम्। यथाहसंवर्त्तः। “प्रथमेऽह्नि तृतीये वा सप्तमे नवमे तथा। अस्थिसञ्चयनङ्कार्य्यदिने तद्गोत्रजैः सह”। क्वचित् “द्वितीये त्वस्थिसञ्चय” इत्युक्तम्। वैष्णवेतु “चतुर्थे दिवसेऽस्थि सञ्चयनं कुर्य्यात्तेषाञ्च गङ्गाम्भसि प्रक्षेप” इति। अतोऽन्यतमदिने स्वगृह्योक्तविधिना त्वस्थिसञ्चयनङ्कार्यम्” मिता०। अङ्गिरसा चात्र विशेषो दर्शितः। “अस्थिसञ्चयने यागोदेवानाम्परिकीर्त्तितः। प्रेतीभूतन्तमुदिश्य यः शुचिर्न करोति चेत्। देवतानान्तु यजनन्तं शपन्त्यथ देवताः”। देवताश्चात्र श्मशानवासिन्यः भूतपूर्ब्बदग्धाः। श्मशानवासिनोदेवाः शवानाम्परिकीर्त्तिता” इति तेनैवोक्तम्। अतस्तान्देवान् अचिरमृतञ्च प्रेतमुद्दिश्य धूपदीपादिभिः पिण्डरूपेण चान्नेन तत्र पूजा कार्य्येत्युक्तम्भवति” मिता० प्रा० अध्या०।

अस्थिसम्भव = पु० सम्भवत्यस्मात् सम्भवः अपादाने अप् ब०। अस्थिजाते १ मज्जघातौ यथा च अस्थिजत्वं मज्ज्ञस्तथोक्तमसृक्करशब्दे ५५८ पृ०। २ वज्रे च तस्य दाधीचास्थिज त्वात् तथात्वम् “तमुवाचेन्द्रमाक्रन्दे गरुडः पततां वरः। प्रहसन् श्लक्ष्णया वाचा तथा वज्रसमाहतः। ऋषेर्मानं करिष्यामि वज्रं यस्यास्थिसम्भवम्” भा० आ० ३३ अ०। यथा चास्य तदस्थिजातत्वं तथोक्तमशनिशब्दे ३७४ पृष्ठे ३ अस्थिजातमात्रे त्रि०।

अस्थिसार = पु० अस्थ्रः सारः पाकपरिणामः। अस्थिजाते मज्जधातौ। अस्थ्येव सारो यस्य। रक्तमांसशून्यदेहे त्रि०

अस्थिस्नेह = पु० ६ त०। मज्जनित स्यास्थिसारभूतत्वात्तथात्वम्।

अस्थूरि = पु० स्था–बा० कूरि। एकाश्वयुक्तशकटं स्थूरि न० त० तद्विपरीतम्। बहुभिरश्वादिभिर्युते शकटे। “अस्थूरि गार्हपत्यानि सन्तु” ऋ० ६, १५, १९।

अस्थैर्य्य = न० अभावे न० त०। १ स्थैर्य्याभावे विरोधे न० त०। २ चाञ्चल्ये। न० ब०। ३ स्थैर्य्यहीने त्रि०।

अस्नाविर = त्रि० न० त०। शिरावर्ज्जिते, स्थूलशरीरशून्ये च।

अस्निग्धदारु = न० अस्निग्धं रूक्षं दारु कर्म०। देवदारुभेदे।

अस्नेह = पु० अभावे न० त०। १ स्नेहाभावे न० ब०। २ स्नेहशून्ये त्रि०। स्नेहस्तैलादेर्गुणभेदः प्रेम च।

अस्पन्दन = न० अभावे न० त०। १ चलनाभावे न० ब०। २ क्रियाशून्ये त्रि०।

अस्पर्श = पु० अभावे न० त०। १ स्पर्शासावे न० ब०। २ स्पर्शशून्ये त्रि० “अशब्दमस्पर्शमरूपमव्ययम्” श्रुतिः।

अस्पर्शयोग = पु० “नास्ति स्पर्शःविषयसंबन्धोयत्र कर्म्म०। विषय प्रतिभासशून्ये निर्विकल्पके ज्ञाने “अस्पर्शयोगो वै नाम मर्वसत्त्वसुखो हितः। अविवादो विशुद्धश्च देशितस्तं नमाम्यहम्”।

अस्पष्ट = त्रि० न० त०। अव्यक्ते। “अथेदानीमस्पष्टब्रह्मलिङ्गानि वेदान्तवाक्यानि विचार्य्यन्ते” शा० भा०।

अस्पृश्य = त्रि० न स्प्रंष्टुमर्हः अर्हार्थे क्यप् न० त०। स्पर्शायोग्ये मलमूत्रादौ “मलमूत्रपुरीषास्थि निर्गतं ह्यशुचि स्मृतम्” नारं स्पृष्ट्वा तु सस्नेहं सचेलं जलमाविशेत् मनुः। अस्पृश्य स्पर्शने चैव सद्यः स्नानं समाचरेत्” स्मृतिः। अस्पृश्यद्रव्याणि च प्रायेण अशौचाशुद्धिशब्दयोः उक्तानि।

अस्पृहा = स्त्री अभावे न० त०। “स्पहाभावे”। “नास्पृहेत्तु परखेषु साऽस्पृहा परिकीर्त्ति। न० ब०। २ स्पृहाशून्ये त्रि०।

अस्फुट = त्रि० न स्फुटः। व्यक्तभिन्ने। अनलङ्कृती पुनः क्वापीति का० प्र० व्याख्यायां “अनलङ्कृती अस्फुटालङ्कारौ”। “क्वचित्प्रकाशां क्वचिदस्फुटार्णसम्” नैष०।

अस्फुटवाक् = त्रि० अस्फुटा अव्यक्ता वाक् यस्य। कद्वदे।

अस्मद् = त्रि० अस–मदिक्। अहंप्रत्ययाबलम्बनत्वेन वेद्ये १ प्रत्यगात्मनि, २ देहाभिमानिनि जीवे च। “अहं देवो न चान्योऽस्मि ब्रह्मैवाहं न शोकभाक्” “अहमात्मा गूडाकेश”! गीता “आवां जहि न यत्रोर्वी सलिलेन परिप्लुता” देवी माहा० “सर्वेवयमतः परम्” “मान्तु वेद न कश्चन” गीता “यः सर्व दास्मानपुषत् स्वपोषम्” भट्टिः “मयाऽध्यक्षेण प्रकृतिः सूयते सचराचरम्” गीता। अस्य लिङ्गत्रयेऽपि एकविधं रूपम्। आत्मवाचित्वे एवास्य सर्व्वनामता शब्दपरत्वे न गणकार्य्यम् “अस्मदोद्वयोश्च” पा०। द्विबहुचनपरत्वे अस्मद्–अण्। आस्माकः। खञ् आस्माकीन छ अस्मदीयः। एकवचन परत्वे अण् मामकम् खञ् मामकीनम् छमदीयम्”। तसिल् अस्मत्तः एकवचने मत्तः “मत्तः परतरं नास्ति” गीता।

अस्मत्त्रा = अव्य० अस्मद् + बा० त्राच्। अस्मास्वित्यर्थे। “अस्मत्त्रा ते सध्र्यक् सन्तु” ऋ० १, १३२।

अस्मदीय = त्रि० अस्माकमिदम् छ। अस्मत्सम्बन्धिनि “सहास्मदीयैरपि योधमुख्यैः” गीता।

अस्मद्र्यन्च् = त्रि० अस्मानञ्चति अस्मद् + अन्च–क्विन् अद्र्यादेशः। अस्मदभिमुखे। “तुभ्यमस्मद्र्यञ्चोददतो मघानि” ऋ० ७, १९, १० शसादावचि अस्मद्रीच इत्यादि। स्त्रियाम् ङीप् अस्मद्रीची।

अस्मद्विध = त्रि० अस्माकमिव विधास्य। अस्मादृशे एकवचन परत्वे मद्विधः “न मद्विधे न्यस्यति भारमग्र्यम्” भट्टिः।

अस्मय = त्रि० आत्मन अस्मान् इच्छति क्यच् उ बा० व्यत्ययेन एत्त्वम्। हविःस्वीकारार्थम् आत्मनः अस्मान् इच्छति। “उत त्वमस्मयुर्व्वसो!” ऋ० १, ४१, ७।

अस्माक = त्रि० अस्माकमिदम् अण् अस्माकादेशः नि० वेदे अवृद्धिः। अस्मत्सम्बन्धिनि “स रथेन रथीतमोऽस्माकेनाभियुग्वना” ऋ० ६, ४५, १५। लोके तु आस्माकः।

अस्मि = अव्य० अस–मिन्। अहमर्थे, “त्वामस्मिवच्मि विदुषां समवायोऽत्र तिष्ठति” सा० द०। “अस्मिता”। “दुडुमनास्मि सागरम्” रघुः “ब्रह्मैवास्मि न शोकभाक्”।

अस्मिता = स्त्री अस्मि–भावः तल्। अहमिति ममेतिवेत्यभिमाने “अविद्यास्मितारागद्वेषाभिनिवेशाः” पात० सू० सचाभिमानोमोह इत्युच्यते यथाह सां० कौ०। “देवा ह्यष्टविधमैश्वर्य्यमासाद्यामृताभिमानिनोऽणिमादिकमात्मीयं शाश्वतिकमभिमन्यन्ते इति सोऽयमस्मितामोहोऽष्टविधैश्वर्य्य विषयत्वादष्टविधः” तल्लक्षणमुक्तं पात० सू०। “दृग्दर्शन शक्त्योरेकात्मतेवास्मिता” दृक्शक्तिः पुरुषः दृश्यते इति दर्शनं तच्छक्तिः बुद्धिः शक्तिशब्दोयोग्यतार्थः भोक्तृभोग्ययो रत्यन्तविविक्तयोर्दृग्दृश्ययोरविद्याकृता आत्मता तादात्म्यम् इवशब्देन अहमस्मीत्यस्य भ्रान्तिकृतत्वम् तादात्म्यस्य द्योतितम् सास्मितेत्यर्थः इयं हृदयग्रन्थिरित्युच्यते ब्रह्मवादिभिः इति” वृत्तिः।

अस्मृति = स्त्री अभावे न० त०। स्मरणाभावे।

अस्यवामीय = न० अस्य वामेति शब्दोऽस्त्यत्र सूक्ते मत्वर्थे छ। अस्य वामेति शब्दयुक्ते सूक्ते तच्च सूक्तम् “अस्य वामस्य पलितस्य” इत्यादिकं द्विपञ्चाशदृचम् ऋ० १, १६४, सूक्तम्। “स्तेयं कृत्वा द्विजोमोहात् त्रिरात्रोपोषितः शुचिः। सूक्तं जप्त्वाऽस्यवामीयं क्षिप्रं मुच्येत किल्विषात् “ऋग्विधाने १, २२६,। महाव्रते वैश्वशस्त्रं वैश्वदेवं निविद्वानं द्विप्रतीकं तत्रास्य वामदेवस्येत्यादिकमेकचत्वारिंशदृचं प्रथमं, प्रतीकम् तच्च पञ्चमारण्ये सूत्रितम् “अस्य वामस्य पलितस्य हेतुरिति” दैर्घतमसम् एकचत्वारिंशदृचम् तच्च तस्मिन्नेव सूक्ते “गौरीर्म्मिमाय सलिलानि” इत्यन्तमेकचत्वारिंशदृचम्। “सकृत् जप्त्वास्यवामीयं शिवसङ्कल्पमेव च अपहृत्य सुवर्ण्णन्तु क्षणाद्भवति निर्म्मलः” मनुः कुल्लू० एतद्वाख्याने अस्य वामस्य पतितस्येति पाठः लिपिकरप्रमादकृतः पलितस्येत्येव सूक्ते पाटदर्शनात्।

अस्यहत्य = पु० हन–बा क्यप् न० त० असिना अहत्यः ३ त०। खड्गेनाहननीये अनुशतिकादिकार्य्यम्।

अस्यहेति = पु० असिरहेतिर्यस्य। खड्गासाधने योधे। अनुशतिका०।

अस्युद्यत = त्रि० असिरुद्यतोयेन वा परनि०। उद्धृतखड्गे।

अस्र = पु० अस–रन्। १ कोणे २ केशे च। ३ रुधिरे ४ चक्षुर्जले चन० अश्रशब्दे उदा०।

अस्रकण्ठ = पु० अस्रः कोण इव कण्ठोऽस्य अस्रयुक्तकण्ठो वास्य। वाणे हारा० तस्य पातने हि शत्रुरुधिराक्त मुखत्वात् कोणाकारमुखत्वाच्च तस्य तथात्तम्।

अस्रखदिर = पु० अस्रवर्णः रक्तवर्णः खदिरः। विट्खदिरे।

अस्रज = न० अस्रात् रुधिरात् पाकेन जायते। मांसे। तस्य रुधिरजातत्वमसृक्करशब्दे ५५८ पृष्ठे दृश्यम्।

अस्रप = पु० अस्रं रुधिरं पिबति पा–क। १ राक्षसे २ तद्देवताके मूलानक्षत्रे च। “द्विरागमं लघुध्रुवे चरेऽस्रपे नृदूडुनि” मुहूर्त्त चि० क्विप् अस्रपाष्यत्र।

अस्रपत्रक = पु० अस्रमिव रक्तं पत्रमस्य संज्ञायाम् कन्। रक्तशाके भिण्डावृक्षे।

अस्रपा = स्त्री अस्रं पिवति पा–क्विप् क वा। (जो~क) जलौकसि। तस्याः भेदादिकं सुश्रुते दर्शितं यथा “अथ जलायुका वक्ष्यन्ते। जलमासामायुरिति जलायुका जलमासामोक इति जलौकसः। ता द्वादश तासां सविषाः षट् तावत्य एव निर्विषाः। तत्र सविषाः कृष्णा कर्ब्धुरा अलगर्द्दा इन्द्रायुधा सामुद्रिका गोचन्दना चेति। तास्वञ्जनचूण्णवर्ण्णा पृथुशिराः कृष्णा। कूर्म्ममत्स्यवदायता छिन्नोन्नतकुक्षिः कर्व्वुरा। रोमशा महापार्श्वा कृष्णमुख्यलगर्द्दा। इन्द्रायुधवदूर्द्ध्वराजिभिश्चित्रिता इन्द्रायुधा। ईषदसितपीतिका विचित्रपुष्पाकृति चित्रा सामुद्रिका। गोवृषणवदधोभागे द्विधाभूताकृतिरणुमुखी गोचन्दनेति। ताभिर्दष्टे पुरुषे दंशे श्वयथुरतिमात्रं कण्डूर्मूर्च्छा ज्वरोदाहश्छर्दिर्मदः सदनमिति लिङ्गानि भवन्ति। तत्र महागदः पानालेपननस्यकर्म्मा दिषूपयोज्यः। इन्द्रायुधादष्टमसाध्यमित्येताः सविषाः सचिकित्सिता व्याख्याताः।। अथ निर्विषाः। कपिला पिङ्गला शङ्कुमुखी मूषिका पुण्डरीकमुखी सावरिका चेति। तत्र मनःशिलारञ्जिताभ्यामिव पार्श्वाभ्यां पृष्ठे स्निग्धमुद्गवर्ण्णा कपिला, किञ्चिद्रक्ता वृत्तकाया पिङ्गाशुगा च षिङ्गला। यकृद्वर्ण्णा शीघ्रपायिनी दीर्घतीक्ष्णमुखी शङ्खमुखी। मूषिकाकृति वर्ण्णानिष्टगन्धा च मूषिका। मुद्गवर्ण्णा पुण्डरीकतुल्यवक्त्रा पुण्डरीकमुखी। स्निग्धा पद्मपत्रवर्ण्णाष्टादशाङ्गुलप्रमाणा सावरिका सा च पश्वर्थे। इत्येता अविषा व्याख्याताः।। तासां यवनपाण्ड्यसह्यपीतनादीनि क्षेत्राणि। तेषु महाशरीरा बलवत्यः शीषपायिन्यो महाशना निर्विषाश्च विशेषेण भवन्ति।। तत्र सविषमत्स्यकीटदर्द्दुरमूत्रपुरीष कोथजाताः कलुषेष्वम्भःसु च सविषाः।। पद्मोत्पलनलिनकुमुदसौगन्धिककुवलयपुण्डरीकशैवालकोथजाता विमलेष्व म्भःसु च निर्विषाः।। भवति चात्र।। क्षेत्रेषु विचरन्त्येताः सलिलेषु सुगन्धिषु। न च सङ्कीर्ण्णचारिण्यो न च पङ्केशयाः सुखाः। तासां प्रग्रहणमार्द्र चर्म्मणान्यैर्व्वा प्रयोगैर्गृह्णीयात्। अथैता नवे महति घटे सरस्तडागो दकपङ्कमावाप्य निदध्यात्। मक्ष्यार्थे चासामुपहरेच्छैवलं वल्लूरमौदकांश्च कन्दांश्चूर्ण्णीकृत्य, शय्यार्थं तृणमौदकानि च पत्राणि, द्व्यहात्त्र्यहाच्चान्यज्जलं भक्ष्यं च दद्यात् सप्त रात्रात्सप्तराच्च घटमन्यं संक्रामयेत्। भवति चात्र। स्थूलमध्याः परिक्लिष्टाः पृथ्व्यो मन्दविचेष्टिताः। अग्राहिण्योऽल्पपायिन्यः सविषाश्चन पूजिताः”। अधिकससृग्विमोक्षणशब्दे ५६१ पृष्ठे दृश्यम्।

अस्रफला(ली) = स्त्री अस्रमिव लोहितं फलमस्याः। सल्लकीवृक्षे। भस्त्रादिपूर्ब्बकत्वाभावेन फलान्तस्य प्रामादिकः टाप् जातित्वात् ङीबेव युक्तः।

अस्रमातृका = स्त्री अस्रस्य रुधिरस्य मातेव पोषिका संज्ञायां कन्। अशितान्नादेः रसरूपे देहस्थे प्रथमे धातौ।

अस्ररोधिनी = स्त्री अस्रं क्षतजमाशु रुणद्धि रुध–णिनि। लज्जालुलतायाम्।

अस्रवत् = त्रि० न स्रवति स्रु–शतृ न० त० स्त्रियां ङीप्। १ स्रवद्भिन्ने अक्षरिते “अनागसमस्रवन्तीमारुहेमाम्” ऋ० १०, ६३, १०, अस्रमस्त्यस्य मतुप् मस्य वः। ३ रुधिरयुक्ते त्रि० स्त्रियां ङीप् अस्रवती। सौ अस्रवान् इति भेदः।

अस्रविन्दुच्छदा = स्त्री अस्रविन्दुः रुधिरविन्दुरिव छदो दलं यस्याः। लक्षणानामके वृक्षे।

अस्रार्जक = पु० अस्रं रुधिरं सेवनेनार्ज्जयति अर्ज्ज–ण्वुल्। १ श्वेततुलसीवृक्षे। २ रुधिरोत्पादके रसे च यथाऽस्य रक्तोत्पादकत्वं तथोक्तमसृक्करशब्दे ३ शोणित्पादकमात्रे त्रि०।

अस्रि = स्त्री अस–क्रि। अश्रशब्दार्थे कोणे अश्रिशब्दवत् समासान्तभाक्। चतुरस्रशोभीत्यादि तच्छब्दे उदा० दृश्यम्।

अस्रिध् = त्रि० न स्रेधते स्रिध्–क्विप् न० त०। अच्योतने “मित्रमदितिं दक्षमस्रिधम्” यडु० २५, १५।

अस्रु = न० अस्यते क्षिप्यते अस–रु। चक्षुर्जले अस्य तालव्यान्तताऽपि “श्रुत्वाश्रुत्वाश्रुधारां त्यजतीति” कीचकबधः।

अस्रेमन् = त्रि० स्रिव–मनिन् गुणबलोपौ। १ प्रशस्ये निरु०। २ क्षयहिते च “अमर्त्यासोऽस्रेमाणं तरणिम्” ऋ० ३, २९, १३। “अस्रेमाणं क्षयिरहितम् भा०।

अस्व = त्रि० नास्ति स्वन्धनमस्य। १ निर्द्धने। स्वः स्वकीयः न० त०। २ स्वकीयभिन्ने त्रि०। एतदर्थेऽस्य सर्व्वनामतया अकच्। अस्वकः स्त्रियां तु नित्यमत इत्त्वम् अस्विका।

अस्वच्छन्द = त्रि० विरोधे न० त०। स्वच्छन्दभिन्ने पराधीने।

अस्वजाति = त्रि० न स्वस्येव जातिर्यस्य। भिन्नजातौ यथा विप्रस्य क्षत्रियादि

अस्वतन्त्र = त्रि० विरोधे न० त०। स्वाधीनभिन्ने पराधीने। “अस्वतन्त्रा स्त्री पुरुषप्रधाना इति” वसि०। तस्या अस्वातन्त्र्यञ्च तत्रैव दर्शितम् “पिता रक्षति कौमारे भर्त्ता रक्षति यौवने। पुत्रश्च स्थाविरे भावे न स्त्री स्वातन्त्र्यमर्हति” तथा पुत्रादीनामपि जन्माधीनं स्वत्वमिति स्थावर धनादेर्यथेष्टविनियोगे पित्रादेरस्वातन्त्र्यमिति मिताक्षरायाम् व्यवस्थापितं यथा “तस्मात्पैतृके पैतामहे च द्रव्ये जन्मनैव स्वत्वम्। तथापि पितुरावश्यकेषु धर्मकृत्येषु वाचनिकेषु प्रसाददानकुटुम्बभरणापद्विमोक्षादिषु च स्थावरव्यतिरिक्त द्रव्यविनियोगे स्वातन्त्र्यमिति स्थितम्। स्थावरे तु स्वार्जिते पित्रादिप्राप्ते च पुत्रादिपारतन्त्र्यमेव। “स्थावरं द्विपदञ्चैव यद्यपि स्वयमर्ज्जितम्। असंभूय सुतान्सर्वान् न दानन्न च विक्रयः”। “ये जातायेऽप्यजाताश्च ये च गर्भेव्यवस्थिताः। वृत्तिञ्च तेऽभिकाङ्क्षन्ति न दानन्न च विक्रयः” इत्यादि स्मरणात्। अस्यापवादः “एकोऽपि स्थावरे कुर्य्याद्दानाधमनविक्रयम्। आपत्काले कुटुम्बार्थे धर्म्मार्थे च विशेषतः” इति। अस्यार्थः। अप्राप्तव्यवहारेषु दानानुज्ञानादावसमर्थेषु वा तथाविधेष्वविभक्तेष्वपि सर्व्वकुटुम्बव्यापिन्यामापदि तत्पोषणे चावश्यकर्त्तव्ये स्थावरस्य दानाधमनविक्रयमेकोपि समर्थः कुर्य्यादिति”। यत्तु वचनम्। “अविभक्ता विभक्तावा सपिण्डाः स्थावरे समाः। एकोह्यनीशः सर्व्वत्र दानाधमनविक्रये” इति। तदप्यविभक्तेषु द्रव्यस्य मध्यस्थत्वादेकस्यानीश्वरत्वात्सर्व्वाभ्यनुज्ञा अवश्यं कार्य्या विभक्तेषु तु तदुत्तरकालं विभक्ताविभक्तसंशयव्युदासाय व्यवहारसौकर्य्याय च सर्वाभ्यनुज्ञानं न पुनरेकस्यानीश्वरत्वेन अतो विभक्तानामनुमतिव्यतिरेकेणापि व्यवहारः सिध्यत्येवेति व्याख्येयम्” मिता० व्य० अ०।

अस्वन्त = न० असूनाम् अन्तो यस्मात् ५ ब०। १ चूल्ल्यां तस्याः प्राणिबधहेतुतया मूनास्थानरूपत्वात् तथात्वम्। सुष्ठु न अन्तो यस्य। २ अशुभोदर्के त्रि०। ६ त०। ३ मरणे पु०।

अस्वप्न = पु० नास्ति स्वप्नोनिद्रा यस्य। १ देवे। २ निद्रारहिते त्रि०। देवानां स्वप्नावस्थाराहित्यमुक्तम् शत० ब्रा०। यथा “न वै देवाः स्वपन्त्यनवरुद्धो वा एतस्यास्वप्नो भवति” दिवास्वप्नाभावेऽपि रात्रौ स्वप्नवतोऽस्वप्नत्वमुक्तम् भा० शा० प० २२१३ अ०। “दाननित्यः पवित्रश्च अस्वप्नश्च दिवाऽस्वपन्”।

अस्वर = पु० अप्रशस्तः स्वरोयत्र। १ मन्दस्वरयुक्ते “वचनं दीनमस्वरम्” रामा०। २ स्वरवर्णरहिते व्यञ्जनवर्णमात्रे पु०। ३ उदात्तादिस्वररहिते लौकिकोच्चारणे च।

अस्वरूप = त्रि० न स्वस्येव रूपमस्य। समानस्वभावशून्ये “न त्वस्यरूप” इति मुग्धबो०।

अस्वर्ग्य = त्रि० स्वर्गाय हितं स्वर्ग + यत् न० त०। स्वर्गासाधने “अस्वर्ग्यं लोकविद्विष्टं तस्मात्तत् परिवर्ज्जयेत्” मनुः “अस्वर्ग्यं लोकविद्विष्टं धर्म्म्यमप्याचरेन्न तु” स्मृतिः।

अस्वस्थ = त्रि० न स्वस्मिन् स्वभावे तिष्ठति स्था–क ७ त० न० त०। स्वस्थभिन्ने १ अप्रकृतिस्थे २ रोगादिना उपद्रुते च।

अस्वाच्छन्द्य = न० अभावे न० त०। १ स्वाच्छान्द्याभावे पराधीनत्वे न० त०। २ तद्वति त्रि०।

अस्वातन्त्र्य = न० अभावे न० त०। स्वातन्त्र्याभावे पराधीनत्वे न० त०। २ तद्वति त्रि०।

अस्वादुकण्टक = पु० अस्वादुरमधुरः कण्ठको यस्य। (गोखुरि) अतिकषाये गोक्षुरवृक्षे।

अस्वाध्याय = त्रि० न स्वाध्यायो वेदाध्ययनमस्य। १ वेदाध्ययन हीने “अ(निः)स्वध्यायवषट्कारमिति” स्मृतिः। न स्वाध्यायो यस्मिन्। २ अध्ययननिषिद्धकःले अष्टम्यादौ अनध्यायशब्दे विवृतिः। अधीयते अधि + इङ्–कर्म्मणि घञ् अध्यायः स्वस्य स्ववर्ण्णानुसारेण अध्यायः स्वाध्यायः न० त०। “स्वाध्यायोऽध्येतव्य” इति श्रुत्युक्तस्वाध्यायभिन्ने ३ स्वेनापाठ्येशास्त्रादौ।

अस्वामिक = त्रि० न स्वामी यस्य। १ स्वामिरहिते “अटव्यः पर्व्वताः पुण्या नद्यस्तीर्थानि यानि च। सर्व्वाण्यस्वाभिकान्याहुर्न हि तेषु परिग्रहः” इति स्मृतिः। २ निध्यादौ च। “प्रनष्टमस्वामिकमधिगम्य” गौत०।

अस्वामिकृत = त्रि० अस्वामिना कृतः। अस्वामिना कृते विक्रयादौ “अस्वामिकृतत्वेन तुल्यत्वादिति” मिता०

अस्वामिविक्रय = पु० अस्वामिना कृतो विक्रयः। १ अस्वामिना कृते विक्रये २ तद्विषये व्यवहारभेदे च। यथाह नारदः “निक्षिप्तं वा परद्रव्यं नष्टं लब्ध्वाऽपहृत्य वा। विक्रीयतेऽसमक्षं यत् सज्ञेयोऽस्वामिविक्रय” इति। तत्र किमित्याह या० “स्वं लभेतान्यविक्रीतं क्रेतुर्दोषोऽप्रकाशिते। हीनाद्रहो हीनमूल्ये वेलाहीने च तस्करः” “स्वमात्म सम्बन्धि द्रव्यं अन्यविक्रीतमस्वामिविक्रीतं यदि पश्यति तदा लभेत गृहणीयात्। अस्वामिविक्रयस्य स्वत्वहेतुत्वा भावात्। विक्रीतग्रहणन्दत्ताहितयोरुपलक्षणार्थम् अस्वा- मिकृतत्वेन तुल्यत्वात्। अतएवोक्तम्। “अस्वामिविक्रयन्दत्तमाधिञ्च विनिवर्तयेदिति” क्रेतुः पुनरप्रकाशिते गोपिते क्रये दोषो भवति। तथा हीनात्तद्द्रव्यागमोपायहीनात्। रहसि चैकान्ते सम्भाव्यद्रव्यादपि हीनमूल्येनाल्पतरेण मूल्येन च क्रवे वेलाहीने वेलया हीनोवेलाहीनः क्रयोरात्र्यादौ तत्र कृतः क्रेता तस्करो भवति तस्करवत् दण्डभाग्भवतीत्यर्थः। यथोक्तम्। “द्रव्यमस्वामिविक्रीतम्प्राप्य स्वामी तदाप्नुयात्। प्रकाशक्रयतः शुद्धिः क्रेतुः स्तेयं रहःक्रयादिति” स्वाम्यभियुक्तेन क्रेत्रा किं कर्तव्यमित्यत आह। “नष्टापहृतमासाद्य हर्तारं ग्राहयेन्नरम्। देशकालातिपत्तौ च गृहीत्वा स्वयमर्पंयेत्” या० नष्टमपहृतं वान्यदीयं क्रयादिना प्राप्य हर्तारं विक्रेतारं ग्राहयेच्चौरोद्धरणकादिभिः आत्मविशुध्यर्थं राजदण्डा प्राप्त्यर्थञ्च। “अथाविदितदेशान्तरङ्गतः कालान्तरे वा विपन्नं स्तदा मूलसमाहरणाशक्तेर्विक्रेतारमदर्शयित्वैव स्वयमेव तद्धनन्नाष्टिकस्य समर्पयेत् तावतैवासौ शुद्धो भवतीति” श्रीकराचार्य्येण व्याख्यातम्। तदिदमनुपपन्नम्। विक्रेतुर्द्दर्शनाच्छुद्धिरित्यनेन पौनरुक्त्यप्रसङ्गात्। अतोऽन्यथा व्याख्यायते। नष्टापहृतमिति नाष्टिकम्प्रति अयमुपदेशः। नष्टमपहृतं आत्मीयन्द्रव्यमासाद्य क्रेतृहस्तस्थं ज्ञात्वा तं हर्त्तारं क्रेतारं स्थानपालादिभिर्ग्राहयेत् देशकालातिपत्तौ देशकालातिक्रमे स्थानपालाद्यसन्निधाने तद्विज्ञापनकालात्प्राक्ंपलायनाशङ्कायां स्वयमेव गृहीत्वा तेभ्यः समर्पयेत्। ग्राहिते हर्त्तरि किं कर्त्तव्यमित्यत आह। “विक्रेतुर्दर्शनाच्छुद्धिः स्वामी द्रव्यं नृपोदमम्। क्रेता मूल्यमवाप्नोति तस्माद्यस्तस्य विक्रयी” या० यद्यसौ गृहीतः क्रेता न मयेदमपहृतम् अन्यसकाशात् प्राप्तमिति वक्ति तदा तस्य क्रेतुर्विक्रेत दर्शनमात्रेण शुद्धिर्भवति। न पुनरसावभियोज्यः। किन्तु तत्प्रदर्शितेन विक्रेत्रा सह नाष्टिकस्य विवादः। यथाह वृहस्पतिः। “मूले समाहृते क्रेता नाभियोज्यः कथञ्चन। मूलेन सह वादस्तु नाष्टिकस्य विधीयत” इति। तस्मिंश्च विवादे यद्यस्वासिविक्रयनिश्चयो भवति तदा तस्य नष्टापहृतस्य गवादिद्रव्यस्य यो विक्रयी विक्रेता तस्य सकाशात्स्वामी नाष्टिकः स्वीयं द्रव्यमवाप्नोति नृपश्चापराधानुरूपन्दण्डं क्रेता च मूल्यमवाप्नोति। अथासौ देशान्तरङ्गतस्तदा योजनसंख्ययाऽऽन यनार्थं कालोदेयः। “प्रकाशं वा क्रयं कुर्य्यान्मूलं वापि समर्पयेत्। मूलानयनकालश्च देयस्तत्राध्वसंख्ययेति” स्मरणात्। अथाविज्ञातदेशतया मूलमाहर्तुन्न शक्नोति तदा क्रयं शोधयित्वैव शुद्धो भवति। “असमाहार्यमूलस्तु क्रयमेव विशोधयेदिति” मनुवचनात्। यदा पुनः साक्ष्या दिभिर्दिव्येन वा क्रयं न शोधयति मूलञ्च न प्रदर्शयति तदा स एव दण्डभाग्भवतीति। “अनुपस्थापयन्मूलं क्रयंवाप्यविशोधयन्। यथाभियोगन्धनिने धनन्दाप्योदमञ्च स” इति स्मरणात्। स्वं लभेतान्यविक्रीतमित्युक्तम् तल्लिप्सुना किं कर्त्तव्यमित्यत आह। “आगमेनोपभोगेन नष्टम्भाव्यमतोऽन्यथा। पञ्चबन्धोदमस्तस्य राज्ञे तेना विभाविते” आगमेन रिक्थक्रयादिना उपभोगेन च मदीयमिदन्द्रव्यं तच्चैवं नष्टमपहृतं वेत्यपि भाव्यं साधनीयन्तत्स्कामिना। अतोऽन्यथा तेन खामिना अविभाविते पञ्चबन्धो नष्टद्रव्यस्य पञ्चमांशोदमोनाष्टिकेन राज्ञे देयः। अत्रैवायं क्रमः। पूर्ब्बं स्वामी नष्टमात्मीयं साधयेत्ततः क्रेताचौर्य्य परिहारार्थं मूल्यलाभाय च विक्रेतारमानयेत्। अथानेतुन्न शक्नोति तदात्मदोषपरिहाराय क्रयं शोधयित्वा द्रव्यं नाष्टिकस्य समर्पयेदिति। तस्करस्य प्रच्छादकम्प्रत्याह। “हृतं प्रनष्टं योद्रव्यम्परहस्तादवाप्नुयात्। अनिवेद्य नृपे दण्ड्यः स तु षण्णवतिम्पणान्” या०। हृतम्प्र नष्टं वा चौरादिहस्तस्थं द्रव्यम् अनेनमदीयन्द्रव्यमपहृतमिति नृपस्यानिवेद्यैव दर्पादिना योगृह्णात्यसौ षडुत्तरान्नववतिम्पणान्दण्डनीयस्तस्करप्रच्छादकत्वेन दुष्टत्वात्। राजपुरुषानीतं प्रत्याह। “शौल्किकैः स्थानपालैर्व्वा नष्टापहृतमाहृतम्। अर्वाक् संवत्सरात्स्वामी हरेत परतोनृपः” या०। यदा तु शुल्काधिकारिभिः स्थानरक्षिभिर्वा नष्टमपहृतन्द्रव्यं राजपार्श्वं प्रत्यानीतन्तदासंवत्सरादर्वाक् प्राप्तश्चेन्नाष्टिकस्तद्द्रव्यमवाप्नुयात्। ऊर्द्ध्वं पुनः संवत्सराद्राजा गृह्णीयात्। स्वपुरुषानीतञ्च द्रव्यं जनसमूहेषूद्घोष्य यावद्वत्सरं राज्ञा रक्षणीयम्। यथाह गोतमः। “प्रनष्टमस्वामिकमधिगम्य राज्ञे प्रब्रुयुर्विख्याप्य संवत्सरं राज्ञा रक्ष्यमिति” यत्पुनर्म्मनुनावध्यन्तरमुक्तम्। प्रनष्टस्वामिकं द्रव्यं राजा त्र्यब्दं निधापयेत्। अर्व्वाक त्र्यब्दाद्ध चेत्स्वामी परतोनृपतिर्हरेत्” इति। तच्छ्रुतवृत्तसम्पन्नब्राह्मणविषयम्। रक्षणनिमित्तं षड्भागादिग्रहणञ्च तेनैवोक्तम्। “आददीताथ षड्भाग म्प्रनष्टाघिगतान्नृपः। दशमं द्वादशं वापि सतान्धर्म्म मनुस्मरन्निति”। तृतीयद्वितीयप्रथमवत्सरेषु यथाक्रमं षष्ठादयो भागावेदितव्याः। प्रपञ्चितञ्च तत्पुरस्तात्। सनूक्तषड्भागादिग्रहणस्य द्रव्यविशेषे अपवादमाह। “पणानेकशफे दद्याच्चतुरःपञ्च मानुषे। महिषोष्ट्रगवां द्वौ द्वौ, पादम्पादमजाविके” या०। एकशफे अश्वादौ प्राष्टाधिगते तत्स्वामी राज्ञे रक्षणनिमित्तञ्चतुरःपणान् दद्यात्। मानुषे मनुष्यजातीये द्रव्ये पञ्च पणान् महिषोष्ट्रगवां रक्षणनिमित्तम्प्रत्येकं द्वौ द्वौपणौ, अजाविके पुनः प्रत्येकम्पादम्प्रादं दद्यादिति सर्वत्रानुषज्यते। अजाविकमिति समासनिर्देशेऽपि पादम्पादमिति वीप्सावलात्प्रत्येकं सम्बन्धोगम्यते” मिता०।। प्रायश्चित्त तत्त्वे तु चौराल्लाभविषये विशेषोदर्शितो यथा “प्रकाशक्रये तु स्वामिनोग्रहणेनारदवृहस्पती। वणिग्वीथीपरिगतं विज्ञातं राजपुरुषैः। अविज्ञाताश्रयात् क्रीतं विक्रेता यदि वा मृतः। स्वामी दत्त्वार्द्धमूल्यन्तु प्रगृह्णीत स्वकन्धनम्। अर्द्धं द्वयोरपहृतं तत्र स्यात् व्यवहारतः। अविज्ञातक्रये दोषस्तथा चापरिपालने। एतत्द्वयं समाख्यातं द्रव्यहानिकरं परम्” इति।

अस्वाम्य = न० अभावे न० त०। १ स्वाम्याभावे स्वत्वाभाये न० ब०। २ स्वत्वशून्ये त्रि०। अस्याम्यं हि भवेत्तत्र” स्मृतिः

अस्वावेश = त्रि० स्वस्मिन् स्वस्थाने स्यभावे वा आविशति आ + विश–अच् ७ त०। स्वस्थाने स्वभावे वा अस्थिते “जरदष्ट्यस्वावेशम्” ऋ० ७, ३८, ७।

अस्वास्थ्य = न० अभावे न० त०। १ स्वास्थ्याभावे “य इत्थमस्वास्थ्यमहर्दिवं दिवः” माघः। २ रोगादिद्यभिभवे च न० ब०। ३ तद्वति त्रि०।

अस्वीकार = पु० अभावे न० त०। १ स्वीकाराभावे न० ब०। २ तच्छून्ये त्रि०। स्वीकारोऽङ्गीकारः प्रतिग्रहश्च।

अस्वीकृत = त्रि० न स्वीकृतः १ गृहीतभिन्ने २ अङ्गोकृतभिन्ने च।

अस्वैरिन् = पु० स्वैरी स्वाधीनः न० त०। १ परतन्त्रे। स्त्रियां ङीप्

***