असि = अव्य० अस–दीप्तौ इन् विभक्ति प्रतिरूपकम्। त्वमित्यर्थे “कृतवानसि विप्रियं न मे” कुमा० “धन्यासि वैदर्भि! गुणैरुदारैः” नैष०। “शूरोऽसि कृतविद्योऽसि दर्शनीयोऽसि पुत्रक! इति नीतिः।

असि = पुंस्त्री० अस्यति सेवनेन पापानि इन् वा ङीप्। वारणसी दक्षिणस्थे १ नदीभेदे वाराणसीशब्दे विवृतिः। अस्यते क्षिप्यते अस–इन्। २ खडे पु० “असिर्विशसनः खड्गस्तीक्ष्णधारो दुरासदः। श्रीगर्भो विजयश्चैव धर्मपालो नमोऽस्तु ते। इत्यष्टौ तव नामानि स्वयमुक्तानि वेधसा”। खड्गपूजामन्त्रः, “सर्व्वाः श्यामाः असिकरा मुण्डमाला विभूषिताः” श्यामाकवचम् खड्गलक्षणन्तु वृह० उक्तम् “अङ्गुलशतार्धमुत्तम ऊनः स्यात्पञ्चविंशतिः खड्गः। अङ्गुलमानाज्ज्ञेयो व्रणोऽशुभो विषमपर्वस्थः।। श्रीवृक्षवर्धमानातपत्रशिवलिङ्गकुण्डलाब्जानाम्। सदृशा व्रणाः प्रशस्ता ध्वजायुधस्वस्तिकानां च।। कृकलासकाककङ्कक्रव्यादकबन्धवृश्चिकाकृतयः। खड्गे व्रणा न शुभदा वंशानुगाः प्रभूताश्च।। स्फुटितो ह्रस्वः कुण्ठो वंशच्छिन्नो न दृङ्मनोऽनुगतः। अस्वन इति चानिष्टः प्रोक्तविपर्य्यस्त इष्टफलः।। क्वणितं मरणायोक्तं पराजयाय प्रवर्त्तनं कोशात्। खयमुद्गीर्णे युद्धं ज्वलिते विजयो भवति खड्गे।। नाकारणं विवृणुयान्न विघट्टयेच्च पश्येन्न तत्र वदनम् न वदेच्च मूल्यम्। देशं न चास्य कथयेत् प्रतिमानयेच्च नैव स्पृशेन्नृपतिरप्रयतोऽसियष्टिम्।। गोजिह्वा संस्थानो नीलोत्पलवंशपत्रसदृशश्च। करवीरपत्रशूलाग्रमण्डलाग्राः प्रशस्ताः स्युः।। निष्पन्नो न च्छेद्यो निकषैः कार्य्यः प्रमाणयुक्तः सः। मूले म्रियते स्वामी जननी तस्याग्रतश्छिन्ने।। यस्मिन् त्सरुप्रदेशे व्रणो भवेत्तद्वदेव खड्गस्य। वनितानामिव तिलको गुह्ये वाच्यो मुखे दृष्ट्वा।। अथ वा स्पृशति यदङ्गं प्रष्टा निस्त्रिंशभृत्तदवधार्य। कोशस्थस्यादेश्यो व्रणोऽस्ति शास्त्रं विदित्वेदम्। शिरसि स्पृष्टे प्रथमेऽङ्गुले द्वितीये ललाटसंस्पर्शे। भ्रूमध्ये च तृतीये नेत्रे स्पृष्टे चतुर्थे च।। नासोष्ठकपोलहनुश्रवणग्रीवांसकेषु पञ्चाद्याः। उरसि द्वादशसंस्थस्त्रयोदशे कक्षयोर्ज्ञेयः।। स्तनहृदयोदरकुक्षिनाभीषु चतुर्दशादयो ज्ञेयाः। नाभीमूले कट्यां गुह्ये चैकोनविंशतितः।। ऊर्वोर्द्वाविंशे स्याद् ऊर्वोर्मध्ये व्रणस्त्रयोविंशे। जानुनि च चतुर्विंशे जङ्घायां पञ्चविंशे च।। जङ्घामध्ये गुल्फे पार्ष्ण्यां पादे तदङ्गुलीष्वपि च। षद्धिंशतिकाद्यावत्त्रिंशदिति मतेन गर्गस्य।। पुत्रमरणं धनाप्तिर्धनहानिः सम्पदश्च बन्धश्च। एकाद्यङ्गुलसंस्थैर्व्रणैः फलं निर्दिशेत्क्रमशः।। सुतलाभः कलहो हस्तिलब्धयः पुत्रमरणधनलाभौ। क्रमशो विनाशवनिताप्तिचित्तदुःखानि षट्प्रभृति।। लब्धिर्हानिस्त्रीलब्धयो बधो वृद्धिमरणपरितोषाः। ज्ञेयाश्चतुर्दशादिषु धनहानिश्चैकविंशे स्यात्।। वित्ताप्तिरनिर्वाणं धनागमो मृत्युसम्पदोऽस्वत्वम्। ऐश्वर्य्यमृत्युराज्यानि च क्रमात्त्रिंशदिति यावत्।। परतो न विशेषफलं विषमसमस्थास्तु पापशुभफलदाः। कैश्चिदफलाः प्रदिष्टास्त्रिंशत्परतोऽग्रमिति यावत्।। करवीरोत्पलगजमदघृतकुङ्कुमकुन्दचम्पकसगन्धः। शुभदोऽनिष्टो गोमूत्रपङ्कमेदःसदृशगन्धः।। कूर्मवसासृक्क्षारोपमश्च भयदुःखदो भवति गन्धः। वैदूर्यकनकविद्युत्प्रभो जयारोग्यवृद्धिकरः।। इदमौशनसं च शस्त्रपानं रुधिरेण श्रियमिच्छतः प्रदीप्ताम्। हविषा गुणवत्सुताभिलिप्सोः सलिलेनाक्षयमिच्छतश्च वित्तम्।। बडवोष्ट्रकरेणुदुग्धपानं यदि पापेन समीहतेऽर्थसिद्धिम्। झषपित्तमृगाश्ववस्तदुग्धैः करिहस्तच्छिदये सतालगर्भैः।। आर्कं पयो हुडुविषाणमसीसमेतं पारावताखुशकृता च युतं प्रलेपः। शस्त्रस्य तैलमथितस्य ततोऽस्य पानं पश्चाच्छितस्य न शिलासु मवेद्विघातः।। क्षारे कदल्या मथितेन युक्ते दिनोषिते पायितमायसं यत्। सम्यक् शितं चाश्मनि नैति भङ्गं न चान्यलोहेष्वपि तस्य कौण्ठ्यम्” वृ० स०। हेमा० परि० ख० तु तज्जात्यादिभेदात् फलभेदादिकं दर्शितं यथा “वत्स! पुरा भूतपूर्वैराचार्यैरुपदिष्टञ्चैव यन्मयाश्रुतं तदुपदिशामि निबोध खड्गस्य लोहं षद्धिघं भवति। योनयः पञ्चविधाः संस्थानं चतुर्विधं करणमा, कृतिर्द्विधा द्वादश मुस्वानि गौरवं पञ्चदशधा विस्तारस्त्रिविधः वर्ण्णछायाव्रणपुङ्ख गन्धस्वरेण वा यत्र विशेषा भवन्ति तत्कीर्त्त्यमानं निबोध तीक्ष्णं मृदु स्निग्धं खरं मृदुतीक्ष्णं वज्रं चेति जातयः षट्भवन्ति वालुका मृत्पाषाणः पङ्कोधातुस्रावश्चेति योनयः पञ्चधा भवन्ति। पीतेभ्यस्रीक्ष्णं भवति। नीलेभ्योमृदु भवति। स्निग्धेभ्यःस्निग्धं खरेभ्यः खरं भवति। रक्तेभ्योद्रव्येभ्योमृदुतीक्ष्णं भवति। रक्तसैन्धवसन्निभैर्हरिद्भिः श्चित्रं यदन्तः उत्पद्यते लौहं तद्वज्रायुधन्नाम भवति। तच्च पाषाण एव पूजित इति। भवन्ति चात्रश्लोकाः। तापं चिरादेव विचूर्ण्णितञ्च भिन्नाञ्जनाभं बहुसूक्ष्महीरम् पीतं भवेत् निर्म्मलरुक्मवर्णं सर्वाणि लोहानि भिनत्ति तीक्ष्णम्। सन्नम्यते तापमुपैति चाशु श्वेतं भवत्येव मलावनद्धम्। यत्स्थूलहीरन्त्रपुवङ्गवर्ण्णं सर्वेषु कार्य्येष्वपि तन्मृदु स्यात्। श्वेतं भवत्यभ्यधिकं स्थिरञ्च संघट्टनामेति चिराच्च तापम्। संघातलोहेन चिराद्वियोगं स्निग्धञ्च लोहं प्रवदन्ति तृज्ज्ञाः। खरं विशीर्य्येत न चैति योगम् सर्वत्र योग्यं मृदुतीक्ष्णमाहुः। यज्रातरूपं न च दह्यतेऽग्नौ तद्वज्रलोहं प्रसमीक्ष्य वाच्यम्। तीक्ष्णस्य मृदुनः खरस्य स्निग्धस्य मृदुतीक्ष्णस्य वज्रलोहस्यच विज्ञेयं कुट्टिमङ्कोशगर्भमेककोशगर्भं कुट्टिमकोशगर्भम्। सुतीक्ष्णं करणप्रवरं भवति। मृदुतीक्ष्णं मध्यमगर्भं कुट्टिमञ्च कारयेन् मृदुतीक्ष्णकुट्टिमं कोशभर्भमेकगर्भालयं वेति तथा तीक्ष्णं मन्दं वेति विविधमायसं भवति। तीक्ष्णस्य कुलानि उपकुलानि पुनः सृष्टानि वीतर्कपुष्कलालावेतकं यावङ्काशिकमङ्कोल्लं मयूरं हमालं वीरंकां वरं पुष्कराकं पुष्कराङ्कक्रोडिनं वर्वरंरौद्रं शालिकं किस्किन्धं विस्फुलिङ्गंवाह्लीकं सुराष्ट्रायसं वेति तीक्ष्णयोनयो भवेयुरेकविंशतिरथ मन्दायसो वक्ष्यन्ते। कास्वोजं काण्डवारं हम्बालं सूर्य्यारङ्काष्ठमलयं पुन्नागपर्वतं यावतन्द्रं तीक्ष्णं कलिपार्वतीय सिंहालकं वानवासीसिन्धुकं मूषकं नीलाण्डं मागधं देवान्तं मेनकं वाह्लीकं पारवं क्रथं शट्टाकं शाण्डिलं पालकं नुचुरतोलकं विन्तपालं नीलामुखं कूणीराष्ट्रं महेन्द्राष्ट्रं विचर्तुकं वेति लोहाः त्रिंशदेका भवन्ति। कुलानां संग्रहाद्विविधा लीहा तन्निवोध सप्त भवन्ति। मार्द्दवस्य खरस्य त्वष्टौ स्नेहान्वितस्प पुनः षड्गवन्ति। मृदुतीक्ष्णस्य दशैवस्वुर्वज्रायसस्यैकभेयेति कुलान्येतानि संग्रहादुक्तानि तत्र काम्बोजं काण्डवारं हंनुपालं नीलाण्डं खरस्यैतानि भवन्ति। पावनं वटतीक्ष्णं कालिङ्गं पार्वतीयं सिंहालं लङ्कवालञ्च चेति स्नेहान्वितस्यैतानि कुलानि षड्भवन्ति। नीलामुखं कूणीराष्ट्रं महेन्द्राष्ट्रं विचर्त्तुकं सौर्परं काष्टमलयं पुन्नागपर्वतं सिन्धुकं मूषिकं दक्षिणामुखं चेति मृदुतीक्ष्णस्य दशैतानि कुलानि भवन्ति। षष्टन्तु लोहं वेद्यन्तरगुहासु जायते तच्च वज्रलोहमिति विद्यात्। परमेतानि वज्रायसविवर्जितानि त्रिंशदेकाधिकानि। मृदु तीक्ष्णं मृदुतीक्ष्णं स्निग्धं खरं चेति। वीतकादीन्येकविंशतिं क्ष्णानि वक्ष्यन्ते यत्र दृढत्वं बलवत्त्वं स्निग्धतां लाघवङ्गौरवं च विशेषात्तत्र तत्र विविधं भवति हुताशनकर्म्मणि तत्रछिन्नपाटलानिभं भवति। यत्र वचर्स्या दृश्यन्ते त्रुटिते चूर्ण्णिते वा हुताशनेऽपि त्रुट्यमानं सकृदेव ग्रभज्यते मूलेऽग्रे च सर्वदक्षिणतो वैवर्ण्यं भजेन्मत्स्यकण्टकच्छायावा स्यात् लिक्षासीसविभा वा श्वेतकृतनिस्रावतोरहान्यैव तत् मृदुलोहमिति विद्यात्। त्रयाणां चीनकादीनां लक्षणं वक्ष्यते आकृत्या संस्थानेन वर्ण्णेन गन्धेन शब्देन क्रमशः स्यात् पृथक् वेतसवञ्जुलपत्राणामाकृतिः करवीरपत्राणां वा भवति। षडश्रैर्युतं मिश्रकैरष्टाश्रैश्चतुरश्रेर्व्वा वृत्तं विपुलं वा नालमूलाकृतिर्वेति। संस्थानतःपरीक्षणीयम् निर्गुण्डीकुसु- मानामिव यत्र वर्णोऽञ्जनालक्तकयोर्वा मयूरकण्ठच्छविः शुकपिच्छनिभः। काककोकिलसदृशोमक्षिकाभो वेति। वर्णतः परीक्षिणीयं चानुलोहम्। तथा अङ्कोलस्योत्पलस्य मूषिकायाः पत्रस्य मधुकस्य वा गन्ध इति गन्धतः परोक्षणयीम्। तथा कांस्यघण्टाया वलाकानां शब्दैव शब्दो विस्फुलिङ्गायायस्येति शब्दतः परीक्षणीयावि ज्ञातव्याः”। उपकुलादि विस्तरभयान्नोक्तम् “युग्माङ्गुलाः प्रशस्ताः अयुग्माङ्गुला विगर्हिताः खड्गास्ते केऽपि ब्राह्मणस्य परिग्रहा धमनासं दिशन्ति क्षत्रियस्यार्थविनाशं कुलक्षयं कुर्व्वति वैश्यस्य तु सद्योबधमावहन्ति शूद्रस्य न कदाचिदपि वृत्तिकराः स्युस्तथा व्रणाः छायास्निग्धवर्ण्णाः पूजिताः छिन्ना रूक्षवर्ण्णाअरूपानुज्वलाश्च भर्त्तुरपजयाय स्मृतिगर्हिताः”। त्रिकोणाःपञ्चकोणाश्चतुरस्राव्रणाः प्रशस्ताः। अनुलोमाश्च प्रतिलोमाश्च प्रशस्तदीर्घतायै खड्गस्य भवन्ति। ते प्रतिलोमावेदितव्याः खड्गस्यानुगता अनुलोमा व्रणापदेशो वक्ष्यते। पूजितोनिन्दितश्च यदि खड्गस्याद्येऽङ्गुले दृश्येत तदा पुत्रमरणम्। द्व्यङ्गुले पुत्रवृद्धिस्त्र्यङ्गुले पुत्रधननाशश्चतुर्थे पुत्रमङ्गल्यम् पञ्चाङ्गुले मरणंनरपशूनाम्। षडङ्गुले कर्म्मसिद्धिः पश्रुलाभश्च सप्ताङ्गुले कलहेन विनाशं भर्त्तुः करोति। व्रणोऽष्टाङ्गुले मित्रप्राप्तिं धनस्थितिं च कुर्यात्। नवाङ्गुले भ्रातृबधधान्यविनाशम्भर्त्तुः करीति, दशाङ्गुले मित्रभृत्यानां लाभं सम्पद्विद्वृद्धिञ्च, एकादशाङ्गुले संग्रहणं मित्रविरोधञ्च। द्वादशाङ्गुले मित्रलाभम्भोगं सुखं च। त्रयोदशाङ्गुले प्रभुविनाशं चतुर्द्दशाङ्गुले प्रियतां गौरबन्धनलाभं च, पञ्चदशाङ्गुले शत्रुविवृद्धिम्। षोडशाङ्गुले शत्रुविजयं सप्त दशाङ्गुले भयम्, स्त्रीलाभम् अष्टादशाङ्गुले, शत्रुवधम् ऊनविंशे, वृद्धिं विंशाङ्गुले, मरणम् एकविंशत्यङ्गुले, शत्रुजनितं नाशम्भयं च। द्वाविंशत्यङ्गुले राष्ट्रपालनं परराष्ट्रविनाशं च त्रयोविंशत्यङ्गुले विंशतिवर्षादेव मरणम्। चतुर्विंशत्यङ्गुले भूषणागमम्। पञ्चविंशत्यङ्गुले, भार्याविरामम्, षड्विंशत्यङ्गुले प्रियगुणलाभं, स्वभार्य्याविरागन्तु सप्रविंशत्यङ्गुले, विपुलश्रियोलाभमष्टाविंशत्यङ्गुले, एकोनत्रिंशत्यङ्गुले वृद्वभावे भ्रातृभि र्ग्रहणं, त्रिंशदङ्गुले वृद्धिमजिरंचेति खड्गे व्रणः करोति। तथा एकत्रिंशदङ्गुले सभृत्यस्त्रीवाहनं भर्त्तारं विनाशयति। द्वात्रिंशदङ्गुले पराजयमरिभिः करोति। त्रयस्त्रिंशदङ्गुले भर्त्तारं पीडयति नीचस्य च कर्मणो वशगङ्करोति। चतुस्त्रिंशदङ्गुले धन्यं दानधर्मभाजनं च पञ्चत्रिंशंदङ्गुले मरणं सद्यः करोति। षट्त्रिंशदङ्गुले विजयं भर्त्तुर्ददाति सप्तत्रिंशदङ्गुले पराभवमरिभिः करोति। अष्टत्रिंशदङ्गुले शत्रुप्रमर्दनं करोति नवत्रिंशदङ्गुले कुजनैरेव परिक्लेशं नयति। चत्वारिंशदङ्गुले कन्यालाभमरिजयं च प्राप्नोति व्रणेन खड्गस्थितेन। तथैकचत्वारिंशदङ्गुले शत्रुभ्यः पीडनाद्भयं लभते द्विचत्वारिंशदङ्गुले स्वराष्ट्रवर्द्विमन्त्रिणंत्रिचत्वारिंशदङ्गुले दुःखं प्राप्नोति सेनापतिरेव भर्त्ता भवति। चतुश्चत्वारिंशदङ्गुले श्रियं विपुलां लभते। पञ्चचत्वारिंशदङ्गुले व्रणो भयङ्क षट्चत्वारिंशदङ्गुले व्रणाः सुखावाहा भवन्ति। सप्तचत्वारिंशदङ्गुले स्वपक्षं पीडयति परपक्षं वर्द्धयति अष्टाचत्वारिंशदङ्गुले राजश्रियं भुङ्क्ते एकोनपञ्चाशदङ्गुले शत्रोर्विजयं लभते। पञ्चाशदङ्गुले कुलवृद्धिर्भवति”। एकत्रिंशदाद्यङ्गुलिषुव्रणे फलविशेषोऽभिहितः। अतः परं प्रवक्ष्यामि खड्गलक्षणमुत्तमम्। प्रधानदेहसंभूतैरन्यास्थिभिररिन्दमः। लोहं प्रधानं खड्गार्थे प्रशस्तं तद्विशेषतः। खरीकदुरुकृषिकावङ्गसूर्य्यारकेषु च। विदेहेषु तथाङ्गेषु मध्यमग्रामचेदिषु। सहग्रामेषु वीरेषु तथा कालञ्जरेऽपि च। लोहं प्रधानं खड्गानां नवानां शृणु लक्षणम्। खरी कटुरुजा ये च दर्शनीयाश्च ते स्मृताः। कार्येदक्षाश्च कृषिकामृदवो गुरवस्तथा” तीक्ष्णाश्छेदसहा वङ्गा दृढाः सूर्य्यारकोद्रवाः। सुदृढाश्चैव विज्ञेया प्रभवन्ति विदेहजाः। अङ्गदेशोद्भवास्तीक्ष्णाः सहजास्ते दृढास्तथा। वेगवन्तस्तथा तीक्ष्णामध्यमग्रामसम्भवाः। असारलघवस्तीक्ष्णाश्चेदिदेशसमुद्रवाः। सहग्रामोद्भवाः खड्गाः सुतीक्ष्णालघवस्तथा। निर्वला निर्मला खड्गावीरदेशसमुद्रवाः। कालञ्जराभारसहास्तेषां वक्ष्यामि लक्षणम्। शतार्द्धमङ्गुलानां तु श्रेष्टः खड्गः प्रकीर्त्तितः। तदधोमध्यसंज्ञाभाक् ततोहीनं न धारयेत्। प्रमाणाभ्यधिकं देव! छिन्नवंशन्तथैव च। दीर्घः सुमधुरःशब्दोयस्य खड्गस्य भार्गव!।। किङ्किणीसदृशस्तस्य धारणम् श्रेष्ठमुच्यते। खड्गः पत्नपलाशाग्रोमण्डलास्यश्च शस्यते। करवीरपलाशाग्रसदृशश्च विशेषतः। महीघृतसगन्धश्च प्रद्मोत्पलसुगन्धिकः। वर्ण्णतश्चीत्प्रलाकारः सवर्ण्णो गननस्य च। समाङ्गुलस्थाः शस्यन्ते व्रणाः खड्गेषु भार्गव!। श्रीवृक्षपर्वताकारवंशवस्तनिभाश्च ये। मङ्गल्यानां तथान्येषां सदृशा ये च भार्गव!। काकोलूकार्कबन्ध्या भा विषमाङ्गुलिसंस्थिताः। वंशानुगाः प्रभूताश्च न प्रशस्ता कदाचन। खड्गे न पश्येद्वदनं वृथा न वृणुयादमुम्। न चास्य कथयेन्मूल्यं जातिं देशं कथञ्चन। उत्सृष्टो न स्पृशेत् खड्गं निशिकुर्याच्च शीर्षके। दिवा च पूजयदेनं गन्धमाल्यादि सम्पदा। खड्गं प्रशस्तं मणिहेमचित्रं कोशे सदा चन्दनचर्च्चयाढ्यम्। संस्थायपेद्भूमिपतिः प्रयत्नान् यतेत चेह स्वशरीरवच्च” विष्णुध०। देवीपु०। “खड्गस्य लक्षणं वक्ष्ये त्रिशिखस्य तु सुन्दरि!। नान्यशस्त्रोद्भवं कार्यं मृदुलोहमयन्तथा। स्फुटितं खण्डितं ह्रस्वं सव्रणं साधितं तथा। मृदुलोहेनचारभ्य सन्धितो मरणं भवेत्। सव्रणेनापि हृद्रोगी रेखायां पातकी भवेत्। भार्य्या माता तथा पुत्रो म्रियते खण्डितेन च। ह्रस्वेन लाघवं लोके दीर्घतापि ह्यसिद्विदा। अन्यशस्त्रोद्भवेनापि संभवेन्मरणम् ध्रुवम्। पञ्चाशदङ्गुलं खड्गं त्रिशिखञ्च सुरेश्वरि। ईदृशङ्कारयेत्खड्ग माशु सिद्विफलप्रदम्”। अस्यते क्षिप्यते अस–इन्। ३ श्वासे “तिस्रः पत्न्योऽसिपथान् कल्पयन्त्यश्वस्य सूचीभिः” कात्या० २०। ७। १। “असेः श्वासस्य पथः मार्गान्” कर्क० त्रि०। ४ क्षिप्ते असगण्डः।

असिक = न० असि–संज्ञायां कन्। अधरचिवुकयोर्मध्यमागेहेम०।

असिक्नी = स्त्री सो–क्त सिता केशादौ शुभ्रा जरती तद्भिन्ना अवृद्धा क्नादेशः ङीप् च। अन्तःपुरचारिण्यामवृद्धायां १ प्रेष्यायाम्, २ नदीभेदे च। ३ रात्रौ निरु० तस्याश्च सूर्य्यतेजःशून्यतया असितत्वात् तथात्वम् “त्वचमसिक्नीं भूमनो दिवस्परि” ९। ७३। ५। “त्वद्भिया विशआयन्नसिक्नीरसमानाः” ऋ० ७। ५। ३। असिक्नीरसितवर्ण्णा राजस्यः” भा० वीरस्य प्रजापतेः ४ कन्याभेदे। असिक्नीमावहत् पत्नीं वीवरणस्य प्रजापतेः” इति हरि० ३ अ०। “छन्दसि क्नमेके” वार्त्ति० उक्तेः छन्दस्येवायं क्नादेशः लोके तु क्वचित्। “असिक्री स्यादवृद्धायामित्यमरः”।

असिगण्ड = पु० असिः क्षिप्तोगण्डो यत्र। गण्डोपधाने।

असिजीविन् = पु० असिना तद्व्यापारेण जीवति जीव–णिनि। शस्त्रव्यापारेण युद्धादिनाजीविकावति विप्रस्य तथात्वे निन्द्यत्वम् “असिजीवी मसीजीवी काण्ड पृष्ठश्च धावक” इत्युक्तेः।

असित = पु० सितः शुभ्रः विरोधे न० त०। १ शुभ्रवर्णभिन्ने तद्विरुद्धे कृष्णवर्णे। २ तद्वति त्रि०। ३ कृष्णपक्षे पु०। ४ नीलोषधौ अन्तःपुरचारिण्यामवृद्धायां ५ प्रेष्यायाञ्च स्त्री ङीप् कृष्णवर्ण्णपरतया क्नश्च असिक्नीत्येव। “असितगिरिनिभं स्यात् कज्ज्वलं सिन्धुपात्रम्” पुष्पदन्तः “तन्तुमवव्ययन्नसि तम्” ऋ० ४, १३, ४, ५ यमुनायां तस्याः कृष्णवर्णत्वात् तथात्वम् स्त्री “सितासिते यत्र सरिद्वरे शुभे” काशी०। अस्याः स्त्रीत्वेऽपि छन्दसीत्युक्तेः न क्नः तेन ङीबपि न। ६ देवले ऋषिभेदेपु०। “असितोदेवलोव्यासः स्वयञ्चैव ब्रवीषि मे” गीता। असितमुनिश्च हिमवतः एकपर्ण्णां नाम सुतामुपयेमे यथाह हरि० १८ अ०। “तिस्रः कन्यास्तु मेनायां जनयामास शैलराट्। अपर्णामेकपर्णाञ्च तृतीयामेकपाटलाम्। तपश्चरन्त्यः सुमहद्दुश्चरं देवदानवैः। लोकान् सन्तापयामासुस्तास्तिस्रः स्थाणुजङ्गमान्। आहारमेकपर्णेन एकपर्णा समाचरत्। पाटलापुष्पमेकञ्च आदधावेकपाटला। एका तत्र निराहारा ता~ माता प्रत्यषेधयत्। उमा इति निषेधन्ती मातृस्नेहेन दुःखिता। सा तथोक्ता तदामात्रा देवी दुश्चरचारिणी। उमेत्येवाभवत् ख्याता त्रिषु लोकेषु सुन्दरी तथैव नाम्ना तेनेह विश्रुता योगधर्म्मिणी”। एवं त्रिस्रःकुमारीर्वर्णयित्वा। “सर्व्वाश्च ब्रह्मवादिन्यः सर्व्वाश्चैवोद्ध्वैरेतसः। उमा तासां वरिष्ठा च ज्येष्ठा च वरवर्णिनी। महायोगबलोपेता महादेव मुपस्थिता। असितस्यैकपर्णा तु देवलस्य महात्मनः। पत्नी दत्ता तथा ब्रह्मन्! योगाचार्य्याय धीमते। जैजीषव्याय तु तथा विद्धि तामेकपाटलाम्। एते कन्ये महाभागे योगाचार्य्यमुपस्थिते”। ७ शनोच ८ अप्सरोभेदे स्त्री “असिता च सुबाहुश्च सुवृत्ता मृदुका तथा”। हरि० व०।

असितकार्च्चिस् = पु० असितयंति णिच्–ण्वुल् सा अर्च्चिः शिखा यस्य। वह्नौ तच्छिखासम्बन्धेन हि सर्व्वेषामसितत्वम्।

असितगिरि = पु० कर्म्म०। नीलपर्ब्बंते नीलाचले। “असितगिरिनिभं स्यात् कज्वलं सिन्धुपात्रम्” पुष्पद०। असित नगादयोऽप्यत्र। “असितनगनितम्बश्यामभासां घनानाम्”। किरा०।

असितग्रीव = पु० असिता ग्रीवा धूमेन यस्य। वह्नौ “असित ग्रीवश्छागः” यजु० २३। १३।

असितफल = पु० असितं कृष्णंफलं यस्य। मधुनारिकेले।

असितमृग = पु० कर्म्म०। कृष्णसारमगे।

असिताभ्रशेखर = पु०। बुद्धभेदे।

असिताम्बुज = न० कर्म्म०। नीलपद्मे।

असितार्च्चिस् = पु० असिता कृष्णा अर्च्चिः शिखाऽस्य। धूमशिखे वह्नौ।

असितालु = पु० कर्म्म०। नीलालौ आलुभेदे।

असिताश्मन् = पु० कर्म्म०। जातित्वेऽपि अनित्यत्वात् न० समा०। इन्द्रनीलके मणिभेदे “निलयेषु नक्तमसिताश्मनां चयैः” माघः

असितृ = त्रि० अस–क्षेपे तृच् स्त्रियां ङीप्। क्षेपके “स वज्रस्पर्शरूपाणामस्त्राणामसितारिषु” भा० भी० प०।

असितोत्पल = न० कर्म्म०। नीलोत्पले।

असितोपल = पु० कर्म्म०। इन्द्रनीलमणौ।

असिदंष्ट्र = पु० असिरिव तीक्ष्णा दंष्ट्रा यस्य। भकराख्ये यादसि। स्वार्थे कन् तत्रैव।

असिद्ध = त्रि० सिद्धोनिष्पन्नः पक्वश्च न० त०। १ अपक्वे, २ अनिष्पन्ने च न्यायमते आश्रयासिद्धत्वादिभिर्दौषैर्दुष्टे ३ हेतौ पु०। “अनैकान्तोविरुद्धश्चाप्यसिद्धःप्रतिपक्षितः। कालात्ययोपदिष्टश्च हेत्वाभासाश्च पञ्चधा” भाषा० असिद्धिशब्दे विवरणम्। अनुमानेन ४ अनधिगते च “तस्मादपि चासिद्धं परोक्षमाप्तवचनात् सिद्धम्” सां० का०। ५ सिद्धिशून्ये च स्वयमसिद्धः कथं परान् साघयेत्” न्यायः।

असिद्धि = स्त्री सिध–क्तिन् न० त०। १ अनिष्पत्तौ, २ पाकाभावे ३ योगोक्तसिद्ध्यभावे न्यायमते ४ आश्रयासिद्धिप्रभृतिहेतुदोषे च। सिद्धयश्च त्रिविधाः। “आश्रयासिद्धिराद्या स्यात् स्वरूपासिद्धिरप्यथ। व्याप्यतासिद्धिरपरा स्यादसिद्धिरतस्त्रिधा। पक्षासिद्धिर्यत्र पक्षोभवेन्मणिमयोगिरिः। ह्रदोद्रव्यं धूमवत्त्वादत्रासिद्धिरथापरा व्याप्यत्वासिद्धिरपरा नीलधूमादिके भवेत्” इति च भाषा०। नीलधूमत्वं गुरुतया न हेतुतावच्छेदकम् समानाधिकरणव्याप्यतावच्छेदकधर्म्मान्तराघटितण्यैव व्याप्यतावच्छेदकचत्वात् एतासां दूषकतावीजं तु असिद्धिसामान्यविशेषलक्षण कथनपूर्ब्बकं दर्शितं मुक्ता० यथा “आश्रयासिद्ध्याद्यन्यतमत्वमसिद्धित्वम्। आश्रयासिद्धिः पक्षे पक्षतावच्छे दकस्याभावः। यत्र काञ्चनमयः पर्व्वतो वह्निमानिति साध्यते तत्र पर्व्वतो न काञ्चनमय इति ज्ञाने विद्यमाने काञ्चनमयपर्व्वते परामर्शप्रतिबन्धः फलम्। स्वरूपा सिद्धिस्तु पक्षे व्याप्यत्वाभिमतस्यभावः। अत्र च ह्रदोद्रव्यं धूमादित्यादौ पक्षे व्याष्यत्वाभिमतस्य हेतोरभावे ज्ञाते पक्षे साध्यव्याप्यहेतुमत्ताज्ञानरूपपरामर्शप्रतिवन्धः फलम्।। साध्यासिद्धिरपि व्याप्यत्वासिद्धिः। सा च साध्ये साध्य तावच्छेदकाभावः। तथा च काञ्चनमयवह्निमानित्यादौ साध्ये साध्यतावच्छेदकाभावे ज्ञाते साध्यतावच्छेदकविशिष्ट साध्यव्याप्यवत्ताज्ञानरूपपरामर्शप्रतिवन्धःफलम्। सिद्धिः साध्यवत्तानिश्चयः अभावे न० त०। ५ साध्यवत्ता निश्चयाभावे “दृष्टान्तासिद्धेश्च” सां० सू०। दृष्टान्ते “क्षणिकत्वासिद्धेश्च न क्षणित्वानुमानम्” भा०। “स्थिर- कार्य्यासिद्धे क्षणिकत्वम्” सां सू०।

असिधारा = स्त्री ६३०। खङ्गस्य तीक्ष्णाग्रभागे। “असिधारापरिहृतःकामं चक्रस्य तेन ते”। सुरगज इव दन्तैर्भग्नदैत्यासिधारैः” इति च रघुः।

असिधाराव्रत = न० असिधारायां स्थितिरिव दुष्करं व्रतम्। असिधारास्थिति तुल्यदुष्करे व्रते असिधारायां स्थितौ मनाक् स्खलने यथा नाशः एवं मनाक्स्खलने यत्रानिष्टं, तादृशेव्रते तच्च यादवेन दर्शितं यथा। “युवा युवत्या सार्द्धं यन् मुग्धा भर्त्तृवदाचरेत्। अन्तर्निवृत्तसङ्गःस्यादसिधाराव्रतं हि तत् “असिधाराव्रतमिदं सखे यदरिणा सह संवासः” हितो० सतां केनोद्दिष्टं विपुलमसिधाराव्रतमिदम्” नीतिः।

असिधाव = पु० असिं खड्गं धावयति मार्ज्जयति धाव–अण्। शस्त्राणां मार्ज्जनकरे। ण्वुल्। असिधावकोऽप्यत्र।

असिधेनुका = स्त्री असिर्धेनुरिव यस्याः वा कप्। असेर्धेनुतुल्यत्वेन तद्वत्सतुल्यायाम् छुरिकायाम्। कबभावे असिधेनुरप्यत्र।

असिपत्र = पु० असिरिव तीक्ष्णं पत्रमस्य वा कप्। १ इक्षुवृक्षे “जातं तमात्मन्यसिपत्रवृक्षम्” रघुः। २ गुण्डनामकतृणे च असेः पत्रमिवाच्छादकम्। ३ खड्गकोषे न०। असिपत्राकारोऽस्त्यस्य अर्श० अच्। इक्षुपत्राकारे ४ उभयतोधारे खड्गे च “अत्याक्षीत् स्वासिपत्रादीनबभासत् परश्वधान्” भट्टिः।

असिपत्रवन = न० असिरिव पत्रमस्य तादृशं वनम्। असिपत्रवने नरकभेदे तत्स्वरूपादि भाग० ५ स्क०। अन्धतामिस्रादिकमुपक्रम्य “कालसूत्रमसिपत्रवनं सूकरमुख” मित्यादिना नरकभेदान् दर्शयित्वा तत्स्वरूपं कारणञ्चोक्तं तत्रैव “यस्त्विह वै निजपथादनापद्यपगतः पाषण्डञ्चोपगतस्तमसिपत्रवनं प्रवेश्य कशया प्रहरन्ति तत्रासावितस्ततो धाकमान उभयतोधारैस्तालवनासिपत्रैच्छिद्यमानसर्वाङ्गोहाहतोस्मीतिपरमया वेदनया मूर्च्छितः पदेपदे निपतति स्वधर्म्महा पाषण्डानुगमनफलं भुङ्क्ते” “असिपत्रवनं नाम नरकम् शृणु चापरम् योजनानां सहस्रं वैज्वलदग्न्यास्तृतावनिः। तप्तासूर्य्यकरैश्चण्डैः कल्पकालाग्नि दारुणैः। प्रपतन्ति सदा तत्र प्राणिनो नरकौकसः। तन्मध्ये च वनं शीतं स्निग्धपत्रं विभाव्यते। पत्राणि यत्र खड्गानि फलानि द्विजसत्तम!। श्वानश्च तत्र शवलाश्चरन्त्यामिषलोभिनः। महावक्त्रा महादंष्ट्रा व्याघ्रा इव महानखाः। ततस्तद्वनमालोक्य शिशिरच्छायमग्रतः। प्रयान्ति प्राणिनस्तत्र तृट्तापपरिपीडिताः। हा तात! हा मातरिति क्रन्दन्तोऽतीव दुःखिताः। दह्यमागाङ्घ्रियुगलाधरणिस्थेन वह्निना। तेषां गतानां तत्रासिपत्रव्यापि समीरणः। प्रवाति तेन पात्यन्ते तेषां खड्गास्तथोपरि। छिन्नाः पतन्ति ते भूमौ ज्वलत्पावकसञ्चये। लेलिह्यमाने चातीव व्याप्ताशेषमहीतले। सारमेयास्ततः शीघ्रं शातयन्ति शरीरतः। तेषां खण्डानि रुदतामदन्त्यान नभीषणाः। असिपत्रवनं तात! मयैतत् परिकीर्त्तितम्” इति मार्क० पु०। “असिपत्रवनं चैव लोहदारकमेव च” मनुः।

असिपत्रव्रत = न० अश्वमेधे कर्त्तव्ये व्रतभेदे।

असिपुच्छ = पु० असिरिव धारायुक्तः पुच्छोऽस्य। शिशुमारे जलजन्तुभेदे।

असिपुत्रिका = स्त्री असेः पुत्रीव स्वार्थे कन् ह्रस्वे अत इत्त्वम्। छुरिकायाम्। कनभावे असिपुत्रीत्यप्यत्न।

असिमेद = पु० असिरिव तीक्ष्णः मेदो निर्यासो यस्य। विट्खदिरे

असिर = त्रि० अस + क्षेपे किरच्। क्षेपके। “यःसूर्य्यस्यासिरेण मृज्यते” ऋ० ९, ७६, ४।

असिलोमन् = पु० असिरिव तीक्ष्णं लोमास्य। दनोःपुत्रभेदे। “चत्वारिंशद्दनोः पुत्राः ख्याताः सर्वत्र भारतेत्युपक्रम्य “असिलोमा च केशी च दुर्ज्जयश्चैव दानवः” भा० आ० प० ६५ अध्या० हरिवंशे तु “अभवन् दनुपत्राश्च शतं तीव्रपराक्रमा” इत्युपक्रम्य शतपुत्रमध्ये “असिलोमा च केशो च शठश्च बलकोऽमदः” इत्युक्तम्। “असिलोमा पुलोमा च वास्कलः प्रमदोऽमद” इति च हरि०। स च देवासुरयुद्धे वायुना सह युयुधे “असिलोमाथ बलिना मारुतेन महाहवे” हरिवं २४४ अध्या०। त्रिविक्रमावसरे च स हरिणा सह युयुधे विष्णुना हतश्च “असिलोमा हरिश्चैव जघ्नतुर्वै परस्परमित्युपक्रम्य १६१ अध्या० “विप्रचित्तिः शिवःशङ्कुरित्युपक्रम्य च “असिलोमा पुलोमाचेत्यादिना बहून् दैत्यान् युयुधानानमिधाय” “प्रमथ्य सर्वान् दैतेयान् पादहस्ततलैः प्रभुः। जहार त्रिदिवं देवस्त्रिभिर्विक्रमणैर्हरिः” हरि० २६३ अ० वामनेन तद्दलनमुक्तम्। “असिलोम्नोऽपहन्ता वै तथा रावणनाशनः” विष्णुस्तवः।

असिहत्य = त्रि० असिना हत्यः घात्यः हन–बा० क्यप् ३ त०। खड्गेन हननीये। भवादौ अण् अनुशतिका० द्विपदवृद्धिः आसिहात्यः।

असिहेति = पु० असिर्हेतिः साधनमस्य। खड्गेन युद्धकर्त्तरि।

असु = पु० अस्यते क्षिप्यते अस–उन्। १ चित्ते। कर्त्तरि उन्। २ तापे। करणे उन्। ३ पञ्चवृत्तिषु वायुभेदेषु पु० ब० व०। “शेषे जातो भवेद्व्यमुः ज्योति०। “आचम्योदक् परावृत्य त्रिराचम्य शनैरसून्” मनुः। “शरीरेभ्योऽमरारीणामसूतिव विचिन्वति” देवीमा० “त्यजन्त्यसून् शर्म्मच मानिनो वरं त्यजन्ति नत्वेकमयाचितव्रतम्” नैषधम्। प्राणवृत्तीनां भेदविवक्षायामेव बहुत्वम् एकत्वविवक्षायां तु एकवचनान्ततामिच्छन्ति अतएव“प्राणापानौ समौकृत्वा” गीता “प्राणोह पिता प्राणोह मातेत्यादौ प्राणशब्दवत् असुशब्दोप्येकवचनः” नानददसुं ऋ० १, १४०, ८। “उदीर्घ्वं जीवो असुर्न आगादप” ऋ० १, ११३, १६, ४ दशगुर्व्वक्षरोच्चारणकाले पलषष्ठभागे च “गुर्व्वक्षरैः खेन्दुमितैरसुस्तैः षद्भिः पलं तैर्घटिका खषड्भिः” सि० शि० ५ प्रज्ञायाम् निरो।

असु = उपतापे कण्ट्वा० यक्। असूयति आसूयीत् असूयामास। असूया। असूञ इत्येके असूयति ते।

असुकर = त्रि० सुखेन क्रियते सु + कृ–खल् विरोधे न० त०। दुस्करे।

असुख = न० विरोधे न० त०। १ दुःखे असुखोदयः असुखावहः असुखोदर्कः “तत्तत् प्राप्य सुखासुखम्” गीता “याभ्यां प्राप्वोति संस्पृक्ताः प्रेत्येह च सुखासुखम्” मनुः। न० ब०। २ सुखशून्ये।

असुगम = त्रि० सुखेन गम्यते सु + गम–खल् विरोधे न० त०। १ दुर्गमे २ दुर्ब्बोधे च।

असुतृप = पु० असुना परकीयप्राणनाशनेन तृप्यति तृप–क ३ त०।। यमदूतभेदे “ऊरूणसावसुतृपा उदुम्बलौ यमस्य दूतौ चरतोजना~ अनु” ऋ० १०, १४, १२।

असुधारण = न० असूनां प्राणादिपञ्चवायुवृत्तीनां धारणम्। जीवने।

असुन्दर = त्रि० विरोधे न० त०। सौन्दर्य्यहीने अनुत्कृष्टे कुत्सिते।

असुन्व = त्रि० सु–अभिषवे बा० श न० त०। सोमाभिषवाकर्त्तरि “असुन्वामिन्द्र। ससंदम्” ८, १५, १४। “असुन्वां सोमाभिषवहीनाम्” भा०।

असुभृत् = त्रि० असून् बिभर्त्ति भृ–क्विप् ६ त०। १ प्राणिनि

असुमत् = त्रि० असवःसन्त्यस्य मतुप्। प्राणिनि “सततमसमतामगम्यरूपाः” माघः।

असुर = पु० अस–दीप्तौ उर०। १ सूर्य्ये। अस्यति क्षिपति देवान् उर विरोधे न० त० वा। सुरविरोधिनि २ दैत्ये। ३ रात्रौ स्त्री। असुरप्रभेदाश्च भारते आ० प० दर्शिताः “एकएव दितेः पुत्रो हिरण्यकशिपुः” स्मृतः। नाम्ना ख्यातास्तु तस्येमे पञ्च पुत्रा महात्मनः। प्रह्लादः पूर्ब्ब- जस्तेषां संह्लादस्तदनन्तरम्। अनुह्लादस्तृतीयोऽभूत्तस्माच्च शिविवाष्कलौ। प्रह्लादस्य त्रयः पुत्त्राः ख्याताः सर्व्वत्र भारत। विरोचनश्च कुम्भश्च निकुम्भश्चेति भारत। विरोचनस्य पुत्त्रोऽभूद्बलिरेकः प्रतापवान्। बलेश्च प्रथितः पुत्त्रो वाणो नाम महासुरः। रुद्रस्यानुचरः श्रीमान्महाकालेति यं विदुः। चत्वारिंशद्दनोः पुत्त्राः ख्याताः सर्व्वत्र भारत। तेषां प्रथमजो राजा विप्रचित्तिर्महायशाः। शम्बरो नमुचिश्चैव पुलोमा चेति विश्रुतः। असिलोमा च केशी च दुर्ज्जयश्चैव दानवः। अयःशिरा अश्वशिरा अश्वशङ्कुश्च वीर्य्यवान्। तथा गगनमूर्द्धा च वेगवान् केतुमांश्च सः। स्वर्भानुरश्वोऽश्वपतिर्वृषपर्व्वाजकस्तथा। अश्वग्रीवश्च सूक्ष्मश्च तुहुण्डश्च महाबलः। एकपादेकचक्रश्च विरुपाक्षमहोदरौ। निचन्द्रश्च निकुम्भश्च कुपटः कपटस्तथा। शरभः शलभश्चैव सूर्य्याचन्द्रमसौ तथा। एते ख्याता दनोर्व्वंशे दानवाः परिकीर्त्तिताः। अन्यौ तु खलुदेवानां सूर्य्याचन्द्रमसौ स्मृतौ। अन्यौ दानवमुख्यानां सूर्य्याचन्द्रमसौ तथा। इमे च वंशाः प्रथिताः सत्त्ववन्तो महाबलाः। दनुपुत्त्रा महाराज दश दानववंशजाः। एकाक्षोऽमृतपो वीरः प्रलम्बनरकावपि। वातापी शत्रुतपनः शठश्चैव महासुरः। गविष्ठश्च वनायुश्च दीर्घजिह्वश्च दानवः। असंख्येयाः स्मृतास्तेषां पुत्त्राः पौत्त्राश्च भारत!। सिंहिका सुषुवे पुत्त्रं राहुं चन्द्रार्क्कमर्द्दनम्। सुचन्द्रं चन्द्रहन्तारं तथा चन्द्रप्रमर्द्दनम्। क्रूरस्वभावं क्रूरायाः पुत्त्रपौत्त्रमनन्तकम्। गणः क्रोधवशो नाम क्रूरकर्म्माऽरिमर्द्दनः। दनायुषः पुनः पुत्राश्चत्वारोऽसुरपुङ्गवाः। विक्षरोबलवीरौ च वृत्रश्चैव महासुरः। कालायाः प्रथिताः पुत्त्राः कालकल्पाः प्रहारिणः। प्रविख्याता महावीर्य्या दानवेषु परन्तपाः। विनाशनश्च क्रोधश्च क्रोधहन्ता तथैव च। क्रोधः शत्रुस्तथैवान्ये कालकेया इति श्रुताः”। हरिवंशेतु अन्येऽपि वहवोऽसुरभेदा उक्ता यथा। “दित्याः पुत्त्रद्वयं यज्ञे कश्यपादिति नः श्रुतम्। हिरण्यकशिपुश्चैव हिरण्याक्षश्च वीर्य्यवान्। सिंहिका चाभवत्कन्या विप्रचित्तेः परिग्रहः। सैंहिकेया इति ख्याता यस्याः पुत्रा महाबलाः। गणैश्च सह राजेन्द्र! दशसाहस्रमुच्यते। तेषां पुत्त्राश्च पौत्त्राश्च शतशोऽथ सहस्रशः। असंख्याता महाबाहो हिरण्यकशिपोः शृणु। हिरण्यकशिपोः पुत्त्राश्चत्वारः प्रथितौजसः। अनुह्रादश्च ह्रादश्च प्रह्रादश्चैव वीर्य्यवान्। संह्रादश्च चतुर्थोऽभूत् ह्रादपुत्रो ह्रदस्तथा। संह्रादपुत्रः सुन्दश्च निसुन्दश्चैव तावुभौ। ह्रदस्य पुत्रो ह्यायुर्व्वै शिविः कालस्तथैव च। विरोचनश्च प्राह्रादिर्बलिजज्ञे विरोचनात्। बलेः पुत्रशतन्त्वासीद्वाणज्येष्ठं नराधिप। धृतराष्ट्रश्च सूर्य्यश्च चन्द्रमाश्चेन्द्रतापनः। कुम्भनाभो गर्द्दभाक्षः कुक्षिरित्येवमादयः। वाणस्तेषामतिबलो ज्येष्ठःपशुपतिप्रियः। पुराकल्पे हि वाणेन प्रसाद्योमापतिं प्रभुम्। पार्श्वतो विहरिष्यामि इत्येवं याचितो वरः। वाणस्य चेन्द्रदमनो लोहित्यामुदपद्यत। गणास्तथा सुरा राजन् शतसाहस्रसम्मिताः। हिरण्याक्षसुताः पञ्च विद्वांसः सुमहाबलाः। झर्झरः शकुनिश्चैव भूतसन्तापनस्तथा। महानाभश्च विक्रान्तः कालनाभस्तथैव च। अभबन्। दनुपुत्राश्च शतं तीव्रपराक्रमाः। तपस्विनो महावीर्य्याः प्राधान्येन निबोध तान्। द्विमूर्द्धा शकुनिश्चैव तथा शङ्कुशिराः प्रभुः। शङ्कुकर्णो विराधश्च गवेष्ठी दुन्दुभिस्तथा। अयोमुखः शम्बरश्च कपिलो वामनस्तथा। मरीचिर्म्मघवांश्चैव इरा गर्गशिरा वृकः। विक्षोभणश्च केतुश्च केतुवीर्य्यशतह्रदौ। इन्द्रजित्सर्व्वजिच्चैव वज्रनाभस्तथैव च। महानाभश्च विक्रान्तः कालनाभस्तथैव च। एकचक्रो महाबाहुस्तारकश्च महाबलः। वैश्वानरः पुलोमा च विद्रावणमहाशिराः। स्वर्भानुर्वृषपर्व्वा च तुहुण्डश्च महासुरः। सूक्ष्मश्चैव निचन्द्रश्च ऊर्णनाभो महागिरिः। असिलोमा च केशी च शठश्च बलको मदः। तथा गगनमूर्द्धा च कुम्भनाभो महासुरः। प्रमदो मयश्च कुपथो हयग्रीवश्च वीर्य्यवान्। वैरूपः स विरूपाक्षः सुपथोऽथ हराहरौ। हिरण्यकशिपोश्चैव शतमायश्च शम्बरः। शरभः शलभश्चैव विप्रचित्तिश्च वीर्य्यवान्। एते सर्व्वे दनोः पुत्राः कश्यपादभिजज्ञिरे। विप्रचित्तिप्रधानास्ते दानवाः सुमहाबलाः। एतेषां यदपत्यन्तु न तच्छक्यं नराधिपः। प्रसंख्यातुं महीपाल! पुत्रपौत्रमनन्तकम्। स्वर्भानोस्तु प्रभा कन्या पुलोम्नस्तु सुतात्रयम्। उपदानवी हयशिराः शर्म्मिष्ठा वार्षपर्व्वणी। पुलोमा कालका चैव वैश्वानरसुते उभे। बह्वपत्ये महावीर्य्ये मारीचेस्तु परिग्रहः। तयोः पुत्रसहस्राणि षष्टिं दानवनन्दनान्। चतुर्द्दश शतानन्यान् हिरण्यपुरवासिनः। मारीचिर्ज्जनयामास महता तपसाऽन्वितः। पौलोमाः कालकेयाश्च दानवास्ते महाबलाः। अबध्या देवतानाञ्च हिरण्यपुरवासिनः। कृताः पितामहेनाजौ निहताः सव्यसाचिना। प्रभाया नहुषः पुत्त्रः सृञ्जयश्च शचीसुतः। पूरुंजज्ञेऽथ शर्म्मिष्ठा दुष्मन्तमुपदानवी। ततोऽपरे महावीर्य्या दानवास्त्वतिदारुणाः। सिंहिकायामथोत्पन्ना विप्रचित्तेः सुतास्तथा। दैत्यदानवसंयोगाज्जातास्तीव्रपराक्रमाः। सहिकेया इति ख्यातास्त्रयोदश महाबलाः। वंशः शल्यश्च बलिनौ नभश्चैव महाबलः। वातापिर्नमुचिश्चैव इल्वलः खसृमस्तथा। आञ्जिको नरकश्चैव कालनाभस्तथैव च। राहुर्ज्येष्ठस्तु तेषां वै सूर्य्यचन्द्रप्रमर्द्दनः। शुकः पोतरणश्चैव वज्रनाभश्च वीर्य्यवान्। मूकश्चैव तुहुण्डश्च ह्रादपुत्त्रौ बभूवतुः। मारीचः सुन्दपुत्त्रश्च ताडकायां व्यजायत। एते वै दानवाः श्रेष्ठा दनुवंशविवर्द्धनाः। तेषां पुत्त्राश्च पौत्त्राश्च शतशोऽथ सहस्रशः। संह्रादस्य तु दैत्यस्य निवातकवचाः कुले। समुत्पन्नाः सुमहता तपसा भावितात्मनः। तिस्रः कोट्यः सुतास्तेषां मणिमत्यां निवासिनाम्। तेऽप्यबध्याश्च देवानामर्ज्जुनेन निपातिताः। षट्सुताः सुमहासत्त्वास्ताम्रायाः परिकीर्त्तिताः”। “वासेन यस्य जनिताऽसुरभीरणश्रीः” नैष०। “समत्सरेणासुर इत्युपेयुषा” माघः। “ततः कानीयसा एव देवा ज्यायसा असुराः, य एषु लोकेष्वस्पर्द्धन्त ते ह देवा ऊचुर्हन्तासुरान् यज्ञ उद्गीथेनात्ययामिति” छा० उ० “असुषु विष्वग्विषयासु प्राणनक्रियासु रमन्ते रम्–डु। ४ स्वाभाविक्यां तम आत्मिकायामिन्द्रियवृत्तौ। “देवासुरा वै यत्र संयेतिरे” वृ० उ०। देवाश्चासुराश्च देवादीव्यतेर्द्योतनार्थस्य रूपं शास्त्रोद्भासिता इन्द्रियवृत्तयः। असुरास्तद्विपरीताः स्वेष्वेवासुषु विष्वग्विषयासु प्राणनक्रियासु रमणात् स्वाभाविक्यस्तम आत्मिका इन्द्रियवृत्तय एव” भा०। स्वार्थे प्रज्ञा० अण् आसुरः तत्रार्थे। तस्येदम् अण् आसुरः तत्सम्बन्धिनि त्रि० स्त्रियां ङीप् “आसुरीरात्रिरन्यत्र तस्मात्ताः परिवर्ज्जयेत्” स्मृतिः “आसुरीं योनिमापन्नाः” गीता। हितार्थे यत्। असुर्य्यः। “असुर्य्यानाम ते लोका अन्धेन तमसा वृताः” कठ० उ० सुरा सुधा ग्रहीतृत्वेनास्त्यस्य अर्श० अच् न० त०। “सुराप्रतिग्रहाद्देवाःसुरा इत्यभिश्रुताः। अप्रतिग्रहणाच्चास्या दैतेयाश्चासुराः स्मृताः इत्युक्तनिर्व्वचनादपि तेषामसुरत्वम्। जातौ ङीप् असुरी “असुरी जिह्वी देवानां प्रातः सवनसत्रालेट्” अथ०। ४ कांस्ये तस्यासुराह्वयत्वात्तथात्वम्। मेघे पु० निरु०।

असुरक्ष = त्रि० सुखेन रक्ष्यते सु + रक्ष–खल् न० त०। सुखेनारक्षणीये।

असुरराज् = पु० असुरेषु राजते राज् क्विप् ७ त०। प्रह्लाद- पौत्रे बलिदैत्ये २ असुराध्यक्षमात्रे च भा० आ० प० वकासुरवर्ण्णने। “पुष्टो मानुषमांसेन दुर्बुद्धिः पुरुषादकः। रक्षत्यसुरराट् नित्यमिमं जनपदं बली”।

असुररिपु = पु० असुराणां रिपुः। दानवशत्रौ विष्णौ। असुरारिप्रभृतयोऽप्यत्र।

असुरसा = स्त्री न सुष्ठु रसो यस्याः ५ ब०। (वावुइतुलसी) तुलसीभेदे

असुरहन् = त्रि० असुरं हन्ति–हन् क्विप्। असुरनाशके। “प्राग्नये विश्वशुचे धियन्धेऽसुरघ्ने” ऋ० ७” १३, १। स्त्रियां नान्तत्वात् ङीप्। असुरघ्नी।

असुरार्य्य = पु० ६ त०। शुक्राचार्य्ये।

असुराधिप = पु० ६ त०। १ प्रह्लादपौत्रे बलिदैत्ये २ असुराध्यक्षमात्रे च।

असुराह्व = न० असुरस्याह्वा आह्वा यस्य। कांस्ये हेम०।

असुर्य्य = त्रि० असुराय हितः गवा० यत्। १ असुरहिते तत्स्वभूते च असुरशब्दे उदा०।

असुष्वि = त्रि० सु–बा० कि द्वित्वम् न० त०। सोमाभिषवा कर्त्तरि “विपपृच्यादसुष्वीन् ऋ० ४, २४, ५। जह्यसुष्वीन् प्रवृहा पृणत” ऋ० ६, ४४, ११। “असुष्वीन् अनभिषोतॄन्यजमानान्” भाष्यम्।

असुलभ = त्रि० न सुलभः विरोधे। दुर्लभे दुःखेन प्राप्ये।

असुसू = पु० असून् प्राणान् सुवति सू–क्विप्। बाणे “स सासिः सासुसूः सासोयेयायेयाययाययः” किरा०।

असुस्थ = त्रि० विरोधे न० त०। १ दुःखेन स्थातरि २ रोगाद्यभिभूते च।

असुहृद् = पु० विरोधे न० त०। सुहृद्भिन्ने रिपौ “शलभतां लभतामसुहृद्गणः” माघः।

असू = स्त्री न प्रसूते सू–क्विप्। अप्रसवायां स्त्रियाम् “याभिर्धेनुमस्वम्” ऋ० १, ११२, ३।

असू(क्ष)क्षण = न० सू(सूर्क्ष)क्ष आदरे ल्युट् अभावे न० त०। अनादरे अवज्ञायाम्

असूक्ष्म = त्रि० विरोधे न० त०। सूक्ष्मताविरोधिस्थूलत्ववति।

असूत = त्रि० न० त०। अप्रसूते।

असूयक = त्रि० (असु)असूञ्–कण्ड्वादि० यकि–ण्वुल्। गुणेषुदोषारोपणशीले।

असूया = स्त्री असु (असू)–उपतापे कण्ड्वा० यक् अ। परगुणेषु दोषाविष्करणे “पैशून्यं साहसं द्रोहईर्षासूयार्थदूषणम्। वाग्दण्डजञ्च पारुष्यं क्रोधजोदशकोगणः” मनुः। “क्रुधद्रुहेर्य्यासूयार्थानां यं प्रति कोपः” पा०। “असूया परगुणेषु दोषाविष्करणम्” सि० कौ०।

असूयु = त्रि० असु(सू)–कण्ड्वा० यक् उन्। असूयाशीले “इदन्तु ते गुह्यतभं प्रवक्ष्याम्यनसूयवे” गीता।

असूर = त्रि० सूरी स्तम्भे धातूनामनेकार्थत्वात् स्तुतौ भावे घञ् न० ब०। स्तोत्ररहिते। “असूरे सन्ति सूरयः” ऋ० ८, १०, ४।

असूर्त्त = त्रि० सूरी क्त इडभावः न तस्य नत्वम्। “अप्रेरिते “असूर्त्ते सूर्त्ते रजसि” यजु० १७, १७।

असूर्य्यम्पश्या = त्रि० सूर्य्यमपि न पश्यति दृश–खश् मुम् च अस० समा०। अत्यन्तगुप्ते सूर्य्यादर्शिनि राजदारादौ। “असूर्य्यम्पश्यरूपा त्वं किमभीरुररार्य्यसे?” भट्टिः।

असृक्कर = पु० असृक् शोणितं करोति कृ–ट। शरीरस्थे रसधातौ, अन्नादेरशितस्य प्रथमं रसरूपता, रसस्य रक्तरूपतेति वैद्यके प्रसिद्धम्। अथ रसस्य यथा रक्तकरत्वम् तथोक्तं सुश्रुते। “रसाद्रक्तं ततोमांस मांसान्मेदः प्रजायते। मेदसोऽस्थि ततोमज्जा मज्ज्ञः शुक्रस्य सम्भवः” तत्पाकप्रकारमाह भाव० प्रका०। “यात्यामा शयमाहारः पूर्ब्बं प्राणानिलेरितः। माधुर्य्यं फेनभावञ्च षड्रसोऽपि लभेतसः”। “आहार्य्यं षद्धिधं भोज्यं भक्ष्यं चर्व्यं तथैव च। लेह्यं चूष्यंतथा पेयं तदुदाहरणानि तु। भोज्य मोदनपूपादि, भक्ष्यं मोदकमण्डकम्। चर्व्यंचिपिटधानादिरसलादि तु लिह्यते। चूष्यमाम्रफलेक्ष्वादि पीयते पानकं पयः”। आमाशयमाह चरकः “नाभिस्तनान्तरे जन्तोराहुरामाशयं बुधाः”। तत्र विशेषमाह। “उरोरक्ताशयस्तस्मादधःश्लेष्माशयःस्मृतः। आमाशयस्तु तदधस्तदघोहि मलाशयः”। अनिलेरित इति हृदयाधिष्टानेन प्राणनाम्ना वायुना मुखंगतेनान्तःप्रवेशितः। तथाह सुश्रुते। “योवायुः प्राणनामासौ मुखं गच्छति देहधृक्। सोऽन्तः प्रवेशयत्यन्तः प्राणांश्चाप्यवलम्बत” इति। तमाहारमा माशयस्थं क्लेदननामकफः क्लेदयति क्लेदनात्संहतं भिनत्ति च। उक्तं च सुश्रुते। “क्लेदनः क्लेदयत्यन्नं संहतं च भिनत्त्यतः” इति स आहारः षड्रसोऽप्यामाशये माधुर्यं लभते आमाशयस्थस्य मधुरस्य कफस्य योगात्। उक्तं च श्लेष्म स्वरूपम् “श्लेष्मा श्वेतो गुरुःस्निग्धः पिच्छिलः शीतलस्तथा। तमोगुणाधिकः स्वादुर्विदग्धोलवणो भवेदिति”। “फेनभावं च लभते जठरानलतेजसा”। यतआह वाग्भटः “संधुक्षितः समानेन पचत्यामाशयस्थितम्। औदर्योऽग्निर्यथा बाह्यः स्थालीस्थं तोयतण्डुलम्” इति। अथ सएवाहारः प्राणवायुना प्रेरितस्ततः किञ्चित्स्खलितः पाचकाख्यपित्तोष्मणेषत्पक्वोऽम्लोभवति। उक्तं च। “अथ पाचकपित्तेन विदग्धश्चाम्लतां व्रजेदिति” पाचकपित्तेन पाचकपित्तोष्मणा ततः स एवाहारो नाभिमण्डलाधिष्ठानेन समाननाम्ना वा युना प्रेरितोग्रहणीम् प्रति नीयते उक्तञ्च। “ततः समान मरुता ग्रहणीमभि नीयते”। ग्रहणीलक्षणमाह “षष्ठीपित्तधरा नाम पाकला परिकीर्त्तिता। आमपक्काशयान्तःस्था ग्रहणीत्यभिधीयते”। पित्तधरा पाचकाख्यं पित्तं तदग्न्यधिष्ठानं तद्धारयति। तत्र ग्रहण्यामामाशयपक्काशयमध्यवर्त्तिपाचकाख्यपित्ताधिष्ठानेनाग्निनाहारः पच्यते स कटुश्चभवति। तथा च “ग्रहण्याम्पच्यते कोष्ठवह्निना जायते कटुरिति”। अयमर्थः। आहारो ग्रहण्यां कोष्ठवह्निना ग्रहणीस्थितपाचकपित्तेन वह्निना पच्यते पच्यमानः स ग्रहणीस्थितस्य कटुरसस्य पित्तधस्य योगात्कटुर्भवति। एतदाहारपाके विशेषमाह। “शरीरं पाञ्चभौतिकम्” तत्र पञ्चसु भूतेषु पञ्चाग्नयः तिष्ठन्ति। उक्तंच चरकेण। “भौमाप्याग्नथवायव्याः पञ्चोष्माणः सनाभसाः। पञ्चाहारगुणान् स्वान् स्वान् पार्थिवादीन् पचन्त्यनु”। अत्रोष्मपदेनाग्निरुच्यते आहारोऽपि पाञ्चभौतिकः तत्र पाचकपित्तस्थेनाग्निनो त्तेजितेन शरीरवर्त्तिभूभागाग्रिनाहारवर्त्तिभूभागः पच्यते पक्वोभूभागः स्वकीयान् गुणानभिवर्द्धयति एवं जलादिभागा अपि पच्यन्ते। तथा च सुश्रुते “पञ्चभूतात्मके देहे आहारः पाञ्चभौतिकः। विपक्वः पञ्चधासम्यक्गुणान् स्वानभिवर्द्धयेदिति”। गुणशब्देनात्र गुणिनः पृथिव्यादय उच्यन्ते तेन गुणान् शरीरवर्त्तिनः पार्थिवादीन् भागानभिवर्द्धयेदित्यर्थः। एवमहोरात्रेण पक्वाहारो मिष्टश्च कटुश्च मधुरोभवति अम्लस्त्वम्लोभवति। कटुस्तिक्तः कषायश्च कटुर्भवति उक्तञ्च “मिष्टःकटुश्च मधुरमम्लोऽम्लं पच्यते रसः। कटुतिक्तकषायाणां विपाको जायते कटुरिति” एवं विपक्वस्याहारस्य सारो निगदितोरसः शेषोग्रहणीस्थोमलद्रवः। मलद्रवस्य जलभागः शिराभिर्वस्तिन्नीतोमूत्रम्भवति। उक्तञ्च “आहारस्य रसःसारः सारहीनोमलद्रवः। शिराभिस्तज्जलं नीतं वस्तौ मूत्रत्वमाप्नुयात्। शेषं किट्टञ्च यत्तस्य तत्पुरीषं निगद्यते। समानवायुनानीतं तत्तिष्ठति मलाशये”। तत्र मलाशयेनापानवायुना प्रेरितं मूत्रं मेढ्रभगमार्गेण, पुरीषं गुदमार्गेण शरीराद्बहिर्याति उक्तञ्च “भूत्रंह्युपस्थमार्गेण पुरीषं गुदमार्गतः। अपानवायुनाक्षिप्तं बहिर्याति शरीरतः”। उपस्थः शिस्नोभगञ्च। रसस्तु समानवायुना प्रेरितोधमनीमार्गेण शरीरारम्भकस्य रसस्य स्थानं हृदयं गत्वा तेन सहमिश्रितोभवति ऊक्तञ्च “रसस्तु हृदयं याति समानमरुतेरितः। स तु व्यानेन पुविक्षिप्तः सर्ब्बान्धातून् विवर्द्धयेत्। केदारेषु यथा कुल्याः ष्णन्ति विविधौषधीः तथा कलेवरे धातून् सर्वान्बर्द्धयते रसः” रसस्तु तत्र तत्र त्रिघा विभिद्यते। उक्तं च चरके “स्थूला एवं मलभेदैस्तत्रतत्र त्रिधा रसः। स्वंस्थूलेऽंशः परं सूक्ष्म स्तन्मलो याति तन्मलम्”। अयमर्थः स्थूलेऽंशः स्वंयाति। यथास्थितं तिष्ठति सूक्ष्मस्त्वंशःपरं द्वितीयं धातुं यातितन्मलः रसादिमलस्तन्मलं शरीरारम्भकं तत्तद्धातुमलं यातीत्यर्थः यथा लौकिकाग्निनेक्षुरसः पच्यते तथा शरीरारम्भकस्य रसस्य अग्निनाहाररसः पच्यते पच्यमानः स पञ्चाहोरात्रात्सार्द्धदण्डमेकं च यावत्प्राक्तनरसधातावेव तिष्ठते उक्तञ्च सुश्रुते “स खलु रसस्त्रीणि त्रीणि कलासहस्राणि पञ्चदशकला एकैकस्मिन्धातावेव तिष्ठति” इति। अत्र कलानां विंशतिः मुहूर्त्तः स च दण्डद्वयात्मकः तथा च भोजः “घातौ रसादौ मज्जान्ते प्रत्येकं क्रमतोरसः। अहोरात्रात्स्वयंपञ्च सार्द्धं दण्डं च तिष्ठति”। प्रत्येकम् एकस्मिन्नेकस्मिन्नित्यर्थः ततो यथा पच्यमानादिक्षुरसान्मलोनिर्गच्छति। तथा पच्यमानादाहाररसान्मलो निर्गच्छति सः कफः उक्तञ्च सुश्रुते “कफपित्तमलाः खेषु प्रस्वेदोनखरोम च नेत्रविट्चक्षुषः स्रेहोधातूनां क्रमशोमलाः। खेषुमलः कर्ण्णादिस्रोतोमलः। स च कफः प्राणानिलप्रेरितोधमनीमार्गेण शरीरारम्भकं क्लेदनाख्यं कफं गत्वा पुष्णाति। ततः सारभूतस्याहाररसस्य द्वौ भागौ भवतः स्थूलः सूक्ष्मश्च तत्र सूक्ष्मोभागः शरीरारम्भकं रसं पोषयति सकलशरीराधिष्ठानेन व्यानवायुना प्रेरितोधमनीभिः सञ्चरन् पोषणस्नेहनजठरानलोष्मकृतसन्तापनिवारणादिभिर्गुणैः सकलं पुष्णाति शरीरम् ततः स्थूलोभागः प्राणवायुना प्रेरितोधमनीमार्गेण शरीरारम्भकस्य रक्तस्य स्थानं गत्वा यकृत्प्लीहरूपङ्गत्वा तेन सह मिश्रितो भवति। ततः प्राक्तनरक्तस्थाग्निना पुनः पच्यमानः पञ्चाहोरात्रात्सार्द्धदण्डञ्च यावत्प्राक्तनरक्तघातावेव तिष्टति ततो यथाग्निना पुनःपुनः पच्यमानादिक्षुविकाराद्वारंवारं मलं निर्गच्छति। तथा पुनःपुनः पच्यमाना दाहाररसात्प्रतिवारं मलं निर्गच्छति तत्र रक्ताग्निनापच्यमानान्मलं पित्तं निर्गच्छति। तच्च पित्तं समानवायुना प्रेरितं धमनीमार्गेण शरीरारम्भकं पाचकाख्यं पित्तं गत्वा पुष्णाति। ततः सारभूतस्याहाररसस्य द्वौ भागौ भवतः। स्थूलः सूक्ष्मश्च। तत्र सूक्ष्मोभागोरञ्जकाख्येन पित्तेन रक्तीकृतः शरीरारम्भकं रक्तं पोषयन् व्यानबायुना प्रेरितो धमनीभिः सञ्चरन् सकलशरीरगतानि रुधिराणि पुष्णाति। ततः स्थूलोभागो व्यानवायुना- प्रेरितोधमनीभिः शिराभिश्च शरीरारम्भकाणि मांसानि याति ततो मांसाग्निना पुनः पच्यमानः पञ्चाहोरात्रा त्सार्द्धदण्डंयावन्मांसेष्वेव तिष्ठति ततः पच्यमानात्तस्मान्मलं निर्गच्छति तद्व्यानवायुना क्षिप्तं कर्णावागत्य कर्ण्ण विड्भवति ततः सारभूतस्य रसस्य द्वौ भागौ भवतः स्थूलः सूक्ष्मश्च ततः सूक्ष्मोभागो मांसानि पुष्णाति ततः स्थूलोभागोव्यानवायुना प्रेरितोधमनीभिः शरीरारम्भकस्य मेदसःस्थानमुदरं याति ततोमेदसोऽग्निना पुनः पच्यमानः पञ्चाहोरात्रात्सांर्द्धदण्डञ्च यावन्मेदस्येव तिष्ठति ततः पच्यमानात्तस्मान्मलो निर्गच्छति प्रस्वेदरूपः स च शीतः स्रोतस्येव तिष्ठति शरीरोष्णणा तप्तश्च तदा व्यानवायुना प्रेरितः शिरामार्गे लोमकूपेभ्यो बहिर्याति जिह्वादन्तकक्षामेढ्रादिमलञ्च मेदोमलमित्येके। ततः सारभूतस्य रसस्य द्वौभागौ भवतः स्थूलः सूक्ष्मश्च तत्र सूक्ष्मोभागो मेदः पुष्णाति उदरे तिष्ठन् व्यानवायुना प्रेरितः स्रोतोमार्गैः सूक्ष्मास्थितान्यपि मेदांसि पुष्णाति स्थूलोभागोव्यानवायुना प्रेरितोधमनीभिः शिराभिश्च शरीरारम्भकाण्यस्थीनि याति ततोस्थ्यग्निना पुनः पच्यमानः पञ्चाहोरात्रात् सार्द्धदण्डं च यावदस्थिष्वेव तिष्ठति ततः पच्यमानात्तस्मान्मलो निर्गच्छति स च व्यानवायुनाप्रेरितः शिराभिर्मार्गैरागत्याङ्गुलिषु नखाःस्तनौ लोमानि भवन्ति ततः सारभूतस्य रसस्य द्वौ भागौ भवतः स्थूलः सूक्ष्मश्च तत्र सूक्ष्मोभागोव्यानवायुना प्रेरितः स्रोतोमार्गैर्मज्जस्थानानि स्थूलास्थ्यभ्यन्तराणि याति ततो मज्जाग्निना पुनः पच्यमानः पञ्चाहोरात्रात्सार्द्धदण्डञ्च यावन्मज्जन्येवावतिष्ठति। ततः पच्यमानात् तस्मान्मलं निर्गच्छति। तच्च व्यानवायुना प्रेरितं शिरामार्गेनेयनयोरागत्य नेत्रविट् चक्षुस्नेहश्च भवति ततःसारभूतस्य रसस्य द्वौ भागौ भवतः स्थूलः सूक्ष्मश्च। तत्र सूक्ष्क्षोभागोमज्जानं पुष्णाति ततः स्थूलोभागोव्यानवायुना प्रेरितोधमनीभिः शिराभिश्च शुक्रस्य स्थानं सकलं शरीरं गत्वा शरीरारम्भकेण शुक्रेण सह मिश्रितो भवति। ततः शुक्रस्याग्निना पुनः पच्यते पच्यमाने तस्मिन्मलं नास्ति स हि सहस्रधाध्मातसुवर्णवत्। उक्तञ्च “स्वाग्निभिः पच्यमानेषु मलः षट्सु रसादिषु। न शुक्रे पच्यमानेऽपि हेमनीवाक्षये मलः”। अन्यच्च “स्वाग्निभिः पच्यमानेषु मज्जान्तेषु रमादिषु। षट्सु धातुषु जायन्ते मलानि मुनयोजगुः। यथा सहस्रधाध्माते न मलं किल- काञ्चने। तथा रसे मुहुः पक्वे न मलं शुक्रतां गते”। ततः सारभूतस्य रसस्य द्वौ भागौ भवतः। स्थूलःसूक्ष्क्षश्च तत्र सूक्ष्मस्नेहभागः ओजस्तस्य लक्षणमाह। “ओजः सर्वशरीरस्थं स्निग्धंशीतं स्थिरंसितम्। सोमात्मकं शरीरस्य बल पुष्टिकरं मतम्” वलं चेष्ठापाटवं तथा च। “चेष्ठासु पाटवं यत्तु बलन्तदभिधीयते इति” यत्तु सुश्रुते रसादीनां शुक्रान्तानां धातूनां यत्परन्तेजस्तत् खल्वोजस्तदेव बलमिति तेजस्तेजोद्रवः”। अत्रायमभिप्रायः। यस्माद्रसादोजो भवति रसः सर्वधातुस्थानगतत्वात्तद्धातुवन्मन्यत इति। सर्वधातूनां स्नेहमोजःक्षीरे घृतमिव तदेव बलमिति” तत्कार्य्यकारणयोरभेदोपचारात् अभेदकथनं च विकित्सैक्यार्थम्। “अन्यच्च “गुरु शीतं मृदु स्निग्धं सान्द्रं स्वादु स्थिरंतथाप्रसन्नं पिच्छलं सूक्ष्क्षमोजो दशगुणं स्मृतम्”। चरके तु “अष्टविन्दुप्रमाणन्तदीषद्रक्तं सपित्तकम्। अग्निसोमात्मकत्वेन द्विरूपं वर्णितं तु तत्”। वाग्भटश्च “ओजस्तु तेजो धातूनां शुक्रान्तानां परं स्मृतम्। हृदयस्थमपि व्यापि देहस्थिति निबन्धनम्। यस्य प्रवृद्धौ देहस्य तुष्टिपुष्टिबलोदयाः। यन्नाशे नियतोनाशो यस्मिंस्तिष्ठति जीवनम्। निष्पद्यन्ते यतो भावाविविधा देहसंश्रयाः। उत्साहः प्रतिभा चैव लावण्यां सुकुमारता”। ततः स्थूलभागो रसोमासेन पुंसां शुक्रं स्त्रीणां त्वार्त्तवं शुक्रं च भवति। उक्तञ्च सुश्रुते “एवं मासेन रसः शुक्रीभवति स्त्रीणामार्त्तवं च भवतीति चेति” चकारात् स्त्रीणामपि शुक्रं भवति। अतएवोक्तं सुश्रुते। “योषितोऽपि स्रवत्येव शुक्रं पुंसः समागमे। तन्न गर्भस्य किञ्चि त्तु करोतीति न चिन्त्यते” गर्भस्य शुद्धस्य, विकृतस्य तु गर्भस्य कारणन्तदपि भवति यत उक्तं “यदा नार्यावुपेयातां वृषस्यन्त्यौ कथञ्चन। मुञ्चन्त्यौ शुक्रमन्योन्यमनस्थिस्तत्र जायते” इति। एतेन स्त्रीणां सप्तमोधातुरार्तवं शुक्रमष्टम इति बोधितम् आशयाधिक्यवत्। “स्त्रीणां गर्भोपयोगी स्यादार्त्तवं सर्वसम्मतम् तासामपि बलं वर्णं शुक्रं पुष्टिं करोति हि”। एवं रसएव केदारकुल्यान्यायेन सर्वान्धातून् पूरयति मासेन नवदण्डोत्तरेण शुक्रमार्त्तवञ्च भवति इति सिद्धान्तः। एवं सति रसाद्रक्तमिति मङ्गतमेव ततोमांसन्ततो रक्तोत्पत्तेरनन्तरंमांसं जायते रसादेवेत्यर्थः मांसान्मेदः प्रजायते इति मांसादनन्तरं मेदः प्रजायते रसादेवेत्यर्थः। मेदसोऽस्थि मेदसोऽग्रेऽस्थि जायते रसादेवेत्यर्थः। एवं ततोमज्जा मज्ज्ञोऽग्रे शुक्रस्य सम्भव इत्यर्थः। रसःशरीरे त्रिधा सञ्च रति तथाचोक्तम्। “रसः- शरीरे शब्दार्चिर्ज्जलसन्तानवत् त्रिधा। संचरत्यनुरूपोऽयं नित्यमेव हि देहिनाम्”। अस्यायमभिप्रायः पुरुषास्तीक्ष्णाग्नयोमध्यमाग्नयोमन्दाग्नयश्च भवन्ति तत्र तीक्ष्णाग्नीनां रसःशब्दसन्तानवच्छीघ्रं सञ्चरति। मध्यामाग्नीनामर्च्चिःसन्तानवन्मध्यवेगेन सञ्चरति। मन्दाग्नीनां जलसन्तानवन्मन्दं सञ्चरति। तेन मासेन रसः शुक्रं भवति यदुक्तं तन्मध्यमाग्नीनधिकृत्योक्तं दीप्ताग्नीनां तु रसः किञ्चिदूनेन मासेन शुक्रं भवति। मन्दाग्नेस्तु किञ्चिदधिकेन मासेनेति सिद्धान्तः”।

असृग्धरा = स्त्री असृक् धरति धृ + अच्। शोणितधारिण्यां त्वचि। अण् असृग्धाराप्यत्र।

असृग्वहा = स्त्री असृक् शोणितं वहति अच्। शोणित वहायां नाड्यां तद्विवरणं सुश्रुते “सप्त सिराशतानि भवन्ति। याभिरिदं शरीरमाराम इव जलहारिणीभिः केदार इव च कुल्याभिंरुपस्निह्यतेऽनुगृह्यते चाकुञ्चनप्रसारणादिभिर्विशेषैः।। द्रुमपत्रसेवनीनामिव च तासां प्रतानास्तासां नाभिर्मूलं ततश्च प्रसरन्त्यूर्द्धमधस्तिर्य्यक् च। भवतश्चात्र।। यावत्यस्तु सिराः काये सम्भवन्ति शरीरिणाम्। नाभ्यां सर्व्वा निबद्धास्ताः व्रतन्वन्ति समन्ततः।। नाभिस्थाः प्राणिनां प्राणाः प्राणान्नाभिर्व्यपाश्रिता। सिराभिरावृता नाभिश्चक्रनाभिरिवारकैः।। तासां मूलसिराश्चत्वारिंशत्तासां वातवाहिन्यो दश पित्तवाहिन्यो दश कफवाहिन्यो दश दश रक्तवाहिन्यः। तासान्तु वातवाहिनीनां वातस्थानगतार्ना पञ्चसप्ततिशतं १७५ भवति तावत्य एव १७५ पित्तवाहिन्यः पित्तस्थाने, कफवाहिन्यश्च कफस्थाने रक्तवाहिन्यश्च यकृत्प्लीह्नोरेवमेतानि सप्त सिराशतानि।। तत्र वातवाहिन्यः सिरा एकस्मिन् सक्थ्नि पञ्चविंशतिः। एतेनेतरसक्थिबाहू च व्याख्यातौ।। विशेषतस्तु कोष्ठे चतुस्त्रिंशत्तासां गुदमेढ्राश्रिताः श्रोण्यामष्टौ। द्वे द्वे पार्श्वयोःषट् पृष्ठे तावत्यएव ६ चोदरे दश वक्षसि।। एकचत्वारिंशज्जत्रुण ऊर्द्ध्वं, तासां चतुर्दश ग्रीवायाम्। कर्णयोश्चतस्रः। नव जिह्वायां। षट्नासिकायां। अष्टौ नेत्रयोः। एवमेतत् पञ्चसप्तत्यधिकशतं वातवहानां सिराणां व्याख्यातम्। एष एव विभागः शेषाणामपि।। विशेषतस्तु पित्तवाहिन्यो नेत्नयोर्दश कर्णयोर्द्वे। एवं रक्तवहाः कफवहाश्च। एवमेतानि सप्त सिराशतानि सविभागानि व्याख्यातानि। स्वाः सिराः सञ्चरद्रक्तं कुर्य्याच्चान्यान् गुणानपि।। यदा तु कुपितं रक्तं सेवते स्ववहाः सिराः। तदास्य विविधा रोगा जायन्ते रक्तसम्भवाः।। नहि वातं सिराः काश्चिन्न पित्तं केवलं तथा। श्लेष्माणं वा वहन्त्येता अतः सर्व्ववहाः स्मृताः।। प्रदुष्टानां हि दोषाणामुच्छ्रितानां प्रधावताम्। ध्रुवमुन्मार्गगमनमतः सर्व्ववहाः स्मृताः।। तत्रारुणा वातवहाः पूर्य्यन्ते वायुना सिराः। पित्तादुष्णाश्चानिलाश्च शीता गौर्य्यः स्थिराः कफात्।। असृग्वहास्तु रोहिण्यः सिरा नात्युष्णशीतलाः”

असृग्विमीक्षण = न० वृद्धस्य दुष्टस्य असृजः शोणितस्य देहाद् विमोक्षणं स्रावणम् ६ त०। देहात् वृद्धस्य दुष्टस्य वा रक्तधातोः स्रावणे निस्मारणे। तत्प्रकारादिकमुक्तं सुश्रुते “तस्मान्न शीते नात्युष्णे नास्विन्ने नातितापिते। यवागुं प्रतिपीतस्य शोणितं मोक्षयेद्भिषक्। सम्यग्गत्वा यदा रक्तं स्वयमेवावतिष्ठते। शुद्धं तदा विजानीयात्सम्यग्विस्रावितञ्च तत्।। लाघवं वेदनाशान्तिव्यांधेर्व्वेगपरिक्षयः। सम्यग्विस्राविते लिङ्गं प्रसादो मनसस्तथा।। त्वग्दोषा ग्रन्थयः शोफा रोगाः शोणितजाश्च ये। रक्तमोक्षणशीलानां न भवन्ति कदाचन।। अथ खल्वप्रवर्त्तमाने रक्ते एलाशीतशिवकुष्ठतगरपाटा भद्रदारुविडङ्गचित्रकत्रिकटुकागारधूमहरिद्रार्क्काङ्कु रनक्तमालफलैर्यथालाभं त्रिभिश्चतुर्भिः समस्तैर्व्वा चूर्ण्णीकृतैः सर्षपतैललवणप्रगाढैर्ब्र णमुखमवघर्षयेदेवं सम्यक् प्रवर्त्तते। अथातिप्रवृत्ते रोध्रमधुकप्रियङ्गुपत्तङ्गगैरिकसर्जरसरसाञ्जनशाल्मलीपुष्पशङ्खशुक्तिमाषयवगोधूमचूर्णैः शनैर्व्रणमुखमवचूर्ण्याङ्गुल्यग्रेणावपीडयेत्। सालसर्ज्जार्ज्जुनारिमेदमेषशृङ्गधवधन्वनत्वग्भिर्व्वा चूर्ण्णिताभिः क्षौमेण वा ध्मापितेन समुद्रफेनलाक्षाचूर्ण्णैर्व्वा यथोक्तैर्व्रणबन्धनद्रव्यैर्गाढं बध्नीयात्। शीताच्छादनभोजनागारैः शीतैः परिषेकप्रदेहैश्चोपाचरेत् क्षारेणाग्निना वा दहेद्यथोक्तं व्यधनादनन्तरं वा तामेवातिप्रवृत्तां सिरां विध्येत्। काकोल्यादिक्त्राथं वा शर्करामधुमधुरं पाययेत् एणहरिणोरभ्रशशमहिषवराहाणां वा रुधिरं क्षीरयूषरसैः सुस्निग्धैश्चाश्नीयादपद्रवांश्च यथास्वमुपाचरेत्”। उपद्रवास्तत्रैवोक्ता यथा।। “धातुक्षयाच्छ्रुते रक्ते मन्दः सञ्जायतेऽनलः। पवनश्च परं कोपं याति तस्मात् प्रयत्नतः।। तन्नातिशीतैर्लषुभिः स्निग्धैः शोणितवर्द्धनैः। ईषदम्लैरनम्लैर्वा भोजनैः समुपाचरेत्।। चतुर्विधं यदेतद्धि रुधिरस्य निवारणम्। सन्धानं स्कन्दनञ्चैव पाचनं दहनं तथा।। व्रणं कषायः सन्धत्ते रक्तं स्कन्दयते हिमम्। तथा सम्पाचयेद्भस्म दाहः सङ्कोचयेत् सिराः। अस्कन्दमाने रुधिरे सन्धानानि प्रयोजयेत्। सन्धाने भ्रश्यमाने तु पाचनैः समुपाचरेत्।। कल्पैरेतैस्त्रिभिर्व्वैद्यः प्रयतेत यथाविधि। असिद्धिमत्सु चैतेषु दाहः परम इष्यते। सशेषदोषे रुधिरे न व्याधिरतिवर्त्तते। सावशेषे ततः स्थेयं न तु कुर्य्यादतिक्रमम्।। देहस्य रुधिरं मूलं रुधिरेणैव धार्य्यते। तस्माद्यत्नेन संरक्ष्यं रक्तं जीव इति स्थितिः।। स्नुतरक्तस्य सेकाद्यैः शीतैः प्रकुपितेऽनिले। शोफं सतोदं कोष्णेण सर्पिषा परिषेचयेत्।। नृपाढ्यबालस्थविरभीरुदुर्व्वलनारीसुकुमाराणामनुग्रहार्थं परमसुकुमारोऽयं शोणितावसेचनोपायोऽभिहितो जलौकसः। तत्र वातपित्तकफदुष्टशोणितं यथासंख्यं शृङ्गजलौकालावुभिरवसेचयेत् स्निग्धशीतरूक्षत्वात् सर्व्वाणि सर्व्वैर्वा। भवन्ति चात्र। उष्णं समधुरं स्निग्धं गवां शृङ्गं प्रकीर्त्तितम्। तस्माद्वातोपसृष्टे तु हितं तदवसेचने। शीताधिवासा मधुरा जलौका वारिसम्भवा। तस्मात्पित्तोपसृष्टे तु हिता सा त्ववसेचने। अलावु कटुकं रूक्षं तीक्ष्णञ्च परिकीर्त्तितम्। तस्माच्छ्लेष्मोपसृष्टे तु हितं तदवसेचने। तत्र प्रच्छिते तनुवस्त्रपटलावनद्धेन शृङ्गेण शोणितमवसेचयेदाचूषणात्। सान्तर्दीपयाऽलाव्या”। जलौकसां विवरणम् अस्रपाशब्दे वक्ष्यते। “अथ जलौकोऽवसेकसाध्यव्याधितमुपवेश्य संवेश्य वा विरुक्ष्य चास्य तमवकाशं मृद्गोमयचूर्णैर्यद्यरुजः स्यात्। गृहीताश्च ताः सर्षपरजनीकल्कोदकप्रदिग्धगात्रीः सलिलसरकमध्ये मुहूर्त्तस्थिता विगतक्लमा ज्ञात्वा तामीरोगं ग्राहयेत्। सूक्ष्मशुक्लार्द्रपिचुल्पोतावच्छन्नां कृत्वा मुखमपावृणुयादगृह्लन्त्यै क्षीरविन्दुः शोणितविन्दुं वा दद्याच्छस्त्रपदानि वा कुर्व्वीत यद्येवमपि न गृह्णीयात्तदान्यां ग्राहयेत्। यदा च निविशतेऽश्वखुरवदाननं कृत्वोन्नम्य च स्कन्धं तदा जानीयाद्गृह्णातीति गृह्न्तीं चार्दूवस्त्रावच्छन्नां धारयेत् सेचयेच्च। दंशे तोदकण्डूप्रादुर्भावैर्जानीयाच्छुद्धनियमादत्त इति शुद्धमाददानामपनयेत्। अथ शोणितगन्धेन न मुञ्चेन्मुखमस्याः सैन्धवचूर्णेनावकिरेत्। अय पतितां तण्डुलकण्डन प्रदिग्धगात्रीं तैललवणाभ्यक्तमुखीं वामहस्ताङ्गुष्ठाङ्गुलिभ्यां गृहीतपुच्छां दक्षिणहस्ताङ्गुष्ठाङ्गुलिभ्यां शनैः शनैरनुलोमनुमार्जयेदा मुखाद्वामयेत्तावद्यावत्सम्यग्वान्तलिङ्गानीति। सम्यगान्ता सलिल सरकन्यस्ता भोक्तुकामा सती चरेत्। या सीदति न चेष्टते सा दुर्व्वान्ता तां पुनः सम्यग्वामयेत्। दुर्व्वान्ताया व्याधिरसाध्य इन्द्रमदो नाम भवति। अथ सुवान्तां पूर्ब्बवत्सन्निदध्यात् शोणितस्य च योगायोगानवेक्ष्य जलौकोव्रणान्मधुनावघट्टयेच्छीताभिरद्भिश्च परिषेचयेद्बध्नीत वा व्रणं कषायमधुरस्निग्धशीतैश्च प्रदेहैः प्रदिह्यादिति। भवति चात्र। क्षेत्राणि ग्रहणं जातीः पोषणं सावचारणम्। जलौकसाञ्च यो वेत्ति तत्साध्यान् स जयेद्गदान्”।

असृज् = न० न सृज्यते इतररागवत् संसृज्यते सहजत्वात् न + सृज्–क्विन्, अस्यते क्षिप्यते इतस्ततो नाडीभिः अस् ऋजि वा। १ शोणिते २ मङ्गलग्रहे च तस्य रक्तवर्णत्वात्तथात्वम्। कुङ्कुमे, ३ विष्कम्भावधिके ४ षोडशे योगे। शोणितोत्पत्ति रुक्ता भाव० प्र०। “यदा रसोयकृद्याति तत्र रञ्जकपित्ततः। रागं पाकञ्च संप्राप्य स भवेद्रक्तसंज्ञकः। रक्तं सर्व्वशरीरे तु जीवस्याधार उत्तमः। स्निग्धं गुरु चलै स्वादु विदग्धं पित्तवद्भवेत्”। तस्योत्तमत्वञ्चोक्तं तत्रैव “जीवोवसति सर्व्वस्मिन् देहे तत्र विशेषतः”। वीर्य्ये रक्ते मले तस्मिन् क्षीणे याति क्षयं क्षणात्”। वीर्य्ये रक्ते मले च शरीरारम्भके वाग्भटोक्तपरिमाणयुक्ते शुद्धे जीवोवसति न तु दुष्टे प्रवृद्धे रक्तस्रावणोपदेशस्य विधानात्। पित्तवद्भवेदम्लं भवेदित्यर्थः।। तस्य स्थानम्” “यकृत् प्लीहा च रक्तस्य सुख्यस्थानं तयोः स्थितम्”। अन्यत्र संस्थितवतां रक्तानां पीतता भवेत्” इति भा० प्रका० सुश्रुते शोणितोत्पादविवरणमन्यथोक्तं यथा “अथातः शोणितवर्ण्णनीयमध्यायं व्याख्यास्यामः। तत्र पाञ्चभौतिकस्य चतुर्विधस्य षड्रसस्य द्विविधवीर्य्यस्याष्टविधवीर्य्यस्य वानेकगुणस्योपयुक्तस्य आहारस्य सम्यक् परिणतस्य यस्तेजोभूतः सारः परमसूक्षमः स रसैत्युच्यते। तस्य चं हृदयं स्थानं स हृदयाच्चतुर्व्विंशतिं धमनीरनुप्रविश्योर्द्ध्वगा दश दश चाधोगामिन्यश्चतस्र स्त्रिर्य्यग्गाः कृत्स्नं शरीरमहरहस्तर्पयति वर्द्धयति धारयति यापयति जीवयति चादृष्टहेतुकेन कर्म्मणा। तस्य शरीरमनुधावतोऽनुमानाद्गतिरुपलक्षयितव्या क्षयवृद्धिवैकृतैः। तस्मिन् सर्व्व शरीरावयवदोषधातुमलाशयानुसारिणि रसे जिज्ञासा किमयं सौम्यस्तैजस इति। अत्रोच्यते स खलु द्रवानुसारीस्नेहनजीवनतर्पणधारणादिभिर्विशेषैः सौम्य इत्यवगम्यते। स खल्वाप्यो रसो यकृत्प्लीहानौ प्राप्य रागमुपैति। भवतश्चात्र।। “रञ्जितास्तेजसा त्वापः शरीरस्थेन देहिनाम्। अव्यापन्नाः प्रसन्नेन रक्तमित्यभिधीयते।। रसादेव स्त्रिया रक्तं रजःसंज्ञं प्रवर्त्तते। तद्वर्षाद्द्वादशादूर्द्ध्वं याति पञ्चाशतः क्षयम्।। आर्त्तवं शोणितं त्वाग्नेयमग्नीषोमीयत्वाद्गर्भस्य पाञ्चभौतिकञ्चापरे जीवरक्तमाहुराचार्य्याः।। “विस्रता द्रवता रागः स्पन्दनं लघुता तथा। भूम्यादीनां गुणा ह्येते दृश्यन्ते चात्र शोणिते”।

असृपाटी = स्त्री असृजः पाटी परिपाटी पृ०। शोणितधारायाम्।

असेचनक = त्रि० न सिच्यते तृप्यति मनोऽत्र सिच–ल्युट् संज्ञायां कन्। १ अत्यन्तप्रियदर्शने यद्दर्शनान्मनो न तृप्यति तत्र “नयनयुगासेचनकम् मानसवृत्त्यापि दुष्पापम्” सा० द०। सेचनं सेकः अभावे न० त० स्वार्थे कन्। २ सेचनाभावे न० ब०। ३ सेचनशून्ये त्रि०।

असेवन = न० अभावे न० त०। १ सेवाभावे न० ब०। २ सेवाशून्ये

असौ = अव्य० सो–बा०–डौ न० त०। अदःशब्दार्थे। “असौनामाऽयमिदं रूप इति” शत० ब्रा०। अयञ्च साक्षादादिः इति बहवः। असौकृत्य। गणरत्ने तु तत्र गणे अग्नौ इति पठितम् व्याख्यातञ्च अग्नौ इति तीक्ष्णत्वे अग्नौकृत्येति” इति।

असौन्दर्य्य = न० अभावे न० त०। १ सौन्दर्य्याभावे न० ब०। २ सौन्दर्य्यशून्ये त्रि०।

असौम्य = त्रि० विरोधे न० त०। सौम्यत्वविरोधिघोरत्वयुक्ते

असौम्यस्वर = त्रि० असौम्यः स्वरोयस्य। १ काकतुल्यमन्दस्यरयुक्ते। २ कठोरस्वरे च।

असौष्ठव = न० अभावे न० त०। १ सौष्ठवाभावे न० ब०। २ सौष्ठवशून्ये त्रि०।

***