असत्ता = स्त्रो असतोभावः तल। १ अविद्यमानत्वे २ असाधुत्वे ३ अव्यक्तत्वे च।

असत्त्व = न० असतो भावः त्व। १ अविद्यमानत्त्वे २ अव्यक्तत्वे ३ असाधुत्वे च सत्त्वं द्रव्यं न० त०। ४ द्रव्यभिन्ने “सोऽसत्त्वप्रकृतिर्गुणः” इति फणिभा०। “क्रिया न युज्यते लिङ्गक्रियानाधारकारकैः। असत्त्वरूपता तस्या इयमेवावधार्य्यताम्” हर्य्युक्तायां लिङ्गसंख्यानन्वयिन्यां कर्त्तृकर्मत्वभिन्नकारकत्वशून्यायां साध्यरूपयां ५ क्रियायाञ्च। सत्त्वं प्रकाशादिसम्पादकं प्रकृतेर्गुणभेदः न० त०। तद्भिन्ने ६ रजसि ७ तमसि च न०। सत्त्वं जन्तुमात्रम् न० ब०। ८ जन्तुशून्ये त्रि०। सत्त्वं सात्त्विकः गुणभेदः। ९ तच्छूत्ये तामसादिगुणयुते त्रि०। सत्त्वमर्थक्रियाकारित्वम् अभावे न० त०। १० प्रयोजनानुपयुक्ते उदा० असत्ख्यातिशब्दे “सत्त्वासत्त्वकथा वृथा” खण्डनख०।

असत्पथ = पु० असन् पन्थाः अच् समा०। १ शास्त्रादिनिषिद्धे कार्य्यादो २ दुष्टे वर्त्मनि च।

असत्परिग्रह = पु० असतः पक्षस्य परिग्रहः स्वीकारः। दुष्टपक्षालम्बने।

असत्प्रतिग्रह = पु० असतः निषिद्धस्य तिलादेः असद्भोवा शूद्रादिभ्यः प्रतिग्रहः। १ निषिद्धद्रव्यप्रतिग्रहे २ शूद्रादिभ्यः प्रतिग्रहे च। प्रतिग्रहश्च अदृष्टार्थत्यक्तद्रव्य स्वीकारः। पारितोषिकोपढौकनादिग्रहणे तु न दोषः। विवरणमप्रतिग्राह्यशब्दे दृश्यम्। “शतसहस्रमसत्प्रतिग्रहेष्विति” विष्णु० “असत्प्रतिग्रहेषु उभयतोमुख्यादिप्रतिग्रहेष्विति” शु० त० रघुनन्दनः।

असत्य = न० विरोधे न० त०। सत्यभिन्ने १ मिथ्याभूते। २ मृषार्थके वाक्यादौ “अपात्रीकरणं ज्ञेयमसत्यस्य च भाषणम्” मनुः। असत्यवादी असत्यभाषी असत्यवचनः। ३ तत्प्रयोक्तरि मिथ्याभूते ४ वस्तुनि च त्रि०। “असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्” इति गोता। असत्यत्वं वस्तुस्वभावविरोधिधर्मभेदः वाक्यस्य तु तथाभूतपदार्थप्रतिपादकत्वेन यथा इदं रजतमितिवाक्यं शुक्तिकायां रजततादात्म्यं प्रतिपादयत् असत्यं भवति एवमन्यदपि। सत्यत्वञ्च त्रैकालिकबाधशून्यत्वम् तच्छून्यमसत्यत्वम्। शंयुप्रजापतेः ५ भार्य्याभेदे, स्त्री “शंयोरप्रतिमा भार्य्या सत्याऽसत्याथ धर्मजा” भा० व० प० २१९ अध्या०।

असत्यसन्ध = त्रि० असत्ये सन्धाऽस्य। १ मृषार्थाभिसन्धानवति २ अन्यथास्थितस्यात्मनोऽन्यथारूपाभिमानवति च। यथा देहादिषु असत्येषु आत्माभिमानोऽसत्यसन्धा। अत एव छा० उप० तस्य अनर्थहेतुत्वं दृष्टान्तेन समर्थितम्। “पुरुषं सोम्योत हस्तगृहीतमानयन्त्यपाहार्षीत् स्तेयमकार्षीत् परशुमस्मै तपतेति स यदि तस्य कर्त्ता भवति तत एवानृतमा त्मानं कुरुते सोऽनृताभिसन्धोऽनृतेनात्मानमन्तर्द्धाय परुशुं तप्तं प्रतिगृह्णाति स दह्यतेऽथ हन्थते।। अथ यदि तस्याकर्त्ता भवति तत एव सत्यमात्मानं कुरुते स सत्याभि सन्धः सत्येनात्मानमन्तर्द्धाय परुशुं तप्तं प्रतिगृह्णाति स न दह्यतेऽथ मुच्यते। स यथा तत्र नादह्येतैतदात्म्यमिदं सर्व्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो!” “यथा सोम्य! पुरुषं चौर्य्यकर्म्मणि सन्दिह्यमानं निग्रहाय परीक्षणाय चोतापि हस्तगृहीतं बद्धहस्तमान यन्ति राजपुरुषाः। किं कृतवानयमिति पृष्टाश्चाहुरपाहार्षीद्धनमस्यायम्। ते चाहुः किमपहरणमात्रेण बन्धनमर्हति। अन्यथा दत्तेऽपि धने बन्धनप्रसङ्गादित्युक्ताः पुनराहुः स्तेयमकार्षीच्चौर्य्येण धनमपाहार्षीदिति। तेष्वेवं वदत्सु इतरोऽपह्नुते नाहं तत्कर्त्ता इति। ते चाहुः सन्दिह्यमानाः स्तेयमकार्षीस्त्वमस्य धनस्येति। तस्मिंश्चापह्नुवति आहुः परशुमस्मै तपतेति शोधयत्वात्मानमिति स यदि तस्य स्तैन्यस्य कर्त्ता भवति बहिश्चापह्नुते स एवम्भूतस्तत एवानृतमन्यथा आत्मानं कुरुते स तथानृताभि सन्धोऽनृतेनात्मानमन्तर्द्धाय परशुं तप्तं मोहात् प्रतिगृह्णाति स दह्यतेऽथ हन्यते राजपुरुषैः स्वकृतेनानृताभिसन्धिदोषेण। अथ यदि तस्य कर्म्मणोऽकर्त्ता भवति तत एव सत्यमात्मानं कुरुते स तया स्तैन्याकर्तृतयात्मानभन्तर्द्धाय परशुं तप्तं प्रतिगृह्णाति सत्याभिसन्धः सन्न दह्यते सत्यव्यवधानादथ मुच्यते च मृषाभियोक्तृभ्यः। तप्तपरशुहस्ततलसंयोगस्य तुल्यत्वेऽपि स्तेयकर्त्त्रकत्त्रोः, अनृताभिसन्धो दह्यते न तु सत्याभिसन्धः। स यथा सत्याभिसन्धस्तप्तपरशुग्रहणकर्म्यणि सत्यव्यवहितहस्ततलत्वान्नादाहोत न दह्यते इत्येतदेवं सद्ब्रह्म सत्याभिसन्धेतरयोः शरीरपातकाले च तुल्यायां सत्सम्पत्तौ विद्वान् सत्सम्पद्य न पुनर्व्याघ्रदेवादिदेहग्रहणायावर्त्तते” इति भा०।

असदध्येतृ = पु० असत् निषिद्धशास्त्रमधीते अधि–इङ् तृच्। स्वशाखां परित्यज्यान्यशाखाध्येतरि शाखारण्डे। “स्वशाखां यः परित्यज्य अन्यत्र कुरुते श्रमम्। शाखारण्डः स विज्ञेयोवर्ज्जयेत् तं क्रियासु चेति” स्मृतिः तथाध्ययननिषेधात्तस्यासदध्येतृत्वम्। स्वशाखाध्ययनोत्तरम् क्रमेणान्यशाखाशास्त्रान्तराद्यध्ययनकर्त्तृत्वे तु न असदध्येतृत्वम्।

असदागम = पु० विरोधे न० त०। १ सच्छास्त्रभिन्ने नास्तिकादिशास्त्रे २ असतः द्रव्यस्यागमे च दुष्टद्रव्यलाभे च कर्म० ३ दुष्टे आगमे। “सप्त वित्तागमाधर्म्म्यादायोलाभः क्रयो जयः। विभागः संप्रयोगश्च सत्प्रतिग्रहएव चेत्युक्तधर्मोपायभिन्नः सदागमस्तद्भिन्नः असदागमः।

असदाचार = पु० अभावे न० त०। १ सदाचाराभावे न० ब०। २ सदाचारशून्ये त्रि०। सदाचारश्च वेदादिशास्त्रानुसारी आचारः सतामाचारश्च।

असदृश = त्रि० न० त०। अयुक्तरूपे अननुरूपे। “यदुक्तवत्य सदृशं वैदेही पश्चिमं वचः” भा० व० प० २७८ अ०। स्त्रियां ङीप्।

असद्ग्रह = पु० असति अविद्यमाने वस्तुनि ग्रहः आग्रहः। बालादीनाम् (आवदार) इति ख्याते १ आग्रहभेदे। ६ त०। २ मिथ्याज्ञाने शुक्तिकारजतमित्यादिज्ञाने च।

असद्धेतु = पु० असन् व्यभिचारादिदोषवान् हेतुः। न्यायोक्ते व्यभिचारादिदोषयुक्ते हेतौ। यथा धूमवान् वह्नेरित्यादौ धूमाभाववति तप्तायःपिण्डे वह्नेः सत्त्वेन व्यभिचारात् धूमसाधने वह्निहेतीर्दुष्टत्वादसत्त्वम् एवमन्यत्राप्यूह्यम्। हेतुदोषाश्च सामान्यतः पञ्चविधाः “अनैकान्तोविरुद्धश्चाप्यसिद्धः प्रतिपक्षितः। कलात्ययोपदिष्टश्च हेत्वाभासाश्च पञ्चधा” भाषा० विस्तरो हेत्वाभासशब्दे वक्ष्यते।

असद्भाव = पु० सतोविद्यमानस्य भावः अभावे न० त०। १ असत्त्वे अविद्यमानत्वे सन् मावः अभिप्रायः विरोधे न० त०। २ दुष्टाभिप्राये। ब० ३ तद्वति त्रि०।

असद्वृत्ति = स्त्री सती वेदादिविहिता वृत्तिःस्वभावश्च अभावे न० त०। १ सदाषाराभाव विरोधे न० त०। २ निषिद्धाचारे। न० ब०। ३ तद्वति त्रि०।

असद्व्यवहार = पु० असन्दुष्टः व्यवहारः। १ दुष्टव्यवहारे न० ब०। २ तद्वति त्रि०।

असन = पु० अस–क्षेपे–युच्। पीतसालवृक्षे (पेयासाल) “प्रियविमानितमानवतीरुषां निरसनैरसनैरवृथार्थता” माघः तालव्यमध्यतापि “वृन्दावने तु विकसितकन्दलदशनैर्घोषति दरीमुखैश्च कन्दलदशनैः” उज्वल०। भावे ल्युट्। २ क्षेपणे न०। “तृणनिरसने विनियोगः” भवदेवः। धातूनामनेकार्थत्वात् कर्त्तरियुच्। ३ चलनशीले त्रि० “कृशानोरस्तु रसनामुरुष्पथः” ऋ० १, १५५, २, “शर्यामसनामनु द्यून्” ऋ० १, १४८, ४।

असनपर्णी = स्त्री असनस्य पर्णमिव पर्णमस्याः गौ० ङीष्। सातलवृक्षे।

असनि = त्रि० अस–अनि। क्षेपके ऋश्यादि० चतुरर्थ्यांक। असनिकः तत्सन्निकृष्टदेशादौ त्रि०।

असन्तति = स्त्री सन्ततिर्धारा अभावे न० त०। तदभावे १ विच्छेदे सन्ततिर्धारा वंशश्च न० ब० २ तच्छून्ये त्रि०।

असन्तान = पु० सन्तानोविस्तारः अभावे न० त०। १ विस्ताराभावे सन्तानोवंशोविस्तारश्च न० ब०। २ विस्तारशून्ये ३ वंशशून्ये च त्रि०।

असन्ताप = पु० अभावे न० त०। १ सन्तापाभावे न० ब०। २ सन्तापशून्ये त्रि०।

असन्तुष्ट = त्रि० न० त०। सन्तोषशून्ये अधिकलाभेऽपि पुनरन्य धनाशावति “असन्तुष्टा द्विजा नष्टाः सन्तुष्टाः पार्थिवास्तथा” नीतिः।

असन्तोष = पु० अभावे न० त० १ सन्तोषाभावे तृप्त्यभावे। न० ब०। २ सन्तोषशून्ये अधिकलालसावति।।

असन्दिग्ध = त्रि० न० त०। १ सन्देहाविषये २ सन्देहशून्ये च। “स्वल्पाक्षरसन्दिग्धं सारवत् विश्वतोमुखम्। अस्तोभमनबद्यञ्च सूत्रं सूत्रविदोविदुः”।

असन्दित = त्रि० सम् + दो–क्त इत्त्वम् सन्दितंबद्धं न० त०। बन्धनशून्ये अनिरुद्धे “पतङ्गानसंदितो वि सृज” ऋ० ४, ४, १, “असन्दितः परैरनिरुद्धः” भा०।

असन्दिन् = त्रि० सन्दा बन्धनं मत्वर्थे इनि न० त०। बन्धनशून्ये। “अवृतं वर्हिस्तस्थावसन्दिनम्” ऋ० ८, १०२, १४ “असन्दिनमबन्धनम्” भा०।

असन्धि = पु० अभावे न० त०। व्याकणोक्तसन्धिकार्य्याभावे सन्धिः पूर्ब्बापरवर्ण्णयोः सन्निकर्षविशेषात् वर्ण्णान्यथाभावलोपः उभयोर्मेलनस्थानम् राज्ञामुपायभेदश्च न० ब०। तच्छून्ये त्रि०।

असन्नद्ध = त्रि० न सम्यक् नद्धः स्वकार्य्ये क्षमः। दृप्ते गर्व्विते पण्डितम्मन्ये तस्य सम्यक्पटुत्वाभावेऽपि दर्पेण तथात्वेनाभिमानात्तथात्वम्।

असन्निकर्ष = पु० अभावे न० त०। १ सन्निकर्षाभावे विरोधे न त०। २ दूरत्वे न० ब०। ३ सन्निकर्षशून्ये दूरस्थे त्रि०।

असन्निकृष्ट = त्रि० विरोधे न० त०। १ दूरस्थे।

असन्निधि = पु० अभावे न० त०। १ नैकट्याभावे” विरोधे न० त०। २ दूरत्वे। न० व०। ३ दूरस्थे त्रि०।

असन्निहित = त्रि० विरोधे न० त०। १ दूरस्थे। २ असम्यग्निवेशिते च।

असपत्न = त्रि० विरोधे न० त०। १ शत्रुभिन्ने मित्रे न० व०। २ शत्रुशून्ये त्रि० “इमं देवा असपत्नम्” यजु० ९, ४, स्त्रियां शार० ङीन् “असपत्नी सपत्नघ्नी जयन्त्यभिभूवरी” ऋ० १०, १५९, ५। यज्ञे उपाधीयमाने इष्टाकाभेदे “पञ्चम्यामन्तेष्वश्विनीवदसपत्नी” कात्या० १७, ११, १। “असपत्नी इष्टका” कर्क०।

असपिण्ड = पुंस्त्री० न समानः पिण्डः देहारम्भकावयवभेदो यस्य। सप्तमपुरुषाद्यनन्तर्गतयोः स्त्रीपुरुषयोः। “असपिण्डा च या मातुरसगोत्रा च या पितुः” मनुः असपिण्डः सपिण्डो वा गृहीतश्चोपनायितः” स्मृतिः। सपिण्डशब्दनिर्वचनेन च सापिण्ड्यं मिताक्षराकृता “अनन्यपूर्ब्बिकां कान्तामसपिण्डां यवयसीमिति” या० स्मृतिव्याख्याने दर्शितम्। असपिण्डां समान एकः पिण्डोदेहो यस्याः सा सपिण्डा न सपिण्डा असपिण्डा ताम्। सपिण्डता चैकशरीरावयवान्वयेन पित्रा सह एकपिण्डता। एव म्पितामहाहिभिरपि पितृद्वारेण तच्छरीरावयवान्वयात्। एवं मातृशरीरावयवान्वयेन मात्रा। तथा मातामहादिभिरपि मातृद्वारेण। तथा मातृष्वसृमातुलादिभिरपि एक शरीरावयबान्वयात्। तथा पितृव्यपितृष्वस्रादिभिरपि। तथा पत्या सह पत्न्या एकशरीरारम्भकतया। एवं भ्रातृभार्य्याणामपि परस्परमेकशरीरारम्भैः सह एक शरीरारम्भकत्वेन। एवं यत्र यत्र सपिण्डशब्दः तत्र तत्र साक्षात् परम्परया वा एकशरीरावयवान्वयो वेदितव्यः। अवश्यञ्चैकशरीरवयवान्वयेन सापिण्ड्यं वर्ण्णनीयम्। “आत्मा हि जज्ञ आत्मन इत्यादि” श्रुतेः तथा “प्रजामनु प्रजायस” इति तथा “स एवायन्निरूढः पृथक् पृथक् प्रत्यक्षेणोपलभ्यत” इत्यापस्तम्बवचनाच्च। तथा गर्भोपनिषदि। “एतत्षाट्कौशिकं शरीरन्त्रीणि मातृतस्त्रीणि पितृतः अस्थिस्नायुमज्जानः पितॄतः। त्वङ्मांसरुधिराणि मातृत” इति। तत्र तत्रावयवान्वयप्रतिपादनात्। निर्व्वाप्यपिण्डान्वयेन तु सापिण्ड्ये मातृसन्ताने भ्रातृव्यादिषु च साप्रिण्ड्यं न स्यात्। समुदायशक्त्यङ्गीकारेण रूढपरिग्रहे अवयवशक्तिस्तत्र तत्रावगम्यमाना परित्यक्ता स्यात्। “असत्स्ववयवार्थेषु योऽन्यत्रार्थे प्रयुज्यते। तत्रा नन्यगतित्वेन समुदायः प्रसिध्यति”। एवम्पारम्पर्यैकशरीरावयवान्वयेन मापिण्ड्ये यथा नातिप्रसङ्गस्तथा वक्ष्यामः”। “असपिण्डामित्यत्रैकशरीरावयवान्वयद्वारेण साक्षात् पारम्पर्य्येण वा सापिण्ड्यमुक्तन्तच्च सर्व्वस्य सर्वत्र यथाकथञ्चिदनादौ संसारे सम्भवतीत्यतिप्रसङ्ग इत्यत आह”। “पञ्चमात्सप्तमादूर्द्धं मातृतः पितृतस्तथा” या० स्मृ०। “मातृतोमातृसन्ताने पञ्चमादूर्द्धम्। पितृतः पितुः सन्ताने सप्तमादूर्द्ध्वं सापिण्ड्यं निवर्त्तते इति शेषः। ततश्चायं सपिण्डशब्दोऽवयवशक्त्या सर्व्वत्र प्रवर्त्तमानोऽपि निर्म्मथ्य पङ्कजादिशब्दवन्नियतविषय एव। तथा च पित्रादयः षट् सपिण्डाः पुत्रादयश्च षढात्मा च सप्तमः। सन्तानभेदेऽपि यतः सन्तानभेदः, तमादाय गणयेद्यावत्सप्तम इति सर्वत्र योजनीयम्। तथा च मातरमारभ्य तत्पितृपितामहादिगणनायां पञ्चमपुरुषसन्तानवर्त्तिनी मातृतः पञ्चमीत्युपचर्यते एवं पितरमारभ्य तत्पित्रादिगणनायां सप्तमपुरुषसन्तानवर्त्तिनी पितृतः सप्तमीति” मिता०। एवमेवाशोचेऽपि सापिण्ड्यम् पितृपक्षीयं ज्ञेयं अदत्तस्त्रीणां तु त्रिपौरुषं सापिण्ड्यम् दत्तानां तु सगोत्रत्वाभावान्नाशौचमिति” भेदः दायग्रहणोपयोगिसापिण्ड्यं तु दातृत्वभोक्तृत्वान्यतरसम्बन्धेनैकपिण्डवत्त्वमिति दायभागानुसारिणः।

असभ्य = त्रि० सभायाममर्हति यत् न० त०। सभायामनुपयुक्ते १ स्त्रीवर्ण्णनादौ, २ खले च।

असम = त्रि० नास्ति समोयस्य। १ अतुल्ये। “संप्रधार्याब्रवीद्धाता न समौ नासमाविति” मनुः। सुमःयुग्मसंख्यान्वितः २ तद्भिन्ने अयुग्मे विषमे (विजोड) एकत्रिपञ्चादि संख्यान्वितेच यथा मेषादिषु द्वादशराशिषु मेषमिथुनसिंह तुलाधनुःकुम्भाः असमराशयः एवमन्यत्रापि। ३ बुद्धभेदे पु०।

असमक्ष = न० न समक्षम्। १ अप्रत्यक्षे अनुमित्यादिज्ञाने अर्श० अच्। २ तद्विषये त्रि०।

असमग्र = त्रि० न० त०। असम्पूर्ण्णे असकले।

असमञ्जस = न० समञ्जसं युक्तियुतं न० त०। १ असङ्गते। “यद्यपि का नोहानिः परस्य द्राक्षां रासभश्चरति। असमञ्जसमिति मत्वा तथापि तरलायते चेतः” उद्भटः।

असमञ्जस् = पु० सम् + अन्ज–असुन् न० त०। सगरनृपज्येष्ठपुत्रे अंशुमतः पितरि सूर्य्यवंश्ये क्षत्रियभेदे तत्कथा “अयोध्याधिपतिः श्रीमान् पूर्ब्बमासीन्नराधिपः। सगरो- नाम धर्म्मात्मा प्रजाकामः स चाप्रजाः। विदर्भराजदुहिता केशिनी नाम नामतः। ज्येष्ठा सगरपत्न्यासीर्द्धर्मिष्ठा सत्यवादिनी। अरिष्टनेभिदुहिता रूपेणाप्रतिमा भुवि। द्वितीया सगरस्यासीत् पत्नी परमधार्म्मिकी” इत्युपक्रम्य। “अथ कालेन महता पुत्रं ज्येष्ठा व्य जायत। असमञ्जा इति ख्यातं काकुत्स्थं सगरात्मजम्” रामा० आ० २० अ०। “असमञ्जा इति ख्यातः सगरस्य सुतोह्यभूत्। यं शैव्या जनयामास पौराणां स हि दारकान्। गलेषु क्रोशतो गृह्य नद्याञ्चिक्षेप दुर्बलान्। ततः पौराः समाजग्मुर्भयशोकपरिप्लुताः। सगरञ्चाभ्ययाचन्त सर्व्वे प्राञ्जलयः स्थिताः। त्वं नस्त्राता महाराज! परचक्रादिभिर्भयात्। असमञ्जोभयाद्घोरात्ततो नस्त्रातुमर्हसि। पौराणां वचनं श्रुत्वा घोरं नृपतिसत्तमः। मुहूर्त्तं विमना भूत्वा सचिवानिदमब्रवीत्। असमञ्जाः पुरादद्य सुतो मे विप्रवास्यताम्। यदि वो मत्प्रिपं कार्य्यमेतच्छीघ्रं विधीयताम्। एवमुक्ता नरेन्द्रेण सचिवास्ते मराधिप!। यथोक्तं त्वरिताश्चक्रु र्यथा ज्ञापितवान्नृपः। एतत्ते सर्व्वमाख्यातं यथा पुत्रो महात्मना। पौरणां हितकामेन सगरेण विवासितः” भा० व० प० १०७ अ०। असच्। असमञ्जसोऽपि तस्मिन्नर्थे “असमञ्जस इत्युक्तः स केशिन्या नृपात्मजः। तस्य पुत्रोऽंशुमान्नाम पितामहहिते रतः”। “असमञ्जस आत्मानं दर्शयन्नसमञ्जसम्। जातिस्मरः पुरा सङ्गाद्योगी योगाद्विचालितः। आचरन् गर्हितं लोके ज्ञातीनां कर्म्म विप्रियम्। सरय्वां क्रीडतोबालान् प्रास्यदुद्वेजयन् जनान्। एवंवृत्तः परित्यक्तः पित्रा स्नेहमपोह्य वै। योगैश्वर्य्येण बालांस्तान् दर्शयित्वा ततो ययौ। अयोध्यावासिनः सर्व्वे वालकान् पुनरागतान्। दृष्ट्वा विसिस्मिरे राजन्! राजा चाप्यन्वतप्यत” भाग० ९ म० ८ अ०।

असमद = त्रि० सह मदेन गर्वेण समदः कलहःस नास्ति यत्र। कलहरहिते विरोधशून्ये। “तथैभ्योऽसमदं करोति तदभितपति” “ताभ्यएवैतत्सह सतीभ्योऽसमदं करोति” इति च शत० ब्रा० “असमदमकलहं परस्पराविरोधम्” भा०।

असमन = त्रि० असममतुल्यत्वं भिन्नवर्ण्णत्वात् नयति नी–ड। विभिन्नवर्ण्णे “असमना अजिरासो रघुष्पदः” ऋ० ११४०, ४, असमना भिन्नवर्ण्णाः भा०।

असमनेत्र = पु० असमानि अयुग्मानि नेत्राण्यस्य। त्रिनेत्रे शिवे असमलोचनादयोप्यत्र।

असमय = पु० अपकृष्टार्थे न० त०। १ दुष्टकाले २ अयोग्यकाले च “असमये मतिरुन्मिषति ध्रुवम्” नैषधचरिते ४ सर्गः।

असमर्थ = त्रि० समर्थः शक्तः न० त०। १ अशक्ते २ दुर्बले च। समर्थः सङ्गतार्थः न० त०। असङ्गतार्थे, व्याकरणशास्त्रप्रसिद्धे यत्र यस्यान्वययोग्यता तत्सहचारानपेक्षायुक्ते ३ समासे यथा अश्राद्धभोजीत्यादौ असमर्थसमासः नञ्पदस्य श्राद्धेन सहान्वयायोग्यत्वात् भोजनेन च सहचाराभावेऽपि तत्रान्वयस्य अपेक्षणीयत्वात्तथात्वम्।

असमर्थसमास = पु० कर्म्म०। येन सह यस्य अन्वयस्तद्व्यतिरेकेण अन्यान्वितेन पदेन समासे। यथा अश्राद्धभोजीति असूर्य्यं पश्येत्यादि।

असमवाण = पु० असमा अयुग्मानि वाणा अस्य। पञ्चवाणे कन्दर्पे असमसायकादयोप्यत्र।

असमष्ट = त्रि० सम + अक्ष–क्त न० त०। अव्याप्ते। “पितामतीनाममष्टकाव्यः” ऋ० ९, ७६, ४, “असमष्टकाव्यः अव्याप्तकर्म्मेति” भा०।

असमवायिकारण = न० समवैति सम + अव–इण–णिनि न० त० कर्म्म०। न्यायमते समवायिकारणं द्रव्यं तद्भिन्नं द्रव्यवृत्ति यत् गुणादिकं कारणं तस्मिन्नर्थे। यथा कपालद्वयसंयोगरूपो गुणोघटस्य, द्रव्याश्रिता क्रिया संयोगविभागादेः। “समवायिकारणत्वं ज्ञेयमथाप्यसमवायिहेतुत्वम्”। “यत् समवेतं कार्य्यं भवति ज्ञेयन्तु समवायि जनकं तत्”। “तत्रासन्नं जनकं द्वितीयम्” “गुणकर्म्ममात्रवृत्ति ज्ञेय मथाप्यसमायिहेतुत्वम्” इति च भाषा० व्याख्यातञ्चैतत् मुक्ता०। “तत्र समवायिकारणे आसन्नं प्रत्यासन्नं कारणं द्वितीयमसमवायिकारणमित्यर्थः अत्र यद्यपि तुरीतन्तुसंयोगानां पटासमवायिकारणत्वंस्यात्, एवं वेगादीनामपि अभिघाताद्यसमवायिकारणत्वं स्यात्, एवं ज्ञानादीनामिच्छाद्यसमबायिकारत्वं स्यात् तथापि पटासमवायिकारणलक्षणे तुरीतन्तुसंयोगभिन्नत्वं देयं, तुरीतन्तुसंयोगस्तु तुरीपटसंयोगं प्रत्यसमवायिकारणं भवत्येव, एवं वेगादिकं वेगस्पन्दाद्यसमवायिकारणं भवत्येवेति तत्तत्कार्य्यासमवायिकारणलक्षणे तत्तद्भिन्नत्वं न देयम्, आत्मविशेषगुणानान्तु कुत्राप्यसमवायिकारणत्वं नास्ति तेन तद्भिन्नत्वं सामान्यलक्षणे देयमेव। अत्र समवायिकारणे प्रत्यासन्नं द्विविधं कार्य्यकार्थप्रत्यासत्त्या कारणैकार्थप्रत्यासत्त्या च आद्यं यथा घटादिकं प्रति कपालसंयोगादिकं, तत्र कार्य्येण घटेन सह कारणस्य कपालसंयोगस्य एकस्मिन् कपाले प्रत्यासत्तिरस्ति, द्वितीयं यथा घटरूपं प्रति कारणं घटः तेन सह कपालरूपस्य एकस्मिन् कपाले प्रत्यासत्तिरस्ति, तथाच क्वचित् समवायसम्बन्धेन, क्वचित् स्वसमवायिसमवायसम्बन्धेनेति फलितार्थः। इत्थश्च कार्य्ये कार्य्यकारणैकार्थान्यतरप्रत्यासत्त्या कारण ज्ञानादिभिन्नमसमवायिकारणमिति सामान्यलक्षणं पर्य्यवसन्नम्”।

कुत्रं कुत्र किंकिमसमवायिकारणं? वैशेषिकसूत्रे तदुक्तं ततौद्धृत्य किञ्चित् प्रदर्श्यते। “आत्मसंयोगप्रयत्नाभ्यां हस्तेकर्म्म १। तथा हस्तसंयोगाच्च मुवले कर्म्म २। अभिघातजे मुषलादौ कर्म्मणि व्यतिरेकादकारणं हस्तसंयोगः ३। तथात्मसंयोगो हस्तकर्म्मणि ४। अभिघातान्मुषलसंयोगाद्धस्ते कर्म्म० ५। आत्मकर्म्म हस्तसंयोगाच्च ६! संयोगाभावे गुरुत्वात् पतनम् ७। नोदनविशेषाभावान्नोर्द्ध्वं न तिर्य्यंग्गगमनम् ८। प्रयत्नविशेषान्नोदन विशेषः ९। नोदनविशेषादुदसनविशेषः १०। हस्तकर्म्मणा दारकर्म्म व्याख्यातम् ११। तथा दग्धस्य विस्फोटने १२। यत्नाभावे प्रसुप्तस्य चलनम् १३। तृणे कर्म्म वायुसंयोषात् १४। मणिगमनं सूच्यभिमर्पणमदृष्टकारणम् १५ इषावयुगपत्संयोगविशेषाः कर्म्मान्यत्वे हेतुः १६। नोदनादाद्यमिषोः कर्म्म तत्कर्म्मकारिताच्च संस्कारादुत्तरं तथोत्तरमुत्तरञ्च १७ संस्काराभावे गुरुत्वात् पतनम्” १८ वै० सू० “संयोगश्च प्रयत्नश्च संयोगप्रयत्नौ आत्मनः संयोगप्रयत्नौ ताभ्यां हस्ते समवायिकारणे कर्म्म, तस्य च कर्म्मणः प्रयत्नवदात्मसंयोगोऽसमवायिकारणम्, प्रयत्नश्च निमित्तकारणम्, इयमेव चेष्टा, प्रयत्नवदात्मसंयोगासामवायिकारणकक्रियायाश्चेष्टात्वात् स्वासमवेतस्वातिरिक्तस्पर्शवदन्यप्रयत्नजन्यक्रियाया वा १। तथा हस्तसंयोगादुत्क्षेपणबद्धस्तसंयोगादित्यर्थः अत्र च यत्नवदात्मसंयुक्तेन हस्तेन मुषलस्य संयोगोऽसमगायिकारणम्, मुसलं समवायिकारणम्, प्रयत्नगुरुत्वे निमित्तकारणे २। उदूखलाभिहतमुषलस्याकस्माद् यदुत्पतनं जायते तत्र कारणमाह। तत्र यद्यपि मुसलेन उत्पतता हस्तस्य संयोगोऽप्यस्ति तथाऽपि स संयोगोऽन्यथासिद्धः किन्तु उदूखलाभिघात एव असमवायिकारणम्, कुत एवमित्यत आह व्यतिरेकादिति प्रयत्नस्य व्यभिचारादित्यर्थः। यदि तदा प्रयत्नः स्यात् मुषलस्यैवाकस्मिकमुत्पतनं न भवेत् विधारकेण ब्रयत्नेन मुषलस्य धारणमेव भवेत् चेष्टाधीनं मुषलस्य पुनरुत्पतनं वा भवेत् इति भावः ३। मुषलेन सहोत्पततोहस्तस्य कर्म्मणि कारणविशेषमभिवातुं प्रयत्नवदात्मसंयोगस्यासमवायिकारणत्वं निराकर्त्तुमाह। मुषलेन सहोत्पततोहस्तस्य कर्म्मणि आत्मसंयोगः प्रयत्नवदात्मयोगस्तथा अकारणमित्यर्थः अकारणमिति पूर्ब्बसूत्रस्थं तथेत्यतिदिश्यते ४। कुतस्तर्हि हस्ते तदोत्पतनमत आह। यथा मुषले उत्पतति मुषलमुखस्थं लोहमुत्पतति तथा हस्तोऽपि तदोत्पतति। अत्राभिघातशब्देन अभिघातजनितः संस्कार उच्यते उपचारात्, उत्पततो मुषलस्य पटुतरेण कर्म्मणा अभिघातसहकृतेन स्वाश्रये मुषले संस्कारोजनितस्तत्कृतं संस्कारमपेक्ष्य हस्तमुषलसंयोगादसमवायिकारणाद्धस्तेऽप्युत्पतनं न तु तदुत्पतनं प्रयत्नवदात्मसंयोगामवायिकारणकम्, अवशो हि हस्तो मुषलेन सहोत्पततीति भावः ५। ननु शरीरे शरीरावयवे वा यत्कर्म्मोत्पद्यते तत्र प्रयत्नवदात्मसंयोगः कारणं प्रकृते कथं न तथेत्यत आह। आत्मशब्दः शरीरावयवपर उपचारात् अन्वयानुपपत्तिरेवोपचारवीजम्। तथाचात्मनः शरीरावयवस्यापि हस्तस्य यत् कर्म तत् हस्तमुषलसंयोगात् चकाराच्च वेगममुच्चयः, हस्तकर्म्मणि हस्तसंयोगस्तावदसमवायिकारणं तत्र व्यभिचारो नास्ति स च क्वचित् प्रयत्नवदात्मसंयोगः क्वचिद्वेगवन्मुषलादिसंयोगो यथा वातूलस्य शरीरावयवकर्म्मेति भावः ६।। प्रयत्नानधीनकर्म्मप्रकरणमारभते। संयोगपदेन प्रतिबन्धकमात्रमुपलक्षयति तेन प्रतिबन्धकाभावे गुरुत्वादसमवायिकारणात् पतनम् अधःसंयोगफलिका क्रिया जायते, तत्र गुरुत्ववति फलादौ प्रतिबन्धकः संयोगः, विहङ्गमादौ तु विधारकः प्रयत्नः पतनप्रतिबन्धकः, एतेषामभावे गुरुत्वाधोनं पतनमित्यर्थः। अभिध्यानादिना विषादेरन्तरीक्षस्थापने अदृष्टवदात्मसंयोगो मन्त्रादिरेव वा प्रतिबन्धकस्तेषामपि संयोगपदेन संग्रहः ७।। ननु गुरुत्वाद् यदि पतनं तदा लोष्टादेरुत्क्षिप्तस्य क्वचिदूर्द्ध्वं क्वचिच्च तिर्य्यग्गमनं कथम्भवेदित्यत आह। गुरुत्ववतोऽपि लोष्टकाण्डादेर्यदूर्द्ध्वं तिर्य्यक् च गमनं तन्नोदनविशेषात् तीव्रतरान्नोदनात्। तथाच फलपक्षिवाणादौ संयोगप्रयत्नसंस्काराभावे यतु पतनं तत्र नोदनविशेषो नास्ति तेन न तिर्य्यक्, नवोर्द्ध्वं गमनमिति भावः ८। ननु नोदनविशेष एव कुत उत्पद्यते तत्राह। तिर्य्यक् ऊर्द्धं दूरम् आसन्नं वा क्षिपामीतिइच्छाकारणकः प्रयत्नविशेषः तज्जनितो नोदनविशेषस्ततो गुरुत्ववतो द्रव्यस्य लोष्टादेरूर्द्धं तिर्य्यक् च गमनमुपषद्यते उदसनं दूरोत्क्षेपणम् ९, १०।। उदूखलाभिधातात् मुषलेन सह हस्ते यत्कर्म्म उत्पन्नं तत्तावत् प्रयत्नपूर्व्वकं न भवति नापि पुण्यपापहेतुकमतस्तत्तुल्यतया बालकस्य क्रीडाकरचर- णादिचालनं यत्तत्रातिदिशति। बालकस्य यद्यपि करचरणादिचालनं प्रयत्नपूर्ब्बकमेव तथापि हिताहितप्राप्तिफलकं न भवति न पुण्यपापहेतुकमित्यतिदेशार्थः ११।। इदानीं प्रयत्नपूर्ब्बकेऽपि कर्म्मणि यत्र पूण्यपापहेतुकत्वं तत्र दारककर्म्मतुल्यतामतिदिशन्नाह। आततायिना केनाप्यगारे दाह्यमाने तत्र दग्धस्य पुरुषस्य विस्फोटे वह्निकृते जाते सति तस्याततायिनो बधानुकूलेन प्रयत्नेन हस्तादौ यत्कर्म्म जनितं तन्न पूण्यहेतुकं न वा पापहेतुकं यथाहुः। “नाततायिबधे दोषो हन्तुर्भवति कश्चन। प्रकाशं वाऽप्रकाशं वा मन्युस्तन्मन्युमृच्छति”। “अग्निदोगरदश्चैव शस्त्रपाणिर्धनापहः। क्षेत्रदारापहारी च षडेते आततायिनः” १२। इदानीं यत्नं विना यानि कर्म्माणि भवन्ति तान्याह। प्रसुप्तस्येति चैतन्याभावदशामुपलक्षयति तेन मूर्च्छितस्य जीवतोऽचैतन्येऽपि वायुकृतं चलनं द्रष्टव्यमत्र १३।। शरीरकर्म्माणि व्याख्याय तदितराण्याह। तृणपदेन वृक्षगुल्मलतावतानादिकं सर्व्वमुपलक्षयति १४। अदृष्टाधीनं कर्म परिगणयन्नाह। मणिपदेन कांस्यादिकमुपलक्षयति तेनाभिमन्त्रितं मणिकांस्यादि तस्काराभिमुखं यद् गच्छति तत्र गमने मण्वादि समवायिकारणम्, अदृष्टवत्तस्करात्ममणिसंयोगोऽवसमवायिकारणम्, तस्करस्य पापं निमित्तकारणम्। सूच्यभिसर्पणमिति सूचीपदेन लौहमात्रं तृणञ्चोपलक्षयति तथा चायस्कान्ताभिमुखं यत्सूच्यादेर्गमनं तृणकान्ताभिमुखं यत् तृणस्य गमनं तत्र सूच्यादि समवायिकारणम्, यस्य हितमहितं वा तेन तृणसूच्यादिगमनेन तददृष्टवदात्मसंयोगोऽसमवायिकारणम्, तददृष्टमेव निमित्तकारणम्, एवमन्यदप्यूह्यम्। तद्यथा वह्नेरूर्द्ध्वज्वलनं वायोस्तिर्य्यग्गमनं सर्गादौ परमाणुकर्म्मादि १५। ननु शरविहङ्गमालातचक्रादीनामुपरमपर्य्यन्तमेकमेव कर्म्म नाना वेति संशये निर्णयहेतुमाह। इषाविति षष्ठ्यर्थे सप्तमी, इदमत्राकूतं वेगेन गच्छतां शरादीनां कुड्यादिसंयोगानन्तरं शरादौ सत्येव गत्युपरमो दृश्यते अत्राश्रयनाशस्तावन्न तन्नाशकः आश्रयस्य विद्यमानत्वात् विरोधिगुणान्तरञ्च नोपलभ्यते तेन स्वजन्यः संयोग एव कर्म्मनाशक इत्युन्नीयते स च संयोगश्चतुर्थक्षणे जातः पञ्चमक्षणे कर्म्म नाशयति। तथा हि कर्म्मोत्पत्तिरथ विभागः अथ पूर्ब्बसंयोगनाशः उत्तरसंयोगः कर्म्मनाशः तेनायुगपत्संयोगविशेषाः कर्म्मनानात्वज्ञापका इत्यर्थः संयोगविशेषा इति संयोगे विशेषः स्वजन्यत्वमेव अन्यथा संयोगमात्रस्य कर्मनाशकत्वेकर्म्मक्वचिदपि न तिष्ठेत् १६। नोदननिष्पाद्यकर्मप्रकरणानन्तरं संस्कारनिष्पाद्यकर्मप्रकरणमारभते। पुरुषप्रयत्नेनाकृष्टया पतञ्जिकया नुन्नस्येषोराद्यं कर्म जायते तत्र नोदनमसमवायिकारणम्, इषुः समवायिकारणम्, प्रयत्नगुरुत्वे निमित्तकारणे, तेन चाद्येन कर्मणा समनाधिकरणो वेगाख्यः संस्कारो जन्यते न च वेगेन, गच्छतीति प्रत्यक्षसिद्ध एव तेन संस्कारेण तत्रेषौ कर्म्म जायते तत्रासमवायिकारणं संस्कारः, समवायिकारणमिषुः, निमित्तकारणन्तु तीव्रो नोदनविशेषः, एवञ्च यावदिषुपतनमनुवर्त्तमानेन संस्कारेण उत्तरोत्तरः कर्मसन्तानो जायते स्वजन्योत्तरसंयोगेन कर्मणि नष्टे संस्कारेण कर्मान्तरजननात् एक एव संस्कारः कर्ममन्तानजनकः न तु कर्मसन्तानवत् संस्कारसन्तानोऽप्यभ्युपगन्तुमुचितो गौरवादिति दर्शयितुमाह तथोत्तरमुत्तरञ्चेति तत्कर्मकारिताच्च संस्कारादित्येकवचनञ्च, न्यायनये तु कर्मसन्तानवत् संस्कारसन्तानस्वीकारे गौरवम्, यत्तु युगपत्प्रक्षिप्तशरयोरेकस्य तीव्रो वेगोऽपरस्य तु मन्दस्तत्र नोदनतीव्रत्वमन्दत्वेनिमित्तम् १७। ननु संस्कार एक एव चेत् कर्मसन्ताजनकस्तदा कदाचिदपि शरपातो न स्यात् कर्मजनकस्य संस्कारस्य सत्त्वादित्यत आह। गुरुत्वन्तावत् पतनकारणमनुवर्त्तमानमेव तच्च गुरुत्वं संस्कारेण प्रतिरुद्धं पतनं नाजीजनत् अथ प्रतिबन्धकाभावे तदेव गुरुत्वं पतनं करोतीत्यर्थः” १८। उपस्करः। “नोदनाभिघातात् संयुक्तसंयोगाच्च पृथिव्यां कर्म १। तद्विशेषेणादृष्टकारितम् २। अपां संयोगाभावे गुरुत्वात् पतनम् ३। द्रवत्वात् स्यन्दनम् ४। नाड्यो वायुसंयोगादारोहणम् ५। नोदनापीडनात् संयुक्तसंयोगाच्च ६। वृक्षाभिसर्पणमित्यदृष्टकारितम् ७। अपां संधातो विलयनंञ्च तेजःसंयोगात् ८। तत्र विस्फुर्ज्जथुर्लिङ्गम् ९। वैदिकञ्च १०। अपां संयोगाद्विभागाच्च स्तनयित्नोः ११। पृथिवीकर्मणा तेजःकर्म वायुकर्म च व्याख्यातम् १२। अग्नेरूर्द्ध्वज्वलनं वायोस्तिर्य्यक् पवनमणूनां मनसश्चाद्यं कर्मादृष्टकारितम् १३। हस्तकर्मणा मनसः कर्म व्याख्यातम् १४। आत्मेन्द्रिमनोऽर्थसन्निकर्षात् सुखदुःखे १५। तदनारम्भ आत्मस्थे मनसि शरीरस्य दुःखाभावः स योगः १६। अपसर्पणमुपसर्पणमशितपीतसंयोगाः कार्य्यान्तरसंयोगाश्चेत्यदृष्टकारितानि” १७। वै० सू० नोदनादि निष्पाद्य कर्मपरीक्षाप्रकरणम् तत्राह। नोदनं संयोगविशेषः येन संयोगेन जनितं कर्म संयोगिनो० परम्परं विभागहेतु र्न भवति यः संयोग शब्दनिमित्तकारणं न भवति वा। यः संयोगः शब्दनिमित्तकारणं भवति यज्जनितं कर्म संयोगिनोः परस्परविभागहेतुश्च भवति स संयोगविशेषोऽभिघातः। ताभ्यामपि प्रत्येकं कर्म जन्यते पङ्काख्यायां पृथिव्याञ्चरणेन नोदनात् चरणाभिघाताच्च कर्म जायते तत्र पङ्कः समवायिकारणम्, नोदनाभिघातौ यथायथमसमवायिकारणम्, गुरुत्ववेगप्रयत्ना यथासम्भवं निमित्तकारणम्। संयुक्तसंयोगादिति नोदनादभिघाताद्वा पङ्के कर्म तत्पङ्कस्थिते घटादावपि तत्समकालमेव कर्मदर्शनात् १। ननु भूकम्पादौ नोदनाभिघातावन्तरेण जायमाने किमसमवायिकारणमत आह। तदिति पृथिवीकर्म परामृशति पृथिव्यामेव कर्म यदि विशेषेण आशयेन भवति तदाऽदृष्टकारितम्, तेन भूकम्पेन यस्य दुःखं सुखं वा भवति अदृष्टवत्तदात्मसंयोगस्तत्रासमवायिकारणम्, भूः समवायिकारणम्, अदृष्टं निमित्तकारणम्, यद्वा तदा नोदनाभिघातौ परामृशति विशेषो व्यतिरेकः तथा च नीदनाभिघातव्यतिरेकेण यत् पृथिव्यां कर्म तददृष्टकारितमित्यर्थः २। इदानीं द्रवद्रव्यसमवेतकर्मपरीक्षाप्रकरणम्, तत्राह। अपां यत् पतनं वर्षणरूपं तद्गुरुत्वासमवायिकारणकम्, तत्संयोगस्य मेघसंयोगस्याभावे सति भवति तेन संयोगाभावस्तन्निमित्तकारणमित्यर्थः ३। तेषामेव वृष्टिविन्दूनामन्योन्यसंयोगजनकं कर्म कथमत आह। क्षितौ पतितानामपां विन्दूनां परस्परं संयोगेन महज्जलावयवि स्रोतोरूपं यज्जायते तस्य यत् स्यन्दनं दूरसंसरणं तत् द्रवत्वादसमवायिकारणादुत्पद्यते गुरुत्वान्निमित्तकारणादप्सु समवायिकारणेषु ४। ननु यदि भूमिष्ठानामपाम् ऊर्द्ध्वं गमनं भवति तदा गुरुत्वात् पतनवर्षणं सम्भाव्यते तदेव तु कुत इत्यत आह। कारयन्तीतिशेषः यदपामूर्द्ध्वमारोहणं तत् नाड्यः सूर्य्यरश्मयो वायुसंयोगात् कारयन्ति ग्रीष्मे वाय्वभिहताः सूर्य्यरश्मय एव आरोहयन्त्यप इत्यर्थः। क्वचित् पाठो नाड्यवायुसंयोगादिति स च नाड्यो नाडीसम्बन्धी यो वायुसंयीग इत्युपपादनीयः ५। ननु सूर्य्यरश्मीनां कथमयं महिमा यत् भूमिष्ठा अप ऊर्द्ध्वं नयन्तीत्यत आह। नोदनेन बलवद्वायुनोदनेन आपीडनादास्कन्दनात्। वायुसंयुक्तारश्मयस्तत्संयुक्ता आप ऊर्द्ध्वं धावन्ति यथा स्थालीस्था अपः क्वथ्यमानाः वायुनुन्नवह्निरश्मय ऊर्द्ध्वं नयन्ति, चकार इवार्थस्तत्र च उपमानं स्थालीस्था एवापो द्रष्टव्याः ६। ननु मूले सिक्तानामपां वृक्षाभ्यन्तरेणोर्द्ध्वगमनम् अभितः, तत्र नोदनाभिघातौ न वादित्यरश्मयः प्रभवन्ति तत्कथं तदित्यत्राह। अभितः सर्पणमभिसर्पणं तदभिसर्पणं मूले निषिक्तानामपां वृक्षे तददृष्टकारितं पत्रकाण्डफलपुष्पादिवृद्धिकृतं सुखं दुःखं वा येषामात्मनाम्, अदृष्टवत्तदात्मसंयोगादससवायिकारणात् अदृष्टान्निमित्तादप्सु समवायिकारणेषु तत् कर्म भवति। येन कर्मणा आप ऊर्द्ध्वं गत्वा वृक्षं वर्द्धयन्तीत्यर्थः ७। नन्वपां सांसिद्धिकद्रवत्व लक्षणमुक्तं तादृशानामेवापामूर्द्ध्वमधस्तिर्य्यक् च गमनमुपपादितं हिमकरकादीनाञ्च शैत्यादप्त्वमविवादसिद्धम्, तत्कथं तेषां संघातः काठिन्यम्, कथञ्च विलयनमित्यत आह। दिव्येन तेजसा प्रतिबन्धादाप्याः परमाणवो द्व्यणुकमारभमाणा द्व्यणुकेषु द्रवत्वं नारभन्ते ततो द्रवत्वशून्यैरवयवैर्द्व्यणुकादिप्रक्रमेण द्रवत्वशून्या हिमकरकादय आरभ्यन्ते तेन तेषां काढिन्यमुपलभ्यते। नन्वेवं हिमकरकादीनामाप्यत्वे किं प्रमाणमत उक्तं विलयनञ्च तेजःसंयोगादिति तेजःसंयोगेन बलवता हिमकरकारम्भकपरमाणूनां क्रिया क्रियातो विभागस्तत आरम्भकसंयोगनाशपरम्परया हिमकरकादिमहावयविनाशस्तत्र द्रवत्वप्रतिबन्धकतेजःसंयोगविगमात् त एव परमाणवः द्व्यणुकेषु द्रवत्वमारभन्ते ततो द्रवत्ववतां हिमकरकादीनां विलयनं तत्र च बलवत्तेजीऽनुप्रवेशो निमित्तम् ८। ननु बलद्दिव्यतेजोऽनुप्रवेशस्तत्र इत्यत्र किंप्रमाणमित्यत आह। तत्र दिव्यासु अप्सु दिव्यानां तेजसामनुप्रवेशे विस्फुर्ज्जथुर्लिङ्गं वज्रनिर्घोष एव लिङ्गमित्यर्थः आत्यन्तिकविद्युत्प्रकाशस्तावत्प्रत्यक्ष एव तदनुपदञ्च स्फुर्ज्जथुः सोऽपि प्रत्यक्ष एव तेनानुमीयते यस्मान्मेघात् करकाः प्रादुर्भवन्ति तत्र दिव्यन्तेजोविद्युद्रूपमनुप्रविष्टं तदुपष्टम्भेन करकारम्भिकाणामपां द्रवत्वप्रतिबन्ध इति ९। अत्रैव प्रमाणान्तरमाह। अपां मध्ये तेजोऽनुप्रवेश आगमसिद्ध एवेत्यर्थः। तथा हि “आपस्ता अग्निं गर्भमादधीरन् या अग्निं गर्भं दधिरे सुवर्ण्णम्” इत्यादि १०। ननु विस्फुर्ज्जथुः कथमुत्पद्यते संयोगविभागौ शब्दयोनी तौ च नानुभूयेते इत्यत आह। विस्फुर्ज्जथुरितिशेषः अद्भिः स्तनयित्नोः संयोगविभागौ निमित्तकारणीभूय स्तनयित्नोरेवाकाशेन संयोगादसमवायिकारणादाकाशे समवा १ कारणे, शब्दं गर्ज्जितं जनयतः। क्वचिच्च वायुबलाहकसंयोगविभागौ निमित्तकारणे बलाहकवियत्सांयोगविभागावसमवायिकारणे, कर्मकारणाधिकारेऽपि प्रासङ्गिकमिदमुक्तम्- यद्वा मेघाकाशसंयोगे विभागे वा शब्दासमवायिकारणे कारणम् अपामेव नोदनाभिघातजनितं कर्मेति सूचितं कर्मण एवाधिकारप्राप्तत्वात् ११। भूकम्पं प्रत्यदृष्टवदात्मसंयोगः कारणमुक्तं तत्रैवाकस्मिकदिग्दाहहेतोस्तेजसः आकस्मिकवृक्षादिक्षोभहेतोश्च प्रभञ्जनस्य कर्म यत् संजायते तत्राप्यदृष्टवदात्मसंयोगोऽसमवायिकारणम्, वायुतेजसी समवायिकारणम्, अदृष्टं निमित्तकारणमित्यर्थः, कर्मशब्दस्य द्व्यावृत्तिर्महोल्कादिकर्मसूचनार्था १२। अदृष्टवदात्मसंयोगासमवायिकारणकं कर्मान्तरमाह। आद्यमिति सर्गाद्यकालीनमित्यर्थः, तदा नोदनाभिघातादीनामभावात् अदृष्टवदात्मसंयोग एव तत्रासनवायिकारणम् आद्यमूर्द्ध्वज्वलनम् आद्यं तिर्य्यक्पवनमिति, इतरेषां ज्वलनपवनकर्मणां वेगासमवायिकारणकत्वमेव मन्तुमुचितं दृष्टे कारणे सत्यदृष्टकल्पनानवकाशात् १३। अनाद्यं कर्माधिकृत्याह। मुषलोत्क्षेपणादौ यथा प्रयत्नवदात्मसंयोगासमवायिकारणकं हस्तकर्म तथाऽभिमतविषयग्राहिणीन्द्रिये सन्निकर्षार्थं यन्मनसः कर्म तदपि प्रयत्नवदात्मसंयोगासमावयिकारणकमेव। यद्यपीन्द्रियं मनो न साक्षात्प्रयत्नविषयस्तथापि मनोवहनाडीगोचरेण प्रयत्नेन मनसि कर्मोत्पत्ति र्द्रष्टव्या, नाड्यास्तु त्वगिन्द्रियग्राह्यत्वमङ्गीकर्त्तव्यम् अन्यथा प्राणवहनाडीगोचरेण प्रयत्नेनाशितपीताद्यभ्यवहरणमपि न सम्भवेत् १४। ननु मनसि कर्म्म उत्पद्यत इत्यत्रैव न प्रमाणमत आह। सुखदुःखे इत्युपलक्षणं ज्ञानप्रयत्नाद्यपि द्रष्टव्यं मनसोवैभवं पूर्ब्धमेव निराकृतम्, अणुत्वञ्च साधितम्, युवपज्ज्ञानानुत्पत्तिश्च मनसो लिङ्गमित्युक्तं तेन तत्तदिन्द्रियप्रदेशेन मनःसंयोगमन्तरेण सुखदुःखे न स्यातामेव यदि मनसि कर्म्म न भवेत् न भवेच्च पादे मे सुखं शिरसि मे वेदनेत्याद्याकारोऽनुभव इत्यर्थः। यद्यपि मनःसन्निकर्षाधीनः सर्व्वोऽप्यात्मविशेषगुणस्तथापि सुखदुःखे तीव्रसंवेगितयाऽतिस्फुटत्वादुक्ते १५। नन्वेवं यदि चपलं मनस्तदा चित्तनिरोधाभावाद्योगं विना नात्मसाक्षात्कारो न वा तमन्तरेण मोक्ष इति शास्त्रारम्भवैफल्यमतआह विषयेष्वलम्प्रत्ययवत उदासीनस्य बहिरिन्द्रियेभ्योव्यावृत्तं मनो यदात्मस्थमात्ममात्रनिष्ठं भवति तदा तत्कर्मानुगुणप्रयत्नाभावात् कर्म्म मनसि नोत्पद्यते स्थिरतरं मनो भवति स एव योगः चित्तनिरोधलक्षणत्वाद् योगस्य, तदनारम्भ इति मनसः कर्मानारम्भं इत्यर्थः। यद्वा तत्पदेन सुखदुःखे एवाभिधीयेते प्रक्रान्तत्वात्, दुःखाभाव इति दुःखाभाव- साधनत्वाद्योग एव दुःखस्याभावः “अन्नं वै प्राणः” इति वत्, यद्वा दुःखस्याभावो यत्रेति बहुव्रीहिः, शरीरस्येति शरीरावच्छिन्नस्यात्मनः, स योग इति प्रसिद्धिसिद्धतया तत्पदम्, अयं स योगः। यद्वात्मपदेनात्र प्राण उच्यते उपचारात् प्राणानुमेयत्वादात्मनः तथा च प्राणवहनाड्यां कर्मणा प्राणकर्मापि जायते यद्वा जीवनयोनियत्नवदात्मप्राणसंयोगासमवायिकारणकं प्राणकर्म, जीवनयोनिश्च यत्नोऽतीन्द्रियः प्राणसञ्चारानुमेयः कथमन्यथा सुषुप्त्यवस्थायामपि श्वासप्रश्वासगतागतमिति भावः १६। ननु प्राणस्य मनसश्च कर्म यदि प्रयत्ननिमित्तकं तदा प्राणमनसी यदा मरणावस्थायामपसर्पतः देहाद्बहिर्भवतः देहान्तरोत्पत्तौ तत्र पुनरुपसर्पतः प्रविशतः तत्र प्रयत्नाभावात्तदुभयमनुपपन्नम्, अशितपीतं भक्तपानीयादि तस्यापि शरीरावयवोपचयहेतु र्यः संयोगस्तज्जनकं यत् कर्म यच्च गर्भवासदशायां संयोगविभागजनकं कर्म तेषां कथमुत्पत्तिरत आह। अत्र “नपुंसकमपुंसकेनैकवच्चान्यतरस्यामिति” पा० नपुंसकनिर्द्देशः, संयोगपदञ्च तत्कारणे कर्मणि लाक्षणिकम्, अपसर्पणं देहारम्भककर्मक्षये देहादेव प्राणमनसोरुत्क्रमणम्, उपसपणञ्च देहान्तरोत्पत्तौ तत्र प्राणमनसोः प्रवेशनम्, अशितपीतादिसंयोगहेतुश्च कर्म, कार्य्यान्तरं गर्भशरीरं तत्संयोगहेतुश्च यत् कर्म तत् सर्व्वमदृष्टवदात्मसंयोगासमवायिकारणकम्, इतिकारेण धातुमलकर्मणामप्यदृष्टवदात्मसंयोगासमवायिकारणकत्वं सूचयति” १७ उप०।

असमवायिन् = त्रि० न समवैति सम् + अव + इन–इणि न० त० स्त्रियां ङीप्। १ असंबन्धे अमिलिते न्यायेक्ते २ समवायसम्बन्धशून्ये जात्यादौ ३ असमवायिकारणे च “कारणन्त्वसमवायिनो गुणाः” वै० सू० “ननु यद्यमूर्त्तत्वात् गुणाः कर्मसमवायिकारणं न भवन्ति तदा गुणैर्गुणाः कर्म्माणि च कथमुत्पद्यन्ते न हि समवायिकारणातिरिक्तत्वरूपेणापि कारणता संभवतीत्यत आह गुणा असमवायिकारणं न तु समवायिकारणमपि येन कर्माधाराः स्युः। सा चासमवायिकारणता क्वचित् कार्य्यै कार्थसमवायात् यथाऽऽत्ममनःसंयोगस्यात्मविशेषगुणेषु संयोगविभागशब्दानां शब्दे, क्वचित् कारणैकार्थसमवायात् यथा कपालादिरूपादीनां घटादिरूपादिषु” उपस्करः।

असमवृत्त = न० न समानि भिन्नलक्षणकत्वात् न तुल्यानि पदानि यत्र कर्म०। छन्दःशास्त्रोक्ते १ विषमवृत्ते तानि च “मुखपादोऽष्टभिर्वर्ण्णैः परेऽऽस्मान्मकरालयैः क्रमाद्वृद्धाः” इत्यादीनि वृत्त० उक्तानि ज्ञेयानि। ब०। २ अनुपमचरिते त्रि०

असमस्त = त्रि० सम + अस–क्त न० त०। १ असंक्षिप्ते २ व्यस्ते “एते व्यस्ताः समस्ता वेति” विश्वामित्रवचनव्याख्याने “व्यस्ताः असमस्ताः” प्रा० त० रघु०। ३ असमग्रे व्याकरणोक्तसमासशून्ये विभक्तक्त्यादिकार्य्ययुक्ते ४ विग्रहवाक्ये न०।

असमाति = त्रि० समं साम्यमतति अत–इन् न० त०। अतुल्ये अनुपमे “एवाहि जातो असमात्योजाः” ऋ० ६, २९, ६।

असमान = त्रि० न० ब०। अतुल्ये। “समानं लघु चाशौचं पूर्ब्बेणैव विशुध्यति। असमानं द्वितीयेन” यमः।

असमानयानकर्म्मन् = पु० न समानं तुल्यकालिकं यानकर्म्मयत्र। सन्धिभेदे। त्वमग्रे याहि ततोऽहं यास्यामीति समयं कृत्वा यत्र पूर्ब्बोत्तरं जिगीषुभ्यां गम्यते तादृशे यानकर्म्मरूपे सन्धौ।

असमापन = न० अभावे न० त०। १ संपूर्त्त्यभावे न० ब०। २ समाप्तिशून्ये त्रि०।

असमाप्त = त्रि० न समाप्तः। १ असम्पृर्ण्णे “असमाप्ते व्रते चैव नैव कुर्य्यात् व्रतान्तरम्” स्मृतिः। संकल्पपूर्व्वकगृहीतव्रतस्यासमापने व्रतान्तरस्यात्राकर्त्तव्यताऽत्रोक्ता। आरब्धकर्म्मणः सपूर्ण्णता समाप्तिः। २ तच्छून्ये च “असमाप्ते परिकर्मणि स्मृतः” कुमा०। ३ सम्यगप्राप्ते च।

असमाप्ति = स्त्री अभावे न० त०। १ समाप्त्यभावे न० ब०। २ समाप्तिशून्ये त्रि०। ३ सम्यगप्राप्तौ स्त्री ४ तच्छून्ये त्रि०

असमावृत्त = पु० न० त०। समावृत्तः चीर्णब्रह्मचर्य्यतया गुरुणानुमतः गुरुकुलादावृत्तः गृहस्थकर्म्मकरणाय कृत समावर्त्तसंस्कारः न० त०। तद्भिन्ने ब्रह्मचारिणि स्वार्थेकन् असमाववृत्तकोऽप्युक्तार्थे। “मासिकान्नं तुयोऽश्नीयादसमावृत्त(वर्त्त)को द्विजः” मनुः। असमावर्त्तकोऽप्यत्र।

असमाहार = पु० समाहारी मेलनं संघातः सम्यगांहरणञ्च अभावे न० त०। १ तदभावे न० ब०। २ तच्छून्ये त्रि०।

असमाहित = त्रि० न० त०। १ समाधिशून्ये चित्रैका ग्रताशून्ये २ असन्निवेशिते च।

असमीक्ष्यकारिन् = त्रि० समीक्ष्य विविच्य न करोतीति कृ + णिनि। १ विवेचनामकृत्वैव कर्म्मकारके, २ मूर्खे च।

असमृद्धि = स्त्री ऋद्धेराधिक्यं समृद्धिः अभावे न० त०। १ ऋद्ध्याधिक्याभावे “नात्मानमवमन्येत पूर्ब्बाभिरसमृद्धिभिः” मनुः। न० ब०। २ समृद्धिशून्ये त्रि०।

असम्पत्ति = स्त्री अनुरूपात्सलाभः सम्पत्तिः लक्ष्मीश्च अभावे न० त०। १ सम्पत्त्यभावे। न० ब०। २ तच्छून्ये त्रि०।

असम्पन्न = त्रि०। मम्पन्नः सम्पद्युक्तः अनुरूपात्मस्वरूपप्राप्तश्च न० त०। तद्भिन्ने।

असम्पर्के = पु० अभावे न० त०। १ संबन्धाभावे न० ब०। २ संबन्धशून्ये त्रि०।

असम्पूर्ण्ण = त्रि० यावत्पर्य्यन्तानुसरणे समाप्तिस्तद्वान् सम्पूर्ण्णः न० त०। तादृशपूर्त्तिशून्ये। यथा असम्पूर्ण्णं चन्द्रमण्डलम् “क्रूरग्रहः सकेतुश्चन्द्रमसंपूर्ण्ण मण्डल मिदानीम्” मुद्रारा०

असम्पृक्त = त्रि० न०। १ असंबद्धे २ असंयुक्ते।

असम्प्रज्ञात = त्रि० न सम्यक् ज्ञातः ज्ञेयादिभेदो यत्र। पातञ्जलोक्ते ज्ञेयज्ञानज्ञातृभेदशून्ये निर्विकल्पके १ समाधौ। समाधिस्तावत् द्विविधः सम्प्रज्ञातः असम्प्रज्ञातश्च तत्राद्यः सविकल्पकः ग्राह्यग्रहणग्रहीतृप्रतिभासत्वात् तत्प्रतिभासशून्यो निर्विल्पकः सर्व्वविकल्पशून्यत्वादसम्प्रज्ञातो द्वितीयः यथाह पात० सूत्रादौ “क्षोणवृत्तेरभिजातस्य मणेर्ग्रहीतृग्रहण ग्राह्येषु तत्स्थतदञ्जनता समापत्तिः” यथाऽभिजातस्यातिस्वच्छस्य मणेः स्फटिकादेः कुसुमाद्युपरक्तस्य स्वरूपाभिभवेन रक्ताद्याकारता भवति तथा अभ्यासवैराग्याभ्यां क्षीणवृत्तेरभिभूतरजस्तमोवृत्तिकस्य चित्तस्य स्थूलसूक्ष्मभूतात्मकग्राह्यैः ग्रहणैरिन्द्रियादिवृत्तिभिः ग्रहीत्रा च वितर्कविचारानन्दास्मितानुगमात् तदाकारतापत्तिः समाधिर्भवति सेयं सम्प्रज्ञाताख्या समापत्तिः। तद्भिन्ना च असम्प्रज्ञाता समापत्तिः। संप्रज्ञातभेदादिकं च तच्छब्दे वक्ष्यते। अस्या एव च निर्वीज इति संज्ञान्तरम् “तस्यापिनिरोधात् निर्वीजः समाधिः” पात० सू० सत्वपुरुषान्यत्वख्यात्यनन्तरं परवैराग्यसंस्कारप्रचयेन तस्य सम्प्रज्ञातसमाधिसंख्यारस्य तत्प्रज्ञायाश्च निरोधे सति सर्व्वस्य सम्प्रज्ञातजन्यसंस्कारप्रवाहस्य निरोधात् समाप्ताधिकारत्वेन चित्तस्य कृतकृत्यता स्यात् निमित्तापाये नैमित्तिकापाय इति न्यायेन निर्वीजः समाधिर्जायते स च “आगमेनानुमानेन ध्यानाभ्यासरसेन च। त्रिधा प्रकल्पयेत् प्रज्ञां लभते योगमुत्तमम्” श्रुत्युक्तः आगमेन श्रवणेन अनुमानेन मननेन ध्यानाभ्यासे योरसः परमवैराग्यं तेन प्रज्ञाप्रसादेन प्रज्ञां पुरुषरुक्षात्कारं संपादयन् योगं निर्बीजसमाधिं लभते इति तदर्थः कालक्रमेण निर्वीजसमाधिसंस्कार प्रलये सति स्वप्रकृतौ चित्तं लीयते हेत्वभावात्, कृत्यशेषलक्षणाधिकारोहि चित्तस्य स्थितिहेतुः न हि कृतभोगविवेकख्यातिकस्य चित्तस्य कृत्यशेषोऽस्ति येन तदधिक्रियेत। प्रकृतौ चित्तस्य प्रलये च पुरुषः स्वरूपमात्रप्रतिष्ठः केशलो मुक्तो भवतीति” वृत्ति०। २ सम्यगज्ञात च।

असम्प्रति = अव्य० तिष्ठद्गुप्र० समा०। १ अयोग्ये काले अनुपस्थितकाले च। “यच्चैव सम्प्रति दद्मोयच्चैवासम्प्रति” शत० ब्रा०।

असम्बद्ध = न० सम्बद्धं परस्परमन्वितं न भवांत सम् + बन्ध–क्त न० त०। अर्थानवोधकेऽनन्वितार्थके १ वाक्ये। “असंबद्धप्रलापश्च वाङ्मयं स्याच्चत्युर्विधम्” मनुः यथा “यावज्जीवमहं मौनीत्यादि” वाक्यम्। २ सम्बन्धशून्ये असङ्गते च त्रि०।

असम्बद्धप्रलाप = पु० कर्म्म०। १ असङ्गते २ अप्रस्तुतस्य वा कथने, ३ निष्प्रयोजने कथने च।

असम्बन्ध = पु० अभावे न० त०। १ सम्बन्धाभावे “व्याप्तिः साध्य वदन्यस्मिन्नसम्बन्धौदाहृतः” भाषा० २ परस्परमन्वयाभावे च “गुणानाञ्च परार्थत्वादसम्बन्धः समत्वात् स्यात्” जै० सू०, न० ब०। ३ सम्बन्धशून्ये त्रि०। “असंबन्धकृतश्चैव व्यवहारो न मिध्यति” या० स्मृतिः।

असम्बाध = त्रि० नास्ति सम्बाधा अन्थोन्यं पीडा प्रतिबन्धो वा यत्र। १ परस्परसंघर्षरूपपीडारहिते विरले, २ बाधारहिते च। “असंबाधा देवनदी स्वर्गसम्पादिनी शुभा” भा० आ० प०। न सम्यग् बाधा अभावे न० त०। ३ सम्यग्बाधाभावे ४ चतुर्दशाक्षरपादके वृत्तभेदे च स्त्री म्तौ न्सौ गावक्षग्रहविरतिरसंबाधा” वृत्त० र०।

असम्भव = पु० अभावे न० त०। १ सम्भवाभावे “अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात्” य० ४०९० “निष्क्रियस्य तदसम्भवात्” सां० सू० न्यायोक्तेलक्ष्यमात्रे २ लक्षणाननुसरणे। असम्भववारणाय प्रतियोगितावच्छेदकावच्छिन्नं यन्न भवतीतिव्याप्तिलक्षणे प्रतियोगितानच्छेदकं साध्यतामवच्छेदकमिति कैश्चिदुक्तम्। सम्भवः समावेशः ३ तदभावे। सम्भवश्च प्रमाणान्तरमिति अष्टप्रमाणवादिनः पौराणिकाः। सांख्या दिभिस्तु अनुमाने एव तस्य गतार्थत्वमुक्तम् यथाह” सा० कौ०। “सम्भवस्तु यथा खार्य्यां द्रोणाढकप्रस्थाद्यवगमः स चानुमानमेव खारीत्वं हि द्रोणाद्यविनाभूतं प्रतीतं सत् द्रोणादिसत्त्वमवगमयति”। व्याख्यातञ्चैतदस्माभिः। “खारीत्वं खारीपरिमाणं महाहापरिमाणेऽवान्तरपरिमाणसमावेशोऽनुभवसिद्धः तथा च खारीपरिमाणं द्रोणादिपरिमाणव्यापकमिति खारीत्वस्य द्रोणादिपरिमाणाविनाभूततया अनुमानेनैव खारीपरिमाणे द्रोणादिपरि माणसिद्धिः”।

असम्भवत् = त्रि० सम् + भू–शतृ न० त० स्त्रियां ङीप्। असम्भवे वस्तुभि “अम्भवद्घनरसा शतालीपरिषेविता। करं न सहते राजन्! भूमिर्नवबधूरिव” उद्भटः।

असम्भव्य = त्रि० सम् + भू–कर्त्तरि नि० यत्। सम्भवाविषये वस्तुनि “असम्भव्यं न वक्तव्यमिति” नीतिः। सम् + भू–णिच्–कर्शणि यत् असम्भाव्यमप्यत्र त्रि०। “असम्भव्यं पराभवन्” अथ० ५, १८, १२, “तिर्य्यग्योनावसम्भाव्यमावश्यकमवस्थितः” भा० आदि० प०।

असम्भावना = स्त्री अभावे न० त०। सम्भावनाभावे। सम्भावना च शक्त्युत्कर्षमाविष्कर्तुमत्युक्तिः निश्चयप्रायऔत्कट्यापन्नसंशयश्च।

असम्भावनीय = त्रि० न० त०। सम्भावनानर्हे वस्तुनि।

असम्भूति = स्त्री सम् + भू–क्तिन् अभावे न० त०। १ सम्भवाभावे सम्भूतिः कार्य्योत्पत्तिः सा नास्ति यस्याः। अव्याकृताख्यै प्रकृतिरूपे कारणे “अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासते” यजु० ४, ९। “असम्भूतिः प्रकृतिः कारणम्” वेददी०।

असम्भृत = त्रि० न० त०। १ अयत्नसिद्धे “असम्भृतं मण्डनमङ्गयष्टेः” कुमा०। २ असम्यक्पुष्टे च।

असम्भेद = पु० सम्भेदोमेलनं संसर्गः अन्योन्यरूपताप्राप्तिः भेदश्च अभावे न० त० १ तदभावे न० ब०। २ तच्छून्ये त्रि०।

असम्भ्रम = पु० सम्भ्रमः औत्सुक्यहेतुककार्य्यत्वरा सम्यग् भ्रान्तिः भयहेतुकचित्तक्षोभश्च अभावे न० त०। १ सम्भ्रमाभावे “शशंस तुल्यसत्वानां सैन्यघोषेऽप्यसम्भ्रम्म्” रघुः। न० ब०। २ सम्भ्रमशून्ये।

असम्मत = त्रि० न० त०। सम्मतभिन्ने अननुमते “असम्मतः कस्तव मुक्तिमार्गम्” कुमा०।

असम्मति = स्त्रि अभावे न० त०। १ सम्मत्यभावे। न० ब० २ तच्छून्ये त्रि०।

असम्मित = त्रि० न० त०। अपरिमिते “तस्मादिमा अतिरिक्ता असम्मिता ओषधयः प्रजायन्ते” शत० ब्रा०।

असम्मुग्ध = त्रि० सम् + मुह–क्त न० त०। १ अकृतसन्देहे २ पाण्डित्याभिमानरहिते च।

असम्मूढ = त्रि० न० त०। सम्भूढभिन्ने १ स्थिरनिश्चये २ भ्रान्तिशून्ये “असम्मूढः स मर्त्येषु” “स्थिरबुद्धिरसम्मूढो ब्रह्मविद् ब्रह्मणि स्थितः” इति च गीता।

असम्मृष्ट = त्रि० न० त०। १ परस्परसंघर्षणशून्ये २ बाधाशून्ये च “असंमृष्टोजायसे मात्रोः” ऋ० ५, ११, ३। “असम्मृष्टः अबाधितः” भा०। ३ संमार्ज्जनशून्ये च। “अग्निमग्नीत्संमृड्ढीत्यसंमृष्टमेव भवति सम्पेषितम्” शत० ब्रा०।

असम्मोह = पु० अभावे न० त०। १ भ्रमाभावे। विरोधे न० त० प्रमात्मके यथार्थे २ ज्ञाने “बुद्धिर्ज्ञानभसम्मोहः क्षमा सत्यं दमःशमः” इत्युपक्रम्य “भवन्ति मावा भूतानां मत्तएव पृथग्विधा” इति गीतायां तेषां भावरूपत्वोक्तेः अयथार्थज्ञानपरत्वम् न० ब०। ३ तच्छून्ये स्थिरप्रज्ञे त्रि०।

असम्यच् = त्रि० न० त०। सम्यग्भिन्ने १ अनुचिते २ अयुक्ते। “असम्यग्व्ययशीलैस्तै” देवीमा०। स्त्रियां ङीप् असमीची

असरु = पु० सरति सृ–उन् न० त०। (कुकुरसोङ्गा) वृक्षे

असल = न० अस्यते “क्षिप्यतेऽनेन अस + कलच्। अस्त्रक्षेपोपयुक्ते १ मन्त्रभेदे २ लौहे च।

असवर्ण्ण = त्रि० न सनानो वर्ण्णोऽस्य समानस्य सादेशः। असजातीये भिन्नवर्ण्णे यथा ब्राह्मणस्य क्षत्रियादिः। “द्विजानामसवर्ण्णासु कन्यासूपयमस्तथा” वृहन्ना०।

असश्चत् = त्रि० सश्चतिर्गत्यर्यः निरु० सश्च–शतृ न० त०। १ अगमनशीले स्त्रियां ङीप् “अस्य प्रजावती गृहेऽसश्चन्ती” ऋ० ८। ३१। ४। “असश्चन्ती अगमनशीला” भा०। २ अपराजिते च “मधुजिह्वा असश्चतः” ऋ० ९। ७३। ४। “असश्चतः अपराजितान्” भा०।

असश्चुस् = त्रि० सश्च–वा उसुन् न० त० स्त्रियां ङीप्। अप्रतिबद्धे “यानो दोहते त्रिरहन्नसश्चुषी क्षुमत्” ऋ० ९। ८६। १८। “असश्चुषी अप्रतिबद्धा” भा०।

अससत् = त्रि० सस–स्वप्ने शतृ न० त० स्त्रियां ङीप्। स्वव्यापारे जागरूके “रेजन्ते अससन्तो अजराः” ऋ० १। १४३। ३। “अससन्तः स्वव्यापारेष्वस्वपन्तः” भा०।

असह = त्रि० न सहते सह–अच् न० त०। अक्षमे असहने

असहन = पु० न सहति सह–ल्यु न० त०। १ शत्रौ। २ क्षमाशुन्ये त्रि०। भावे ल्युट् अभावे न० त०। ३ क्षमाभावे

असहाय = त्रि० नास्ति सहायोयस्य। १ सहचरशून्ये अन्यसाहाय्यरहिते २ सङ्गरहिते च “कपालं वृक्षमूलानि कुचेलमसहायता। समता चैव सर्व्वस्मिन्नेतन्मुक्तस्य लक्षणम्,” मनुः।

असहिष्णु = त्रि० न सहिष्णुः। अक्षमे सहनशीलभिन्ने “स्वजनबन्धुजनेष्वसहिष्णुता” नीतिः

असह्य = त्रि० न सह्यः। सोढुमशक्ये “असह्यपीडं भगवन्नृ णमन्त्यमवेहि मे” “द्विषामसह्यः सुतरां तरूणाम्” इति च रघुः। “नववैधव्यमसह्यवेदनम्” कुमा०।

असाक्षात् = अव्य० न० त०। १ परोक्षे २ इन्द्रियायोग्ये च।

असाक्षात्कार = पु० अभावे न० त०। १ प्रत्यक्षाभावे विरोधे न० त०। २ परोक्षज्ञाने न० ब०। ३ प्रत्यक्षाविषये ४ तच्छून्ये च त्रि०।

असाक्षिक = त्रि० नास्ति साक्षी साक्षाद्व्रष्टा अधिष्ठाता वा यस्य कप्। १ साक्षिशून्ये “असाक्षिकेषु त्वर्थेषु मिथोवि वदमानयोः” मनुः। २ अधिष्टातृशून्ये च असाक्षिका जडप्रवृत्तिरनुचितेति वेदा० प्रक०।

असाक्षिन् = त्रि० न साक्षी। स्मृत्युक्ते वचनतो दोषादितोवा साक्ष्यकर्म्मसु अग्राह्ये श्रोत्रियादौ। असाक्षिणश्च मिता० दर्शिताः “उक्तलक्षणानां साक्षिणामसम्भवे प्रतिषेधरहितानामन्येषामपि साक्षित्वप्रतिपादनार्थमसाक्षिणो वक्तव्याः ते च पञ्चविधा नारदेन दर्शिताः “असाक्ष्यपि हि शास्त्रेषु दृष्टः पञ्जविधो बुधैः। वचनाद्दोषतोभेदात्स्वयमुक्तिर्मृतान्तर” इति। के पुनर्वचनादसाक्षिण इत्याह। “श्रोत्रियास्तापसा वृद्धा ये च प्रब्रजितादयः। असाक्षिणस्ते वचनान्नात्र हेतुरुदाहृतः” या० स्मृ० तापसावानप्रस्थाः। आदिशब्देन पित्राविवदमानादीनां ग्रहणम्। यथाह शङ्खः। “न पित्राविवदमानगुरुकुलवासिपरिव्राजकवान प्रस्थनिर्ग्रन्थयः सासिण” इति दोषादसाक्षिणो दर्शिता नारदेन “स्तेनाः साहसिकाश्चण्डाः कितवा वञ्चकास्तथा। असाक्षिणस्ते दुष्टत्वात्तेषु सत्यन्न विद्यत” इति। चण्डाःकोपनाः कितवाद्यूतकृतः। भेदादसाक्षिणाञ्च स्वरूपन्तेनैव दर्शितम्। “साक्षिणां लिखितानां च निर्दिष्टानाञ्च वादिना। तेषामेकोऽन्यथा वादी भेदात्सर्वे न साक्षिण” इति। तथा स्वयमुक्तिस्वरूपञ्चोक्तम्। “स्वयमुक्तिरनिर्द्दिष्टः स्वयमेवेत्य यो वदेत्। सूचीत्युक्तः सशास्त्रेषु न स साक्षित्वमर्ह तीति”। मृतान्तरस्यापि लणणमुक्तम्। “योऽर्थः श्रावयितव्यः स्यात्तस्मिन्नसति चार्थिनि। क्व तद्वदतु साक्षित्व मित्यसाक्षी मृतान्तर” इति। येनार्थिना प्रत्यर्थिना वा साक्षिणां योऽर्थः श्रावयितव्यो भवेत् यूयमत्रार्थे साक्षिण इति। तस्मिन्नर्थिनि प्रत्यर्थिनि वा असति मृतेऽर्थे च अनिवेदिते साक्षी क्व कस्मिन्नर्थे कस्य वा कृते साक्ष्यं वदत्विति मृतान्तरः साक्षी न भवति यत्र तु मुमूर्षुणा स्वस्थेन वा पित्रा पुत्रादयः श्राविताः अस्मिन्नर्थे अमी साक्षिण इति। तत्र मृतान्तरोपि साक्षी। यथाह नारदः। “मृतान्तरोऽर्थिनि प्रेते मुमूर्षुश्रावितादृते”। तथा। “श्रावितोनातुरेणापि यस्त्वर्थो धर्मसंहितः। मृतेऽपि तत्र साक्षी स्यात् षट्सु चान्वाहितादिषु”। तानेतानसाक्षिणो दर्शयति। “स्त्रीबालवृद्धकितवमत्तोन्मत्ताभिशस्तकाः”। रङ्गावतारिपाषण्डिकूटकृद्विकलेन्द्रियाः। पतिताप्तार्थसम्बन्धिसहायरिपुतस्कराः। साहसी दृष्टदोषश्च निर्द्धूताद्यास्त्वसाक्षिणः”। स्त्री प्रसिद्धा। वालोऽप्राप्तव्यव- हारः। वृद्धोऽशीतिकावरः बृद्ध्वग्रहणं वचननिषिद्धा नामन्येषामपि श्रोत्रियादीनामुपलक्षणम्। कितवोऽक्षदेवी। मत्तः पानादिना, उन्मत्तो ग्रहाविष्टः। अभिशस्तः, अभियुक्तो ब्रह्महत्यादिना। रङ्गावतारी चारणः पाषण्डिनो निर्ग्रन्थिप्रभृतयः। कूटकृत् कपटलेख्यादिकारी विकलेन्द्रियः श्रोत्रादिरहितः पतितः ब्रह्महादिः। आप्तः सुहृत्, अर्थसम्बन्धी विप्रतिपद्यमानार्थसम्बन्धी। सहाय एककार्य्यः रिपुः शत्रुः तस्करः स्तेनः साहसी स्वबलावष्टम्भकारी दृष्टदोषो दृष्टवितथ वचनः। निर्धूतो बन्धुभिस्त्यक्तः। आदिशब्दादन्येषामपि स्मृत्यन्तरोक्तानां दोषादसाक्षिणाम्भेदादसाक्षिणां स्वयनुक्तेर्मृतान्तरस्य च ग्रहणम्। एते स्त्रीबालादयः साक्षिणो न भवन्ति” मिता०। अत्रापवादः “सर्व्वः साक्षी संग्रहणे चौर्य्ये पारुष्यसाहसे”। या० स्मृ० संग्रहणादौ सर्व्वे वचननिषिद्धाः श्रोत्रियादयः तपःप्रभृति गुणरहिताश्च साक्षिणोभवन्ति। दोषादसाक्षिणो भेदादसाक्षिणः स्वयमुक्तिश्चात्रापि साक्षिणो न भवन्ति सत्याभावादिहेतोस्तेषु विद्यमानत्वादिति” मिता०।

असाधन = न० अभावे न० त०। १ सम्पादनाभावे साधनं हेतुः न० त०। २ अकारणे न० ब०। ३ कारणशून्ये।

असाधारण = त्रि० साधारणं सामान्यधर्मयुक्तं न० त०। १ तद्भिन्ने, तन्मात्रवृत्तिधर्मयुक्ते विशेषे २ अधिके च। न्यायमते “यस्तूभयस्माद्व्यावृत्तः स त्वसाधारणो मत” इत्युक्ते ३ सपक्षविपक्षावृत्तौ हेतौ पु०। यथा वह्निसाधने गगनादिर्हेतुः स च पक्षे पर्व्वतादौ, पक्षभिन्ने जलादौ च न विद्यते गगनादेः कुत्रापि विद्यमानत्वाभावात् इति तस्य तथात्वम् “साधारणासाधारणयोर्मध्येऽसाधारणे कार्य्यसंप्रत्यय” इति न्यायः। ४ स्वमात्रस्वत्वास्पदीभूते इतरस्वत्व रहिते घनादौ च। स्त्रियां ङीष् गौरा०। “पिता पुत्रान्तरेष्वपि साधारणः माता त्वसधारणी” मिता०।

असाधारणानैकान्तिक = पु० कर्म०। न्यायोक्ते सर्व्वसपक्षव्यावृत्ते हेत्वाभासभेदे यथा शब्दोनित्यः शब्दत्वात् अत्र शब्दत्वं सर्व्वनित्येभ्यो व्यावृत्तं शब्दमात्रवृत्तिइति तस्य तथात्वम्।

असाधु = त्रि० न० त०। १ साधुभिन्ने, २ असच्चरिते, ३ दुष्टे “अतोऽर्हसि क्षन्तुमसाधु साधु वा” किरा ४ संस्कृतशब्दभिन्ने, अप्रभ्रंशादौ च। “असाधुरनुमानेन” “असाधूनां प्रयोगे तु प्रत्यवायोऽपि नो तथा इति” च हरिः। स्त्रियां ङीप्। असाध्वी भारती असाध्वी योषित् इत्यादि।

असाध्य = त्रि० साधयितुमशक्यः। १ साधयितुमशक्ये रिपौ रोगादौ च “असाध्यं कुरुते कोपं प्राप्ते कालेगदो यथा” माघः। असाध्यरोगाश्च सुश्रुते उक्ताः ते च अवारणीयशब्दे ४४९ पृष्ठे दर्शिताः “ऊर्द्ध्वं साध्यमधोयाप्यमसाध्य युगपद्गत” मित्यादयोऽपि विशेषतोऽसाध्या वैद्यके उक्ताः ततएव ते वेदितव्याः।

असान्तापिक = त्रि० सन्तापाय न प्रभवति ठञ्। सन्तापायासमर्थे

असान्द्र = त्रि० विरोधे न० त०। अनिविडे विरले।

असामञ्जस्य = न० अभावे न० त०। १ सामञ्जस्याभावे २ अयुक्तत्वे ३ सन्निवेशासम्भवे च न० ब० तच्छून्ये त्रि०।

असामर्थ्य = न० अभावे न० न०। सामर्थ्याभावे अपाटवे। “कालदोषादसामर्थ्यात् सर्व्वं तत् सफलं स्मृतम्” “असमार्थ्यात् शरीरस्य कालशक्त्याद्यपेक्षया। मन्त्रस्नानादितः सप्त केचिदिच्छन्ति शूरयः” योगिया०।

असामयिक = त्रि० समयोऽस्य प्राप्तः ठञ् न० त०। अप्राप्तकाले “किमसामयिकं वितन्वता मनसः क्षोभमुपात्तरंहसः” किरा०।

असामान्य = त्रि० नास्ति सामान्यं तुल्यता यस्य। अनुपमे। अभावे न० त०। तुल्यत्वाभावे त्रि०। असाम्यमप्यत्र।

असाम्प्रतम् = अव्य० न साम्प्रतम् युक्तं न० त०। अयुक्ते। “विषवृक्षोऽपि संवर्द्ध्य स्वयं छेत्तुमसाम्प्रतम्” कुमा० “सम्प्रत्यसाम्प्रतं वक्तुमुक्ते मुषलपाणिना” माघः “अविधाय विवाहसत्क्रियामनयोर्गम्यत इत्यसाम्प्रतम्” रघुः।

असार = पु० न० नास्ति १ सारो यस्य। सारहीने एरण्डे वृक्षभेदे। २ निस्सारे त्रि०। “असारः खलु संसारः” इत्युद्भटः। “निदर्शनमसाराणां लघुर्वहुतृणं नरः” माघः “धिगिमां देहभूतामसारताम्” रघुः। ४ अगुरुचन्दने न० राजनि०। न० त०। ३ सारभिन्ने तुच्छत्वे पु०।

असावधान = त्रि० न० त०। अवधानहीने प्रमत्ते।

असाहाय्य = न० अभावे न० त०। १ साहाय्याभावे। न० ब०। २ साहाय्यशून्ये त्रि०।

***