अश्वमेधिक = न० अश्वमेधमधिकृत्य कृतः ग्रन्थः ठक् ठन् वा। महाभारान्तर्गते चतुर्द्दशे पर्व्वलि। “ततोऽश्वमेधिकं पर्व सर्वपापप्रणाशनम्” “ततोऽश्वमेधिकं पर्व प्रोक्तंतच्च ततुर्द्दशम्” इति च भा० आ० प०।

अश्वमेधीय = पु० अश्वमेधाय हितः “अश्वमेधाच्छ च” पा० छ। अश्वमेधयोग्ये पशौ तल्लक्षणम् अश्वमेधशब्दे उक्तम्। चात् ठन्। अश्वमेधिकोऽप्युक्तार्थे।

अश्वया = स्त्री अश्वमिच्छति अश्व–क्यच् “न छन्दस्यपुत्रश्चेति” पा० नेत्त्वदीर्घौ भावे अ। हयेच्छ्रायाम् “अपुराश्वयोत रथया” ऋ० ८, ४६, १०। “अश्वया अश्वेच्छया” भा०।

अश्वयु = त्रि० अश्वोऽस्त्यस्य युच्। १ अश्वयुक्ते “गव्युरश्वयुरीयते” ऋ० ३१, १५। अश्वमिच्छति क्यच् वेदे नि० नेत्त्व दीर्घौ उन्। २ अश्वेच्छ्वावति। अश्वयुर्गव्यूरथयुः” ऋ० १, २१, १४। “अश्वयुरश्वानिच्छन्” भा०।

अश्वयुज् = स्त्री अश्वेन हयमुखाकारेण युज्यते युज–क्विप्। १ अश्विनीनक्षत्रे तस्य तथाकारत्वमश्लेषाशब्दे उक्तम्। अश्वयुजि जातः अण् तस्य वा लुक्। अश्वयुक् २ तन्नज्ञत्रजाते त्रि० लुगभावे आश्वयुजः स्त्रियां ङीप्। अश्वेन हयाकारवता नक्षत्रेण युज्यते पौर्ण्णमास्यस्मिन् मासे आधारे क्विप्। ३ चान्द्राश्विनमासे “अश्वयुक्कृष्णपक्षस्य श्राद्धं कुर्य्याद्दिनेदिने” स्मृतिः। अश्वेन नक्षत्रेणयुक् पौर्ण्णमासी अस्त्यस्य अर्श० अच्। अश्वयुजोऽप्यत्र रत्नमाला० अश्वयुजा युक्ता पौर्ण्णमास्यस्मिन् प्रज्ञा० अण् आश्वयुजोऽप्यत्र। कर्म्मणि क्विप्। अश्वेन युक्ते ४ रथादौ। अश्वेन युनक्ति रथम् कर्त्तरि क्विप्। रथादौ ५ अश्वयोजके त्रि०। “वयोवृघो अश्वयुजः परिज्रयः” ऋ० भा० ५, ५४, २।

अश्वरक्षक = पु० अश्वं रक्षति रक्ष–ण्वुल्। घोटकपालके।

अश्वरत्न = न० अश्वोरत्नमिव उपमि० स०। उच्चैःश्रवसि तस्य हयश्रेष्ठत्वात्तथात्वम् “मथ्यमानेऽमृते जातमश्वरत्नमनुत्तमन्” भा० आ० प० १७ अ०। हयरत्नादयोऽप्यत्र “हयरत्नमहारि च” कुमा०।

अश्वरथ = पु० अश्वयुक्तोरथः। १ अश्वयुक्ते रथे। गन्धमादनसन्निकृष्टायाम् २ नद्यां स्त्री। “पञ्चवर्ण्णानि पुष्पाणि पात्यन्ते भरतर्षभ!। प्रत्यक्षं सर्वभूतानां नदीमश्वरथां प्रति” भा० व० प० १६० अ०।

अश्वराज = पु० अश्वानां राजा श्रेष्ठत्वात् टच्। उच्चैःश्रवसि “यत्र जज्ञे महावीर्य्यः सोऽश्वराजो महाद्युति” भा० आ० प० १७ अ०। भगवद्विभूतित्वादपि तस्य श्रेष्ठत्वम् “उच्चैःश्रवसमश्वानां विद्धि याममृतोद्भवम्” गीता।

अश्वरोधक = पु० अश्वं रुणद्धि रुध–ण्वुल्। करवीरे वृक्षे।

अश्वरोह = पु० अश्वं रोहति रुह–अण् उप० स०। अश्वारोहे सादिनि।

अश्वल = त्रि० अश्वं लाति ला–क ६ त०। १ हयग्राहके ऋषिभेदे “अथ ह जनकस्य वैदेहस्य होताश्वलो बभूव” वृ० उ०। तदृषेः याज्ञवल्क्यं प्रति प्रश्नप्रतिवचनरूपाख्यायिकाप्रतिपादके २ ब्राह्मणे च तच्च “अथ हजनकस्येत्यारभ्य ततोहो ताश्वलोविररामेत्यन्तम्” वृ० उ०। गोत्रापत्ये नडा० फक्। आश्वलायनः। तद्गोत्रापत्ये येन श्रौतसूत्रंगृह्यसृत्रञ्च कृतम् तस्मिन्।

अश्वलक्षण = न० अश्वानां शुभाशुभज्ञापकत्वं लक्ष्यतेऽनेन लक्ष–करणे ल्युट् ६ त०। अशूस्य श्रुभाशुभसूचक चिह्नभेदे अश्वशब्दे तच्चोक्तम्।

अश्वललित = न० वृत्तरत्नाकरोक्ते त्रयोविंशत्यक्षरपादके वर्ण्णवृत्तभेदे “यदि ह नजौ भजौभ्जभलगास्तदाश्व ललितं हरार्कयतिमत्”। इदमद्रितनयेति छन्दोम०।

अश्वलाला = स्त्री अश्वस्य लालेवाकृत्या। ब्रह्मसर्पे हलाहलसर्पे जटाध०। अश्वलोमेति पाठान्तरम्। अश्वस्य लोमे वाकृतिरस्य” तत्र विग्रहः।

अश्ववक्त्र = पु० अश्वस्य वक्त्रमिव वक्त्रमस्य। १ किम्पुरुषे देवयोनिभेदे अश्ववदनहयमुखादयोऽप्यत्र। २ हयग्रीवे विष्णु मूर्त्तिभेदे अश्वशिरःशब्दे विवृतिः। तद्ध्यानेन च तन्मूर्त्तिरुक्ता तन्त्रसा०। “शरच्छशाङ्कप्रभमश्व वक्त्रं मुक्तामयैराभरणैः प्रदीप्तम्। रथाङ्गशङ्खाञ्चितबाहुयुग्मं जानुद्वयन्यस्तकरं भजामः”।

अश्ववत् = त्रि० अश्वोऽस्त्यस्य मतुप् मस्य वः। १ अश्वयुक्ते। “दधानो गोमदश्ववत् सुवीर्य्यम्” ऋ० ८, ४६, ५। मन्त्रे क्वचित् दीर्घः अश्वावान्। “भोजनमश्वावन्तं गोमन्तमापशुं नरः” ऋ० १, ८३, ४। अश्वे इव अश्वस्येव वा वति। २ हयसदृशे अव्य०। अश्वेन तुल्यं क्रिया वति। ३ हयकृत क्रियातुल्यक्रियायाम् अव्य०। अश्वमर्हति वति। ४ हयार्हे अव्य०।

अश्ववह = पु० अश्वेन उह्यते वह–कर्म्मणि बा अच्। हयेनोह्ये सादिनि।

अश्ववार = पु० अशं वारयति चु० वृ–अण् उप० स०। हयनिवारके सादिनि “दुःखेन निश्चक्रमुरश्ववाराः” माघः। ण्वुल्। अश्ववारकः तत्रैव। ल्यु अश्ववारणोऽप्यत्र। अश्ववारलक्षणादिकमुक्तमश्वशास्त्रे यथा “ब्राह्मणान् शक्तिदानेन साम्ना चैव तु क्षत्रियान्। वैश्यं दण्डेन शब्देन शूद्रं दण्डेन वाहयेत्। प्रत्यूषे वाहयेद्विप्रं क्षत्रियं प्रहरे गते। वैश्यं संन्ध्यागते काले शूद्रं रात्रौ च वाहयेत्। सत्वं च त्रिविधं प्रोक्तमुत्तमाधममध्यमम्। उत्तमं चोपशामेन साम्ना दण्डेन मध्यमम्। शब्दाङ्गेन च दण्डेन वाहये दधमम्बुधः। सहजे निर्मले वाहे तैलदुग्धस्य रूपवान्। शालिश्च द्विविधा प्रोक्ता बलदौर्वल्पसम्भवा। बलिष्ठो दुर्बलत्वेन दुर्बलोऽपि बलेन वा। छलेनोपाधिकायांश्च सत्वं ज्ञात्वा च वाहयेत्। सार्द्रां सुकठिनां चैव पाषाणीदकसंयुताम्। तृणकाष्टसमायुक्तां रङ्गभूमि तु वर्ज्जयेत्। समां च विपुलां चैव किञ्चित्पांशुसमन्विताम्। एकान्ते विजने रम्ये रङ्गभूभिं तु कारयेत्। स्थूलः क्रोधी च मूर्खश्च चित्तोत्सुकश्चलासनः। अस्थाने दण्डपाती योवाजी तस्य न सिध्यति। प्रचलति यस्य कटिरूर्द्ध्वबाहुर्दण्डपातः। न तस्य वाहनं वाजी दुर्लक्ष्यं वाजिवाहितम्। दृढासनोऽथ तत्त्वज्ञो जितसुष्टिर्निरालसः। अविरागी स्थिरश्चापि षडेते वाजिवाहकाः। चित्तं यो नैव जानाति तुरगस्य समासतः। न वहन्ति हयास्तस्य दण्डपातेन ताडिताः। ह्रेषिते वलिते भीते तथा चोन्मार्गगामिनि। कुपितोद्भ्रान्तचित्ते वा षट्सु दण्डं निपातयेत्। ह्रेषिते ताडयेन्मूर्द्धि जानुभ्यां वलिते तथा। क्रुद्धे उरसि हन्तव्यो भ्रान्तचित्ते तथोदरे। भीतं च ताडयेत्पश्चान्मुखे चोन्मार्गगामिनम्। ज्ञात्वा दोषं च रूपं च स्थानेष्वेतेषु ताडयेत्। अस्थानताडितोवाजी यावज्जीवं न सिध्यति। नो जहाति च तद्दोषं यावज्जीवत्यसौ हयः। धाराः पञ्च प्रवक्ष्यामि मुनिभिर्य्याः प्रकीर्त्तिताः। प्रथमा विक्रमा धारा द्वितीया पुलका स्मृता। तृतीया पूर्णकण्ठी तु चतुर्थी त्वरिता स्मृता। पञ्चमी चैव या धारा निरालम्बा प्रकीर्त्तिता। षष्ठी चैव तु या धारा श्रूयते न तु दृश्यते। विक्रमा गतिधारा च चतुष्का पुलका मता। मुखपादसमायुक्ता पूर्णकण्ठी तु सा भवेत्। स्वेच्छया त्वरिता धारा ताडिता चैव पञ्चमी। षष्ठी चैव तु या धारा स्वर्गलोकेषु गीयते। वल्गाश्च संप्रवक्ष्यामि मुनिभिः परिकीर्त्तिताः। पुष्पवन्ती च गोकर्णी तूलोत्तुला तुला वृथा। नागखण्डी पुष्पधारी दुमुष्टी च रुतस्तनी। द्विहस्ती चैकहस्ती च शुभगा शोभना मता। इत्येता द्वादश वल्गा मुनिभिः परिकीर्त्तिताः” “आरूढकर्णमध्ये तु मनो लक्षति वाजिनः” शनैस्तु वाहयेत्पूर्ब्बं पशुतुल्यं समादिशेत्। न वक्रो न तथोत्तानो न कुब्जो नाप्ययोमुखः। न भवेत्स्तब्धगात्रस्तु स भवेदश्ववाहकः। स्थिरोरुः स्थिरपादश्च त्रिकोन्नतस्थिरासनः। दक्षिणादितुरङ्गस्य चासने तु दृढः सदा। अश्ववाराः समाख्याताः शेषास्तु भयदायकाः। ग्रीष्मादिषु न वर्त्तव्यमृतुषु त्रिषु वाहनम्। हेमन्तादिषु वर्त्तव्यं सादिभिः शास्त्रवेदिभिः। प्रतिपत्सु त्रयोदश्यां पञ्चम्यां वा सिते दले। धृतिसिद्धातियोगेषु वासरे चन्द्रसूर्य्ययोः। मूलरोहिणीहस्तेषु पुष्पे चैवोत्तरासु च। एवंविधे दिने सादी वाहान् संवाहयेत् शुभे। रङ्गभूमौ च रेवन्तं स्थापयेत् पूजयेत्ततः। पुष्पैर्धूर्पः प्रदीपैस्तु चन्दनैः पायसैस्यथा। पक्कानैः पज्ञ्चशब्दैश्च प्रातःशुचिसुवाससा। रक्ताम्बरधरोभूत्वा रक्तपुष्पधरस्तथा”। “एकविंशतिवारांश्च ततः पर्य्याणयेद्धयम्। क्रोशमेकं तमारुह्य नयेच्छिक्षां शनैःशनैः। वल्गाग्रहश्च कर्त्तव्यः सव्यापसव्यमेव च। विक्रमा पुलका पूर्णकण्ठी च त्वरिता तथा। खलीनादौ प्रयोक्तव्या सादिना वाजिनां क्रमात्। नातिस्थूलं नातिकृशं न स्तब्धं नातिकर्कशम्। सप्ताङ्गुलप्रमाणन्तु खलीनं कारयेद्बुधः। खलीनादिवु लोहेषु धारयेद्विक्रमादिषु। क्रमेणैव तुरङ्गाणां कटानि संप्रयोजयेत्। खलीनादौ तु धारासु यदा सुशिक्षितो हयः। तदा कटेषु तं सादी भ्रामयेद्विक्रमादिभिः। शतहस्तादिकां भूमिं सप्तहस्तावसानिकाम्। भ्रामयेद्वाजिनं सादी सव्यं चैवापसव्यकम्। मण्डलं चतुरस्रं च गोमूत्रं चार्द्धचन्द्रकम्। नागपाशं क्रमेणैव भ्रामयेत्कटपञ्चचकम्। एवमन्येषु लोहेषु त्रिष्वेव म्रामयेत्कटे। यएवं वाहयेद्वाहं तस्य कष्टं न जायते। दद्याद्भयमभीतस्य भीतस्यापि हरेद्भयम्। रहस्यं सादिनामेतद्वाहनेऽस्मिन्निवेदितम्। पूर्वोक्तेषु च देशेषु षट्सु दोषेषु ताडयेत्। न जातु सादिनान्यस्मिन् काले दोषशतैरपि। दम्यमानस्य अश्वश्य यो दोषः सादिदोषतः। जायतेऽसौ निराकर्त्तुं सादिना नैव शक्यते। एवं शास्त्रविधानेन यः सादी वाहयेद्धयान्। हरयस्तस्य सिव्यन्ति भवन्ति फलदायकाः। वाहनं यच्च दुष्टं च धूपलेपनमन्त्रकैः। तदहं संप्रवक्ष्यामि मुनिभिः कीर्त्तितं यथा। अस्थिभिर्दशनैश्चैव वृकाणां च यथा बुधैः। विषमक्षिकादंष्ट्राभिः धूमसंबद्ध सर्पिषा। एलागुरुमदोसीरनागकेसरचन्दनैः। सर्ज्जिकातैलसंयुक्तो धूपयेद्दुष्टवाजिनम्। विषलोहगदैलाभिस्तैलाज्यदधिचन्दनैः। निःशेषदोषनाशाय धूप उक्तो हि वाजिनाम्। विलिप्य गोमयैः प्रातर्न्निशीथे सर्वसन्धिषु। अष्टम्यां च विशेमेण दुष्टाः सिध्यन्ति घूपिताः। काशीशं चन्दत्रं कौतीसिद्धार्थमरिचानि च। सैन्धवं बडवामूत्रं गोमूत्रं कर्णजं मलम्। सुनिगुप्तानि पिष्टानि कणायाः सवचानि च। अञ्जनं सर्वदुष्टानां देयं पर्वणि पर्वणि। अनेनाभ्यञ्जितो वाजी निर्वाणमधिगच्छति। कोपमोहं भयं त्यक्त्वा वश्यः स्यात्सादिनोभृशम्”।

अश्ववाह = पु० अश्वं वाहयति चालयति वह–णिच्–अण्। अश्वचालके सादिनि। ण्वुल्। अश्ववाहकोऽप्यत्र। ल्यु अश्ववाहनोऽप्यत्र पु०।

अश्वविक्रयिन् = त्रि० अश्वं विक्रेतुं शीलमस्य वि + क्रीशीलार्थे इनि ६ त०। हयविक्रयाजीविकायुक्ते त्रिका०।

अश्वविद् = पु० अश्वं हयहृदयं वेत्ति विद–क्विप् ६ त०। १ नलनृपतौ तस्याश्वहृदयज्ञता वर्ण्णिता” भा० व० प० ७२ अध्या०। यथा “ऋतुपर्ण प्रति बाहुकरूपस्य नलस्योक्तिः” बाहुकस्तमु- वाचाथ देहि विद्यामिमां मम। मत्तोऽपि चाश्वहृदयं गृहाण पुरुषर्षभ!। ऋतुपर्णस्ततोराजा बाहुकं कार्य्यगौरवात्। हयज्ञानस्य लोभाच्च तं तथेत्यब्रवीद्वचः। यथोक्तं त्वं गृहाणेदमक्षाणां हृदयं परम्। निक्षेपोमेऽश्वहृदयं त्वयि तिष्ठतु बाहुक”!। अश्वं विन्दते विद–क्विप्। २ अश्वलब्धरि त्रि० “परिणोद् अश्वमश्वविदो गोमदि” ऋ० ९, ६१, ३। “अश्वविदे अश्वस्य लब्धरि” भा०।

अश्ववैद्य = पु० ६३०। घोटकचित्सके तच्चिकित्साप्रकारः। जयदत्तकृतेऽश्वशास्त्रेऽवसेयः।

अश्वशङ्कु = पु० ६ त०। १ अश्वबन्धनार्थे कीले। अश्वस्य शङ्कुरिव। २ दनुपुत्रभेदे “चत्वारिंशद्दनोः पुत्राः ख्याताः सर्वत्र भारत”! इत्युपक्रम्य “अयःशिरा अश्वशिरा अश्वशङ्कुश्च वीर्य्यवान्” भा० आ० प० ६० अध्या०।

अश्वशाला = स्त्री ६ त०। हयस्थावे मन्दुरायां वाजिशालायाम् तत्करणविधिश्चाश्वशास्त्रे। यथा “प्रागुदक्प्रवणे देशे वालुकाकाष्ठवर्जिते। चिताचैत्यविहीने च शालां कुर्वीत पण्डितः। सुशुष्का सा च कर्त्तव्या दुष्टकीटाद्यसंयुता। शिशिरे स्थापयेद्देवं रेवन्तं पूजयेत्सदा। कार्य्या त्रिहस्तविस्तीर्ण्णा तालाख्या पिण्डिका शुभा। शालाप्रमाणदीर्घा च तस्यां वासं प्रकल्पयेत्। द्वौ हस्तावुच्छ्रये तस्या मानं चैवं प्रकीर्त्तितम्। कर्कन्धूकाष्ठदण्डं च प्रान्तेऽस्याः स्थापयेद्बहिः” वालूका पूरितं कार्य्यं संस्कृतं चत्वरं तथा। लुण्ठनाय च वाहानां भवेच्चङ्क्रमणाय च” “जय० अश्व० शा० “दहति ते गृहं कोषागारमायुधागारमश्वशालां हस्तिशालाञ्च क्रुद्धः” भा० व० प० १९७ अ०।

अश्वशास्त्र = न० अश्वलक्षणादिज्ञापकं शास्त्रम्। शालिहोत्रकृते हयलक्षणादिज्ञापके १ शास्त्रे तन्मूलके जयदत्तकृते २ शास्त्रे च।

अश्वशिरस् = न० ६ त० १ वाजिमस्तके। अश्वस्य शिरैव शिरोऽस्य।। २ दानवभेदे अश्वशङ्कुशब्दे विवृतिः। “अयःशिरा अश्वशिरा अश्वःशङ्कुश्च वीर्य्यवान्। तथागगनसूर्य्यश्च वेगवांश्चात्र पञ्चमः। पञ्चैते जजिंरे राजन्! वीर्य्यवन्तोमहासुराः। कैकयेषु महात्मानः पार्थिवर्षभसत्तमाः” भा० आ० प० ६६ अध्या०। ३ हयशिरसि विष्णुमूर्त्तिभेदे, तादृङमूर्त्तिधारणमुक्तम्” भा० शा० प० ३४२ अध्या० “तेऽनुशिष्टा भगवता देवाः सर्षिगणास्तथा। नमस्कृत्त्य भगवते जग्मुर्देशान् यथे प्सितान्। गतेषु त्रिदिवौकस्मु ब्रह्मैकः पर्य्यवस्थितः। दिदृक्षुर्भगवन्तमनिरुद्धतनौ स्थितम्। तं देवो दर्शयामास कृत्वा हयशिरोमहत्। साङ्गानावर्त्तयन् वेदान् कण्डलुत्रिदण्डधृक्। व्यास उवाच। ततोऽश्वशिरसं दृष्ट्वा तं देवममितौजसम्। लोककर्त्ता प्रभुर्ब्रह्मा लोकानां हितकाम्यया। मूर्द्ध्ना प्रणम्य वरदं तस्थौ प्राञ्जलिरग्रतः। स परिष्वज्य देवेन वचनं श्रावितस्तदा। श्रीभगवानुवाच। लोककार्य्यगतीः सर्वास्त्वं चिन्तय यथाविधि। धाता त्वं सर्व्वभूतानां त्वं प्रभुर्जगतो गुरुः। त्वय्यावेशितभारोऽहं धृतिं प्राप्स्याम्यथाञ्जसा। यदा च सुरकार्य्यन्ते अविषह्यं भविष्यति। प्रादुर्भावं गमिष्यामि तदात्मज्ञानदैशिकम्। एवमुक्त्वा हयशिरास्तत्रैवान्तरधीयत”। “कपर्द्दिने वराहाय एकशृङ्गाय धीमते। विवस्वतेऽश्वशिरसेचतुर्मूर्त्तिधृते सदा” इति च तत्रैव।

अश्वशृगालिका = स्त्रो अश्वशृगालयोर्वैरं द्वन्द्वात् वैरे वुन्। हयशृगालयोर्वैरे शब्दरत्ना०।

अश्वश्चन्द्रा = त्रि० अश्वैश्चन्द्रयति आह्लादयति चदि–णिच् रक् ३ त० वेदे पृ० सुट्। हयेनाह्लादिकायां स्त्रियां “गोमघा जरित्रे अश्वश्चन्द्राः” ऋ० ६, ३५, ४। “अश्वश्चन्द्राः अश्वैराह्लादयन्त्यः” मा०।

अश्वषड्गव = न० अश्व + षट्के षड्गवच्। हयषट्के।

अश्वसनि = त्रि० अश्वं सनुते ददाति–सन–इन् ६ त०। हयदायके। “यस्तेऽश्वसनिर्भक्षः”। यजु० ८, १२। अनुसवनादि०।

अश्वसा = त्रि० सन–विट–ङा ६ त०। हयदातरि। “गोषांणं धियमश्वसां वाजसामुत” ऋ० ६, ५३, १०।

अश्वसाद = पु० अश्वं सादयति गमयति सद–गतौ णिपण् उप० स०। सादिनि।

अश्वसादिन् = पु० अश्वे सीदति सद–णिनि ७ त०। सादिनि (घोडसओयार) “प्रतिप्रहाराक्षममश्वसादी” रघुः।

अश्वसेन = पु० १ जिनपितृभेदे २ नृपभेदे यस्य पुत्रः सनत्कुमारः कुरुक्षेत्रस्थेक्षुमतीनदीसमीपवासिनि तक्षकसुते ३ नागभेदे च। “तक्षकश्चाश्वसेनश्च नित्यं सानुचरावुभौ। कुरुक्षेत्रे च वसतां नदीमिक्षुमतीमनु” भा० आ० प० ३ अध्या०। “अश्वसेनोऽभवत्तत्र तक्षकस्य सुतो बली। स तीक्ष्णमकरोद्यत्नं मोक्षार्थे जातवेदसः”। भा० आ० प० २२६ अध्या०

अश्वसेननृपनन्दन = पु० ७ त०। सनत्कुमारे।

अश्वस्तन = त्रि० श्वोभवः श्वस् + ठ्यु–तुट्च श्वस्तनः न० त०। परदिनास्थायिनि वर्त्तमानदिनमात्रभवे। “अश्वस्तनविधानेन हर्त्तव्यं मनुरब्रवीत्” मनुः स्त्रियां ङीप्।

अश्वस्तनिक = त्रि० श्वस्तनमस्त्यस्य मत्वर्थे ठन् न० त०। परदिनास्थायिधने वर्त्तमानदिनपर्य्याप्तधनसञ्चयकारिणि गृहस्थभेदे “कुशूलधान्यकोवा स्यात् कुम्भीघान्यक एव वा। त्र्यहैहिकोवापि भवेदश्वस्तनिक एव वा” मनुः।

अश्वस्तोमीय = न० अश्वस्य स्तोमं स्तुतिरस्त्यस्य मत्वर्थे छ। हयस्तुतियुक्ते सूक्तभेदे तच्च सूक्तम्” ऋ० १, १६२। मानोमित इत्यादि द्वाविंशत्यृचम्। २ तत्साध्ये होमजाते च। “अश्वस्य वाऽआलब्धस्य मेध उदक्रामत्तदश्वस्तोमीय मभवद्यदश्वस्तोमीयं जुहोत्यश्वमेव मेधसा समर्धयति। आज्येन जुहोति। मेधोवा आज्यं मेधोऽश्वस्तोमीयं मेघमेवास्मिंस्तन्मेधो दधात्याज्येन जुहोत्येतद्वै देवानां प्रियं धाम यदाज्यं प्रियेणैवैनान्धाम्ना समर्धयति। अश्वस्तोमीयं हुत्वा द्विपदा जुहीति। अश्वोवाऽ अश्वस्तोमीयं पुरुषो द्विपदा, द्विपाद्वै पुरुषो द्विप्रतिष्ठस्तदेनं प्रतिष्ठया समर्धयति तदाहुः अश्वस्तोमीयं पूर्व्वं होतव्यां द्विपदा इति पशवो वा अश्वस्तोमीयं पुरुषो द्विपदा यदश्वस्तोमीयं हुत्वा द्विपदा जुहोति तस्मात् पुरुष उपरिष्टात् पशूनधितिष्ठति षोडशाश्वस्तोमीया जुहोति” शत० ब्रा०।

अश्वस्थान = न० ६ त०। वाजिशालायाम् “अश्वस्थानात् गजस्थानात् सङ्गमात् वल्मीकात् ह्रदात्” विष्णुध० पुरा०।

अश्वहनु = पु० अश्वस्य हनुरिव हनुरस्य। “दानवभेदे हरिश्चाश्व हनुश्चैव वीरौ तावथ सृञ्जिमौ” हरिवं० ३६ अध्या०।

अश्वहन्तृ = पु० अश्वं हन्ति हन–तृच् ६ त०। १ करवीरे “वीजं विडङ्गाश्वहन्त्रोर्हरिद्रे वृहतीद्वयम्” सुश्रुतः। २ हय नाशके त्रि०।

अश्वहय = पु० अश्वेन हिनोति गच्छति हि–कर्त्तरि अच्। अश्वेन गतिमति “प्रत्यर्द्धिर्यज्ञानामश्वहयो व रुंथानाम्” ऋ० १०, २६, ५। अश्वेन हीयते व्याप्यते कर्म्मणि अच्। अश्वव्याप्ये। “मृजन्त्यश्वहयैरनिशितं नमोभिः ऋ० ९, ९६” २।

अश्वहृदय = न० अश्वस्य हृदयं मनोगतभावादि। हयाभिलाषे २ तदावेदकविद्याभेदे च अश्वविच्छब्दे उदा०।

अश्वाक्ष = पु० अश्वस्याक्षोव अच् समा०। देवसर्षपवृक्षे।

अश्वादि = पु० पाणिन्युक्ते शुभाशुभसूचकनिमित्ते संयोगरूपेऽर्थे ठञ्प्रत्ययनिमित्ते १ शब्दसमूहे सच गणः अश्व, अश्मन् गण, ऊर्णा उमा गङ्गावर्षावसु। गोत्रापत्ये २ फञ्प्रत्ययनिमित्ते शब्दसमूहे च स च गणः अश्व, अश्मन् शङ्ख, शूद्रक, विद, पुट, रोहिण, खर्जूर, खञ्जार, वस्त, पिजूल भडिल, भण्डिल, भडित, भण्डित, प्रकृत, रामोद, क्षान्त, काश, तीक्ष्ण, गोलाङ्क अर्क, स्वर, स्फुट, चक्र, श्रविष्ट, पविन्द, पवित्र, गोमिन्, श्याम, धूम, धूम्र, वाग्मिन्, विश्वानर कुट, शप (आत्रेये)। जन, जड, खड, ग्रीष्म, अर्ह, कित, विशम्प, विशाल, गिरि, चपल, चुप, दासक, वैल्व प्राच्य, धर्म्म, आनडुह्य, (पुंसि) जात, अर्जुन, प्रहृत, सुमनस्’ दुर्मनस्, मनस्, प्रान्त, ध्वन, आत्रेय (भरद्वाजे) भरद्वाज, (आत्रेये) उत्स, आतव, कितव, वद, धन्य, पाद, शिव, खदिर अश्वादि।

अश्वामघ = त्रि० अषोमघं धनमस्य वेदे दीर्घः। “अश्वरूपधन स्वामिनि “अश्वामघा गोमघा वा हुवेम” ऋ० ७, ०७१, १

अश्वायुर्वेद = पु० अश्वस्यायुर्वेद्यतेऽनेन विद–णिच् घञ्। हयायुर्ज्ञापके शास्त्रे तच्च शालिहोत्रेण सुश्रुतनामानं स्वसुतं प्रत्युपदिष्टम् तन्मूलञ्च जयदत्तकृतञ्च अश्वशब्दे विवृतिः।

अश्वारि = पु० अश्वस्यारिः ६ त०। महिषे।

अश्वारूढ = पु० अश्वआरूढोऽनेन। सादिनि अश्वारोहिणि।

अश्वारोह = पु० अश्वमारोहति आ + रुह–अण् उप० स। हयवाहके, हयारोहणेन २ युद्धकर्त्तरि च। अश्वस्तन्मेढ्रमिवारोहोमूलमस्य। ३ अश्वगन्धायां स्त्री।

अश्वावतान = पु० अश्वस्येवावतानोऽस्य। ऋषिभेदे। विदा० अपत्ये अञ्। आश्वावतानः तद्गोत्रापत्ये बहुषु गोपवना० न लुक्। आश्वावतानाः।

अश्वावरोहक = पु० अश्वस्तन्मेढ्रमिवावरोहति ण्वुल्। अश्वगन्धावृक्षे।।

अश्विन् = पु० द्विव० अश्वाः सन्ति ययोः इनि, अश्विन्यां नक्षत्रे भवौ “सन्धिवेलाद्युतृनक्षत्रेभ्यः पा० अण् “नक्षत्रेभ्योबहुलम्” पा० वा लुक् लुकि स्त्रीप्रत्ययस्य लुक्, अश्वा उत्पत्तिः स्थातत्वेनास्त्यस्य इनि वा। १ स्वर्गवैद्ययोः। “किमश्विनौ सोमरसं पिपासू” भट्टिः “वासोदश्चन्द्रसालोक्यमश्विसालोक्यमश्वदः” मनुः। “त्वाष्ट्री तु सवितुर्भार्य्या बडवारूपधारिणी। असूयत महाभागा सान्तरीक्षेऽश्विनाबुभौ” भा० आ० प०। “या वां कशा मधुमत्यश्विना सुनृतावती” यजु० ७, २। अश्वस्तच्चिह्नावर्त्तः अस्त्यर्थे इनि। “कपोलयोस्तथावर्त्तौ विद्येते वाजिनोर्यदि। तावाश्विनाविति प्रोक्तौ राज्यवृद्धिकरौ परौ” इत्युक्तलक्षणयोः २ हययोश्च द्वि० व०। ३ हययुक्ते त्रि०। स्त्रियां ङीप्। “गोमा अग्नेऽविमा~ अश्वी” ऋ० ४, २, ५।

अश्विनी = स्त्री अश्वस्तदुत्तमाङ्गाकारोऽस्त्यस्य इनि ङीप्। सप्तविंशतिधाविभक्तराशिचक्रस्य प्रथमे भागे। अस्यास्तथाकारत्वमश्लेषाशब्दे उक्तम्। “अश्निनीमघमूलानां गण्डा आद्यास्त्रिनाडिकाः” ज्यो० नक्षत्रपरत्वे न०। “पुष्याश्विहस्ता लघुः” ज्यो० अश्वाया आकारोऽस्त्यस्याः इनि ङीप्। हयरूपधारिण्यां त्वष्टृसुतायां ३ सवितुर्भार्य्यायामरुणात्मजशब्दे २६९ पृ० विवृतिः।

अश्विनीकुमार = पु० द्वि० व०। सूर्य्येण त्वष्टृसुतायां संज्ञायां बडवारूपायामुत्पादितयोः स्वर्वैद्ययोः तदुत्पत्तिकथा भा० आ० प० ६६ अध्याये अश्विनीतनयपुत्रसुतादयोऽप्यत्र। अरुणात्मजशब्दे २६९ पृ० विवरणम्।

अश्वीय = न० अश्वानांसमूहः छ। १ हयसमूहे। अश्वस्य हितम् अपूपा० छ। २ हयहिते। पक्षे यत्। अश्व्योऽप्युक्तार्थे।

अश्वोरस = न० अश्वानामुर इव मुख्यम् अच्समा०। मुख्येहये।

अष = दीप्तौ अक० गतौ, ग्रहणे च सक० भ्वा० उभ० सेट्। अषति ते आषीत् आषिष्ट।

अषडक्षीण = त्रि० प सन्ति षडक्षीणि श्रोत्रेन्द्रियाणि ग्राहकाणि यत्र ख। तृतीयजनकर्णाश्रुते द्वाभ्यामेव कृते मन्त्रादौ।

अषाढ = (शाड) पु० अषाढ(शाड)या युक्ता पौर्णमासी आषाढी (शाडी)सा यत्र मासे अण् वा ह्रस्वः। वैशाखादितस्तृतीये चान्द्राषाढ(ड)मासे। आषाढी पूर्णिमा प्रयोजनमस्य प्रयोजनार्थे अण्। २ ब्रह्मचारिधार्य्ये दण्डे, तस्य हि आषाढपौर्णमास्यां विहितकर्म्मोप्रयोगित्वात् तथात्वम् पृ० ह्रस्वः। अषाढोऽप्युभयत्र। स्वार्थे कन् तत्रैव। सह क्त वेदेओत्त्वाभावः षत्वञ्च नं० त०। असोढे त्रि० “अषाढं युत्सु पृतनासु पप्रिम्” यजु० ३४, २०। “अषाढाय सहमानाय वेधसे” ऋ० २, २१, २।

अषाढा(डा) = स्त्री पाढिः साहनं सह–णिच् + क्तिन् ढत्वम् अर्श आद्यच् न० त० पृषो० वा शत्वं डत्वञ्च। अश्विन्यवधिके पूर्ब्बादिके विंशे, उत्तरादिके एकविंशे च नक्षत्रे।

अष्टक = न० अष्टौअ अध्यायाः परिणाममस्य अष्टन् + कन्। १ पाणिनेरष्टाध्यायीसूत्रे, प्रत्येकमष्टाध्यायात्मके २ ऋग्वेदांशभेदे च ३ अष्टसंख्यापरिमिते त्रि० “पैशुन्यं साहसं द्रोहईर्ष्या सूयार्थदूषणम्। वाग्दण्डजञ्च पारुष्यं क्रोधजोऽपि गणोऽष्टकः” मनुः। “संख्यायाः संज्ञासङ्घसूत्रा ध्ययनेषु” पा० उक्तेः ३ अष्टावृत्ताध्ययनेऽपि। अष्टकं विदचि अधीयते वा “सूत्राच्च कोपधात्” पा० अध्येतृवेदितृप्रलयस्य बाहुल्ये लुक्। अष्टकाः पाणिनेः ४ सूत्रा- याध्यायिषु ब० व०। ५ अष्टसंख्यायाम् “ताराष्टकमिदं पुण्यं भक्तिमान् यः पठेन्नरः” तन्त्रम्। गङ्गाष्टकं पठति यः प्रयतः प्रभाते” वाल्मी०।

अष्टकर्ण = पु० अष्टौ कर्ण्णाअस्य। चतुर्मुखे ब्रह्मणि प्रतिमुखं द्विकर्ण्णत्वात्तथात्वम्।

अष्टकर्म्मन् = अष्टौ कर्म्माण्यस्य। “आदाने च विसर्गे च तथा प्रैषनिषेधयोः। पञ्चमे चार्थवचने व्यवहारस्य चेक्षणे। दण्डशुद्ध्योः सदा रक्तस्तेनाष्टगतिकोनृपः” उशनसोक्त्राष्टविधकर्म्मयुक्ते नृपतौ “अष्टकर्म्मा दिवं याति राजा शक्राभिपूजितः” उश०। अष्टगतिकोऽप्यत्र “तत्रादानं करादीनाम्। विसर्गो भृत्यादिभ्यो धनदानम् प्रैषोऽमात्यादीनां दृष्टादृष्टानुष्ठानेषु। निषेधो दृष्टादृष्टविरुद्धक्रियासु। अर्थवचनं कार्यसन्देहेन राजाज्ञयैव तत्र नियमनम्। व्यबहारेक्षणं प्रजानामृणादिविप्रतिपत्तौ। दण्डः पराजितानां शास्त्रोक्त धनग्रहणम्। शुद्धिः पापे कर्मणि जाते तत्र प्रायश्चित्तसम्पादनमिति” कुल्लूकभट्टः। मेधातिथिस्तु। अकृतारम्भः। कृतानुष्ठानम्। अनुष्ठितविशेषणम्। कर्म्मफलसंग्रहः। तथा सामदानभेददण्डाः। एतदष्टविधं कर्मेत्याह। अथवा “कृषिः बणिक्पथः। उदकसेतुबन्धनम्। दुर्गकरणम् कृतस्य संस्कारः निर्णयः। हस्तिबन्धनम्। खनिखननम्। सैन्यनिवेशनम्। दारुणवनच्छेदनञ्चेत्यप्याह”। तन्मूलन्तु अष्टवर्गशब्दे वक्ष्यते।

अष्टका = स्त्री अश्नन्ति पितरोऽस्यां तिथौ अश–तकन्। “अष्टका पितृदैवत्ये” इत्यजादिपाठात् न इत्त्वम्। “अष्टका तु समाख्याता सप्तम्यादिदिनत्रयम्” इत्युक्तलक्षणे १ सप्तम्यादिदिनत्रये, २ दिनत्रयसाध्ये कर्मधेदे च तच्चाश्वलायन गृ० दर्शितम् तदपि पौषमाघफाल्गुनानां कृष्ण सप्तम्यादिषु कर्त्तव्यं तत्र प्रधानमष्टमी, सप्तम्यामारम्भः अष्टम्यां कृत्यं नवम्यामन्यष्टकेति भेदः। “अमावास्या चतुर्द्दश्योः पौर्णमास्यष्टकासु च” “अष्टकासु त्वहोरात्रमृत्वन्तासु च रात्रिषु” इति च मनुः तच्च न पितृमात्रदैवत्यम् अन्यदैवत्यमपि यथाह “पित्र्यदानाय मूले स्युरष्टकास्तिस्र एव च। कृष्णपक्षे वरिष्ठाहि पूर्व्वा चैन्द्री हि भाष्यते। प्राजापत्था द्वितीया स्यात् तृतीया वैश्वदेविकी। आद्या पूपैः सदा कार्य्या मांसैरन्या भवेत्तथा। शाकैः कार्य्या तृतीया स्यादेष द्रव्यगतो विधिः वायु० पुरा०। मूले प्रधानस्थाने अमावस्या हि श्राद्धस्य प्रधानं कालः तद्वदिति यावत् रघु०। पश्वभावे स्थालीपाकेन कार्य्यं “अपि वा स्थालीपाकं कुर्व्वीतेति” गोभिलः। एतद्विधानन्तु “स्थालीपाकं पशुस्थाने कुर्य्यात् यद्यानुकल्पिकम्। श्रपयेत्तं सवत्सायास्तरुण्या गोः पयस्यनु” छन्दोगपरिशि०। अन्विति ओदनचरोः पश्चात्। अतएव। “पितरः स्पृहयन्त्यन्नमष्टकासु मघासु च। तस्माद्दद्यात् सदोद्युक्तो विद्वत्सु ब्राह्मणेषु च” शाता०। तस्मादन्नं प्रधानं पूपादिकन्तूपकरणत्वेन शक्तानामावश्यकं, सदेति श्रवणात्। “अमावस्याष्टका वृद्धिः कृष्णपक्षेऽयनद्वयम्”। “पौषमासस्य रोहिण्यामष्टकायामथापि बा” या० स्मृ०। अत्रायं भेदः हेमन्तशिशिरयोश्चतुर्ण्णामपरपक्षाणामष्टमीष्वष्टका एकस्यां वा” आश्व० सू० उक्तेः समर्थासमर्थभेदेन चतुर्षु मासेषु कृष्णाष्टमीषु एकस्यां वा अष्टका कार्य्येति। आग्रहायण्या ऊर्द्ध्वं तिसृष्वष्टकासु” स्मृतन्तरात्तथात्वम्। अन्वष्टकाशब्दे विवृतमेतत्। अष्टपरिमाणमस्याः कन्। अजादिपाठा० टाप् पितृदैवत्ये इति अस्य प्रायिकत्वात् क्षिपका० नेत्त्वम्। ४ अष्टमीतिथिमात्रे “अमावास्या गुरुंहन्ति शिष्यं हन्ति चतुर्द्दशी। ब्रह्माष्टका पौर्णमास्यौ तस्मात्ताः परिवर्ज्जयेत्” मनुः एतद्भिन्नाया स्त्रियामष्टिका अत इत्वम्।

अष्टकाङ्ग = पु० अष्टकमङ्गं यस्य। नयपीठे त्रिका० तानि चाङ्गानि स्वाम्यमात्यसुहृत्कोषराष्ट्रदुर्गबलानि च। राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि चेत्युक्तानि अङ्गानि

अष्टकिक = त्रि० अष्टकाऽस्त्यस्य ब्रीह्या० ठन्। अष्टकायुक्ते अत्र वा इनि अष्टकी। अत्रैवार्थे त्रि० स्त्रियां ङीप्।

अष्टकृत्वस् = अव्य० अष्टन् + क्रियाभ्यावृत्तौ कृत्वसुच्। अष्टधाभ्यावृत्तक्रियायाम्।

अष्टकोण = त्रि० अष्टौकोणा अस्य। १ अष्टकोणयुक्तक्षेत्रे तन्त्रोक्ते २ यन्त्रभेदेच “विन्दुत्रिकोणवसुकोणदशारयुग्ममिति” तन्त्रम् “२ कुण्डभेदे अष्टकोणमथैशान्यामत्यन्तं च भयप्रदम्” हेमा० व्र० ख० कुण्डप्र०।

अष्टक्य = त्रि० अष्टकेन क्रीतः गवा० यत्। अष्टसंख्यान्वितेन क्रीते।

अष्टगव = न० अष्टानां गवां समाहारः यीगवि० अच्। गवाष्टके तद्युक्ते शकटे तु अष्टागवमित्येव। “अष्टागवं धर्म्म हलमिति” स्मृतिः।

अष्टगुण = त्रि० अष्टभिर्गुण्यते गुण–अभ्यासे कर्म्मणि क। अष्टभिर्गुणिते अष्टावृत्ते। “मिथ्यावादी च संख्याने दाप्यीऽष्टगुणमत्ययम्” मनुः। “ददावष्टगुणैश्वर्य्यं तेषां तुष्टस्तु केशवः” भा० व० प्र० ८२ अध्या० “ततश्चाष्टगुणं पार्थ! प्राप्स्यसे धर्म्ममुत्तमम्” ८५ अध्या०। अष्टौ गुणा यस्य अष्टविधगुणयुक्ते ३ ब्राह्मणे ते च गुणा गौतमेनोक्ताः यथा अथाष्टावत्मगुणा दया सर्वभूतेषु क्षान्तिरनसूया शौचमनायासोमङ्गलमकार्पण्यमस्पृहेति। यस्यैते न चत्वारिंशत् संस्काराः न वाष्टावात्मगुणाः न स ब्राह्मणः”। अष्टावृत्तो गुणोऽस्य वृत्तौ अष्टशब्दस्य तदावृत्तपरता। ४ अष्टावृत्तगुणके पदार्थे “अन्नादष्टगुणं चूर्ण्णं चूर्ण्णादष्टगुणं पयः। पयसोऽष्टगुणं मांसं मांसांदष्टगुणं घृतम्। घृतादष्टगुणं तैलं मर्द्दयेन्न तु खादयेद्” वैद्यकम्।

अष्टगृहीत = त्रि० अष्टकृत्वो गृहीतः वृत्तौ सुजर्थोलुप्तः। अष्टवारगृहीते “रसमाज्यं मांसं पायसमिति संयूयाष्टगृहीतं गृहीत्वा जुहूयात्” गोभि० अष्टगृहीतं केवलमेक्षणेनाष्टवारान् गृहीतम्” स० त० रघुनन्दनः।

अष्ट(ष्टा)चत्वारिंशत् = स्त्री अष्टाधिका चत्वारिंशत् शा० त० आत्वम्। (आटचल्लिश) १ संख्यायां २ तत्संख्येये च। “अष्टचत्वारिंशत्संस्कारैः संस्कृत” इति मिताक्ष० गौत०। तत्र गौतमेन चत्वारिंशदेव संस्काराः अष्टौ गुणाश्च ब्राह्मण्यहेतुवो दर्शिताः चत्वारिंशत् संस्काराः गुणसहिता अष्टचत्वारिंशदित्येके। ते च “गर्भाधानपुंसवनसीमन्तोन्नयनजातकर्मनामकरणान्नप्राशनचौडोपनयनम्। चत्वारि वेदव्रतानि स्नानं सहधर्मचारिणीसंयोगः पञ्चानां यज्ञानामनुष्ठानं देवपितृमनुष्यभूतब्रह्मणामेतेषाञ्चाष्टकान्वकापार्व्वंणश्राद्ध्वश्रावण्याग्रहायणीचैत्र्याश्वयुजीति सप्त पाकयज्ञसंस्था, अग्न्याधेयमग्निहोत्रदर्शपौर्णमासावग्रयणं चातुर्मास्यनिरूढपशुबन्धसौत्रामणीति सप्त हविर्यज्ञसंस्था अग्निष्टोमोऽत्यग्निष्टोम उक्थः षोडशी वाजपेयोऽतिरात्रोऽप्तोर्य्याम इति सप्त सोमसंस्था इत्येते चत्वारिंशत् संस्काराः। अथाष्टावात्मगुणा दया सर्वभूतेषु क्षान्तिरनसूया शौचमनायासोमङ्गलमकार्पण्यमस्पृहेति यस्यैते न चत्वारिंशत् संस्कारा नवाष्टावात्मगुणा न स ब्राह्मणः सायुज्यं सालोक्यञ्च गच्छति। यस्य तु खलु संस्काराणामेकदेशोऽप्यष्टावात्मगुणा अथ स ब्राह्मणः सायुज्यं सालोक्यञ्च गच्छति अधिकं संस्कारशब्दे वक्ष्यते” गौ० संहितायां तु चत्वारिंशत्संस्कारैः संस्कृत इत्येव पाठः। मिताक्षराकृद्धृत पाठस्तु उक्तरीत्या समर्थितः।

अष्टतय = त्रि० अष्टाववयवा अस्य अष्टन् + तयप्। अष्टावयवे। “टिड्ढाणञिति” पा० सूत्रे तयपोग्रहणात् स्त्रियां ङीप्। अष्टतयी। अवयवमात्रे तयप्। २ अष्टसंख्यायां न०।

अष्टतारिणी = स्त्री ब० व० कर्म० संज्ञात्वान्न द्विगुः। “तारा चोग्रा महोग्रा च वज्रा काली सरस्वती। कामेश्वरी च चामुण्डा इत्यष्टौ तारिण्योमता” इत्युक्तासु तारादिषु अष्टषु तारिणीरूपदेवीमूर्त्तिषु।

अष्टत्रिक = न० अष्टावृत्तं त्रिकम्। १ चतुर्विंशतिसंख्यायां तत्२ संख्याते च “वैश्यस्याष्टत्रिकादव्दात् सावित्रीपतनं भवेत्” मार्कण्डेय पु०। “अष्टत्रिकाच्चतुर्विंशतेः” म० त० रघु०।

अष्टत्व = न० अष्टनां भावः त्व। अष्टसंख्यायाम्।

अष्टदंष्ट्र = पु० ६ ब० दानवभेदे “अष्टदंष्ट्रश्चतुर्दंष्ट्रो मेघनादी जलन्धमः” हरि० २२९ अ०।

अष्टदल = न० अष्टौ दलानि यस्य। अष्टपत्रककमले “लिखेदंष्टदलं पद्मं भूवृत्तत्रिकभूषितम्” तन्त्रम्।

अष्टदिश् = स्त्री ब० व०। कर्म० संज्ञत्वात्र द्विगुः। पूर्ब्बाग्नेयदक्षिणनैरृतपश्चिमवायव्योत्तरैशानीरूपासु अष्टसु दिक्षु। “इन्द्रादीन् लोकपाला~श्च अष्टदिक्षु च पूजयेत्” तन्त्रम्।

अष्टदिक्करिणी = स्त्री ब० व० अष्टदिक्षुस्थाः करिण्यः। “करिण्योऽभ्रमुकपिलापिङ्गलानुपमाः क्रमात्। ताम्रकर्ण्णी शुभ्रदन्ती चाङ्गना चाञ्जनावतीत्युक्तासु ऐरावतादीनां प्रियासु अष्टसु हस्तिनीषु इत्यमरः।

अष्टदिक्पाल = पु० अष्टौ दिशःपालयन्ति पा–णिच्–अण् उप० स०। “इन्द्राग्नियमनिरृतिवरुणवायुसोमेशानरूपेषु अष्टसु दिक्पालेषु।

अष्टदिग्गज = पु० ब० व० अष्टदिक्षुस्था गजाः। “ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः। युष्पदन्तः सार्व्वभौमः सुप्रतीकश्च दिग्गजा” इत्युक्तेषु अष्टषु दिक्स्थे ऐरावतादिषु गजेषु एतत्संख्यामाम्याद्गजशब्दस्याष्टसं ख्यार्थकत्वम्।

अष्टद्रव्य = न० ब० व० कर्मधा० संज्ञात्वान्न द्विगुः। “अश्वत्थोडुम्बरप्लक्षन्यग्रोधसमिधस्तिलाः। सिद्धार्थपायसाज्यानि द्रव्याण्यष्टौ विदुर्बुधा” इत्युक्तेषु होमसाधनेषु अष्टसु द्रव्येषु। “त्रिस्वादुयुक्तैर्जुहुयाच्चाष्टद्रव्यैर्दशांशतः” तन्त्रसा०।

अष्टधा = अव्य० अष्टन् + प्रकारे धाच्। अष्टप्रकारे “भिन्नप्रकृतिरष्टधा” गीता। “सुरद्विपानामिव सासयोनि र्भिन्नोऽष्टधा विप्रससार वंशः” रघुः।

अष्टधातु = पु० ब० व० अष्टौ धातवः कर्म्म० संज्ञात्वान्न द्विगुः। “स्वर्णं रूप्यञ्च ताम्रञ्च रङ्गं यशदमेव च। शीसं लौहं रमयेतिधातवोऽष्टौ प्रकीर्त्तिता” इत्युक्तेषु अष्टसु स्वर्ण्णादिषु सुश्रुते तु रसवर्ज्जिताः सप्तैप धातवोऽभिहिताः किन्तु रस- निरूपणे “ततो रस इति प्रोक्तः स च धातुरपि स्मृतः” इत्युक्तेरष्टधातुताऽपि तस्याभियता “अष्टधातुमयप्रतिमा निर्माणे तु रसं विहाय पित्तलस्य ग्रहणम् “आरकूटं तथैव चेति” हेमा० भविष्योक्तेरिति भेदः।

अष्टन् = त्रि० ब० व० अश–व्याप्तौ कनिन् तुट् च। (आट) १ “संख्याभेदे द्व्येकयोर्द्विवचनैकवचने” पा० निर्द्देशेन संख्यावाचकमात्रस्य संख्यापरत्वनिर्ण्णयात्। २ तत्संख्यान्विते च। “अष्टौ तान्यव्रतघ्नानि आपोमूलं फलं पयः। हविर्ब्राह्मणकाम्या च गुरोर्वचनमौषधम्” स्कृतिः “निन्द्यास्वष्टासु चान्यासु स्त्रियोरात्रिषु वर्जयेत्” मनुः “अष्टानां लोकपालानां वपुर्धारयते नृपः”। “अष्टाविमान् समासेन स्त्रीविवाहान् निबोधत” इति च मनुः। दशविंशतिशब्दयोः परतः समासे आदन्तादेश अष्टादशः। अष्टाविंशतिः त्रिंशदादौ वा अष्टत्रिंशत् अष्टात्रिंशत् अष्ट(ष्टा) चत्वारिंशत् अष्ट(ष्टा) पञ्चाशत् अष्ट(ष्टा)षष्ठिः अष्ट(ष्टा)सप्ततिः अष्टाशीतिः अष्ट(ष्टा)नवतिः संख्याव्ययपूर्ब्बकात् ततः बहुव्रीहौ डच्। “निरष्टे अश्वशते” शत० ब्रा० सप्ताष्टानि अहानि।

अष्टपाद्(द) = पु० अष्टौ पादा अस्य वा अन्त्यलोपः। १ शरभे तच्छब्दे तल्लक्षणम् २ लूतायाञ्च हेम०।

अष्टपदिका = स्त्री अष्टसु दिक्षु पादा अस्याः अन्त्यलोपः ङीपि पद्भावे संज्ञायां कन् ह्रस्वः। (हापरमालि) लतायाम्। कनभावे। अष्टपदीत्यप्यत्र स्त्री।

अष्टपल = न० अष्टौ पलानि परमाणमस्य अण् द्विगोर्लुगनपत्ये” पा० तस्य लुक् “ऊषणत्रिफलाकल्के वज्रमात्रे गुडात् पले”। सर्पिषोऽष्टपलं पक्त्वा मात्रां मन्दानलः पिबेत्” चक्रदत्तोक्ते घृतभेदे”।

अष्टपुष्पी = स्त्री अष्टनां पुष्पाणां समाहारः। अनिर्ण्णीत संज्ञकत्वात् द्विगुः। पुष्पाष्टके। “कदाचिर्दुन्यस्ताष्टपुष्पिकापातोत्पादितक्रोधेन” काद० अज्ञाताऽष्टपुष्पीति कन्। तत्रैव।

अष्टभुजा = स्त्री अष्टौभुजा अस्याः। देवी माहात्म्यस्य तृतीयचरितदेवतायां महासरस्वत्यां तन्मूर्त्तेर्ध्यानशब्दे विवृतिः।

अष्टम = त्रि० अष्टानां पूरणः डट् मट्च। येन अष्टसंख्या पूर्य्यते तस्मिन्। “पैशाचश्नाष्टमोऽधमः” “अष्टमं चायुषः स्थानमष्टमादष्टमं च यत्। तयोरपि व्ययस्थानं मारकस्थानमुच्यते” ज्योतिः परा० “गर्भाष्टमेऽव्दे कुर्व्वीत ब्राह्मणस्योपनायनम्” मनुः स्त्रियां ङीप्। “सौविष्टकृत्यष्टमी” आश्व० सिष्टिकृत संबन्धिनी अष्टमी आहुतिः” कर्क०। सा च चन्द्रस्याष्टमकलाक्रियाकूटाधाररूपे तिथिभेदे”। “चतुर्द्दश्यष्टमी चैव अमावस्या च पूर्ण्णिमा पर्व्वाण्येतानि राजेन्द्र! रावसंक्रान्तिरेव च” “अष्टम्यां वलिदानेन पुत्रनाशो भवेद्” ध्रुवम् पुरा०। “अष्टम्याः शेषदण्डे च नवम्या आद्य एव च। अत्र या क्रियते पूजा विज्ञेया सा महाफला” ति० त० पुरा०। “अपरपक्षाणामष्टमीष्वष्टकाः” आश्व०।

अष्टमकालिक = त्रि० अष्टमः कालः भोजनेऽस्त्यस्य ठन्। सार्द्धदिनत्रयोपवासानन्तरं चतुर्थदिवसे रात्रौ भोक्तरिवानप्रस्थभेदे “नक्तं चान्नं समश्नीयाद्दिवा वाहृत्य शक्तितः। चतुर्थकालिको वा स्यात् स्याद्वाप्यष्टमकालिकः” मनुः। “मुनिभिर्द्विरशनं प्रोक्तं विप्राणां मर्त्यवासिनां नित्यम्” इत्युक्त्या दिवसे वारद्वयभोजनस्य विधानात् सार्द्धत्रिदिने सप्ताहारमतीत्य चतुर्थदिवसे रात्रौ भोजने हि तथात्वं भवति।

अष्टमङ्गल = न० अष्टगुणितं मङ्गलम् शा० त०। “मृगराजो वृषो नागः कलशो व्यजनं तथा। वैजयन्ती तथा भेरी दीप इत्यष्टमङ्गलम्” इत्युक्तेषु “लोकेऽस्मिन्मङ्गलान्यष्टौ ब्राह्मणो गोर्हुताशनः। हिरण्यं सर्पिरादित्य आपोराजा तथाष्टम” इत्युक्तेषु च अष्टसु द्रव्येष ब० व०। अत्र कर्म्म० संज्ञात्वान्न द्विगुरिति भेदः।

अष्टमङ्गलघृत = न० अष्टभिर्द्रव्यैर्मङ्गलार्थं घृतम्। चक्रोदत्तोक्ते घृतभेदे “वचा कुष्ठं तथा ब्रह्मी सिद्धार्थकमथापि च। शारिवा सैन्धवञ्चैव पिप्पलीघृतमष्टमम्। मेध्यं घृतमिदं सिद्धं पातव्यञ्च दिने दिने। दृढस्मृतिः क्षिप्रमेधः कुमारी बुद्धिमान् भवेत्। न पिशाचा न रक्षांसि न भूता न च मातरः। प्रभवन्ति कुमाराणां पिबतामष्टमङ्गलम्”।

अष्टमभाव = पु० अष्टमोभावः। ज्योतिषोक्ते जन्मलग्नावधिके १ अष्टमस्थाने तन्वादिद्वादशभावमध्ये २ अष्टमे भावे च भावश्च इष्टकालेऽंशकलाविकलादिना स्पटीकृतलग्नादिः। तदानयनं यथा “पूर्व्वं न तं स्याद्दिनरात्रिखण्डं दिवानिशोरिष्टघटीविहीनम्। दिवानिशोरिष्टघटीषु शुद्धं द्युरात्रि खण्डं त्वपरं नतं स्यात्। तत्काले सायनार्कस्थ भुक्तभोग्यांशसंगुणात्। स्वोदयात् स्वाग्निलब्धं यत् भुक्तं भोग्यं रवेस्त्वजेत्। इष्टनाडीपलोयश्च गतगम्यान्निजोदयात्। शेषं खत्र्याहतं भक्तमशुद्धेन लवादिकम्। अशुद्धशुद्धभे हीनयुक् तनुर्व्ययनांशकम्। एवं लङ्कोदयैर्भुक्तं भोग्यं शोध्यं पलीकृतात्। पूर्ब्बपश्चान्नतादन्यत् प्राग्वत्तद्दशमं भवेत्। सषड्भे लग्नभे जाया, तुर्य्यो, लग्नोनतुर्य्यतः। षष्ठांशयुक् तनोःसन्धिरग्रे षष्ठांशयोजनात्। त्रयः ससन्धयोभावाः षष्ठांशेनैकयुक् सुखात्। अग्रे त्रयः षडेवं ते भार्द्ध युक्ताः परेऽपि षट्”। नील० ता०। स्वस्वदेशोदयमानं देशान्तरयोगादिना आनेयम् लङ्कोदयमानानि तु मेषस्य २७८, वृषस्य २९९, मिथुनस्य ३२३, कर्कटस्य ३२३ सिंहस्य २९९, कन्यायाः २७८, तुलायाः २७८, वृश्चिकस्य २९९, धनुषः ३२३ मृगस्य ३२३, कुम्भस्य २९९, मीनस्य २७८, पलानि। एतदनुसारेण दशमराशेः उदयमानं गृहीत्वा दशमभावानयनम् “खेटे भावसमे पूर्ण्णं फलं सन्धिसमे तु खम्। हीनेऽधिके द्विसन्धिभ्यां भावे पूर्ब्बापरे फलम्” नील० ता०। “भुक्तं भोग्यं स्वेष्टकालान्न श्रुध्येत् त्रिंशन्निघ्ना स्योदयाप्तं लवाठ्यम्। हीनं युक्तं भास्करे तत्तनुः स्यात् रात्रौ लग्नं भार्द्धयुक्ताद्रवेस्तु। खेटे सन्धिद्वयान्तःस्थे फलं तद्भावजं भवेत्”। नील० ता०। “अष्टमस्थाने च चिन्त्यान्याह दीपिकायाम्” “रन्ध्रायुर्मृतयोऽष्टमे” इति। ताजके तु अन्यान्यपि चिन्त्यान्याह। “मृत्यौ चिरन्तमं द्रव्यं भृतिंर्वित्तं रणे रिपुः। दुर्गस्थानं मृतिर्नाशः परीवादो मनोव्यथा” एतानि साधारणानि चिन्त्यानि विशेषतस्तत्र ग्रहयोगाद्रिष्टाद्युक्तं जातके यथा। “आयुः स्यानाधीश्वरः पापयुक्तः षष्ठान्त्यस्थः स्वल्पमायुस्तनोति। लग्नेशाढ्यश्चेदतिस्वल्पमेव दीर्घायुष्यं चाष्टमस्थः करोति। निघनतनुखभेगाः केन्द्रकोणत्रिलाभे १, ३, ४, ५, ७, ९, १०, ११, दघति हि विपुलायुर्भानुजोऽत्र प्रशस्तः। पनफरचतुरस्रेमध्यमं त्वायुरेते विदधति खलु नेष्टाः प्रान्त्यषष्ठे बलिष्ठाः। कमलकुमुदबन्धू मृत्युरन्ध्रान्तिमाख्ये विपदमथ धराजो द्विद्विवर्षेऽष्टमस्थः। धनलयमथ यच्छेच्छक्रतुल्येबुधोऽव्दे क्षितिगुणदशसंख्ये रोगभोगापचारौ। अरिष्टोच्छ्वास निर्याणोच्छ्वासयोरत्र चिन्तनम्। दैवविद्भिः सदा कार्य्यमष्टमे भावचिन्तने” जातकप० वर्षप्रवेशकाले तु अन्यथा योगविशेषात् फलमुक्तम् यथा “भौमेऽव्दपे क्रूरहते पत्या धातेऽवलोकिते। अग्निभीरग्निभेक्रूरनष्टद्विपदभे मृतिः। विपत्तिर्नरपालोत्था रिपुतस्करतोभयम्। तुर्य्ये मातुः पितृव्या द्वा मातुलार्त्तिस्ततोगुरुः। लग्नेन्थिहापतिसमापतयो मृतीशाश्चेदित्थशालिन इमे निधनप्रदाः स्युः। चेत् पाकरिष्टसमये मृतिरेव तत्र सार्के कुजे नृपभयं दिवसेऽव्दशेवे। सूर्य्ये मूशरिफे सितेन जनने वर्षेऽधिकारी तथा केन्द्रे राज गदाद्भयं च रुगसृक्स्थानेऽधिकारीन्दुजे। सौम्ये क्रूरदृशा कुजस्य रुगसृग्दोषादि नाशस्थिते दग्धेबन्धमृती विदेशतैति प्राहुर्बुधे तादृशे। भौमस्थानेऽधिकारीन्दौ गुप्तं नृपभयं रुजः। मन्देऽधिकारी खे चोपहते पीडाकरः स्मृतः। भौमस्थानेऽधिकृद्वह्नौ प्रहारो वा नृपाद्भयम्। आरे खस्थे चतुष्पाद्भ्यः पातोदुःखरुजोऽसृजः। वित्ताष्ट गेज्यो धनहा यद्यव्देशः शुभेक्षितः। मन्दे द्यूने दुर्वचनापवादकलिभर्त्सनम्। पतिते ज्ञे क्रूरदृशाऽऽरेत्थशाले मृतिं वदेत्। कुजहद्दास्थिते नाशः सौम्यदृष्ट्या शुभं वदेत्। यत्रर्क्षे जन्मनि कुजः सोऽब्दलग्नपगोयदा। नग्नाधिपोनष्टदग्धोयोषिद्वादाः शुभान्विते। जन्मन्यष्टमगे जीवे साधिव्याधिकलिः पृथुः। जयः शुक्रेक्षणादुक्तप्रत्युत्तरवशेन तु। भौमेऽन्त्यगे धने सूर्य्ये वादक्लेशं विनिर्द्दिशेत्। रिपुर्गोत्रकलिर्भीतिः संख्ये कुजहतेऽब्दपे। दग्धोजन्माङ्गपोवर्षेऽष्टमोरोगकली दिशेत्। सूत्यव्दयोरघिकृतो भौमस्थाने गुरुर्हतः। पापैर्वादः स्फुटोऽप्येवं तादृशीन्दौ शनेः पदे। सूत्यव्दयोरधिकृते चन्द्रे बुधपदे हते। क्रूरैर्विदेशगमनं वादः स्याद्विमनस्कता। मेषे सिंहे धनुःस्मारेऽब्दपेरन्ध्रे सिते भयम्। मृतौ मृतीशलग्नेशौ मृत्युदौ पापदृग्युतौ। यत्रर्क्षे जन्मनि कुजः सोऽब्दलग्नपगोयदा। वुधोवर्षपतिर्नष्टबलस्तत्र न शोभनम्। सार्के शनौ भौमयुतेखाष्टस्थे वाहनाद्भयम्। सार्के भौमेऽष्टमस्थे तु पतनं वाहनाद्वदेत्। सारेऽव्दपे मृगे मृत्युश्चन्द्रेऽन्त्यारिमृतौ मृतिः। उदिते मृतिसद्मेशे निर्बले जीविते मृतिः। पुण्यसद्मेश्वरः पुण्यसहमादष्टमोपगः। मृत्यष्टमेशपुण्येशोमृतिदः पापदृग्युतः। सूत्यष्टमगतो राशिः पुण्यसद्मनि नाथयुक्। अब्दलग्नाष्टमर्क्षं तच्चेदित्थं म्यात्तदा मृतिः। पुण्यभं चाशुभाक्रान्तं मृतीशोऽन्त्यारिरन्ध्रगः। मुथहेशोऽब्दपोवापि मृत्युं तत्र विनिर्द्दिशेत्। सक्रूरे जन्मपे मृत्यौ मृतिश्चेदिन्धिहार्कि युक्। भौमक्षुतेक्षणे तत्र मृत्युः स्यादात्मघाततः। मन्दोऽष्टमोमृतीशेत्थशालान्मृत्युकरः स्मृतः। शुभेत्थशालात् सर्वेऽपि योगाः स्युः शुभदायकाः। सूतिरन्ध्रपतिर्मन्दोऽष्टमोऽव्दलग्नपेन चेत्। इत्थ शाली क्रूरदृशा तत्कालं मृत्युदायकः, नील० ता०।

अष्टमान = न० अष्टौ मुष्टयः परिमाणमस्य। कुडवरूपे अष्टमुष्टिमिते परिमाणभेदे।

अष्टमिका = स्त्री वैद्यकोक्ते चतुस्तोलकपरिमाणे।

अष्टमी = स्त्री अष्टानां पूरणी। षोडशकलात्मकचन्द्रस्य अष्टमकलाक्रियारूपायां स्वनामख्यातायां तिथौ २ अष्टसंख्यापूरण्याञ्च अष्टमशब्दे उदा०। अशू + क्त अष्टं संघातं व्याप्तिं वा भाति मा–क गौरा० ङीष्। कोटालतायाम्।

अष्टमुष्टि = पु० अष्टौमुष्टयः परिमाणमस्य अण् “द्विगोर्लुगिति” लुक्। कुञ्चिपरिमाणे “अष्टमुष्टिर्भवेत् कुञ्चिः कुञ्चयोऽष्टौ च पुष्कल” इति हेमाद्रिदानखण्डे परिभाषायां पुरा०।

अष्टमूर्त्ति = पु० अष्टौ भूम्यादयो मूर्त्तयोऽस्य। “क्षितिर्जलं तथा तेजो वायुराकाशमेव च। यष्टार्कश्च तथा चन्द्रः मूर्त्तयोऽष्टौ पिनाकिनः” इत्युक्ताष्टमुर्त्तिधारिणि १ शिवे। “महेश्वरेण यो राजन्नजीर्ण्णो ह्यष्टमूर्त्तिना। कस्तमुत्सहते वीरोयुद्धे जरयितुं पुमान्। भा० व० अ० ४९ “अवेहि मां किङ्करमष्टमूर्त्तेः” रघुः। “स्वमेव मूर्त्त्यन्तरमष्टमूर्त्तिः” “जग्राह ताम्राङ्गुलिमष्टमूर्त्तिः” इति च कुमा०। क्षित्यादिमूर्त्तिभेदेन तस्य नामभेदः यथा सर्व्वः क्षितिमूर्त्तिः एवं भवोजलमूर्त्तिः रुद्रोऽग्निमूर्त्तिः। उग्रोवायुमूर्त्तिः भीम आकाशमूर्त्तिः पशुपतिर्यजमानमूर्त्तिः। महादेवः” सोममुर्त्तिः ईशान सूर्य्यमूर्त्तिः। एताएव तस्याष्टौ मूर्त्तयः शाकुन्तले वर्ण्णिताः “या स्रष्टुः सृष्टि राद्या वहति विधिहुतं या हविर्या च होत्री ये द्वेकालं विधत्तः श्रुतिविषयगुणा या स्थिता व्याप्यविश्वम्। यामाहुः सर्व्ववीजप्रकृतिरिति यया प्राणिनः प्राणवन्तः प्रत्यक्षाभिः प्रसन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः”। अष्टतन्वादयोऽष्यत्र। कर्म्म० संज्ञात्वान्न द्विगुः। शिवस्य क्षित्यादिषु अष्टसु २ मूर्त्तिषु स्त्री ब० व०।

अष्टमूर्त्तिधर = पु० धृ–अच् धरः अष्टानां मूर्त्तीनां धरः। शिवे “अष्टमूर्त्तिधरमूर्त्तिरष्टमी” माघः “तद्व्याख्याने अष्टानां मूर्त्तीनां समाहारः इति वदन् मल्लिनाथः “दिक्संख्ये संज्ञायामिति” सूत्रास्मरणेन भ्रान्तएव मूर्त्तीनां प्रकृते क्षित्यादिविशेष संज्ञावाचित्वात् कम्मधारयस्यैव तत्र प्रसक्तेः त्रिलोकनाथैत्यादिवत् उत्तरदद्विगुनैवोपपत्तौ तत्सूत्रसङ्कोचानुपपत्तेः इत्यलम्

अष्टरत्नि = त्रि० अष्टौ रत्नयः ऊर्द्ध्वमानमस्य। बद्धमुष्ट्यष्टहस्तोन्माने “अष्टरत्निर्महाबाहुर्व्यूढोरस्कः सुदुर्जयः” भा० क० प० ७२ अध्या०।

अष्टलोहक = न० ब० व० कर्म्म० संज्ञात्वान्न द्विगुः। “सुवर्णं रजतं ताम्रं सीसकं कान्तिकं तथा। वङ्गं लौहं तीक्ष्णलौहं लौहान्यष्टौ इमानि तु” इत्युक्तेषु अष्टसु धातुषु।

अष्टवर्ग = पु० अष्टानामराहुरव्यादीना वर्गो यत्र। ज्योतिषोक्ते रेखाविशेषेण शुभाशुभसूचके चक्रभेदे यथा। “जन्मकालगृहस्थित्या फलं वक्ष्ये शुभाशुभम्। “स्वाद्दिनकृत् शुभदः क्षितिपक्षससुद्रनगादिकपञ्चगतो १, २, ४, ७, ८, ९, १०, ११,ऽथ विभावरिभर्त्तुस्त्र्यङ्गदशेशगतो ३, ६, १०, ११,ऽथ कुजाद्रविवत्, १, २, ४, ७, ८, ९, १०, ११, अथ सोमसुतात्त्रिश- रर्त्तुनवादिषु यातः, ३, ५, ६, ९, १०, ११, १२, देवगुरोर्विषयर्त्तुनवेशगतो, ५, ६, ९, ११,ऽथ सुरारिगुरोः समयाचलभास्करयातः, ६, ७, १२, तीक्ष्णमरीचिसुतादपि भास्करवत्, १, २, ४, ७, ८, ९, १०, ११, अथ लग्नगृहात्त्रिकृताङ्गदशादिषु यातः, ३, ४, ६, १०, ११, १२। रविरेखाः। ४८। “चन्द्रः शुभोऽर्कात्त्रिकालाद्रिदन्तावलाशाशिवस्थः, ३, ६, ७, ८, १०, ११, ततः स्वात्कुरामर्तुगवाशाशिवस्थः, १, ३, ६, ७, १०, ११, क्षमाजादक्षिवह्नीषुषड्गीदिगीशेष्व, २, ३, ५, ६, ९, १०, ११, थ ज्ञात् कुरामाब्धिवाणागदन्तावलाशाशिवस्थः, १, ३, ४, ५, ७, ८, १०, ११, जीवात् कुदृग्वे दशैलेभकाष्ठाशिवस्थो, १, २, ४, ७, ८, १०, ११,ऽथ शुक्रात्त्रिवेदेषुशैलग्रहाशाशिवस्थः, ३, ४, ५, ७, ९, १०, ११, तीक्ष्णांशुदेहोद्भवाद्रामवाणर्त्तुशम्भुस्थित, ३, ५, ६, ११, उदयाद्धव्यवाहर्त्तुकाष्ठाशिवस्थः”, ३, ६, १०, ११, चन्द्ररेखाः। ४९। “कूजोऽर्काच्छुभो वह्निवाणर्त्तुदिक्शम्भुगो, ३, ५, ६, १०, ११,ऽथेन्दुतोरामकालेशग, ३, ६, ११, स्ततः स्वात् कुदृग्वेदमुन्यष्टदिक्शम्मुगः, १, २, ४, ७, ८, १०, ११, स्यान्निशानाथपुत्राद्गुणेष्वङ्गरुद्रोपयातः। ३, ५, ६, ११, ततोजीवतः कालकाष्ठाशिवार्कोपयातो, ६, १०, ११, १२,ऽथ देवारिपूज्यादनेहोगजेशार्कसंस्थः, ६, ८, ११, १२, ततः सूर्य्यपुत्रात् कुवेदागनागग्रहाशाशिवस्थो, १, ४, ७, ८, ९, १०, ११,ऽथ लग्नात् कुरामाङ्गदिक् शम्भुयातः। १, ३, ६, १०, ११, कुजरेखाः ३९। बुधोःऽर्कतः शरर्त्तुगोशिवार्कगो, ५, ६, ९, ११, १२,ऽथ चन्द्रतोद्विवेदकालमागदिङ्महेश्वरोपगः। २, ४, ६, ८, १०, ११, भूमिजात्कुदृक्कृतागनागगोदशेशग, १, २, ४, ७, ८, ९, १०, ११, स्ततः स्वतः कुवह्निपञ्चषड्नवादिकेषुगः, १, ३, ५, ६, ९, १०, ११, १२, वाक्पतेरसाष्ठशम्भुसूर्य्यगो, ६, ८, ११, १२,ऽथ शुक्रतः कुवाहुवह्निवेदपञ्चनागगोशिवेषुगः १, २, ३, ४, ५, ८, ९, ११, पङ्गुतःकुदृक्कृतागनागादिपञ्चकस्थितोऽथ, १, २, ४, ७, ८, ९, १०, ११, १२, लग्नतः क्षितिद्विवेदकालनागदिक्शिवेषुगः”। १, २, ४, ६, ८, १०, ११, बुधरेखाः। ५५। “सुरराजगुरुः शुभदोरवितः कुयमानलवेदनगादिकपञ्चगतो १, २, ३, ४, ७, ८, ९, १०, ११,ऽथ विधोर्द्विशराचलगोशिवगो, २, ५, ७, ९, ११, वसुधातनयात् कुयमाब्धिनगाष्टदशेशगतो, १, २, ४, ७, ८, १०, ११,ऽथ बुधात् क्षितियुग्मकृतेषुरसग्रहदिग्गिरिशोपग। १, २, ४, ५, ६, ८, १०, ११, स्तदनु स्वएकयमानलवारिधिपर्व्वतनागदशेशगतो, १, २, ३, ४, ७, ८, १०, ११,ऽथ सिताद्यमपञ्चरसग्रहदिक्शिवगो २, ५, ६, ९, १० ११, रविनन्दनतोदहनेषुरसार्कगत, ३, ५, ६, १२, स्त्वथ लग्नगृहात् कुयमाव्धिशरर्त्तुनगग्रहदिग्गिरिशोपगतः”। १, २, ४, ५, ६, ७९, १०, ११, गुरुरेखाः, ५६, “भृगुः शुभोरवेर्गजेशसूर्य्यगो ८, ११, १२,ऽथ चन्द्रतः, क्ष्मादिपञ्चकाष्टगोशिवार्कगः, १, २, ३, ४, ५, ८, ९’ ११, १२, कुजात्त्रिवेदकालगोशिवार्कगो, ३, ४, ६, ९, ११, १२,ऽथ बुधात्त्रिकालरन्ध्ररुद्रसंस्थितः, ३, ६, ९, ११, गुरोः शराष्टरन्ध्रदिङ्महेशग, स्ततः ५, ८९, १०, ११, स्वतः कुपञ्चकाष्टरन्ध्रदिक्शिवोपगः। १, २, ३, ४, ५८, ९, १०, ११, शनेर्गुणाब्धिपञ्चनागगोदशेशगो, ३, ४, ५, ८९, १०, ११,ऽथ लग्नतः कुपञ्चकाष्टगोशिवस्थितः शुभः। १, २, ३, ४, ५, ८, ९, ११, शुक्ररेस्वाः, ५१, “शुभः पङ्गुरर्कात् यमाम्भोधिशैलाष्टदिक्शम्भुग, १, २ ४, ७, ८, १०, ११, इन्दुतोरामकालेशगतः, ३, ६, १२, क्ष्मासुताद्वह्निवाणर्त्तुकाष्ठाशिवार्कोपगो, ३, ५, ६, १०, ११, १२,ऽथ ज्ञतः कालदन्तावलादिस्थितः ६, ८, ९, १०, ११, १२, जीवतोवाणकालेशमार्त्तण्डयात, ५, ६, ११, २२, स्ततोदैत्यपूज्यादनेहःशिवार्कोपयातः। ६, ११, १२, स्ततोवीतिहोत्रेषुकालेशयात, ३, ५, ६, ११, स्ततोलग्नतः क्ष्मागुणाम्भोधिषड्दिङ्महेशस्थितः। १, ३, ४, ६ १०, ११, शनिरेखाः, ३९,। “राहुःशुभोऽर्काद्भुजवह्निवेदर्त्तुरन्ध्रगो, २, ३, ४, ६, ९,ऽथ चन्द्रात् कुरामवेदाङ्गग १, ३, ४, ६, स्ततः कुजाद्वह्निवाणाङ्गरन्ध्रगतो, ३, ५, ६, ९,ऽथ बुधाच्छशिपक्षवह्निवाणरन्ध्रग, १, २, ३, ५, ९, स्ततोजीवाद्धव्यवाहवेदाङ्गरन्ध्रग, ३, ४, ६, ९, स्ततः शुक्रात् पक्षवह्निवाणरन्ध्रगत, २, ३, ५, ९, स्ततः सौरात् पक्षवाणर्त्तुग, २, ५, ६, स्ततः स्वतः शशिवेदवाणरिपुरन्ध्रगो, १, ४, ५, ६, ९,ऽथ लग्नाद्वेदरन्ध्रदिग्रुद्रसूर्य्यगतः, ४, ९, १०, ११, १२। राहुरेखाः, ३९। सूर्य्यादेकद्विचतुःसप्ताष्टदशैकादशेषु, १, २, ४, ७, ८, १० ११, सोमात्त्रिषड्दशैक्वादशेषु, ३, ६, १०, ११, भौमात्त्रिपञ्चषडेकादशेषु, ३, ५, ६, ११, बुधात् षडष्टनवदशैकादशेषु, ६, ८, ९, १०, ११, गुरोः पञ्चषडेकादशद्वादशेषु, ५, ६, ११, १२, शुक्रात्षडेकादशद्वादशेषु, ६, ११, १२, शनेस्त्रिपञ्चाष्टदशैकादशेषु ३, ५, ८, १०, ११, लग्नादेकत्रिचतुःषडदशैकादशेषु, १, ३, ४, ६, १०, ११, लग्नरेखाः ३८। इति निगदितमिष्टं नेष्टमन्यद्विशेषादधिकफलविपाकं जन्मना तत्र दद्युः। उपचयगृह- मित्रस्वोच्चगाः पुष्टमिष्टं त्वपचयगृहनीचारातिभे नेष्टसम्पत्। यावती यावती रेखा ग्रहाणामष्टवर्गके। तावतीं द्विगुणीकृत्य अष्टाभिः परिशोधयेत्। अष्टोपरि भवेद्रेखा अष्टाभ्यन्तरविन्द्रवः। अष्टाभिस्तु समं यत्र तत्समं परिकीर्त्तितम्। रेखा ग्रहाच्छुभे देया विन्दवस्त्वितरत्रतु। रेखाविन्दु समानौ चेत् समस्तत्र निगद्यते। रेखाधिक्ये शुभं ज्ञेयं तद्वद्विन्दोरथाशुभम्। श्रीरानन्दस्तथा श्रेयोभोगो राज्यं भवेत्तथा। मलिनोऽथ विपच्चैव हानिर्मृत्युर्भवेत्तथा। द्व्यादिरेखा द्व्यादिविद्वोः फलान्येतान्यनुक्रमात्। रेखायां वत्सरोज्ञेयः सार्द्धसप्तदिनं समे। अष्टवर्गदशायुः स्यात् दिनं चतुर्षु विन्दुषु”। इत्यष्टवर्गः। “अष्टवर्गशुभैः श्रीमान् कर्म्म कुर्य्यान्नभश्चरैः। गोचरस्थैस्तदप्राप्तौ तदप्राप्तौ च वेधगैः। व्रतारम्भे विवाहे च यात्रायां क्षुरकर्म्मणि। अविशुद्ध्याष्टबर्गस्य समस्ता निष्फलाः क्रियाः। सततं दिशति नराणां राशौ मध्येऽष्टवर्गफलं निखिलम्। भावफलं प्रथमार्द्धे दृष्टिफलान्यर्द्धभुक्तेषु” ज्यो० त०। अष्टानामकचटतपयशानां वर्गः। ज्योतिषादौ शुभाशुभज्ञापनाय विशेषरूपेण अष्टधा विभक्तेषु २ वर्ण्णसमूहभेदेषु यथा स्वरवर्ण्णाः १६। अवर्गः, कादयोमावसानाः पञ्चपञ्चात्मकाः कवर्गादयः ५। यरलवाः ४ यवर्गः। शषसहा ४ शवर्गः इत्येवमष्टौ कल्पिताः। तेषां विभागक्रमेण संख्याभेदः। “वर्गवर्णप्रमाणञ्च सस्वरैस्ताडितं मिथः। पिण्डसंख्या भवेत्तस्य गथा भागैस्तु कल्पना” केरलम्। “स्वं वर्गं द्विगुणं विधाय परवर्गेणान्वितं सप्ततट्” इति ज्योति०। तन्त्रोक्ते मन्त्रस्य शुभाशुभज्ञानार्थं अवर्गाद्यनुसारेण ३ पक्षिमार्ज्जाराद्यष्टवर्गे च। यथा आगमकल्पद्रुमे “इदानीं वर्गचक्रस्य विधानममिधीयते। मन्त्रग्रामविशोधार्थं नामाद्यक्षरपूर्ब्बकम्। अष्टौ कोष्ठान् समालिख्य वर्गानष्टौ लिखेत्ततः। पक्षिमार्ज्जारपञ्चास्यश्वानः सर्पाखुदन्तिनः। मेषः क्रमादकारादि वसुवर्गाश्रिता इमे। साध्यसाधकयोः प्रीतिर्ज्ञातव्या जातितः सदा”। वृहच्छ्रीक्रमे “वर्णशुद्धिं समासाद्य मन्त्रं दद्याद्गुरूत्तमः। अवर्गः पक्षिणोज्ञोयो मार्ज्जारश्च कवर्गकः। चवर्गश्च तथा सिंहष्टवर्गश्चैव कुक्कुरः। तवर्गो नाग इत्युक्तो मूषिकश्च पवर्गकः। यवर्गश्च गजोज्ञेयः शवर्गश्चैव मेषकः। पक्षिभुजगयोर्व्वैरं तथा च गजसिंहयोः। मार्ज्जारमूषिकयोश्चैव तथा कक्कुरमेषयोः। भुजङ्गसिंहयो र्मैत्री मेषमूषिकयोस्तथा। लोकादन्यच्च विज्ञेयं त्यवहारप्रयोगतः” इति तन्त्रसा०। “जीवकर्षभकौ मेदे काकल्यावृद्धिवृद्धिके। अष्टवर्गोऽष्टभिर्द्रव्यैरिति” वैद्यकोक्ते ४ जीविका द्यष्टद्रव्ये। “राज्ञामप्यष्टर्गस्तु यतोऽयमतिदुर्ल्लभः। तस्मादस्य प्रतिनिधिं गृहणीयान्तद्गुणं भिषक्। मेदाजीवककाकोलीवृद्धिद्वन्द्वेऽपि चासति। वरीविदार्य्यश्वगन्धा वारणीश्च क्रमात् क्षिपेत्” वैद्य०। नीतिवेदिनां वर्द्धनीये ५ वर्गभेदे च। “कृषिर्बणिक्पथो दुर्गं सेतुः कुञ्जरबन्धनम्। खन्याकरवलादानं सैन्यानाञ्च निवेशनम्। अष्टवर्गमिमं साधु ऋद्धये परिवर्द्धयेत्” नीतिः।

अष्टविध = न० अष्ट विधाः प्रकारा अस्य। राज्याङ्गाष्टप्रकारे कर्मणि तच्च अष्टकर्मशब्दे दर्शितम्। “कृत्स्नं चाष्टविधं कर्म्म पञ्चवर्गञ्च तत्त्वतः” मनुः। सुश्रुतोक्ते विषयविशेषविषये छेद्यादौ अष्टप्रकारे शल्यकर्म्मणि तानि च यथा “छेद्यभेद्यलेख्यवेध्यैष्याहार्य्यस्राव्यसीव्यरूपाणि। तेषां विषयविशेषा अपि तत्रैव दर्शिता यथा। “च्छेद्या भगन्दरग्रन्थिः श्लैष्मिकस्तिलकालकः। ब्रणवर्त्मार्वुदान्यर्शश्चर्म्मकीलोऽस्थि मांसगम्।। शल्यं जतुमणिर्म्मांससंघातो गलशुण्डिका। स्नायुमांससिराकोथो वल्मीकं शतपोनकः।। अध्रुषश्चोपदंशाश्च मांसकन्द्यधिमांसकः। भेद्या विद्रधयोऽन्यत्र सर्वजादग्रन्थयस्त्रयः।। आदितो ये विसर्पाश्च वृद्धयः सविदारिकाः। प्रमेहपिडकाशोफस्तनरोगावमन्थकाः। कुम्भीकानुशयीनाड्यो वृन्दौ पुष्करिकालजी। प्रायशः क्षुद्ररोगाश्च पुप्पुटौ तालुदन्तजौ।। तुण्डिकेरी गिलायुश्च पूर्व्वं ये च प्रपाकिणः। वस्तिस्तथाश्मरोहेतोर्म्मेदोका ये च केचन।। लेख्याश्चतस्रो रोहिण्यः किलासमुपजिह्विका। मेदोजो दन्तवैदर्भो ग्रन्थिवर्त्माधिजिह्निका।। अर्शांसि मण्डलं मांसकन्दी मांसोन्नतिस्तथा। वेध्याः सिरा बहुविधा मूत्रवृद्धिर्द्दकोदरम्।। एष्या नाड्यः सशल्याश्च ब्रणा उन्मार्गिणश्च ये। आहार्य्याः शर्करास्तिस्त्रो० दन्तकर्णमलाश्मरी।। शल्यानि मूढगर्भाश्च वर्चश्च निचितं गुदे। स्राव्या विद्रधयः पञ्च भवेयुः पर्वजादृते।। कुष्ठार्व वायुं सरुजः शोफो यश्चैकदेशजः। पाल्यामयाः श्लीपदानि विषजुष्टञ्च शोणितम्।। अर्व्वुदानि विसर्पाश्च ग्रन्थयश्चादितस्तु ये। त्रयस्त्रयश्चोपदंशाः स्तनरोगा विदारिका।। शौषिरो गलशालूकम् कण्ठकाः कृमिदन्तकः। दन्तवेष्टः सोपकुशः शीतादोदन्तपुप्पुटः।। पित्तासृक्कफजाश्चौष्ठ्याः क्षुद्ररोगाश्च भूरिशः। सीव्या मेदःसमुत्थाश्च मिन्नाः सुलिखिता गदाः।। सद्योव्रणाश्च ये चैव चलसन्धिव्यपाश्रयाः। न क्षाराग्निविषैर्जुष्टा न वा मारुतवा- हिनः।। नान्तर्लोहितशल्याश्च तेषु सम्यग्विशोधनम्।। पांशुरोमनखादीनि चलमस्थि भवेच्च यत्। अहृतानि यतोऽमूनि पाचयेयुर्भृशं व्रणम्। रुजश्च विविधाः कुर्य्युस्तस्मादेतान्विशोधयेत्। ततोव्रणं समुन्नम्य स्थापयित्वा यथास्यितम्।। सीव्येत् सूक्ष्मेण सूत्रेण वल्केनाश्मन्तकस्य वा। शणजक्षौमसूत्राभ्यां स्नाय्वा बालेन वा पुनः। मूर्व्वागुडूचीतानैर्व्वा सीव्येद्वेल्लितकं शनैः।। सीव्येद्गोफणिकां वापि सीव्येद्वा तुन्नसेवनीम्। ऋजुग्रन्थिमथो वापि यथायो गमथापि वा।। देशेऽल्पमांसे सन्धौ च सूची वृत्ताङ्गुलद्वयम्। आयता त्र्यङ्गुला त्र्यस्रा मांसले वापि पूजिता।। धनुर्वक्रा हिता मर्मफलकोशोदरोपरि। इत्येतास्त्रिविधाः सूचोस्तोक्ष्णाग्राः सुसमाहिताः। कारयेन्मालतीपुष्पवृन्ताग्रपरिमण्डलाः। नातिदूरे निकृष्टे वा सूचीं कर्म्मणि पातयेत्। दूराद्रुजो व्रणौष्ठस्य सन्निकृष्टेऽवलुञ्चनम्। अथ क्षौमपिचुच्छन्नं सुस्यूतं प्रतिसारयेत्। प्रियङ्ग्वञ्जनयष्ट्याह्वलोध्रचूर्णैः समन्ततः। शल्वकीफल चूर्ण्णैर्व्वा क्षौमध्यामेन वा पुनः। ततो व्रणं यथायोगं बद्धाचारिकमादिशेत्। एतदष्टविधं कर्म समासेन प्रकीर्त्तितम्”।

अष्टश्रवण = पु० अष्टौ श्रवणान्यस्य। चतुर्मुखे ब्रह्मणि चतुर्मुखस्य प्रतिमुखं द्विकर्णत्वाच्च तथात्वम् अष्टश्रवआदयोऽप्यत्र।

***