अशौच = न० शुचेर्भावः शौचं न० त०। १ शुचित्वाभावे स्मृतिप्रसिद्धे, विहि–तकर्म्मानधिकारित्वसम्पादके २ अधर्म्मविशेषे च। “जनने मरणे चैव त्र्यहाशौचस्य भागिनः” स्मृतिः। “समानं लघु चाशौचं पूर्व्वेणैव विशुध्यति। असमानं द्वितीयेनेति” यमः। स्वार्थे ष्यञ् आशौच्यमप्यत्र “आशौच्याद्विप्रमुच्येत” स्मृतिः। “अशौचं द्विविधं कालकृतं वस्तुस्वभावकृतञ्च तत्र कालकृतं “सव्रणः सूतकीत्यादिना” अशुद्धिशब्दे ४८० पृष्ठे दर्शितम् तथाच। सपिण्डमरणजननादिकृतं कालविशेषेऽशौचम् कालापगमे च तन्नाशः। तच्च चेतननिष्ठम्। बहुधा चास्य शुद्धितत्त्वादौ प्रपञ्चः। वस्तूनामशौचं स्वभावात् यथा मलमूत्रादेः, यत्संसार्गादितरवस्तूनामप्यशौचं शुद्ध्यभावः एवं तेषां संसर्गादिकृतं चेतनादेरशौचं यथा उच्छिष्टचण्डालादिस्पर्शे एवमशौ- चिस्वामिकद्रव्यविशेषाणामाप्यशौचम् शुद्ध्यभावः। अथ सपिण्डासपिण्डादिभेदेनाशौचकालविशेषो यथा “जनने मरणे च सप्तमपुरुषपर्य्यन्तं विप्रस्य दशाहः, क्षत्रियस्य द्वादशाहः, वैश्वस्य पञ्चदशाहः, शूद्रस्य मासः। दशमपुरुष पर्य्यन्तं सर्व्ववर्ण्णेषु त्र्यहः चतुर्दशपुरुषपर्य्यन्तं पक्षिणी जन्मनामस्मृतिपर्य्यन्तमेकाहः ततः स्नानमात्रम्। कन्यायाः सापिण्ड्यं त्रिपौरुषम्। अथ विदेशस्थाशौचम्। अशौचकालाभ्यन्तरे विदेशस्थस्याशौचश्रवणे शेषाहैः शुद्धिः। अशोचकालोत्तरश्रवणे तु ज्ञातिजननाशौचं नास्त्येव। पुत्रजनने तु सचेलस्नानात् शुद्धिः। मरणाशौचे तु वर्षाभ्यन्तरश्रवणे त्र्यहात् शुद्धिः। सचेलस्नानादङ्गास्पृश्यत्वनिवृत्तिः। वर्षोत्तरश्रवणे स्नानेन शुद्धिः सपिण्डानाम्। पुत्रादीनान्तु मातृपितृभर्त्तृमरणे वर्षोत्तरमेकाहेन शुद्धिः, द्वितीयवर्षे श्रवणे सद्यः। संपूर्णाशौचातिक्रमे त्र्यहाशौचं न बालाद्यशौचातिक्रमे खण्डाशौचातिक्रमे वा। अथगर्भस्रावाशौचम्। गर्भस्रावे तु स्त्रीणामेव षण्माषाभ्यन्तरेऽशौचं तच्च लौकिके कर्म्मणि माससमसंख्यदिनव्यापकं द्वितीयमासावधिमाससमसंख्यदिनाधिकैकदिनात् परं व्राह्मण्या वैदिककर्म्माधिकारः क्षत्रियाया दिनद्वयात् वैश्यायादिनत्रयात् शूद्रायास्तु दिनषट्कादिति हारलता प्रभृतयः। सप्तमाष्टममासीयगर्भपतने स्त्रीणां संपूर्णाशौचम् निर्गुणसपिण्डानामहोरात्रं यथेष्टा चरणपपिण्डानां त्रिरात्रम् तच्च जातस्य तद्दिनएव मरणे ज्ञेयं द्वितोयदिनादौ तु मरणेनवमादिमासजातबालकवत्। अथ स्त्र्यशौचम्। कन्यायाः जन्मप्रभृतिद्विवर्षाभ्यन्तरमरणे सद्यः शौचं तदुपरि वाग्दानपर्य्यन्तमेकाहः। वाग्दानोत्तरविवाहपर्य्यन्तं भर्त्तृकुले पितृकुले च कन्याया आदन्तजन्ममरणे सद्यः शौचम्, आ चूडादेकरात्रकम्, आ प्रदानात्त्रिरात्रं, स्यादिति विशेषः। दत्तकन्यायाः पितृगृहे प्रसवमरणयोः पित्रोः शयनादिसंसर्गशून्ययोरपि त्रिरात्रं तथाविघबन्धुवर्गाणामेकरात्रम् सम्पर्के दशरात्रम्। अथ बालाद्यशौचम्। नवमादिमासजातबालकस्याशौचकालाभ्यन्तरमरणे मातापित्रोरस्पृश्यत्वयुक्तं तदेव जननाशौचं ज्ञातीनान्त्वशौचं नास्ति नवमादिमासमृतजातयोस्तु कन्यापुत्रयोः पित्रादिसपिण्डानां जननाशौचं संपूर्ण्णम्। पुत्त्रजन्मनि मुखदर्शनात् पूर्व्वं सचेलस्नानं कृत्वा ब्राह्मणेभ्यश्च यथाशक्ति दत्त्वा बालकाय काञ्चनं दत्त्वा मुखं पश्येत। ततः पुनः सचेलस्नानम्। अन्याशौचमध्येऽपि जातकर्म्मषष्ठीपूजे कर्त्तव्ये। पुत्रजन्मनिमित्तकं वृद्धिश्राद्धं नाडीच्छेदात् पूर्व्वम् अशोचान्ते वा कर्त्तव्यम्। पुत्त्रकन्याजनने स्त्रीणां स्वजात्युक्तदशाहादितः परं लोकिककर्म्माधिकारः। पुत्त्रजनने तु वैदिककर्म्माधिंकारोविंशतिरात्रोत्तरं स्नानात्, कन्याजनने तु मासोत्तरं स्नानात् ब्राह्मण्याः। शूद्रायास्तूमयत्रैव मासोत्तरं स्नानात् शुद्धिः। एतत् सर्व्वं पुत्त्रकन्ययोर्विद्यमानत्वे बोध्यम्। जननाशौचकालोत्तरं षण्मासाभ्यन्तरमजात दन्तमरणे पित्रोरेकाहः। एवं निर्गुणसोदरस्य, सपिण्डानान्तु सद्यः। षण्मासाभ्यन्तरेऽपि जातदन्तस्य मरणे पित्रोस्त्र्यहः सपिण्डानामेकाहः षण्मासोपरि द्विवर्षपर्य्यन्तं पित्रोस्त्र्यहः। सपिण्डानामकृतचूडेमृते एकाहः कृतचूडे त्र्यहः। द्विवर्षोपरि सर्ब्धेषामनुपनीतस्य मरणे मासत्रया धिकषड्वर्षं यावत् त्र्यहः। पञ्चवर्षोपनीतस्य तदानीमपि दश। हः। मासत्रयाधिकषड्वर्षोपरि सर्वेषां दशाहः। शूदाणां तु षण्मासोपरि द्विवर्षाभ्यन्तरे पञ्चाहः। अत्रापि कृतचूडस्य द्वादशाहः। द्विवर्षोपरि षड्वर्षाभ्यन्तरे द्वादशाहः। अत्रापि दैवात् कृतोद्वाहेऽपि मासः। षड्वर्षोपरि मासः। अत्र मासवर्षपरिगणना सावनेन “सूतकादिपरिच्छेदोदिनमासाव्दपास्तथा। मध्यमग्रहभुक्तिश्च सावनेन प्रकीर्त्तिता” इति सूर्य्यसिद्धान्तात्। अथासपिण्डाशौचं गुरु मातामहमरणे त्रिरात्रं भगिनीमातुलानी मातुलपितृष्वसृमातृष्वसृगुर्व्वङ्गनामातामहीमरणे पक्षिणी। श्वश्रूश्वशुरयोर्भिन्नग्रामस्थयोर्मरणेऽहोरात्रम्। आचार्य्यपत्नी पुत्रयोरुपाध्यायस्य मातृवैमात्रेयस्य श्यालकस्य सहाध्यायिनः शिष्यस्य च मरणेऽहोरात्रं मातृष्वस्रीयपितृष्वस्रीयमातुलपुत्रभागिनेयमरणे पक्षिणी। पितामहभगिनीपुत्रपितामहीभ्रातृतद्भगिनीपुत्ररूपपितृबान्धवत्रयमरणे पक्षि णी। मातामहभगिनीपुत्रमातामहीभगिनीपुत्रमातामहीभ्रातृपुत्त्ररूपमातृबान्धवत्रयमरणेऽहोरात्रम्। एकग्रामवासिगोत्रजमरणेऽहोरात्रमौरसव्यतिरिक्तपुत्त्रजननमरणयोः परपूर्व्वभार्य्याप्रसवमरणयोश्च त्रिरात्रम्। सजातीयपुरुषान्तरसंगृहीतस्वभार्य्यामरणेत्रिरात्रम्। मातृष्वसृपितृष्वसृमातुलभगिनीपुत्राणां गृहस्थितानामाचार्य्यस्य च मरणे त्रिरात्रम्। श्वश्रूश्वशुरयोःसन्निधिमरणे त्रिरात्रं श्वश्रूश्वशुरयोरेकग्रामस्थितयोर्म्मरणे पक्षिणी। प्रथममन्येनोढा तेनैव जनितपुत्त्रा पुत्रसहितैवान्यमाश्रिता पश्चात्तेनापि जनितपुत्रा तयोः पुत्रयोर्यथासम्भवं प्रसवमरणयोर्द्वितीयपुत्त्र- पितुश्चत्रिरात्रं तत्सपिण्डामामेकरात्रं तथाविधपुत्त्रयोः परस्परप्रसवमरणयोर्मातृजात्युक्तमशौचम्। दौहित्रमरणे पक्षिणी। पितृमातृमरणे ऊढानां कन्यानां त्रिरात्रम्। यदि मात्रष्वसृप्रभृतीनां दहनवहने करोति तदा त्रिरात्रम्। मातामहादीनां त्रिरात्राभ्यन्तरमरणश्रवणे तच्छेषेण शुद्धिः। तत्तत्कालोत्तरश्रवणे तु नाशौचं किन्त्वाचारात् स्नानम्। अथमृत्युविशेषाशौचम्। शास्त्राननुमतबुद्धिपूर्व्वकात्मघातिनोनाशौचादि। शास्त्रानुमत्याऽनशनादिमृतस्य प्रमादादनशनाशनिवह्निजलोच्चदेशप्रपतनसंग्रामशृङ्गिदंष्ट्रिनखिव्याल विषचाण्डालचौरहतस्य त्रिरात्रम्। शृङ्ग्यादिभिःस्त्रिया च क्रीडां कुर्व्वतः प्रमादहतस्यापि नाशौचादि। नागविप्रियकारित्वेन उद्धतस्य मरणोद्देशेन प्रवृत्तस्य विद्युद्धतस्य च चौर्य्यादिदोषेण राज्ञा हतस्य च कलहं कृत्वा राण्डालाद्यैरसमानैर्हतस्य च व्याधिजनकौषधस्य विषस्य वह्नेश्च दातुर्मर णेपाषण्डप्रायाश्रितस्य च नित्यं परापकारिणश्च क्रोधात् स्वयं प्रायोविषवह्निशस्त्रोद्बन्धनजलगिरिवृक्षप्रपातैर्मृतस्य चर्म्ममांसास्थ्यादिमयपात्रनिर्म्मातुर्विप्रादेश्च मनुष्यबधस्थानाघि कारिणश्च कण्ठदेशोत्पन्नभगरोगस्य पुंस्कर्म्माशक्तनपुंसकस्य च ब्राह्मणविषयापराधकरणान्निहतस्य च बुद्धिपूर्व्वकब्राह्मणहतस्य च महापातकिनश्च एवंविधपतितानां न दाहादिकं कार्य्यम्। तत्कृत्वा तप्तकृच्छ्रद्वयं कुर्य्यात्। म्लेच्छतस्करादिभिर्युद्धे स्वाम्यर्थं हतस्य विप्रादेर्दाहादिकमस्त्येव। अकृतप्रायश्चित्तस्य गलत्कुष्ठिनोन दाहादिकं कार्य्यं शस्त्रेणाभिमुखहतस्य सद्यः शौचं दाहादि च। गवार्थे ब्राह्मणार्थे वा दण्डेन युद्धहतस्याहोरात्रमशौचम्। नृपतिरहितयुद्धे लगुडादिहतस्य पराङ्मुखहतस्य त्रिरात्रम्। गोविप्रपालनेऽभिमुखपराङ्मुखत्वाभ्यां हतस्य सद्यस्त्रिरात्रे। शस्त्रघातेतरक्षते सप्ताहादूर्द्ध्वं मरणे सम्पूर्णं, शस्त्रघाते त्र्यहादूर्द्ध्वं च प्रकृताशौचम्। शुद्धि० त०। एतत्प्रमाणानि तत्रैवा नु सन्धेयानि। “मातृवद्वर्णसङ्कराः” इत्युक्तेर्मूद्धावसिक्ताम्बष्ठादीना मनुलोमजानां मातृवर्णानुसारेणाशौचम् प्रतिलोनजानां तु “शूद्रेण तु सधर्म्माणः सर्वेऽपध्वंसजाः स्मृताः” इत्युक्तेः शूद्रतुल्याशौचमिति रघुनन्दनादयः। आचारस्तु मातृतुल्यतया दृश्यते अतएव चण्डालादीनां दशाहाशौचाचारः। देवतामन्त्रादिदातुर्मरणे त्रिरात्रम्। वेदाङ्गादि शास्त्राध्यापकस्य तथाविधशिष्यस्य च मरणे एकाहः “गृहीतो देवता मन्त्रः सावित्रीग्रहणं कृतम्। यस्मात्तस्य त्रिरात्रं स्यात् ब्रह्मविद्या ग्रहोयतः” इति “उपनीयाध्यापकोयस्तस्मिन्नपि त्रिरात्रकम्। वेदवेदाङ्गशास्त्राणां व्याख्यानं शिक्षितं यतः। ज्ञानं प्रतिष्ठितं येन वेदाभ्यासोयतः कृतः। तस्मिन्मृते चैकरात्रं गुरोःशिष्ये तथैव” च मृत्स्यसूक्तोक्तेः दत्तक पुत्रस्य ग्रहीत्रादिकुले त्रिरात्रम् जनककुलेऽशौचाभावः। तत्रायं विशेषः। सपिण्डदत्तकस्यापि त्रिरात्रं वाचनिकं तत्पुत्रादीनां तु संपूर्ण्णमिति। असपिण्डदत्तकस्य तत्पुत्राणाञ्च त्रिरात्रमिति बहवः सपिण्डासपण्डिदत्तकतत्पुत्राणां त्रिरात्रमिति “भिन्नगोत्राः पृथक्पिण्डाः पृथग्वंशकराः स्मृताः। जनने मरणे चैव त्र्यहाशौचस्य भागिनः” इत्युक्ते रिति दत्तकमोमांसादयः। शवानुगमनाशौचम्। ब्राह्मणशवस्यानुगमने ब्राह्मणस्य सचेलस्नानाग्निस्पर्शघृतप्राशनैः शुद्धिः। क्षत्रियस्यैकाहेन, वैश्यस्य द्व्यहेन, शूद्रस्य प्राणायामशतेन दिनत्रयेण च शुद्धिः। प्रमादाच्छूद्रशवानुगमने जलावगाहाग्निस्पर्शघृतप्राशनैः शुद्धिः। अनाथब्राह्मणस्य धर्मबुद्ध्या दहनवहनयोः स्नानघृतप्राशनाभ्यां सद्यः शौचम्। लोभेन सजातीयदाहे स्वजात्युक्ताशौचम्। असजातीयशवस्य दहनवहनस्पर्शैः शवजात्युक्ताशौचम्। स्नेहादसम्बन्धिदाहकविप्रस्य तद्गृहवासे त्रिरात्रं तत्कुलान्नभोजने दशरात्रं तद्गृहवासे तदन्नाभोजने चाहोरात्रं विशेषवचनाभावे सम्बन्धिनोमातुलादेरस्नेहेनापि अदाहे त्रिरात्रं चिताधूनसेवने सचेलस्नानं मृते शूद्रेऽस्थिसञ्चयनकालाभ्यन्तरे तद्गृहं गत्वाऽश्रुपातने विप्रस्य त्रिरात्रम शौचं, स्थानान्तरे विशेषवचनाभावेऽहोरात्रं तद्गृहे तदूर्द्ध्वं मासाभ्यन्तरेऽहोरात्रं सचेलस्नानञ्च। सजातेर्दिवसेनैव क्षत्त्रियवैश्ययोर्द्व्यहेन ब्राह्मणः शुध्यति शूद्रस्तु स्पर्शं विनानुगमने सर्वत्र नक्तेन। मृतस्य शूद्रस्य बान्धवैः सह रोदनरहितविलापमात्रेऽहोरात्रेण। अस्थिसञ्चयनकालश्च ब्राह्मणस्य चतुरहः शूद्रस्य दशाहः। त्र्यहाशौचे द्वितीयाहः। मरणाशौचे विप्रस्य चतुर्थाहेऽस्पृश्यतानिवृत्तिः। शूद्रस्य दशमदिने सर्वस्य खण्डाशौचकाले त्रिभागकालेन अतिक्रान्ताशौचे सचेलस्नानेन जनने तु सपिण्डानां स्पृश्यतैव। पुत्रोत्पत्तौ स्नानात् पितुः स्पृश्यत्वं एवं विमातॄणामपि। एवं सूतिकास्पर्शे पितुर्विमातॄणाञ्च सूतिकातुल्यकालास्पृश्यत्वम्। अन्येषां स्नानमात्रं कन्या पुत्रजनने मातुर्द्दशरात्रमङ्गास्पृश्यत्वं शूद्रायास्तु दशरात्रमस्पृश्यत्वम्। अशौचकालादि विषये च प्रायोनिबन्धकर्त्तृणां मतभेदोदृश्यते बाहुल्यभयात् तन्न लिखितम् स्वस्वदेशप्रचलितनिबन्धानुसारेण तदवमेयम्। अशौचे तु वर्ण्णादि विशेषादौ दश पक्षा हारलतायां दक्षेणोक्ताः यथा “सद्यःशौचं तथैकाहस्त्र्यहश्चतुरहस्तथा। षड्दश द्वादशाहश्च पक्षोमासस्तथैव च। मरणान्तं तथा चान्यत् दश पक्षास्तु सूतके”। तत्र मरणान्तं जननमरणभिन्ननिमित्तम्। यथा “क्रियाहीनस्य मूर्खस्य महारोगिण एव च। यथेष्टाचरणस्याहुर्मरणान्तमशौचकम्” शु० त० स्मृतिः। “अस्नात्वा चाप्यहुत्वा च अदत्त्वाऽश्नंस्तथा द्विजः। एवंविधस्य विप्रस्य सर्व्वदा सूतकं भवेत्” दक्षः “अन्य पूर्ब्बा यस्य गेहे भार्य्या स्यात्तस्य नित्यशः। अशौचं सर्व्वकार्य्येषु देहे भवति सर्व्वदेति” नि० सि० स्मृतिः “मरणान्तपक्षस्तु निन्दार्थवादपरः “नामधारकविप्रस्तु दशाहं सूतकी भवेदिति” माधवघृतवचने नामधारकविप्रस्यापि दशाहाशौचविधानात्” नि० सि०। दासाद्यशौचे विशेषः तत्र दासाः पञ्चदशधा दासशब्दे वक्ष्यमाणास्तेषु गर्भदासस्य सपिण्डान्तरजननमरणयोः स्वामिकार्य्ये सद्यः शौचं भक्तदासस्य त्र्यहः “सद्यःस्पृश्यो गर्भदासो भक्तदासस्त्र्यहाच्छुचिः” नि० सि० स्मृत्युक्तेः कर्म्मकरदासानां विशेषः “मूल्यैः कर्म्मकराः शूद्रा दासोदासास्तथैव च। स्नाने शरीरसंस्कारे गृहकर्मण्यदूषिताः” शाता० उक्तः। दत्तदासदास्यादीनां तु, “दासी दासश्च सर्व्वोवै यस्य वर्ण्णस्य यो भवेत्। तद्वर्ण्णस्य भवेच्छौचं दास्या मासन्तु सूतकम्” अङ्गि० “स्वामिशौचेन दासाद्याः स्पृश्याः मासात्तुकर्म्मसु। योग्याः स्यु र्मासतोदासी सूतके स्पृश्यतामियात्” षट्त्रि०। दत्तदासादीनां सपिण्डमरणादौ स्वाम्यशौचसमसंख्यकदिनादूर्द्ध्वम् सत्यपि मासाद्यशौचे स्वामिकार्य्ये स्पृश्यतेति हरदत्तः एवमन्तेवासिनामपि। “दासान्तेवासिभृतकाः शिष्याश्चैकत्रवासिनः। स्वामितुल्येन शौचेन शुध्यन्ति मृतसूतके” वृह० उक्तेः। दासादेः स्वामितत्सपिण्डमरणेऽशौचमाह विष्णुः “पत्नीनां दासानामानुलोम्ये स्वामितुल्यमशौचं मृते स्वामिन्यात्मीयम्” अत्रानुलोम्येनेत्युक्तेः प्रातिलोम्येऽशौचाभाव एव तस्य शास्त्रीयदासत्वाभावात् “वर्ण्णानामानुलोम्येन दास्यं न प्रतिलोमत” इति याज्ञ० स्मृत्या प्रातिलोम्येन दासत्वनिषेधात्। “सूतकानां परिच्छेद इत्यादि सू० सि० प्रागुक्तवचनात् सावनदिनस्यैव ग्राह्यता। मिताक्षराकृता तु रात्रिं विभागां कृत्वाद्यभागद्वये चेत् पूर्ब्बदिनम्, अन्त्ये चेत् परदिनमिति आरम्भकाले विशेष उक्तः। प्रागर्द्धरात्रात् प्राग्वा सूर्य्योदयात् पूर्ब्बदिनमिति मतान्तरम्। एतेषु देशाचारतो व्यवस्था। अशौच्यन्नभक्षणेऽपि तत्तुल्य- मशौचम्। “अथ ब्राह्मणादीनामशौचे यः सकृदेवान्नमश्नाति तस्य तावदशौचम् यावत्तेषाम्” विष्णुः एतत् ज्ञानतः, अज्ञाने तु “अन्तर्दशाहेभुक्त्वान्नं मृतके सूतकेऽपि वा तस्याशौचं भवेत्तावद्यावदन्नं व्रजत्यधः” अङ्गिरसोक्तंज्ञेयम् “उभयत्र दशाहानि कुलस्यान्नं न भुज्यत” इति यमः। उभयत्र जननमरणयोः दशाहानीत्यशौचकालोपलक्षणम्। कुलस्य सूतकयुक्तस्य सम्बन्ध्यन्नमसकुल्यैर्नभोक्तव्यम्। सकुल्यानां न पुनर्दोषः “सूतके तु कुलस्यान्नमदोषं मनुरब्रवीत्” इति तेनैवोक्तत्वात् अयञ्च निषेधोदातृभोक्त्रोरन्यतरेण जननमरणे ज्ञाते सति द्रष्टव्यः। “उभाभ्यामपरिज्ञाते सूतकं नैव दोषकृत्। एकेनापि परिज्ञाते भोक्तुर्दोषमुपावहेदिति षड्त्रिंशन्मतदर्शनात्। तथाविवाहादिषु सूतकोत्पत्तेः प्राक् ब्राह्मणार्थं पृथक्कृतमन्नं भोक्तव्यमेव। “विवाहोत्सवयज्ञेषु त्वन्तरा मृतसूतके। पूर्वसङ्कल्पितार्थेषु न दोषः परिकीर्त्तित” इति वृहस्पतिस्मरणात् तथाऽपरोऽपि विशेषः षड्विंशन्मते दर्शितः। “विवाहोत्सवयज्ञेषु त्वन्तरामृतसूतके। परैरन्नं प्रदातव्यम्भोक्तव्यञ्च द्विजोत्तमैः। भुञ्जान्नेषु तु विप्रेषु त्वन्तरा मृतसूतके। अन्यगेहोदकाचान्ताः सर्वे ते शुचयः स्मृताः” नि० सि० इति। तथाऽशौचिपरिग्रहत्वेऽपि केषु चित्द्रव्येषु दोषाभावः। यथाह मरीचिः। “लवणे मधुमांसे च पुष्पमूलफलेषु च। शाककाष्ठतृणेष्वप्सु दधिसर्पिःपयःसु च। तिलौषधाजिने चैव पक्वापक्वे स्वयंग्रहः। पण्येषु चैव सर्वेषु नाशौचं मृतसूतके” इति। शाक्वम्भक्ष्य जातम्। अपक्वन्तण्डुलादि। स्वयंग्रह इति खयमेव स्वाम्यनुज्ञातो गृह्णीयात् न तद्धस्तात्। एतदप्यामान्नविषयं सत्रप्रवृत्तविषयञ्च। “अन्नसत्रप्रवृत्तानामाममन्नमगर्हितम्। भुक्त्वा पक्वान्नमेतेषांत्रि रात्रन्तु पयः पिबेदिति” अङ्गिरः स्मरणात्। अत्र पक्वशब्दोऽभक्ष्यव्यतिरिक्तौदनादिविषयः। शवसंसर्गनिमित्ताशौचे त्वङ्गिरसा विशेषौक्तः। “अशौचं यस्य संसर्गादापतेद्गृहमेधिनः। क्रियास्तस्यैव लुप्यन्ते गृह्याणाञ्च न तद्भवेदिति”। तदशौचङ्केवलं गृहमेधिन एव न पुनस्तद्गृहमवानां भार्यादीनान्तद्द्रव्याणाञ्च भवेदित्यर्थः। एवमेवातिक्रान्ताशौचेऽपि। “संसर्गाद्यस्य चाशौचं यस्यातिक्रान्तकालता। तदीयस्य पदार्थस्य नाशौचं विद्यते क्वचित्” षट्त्रि० नि० सि०। कर्म्मविशेषे कर्म्मारम्भे च तत्तत्कर्ण्णणि अशौचाभावः यथोक्तम्। “कारवः शि- ल्विनो वैद्या दासीदासास्तथैव च। राजानो राजभृत्याश्च सद्यःशौचाः प्रकीर्त्तिताः” प्रचेतसा,। लघुविष्णुना च “व्रतयज्ञविवाहेसु श्राद्धे होमार्चने जपे। आरद्धे सूतकं न स्यादनारब्धे तु सूतकम्। प्रारम्भोवरणं यज्ञे संकल्पो व्रत बन्धयोः। नान्दीश्राद्धं विवाहादौ श्राद्धे पाकपरिष्क्रिया” वरणमिति ऋत्विक्परम् तेषाञ्च मधुपर्कग्रहणोत्तरमशौचाभावः। “गृहीतमषुमर्कास्तु यजमानात्तु ऋत्विजः। पश्चादशौचं पतितं न भवेदिति निश्चयः” ब्रह्मपुरा० उक्तेः एतन्मूलकमेव त्रिंशच्छ्लोक्यां तत्तत्कार्य्येषु अशौचाभाववचनम् यथा “तत्तत्कार्य्येषु सत्रिव्रतिनृपनृपवद्दीक्षितर्त्विक्स्वदेशभ्रंशापत्स्वप्यनेकश्रुतिपठनभिषक्कारुशिल्प्यातुराणाम्। संप्रारब्धेषु दानोपनयनयजनश्राद्धयुद्धप्रतिष्ठाचूडातीर्थाङ्गयात्राजपपरिणयनाद्युत्सवेष्वेतदेव” “तीर्थेति आकस्मिकतीर्थप्राप्तौ तदङ्गं श्राद्धमशौचे कर्त्तव्यम् “विवाहदुर्गयज्ञेषु यात्रायां तीर्थकर्मणि। न तत्र सूतकं तद्वत् कर्म्म यज्ञादि कारयेत्” पैठो० उक्तेः यात्रा रथयात्रादि। जपः पुरश्चरणादि संकल्पितस्तोत्रपाठादिश्च। व्रती संकल्पेन गृहीतव्रतादिः “गृहीतनियमस्यापि न स्यादन्यस्य कस्यचिदिति” ब्राह्मोक्तेः “वरं प्राणान् परित्यक्ष्ये मुण्डनं शिरसोऽपि वा नत्वनभ्यर्च्य भीञ्जयं भगवन्तं त्रिलोचनम्” इत्युक्तनियमवतो देवपूजायामधिकारः। कृतनियमविषया “शिवविष्ण्वर्चनंदीक्षा यस्य चाग्निपरिग्रहः। श्रौतकर्म्माणि कुर्व्वीत स्नातः शुद्धिमवाप्नुयात्” यमोक्तिः “जपो देवार्चनविधिः कार्य्योदीक्षान्वितैर्नरैः नास्ति पापं यतस्तेषां सूतकं वा यतात्मनाम्” मुक्तापली च। “अथ सूतकिनः पूजां वक्ष्याम्यागमचोदिताम्। स्नात्वा निर्वर्त्त्य नित्यञ्च मानस्या क्रियया हि वै। बाह्यपूजाक्रमेणैव ध्यानयोगेन पूजयेत्” शारदा। मानसजपे तु अकृतनियमस्यापि अशुचेरप्यघिकारः “अशुचिर्वा शुचिर्वापि गच्छन् तिष्ठंस्तथा स्वपन्। मन्त्रैकस्मरणोविद्वान् मनसैव समम्यसेत् “रामार्चनचन्द्रिकोक्तेः “मानसमप्युशुचिति” वचनं तु पठनपाठनाविषयम्। तारादिविषये न अकृतनियमस्याप्यधिकारः “तारायाश्चैव काल्याश्च त्रिपुराया विशेषतः। जनने मरणे चैव न त्यजेयुर्जपार्चनम्” इति तन्त्रोक्तेः। अन्याशौचे नियमाः नि० सि० याज्ञवल्क्यः “इति संप्लुत्य गच्छेभुर्गृहं बालपुरःसराः। विदश्य निम्बपत्राणि नियता द्वारि वश्मनः। आचम्याग्न्यादि सलिलं गोमयं गौरसर्षपान्। प्रविशेयुः समालभ्य कृत्वाश्मनि पदं शनैः”। “प्रवेशानादिकं कर्म प्रेतसंस्पर्शिनामपि” नि० सि०। “क्रीतलब्ध्वाशनाभूमौ स्वपेयुस्ते पृथक्क्षितौ या० इदञ्चाद्येऽह्नि। यथाशुद्धितत्त्वे वैजवापः “शमीमालभन्ते “शमी मे पापं शमयत्विति” अश्मानमालभन्ते “अश्मेव स्थिरोभूयासमिति” अग्निम्“अग्निर्नःशर्म यच्छत्विति” ज्योगित्यन्तरा गामजमुपस्पृशन्तः क्रीत्वा लब्ध्वावान्यगेहादेकान्नमलवणमेकरात्रं दिवाभोक्तव्यं “त्रिरात्रं च कर्म्मोपरमणम्” क्रीताद्यशनमुपवासाशक्तस्य। आश्वलानस्तु “नैतस्यां रात्र्यामन्नं पचेरंस्त्रिरात्रमक्षारलवणाशिनः स्युर्द्धादशरात्रं चेत्याह महागुरुषु”। अशक्तौ रत्नाकरे आपस्तम्बः “भार्याः परमगुरुसंस्थायां चाकालभोजनानि कूवींरन्” यदा मृतिः परदिने तावत्कालमित्यर्थः। वृहस्पतिः “अधःशय्यासना दीना मलिना भोगवर्जिताः। अक्षारलवणान्नाः स्युःर्लब्धक्रीताशनास्तथा” अक्षारलवणशब्देऽक्षारलवणशब्दार्थ उक्तः। भोगोऽभ्यङ्गताम्बूलादिः “तैलाभ्यङ्गो बान्धवानामङ्गसंवाहनञ्च यत्। तेन चाप्यायते जन्तुर्यच्चाश्नन्ति स्वबान्धवाः मार्क० पुरा० वाक्यन्तु अन्त्यदिनविषयम् “अशौचान्ते तिलकल्कैः स्नाता गृहं प्रविशेयुरिति विष्णूक्तेः सपिण्डानामस्थिसञ्चयनादूर्द्धंभोगोऽप्युक्तः विष्णु० पु०। “शय्यासनोपमोगस्तु सपिण्डानामपीष्यते अस्थिसञ्चयनादूर्द्धं संयोगस्तु न योषिताम्” तिलान् ददत पानीयं दीपं ददत जाग्रतः। ज्ञातिभिः सह भोक्तव्य मेतत् प्रेतेषु दुर्लभम्” भारतम्! भोजनं च दिवैव। दिवा चैव च भोक्तव्यममांसं मनुजर्षभेत्यक्तेः प्रागुक्तवैजवापोक्तेश्च। “क्रीत्वा लब्ध्वा वा दिवान्नमश्नीयुः” पारस्करोक्तेश्च अशौचमध्ये यत्नेन भोजयेच्च स्वगोत्रजान्” आदि पुरा० ज्ञातिभिः सह भोजनञ्च तृतीयादिदिनपरम्। प्रथमेऽह्नि तृतीये च सप्तमे दशमे तथा। ज्ञातिभिः सह भोक्तव्यमिति” मरीच्युक्तेः। “मांसाशनं च नाश्नीयुः शयीरंश्च पृथक् क्षितौ” मनुः। लवणक्षीरमांषान्नापूपमांसानि पायसम्। वर्ज्जयेदाहतान्नेषुबालवृद्धातुरैर्विना” देवजानीयकारि० “मत्स्य मासानि न भक्षयेयुरा प्रदानात्” गौत० “अघस्रस्तरे त्र्यहमनश्नन्त आसीरन्” वसिष्ठः अशौचे पीठादिनिषेधात् अवकाले उपवेशार्थं कटम्रस्तरः कार्य्यः “पाणिषु मृण्मयेषु पर्ण्णपुटेषु वाऽश्नीरन्” हारीतः। “उपवासो गुरौ प्रेते पत्न्याः पुत्रस्य चैवहि” मरीचिः। अन्त्यदिने विशेषः “यस्य यस्य तु वर्ण्णस्य यद्यत् स्यात् पश्चिमं त्वहः। स तत्र गृहशुद्धिं च वस्त्रशुद्धिं करोत्यपि। ग्रामाद्बहिस्ततोगत्वा प्रेतस्पृष्टे तु वाससी। अन्त्यानामाश्रितानाञ्च त्यक्त्वा स्नानं करोत्यथ” ब्राह्मम् अत्र तिलकल्कादिस्नानं प्रागुक्तम् अशोचाहेषु सर्व्वदिनेषु वर्ज्जनीयधर्म्मकृत्यमाह शङ्खः “दानं ग्रहोहोमः स्वाध्यायः पितृकर्म च। प्रेतपिण्डक्रिया वर्ज्जमशौचे विनिवर्त्तते” अत्र विशेषोमिताक्षरायाम् “अशुचित्वेन सकलश्रौतस्मार्त्तकर्म्माधिकारनिवृत्तौ प्रसक्तायां केषुचिदभ्यनुज्ञानार्य माह। “वैतानौपासनाः कार्याः क्रियाश्च श्रुतिचोदनात्” या०। वितानोऽग्नीनां विस्तारः तत्र भवावैताना स्तेनाग्निसाध्याः अग्निहोत्रदर्शपूर्ण मास्याद्याः क्रिया उच्यन्ते। प्रतिदिनमुपास्यत इत्युपासनो गृह्योऽग्निस्तत्रभवाः औपासनाः सायम्प्रातर्होमक्रिया उच्यन्ते। ता वैतानोपासना वैदिक्यः क्रियाः कार्याः कथं वैदिकत्वमिति चेत् श्रुतिचोदनात्। तथाहि। “यावज्जीव मग्निहोत्रञ्जहुयात्” इत्यादि श्रुतिभिरग्निहोत्रादीनां चोदना स्पष्टैव। तथा “अहरहः स्वाहां कुर्यादन्नाऽभावे केनचिदा काष्टादिति” श्रुत्यौपासनहोमोऽपि चोद्यते। अत्र च श्रौतत्वविशेषणोपादानात् स्मार्त्तक्रियाणां दानादी नामननुष्ठानङ्गम्यते। अतएव वैयाघ्रपादेनोक्तम्। “स्मार्त्त कर्म्मपरित्यागो राहोरन्यत्र सूतके। श्रौते कर्म्मणि तत्कालं स्नातः शुड्विमवाप्नुयादिति”। श्रोतानाञ्च कार्यत्वाभिधानान्नित्यनैमित्तिकानां करणम्। ययाह पैठीनसिः। “नित्यानि निवर्त्तेरन्वैतानवर्ज्जं शालाग्नौ चैक” इति। नित्यानि निवर्त्तेरन् इत्यविशेषेणाबश्यकानां नित्यनैमित्तिकानान्निवृत्तौ प्रसक्तायां वैतानवर्जमित्यग्नित्रयसाध्यावश्यकानाम्पर्युदासः। शालाग्नौ चैक इति गृह्याग्नौ भवानामप्यावश्यकानां पाक्षिकः पर्य्युदास उक्तः। अतस्तेष्वशौचं नास्त्येव। काम्यानां पुनःशौचाभावादननुष्ठानम्। मनुनाप्यनेनैवाभिप्रायेणोक्तम्। “प्रत्यूहेन्नाग्निषु क्रिया” इति। अग्निषु क्रिया न प्रत्यूहेदित्यनग्निसाध्यार्नाम्पञ्चमहायज्ञादीनान्निवृत्तिः। अत एव संवर्त्तः। “होमन्तत्र प्रकुर्व्वीत शुष्कान्नेन फलेन वा। पञ्चयज्ञविधानन्तु न कुर्य्यान् मृत्युजन्मनोरिति”। वैश्वदेवस्य अग्निसाध्यत्वेऽपि वचनान्निवृत्तिः “विप्रोदशाहमासीत वैश्वदेवविवर्ज्जित” इति तेनैवोक्तत्वात्। “सूतके कर्मणान्त्यागः सन्ध्यादीनां विधीयत “इतियद्यपि सन्ध्यायानिवृत्तिः श्रूयते तथाप्यञ्जलिप्रक्षे पादिकङ्कार्य्यम्। “सूतके सावित्र्या चाञ्जलिम्प्रक्षिप्य प्रदक्षिणं कृत्वा सूर्य्यं ध्यायन्नमस्कुर्यादिति” पैठिनसिस्मरणात्। यद्यपि वैतानौपासनाःकार्य्या इति सामान्येनोक्तं तथाप्यन्येन कारयितव्यम्। “अन्य एतानि कुर्युरिति” पैठीनसिस्मर- णात्। वृहस्पतिनाप्युक्तम्। “सूतके मृतके चैव अशक्तौ श्राद्धभोजने। प्रवासादिनिनित्तेषु हावयेन्न तु हापयेत्” इति। तथा स्मार्त्तत्वेऽपि पिण्डपितृयज्ञश्रावणीकर्म्माश्वयुज्यादिकश्च नित्योहोमःकार्य्य एव। “सूतके तु समुत्पन्ने स्मार्त्तङ्कर्म्मकथम्भवेत्!। पिण्डयज्ञं चरुं होममसगोत्रेण कारयेदिति” जातूकर्ण्यस्मरणात्। यद्यपि साङ्गे कर्मण्यकर्त्तृत्वन्तथापि स्वद्रव्यत्यागात्मकम्प्रधानं स्वयङ्कुर्य्यात् तस्यानन्यनिष्पाद्यत्वात्। अतएवोक्तम्। “श्रौते कर्मणि तत्कालं स्नातः शुद्धिमवाप्नुयादिति”। यत्पुनः “दानम्प्रतिग्रहोहोमः स्वाध्यायश्च निवर्त्तत” इति होमप्रतिषेधः। स काम्याभिप्रायो वैश्वदेवाभिप्रायो वा व्यवस्थापनीयः” इत्यर्न्तन। संध्यादी नामप्यपवादमाहापरार्केपुलस्त्यः “संध्यामिष्टिं चरुं होमं यावज्जीवं समाचरेत्। न त्यजेत् सूतके वापि त्यजन् गच्छेदधोद्विजः। सूतके मृतके चैव संध्याकर्म्मसमाचरेत्। मनसोच्चारयेन्मन्त्रान् प्राणायाममृते द्विजः” १ यत्तुचन्द्रिकायां जावालः “सन्ध्यां पञ्च महायज्ञान्नैत्यिकं स्मृतिकर्म्म च। तन्मध्ये हापयेत्तेषां दशाहान्ते पुनः क्रियेति” यच्च संवर्तः “सूतके कर्म्मणां त्यागः सन्ध्यादीनां विधीयतेः” यच्च विष्णु० पुरा० “सर्वकालमुपासा तु सन्ध्ययोः पार्थिवेष्यते। अन्यत्र सूतकाशौचविभ्रमातुरभीतितः” इति तत् संपूर्णसन्ध्यापरम् “अर्घ्यान्ता मानसी सन्ध्या कुशवारिविवर्जितेति” शुद्धिदीपे च्यवनोक्तेः पैठीनसिस्त्वत्र मन्त्रोच्चारणमप्याह “सूतके सावित्र्याञ्जलिंप्रक्षिप्य सूर्य्यंध्यायन्नमस्कुर्य्यात्” प्रयोगपरिजाते भरद्वाजोपि “सूतके मृतके कुर्य्यात् प्राणायामममन्त्रकम्। तथा मार्जनमन्त्रांस्तु मनसोच्चार्य्यमार्जयेत्। गायत्रीं सम्यगुच्चार्य्यसूर्यायार्घ्यं निवेदयेत्। मार्जनं तु न वा कार्य्यमुपस्थानं न चैवहि” एवं मिताक्षरापरिजातादौ अशौचे सन्ध्याकरणभेदस्योक्तेः गौडानां तदनाचरणमनाचार एव तस्य श्रौतत्वेन स्मृत्या बाधानुचितत्वादिति द्रष्टव्यम्। “ग्रहणादावप्यशौचापवादमाह व्याघ्रः “स्मार्तकर्मपरित्यागो राहोरन्यत्र सूतके इति” लैङ्गे “सूतके मृतके चैव न दोषो राहुदर्शने। तावदेव भवेच्छुद्ध्विर्यावन्मुक्ति र्न दृश्यते” प्रयोगपारिजाते “वृहस्पतिः “कन्याविवाहसंक्रान्तौ सूतकं न कदाचन”। महागुरुनिपातवर्षमध्ये कर्म्मविशेषेऽशौचम्। “स्नानं चैव महादानं स्वाध्यायं चाग्नितर्पणम्। प्रथमाव्दे न कुर्व्वीत महागुरुनिपातने” हेमा० स्मृतिः। महागुरवश्च माता पिता भर्त्ता च अतिगुरुशब्देउक्ताः। “प्रमीतौ पितरौ यस्य देहस्तस्याशुचिर्भवेत्। नापि दैवं न वा पैत्रं या- वत् पूर्ण्णो न वत्सरः” देवी पु० अग्नितर्पणं लक्षहोमादि, न त्वाधानं तस्य प्रथमाब्देऽपि विधानात् यथा “पितुः सपिण्डी करणं वार्षिकं मृतवासरे। आधानाद्युपसंप्राप्तावेतत् प्रागपि वत्सरात्” हेमा० उश०। अग्नितर्पणमित्यत्र अन्यतर्पणमिति शुद्धितत्त्वे पाठः। आधानादीत्यादिपदेन आवश्यक वृद्धिनिमित्तनित्यकर्म्मणोर्ग्रहणम्। श्राद्धकौमुद्यां देवी पु० “महातीर्थस्य गमनमुपवासव्रतानि च। संसत्सरे न कुव्वींत महागुरुनिपातने” एतदेकवाक्यतया प्रागुक्तवचने स्नानपदं काम्यतीर्थादिस्नानपरम् महादानसाहचर्य्यात् स्नाध्यायपद मपि काम्यवेदपारायणपरम् “तथैव काम्यं यत् कर्म्म वत्सरात् प्रथमादृते” लघुहा० वचनैकवाक्यत्वात् “महागुरु निपाते तु काम्यं किञ्चित् न चाचरेत्। आर्त्त्विज्यं ब्रह्मचर्य्यं च श्राद्धं दैवयुतञ्च यत्” कालि० पु० “सपिण्डी कारणादूर्द्धं प्रेतः पार्वणभुग्भवेत्। वृद्धीष्टापूर्त्तयोग्यश्च गृहस्थश्च सदा भवेत्” मत्स्य पु०। वृद्धीत्यनेन वृद्धिनिमित्तक सपिण्डनाभावे नाधिकारीत्यर्थः गृहस्थश्च सदा भवेदित्यनेन गृहस्थोचितनित्यपञ्चयज्ञेष्वधिकारः। अतएव पितृमरणाशौचोत्तरमेव वैश्वदेवश्राद्धं विहितम्। एवं वृद्धिश्राद्धाभावे वर्षपर्य्यन्तं तत्तत्कर्म्मण्यशौचमिति स्थिते “प्रेत कर्म्माण्यनिवर्त्त्य चरेन्नाभ्युदयक्रियाम्। आचतुर्थं ततः पुंसि पञ्चमे शुभदं भवेदिति” ज्योतिषवाक्यं शुभदमित्युक्त्या शुद्ध्यर्थचतुर्थाब्दकर्त्तव्यश्राद्धोत्तरं प्राशस्त्यमात्रपरमेव। एतच्चाशौचं वर्षमध्ये आवश्यकवृद्ध्यर्थसपिण्डनाभावएव। “अर्वाक् संवत्सरात् वृद्धौ पूर्ण्णे संवत्सरेऽपि वा” इत्यादि स्मृत्यनुसारेण आवश्यकवृद्धिनिमित्तसपिण्डापकर्षे तु काम्यादिकर्मकरणयोग्यता। अत्र विशेषमाह लौगाक्षिः। “अन्येषां प्रेतकर्म्माणि महागुरुनिपातने। कुर्य्यात् संवत्सरादर्वाक् श्राद्धमेकं तु वर्जयेत्” प्रेतकर्म्म दाहाद्येकादशाहान्तं तत्राशौचान्तरस्या प्रतिबन्धकत्वात् “आद्यं श्राद्धमशुद्धोऽपि कुर्य्यादेकादशेऽह नीति निर्ण्ण० सि० धृतस्मृतेः। तेन एकं सपिण्डनं वार्षिकादि च। एवं देवी० पु० वचनेऽपि बैत्रपदं पार्वणसपिण्डनवार्षिकपरम्। अत्रापवादः माधवीये ऋष्य० “पत्न्याः पुत्रस्य तत्पुत्रभ्रात्रोस्तत्तनयेषु च। स्नुषास्वस्रोश्च पित्रोश्च संघातमरणं यदि। अर्वागव्दान्मातृपितृपूर्व्वं सपिण्डमाचरेत्” लौगा० “पत्नीपुत्रस्तथा पौत्रो भ्राता तत्पुत्रकाअपि। पितरौ च यदेकस्मिन् म्रियेरन् वासरे तदा। आद्यमेकादशे कुर्य्यात् त्रिपक्षे तु सपिण्डनम्” इदम् एकदिनमरणविषयमेव “महागुरुनिपाते तु प्रेतकार्य्यं यथाविधि। कुर्य्यात् संवत् सरादर्व्वागेकोद्दिष्टं न पार्वणम्” इति धवलनिबन्धवाक्यात्। “माता चैव तथा भ्राता भार्य्या पुत्रस्तथा स्नुषा। एषां मृतौ चरेच्छ्राद्धमन्यस्य न पुनः पितुः” इति भृगुवचनं भिन्नदिनमरणेऽपि पितुर्मृतावन्यस्य सपिण्डनं न कार्य्यमेषामेव कार्य्यमित्येतत्परमिति नि० सि०। “पितर्य्युपरते पुत्रोमातुः श्राद्धान्निर्वत्तते। मातर्य्यपि च वृत्तायां पितृश्राद्धादृते समाम्” माध० वृह० वचनन्तु वार्षिकश्राद्धपरम् मातुः ऋते इत्याकर्षः मातरं पितरं च विना अन्यस्यश्राद्धात् वार्षिकश्राद्धात् समां व्याप्य निवर्त्तते इत्यर्थः। “अन्यश्राद्धं परान्नञ्च गन्धमाल्यञ्च मैथुनम्। वर्ज्जयेद्गुरुपाते तु यावत् पूर्ण्णो न वत्सरः” देवलवचने अन्यपदं भृगुवचनोक्तमात्रादिभिन्नपरम्। अन्नपदञ्च स्विन्नान्नपरं “भिप्सोऽस्त्री भक्तमन्धोऽन्नमित्यमरोक्तेः “स्विन्नमन्नमुदाहृतम्” इत्युक्तेश्च न तु परस्वामिकामान्नमात्रपरमन्नशब्देन रूद्या परिभाषया च सिद्धान्नस्यैव झटित्युपस्थापकत्वात् आमान्नस्य लक्ष्यार्थतया विलम्बेनोपस्थितेश्च। एवमेवाचारः “विशेषतः शिवापूजां प्रमीतपितृको नरः। यावत् वत्सरपर्य्यन्तं मनसाऽपि न चिन्तयेत्” कालिकापु० वाक्यं वार्षिकदुर्गापूजाविषयं नित्यपूजायाः कर्त्तव्यतायाः दशाहमध्येऽपि प्रागुक्तेः। “द्वयोरेव महागुर्व्वोरव्दमेकमशौचकम्। नान्येषामधिकाशौचं स्वजातिविहितात् किलेति” श्राद्धकौ० धृतजातू० वचनं तु पुरुषविषयम्। स्त्रीणां भर्त्तुर्महागुरुतायाः सर्व्वसम्मतत्वेन तन्मरणे अधिकाशौचस्योचितत्वात् अतएव “महागुरुविपत्तिषु इत्यादिना सामान्यतो बहुवचनमुपात्तम्। “गयाश्राद्धं मृतानां तु पूर्ण्णे त्वव्दे प्रशस्यते” हेमा० भवि० पु०। तीर्थश्राद्धं गयाश्राद्धम् श्राद्धमन्यच्च पैतृकम्। अव्दमध्ये न कुर्वीत महागुरुविपत्तिषु त्रिस्थ० गरु० पु०। इदं वृद्ध्यर्थसपिण्डनाभावे। वृद्धौ सपिण्डनापकर्षे तु वर्षमध्येऽपि दर्शादिकं कार्य्यमेव “पितुः सपिण्डनं कृत्वा कुर्य्यान्मासानुमासिकम्” छन्दोगप० वचनात् “सपिण्डीकरणादूर्द्ध्वं नरः पार्व्वणभुग्भवेत्” मात्स्यात् “ततः प्रभृति वै प्रेतः पितृसामान्यमश्नुते। विन्दते पितृलोकं च ततः श्राद्धं प्रवर्त्तते” इति हारीतवचनाच्चेति शूल पाणिः। “उद्वाहश्चोपनयनं प्रथमेऽव्दे महीपते!। कृते सपिण्डनेऽप्यूर्द्ध्वमस्थ्नां चोद्धरणं त्यजेत्। तथापि कर्त्तुमिच्छन्ति त्रीणिं चैतानि वै सुताः। मासिकान्य वशिष्टानि चापकृष्य चरेत् पुनः” ब्रह्म वै० पु०। अत्रेदं बोध्यं वृद्धिं विना कुलधर्म्मैकपुत्रत्वादिवशतः वर्षमध्ये सपिण्डनापकर्षेऽपि पितृत्वप्राप्तिर्वर्षान्तएव “कृते सपिण्डीकरणे नरः संवत्सरात् परम्। प्रेतदेहं परित्यज्य भोगदेहं प्रपद्यते” विष्णु ध० उक्तेः “अर्वाक् संवत्साद्यस्य सपिण्डीकरणं भवेत्। प्रेतत्वमपि तस्यापि विज्ञेयं वत्सरं नृप!” इत्यग्निपु० उक्तेश्च। तेन एतद्विषये महागुरूणां प्रेतत्वसत्त्वेन विवाहोपनयनादौ दैवपैत्रेषु च नाधिकारः वृद्धिनिमित्ते सपिण्डने संवत्रमप्राप्यापि प्रेतत्वविमुक्तिस्तेन सर्व्वत्राधिकारः। “अर्वाक् संवत्सराद्वृद्धौ पूर्ण्णे संवत्सरेऽपिवा। ये सपिण्डीकृताः प्रेता न तेषां च पृथक्क्रिया” शाता० वाक्ये पूर्ण्णवत्सरस्येव वृद्ध्यारम्भ कालस्यापि प्रेतत्वविमोचनहेतुत्वोक्तेः तथात्वम्। यतः सपिण्डीकता अतो न प्रेताः प्रेतपदप्रतिपाद्या विमुक्त प्रेतभावा इत्यर्थः। तत्र विशेषः। “अस्थिक्षेपं गयाश्राद्धं श्राद्धं चापरपाक्षिकम्। प्रथमेऽव्देऽपि कुर्वीत यदि स्याद्भक्तिमान् सुतः” मदनपारिजातधृतवचनम्। “भक्तिमान् भक्त्याख्यश्राद्धकारीति मदनपारिजातादयः। “भक्तिश्राद्धं तु त्रिस्थलीसेतौ उक्तम् तच्च गयाश्राद्धादिपद्धतौ अस्माभिर्दर्शितं ततएवावगम्यम्। एवं क्षताशौचमपि कर्म्म विशेषानर्हत्वप्रयोजकम्। विवरणं क्षताशौचशब्दे” ग्रहणेऽशौचं ग्रहणशब्दे वक्ष्यते। रजस्वलाशौचन्तु अशुद्धिशब्दे उक्तप्रायम्। “अपाटवाद्यशौचाद्यैर्यदि विघ्नं प्रजायते। तदशौचे व्यतीते तु तेषां श्राद्धं विधीयते” तिथि० त० स्मृतिः।

अशौचसङ्कर = अशौचयीः सङ्करः। जननमरणाशौचयो र्मध्ये पुनर्जननामरणाशौचयोः पातेन जनिते अशौचविशेषे। तत्कालभेदो यथा जननाशौचमध्ये जननाशौचान्तरपाते पूर्व्वाशौचकालेन शुद्धिः। पूर्णाशौचान्त्यदिने पूर्णाशौचान्तरपाते अन्तिमदिनोत्तरदिनद्वयेन शुद्धिः। अन्तिमदिवसोत्तरप्रभाते सूर्य्योदयात् पूर्व्वं तत्पाते सूर्य्योदयावधिदिनत्रयेण शुद्धिः। एवं मरणाशौचेऽपि। वर्द्धितदिनद्वयत्नयाभ्यन्तरे अशौचान्तरपाते पूर्ब्बैणैव शुद्धिः। अशौचत्रितयान्तकृत्यमेकदैव। तद्द्वितीयदिनकृत्यं तत्परदिने। अत्र दशमदिनतत्प्रभातयोः पितृमातृभर्त्तृ मरणे तु न दिनद्वयत्रयाच्छुद्धिः किन्तु स्वावध्येव सम्पूर्णाशौचमिति। ज्ञातिजननाशौचमध्ये स्वपुत्रजनने पूर्व्वार्द्धे पूर्ब्बेण, परार्द्धे परेण शुद्धिः। एवं ज्ञातिमरणमध्ये पितृमातृभर्त्रृमरणे पूर्व्वार्द्धे पूर्व्वाशौचकालेन, परार्द्धेपित्राद्यशौचकालेन शुद्धिः। स्वपुत्त्रजननाशौचान्तिमदिनतत्प्रभातयोर्ज्ञाति- जनने, पितृमातृभर्त्तृमरणाशौचान्तिमदिनतत् प्रभातयोर्ज्ञातिमरणेऽपि न दिनद्वयत्रयवृद्धिः। स्वपुत्त्रयोस्तु तथा जनने मातापित्त्रोस्तुतथा मरणे न द्विनद्वयत्रयवृद्धिः। जननाशौचयोस्तु सन्निपाते पूर्ब्बार्द्धे जातोयदाऽशौचाभ्यन्तरे मृतस्तदा सपिण्डानां सद्यः शौचेन पूर्व्वाशौचस्य नाशः। तन्नाशादेव परार्द्धजातमातापितृव्यतिरिक्तानां परजननाशौचस्य निवृत्तिः। परजातमरणे तु न तथा तस्य पूर्वजननावधिस्थायित्वादिति गुरुचरणाः। एवं द्वितीयजातस्य पित्रोस्तु पूर्ब्बार्द्धजातमरणे पूर्ब्बाशौचकालावधि अङ्गास्पृश्यत्वयुक्तमशौचं, परार्द्ध जातमरणे तु स्वावधिजननाशौचमङ्गास्पृश्यत्वयुक्तमिति। औत्सर्गिकसमसंख्यदिवसीयजननमरणाशौचयोः सन्निपाते मरणाशौचकालेन शुद्धिः। तदन्यका लयोस्तु दीर्घकालाशौचकालेन शुद्धिः। ततश्च पुत्त्रवत्याविंशतिरात्राशौचान्त्यदिने पत्युर्मरणे बहुकालेन जननाशौचकालेन शुद्धिः तथा सपिण्डद्वयजननजातद्वादशाहान्त्यदिने पितृमातृभर्त्तृमरणेऽपि बहुकालीनाशौचकालेन शुद्धिः। प्रथमदिने सपिण्डमरणद्वये यावदशौचं सर्वगोत्रास्पृश्यत्वयुक्तम् एवं प्रथमाहे सकुल्यद्वयरणेऽङ्गास्पृश्यत्वयुक्तं त्रिरात्रम्। तेनैतत् त्रिरात्रं गुरु विदेशमरणादौ त्रिरात्रंतु लघु स्नानेनैवाङ्गास्पृश्यत्वनिवृत्तेः। ततश्चोभयोः सन्निपाते गुरुणैव शुद्धिः। एवं विदेशस्थमृतज्ञातित्रिरात्राद्विदेशस्थमृतपितृमातृभर्त्तृत्रिरात्रं गुरु। संपूर्णाशौचे तु अशक्तानामपि यावदशौचमक्षारलवणाशित्वदर्शनात्। अत्रापि तावत्कालं तथासिद्धत्वात्तत्रापि गुरुणैव शुद्धिः। तुल्यत्रिरात्रयोस्तु सन्निपाते पूर्व्वेणैव शुद्धिः। तथा कन्यापुत्त्रयमजोत्पत्तौ मातुर्मासेन शुद्धिः। तयोरशौचमध्ये मातुः कन्यामरणे सद्यः शुद्धिर्न पुत्त्रमरणात्, अन्येषान्तु प्रथमजातमरणात् शुद्धिः। न परजातमरणात् एवमन्यद्भाव्यं सुधीमिः” शुद्धितत्त्वम्।

अशौचान्त = पु० अशौचस्यान्तोयत्र। स्वजात्युक्ताशौचावसानाधारे दशमादौ दिने “अशौचान्ताद् द्वितीयेऽह्नि शय्यां दद्याद्विलक्षणाम्”। “अशौचान्ताद्द्वितीयेऽह्नि यस्य नोत्सृज्यते कृषः” इति च स्मृतिः।

अशौर्य्य = न० अभावे न० त०। १ शौर्य्याभावे अपराक्रमे न० ब०। २ तच्छून्ये त्रि०।

अश्न = त्रि० अश्नुते व्याप्नोति अश्नाति वा अश–नन्। १ व्यापन शीले २ भोजनशीले च “मृगोनाश्नो अति यज्जुगुर्य्यात्” ऋ० १। १७३। २ “अश्नोव्यापकः अशनशीलश्च” भा० “कर्म्मणि नन्। ३ व्याप्ते “तस्य भ्राता मध्यमो अस्त्यश्नः” ऋ० १। १६४। १। “अश्नः व्याप्तः भा० ४ असुरभेदे पु० मुष्णन्नुषसः सूर्य्येण स्तवानश्नस्य” ऋ० २। २०। ५। “अश्नुते स्वतेजशा सर्वं जगदित्यश्नः कश्चिदसुरः भा०। “अध्वर्य्यवोयः स्वश्नं जघान” ऋ० २। १४। ५। ५। करणे नन्। सोमकण्डनप्रस्तरे। “नृभिर्धूतः सुतोश्नैरव्यो वारैः” ऋ० ८। २। २। अश्नैः अश्मभिः करणभूतैः सुतोऽध्वर्युभिरभिषुतः” भा०। अश्नुतेऽम्बरम्। ६ मेघे निरु०।

अश्नीतपिबता = स्त्री अशनीत पिबत इत्युच्यते यस्यां निदेशक्रियायाम् मयू० स०। भोजनादिनिदेशक्रियायाम् “अश्नीतपिबतीयन्ती प्रसृता स्मरकम्म श” भट्टिः।

अश्मक = पु० अश्मेव स्थिरः निश्चलत्वात् इवार्थेकन्। १ ऋषिभेदे “वेदस्थानेन वात्स्येन तथाश्मकसुमन्तुना” भा० शा० प०। २ दक्षिणदेशस्थे देशभेदे। “गन्तव्योमलयः श्रीमान् पर्व्वतो धातुमण्डित” इत्युपक्रम्य “तथाश्मका पुलिन्दाश्च कलिङ्गाश्च विशेषतः” रा० कि० का०। वृहत्संहितायान्तु स देशः पश्चिमोत्तरस्यां दिशि। “दिशि पश्चिमोत्तरस्यां माण्डव्यतुषारतालहनमद्राः। अश्मककुलू नहडस्त्रीराज्यसिंहवनखण्डाः” इति कर्म्मविभागे उक्तम्” अतौभतत्रापि तन्नामको देशः। तस्य जनपदवाचित्वात् तद्देश वासिषु तद्राजनि च ततः कृताणो बहुष लुक्। ३ तद्देश वासिनि ४ तद्राजनि च ब० व०। “साल्वावयवप्रत्यग्रथकन कूलाश्मकादिञ्” पा० सू० साल्वजनपदावयवत्वेनोक्तेः ५ साल्वदेशावयवे च साल्वदेशश्च वृह० सं० कूर्म्मविभागे नवसु खण्डेषु मध्यखण्डे उक्तः “भारतवर्षे मध्यात् प्रागादि विभाजिता देशाः भद्रारिमेदमाण्डव्यसाण्वनीपोज्ज्विहानसंख्याताः” इत्युपक्रम्य “गजाह्वयश्चेति मध्यमिदम्” इति नवखण्डे कूर्म्मभागे मध्यखण्डे तस्य स्थितिरुक्ता अतः साल्वावयवनामकोऽश्मकः तदीयदक्षिणप्रदेशस्थः इति गम्यते तेन रामायणवाक्यं तद्विषयकमिति न विरोधः। अश्मके साल्वावयवे भवः इञ् आश्मकिः। तद्देशभवे त्रि० तद्राजनि च बहुषु लुक् आश्मकाः साल्वावयवावश्मकवासिषु तद्राजसु च ब० व०। स्त्रियां न लुक् आश्मक्यः। साल्वशब्देऽस्य विवृतिः।

अश्मकदली = स्त्री अश्नुते अश–मनिन् कर्म्म०। काष्ठकदल्याम्।

अश्मकुट्ट = पु० अश्मनि प्रस्तरएव धान्यादिकं कुट्टयति कुट्टअण्–उप० स०। वानप्रस्थभेदे, तस्योदूखलादिशून्यत्वेन तण्डुलादेर्वितुषीकरणस्य तत्रैव विधानात्तथात्वम्। “अश्मकुट्टोभवेद्वापि दन्तोलूखलिकोऽपि वा” मनुः। ण्वुल्। अश्मकुट्टकोऽप्यत्र। “दन्तोलूखलिकः कालपक्वाशी वाश्मकुट्टकः” या० स्मृतिः।

अश्मकेतु = स्त्री अश्मेव केतुरस्य। क्षुद्रपाषाणभेदवृक्षे।

अश्मगन्धा = अश्मन इव गन्धो लेशोऽस्याः। पृशिनपर्ण्णीलक्षणायामासन्धौ लतायाम्। “विशाखशावाश्मगन्धापृश्निपर्ण्ण्यध्यण्डाश्च” कात्या० २०, ७, १७, “अश्मगन्धा आसन्धिः पृश्निपर्ण्णीलक्षणेति” कर्क०। “न शरं नाश्मगन्धां नाध्यण्डां न पृश्निपर्ण्णीं नाश्वत्थस्यान्तिके कुर्य्यात्” शत० ब्रा०।

अश्मगर्भ = पु० अश्मेव कृतो गर्भोऽस्य। “पन्ना इति” ख्याते मरकतमणौ। राजनि०।

अश्मगर्भज = पु० अश्मगर्भाज्जायते जन–ड ५ त०। मरकतमणौ अश्मयोनिरप्यत्र” राजनि० २ प्रस्तरजे वह्नौ पु०।

अश्मगुड = पु० अश्मनिर्म्मितो गुडः गोलाकारः पदार्थः। प्रस्तरनिर्म्मिते (गुली) प्रसिद्धे युद्धसाधने अस्त्रभेदे स्त्रीत्वमपि “शूलान् भुशुण्ड्यश्मगुडाः स्थूलाः कार्ष्णायसीस्तथा” भा० द्रो० प०। भुशण्डीनिर्मुक्ता अश्मगुडास्तदर्थः।

अश्मघ्न = पु० अश्मानं हन्ति हन–ड। पाषाणभेदवृक्षे।

अश्मज = न० अश्मनो जायते जन–ड ५ त०। प्रस्तरजाते १ शिलाजतुनि,। अश्मेव जायते जन–ड। २ लौहे च।

अश्मजतु = न० अश्मनो जायते जन–तुन् डिच्च। शिलाजतुनि स्वार्थे कन् अश्मजतुकं तत्रैव।

अश्मजाति = स्त्री अश्मनो जातिः सामान्यमस्य। “पान्ना” ख्याते मरकतमणौ। अश्मन इव जातिरस्य। रत्नमात्ने अमरः रत्नानि च। “वज्रं गारुत्मतं पुष्परागो माणिक्यमेव च। इन्द्रनीलश्च गोमेदस्तथा वैदूर्यमेव च। मौक्तिकं विद्रुमश्चेति रत्नान्युक्तानि वै नव” भाव० प्र०। “मुक्ताफलं हीरकं च वैदूर्य्यं पद्मरागकम्। पुष्परागं च गोमेदं नीलं गारुत्मतं तथा। प्रबालयुक्तान्येताति महारत्नानि वै नव” विष्णु ध०। अत्र पुष्परागादीनां क्लीवताऽपि। अत्र चैषां महारत्नतैतोक्तेः तद्भिन्नानामपि रत्नत्वमस्त्येव यथोक्तं गारुडे “तेषु रक्षोविषव्याधिव्यालघ्नान्यघहानि च। प्रादुर्भवन्ति रत्नानि तथैव विगुणानि च। वज्रं मुक्ता मणयः पद्मरागाः समरकताश्च प्रोक्ताः। अपि चेन्द्रनीलमणयो वैदूर्य्याः पुष्परागाश्च। कर्केतनकुरुविल्वौ रुधिराक्षसमन्वित स्फटिकम्। विद्रुममणिश्च”।

अश्मदारण = पु० अश्मानं दारयति दृ–णिच्–ल्यु। पाषाणभेदके टङ्कनामास्त्रे।

अश्मदिद्यु = त्रि० अतिशयेन द्योतते यङ् लुक् बा० ड विद्यु आयुधम् अश्म व्यापकं अश्ममयं वा दिद्यु यस्य। अश्ममयायुधयुक्ते। “विद्युन्महसो नरो अश्मदिद्यवः” ५, ५४। ३। अश्मदिद्युवो व्याप्तायुधाः अश्ममयायुधा वा” भा०।

अश्मन् = पु० अश्रुते व्याप्नोति, संहन्त्यनेन वा कर्त्तरि करणे वा मनिन्। पाषाणे। “अथ यदश्रु संक्षरित मासीत् सोऽश्म पृश्निरभवत्” शत० ब्रा०। “इयत्तकः कुषुम्भकस्तकं भिनद्म्यश्मना” ऋ० १। १९१। १५। “अशिशकिभ्यां छन्दसि” इत्युक्तेः वेदेअस्य भूरिप्रयोगः क्वचित् लोकेऽपि “नाराचक्षेपणीयाश्मनिष्पेषपतितानलम्” रघुः। दन्तोलूखकिकः कालपक्वाशी वाश्मकुट्टकः” या० “अश्मानं दृषदं मन्ये मन्ये काष्ठमुदूखलम्। अन्धायाश्च सुतं मन्ये यस्य माता न पश्यति” जिनेन्द्रः। २ मेघे निरु० तस्याम्बरव्यापकात्वात्तथात्वम् ३ भूभिव्यापके पर्व्वते पु०। “अश्मानं चिद्ये बिभिदुः” ऋ० ४, १६, ६। “अश्मानं पर्व्वतं मेघं वा” भा०। “अश्मानं चिच्छवसा दिद्युतः ऋ० ५। ३०४। “अश्मानं पर्व्वतम्” भा०। ४ व्यापके त्रि० अश्मदिद्युशब्दे उदा०। त० स० उत्तरपदस्थः संज्ञायां जातौ च टचं समासान्तं लभते। संज्ञायाम् पिण्डाश्मः जातौ अमृताश्मः। नित्यसमा०। अश्मना क्षुण्णः आश्मनः। ऋश्यादि० चतुरर्थ्यां क। अश्मकः। अश्मादि० चतुरर्थ्यां रः अश्मरः। उत्करा० चतुरर्थ्यां छ। अश्मीयः। तदर्हतीत्यर्थे अश्व। दि० ठण्। आश्मिकः। तत्र कुशल इत्यर्थे आकर्षादि० कन्। अश्मकः। अपत्येशुम्रा० ढक्। आश्मेयः। अश्वा० गोत्रापत्ये फञ्। आश्मायनः। अश्मनोविकारः अण् टिलोपः आश्मः मयट् च अश्ममयः स्त्रियां ङीप्। अवयवार्थे तु न टिलोपः आश्मन इत्येव।

अश्मन्त = न० अश्मनोऽन्तोऽत्र शक० पररूपम्। १ अशुमे क्षेत्रे, २ चुल्ल्याञ्च। असूनामन्तः। अस्वन्तोऽप्यत्र।

अश्मन्तक = पु० न० अश्मानमन्तयति अन्त–णिच् ण्वुल् शक०। १ चूल्ल्याम् २ दीपाधारे ३ छादने, (आउड) ख्याते तृणविशेषे च। “मुञ्जालाभे तु कर्त्तव्याः कुशाश्मान्तकवल्वजैः” मनुः। ४ अम्लोटकवृक्षे, ५ अम्लपत्रे ६ कोविदारकवृक्षे च पु०।

अश्मन्मय = त्रि० अश्मनोविकारः मयट् वेदे न नलोपः। पाषाणमये स्त्रियां ङीप्। “शतमश्मन्मयीनां पुरामिन्द्रो व्यास्यत्” ऋ० ४। ३०। २०। “लोके तु अशममयः। “अब्जमश्ममयञ्चैव” इति मनुः।

अश्मपुष्प = न० अश्मनः पुष्पमिव। शिलाजतुनि, शौलेये गन्धद्रव्ये।

अश्मभाल = न० अश्मेव भाजयति चूर्णितं करोति। भज–णिच् अण् पृषो० जस्य लत्वम्। द्रव्यचूर्णकारके (हामानदिस्ते) इति ख्याते लौहपात्रभेदे शब्दचन्द्रिका।

अश्मभिद् = पु० अश्मानमुद्भिद्य जायते। पाषाणभेदके वृक्षे। क, अश्मभिदः। अण् अश्मभेदः। ण्वुल्। अश्मभेदकोऽप्यत्र पु०।

अश्मयोनि = पु० अश्मा योनिरस्य। मरकतमणौ।

अश्मर = त्रि० अश्म–चतुरर्थ्याम् र। प्रस्तरसंबन्धिनि।

अश्मरथ = पु० अश्मेव दुर्भेदो रथोऽस्य। ॠषिभेदे गर्गा० यञ्। आश्मरथ्यः। “अभिव्यक्तेरित्याश्मरथ्यः” शा० सू०

अश्मरी = स्त्री अश्मानं राति रा–क गौरा० ङीष्। मूत्रकृच्छ्ररोगे स हि मूत्रद्वारा प्रस्तरमिव कठिनमांसं रेचयति इति तस्य तथात्वम्। तन्निदानादि सुश्रुते उक्तं यथा। “अथातोऽश्मरीणां निदानं व्याख्यास्यामः।। चतस्रोऽश्मर्य्यो भवन्ति श्लेष्माधिष्ठानास्तद्यथा श्लेष्मणा वातेन पित्तेन शुक्रेण चेति।। तत्रासंशोधनशीलस्यापथ्यकारिणः प्रकुपितः श्लेष्मा मुत्रसम्पृक्तोऽनुप्रविश्यवस्तिम्, अश्मरीं जनयति तासां पूर्ब्बरूपाणि वस्तिपीडारोचकौ मूत्रकृच्छ्रं वस्तिशिरोमुष्कशेफसां वेदना कृच्छ्रा ज्वरावसादौ वस्तगन्धित्वं मूत्रस्येति।। यथास्वं वेदनावर्णं दुष्टं सान्द्रमथाविलम्। पूर्व्वरूपेऽश्मनः कृच्छ्रान्मूत्रं सृजति मानवः।। अथ जातासु नाभिवस्तिसेवनीमेहनेष्वन्यतमे मेहतोवेदना मूत्रधारासङ्गः सरुधिरमूत्रता मूत्रविकिरणञ्च गोमेदं प्रकाशमनाविलं ससिकतं विसृजति धावनलङ्घनप्लवनपृष्ठेयानाध्वगमनैश्चास्य वेदना भवति।। तत्र श्लेष्माश्मरी श्लेष्मलमन्नमभ्यवहरतोऽत्यर्थमुपलिप्याधः परिवृद्धिं प्राप्य वस्तिमुखमधिष्ठाय स्रोतो निरुणद्धि तस्य मूत्रप्रतिघाताद्दाल्यते मिद्यते निस्तुद्यत इव वस्तिर्गुरुः शीतश्व भवति। अश्मरी चात्र श्वेता स्निग्धा महती कुक्कुटाण्डप्रतीकाशा मधूकपुष्पवर्ण्णा वा भवति तां श्लैष्मिकीमिति विद्यात्।। पित्तयुक्तस्तु श्लेष्मा सङ्घातमुपगम्य यथोक्तां परिवृद्धिं प्राप्य वस्तिमुखमधिष्ठाय स्रोतो निरुणद्धि तस्य मूत्रप्रतिघातादुष्यते चूष्यते दह्यते पच्यत इव वस्तिरुष्णवातश्च भवति। अश्मरी चात्र सरक्ता पीतावभासा कृष्णा भल्लातकास्थिप्रतिमा मधुवर्ण्णा वा भवति तां पैत्तिकीमिति विद्यात्।। वातयुक्तस्तु श्लेष्मा सङ्घातमुपगम्य यथोक्तां परिवृद्धिं प्राप्य वस्तिमुखमधिष्ठाय स्रोतो निरुणद्धि तस्य मूत्रप्रतिघातात्तीव्रा वेदना भवति तथात्यर्थं पीड्यमानो दन्तान् खादति नाभिं पीडयति मेढ्रं मृद्गाति पायुं स्पृश- ति विशर्द्धते विदहति वातमूत्रपुरीषाणि कृच्छ्रेण वास्य मेहतो निःसरन्ति। अश्मरी चात्र श्यामा परुषा विषमा खरा कदम्बपुष्पवत्कण्टकाचिता भवति तां वातिकीमिति विद्यात्। प्रायेणैतास्तिस्रोऽश्मर्य्यो दिवास्वप्नसमशनाध्यशनशीतस्निग्धगुरुमधुराहारप्रियत्वाद्विशेषेण बालानां भवन्ति। तेषामेवाल्पवस्तिकायत्वादनुपचितमांसत्वाच्च वस्तेः सुखग्रहणा हरणा भवन्ति।। महतान्तु शुक्राश्मरी शुक्रनिमित्ता भवति। मैथुनाभिघातादतिमैथुनाद्वा शुक्रञ्चलितमनिर्गच्छद्विमार्गगमनादनिलोऽभितः संगृह्य मेढ्रवृषणयोरन्तरे संहरति संहृत्यचोपशोषयति सा मुत्रमार्गमावृणोति मूत्रकृच्छ्रं वस्तिवेदनां वृषणयोश्च श्वयथुमापादयति पीडितमात्रे च तस्मिन्नेव प्रदेशे प्रविलयमापद्यते तां शुक्राश्मरीमिति विद्यात्।। भवन्ति चात्र।। शर्करा सिकता मेहो भस्माख्योऽश्मरिवैकृतम्।। अश्मर्य्याः शर्करा ज्ञेया तुल्यव्यञ्जनवेदना।। पवनेऽनुगुणे सा तु निरेत्यल्पा विशेषतः। सा भिन्नमूत्तिर्वातेन शर्करेत्यभिधींयते।। ह्वत्पीडासक्थिसदमं कुक्षिशूलः सवेपथुः। तृष्णोर्द्ध्वगोऽनिलः कार्ष्ण्यं दौर्ब्बल्यं पाण्डुगात्रता।। अरोचकाविपाकौ तु शर्करार्त्ते भवन्ति च। मुत्रमार्गप्रवृत्ता सा सक्ता कुर्य्यादुप्रद्रवान्।। दौर्ब्बल्यं सदनं कार्श्यं कुक्षिशूलमरोचकम्। पाण्डुत्वमुष्णवातञ्च तृष्णां हृत्पीडनं वमिम्।। नाभिपृष्ठकटीमुष्कगुदवङ्क्षणशेफसाम्। एकद्वारस्तनुत्वक्को मध्ये वस्तिरधोमुखः।। अलाद्वा इव रूपेण सिरास्नायुपरिग्रहः। वस्तिर्व्वस्तिशिरश्चैव पौरुषं वृषणौ गुदम्।। एकसम्बन्धिनो ह्येते गुदास्थिविवरस्थिताः। मूत्राशयो मलाधारः प्राणायतनमुत्तमम्।। पक्काशयगतास्तत्र नाड्यो मूत्रवहास्तु याः।। तर्प्पयन्ति सदा मूत्रं सरितः सागरं यथा।। सूक्ष्मत्वान्नोपलभ्यन्ते मुखान्यासां सहस्रशः। नाडीमिरुपनीतस्य मूत्रस्यामाशयान्तरात्।। जाग्रतः स्वपतश्चैव स निःष्यन्देन पूर्य्यते। आमुखात्सलिले न्यस्तः पार्श्वेभ्यः पूर्य्यते नवः।। घटो यथा तथा विद्धि वस्तिर्मूत्रेण पूर्य्यते। एवमेव प्रवेशेन वातः पित्तं कफोऽपि वा।। मूत्रयुक्त उपस्नेहात् प्रविश्य कुरुतेऽश्मरीम्। अप्सु स्वच्छास्वपि यथा निषिक्तासु नवे घटे।। कालान्तरेण पङ्कः स्यादश्मरीसम्भवस्तथा। संहन्त्यपो यथा दिव्या मारुतोऽग्निश्च वैद्युतः।। तद्वद्वलासं वस्तिस्थमुष्मा संहन्ति सानिलः। मारुते प्रगुणे वस्तौ मूत्रं सम्यक् प्रवर्त्तते।। विकारा विविधाश्चापि प्रतिलोमे भवन्ति हि।। मूत्राघाताः प्रमेहाश्च शुक्रदोषास्तथैव च। मूत्रदोषाश्च ये केचिद्वस्तावेव भवन्ति हि” सुश्व० “अश्मरीं क्षप- यत्याशु सिकताशर्करान्विताम्” सुश्रु०। अयञ्च महापापजत्वान्महारोगः। “उन्मादस्त्वग्दोषो राजयक्ष्मा श्वासोमधुमेहो भगन्दरः। उदरोऽश्मरीत्यष्टौ महारोगाः” शु० त० नार०।

अश्मरीघ्न = पु० अश्मरीं मूत्रकृच्छ्रं हन्ति हन–ट। वरुणवृक्षे

अश्मरीहर = पु० अश्मरीं हरति हृ–ट। (देधान) देवधान्ये।

अश्मवत् = त्रि० अश्माऽस्त्यत्र मतुप्। पाषाणभूयिष्ठे देशे स्त्रियां ङीप्। तथाविधभूमेर्गुणाश्च। “तत्राश्मवती स्थिरा गुर्व्वीश्यामा कृष्णा वा स्थूलवृक्षशस्यप्राया गुणभूयिष्ठा। स्निग्धा शीतलासन्नोदका स्निग्धशस्यतृणकोमलवृक्षप्राया शुक्लाम्बुगुणभूयिष्ठा नानावर्णा लध्वश्मवती प्रविरलाल्प पाण्डुवृक्षप्ररोहाऽग्निगुणभूयिष्ठा इति” सुश्रुतः।

अश्मसार = पु० न० अश्मनः सार इव। लौहे। “फल्गुवृश्चिकदर्भाश्मसारचूर्ण्णकवारिणा” सुश्रु०। “प्राणाः स० त्वरमश्मसारकठिना गच्छन्ति गच्छन्त्वमी” सा० द०। ६ ब०। तत्तुल्यकठिने त्रि०।

अश्महन्मन् = न० हन्यतेऽनेन हन–मनिन् हन्म आयुधम् अश्मनिर्म्मितं हन्म। लौहनिर्मिते आयुघे “अग्नितस्तेभिर्युवमश्महन्मभिः” ऋ० ७, १०४, ५।

अश्मादि = पु० ६ त०। चतुरर्थ्यां पाणिन्युक्तरप्रत्ययनिमित्ते शब्दगणे स च गणः अश्मन्, यूथ, ऊष, मीन, नद, दर्भ, वृन्द, गुद, खण्ड, नग, शिखा, कोट, पाम, कन्द, कान्द, कुल, गह्व, गुड, कुण्डल, पीन, गुह।

अश्मार्म = न० अश्मकारकमर्म्म। (पाथुरे) अश्मरीरोगे।

अश्मीर = पु० न० अश्मास्त्यस्य ईरन्। (पाथुरे) अश्मरीरोगे।

अश्मोत्थ = न० अश्मनः उत्तिष्ठति उद् + स्था–क ५ न०। शिलाजतुनि राजनि०।

अश्र = न० अश्नुते नेत्रम् अश–रक्। नेत्रजले “सखीभिरश्रोत्तरमीक्षितामिमाम्” कुमा० “नेत्राध्यामश्रमुत्सृजन्” रामा०। सुखा० अस्त्यर्थे इनि न मतुप्। अश्री अश्रुयुक्ते त्रि० स्त्रियां ङीप्।

अश्रद्धा = स्त्री अभावे न० त०। १ श्रद्धाभावे विरोधे न० त०। श्रद्धाविरोधिनि २ चित्रवृत्तिभेदे। “कामः संकल्पोविचिकित्मा श्रद्धाऽश्रद्धा धृतिधृतिर्ह्रीर्धीर्भीरित्येतत्सर्वं मनएव” श्रुतिः “अश्रद्धया च यद्दत्तं तत्तामसमुदाहृतम्” गीता। न० ब०। ३ श्रद्धाशून्ये त्रि०।

अश्रद्धेय = त्रि० न० त०। श्रद्धानर्हे अविश्वसनीये। १ श्रमशून्ये त्रि०।

अश्रम = पु० अभावे न० त०। १ श्रमाभावे अनायासे न० ब०।

अश्रवण = न० अभावे न० त०। १ श्रवणाभावे न० ब०। २ श्रवणशून्ये त्रि० ३ श्रोत्रेन्द्रियशून्ये बधिरे त्रि० ४ सर्पे पु०।

अश्राद्धभोजिन् = त्रि० श्राद्धं न भुङ्क्ते भुज–णिनि असमर्थ स०। सति भोजने श्राद्धमेव योभुङ्क्ते तस्मिन्। “अश्राद्धभोजीत्यत्र सति भौजनेऽश्राद्धमेव भुङ्क्ते न श्राद्धमिंति न नियमः तथात्वे व्रतलोपः स्यात्” दुर्गसिंहः प्रा० त०।

अश्रान्त = त्रि० श्रम–कर्त्तरि न० त०। श्रान्तभिन्ने १ श्रमशून्ये २ अविरते ३ क्रियाविशेषणत्वे न०। “अश्रान्तश्रुतिपाठपूतरसनाविर्भूतभूरिस्तवेति नैष०। भावे क्त न० त०। ४ अविश्रामे न०।

अश्रि(श्री) = स्त्री अश्यते संहन्यतेऽनया अश–वङ्क्र्या० क्रि। १ गृहादेः कोणे। आश्रीयते संघातार्थम् आ + श्री- “आङि श्रीहनिभ्यां ह्रस्वश्च” उपा० इन् स च डित्। २ खड्गादेरग्रभागे उभयत्र वा ङीप्। “वृत्रस्य हन्तुः कुलिशं कुण्ठिताश्रीवलक्ष्यते” कुमा० वाजपेययूपं प्रकृत्य। “स वा अष्टाश्रिर्भवति तस्मादष्टाश्रिर्भवति” शत० ब्रा०। चतुःपूर्ब्बादस्मात् अच्समा० चतुरश्रः। “कॢप्तोपचारां चतुरश्रवेदीम्” कुमा० योगविभागात् अत्यस्माठप्यच। तेन त्र्यश्रं षडश्रमित्यादि “आयताश्चतुरश्राश्च त्र्याश्रा मण्डलिनस्तथा” शस्त्रलक्षणे सुश्रुतः “वृत्तान्तस्त्र्यश्रपूर्ब्बाणां नावाश्राणां पृथक् पृथक्” लीला०। समासान्तविधेरनित्यत्वात् क्वचिन्नाच्। “त्रिरश्रिं हन्ति चतुरश्रिरुग्रः ऋ० १, २५२, २।

अश्री(क) = नास्ति श्रीर्यस्य नदीत्वाभावात् न ह्रस्वः तेन वा कप्। शोभाशून्ये।

अश्रीर = त्रि० न श्रीः अश्रीः अस्त्यर्थ० र। १ कुत्सितश्रीके “अश्रीर इव जामाता” ऋ० ८, २, २०। “अश्रीरः गुणै र्हीनः कुत्सितः” भा०। २ अमङ्गले च। “कृशंचिदश्रीरम्” ऋ० ६, २८, ६। “अश्रीरममङ्गलम्” भा०।

अश्रु = न० अश्नुते व्याप्नोति नेत्रमदर्शनाय अश–क्रुन्। नेत्रजले “पपात भूमौ सह षैनिकाश्रुभिः” दूषयामास कैकेयी शोकोष्णैः पार्थिवाश्रुभिः” “तमश्रु नेत्रावरणं प्रमृज्य” इति च रघुः। “श्लेष्माश्रु दूषिका स्वेदः” मनुः।

अश्रुत = त्रि० न० त०। १ श्रुतभिन्ने श्रवणाविषयीभते “येनाश्रुतं श्रुतं भवति येनामतं मतं भवति” वृ० उ० श्रूयते श्रुतं शास्त्रं तज्ज्ञानं न० ब०। २ शास्त्रज्ञानशून्ये मूर्खे “भागं विद्याधनात्तस्मात् स लभेताश्रुतोऽपि सन्” दा० भा० स्मृतिः।

अश्रुति = स्त्री अभावे न० त०। १ श्रवणाभावे न० ब०। २ श्रवणशून्ये त्रि० “अश्रुतिमेव तदघं गमयति” शत० ब्रा।

अश्रुपात = पु० ६ त०। नेत्रजलपाते क्रन्दने। “न चाश्रुपातः पिण्डो वा कार्य्यं श्राद्धादिकं शु० त० क्वचित्” ब्रह्मपुरा०।

अश्रुमुख = त्रि० अश्रुपूर्ण्णं मुखं यस्य। नेत्रजलप्लुतमुखे स्त्रियां ङीप्। “पतिघ्नानाश्रुमुखी कृधुकर्ण्णी च क्रोशतु अथ० ११, ११, ७।

अश्रुशालिन् = त्रि० अश्रुणा शलते शल–णिनि ३ त०। स्त्रियां ङीप् नेत्रजलयुक्ते।

अश्रेयस् = त्रि० न श्रेयान्। हीनतरे। “अश्रेयान् श्रेयसीं जातिं गच्छत्या सप्तमाद्युगात्” मनुः। स्त्रियां ङीप्।

अश्रौत = त्रि० श्रुतौ विहितः विरोधे न० त०। श्रुतिविहितविरुद्धे निषिद्धे नास्तिकाचारादौ। २ वेदविहितभिन्ने स्मृतिमात्रविहिते च।

अशाघा = स्त्री अभावे न० त०। विकत्थनाभावे १ आत्मगर्भाभावे न० ब०। विकत्यनशून्ये गर्व्वशून्ये २ विनीते त्रि०।

अश्लिष्ट = त्रि० न० त०। १ असङ्गते २ असम्बन्धे ३ श्लेषशून्ये काव्ये च।

अश्लीक = त्रि० नास्ति श्रीर्यस्य कप् रस्य लः। श्रीप्रतिकूले श्रीनाशके। “अश्लीकमेतत् साधूनां यत्र जुह्वत्यमी हविः” मनुः।

अश्लील = न० श्रियं लाति गृह्णाति ला–क रस्य लः, श्री + सिध्मादित्वात् ल वा न० त०। १ लज्जादिसम्पादके वाक्ये २ ग्राम्यमाषायाम्। “भास्करालोकनाश्लील परिवादांश्च वर्ज्जयेत्” या० स्मृ० ३ काव्यदोषभेदे न० तच्च त्रिविधं यथा “दुःश्रवं त्रिविघाश्लीलानुचितार्थाप्रयुक्तता” सा० द० अश्लीलत्वं व्रीडाजुगुप्सामङ्गलव्यञ्जकत्वात्त्रिधा यथा “दृप्तारिविजये राजन्! साधनं सुमहत्तव” “प्रससार शनैर्वायुः”। “विनाशे तन्वि! ते सदा”। “अत्र साधनवायुविनाशशब्दा अश्लीलवाचकाः” सा० द०। तत्र साधनशब्दस्य शिश्नस्यापि वाचकतया व्रीडायाः, वायुशब्दस्यापानवायुवाचकतया जुगुप्साया, विनाशशब्दस्य मरणवाचकतयाऽमङ्गलस्य च द्योतकता। यथाक्रमं च प्रकृते हेतुपवनविरहबोधकतायै प्रयुक्ता अपि ते अश्लीलव्यञ्जकत्वाद्दुष्टाः। ४ निन्दाव्यञ्जके वाक्ये च “यमश्रुत्याश्लीला वा गृच्छतीति” ता० ब्रा० “अश्लीला निन्दारूपा वाक्” भा० न श्रियं लाति ला–कं। ५ अश्रीके त्रि०। “यैवैनमसावश्लीलं वाग् वदति” ता० ब्रा० “अश्लीलमश्रीकरम्” भा०।

अश्लेषा = स्त्री न श्लिष्यति यत्रोत्पन्न न शिशुना श्लिष–घञ् न० त०। सप्तविंशतिधा विभक्तराशिचक्रस्य नवमे नक्षत्रे तन्नक्षत्र जातस्य शिशोःपित्रादिभिराषण्मासं दर्शनाभावस्याश्लेषाशान्तिशब्देवक्ष्यमाणस्य सूचकतया तस्या अश्लेषात्वम्। तत्स्वरूपादि निरूपणाय सर्व्वताराणां स्वरूपं, संख्यविशेषः, योग- ताराश्च प्रसङ्गादत्राभिधीयन्ते यथाह श्रीपतिः। “१ तुरगमुखसमृद्धं २ योनिरूपं ३ क्षुराभं ४ शकटनिभमथैणस्योत्तमाङ्गेन ५ तुल्यम्। ६ मणि ७ गृह ८ शर ९ चक्राभानि १० शालोपमं च ११ शयनसदृशमन्यच्चात्र १२ पर्य्यङ्करूपम्। १३ हस्ताकारमजस्रमौक्तिकसमं १४ चान्यत् १५ प्रबालोपमम् धिष्ण्यं तोरणवत् १६ स्थितं १७ बलिनिभं स्यात् कुण्डलाभं १८ परम्। क्रुध्यत्केशरिविक्रमेण सदृशं १९ शय्या समानं २० परम् चान्यद्दन्तिविलासवत् २१ स्थितमतः (अभिजित्) शुङ्गाटकव्यक्ति च। २२ त्रिविक्रमाभञ्च २३ मृदङ्गरूपं २४ वृत्तं ततोऽन्यद्यमलद्वयाभम् २५। २६ पर्य्यङ्कतुल्यं २७ मुरजानुकारमित्येवमश्व्यादिभचक्ररूपम्” अत्राङ्कानुसारेणाश्व्यादीनां रूपाणि ज्ञेयानि। “वह्नित्रि ऋत्विषुगुणेन्दु कृताग्निभूतवाणाग्निनेत्रशरभूकुनगाग्निरामाः। रुद्राब्धिरामशुचिवेदशतद्वियुग्मदन्ता बुधैर्निगदिताः क्रमशोभताराः”। यथा त्रिताराश्विनो भरणी च। षट्ताराः कृत्तिका। पञ्चतारा रोहिणी। त्रितारा मृगशिरा। एकतारा आर्द्रा, चतुस्तारा पुनर्वसुः त्रितारा पुष्या, पञ्चतारा अश्लेषा मधा च त्रितारा पूर्ब्बफल्गुनी द्वितारा उत्तरफल्गुनी पञ्चतारा हस्ता, एकतारा चित्रा, स्वातिश्च सप्ततारा विशाखा, त्रितारा अनुराधा ज्येष्ठा च। एकादशतारा मूला, चतुस्तारा पूर्व्वाषाढा त्रितारा उत्तराषाढा, श्रवणा चतुस्तारा धनिष्ठा शततारा शतभिषा। द्वितारा पूर्व्वभाद्रपदा उत्तरभाद्रपदा च द्वात्रिंशत्तारा रेवती” एषां योगतारा सूर्य्यसि०। “फाल्गुन्योर्भाद्रपदयोस्तथैवाषाढयोर्द्वयोः। विशाखाश्विनसौम्यानां योगतारोत्तरा” स्मृता एषामुक्तनक्षत्राण्णां प्रत्येकं स्वतारासु मुख्या उत्तरा उत्तरदिक्स्था तारा योगतारा। “पश्चिमोत्तरतारा या द्वितीया पश्चिमे स्थिता। हस्तस्य योगतारा सा श्रविष्ठायाश्च पश्चिमा” सू० सि०। हस्तनक्षत्रं पञ्चतारात्मकं हस्तपञ्चाङ्गुलिसन्निवेशाकारं ततो नैरृत्यदिगवस्थिता पश्चिमावस्थितताराया उत्तरदिगाश्रितताराया द्वितीया पूर्व्वोक्तातिरिक्ता पश्चिमे वायव्याश्रिते स्थिता सा हस्तस्य योगतारा ज्ञेया, उत्तरतारासन्ना पश्चिमाश्रिता तारा हस्तस्य योगतारा” धनिष्ठायास्तारासु या पश्चिमदिक्स्था सा तस्या योगतारा इति च रङ्गना०। “ज्येष्ठा श्रवणमैत्राणां वार्हस्पत्यस्य मध्यमा। भरण्याग्नेयपित्याणां रेवत्याश्चैव दक्षिणा” सू० सि० “ज्येष्ठाश्रवणानुराधानां पुष्यस्य च प्रत्येकं तारात्रयात्मकत्वात् मध्यमतारा योग- तारा” रङ्गना०। “रोहिण्यादित्यमूलानां प्राची सार्पस्य चैव हि। तथा प्रत्यवशेषाणां स्थूला स्यात् योगतारका” सू० सि० रोहिणीपुनर्वसुभूलानामश्लेषायाश्च प्रत्येकं स्वतारासु पूर्ब्धदिक्स्था तारा योगतारा। अवशिष्टानां आर्द्राचित्रास्वात्यभिजिच्छतताराणां यथायोग्यं स्वतारासु यात्यन्तं स्थूला सा योगतारा नक्षत्रप्रसङ्गात् ब्रह्मादिनक्षत्राणामपि स्थितिस्थानमुक्तं तत्रैव। “पूर्ब्बस्यां ब्रह्महृदयादंशकैः पञ्चभिः स्थितः। प्रजापतिर्वृषान्तेऽसौ सौम्येऽष्टत्रिशदंशकैः” सू० सि० ब्रह्महृदयस्थानात् पूर्व्वभागे पञ्चभिरंशैः वृषान्तनिकटे एकराशिसप्तविंशत्यंशैः प्रजापतिस्तारात्मको ब्रह्मा क्रान्तिवृत्ते स्थितः। अस्य विक्षेपमाह असाविति। असौ ब्रह्मा सौम्ये उत्तरस्यां अष्टत्रिंशैः स्थित इत्यर्थः रङ्गना०। “अपांवत्सश्च चित्रायाउत्तरेऽशैस्तु पञ्चभिः। वृहत् किञ्चिदतो भागैरापः षड्भिस्तथोत्तरे” सू० सि०। “तिष्यपुनर्वसूद्वन्द्वे पा० सू० व्याख्यायां सरलायामस्माभिर्यत् पुनर्वसोर्द्वितारत्वमुक्तं तन्मनोरमादिमूलतया प्रामादिकमेव। एतच्छास्त्रालोचनेन पुनर्वसुनक्षत्रस्य चतुस्तारात्मकत्वं पुष्यस्थ त्रितारात्मकत्वं तेन बहुत्वे प्राप्ते द्वित्वविधायकं सूत्रं सार्थकमिति द्रष्टव्यम्। “पादः पुनर्व्वमोरन्त्यः पुष्योऽश्लेषा च कर्कट”। ज्योति० नक्षत्राधिपा उक्ताः वृहत्सं०। “अश्वियमदहनकमलजशशिशूलभृददितिजोवफणिपितरः। योन्यर्य्यमदिनकृत्त्वष्टृपवनशक्राग्निमित्राः। शक्रोनिरृतिस्तोयं विश्वविरिञ्ची हरिर्वरुणः। अजपादोहिर्बुध्नः पूषा चेतीश्वरा भानाम्”। “चित्राश्लेषास्वातिविशाखा भरणीपित्र्येशकृत्तिकाः। नातिशस्ताः प्रयाणेषु” ज्यो० त० अस्य क्लीवत्वमपि “अश्लेषवह्नियमपित्र्यविशाखयुक्त पूर्ब्बात्रयं शतभिषा च नवाप्यूडूनि” एतान्यधोमुखगणानि कयितानि नित्यं विद्यार्थभूमिखननेषु च भूषितानि” ज्यो० त०। तथा च नक्षत्रपरत्वे न० तारापरत्वे स्त्रीत्वम्। एवं मूलाश्रवणादीनामपि द्विलिङ्गत्वम्। इयं तीक्ष्णगणः “तीक्ष्णोऽहिरुद्रेन्दुयुक्” ज्यो० त० नास्ति श्लेषो यस्य। २ असंबन्धे त्रि०। श्लेषः काव्ये नानार्थपरता स नास्ति यत्र। ३ श्लेषशून्ये काव्ये न०।

अश्लेषाज = पु० अश्लेषानक्षत्रे जायते जन–ड ६ त०। केतु ग्रहे तस्याश्लेषाजातत्वात्तथात्वं अश्लेषाजातादयीऽप्यत्र।

अश्लेषाशान्ति = स्त्री अश्लेषाजनननिमित्ता शान्तिः शाक० त०। अश्लेषाजनननिमित्तशान्तौ। तत्र अश्लेषाजनने दोष- माह” ज्यो० त०। “अश्विनीमघमूलानां गण्डाआद्यास्त्रि नाडिकाः। अन्त्याः पौष्णोरगेन्द्राणां पञ्चैव यवनाः जगुः” मूलेन्द्रयोर्दिवा गण्डोनिशा च पितृसर्पयोः। सन्ध्याद्वये तथा ज्ञेये रेवतीतुरगर्क्षयोः” सन्ध्यारात्रिदिवाभागे गण्डयोगोद्भवः शिशुः। आत्मानं मातरं तातं वित्तं हन्ति यथाक्रमम्। सर्वेषां गण्डजातानां परित्यागी विधीयते। तातेनादर्शनं वापि यावत् षाण्मासिको भवेत्” ज्यो० त०। त्यागासामर्थ्ये षण्मासपर्य्यन्तं मुखं न पश्येत् शान्त्या सर्वत्र शुभम्। त्रिपञ्चादिघटिकेत्युक्ति र्दोषबाहुल्यार्था वस्तुतः सर्वचरणेष्वेव दोषविशेषः यथाह नारदः। “आद्ये पिता नाशमुपैति मूलपादे द्वितीये जननी तृतीये। धनं चतुर्थेऽस्य शुभोऽस्य शान्त्या सर्वत्र तत्स्यादहिभे विलोमम्”। सन्ध्यादिविशेषोक्तिरधिकदोषार्था। यथाह ज्योतिर्निबन्धः। “मूलाश्विपित्र्य चरणे प्रथमे च नूनं पौष्णोन्द्रयोश्च फणिनश्च तुरीयपादे। मातुः पितुः स्ववपुषोश्च करोति नाशं जातो यदा निशिदिनेऽप्यथ सन्ध्ययोर्वा”। कन्यायां विशेषः विधानपारिजाते। “न बाला हन्ति मूलर्क्षे पितरं मातरं तथा। मूलजा श्वशुरं हन्ति व्यालजा च तदङ्गनाम्। महेन्द्रजाऽग्रजं हन्ति देवरन्तु द्विदेवजा। शान्तिर्वा पुष्कलास्याच्चेत्तर्हि दोषो न कश्चन”। द्विदेवजा अश्विनीजाता तस्याः अश्विनीसुतदेवताकत्वेन तयोश्च द्वित्वात् तथात्वम्। तच्छान्तिश्च “अश्लेषायान्तु जातानां शान्तिं वक्ष्याम्यतः परम् जातस्य द्वादशाहे च शान्तिहोमं समाचरेत्। विभवे पञ्च कुम्भांस्तु द्वयं वा तदश क्तितः” इत्यादिना मानवसंहितोक्ता। सा च विधानपारिजाते अश्लेषाशान्तिविधानप्रकरणे दृश्या। तत्फलं च मन्त्रलिङ्गात् ज्ञेयम् मन्त्रो यथा। “अश्लेषाऋक्षजातस्य मातापित्रोर्धनस्य च। भ्रातृज्ञातिकूलस्थानां दोषं सर्वं व्यपोहतु। योऽसौ वागीश्वरो देवो ह्यधिदेवो वृहस्पतिः। मात्रापित्रोः शिशोश्चैव गण्डदोषं व्यपोहतु। पितरं सर्वभूतानां रक्षन्तु पितरः सदा। सर्पनक्षत्रजातस्य वित्तं ज्ञातिं च बान्धवान्” वि० पा० पुरा०।

***