अव्द = पु० अब्दवत्। वत्सरे।

अब्दप = पु० अब्दपवत् वर्षाधिपे अब्दपशब्दे विवृतिः। अब्दपत्यादयोऽप्यत्र।

अव्य = त्रि० अविभवम् अवि + दिगा० यत्। मेषभवे लोमादौ “तिरः पवित्रं विवारमव्यम्” ऋ० ९, १०९, १६,।

अव्यक्त = पु० वि + अन्ज–क्त न० त०। १ विष्णौ, २ कामे, ३ शिवे, सांख्यमते सर्व्वकारणे, ४ प्रधाने, रूपाद्यहीनतया चक्षुराद्यगोचरत्वात्तथात्वम्, वेदान्तमते नामरूपाभ्यामव्याकृते ५ अज्ञाने ६ सूक्ष्म शरीरे ७ सुषुप्त्यवस्थायां च शब्दप्रवृत्तिनिमित्तैर्जातिगुणादिभिर्वर्ज्जिते निराकारे ८ ब्रह्मणि न०। ९ अस्पष्टे वस्तुमात्रे त्रि०। “हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम्। सावयवं परतन्त्रं व्यक्तं विवरीतमव्यक्तम्” सा० का०। हेतुमत्त्वादिभिर्व्यक्तधर्म्मैर्विरहितमव्यक्तम्। “अव्यक्तं त्रिगुणाल्लिङ्गात्” सा० सू०। “तद्विपरीतः श्रेयान् व्यक्ताव्यक्तज्ञ विज्ञानात्” सा० का०। “महत्तत्वं सुखदुःखमोहात्मकद्रव्योपादानं सुखदुःखमोहात्मकत्वे सति कार्य्यत्वात् तथाभूतघटादिवत्। महदादिकं स्वोपहितत्रिगुणात्मकोपादानं कार्य्यत्वात् घटवत् इत्थमव्यक्तानुमानम् दर्शितम्” सा० प्र० भा०। “बुद्धेरिवाव्यक्तमुदाहरन्ति” रघुः। वेदान्तिभिः नामरूपाभ्यामव्याकृतमज्ञानमेव मूलकारणतया अव्यक्ततया च स्वीकृतं तत्रैव प्रकृतिघर्म्माणां सर्वेषामन्तर्भावात् “अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत!। अव्यक्तनिधनान्येव तत्र का परिदेवनेति” गीतोक्तेरपि तत्रैव तात्पर्य्यम् तद्द्वारैव ब्रह्मणः जगज्जन्मादिहेतुत्वम् “व्यक्तकारणमव्यक्तं नित्यं सदसदात्मकम्” मनूक्तावपि तद्रूपमज्ञानमेवाव्यक्तशब्देनाभिधीयते तस्य च प्रवाहरूपेणावस्थितत्वात् नित्यत्वम् “महतः परमव्यक्तमव्यक्तात् पुरुषः परः। पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गतिः” श्रुतौ तु अव्यक्तशब्देन सूक्ष्मशरीरमिति शा० सूत्रे भाष्ये च व्यवस्थापितम् यथा “आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्त गृहीतेर्दर्शयति च” सू०। “आनुमानिकमपि अनुमाननिरूपितं प्रधानमेवैकेषां शाखिनां शब्दवदुपलभ्यते। काठके हि पठ्यते “महतः परमव्यक्तमव्यक्तात् पुरुषः परः” इति तत्र य एव यन्नामानो यत्क्रमकाश्च महदव्यक्तपुरुषाः स्मृतिप्रसिद्धास्त एवेह प्रत्यभिज्ञायन्ते तत्राव्यक्तमिति स्मृतिप्रसिद्धेः शब्दादिहीनत्वान्न व्यक्तमव्यक्तमिति व्युत्पत्तिसम्मवात् स्मृति प्रसिद्धं प्रधानमभिधीयते अतस्तस्य शब्दवत्त्वादशब्दत्वमनुपपन्नं तदेव जगतः कारणं श्रुतिस्मृतिन्यायप्रसिद्धिभ्य इति चेन्नैतदेवम् नह्येतत् काठकवाक्यं स्मृतिप्रसिद्धयोर्महदव्यक्तयोरस्तित्वपरम् नह्यत्र यादृशं स्मृतिप्रसिद्धं स्वतन्त्रं कारणं त्रिगुणं प्रधानं तादृशम्प्रत्यभिज्ञायते। शब्दमात्रं ह्यत्राव्यक्तमिति प्तत्यभिज्ञायते स च शब्दो न व्यक्तमव्यक्तमिति योगिकत्वादन्यस्मिन्नपि सूक्ष्मे दुर्लक्ष्ये प्रयुज्यते न चायं कस्मिं श्चिद्रूढः। या तु प्रधानवादिनां रूढिः सा तेषामेव पारिभाषिकी सती न वेदार्थनिरूपणे कारणभावं प्रतिपद्यते। नच क्रमसामान्यात् समानार्थप्रतिपत्तिर्भवति तद्रूपप्रत्यभिज्ञाने। न हाश्वस्थामेगां पश्यन्नश्वोऽयमित्यमूढोऽध्यवस्यति। प्रकरणनिरूपणाच्चात्र न परकल्पितं प्रधानं प्रतीयते शरीर रूपकविन्यस्तगृहीतेः। शरीरं ह्यत्र रथरूपकविन्यस्तमव्यक्तशब्देन परिगृह्यते कुतः? प्रकरणात् परिशेषतश्च। तथाहि अनन्तरातीतो ग्रन्थः आत्मशरीरादीनां रथिरथादिरूपककॢप्तिं दर्शयति। “आत्मानं रथिनं विद्धि शरीरं रथमेव तु। बुद्धिन्तु सारथिं विद्धि मनः प्रग्रहमेव च। इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान्। आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिण” इति शेषेच “इन्द्रियादिभिरसंयतैः संसारमधिगच्छति। संयतैस्त्वध्वनः पारन्तद्विष्णोः परमं पदममाप्नोतीति” दर्शयित्वाकिं तदध्वनः पारम्परम्पदमित्यस्यामाकाङ्क्षायान्तेभ्यएव प्रकृतेभ्य इन्द्रियादिभ्यः परत्वेन परमात्मानमध्वनः पारं विष्णोः परम्पदं दर्शयति। “इन्द्रियेभ्यः पराह्यर्था अर्थेभ्यश्च परं मनः। मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान् परः। महतः परमव्यक्तमव्यक्तात् पुरुषः परः। पुरुषान्न परं किञ्चित् सा काष्ठा सा परागतिरिति”। तत्र यएवेन्द्रियादयः पूर्व्वस्यां रूपककल्पनायामश्वादिभावेन प्रकृताः त एवेह परिगृह्यन्ते प्रकृतप्रक्रियाऽपरिहाराय। तत्रेन्द्रियमनोबुद्धयस्तावत् पूर्व्वत्रेह च समानशब्दा एव अर्थास्तु ये शब्दादयो विषया इन्द्रियहयगोचरत्वेन निर्द्दिष्टास्तेषाञ्चेन्द्रियेभ्यः परत्वम् इन्द्रियाणाञ्च ग्रहत्वं विषयाणामतिग्रहत्वमिति श्रुतिप्रसिद्धेः। विषयेभ्यश्च मनसः परत्वं मनोमूलत्वाद्विषयेन्द्रियव्यवहारस्य। मनसस्तु परा बुद्धिः, बुद्धिर्ह्यारुह्य भोग्यजातं भोक्तारमुपसर्पति। बुद्धेरात्मा महान् परः यः सः आत्मानं विद्धीति रथित्वेनोपक्षिप्तः कुतः? आत्मशब्दात्। भोक्तुश्च भोगोपकरणात् परत्वोपपत्तेः। महत्त्वञ्चास्य स्वामित्वादुपपन्नम्”। “तदेवं पूर्ब्बावरालोचनायां नास्त्यत्र परकल्पितस्य प्रधानस्यावकाशः” भा०। “सूक्ष्मन्तु तदर्हत्वात्” सू० “उक्तमेततप्रकरणपरिशेषाभ्यां शरीरमव्यक्तशब्दं न प्रघानमिति। इदमिदानीमाशङ्क्यते कथमव्यक्तशब्दार्हत्वं शरीरस्य, यावता स्थूलत्वात् स्पष्टतरमिदं शरीरं व्यक्तशब्दार्हमस्पष्टवचनस्त्वव्यक्तशब्द इति अतौत्तरमुच्यते “सूक्ष्मन्त्विह” कारणा- त्मना शरीरं विवक्ष्यते सूक्ष्मस्याव्यक्तशब्दार्हत्वात्। यद्यपि स्थूलमिदं शरीरं न स्वयमव्यक्तशब्दमर्हति तथापि तस्य त्वारम्भकं भूतसूक्ष्ममव्यक्तशब्दमर्हति प्रकृतिशब्दश्च विकारे दृष्टः यथा “गोभिःश्रीणीत मत्सरसिति”। तथाच श्रुतिः “तद्धेदं तर्ह्यव्याकृतमासीदिति” इदमेव व्याकृतं नामरूपविभिन्नं जगत्प्रागवस्थायां परित्यक्तव्याकृतनामरूपं वीजशक्त्यवस्थमव्यक्तशब्दयोग्यन्दर्शयति” भा०। परमब्रह्मपरत्वे “ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः” “क्लेशोऽधिकतरस्तेवामव्यक्तासक्तचेतसाम्” इति च गीता। “योऽसावतीन्द्रियग्राह्यः सूक्ष्योऽव्यक्तः सनातनः” मनुः विष्णोतु “अनेकमूर्त्तिरव्यक्तः शतमूर्त्तिः सनातनः” इति विष्णुस०। अप्रकाशितार्थे “तमशेषमस्याव्यक्तव्यवहारसूचितमर्थं मगसा जग्राह” काद० “ततः स्वयम्भूर्भगवानव्यक्तं व्यञ्जयन्निदम्” मनुः संख्याविशेषेणानवगते गणितशास्त्रोक्ते १० राशिभेदे तच्च वीजनाम्ना व्यवह्रियते “उत्पादकं यत् प्रवदन्ति बुद्धेरधिष्ठितं सत् पुरुषेण सांख्याः। व्यक्तस्य कृत्स्नस्य तदेकवीज मव्यक्तमीशं गणितञ्च वन्दे। पूर्ब्धंप्रोक्तं व्यक्तमव्यक्तवीज प्रायप्रश्नानो विनाऽव्यक्तयुक्त्या” इत्युपक्रम्य “यावत्तावत्कालकोनीलकोऽन्यः वर्ण्णः पीतो लोहितश्चैतदाद्याः। अव्यक्तानां कल्पिता मानसंज्ञास्तत्संख्यानं कर्त्तुमाचार्य्यवर्य्यैः” वीजग० तच्च चतुर्विधं यथोक्तम् तत्रैव “यावत्तात्कल्प्यमव्यक्तराशेर्मानं तस्मिन् कुर्व्वतो द्दिष्टमेव। तुल्यौ पक्षौ साधनीयौ प्रयत्नात्त्यक्त्वा क्षिप्त्वा वापि सङ्गुण्य भक्त्वा। एकाऽव्यक्तं शोधयेदन्यपक्षाद्रूपाण्यन्यस्येतरस्माच्च पक्षात्। शेषाव्यक्तेनोद्धरेद्रूपशेषं व्यक्तं मानं जायतेऽव्यक्तराशेः। अव्यक्तानां द्व्यादिकानामपीह यावत्तावद्व्यादिनिघ्नं हृतं वा। युक्तोनं वा कल्पयेदात्मबुद्ध्या मानं क्कापि व्यक्तसेवं विदित्वा। तत्र प्रथममेकवर्ण्णसमीकरणं द्वितीयमनेकवर्ण्णसमीकरणं वीजम्। यत्र वर्ण्णस्य द्वयोर्वा बहूनां वा वर्ग्गादिगतानां समोकरणं तन्मध्यमाहरणम्। यत्र भावितस्य तद्धावितमिति वीजचतुष्टयं वदन्त्याचार्याः। तत्र प्रथमं तावदुच्यते पृच्छकेन पृष्टे सत्युदाहरणे योऽव्यक्तराशिस्तस्य मानं याव त्तावदेकं द्व्यादिं वा प्रकल्प्य तस्मिन्नव्यक्तराशौ उद्देशकालापवत्सर्व्वङ्गुणनभजनत्रैराशिकपञ्चराशिकश्रेढीफलक्षेत्रव्यवहारादिगणनेन कार्य्यम्। तथा कुर्व्वता द्वौ पक्षौ प्रयत्नेन समौ कार्य्यौ। यद्यालापे समौ पक्षौ न स्तः। तदैकतरे न्यूने पक्षे किञ्चित्प्रक्षिप्य ततः अघिकपक्षात्तावदेव विशोध्य वा न्यूनं पक्षं केनचित्सङ्गुण्य वाधिकं पक्षं तावतैव भक्त्वा समौ कार्य्यौ। ततस्तयोरेकस्य पक्षस्याव्यक्त मन्यपक्षस्याव्यक्ताच्छोद्ध्यम् अव्यक्तवर्गादिकमपि। अन्यपक्षरूपाणि इतरपक्षरूपेभ्यः शोध्यानि। यदि करण्यः सन्ति तदा ताअपि उक्तप्रकारेण शोध्याः। ततोऽव्यक्तराशिशेषेण रूप शेषे भक्ते यल्लभ्यते तदेकस्याव्यक्तस्य मान व्यक्त जायते। तेन कल्पितोऽव्यक्तराशिरुत्याप्यः।। यत्रोदाहरणे द्व्याद योऽव्यक्तराशयोभवन्ति तदा तस्यैकं यावत्तावत्प्रकल्प्य अन्येषां द्व्यादिभिरिष्टैर्गुणितं भक्तं वा इष्टैः रूपैरूनं युतं वा यावत्तावदेव प्रकल्प्यम्।। अथ वा एकस्य यावत्तावदन्येषां व्यक्तान्येव मानानि प्रकल्प्यानि। सर्वं विदित्वेति यथा क्रिया निर्वहति तथा बुद्धिमता ज्ञात्वा शेषाणामव्यक्तानि व्यक्तानि वा कल्प्यानीत्यर्थः। उदाहरणम्। एकस्य रूपं त्रिशती षडश्वा अश्वा दशान्यस्य तु तुल्यमूल्याः। ऋणं तथा रूपशतं च तस्य तौ तुल्यवित्तौ च किमश्वमूल्यम्। यदा द्यवित्तस्य दलं द्वियुक्तं तत्तुल्यवित्तोयदि वा द्वितीयः। आद्योधनेन त्रिगुणोऽन्यतोवा पृथक् पृथङ्मे वद वाजिमौल्यम्। अत्राश्वमौल्यमज्ञातं तस्य मानं यावत्तावदेकं प्रकल्पितं या १ तत्र त्रैराशिकं यद्य्येकस्य यावत्ता वन्मूल्यं तदा षण्णां किमिति न्यासः। १। या १। ६। फलभिच्छागुणं प्रमाणभक्तं लब्धं षण्णामश्वानाम्मूल्यं या ६ अत्र रूपशतत्रये प्रक्षिप्ते जातमाद्यस्य धनं या ६ रू ३०० एवं दशानां मौल्यः या १० अत्र रूपशते चर्णगते प्रक्षिप्ते जातं द्वितीयस्य धनं या १० रू १०० एतौ समधनाविति पक्षौ स्वत एव समौ जातौ समशोधनार्थं न्यासः या ६ रू ३०० या १० रू १०० अथ एकाव्यक्तं शोधयेदन्यपक्षादिति आद्यपक्षाव्यक्तेऽन्यपक्षाव्यक्ताच्छेधिते शेषं या ४। द्वितीयपक्षरूपेषु आद्यपक्षरूपेभ्यः शोधितेषु शेषं रू ४०० अव्यक्तराशिशेषेण या ४ रूपशेषे रू ४०० उद्धृते लब्धमेकस्य यावत्तावतोमानं व्यक्तं १०० यद्येकाश्वस्वेदं मौल्यं तदा षणां किमिति त्रैराशिकेन लब्धे षण्णां मौल्ये ६०० रूपकशतत्रययुते ९०० जातमाद्यस्य धनम्। एवं द्वितीयस्यापि ९००” वीजग० एवमनेकवर्गादीनामप्युदाहरणादीनि तत्रैव दृश्यानि।

अव्यक्तमूलप्रभव = पु० अव्यक्तं प्रधानमविद्या वा म्लम् प्रभवन्यस्मात् प्रभवः अपादाने अप् प्रभवोयस्य। संसारवृक्षे।

अव्यक्तराग = पु० न व्यक्तोऽल्पव्यक्तोरागोऽरुणिमा। १ ईषद्रक्ते अरुणे वर्ण्णे २ तद्वति त्रि०।

अव्यक्तलिङ्ग = न० अव्यक्तस्य लिङ्गमनुमापकम्। सांख्यमत सिद्धे १ महत्तत्त्वादौ। अव्यक्तं लिङ्गमस्य। २ अस्पष्टचिह्ने रोगादौ त्रि०। न व्यक्तं दम्भाभावेन गुप्तं लिङ्गमस्य। गुप्ताश्रमयुक्ते ३ संन्यासिनि पु०।

अव्यङ्ग = स्त्री अवेरङ्गं शृङ्गमिवाङ्गमस्याः। १ शूकशिम्ब्याम्। न विकलमङ्गमस्य ६ ब०। विकलाङ्गभिन्ने पूर्णे त्रि०।

अव्यङ्गाङ्गी = स्त्री अव्यङ्गमविकलं सम्पूर्ण्णमङ्गं यस्याः ङीप्। सम्पूर्ण्णाङ्गयुक्तायां स्त्रियाम् “अव्यङ्गाङ्गीं सौम्यनाम्नीं हंसवारणगामिनीम्”। मनुः।

अव्यञ्जन = पु० नास्ति व्यञ्जनं शुभलक्षणं शृङ्गे यस्य। १ शृङ्गहीनपशौ, २ सुलक्षणशून्ये, ३ चिह्नशून्ये च त्रि०।

अव्यण्डा = स्त्री न विगतमण्डं वीजमस्याः। शूकशिम्ब्याम्।

अव्यतिकर = पु० अभावे न० त०। १ संसर्गाभावे न० ब०। २ संसर्गशून्ये त्रि०।

अव्यतिकीर्ण्ण = त्रि० वि + अति + कॄ–क्त न० त०। असङ्कीर्ण्णे “धाराः प्रसादयितुमव्यतिकीर्ण्णरूपाः” माघः।

अव्यथ = पु० न व्यर्थते पद्भ्यां न सञ्चलति व्यथमयचलनयोः अच्। १ सर्पे। २ व्यथाशून्यें त्रि०। नास्ति व्यथा यस्याः सेवनेन न० ब०। ३ हरितक्याम् ४ शुण्ठ्याञ्च स्त्री।

अव्यथय = पु० न व्यथयति गन्तारमक्लेशेन गन्तव्यस्थाननयनात् व्यथ–णिच्–बा० श घटा० ह्रस्वः न० त०। अश्वे निरु०।

अव्यथा = स्त्री अभावे न० त०। व्यथाभावे।

अव्यथि = त्रि० व्यथ–इन् न० त०। व्यथाशून्ये अक्लिष्टे “समुद्रमव्यथिर्जगन्वान्” ऋ० १, ११७, १५,।

अव्यथिन् = त्रि० न व्यथते व्यथ–इनि न० त०। निर्भये २ व्यथाशून्ये च।

अव्यथिष = न + व्यथ–टिषच्। १ सूर्य्ये २ समुद्रे च ३ धरायां ४ रात्रौ च स्त्री टित्त्वात् ङीप्।

अव्यथ्य = त्रि० न + व्यथ–नि० कर्त्तरि यत्। व्यथाशून्ये।

अव्यपदेश्य = त्रि० न व्यपदिश्यते अभिलापवाक्येन वि + अप + दिश–ण्यत् न० त०। १ कथयितुमशक्ये न्यायमते निर्विकल्पके २ ज्ञाने न० तद्धि अतीन्द्रियत्वेनं अनुव्यवसायाविषय तथा अभिलपितुं न शक्यते। “इन्द्रियार्थसन्निकर्योत्पन्नं ज्ञानमपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम्” गौ० सू०। जात्यादिशून्यतया १ निर्द्देश्ये २ ब्रह्मणि न०।

अव्यपेक्षा = स्त्री विशेषेणापेक्षा व्यपेक्षा अभावे न० त० १ विशेषेणापेक्षाभावे समर्थसूत्रभाष्योक्ते अवयवार्थानपेक्षया समुदायस्य विशेष्यविशेषणभावानगाह्येकोपस्थिति जनकत्वरूपे २ एकार्थीभावे च। “समर्थः पदविधिः” पा० सूत्रे सामर्थ्यं द्विविधं व्यपेक्षा अव्यपेक्षा च प्रपञ्चितमस्माभिः सरलायाम्। तत्र स्वार्थपर्य्यवसायिपदानामाकाङ्क्षादिवशात् यः परस्परं सम्बन्धः सा व्यपेक्षा। राज्ञः पुरुष इत्यादौ वाक्ये सत्यामाकाङ्क्षायां यो यो यस्मिन् सन्निहितो योग्यश्च स तेन तेन सम्बध्यते यथा राज्ञः पुरुषोऽश्वश्च राज्ञो देवदत्तस्य च पुरुषः ऋद्धस्य राज्ञोऽश्वो धनञ्चेत्यादि वृत्तौ तु नैवम् वृत्तीनामेकार्थीभावात्। एकार्थोभावश्च विशेष्यविशेषणभावावगाह्येकोप स्थितिजनकत्वम्। तथाच राजपुरुषादिशब्देन विशिष्टैकार्थबोधकतया न तदैकदेशे ऋद्धादेरन्वयः पुरुषांशे विशेषणतयोपस्थितस्य च नाश्वादिसम्बन्धिता राजादीनाम्। जनितान्वयाच्च निराकाङ्क्षतया न देवदत्तादेः स्वामितया पुरुषादावन्वय इति द्रष्टव्यम्। देवदत्तस्य गुरुकुलमित्यादौ देवदत्तादेस्तु प्रधानीभूतकुलादिनैवान्वयः सम्बन्धस्तूपस्थितगुरुद्वारक एव षष्ठ्यर्थः यथोक्तं हरिणा “समुदायेन सम्बन्धो येषां गुरुकुलादिना। संस्पृशावयवास्ते तु युज्यन्ते तद्वता सहेति”। यद्वा सम्बन्धिशब्दार्थस्य पदार्थैकदेशत्वेऽपि भवत्येव केषाञ्चित् सम्बन्धान्वयः तदुक्तं तेनैव” सम्बन्धिशब्दःसापेक्षोनित्यं सर्व्वः समस्यते। वाक्यवत् सा व्यपेक्षापि वृत्तावपि न हीयते”। अतएव वार्त्तिककृता “सविशेषणानां वृत्तिर्न्न वृत्तस्य वा विशेषणं न प्रयुज्यत इति वक्तव्यमिति” सामान्यतो वृत्तिमतो विशेषणस्य स्वातन्त्र्येण प्रयोगाभावममिवायम् “अगुरुकुलगुरुपुत्रादीनां वक्तव्यम्” इत्यनेन गुरुकुलगुरुपुत्रादीनां विशेषणत्वेऽपि पृथक्प्रयीगाय नञा पर्य्युदासः कृतः। समानाधिकरणविशेषणस्य तु “समानाधिकरणमसमर्थवद्भवती” त्यनेन सर्व्वथा स्वातन्त्र्येण सामर्थ्याभावात् प्रयोगाभावो भङ्ग्याऽभिहितः। एतन्मूलकमेव प्राचां गाथा “सापेक्षे प्रत्ययो न स्यात् समासो वा कथञ्चन। सापेक्षं तद्विजानीयादसमस्तविशेषणम्। प्रतियोगिपदादन्यत् यदन्यत् कारकादपि। वृत्तिशब्दैकदेशस्य सम्बन्धस्तेन नेष्यते” इति अत्रायं विशेषः प्रधानस्य सापेक्षत्वेऽप्रि समास इत्युक्तेः प्रधानस्य वृत्त्युपस्थाप्यविशेष्यस्य राजपुरुषादेः सुन्दरादिविशेषणापेक्षयामपि समासः। समासे चावयवशक्त्यैव तत्तदर्थपदार्थोपस्थित्या विशेष्यविशेषणभावाद्यभ्युपगमे सापेक्षत्वादौ समासाभावादिकं वाचनिकं कल्प्यम् तथान्याप्यधिककल्पना स्यादतः समुदायशक्तिकल्पनम् यथोक्तं हरिणा “बहूनां वृत्तिघर्म्भाणां वचनैरेव साधने। स्यान्महद्गौरवं तस्मादेकार्थीभाव आश्रितः। चकारादिनिषेधोऽथ बहुव्युत्त्तिभञ्जनम्। कर्त्तव्यं ते न्यायसिद्धं त्वस्माकं तदिति स्थितमिति” तथाहि द्वन्द्वादिविग्रहवाक्ये चकारादि प्रयुज्यते समस्ते तु न। वचनैरेव तन्निषेधः कल्पनीयः। समुदायशक्तिपक्षे तु उक्तार्थानामप्रयोग इत्युक्तन्यायादेव सिद्धम्। नामार्थयोरभेदान्वयः कॢप्तः सच राजपदादुपस्थापितराजादेः पुरुषे स्वस्वाभिभावसम्बन्धेनान्वये परित्यक्तः स्यात्। सम्बन्धलक्षणायान्तु किमपराद्धम् विशिष्टलक्षणया। प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थः प्रधानमिति नियमश्च कॢप्तः सच प्राप्तानन्दादौ भज्येत आनन्दकर्त्तृकप्राप्तिकर्म्मेत्यर्थबोधस्योभयसम्मतत्वेन कर्त्तृविहितक्तान्तार्थस्य कर्त्तुर्विशेष्यतौचित्येन प्रकृते तद्वैपरीत्यात् आनन्दसम्बन्धादिलक्षणास्वीकारे समुदायशक्तिपक्षे एव प्रवेशः आ तथा प्राप्त आनन्दोयमिति विग्रहे आनन्दादौ अत्यन्तादिविशेषणयोगवत् समासे तद्वारणाय वृत्तस्य न न विशेषणयोग इति वाचनिकत्वकल्पनाऽधिका एतन्मते न्यायसिद्धा इत्यादिबहुविप्लवापत्तिरतः समुदाये शक्तिः” नास्ति व्यपेक्षा यस्य। ३ अनपेक्षे त्रि०।

अव्यभिचरित = त्रि० वि + अभि + चर–क्त न० त०। १ व्यभिचारशून्ये हेतौ “का व्याप्तिः? न तावदभिचरितत्वं तद्धि न साध्याभाववदवृत्तित्वम्” अनुमानचिन्ता० व्यभिचारश्च द्विविधः अन्वयव्यभिचारोव्यतिरेकव्यभिचारश्चेति भेदात् अन्वयव्यभिचारोऽपि द्विधा। साध्याभावद्वृत्तित्वं स्वसमानाधिकरणाभावप्रतियोगिसामानाधिकरण्यं चेति भेदात् यथा धूमवान् वह्नेरित्यादौ धूमाभाववति तप्तायः पिण्डेवह्नेर्वृत्तिमत्त्वात्, वह्न्यधिकरणे तप्तायः पिण्डे धूमाभावस्य विद्यमान तया तत्प्रतियोगिना सह समनाधिकरणत्वात् वह्नौ उभयविघव्यमिचारः। साध्याभावव्यापकीभूताभावाप्रतियोगित्वं व्यतिरेकव्यभिचारः यथा धूमवान् वह्नेरित्यादौ धूमाभावरूपसाध्याभावस्य तप्तायःपिण्डे सत्त्वेन वह्न्यभावस्य च तत्रासत्त्वात् वह्नेर्न साध्याभावव्यापकीभूताभाव प्रतियोगित्वम्। इति तत्र उभयविधव्यभिचारः। २ अबाषितार्थे च “अव्यभिचरितेभ्यः प्रमाणेभ्यः” शा० भा०।

अव्यभिचारिन् = त्रि० वि + अभि + चर–णिनि न० त०। केनापि प्रतिकूलहेतुना १ निवारयितुमशक्ये। न्यायमते २ साध्यसाधकव्यप्तिविशिष्टे हेतौ च। ३ अबाधितविषये च “इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारीति गौ० सू०

अव्यभिचार = पु० अभावे न० त०। १ व्यभिचाराभावे २ नैयत्यरूपे अव्यभिचरितशब्दे विवृतिः।

अव्यय = पु० न० वि + इण्–अच् न० त०। सर्वासु विभक्तिषु सर्व्ववचनेषु च एकरूपे १ शब्दवृत्तिधम्म विशेषे, यथास्वरादयोव्ययाः सर्व्वत्रैकरूपाः २ शिवे ३ विष्णौ च पु०। आद्यन्तरहिते ४ विकारशून्ये त्रि० ५ परब्रह्मणि न०। “सदृशं त्रिषु लिङ्गेषु सर्व्वासु च विभक्तिषु। वचनेषु च सर्व्वेषु यन्न व्येति तदव्ययमिति” श्रुतिः। प्रवाहरूपेण ६ सर्व्वदास्थिते च “अश्वत्थं प्राहुरव्ययम्” गीता “मनसावय वैः सूक्ष्मं सर्वभूतकृदव्ययम्” सूक्ष्माभ्यो मूर्त्तिमात्राभ्यः संभवत्यव्ययाद्व्ययम्” मनुः ७ अव्ययफलदे च “भूराद्या स्तिस्र एवैता महाव्याहृतयोऽव्ययाः। छन्दोग० “अव्यया अव्ययफलदा मोक्षदा” इति आ० त० रघु०। “अव्ययः पुरुषः साक्षी” विष्णुस०।

अव्ययात्मन् = त्रि० अब्यय आत्मा स्वभावो यस्य। अविनश्वरस्वभावे।

अव्ययीभाव = पु० अनव्ययमव्ययं भवत्यनेन अव्यय + च्वि–भू करणे घञ्। व्याकरणसिद्धे समासविशेषे। तत्र हि उपकुम्भमित्यादौ अनव्ययस्यापि कुम्भादिपदस्याव्ययत्वम् “अव्ययीभावश्चेति” पा० सूत्रे तथामिधानात्। “द्वन्द्वोद्विगुरपि चाहं नित्यं मद्दगृहेऽव्ययीभावः। तत् पुरुष! कर्म्मधारय येनाहं स्यां बहुव्रीहिः” उद्भटः।

अव्यर्थ = त्रि० न व्यर्थः। १ सफले २ सार्थके च।

अव्यलीक = त्रि० विरोधे न० त०। १ प्रिये सत्ये च “इत्थं गिरः प्रियतमा इव सोऽव्यलीकाः शुश्राव सूततनयस्य तदाऽब्यलीकाः” माघः।

अव्यवधान = न० अभावे न० ब०। १ व्यवधानाभावे नैकट्ये “यत् पदार्थस्य यत् पदार्थेनान्वयोऽपेक्षितस्तयोरव्यवधाने नोपस्थितिः कारणम्” आसत्तौ मुक्ता०। न० ब०। २ व्यवधानशून्ये अव्यवधानञ्च द्विविधं देशकृतं कालकृतञ्च। पूर्व्वोत्तरक्षणादौ कालिकं द्रव्यान्तरेणानावरणे दैशिकम्।

अव्यवसाय = पु० व्यवसायः निश्चयौद्यमश्च अभावे न० त०। १ निश्चयाभावे २ उद्यमाभावे च। न० ब०। ३ व्यवसायशून्येत्रि०।

अव्यवसायिन् = त्रि० न व्यवस्यति वि + अव–सो–णिनि न० त०। १ उद्यमाभाववति अनुद्यते २ निश्चयाभाववति निश्चयशून्ये। “बुद्धयोऽव्यवसायिनाम्” गीता।

अव्यवस्था = स्त्री वि + अव + स्था–अङ् अभावे विरोधे वा न० त०। “इदं कर्त्तव्यमिदं नेति” १ नियमाभावे, २ शास्त्रादिविरु- द्धायां व्यवस्थायाम् अविधौ च। “किमव्यवस्थाञ्चलितोऽपि केशवः” माघः। न० ब०। ३ मर्य्यादाशून्ये ४ अविहिते ५ स्थितिरहिते च ले च त्रि०। “स्थलारविन्द्रश्रियमव्यवस्थामिति” कुमारः “अव्यवस्थां सञ्चारिणीम्” मल्लि०।

अव्यवस्थित = त्रि० वि + अव–स्था + क्त न० त०। १ शास्त्रादिमर्य्यादारहिते २ अनियतरूपे “अव्यवस्थितचित्तस्य प्रसादोऽपि भयङ्करः” नीति० ३ चञ्चले च।

अव्यवहार्य्य = त्रि० वि + अव + हृ–ण्यत् न० त०। शयनासनभोजनादौ एकत्रावस्थानायोग्ये पतितादौ “कामतोऽव्यवहार्य्यस्तु वचनादिह जायते” स्मृतिः। अव्यवहार्य्यास्तु पातित्यहेतुकर्म्मकारिणः स्मृतावुक्तावेद्यास्तेषां संसर्गविशेषोऽपिनिषिद्धः यथा “याजनं योनिसम्बन्धं स्वाध्यायं सहभोजनम्। कृत्वा सद्यः पतन्त्येते पतितेन न संशयः” देवलः “शरणागतबालस्त्रीहिंसकान् संवसेन्न तु। चीर्ण्णव्रतानपि सदा कृतघ्नसहितानपि” या० स्मृ०। स्त्रीघातकस्याव्यवहार्य्यत्वञ्च हीनवर्ण्णोपभुक्ताव्यतिरिक्तविषयम् “हीनवर्ण्णोपभुक्ता या त्याज्या बध्याऽपि वा भवेत्” वृह० स्मृतौ तस्या बध्यत्वोक्तेः अत्र कृतप्रायश्चित्तानामपि अव्यवहार्य्यतोक्तेः अकृतप्रायश्चित्तानां सुतरां तथात्वम् तच्च शङ्कापूर्ब्धं प्रा० त० रघुनन्दनेन समर्थितं यथा। “पापाभावे कथमव्यवहार्य्यता” इति चेत् या० स्मृतौ वचनादिह जायते इत्युक्तेस्तथात्वम्। तथाच किमिव वचनं न कुर्य्यात् नास्ति वचनस्यातिभारः तथाहि पापस्य द्वे शक्ती नरकोत्पादिका व्यवहारविरोधिका च। तत्रैकतरशक्तिविनाशेऽपि व्यवहारविरोधिका शक्तिरस्त्येवेति यथोक्तमापस्तम्बेन “नास्यास्मिन् लोके प्रत्यासत्तिर्विद्यते कल्मषन्तु विहन्यते” इति प्रत्यासत्तिर्भोजनादौ सान्निध्यम्” मिताक्षरायान्तु कामतो व्यवहार्य्य इत्येव पाठः तथैव तेन व्याख्यात च “प्रायश्चित्तैरपैत्येनो यदज्ञानकृतं भवेत्। कामतो व्यवहार्य्यस्तु वचनादिह जायते” या० स्मृ०। “प्रायश्चित्तैः वक्ष्यमाणैरज्ञानाद्यदेनः पापं कृतं तदपैति अपगच्छति न कामतः कृतम्” किन्तु तत्र प्रायश्चित्तविधायकवचनबलादिह लोके व्यवहार्य्यो जायते इति”–समर्थितश्चायमर्थ आशङ्कापूर्ब्धकं तत्रैव यथा “ननु कामकृते प्रायश्चित्ताभावात् कथं व्यवहार्य्यत्वम्? तदभावश्च “अनभिसन्धिकृतेऽपराधे प्रायश्चित्तमिति” वसिष्ठवचनात्, “इयं विशुद्धि रुदिता प्रमाप्याकामतो द्विजम्। कामतो ब्राह्मणबधे निष्कृतिर्न विधीयते” इति मनुवचनाच्चावगम्यते। नैतत्। “यः कामतो महापापं नरः कुर्य्यात् कथञ्चन। न तस्य निष्कृतिर्दृष्टा भृग्वग्निपतनादृते” इति। तथा “विहितं यदकामानां कामात्तद्द्विगुणम्भवेदिति” च कामकृतेऽपि प्रायश्चित्तदर्शनात्। यत्तु वशिष्ठवचनम् तस्याप्यकामकृतेऽपराधे प्रायश्चित्तं श्रुद्धिकरमित्यभिप्रायः, न पुनः कामकृते प्रायश्चित्ताभाव इति। यत्तु मनुवचनम् “इयं विशुद्धिरुदितेत्यादि” तदपीयमिति सर्वनामपरामृष्टद्वादशबार्षिकव्रतचर्य्याया एव “कामतो ब्राह्मणबधे निष्कृतिर्न विरधीयते” इत्यनेन प्रतिषेधो, न पुनः प्रायश्चित्तमात्रस्य, मरणान्तिकादेः प्रायश्चित्तस्य दर्शनात्। ननु यदि कामकृतेऽपि प्रायश्चित्तमस्ति तर्हि पापक्षयोऽपि कस्मान्न स्यादविशेषात्? यदि पापक्षयोऽपि नास्ति तर्हि व्यवहार्यतापि कथम्भवति? उच्यते उभयत्र प्रायश्चित्ताविशेषः शास्त्रतोऽवगम्यते। अज्ञानकृते सर्व्वत्र पापक्षयः यत्र तु “व्रह्महासुरापगुरुतल्पगमातृपितृयोनिसम्बन्धावगमस्तननास्तिकनिन्दित कर्म्मा भ्यासिपतितात्याग्यपतितत्यागिनः पतिताः पातकसंयोजकाश्चेति” गौतमोक्तं महापातकादौ व्यवहार्य्यत्वं निषिद्धं तस्मिन् पतनीये कर्म्मणि कामतः कृते व्यवहार्य्यत्वमात्रं न पापक्षय इति। न च पापक्षयाभावे व्यवहार्य्यत्व मनुपपन्नम्। द्वे हि पापस्य शक्ती नरकोत्पादिका व्यवहारविरोधिका च तत्रैकतरशक्त्यविनाशेऽपि व्यवहारविरोधिकायाः शक्तेर्विनाशोनानुपन्नस्तस्मात् पापानपगमेऽपि व्यवहार्य्यत्वं नानुपपन्नम्। यत्तु मनुवचनम् “अकामतः कृते पापे प्रायश्चित्तं विदुर्बुधाः। कामकारकृतेऽप्याहुरेकेश्रुतिनिदर्शनादिति” तदपि कामकृतेऽपि प्रायश्चित्तप्राप्त्यर्थं न पुनः पापक्षयप्रतिपादनपरम्। अपतनीये पुनः कामकृतेऽपि प्रायश्चित्तेन पापक्षयो भवत्येव। “अकामतः कृतं पापं वेदाभ्यासेन श्रुद्ध्यति। कामतस्तु कृतं मोहात् प्रायश्चित्तैः पृथग्विधैरिति” मनुस्मरणात्। पतनीयेऽपि कर्म्मणि कामकृते मरणान्तिकप्रायश्चित्ते कल्मष क्षयोभवत्येव फलान्तराभावात्। “नास्यास्मिन् लोके प्रत्यासत्तिर्विद्यते कल्षन्तु निर्हन्यत इत्यापस्तम्बस्मरणात्” इति।

अव्यवहित = त्रि० वि + अव + धा–क्त न० त०। व्यवधानरहिते साक्षात्संबद्धे। “सिसाधयिषाविरहविशिष्टक्षणाव्यवहितोत्तरक्षणोत्पत्तिकानुमितिकभिन्नेति” दीधितिः।

अव्यवहृत = त्रि० वि + अव + हृ–क्त न० त०। १ अकृतव्यवहारे यस्य व्यवहारो न कृतः तस्मिन् भोगादिना २ अदूषिते च

अव्यसन = न० अभावे न० त०। १ व्यसनाभावे न० व०। व्यसन- शून्ये। व्यसनानि च अष्टादश मनुना दर्शितानि यथा “दश कामसमुत्थानि तथाष्टौ क्रोधजानि च। व्यसनोनि दुरन्तानि प्रयत्नेन विवर्जयेत्। कामजेषु प्रसक्तोहि व्यसनेषु महीपतिः। वियुज्यतेऽर्थधर्म्माभ्यां क्रोधजेष्वात्मनैव तु।। मृगयाक्षो दिवास्वप्नः परीवादः स्त्रियोमदः। तौर्य्यत्रिकं वृथाट्या च कामजो दशको गणः।। पैशुन्यं साहसं द्रोह ईर्षासूयार्थदूषणम्। वाग्दण्डजञ्च पारुष्यं क्रोधजोऽपि गणोऽष्टकः।। द्वयोरप्येतयोर्मूलं यं सर्व्वे कवयोविदुः। तं यत्नेन जयेल्लोभं तज्जावेतावुभौ गणौ। पानमक्षाःस्त्रियश्चैव मृगया च यथाक्रमम्। एतत् कष्टतमं विद्याच्चतुस्क कामजे गणे। दण्डस्य पातनञ्चैव वाक्पारुष्यार्थदूषणे। क्रोधजेऽपि गणे विद्यात् कष्टमेतत्त्रिकं सदा। सप्तकस्यास्य वर्गस्य सर्ब्बत्रैवानुषङ्गिणः। पूर्ब्बंपूर्ब्बं गुरुतरं विद्याद्व्यसनमात्मवान्”।

अव्यसनिन् = त्रि० न० त० स्त्रियां ङीप्। व्यसनशून्ये

अव्यस्त = त्रि० न व्यस्तः विक्षिप्तः विपर्य्यस्तः पृथग्भूतो वा। १ अविक्षिप्ते २ अविपर्य्यस्ते ३ समस्ते च।

अव्याकुल = त्रि० न० त०। निराकुले स्वच्छन्दे स्वस्थे। अव्यग्रादयोऽप्यत्र

अव्याकृत = त्रि० वि + आ + कृ–क्त न० त०। वेदान्तमते अप्रकटी भूते १ वीजरूपेजगत्कारणेऽज्ञाने २ सांख्यादिमते प्रधाने च। “तद्धेदं तर्ह्यव्याकृतमासीत्” श्रुतिः। “सदेव सौम्येदमग्रआसीत्” छा० उ० भा० “इदं नामरूपाभ्यामव्याकृतम्”

अव्याजं = पु० न० अभावे न० त०। १ छलामावे “इदं किलाव्याजमनोहरं वपुः” शकु०। अव्याजसुन्दरीं तां विज्ञानेन ललितेन योजयता” मालवि०। न० ब०। २ तच्छून्ये त्रि० व्याजश्च यथार्थभूतस्य वस्तुनः स्वरूपनिह्नवेन इतररूपेण प्रकाशार्थः व्यापारभेदः।

अव्यापक = त्रि० न० त०। १ व्यापकभिन्ने २ परिच्छिन्ने च। व्यापकश्च स्वाधिकरणनिष्ठाभावाप्रतियोगी तद्भिन्नस्तादृशाभाव प्रतियोगी अव्यापकः यथा घूमो वह्नेरव्यापकः तस्य वह्न्यधिककरणे तप्तायःपिण्डे वर्त्तमानस्याभावस्य प्रतियोगित्वात् “अव्यापकविषयताशून्यत्वम्” सामा० गदा०।

अव्यापार = पु० अभावे न० त०। १ व्यापाराभावे न० ब०। २ व्यापारशून्ये। व्यापारश्च करणजन्यः क्रियाया अव्यवहित जनकः। यथा प्रत्यक्षज्ञाने इन्द्रियसन्निकर्षः। सहि इन्द्रिया दुत्पन्नः प्रत्यक्षं जनयन् व्यापारो भवति एवं छिदिक्रियायां दात्रच्छेद्यसंयोगः। तथा यागादौ अदृष्टम् अनुमितौ परामर्शः, शाब्दबोधे पदार्थस्मरणम् इत्यादि यथायथ- मूह्यम्। तथा “उत्पादना क्रियाऽपि व्यापारः “व्यापारोभावना सैवोत्पादना सैवच क्रिया” हरिः।

अव्यापिन् = त्रि० न व्याप्नोति वि–आप णिनि न० त० स्त्रियां ङीप्। १ अव्यापके २ परिच्छिन्ने च “हेतुमदनित्यमव्यापि सकियमाश्रितं लिङ्गम्” सां० सू० सा० का० च। “अव्यापित्वं परिच्छिन्नत्वम्” सां० प्र० भा०।

अव्याप्त = त्रि० न व्याप्तः। १ व्याप्तभिन्ने इयत्तया २ परिच्छिन्ने च।

अव्याप्ति = स्त्री अभावे न० त०। १ व्याप्तेरभावे। व्याप्तिश्च तदभाव वदवृत्तित्वम् व्यापकसामानाधिकरण्यमनौपाधिकत्वं आधेयतादिवत् वस्तुस्वभावविशेषोवा मतभेदेन ज्ञेया। २ लक्ष्ये लक्षणस्याप्रवृत्तौ च “अव्याप्यवृत्तिसाध्यकसद्धेता वव्याप्तिमाशङ्क्याह” दीधितिः।

अव्याप्य = त्रि० व्याप्तिविशिष्टोव्याप्यः न० त०। व्याप्तिविशिष्ट भिन्ने १ व्याप्तिशून्ये यथा वह्निर्धूमस्य अव्याप्यः वह्न्यधिकरणेतप्तायःपिण्डे धूमस्यावृत्तेः तथात्वम्। वि + आप–ल्यप् न० त०। २ सर्व्वावच्छेदमप्राप्येत्यर्थे अव्य०।

अव्याप्यवृत्ति = त्रि० अव्याप्य सर्व्वावच्छेदमप्राप्य वृत्तिर्यस्य। स्वाधिकरणे अंशविशेषे कालभेदे वा अस्थिते पदार्थे यथा संयोगादिर्घटादिश्च न सर्व्वदेशं व्याप्य स्वाधिकरणे गृहादौ तिष्ठति। तथा आत्मनि ज्ञानादिकं न सर्व्वदा तिष्ठति। अतः संयोगादीनां स्वाधिकरण एव अंशभेदे कालभेदे च असत्त्वात्तथात्वम्। अव्याप्यवृत्तिनिनियामकश्च देशः कालश्च तत्र देशे सत्त्वे क्वचित् कालस्य देशभेदस्य वा नियामकत्वं क्वचित् कालसत्त्वे देशस्य इति अव्याप्यवृत्तयश्च संयोगविभागादयो दैशिकाः कालिकाश्च तथा आत्मनि बुद्धिसुखदुःखेच्छाद्वेषयत्नधर्म्माधर्म्मभावनाख्यसंस्काराः तेषां देहावच्छेदेन सत्त्वेऽपि घटाद्यचच्छेदेनासत्त्वात् देहावच्छेदेऽपि सर्व्वदाऽसत्त्वाच्च तथात्वम् एवं शब्दस्य दैशिककालिकाव्याप्यवृत्तित्वम् गन्धादयस्तु कालिकाव्याप्यवृत्तयस्ते हि स्वाधिकरणे एव उत्पत्तकिआले प्रलये च परमाणौ न तिष्ठन्ति। संयोगेन घटादयोऽपि दैशिककालिकाव्याप्यवृत्तयः। “अव्याप्यवृत्तिः क्षणिको विशषगुण इष्यते” भाषा० “अव्याप्यवृत्तिसाध्यकसद्धेताविति” दीघितिः।

अव्यायाम = पु० अभावे न० त०। १ व्यायामाभाव परिश्रम साधनव्यापाराभावे २ विशेषेण विस्तारामावे च न० ब०। ३ तच्छून्ये त्रि०।

अव्यावर्त्तक = त्रि० न व्यावर्त्तयति इतरेभ्यो निवारयति वि + आ + वृत–णिच्–ण्वुल् न० त०। १ रस्मादकृतनिवारणे २ इतरस्माद्भेदासाधके ३ अविशेषके च।

अव्यावर्त्तन = न० वि + आ–वृत–णिच्–ल्युट् अभावे न० त०। इतरस्मादनिवारणे न० ब०। व्यावृत्तिशून्ये त्रि०।

अव्याहत = त्रि० विशेषेणाहतः प्रतिरुद्धः न० त०। व्याघातशून्ये व्याघातश्च विरोधप्रतिसन्धानेनाप्रसङ्गः २ अंप्रति रुद्धे च। “अव्याहताज्ञः सर्व्वत्र” पुरा० व्याहतं मिथ्यार्थकं तद्भिन्ने ३ सत्ये वाक्ये न०।

अव्याहतत्व = न० अव्यवहतस्य भावः त्व। १ व्याघाताभावे हेम चन्द्रोक्ते २ वाक्यगुणभेदे च ते च गुणाः यथा “संस्कारवत्त्वमौदार्य्यमुपचारपरीतता। मेघनिर्घोषगाम्भीर्य्यं प्रतिनादविधायिता।। दक्षिणत्व मुपनीतरागत्वं च महार्थता। अव्याहतत्वं श्लिष्टत्वं संशयानामसम्भवः।। निराकृतान्योत्तरत्वं हृदयङ्गमिताऽपि च। मिथःसाकाङ्खताप्रस्तावौचित्यं तत्त्वनिष्ठता।। अप्रकीर्ण प्रसृतत्वमसंश्लाघ्यान्यनिन्दिता। आभिजात्यमतिस्निग्धमधुरत्वं प्रशस्यता।। अमर्मवेधितौदार्य्यं धर्म्मार्थप्रतिबद्धता। कारकाद्यविपर्य्यासोविभ्रमादिवियुक्तता।। चित्रकृत्त्वमद्भुतत्वं तथानतिविलम्बिता। अनेक जातिवैचित्र्यमारोपितविशेषता।। सत्त्वप्रधानता वर्णपद वाक्प्रविविक्तता। अव्युत्थितिरखेदित्वम्पञ्चत्रिंशच्च वा ग्गुणाः”।।

अव्युत्पन्न = त्रि० वि + उद् + पद–क्त न० त०। समुदायशन्दस्यावयवशोऽर्थबोधकताशक्तिः व्युत्पत्तिः तच्छून्ये अवयवार्थशून्ये शब्दे, “उणादयोव्युत्पन्नाः प्रातिपदिकम्” पा०। २ शब्दावयवार्थानभिज्ञे अवैयाकरणे च।

अव्युत्थिति = स्त्री वि + उद् + स्था–क्तिन् अभावे न० त०। उत्थानाभावे २ वाक्यगुणभेदे च अव्याहतत्वशब्दे विवृतिः।

अव्रण = त्रि० नास्ति व्रणोऽस्य। १ व्रणशून्ये व्रणश्च क्षतादि “तत्रादौ दन्तपवनं द्वादशाङ्गुलमायतम्। कनिष्ठिकापरीणाहमृज्वग्रायतमव्रणम्” सुश्रु० २ नेत्ररोगमेदे “यत् सव्रणं शुक्रमथाव्रणं वा पाकात्ययश्चाप्यजका तथैव। चत्वार एतेऽभिहिता विकाराः कृष्णाश्रयाः संग्रहतः पुरस्तात्” इति विभज्य, तल्लक्ष्माप्युक्त सुश्रुते “सितं यदा भात्यसितप्रदेशे स्यन्दात्मकं नातिरुगश्रुयुक्तम्। विहायसीवाभ्रदलानुकारि तदव्रणं साध्यतमं वदन्ति” “अनेनापहरेच्छुक्रमव्रणं कुशलोभिषक्” सुश्रु०।

अव्रत = त्रि० नास्ति व्रतं विहितनियमो यस्य। शास्त्रविहित नियमशून्ये “अव्रतानासमन्त्राणां जातिमात्रोपजी- विनाम्। नैषां प्रतिग्रहोदेयो न शिला तारयेच्छिलाम्” मनुः।

अव्रत्य = त्रि० व्रताय हितम् यत् न० त०। व्रतकालेअनाचरणीयेऽनृतकथनादौ “अव्रतं वा व्याहरति तन्मिथ्या करोति व्रतम्” शत० ब्रा०।

अश = संहतौ–व्याप्तौ च स्वादि० आत्म० सक० वेट्। अश्नुते आशिष्ट आष्ट आनशे। अशिता–अष्टा अक्ष्यतेअशिष्यते अश्लुवानः अष्टिः व्यष्टिः समष्टिः “खं प्रावृषेण्यैरिव चानशेऽब्दैः” भट्टिः “प्रतापस्तस्य भानोश्च युगपद्यानशे दिशः” रघुः।

अश = भोजने क्र्यादि० पर० सक० सेट्। अश्नाति आशीत्। आश। अशिता अशिष्यति। “त्र्यहं परञ्च नाश्नीयात् प्राजापत्यं चरन् द्विजः, मनुः तदहं भक्त्युपहृतमश्रामि प्रयतात्मनः” गीता।

अशकुन = पु० न० अप्राशस्त्ये न० त०। दुर्न्निमित्ते अनिष्टसूचके काकादिदर्शने। अशकुनाश्च द्विविधा औत्पातिकाः साधरणाः काकादिदर्शनादयोऽसाधारणाः। अमङ्गलशब्दे ३१७, १८ पृष्ठे विवरणम् “अपयाति सरोषया निरस्ते कृतकं कामिनि चुक्षुवे मृगाक्ष्या। कलयन्निव सव्यथोऽवतस्थेऽशकुनेन स्खलितं” किलेतरेण” माघः। “साहस्म नैवाशकुनीभवेन्मे भाविप्रियावेदक एष हंसः” नैष०।

अशक्त = त्रि० न० त० “समर्थभिन्ने १ कार्य्याक्षमे” २ पूर्ब्बोत्पन्नमशक्तं नियतं महदादिसूक्ष्मपर्य्यन्तम्” सा० का०।

अशक्ति = स्त्री अभावे न० त०। १ सामर्थ्याभावे “श्रमेण तदशक्त्या वा न गुणानामियत्तया” रघुः। २ अपाटवे सांख्यभतसिद्धे बुद्धेः ३ ज्ञानजननासामर्थ्यभेदे च सा च “एष प्रत्ययसर्गोविपर्य्ययोऽशक्तितुष्टिसिद्ध्याख्यः” इति सामान्यत उक्त्वा “पञ्च विपर्य्य यभेदाः भवन्त्यशक्तिश्च करणवैकल्यात्। अष्टाविंशतिभेदा” इति। अशक्तीर्विभज्य “एकादशेन्द्रिय बधाः सह बुद्धिबधैरशक्तिरुद्दिष्टा। सप्तदश बधा बुद्धेर्विपर्य्ययात् तुष्टिसिद्धीनाम्” सा० का० “बाधिर्यं, कुष्टिताऽन्धत्वं, जडताऽजिघ्रता तथा। मूकता, कौण्यपङ्गुत्वक्लैव्योदावर्त्तमन्दताः”। यथासंख्यं श्रोत्रादीनामिन्दियाणं बधाः एतावत्येव तद्धेतुका बुद्धेरशक्तिः स्वव्यापारे भवति। तथाचैकादशहेतुकत्वादेकादशधा वुद्धेरशक्ति रुच्यते। हेतुहेतुमतोरभेदविवक्षया च सामानाधिकरण्यम्। तदेवमिन्द्रियबधद्वारेण बुद्धेरशक्तिमुक्त्वा स्वरूपतोऽशक्तीराह सह बुद्धिबधैरिति। कति बुद्धेः स्वरूपतोबधा इत्यत आह सप्तदश बधा बुद्धेः, कुतः? विपर्य्ययात्तुष्टिसिद्धीनाम्, तुष्टयोनवधेति तद्विपर्ययास्तन्निरूपणान्नवधा भवन्ति। एवं सिद्धयोऽष्टाविति तद्विपर्ययास्तन्निरूपणात् अष्टौ भवन्तीति” सा० कौ० दर्शिता। व्याख्यातञ्चैतदस्माभिः “पूर्व्वार्द्धेज्ञानेन्द्रियाणाम् अपाटवमुक्तरार्द्धे कर्मेन्द्रियाणामिति मनसस्तु उभयेन्द्रियानुकूल्यादन्तेऽभिनिवेश इति भेदः। तत्र बाधिर्य्यं श्रोत्रगतं शब्दग्रहणापाटवम्। कुष्ठिता त्वग्गतं स्पर्शग्रहणापाटवम्। अन्धत्वं नेत्रगतं रूपग्रहणापाटवम्। जडता रसनागतं रसग्रहणापाटवम्। मूकता वागिन्द्रियगतं वचनापाटवम्। कौण्यं हस्तगतमादानापाटवम्। पङ्गुत्वं पादगतं चलनापाटवम्। क्लैव्यमुपस्थगतं मैथुनासामर्थ्यम्। उदावर्त्तः अपानगतं विष्ठोत्सर्गासामर्थ्यम्। मन्दता मनोगतं मुखादिविषयग्रहणासामर्थ्यम्। एकादशेति पञ्च ज्ञानेन्द्रियाणि पञ्च कर्म्मेन्द्रियाणि मनश्चेति एकादशेन्द्रियाणां बधाः स्वस्वकर्म्माक्षमत्वरूपा धर्मभेदाः तद्धेतुकत्वात् बुद्धेः स्वविषयाग्रहणमिम्बते अतो बुद्धेरशक्तिरेकादशविधैवेत्याह तथा चेत्यादि। वे बुद्धेः सप्तदश भेदा उत्तरार्द्धे वक्ष्यन्ते तैः सप्तदशभिः सह मिलिता एकादश भेदाः अष्टाविंशतिर्भेदाः स्युः। तथा च शक्तिरष्टाविंशतिभेदा इति यदुक्तं तत् समर्थितमिति”

अशकुम्भी = स्त्री अश्नुते व्याप्नोति अश–अच् अशा स्कुभ्राति जलमावृणोति स्कुन्भ–बा०–ट पृषो० सलोपः टित्त्वात् ङीप् कर्म्म०। अल्पकालेन जलव्यापके जलोपरिजाते (पाना) इति ख्याते तृणभेदे।

अशक्य = त्रि० न शक्यते शक–क्यप् न० त०। असाध्ये “अशक्यशङ्कव्यभिचारहेतुर्वाणी न वेदा यदि सन्तु के तु” नैष०।

अशङ्का = स्त्री अभावे न० त०। १ सशयाभावे २ त्रासाभावे च न० त०। ३ तच्छून्ये त्रि०।

अशङ्कित = त्रि० शकि–क्त न० त०। १ अभीते २ सन्देहरहिते च।

अशत्रु = पु० न शातयति शद–ण्यर्थे त्रुन् न० त०। १ चन्द्रे शब्दच०। विरोधे न० त०। शत्रुभिन्ने २ मित्रे च।

अशन = न० पु० अश्नुते व्याप्नोति अश–ल्यु। १ पीतसालवृक्षे दन्त्यमध्योऽप्ययमत्रार्थे। भावे ल्युट्। २ व्याप्तौ, ३ भोजने च “मुनिभिर्द्धिरशनं प्रोक्त विप्राणां मर्त्यवासिनां नित्यम्” ति० त० स्मृ०। कर्म्मणि ल्युट्। ४ भोज्ये अन्ने न० “पूजयेदशनं नित्यमद्याच्चैतदकुत्सयन्। दृष्ट्वा हृष्येत् प्रसीदेच्च प्रतिनन्देच्च सर्व्वशः। पूजितंह्यशनं नित्यं बलमूर्जञ्च यच्छति। अपूजित च तद्भुक्तम्” मनुः। “एवं प्रयत्नं कुर्व्वीत यानशय्यासनाशनैः” मनुः “अशनपते! अशनस्य नोदेहि” शत० ब्रा०।

अशनपर्णी = स्त्री अशनस्य पीतशालस्य पर्णमिव पर्णमस्याः। (आराटो) इति ख्याते वृक्षभेदे सा हि पीतसालतुल्यपर्णा।

अशना = स्त्री अशनमिच्छति–अशन + क्यच् क्विप्। भोजनेछायाम्। शसाद्यचि अशन इत्यादि। “अशनापिपासे सौम्य! विजानीहि” छा० उ०।

अशनाया = स्त्री अशनमिच्छति अशन + क्यच्–स्त्रियाम् भावे अ। भोजनेच्छायाम्। “च्युताशनायः फलवद्विभूत्या” भट्टिः “अन्नाद्वा अशनाया निवर्त्तते पानात् पिपासा” शत० ब्रा०। “अशनाययाशनाया हि मृत्युस्तन्मनोऽकुरुत” वृ० उ०।

अशनायित = त्रि० अशनमिच्छति अशन + क्यच्–कर्त्तरि क्त। १ भोजनेच्छावति क्षुधिते। भावे क्त। २ भोजनेच्छायां न०

अशनायुक = त्रि० अशनमिच्छति अशन + क्यच्–उक्ञ, उन् स्वार्थे कन् वा। भोजनाभिलाषुके। “अन्नमेव तन्मध्यती धीयते शनायुको यजमानो भवत्यशनायुकाः प्रजाः” ता० ब्रा०।

अशनि = पु० स्त्री अश्नुते संहन्ति अश–अनि। १ मेघोत्पन्ने १ ज्योतिषि २ इन्द्रे “स्तनयित्नुरेवेन्द्रो यज्ञः प्रजापतिः कतमः स्तनयित्नुरशनिः” शत० ब्रा० शत्रु घातके ३ अनुयाजे “अशनिरेव प्रथमोऽनुयाज” इत्युपक्रम्य “अशनिरिन्द्रोऽवहन्ति” शत० ब्रा० ४ इन्द्रास्त्रे वज्रे, प्रस्तरवर्षिणि ५ उल्काविशेषे, ६ विद्युति च। “अशनेरमृतस्य चोभयोर्वशिनश्चाम्बुघराश्च योनयः कुमा० ७ अग्नौ ८ विद्युदग्नौ “तमब्रवीदशनिरसीति तद्यदस्य तन्नामाकरोद्विद्युत्तद्रूपमभवद्विद्युद्वा अशनिस्तस्माद्यं विद्युद्धन्त्यशनिरबधीदित्याहुः” शत० ब्रा०। वज्रं च वृत्तासुरबधार्थमिन्द्रेण दधीचोऽस्थीनि गृहीत्वा विश्वकर्म्मणा कारितमिति भाग० ६ स्क०। “मघवन्! याहि भद्रं वोदध्यञ्चमृषिसत्तमम्। विद्याब्रततपःसारं गात्रं याचत मा चिरम्। स वा अधिगतो दध्यङ्ङश्विभ्यां ब्रह्म निष्कलम्। यद्वा अश्वविरोनाम तयोरमरतां व्यधात्। दध्यङ्ङाथर्ब्बणस्त्वष्ट्रे वर्म्माभेद्यं मदात्मकम्। विश्वरूपाययत् प्रादात्त्वष्टा यत्त्वमधास्ततः। युष्मभ्यं याचितोऽश्विभ्यां धर्मज्ञोऽङ्गं स दास्यति”। ततस्तैरायुधश्रेष्ठो विश्वकर्मविनिर्म्मितः। येन वृत्रशिरो हर्त्ता मत्तेजौपवृंहितः”। इति विष्णुनोक्तेनेन्द्रेण तथा कृते स आह “तथाभियाचितो देवैरृषिरायर्वणो सहान्। मोदमान उवाचेदं प्रहसन्निव भारत!। अपि वृन्दारकायूयं न जानीत शरी- रिणाम्। संस्थायां यस्त्वभिद्रोहो दुःसहश्चेतनापहः। जिजीविषूणां जीवानामात्मा प्रेष्ठैहेप्सितः। कौत्सहेत तं दातुं भिक्षमाणाय जिष्णवे” इति दधीचोक्ते देवैः पुनरुक्तम् यथा “किं नु तद्दुस्त्यजं ब्रह्मन्! पुंसां भूतानु कम्पिनाम्। भवद्विधानां महतां पुण्यश्लोकैककर्मणाम्। नूनं स्वार्थपरोलोको न वेद परसङ्कटम्। यदि वेद न याचेत नेति नाह यदीश्वरः। इत्युक्ते दधीचोक्तम् “धर्मं वःश्रोतुकामेन यूयंमे प्रत्युदाहृताः। एष वः प्रियमात्मानं दुस्त्यजं सन्त्यजाम्यहम्। योऽध्रुवेणात्मना नाथा! न धर्भं न यशः पुमान्। ईहेत भूतदयया स शोच्यः स्थावरैरपि। एतावानव्ययोधर्म्मः पुण्यश्लौकैरुपासितः। योभूतशोकहर्षाभ्यामात्मा शोचति हृष्यति आ अहो दैन्यमहोकष्टं पारक्यैः क्षणमङ्गुरैः। यन्नोपकुर्य्यादस्वार्थैर्मर्त्यः स्वज्ञातिविग्रहैः। श्रीवादरायणिरुवाच। “एवं कृतव्यवसितो दध्यङङाथर्व्वणस्तनुम्। परे भगवति ब्रह्मन्नात्मानं सन्नयन् जहौ। गताक्षासुमनोबुद्धिस्तत्त्वदृग् ध्वस्तबन्धनः। आस्थितः परमं योगं न देहं बुबुधेप्सितम्। अथेन्द्रो वज्रमुद्यम्य निर्म्मितं विश्वकर्म्मणा। मुनेः शक्तिभिरुत्सिक्तं भगवत्तेजसान्वितम्”।

अशब्द = त्रि० नास्ति शब्दो, वेदादौ वाचकशब्दो वा यस्य। १ शब्दहीने, वेदे २ वाचकशब्दवर्ज्जिते प्रधाने “ईक्षतेर्ना “शब्दमिति” शारीरकसूत्रम् ३ शब्दादिगुणहीने ब्रह्मणि च न० “अशब्दमस्पर्शमरूपमव्ययमिति” श्रुतिः

अशरीर = त्रि० नास्ति शरीरं तदभिमानो वा यस्य। “प्रत्यग्ज्ञान शिखिध्वस्ते मिथ्याज्ञाने सहेतुके। नेतिनेतिस्वरूपत्वादशरीरो भवत्ययम्” इत्युक्तलक्षणे सकलनिषेधरूपे १ परमां त्मनि, २ शरीराभिमानशून्ये जीवन्मुक्ते “अशरीरं वा वसन्तं प्रियाप्रिवे न स्पृशतः” इति श्रुतिः। ३ देहशून्ये ४ मीमांसकोक्ते देवे ५ ईश्वरे च परमात्मस्वरूपत्वात् ईश्वरस्याशरीरत्वम् “तदैक्षत बहु स्यां प्रजायेति श्रुत्या तस्वेक्षितृत्वं यदुक्तं तदसङ्गतं शरीरं विना ज्ञानानुपपत्ते रित्याशङ्कापूर्ब्बकं शा० भा० तत् समर्थितं यथा “प्रागुत्पत्तेर्ब्रह्मणः शरीरादिसंबन्धमन्तरेणेक्षितृत्वमनुपपन्नमिति न तच्चोद्यमवतरति सवितृप्रकाशवत् ब्रह्मणोज्ञानस्वरूपनित्यत्वेन ज्ञानसाधनापेक्षानुपपत्तेः। अपि च अविद्यादिमतः संसारिणः शरीराद्यपेक्षा ज्ञानोत्पत्तिः स्यात् न ज्ञानप्रतिबन्धकारणरहितस्येश्वरस्य। मन्त्रौ चैतावीश्वरस्य शरीराद्यनपेक्षतामनावरणज्ञानतां च दर्शयतः। “न तस्य कार्य्यं करणञ्च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते। परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया चेति” “अपाणिपादोजवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः। स वेत्ति वेद्यं न च तस्यास्तिवेत्ता तमाहुरग्र्यं पुरुषं महान्तमिति” च। ननु नास्ति तव ज्ञानप्रतिबन्धकारणवानीश्वरादन्यः संसारी। “नान्योऽतोऽस्ति द्रष्टोत विज्ञातेति” श्रुतेः तत्र किमिदमुच्यते संसारिणः शरीराद्यपेक्षा ज्ञानोत्पत्तिर्नेश्वरस्येति। अत्रोच्यते सत्यं नेश्वरादन्यः संसारी तथापि देहादिसंघातोपाधिसंबन्ध इष्यतएव घटकरकगिरिगुहाद्युपाधिसंवन्ध इव व्योम्नः, तत्कृतशब्दप्रत्ययव्यवहारा लोकस्य दृष्टाश्च, घटच्छिद्रं करकच्छिद्रमित्यादिराकाशाव्यतिरेकेऽपि तत्कृता चाकाशे घटाकाशादिभेदमिथ्याबुद्धिर्दृष्टा तथेहापि देहादि संघातोपाधिसंबन्धाविवेककृतेश्वरसंसारिभेदमिथ्याबुद्धिः। दृश्यते चात्मन एव सतोदेहादिसंघातेऽनात्मन्यात्माभिनिवेशोमिथ्याबुद्धिमात्रेण सति चैवं संसारित्वे देहाद्यपेक्षमीक्षितृत्वमुपपन्न’ संसारिणः” भा०। जीवस्यापि अवास्त्रविकं सशरीरत्वं तदपि तत्रैव व्यवस्थापितं यथा “शरीरे पतितेऽशरीरत्वं स्यान्न जीवत इति चेत् न सशरीरत्वस्य मिथ्याज्ञाननिमित्तत्वात्। नह्यात्मनः शरीरात्माभिमानलक्षणं मिथ्याज्ञानं मुक्त्वा अन्यतः सशरीरत्वं शक्यं कल्पयितुम् नित्यमशरीरत्वम् अकर्मनिमित्तत्वादिति चावोचामः। तत्कृतधर्माधर्मनिमित्तं सशरीरत्वमिति चेत् शरीरसस्वन्धस्यासिद्धत्वात् धर्माधर्मयोरात्मकृतत्वासिद्धेः। शरीरसम्बन्धस्य धर्माधर्मयोस्तत्कृतत्वस्य चेतरेतराश्रयत्वप्रसङ्गात्। अन्धपरम्परै वैषाऽनादित्वकल्पना क्रियासमवायाभावाच्चात्मनः कर्त्तृत्वानुपपत्तेः। सन्निधिमात्रेण राजप्रभृतीनां दृष्टं कर्त्तृत्वमिति चेन्न धनदानाद्युपार्जितभृत्यसम्बन्धत्वात् तेषां कर्त्तृत्वोपपत्तेः। नह्यात्मनोधनदानादिवच्छरीरादिभिः स्वस्वामिसम्बन्धनिमित्तं किञ्चिच्छक्यं कल्पयितुम् मिथ्याभिमानस्तु प्रत्यक्षः सम्बन्धहेतुः” शा० भा०।

अशरीरत्व = न० अशरीरस्य भावः त्व। १ शरीरसम्बन्धराहित्ये २ मोक्षे च। यथा मोक्षस्याशरीरत्वं तथोक्तं शा० भा०। “अशरीरं वाव सन्तं प्रियाप्रिये न स्पृशतः” इति प्रियाप्रिय स्पर्शनप्रतिषेधाच्चोदनालक्षणधर्म्मकार्य्यत्वं मोक्षाख्यस्याशरीरत्वस्य प्रतिषिध्यत इति गम्यते। धर्मकार्य्यत्वे हि प्रियाप्रियस्पर्शनप्रतिषेधोनोपपद्यते। अशरीरत्वमेव घर्मकार्य्यमिति चेत् तस्य स्वाभाविकत्वात्। “अशरीरं शरीरेषु अनववस्थेष्ववस्थितम्। महान्तं विभुमात्मानं मत्वा धीरो न शोचति” “अप्राणोह्यमनाः शुभ्रः असङ्गोह्यषं पुरुष” इत्यादि श्रुतिभ्यः। अतएवानुष्ठेयफल विलक्षणं मोक्षाख्यमशरीरत्वं नित्यमिति सिद्धम्”। अयं भावः अभावस्याधिकरणानतिरेकेण शरीरसम्बन्धाभावस्य ब्रह्मरूपतया मोक्षस्य तदभिन्नतया च तथात्वम् इति।

अशरीरिन् = त्रि० न शरीरी। १ देहशून्ये ब्रह्मणि २ मीमांसकोक्ते देवमात्रे च। शरीरमुच्चारयितृत्वेनास्त्यस्य इनि न० त०। ३ शरीरेणानुचार्य्ये आकाशशब्दे। उभयत्र स्त्रियां ङीप्। “वागुवाचाशरीरिणी” भा० आ० प०।

अशर्म्मन् = न० विरोधे न० त०। १ शर्म्मभिन्ने दुःखे न० ब०। २ सुख शून्ये त्रि०।

अशाखा = स्त्री नास्ति शाखा यस्याः। शूलीतृणे राजनि०। २ शाखाशून्ये वृक्षमात्रे त्रि०।

अशान्त = त्रि० विरोघे न० त०। शान्तभिन्ने शमहीने “नास्ति बुद्धिरयुक्तस्य–अशान्तस्य कुतः मुखम्” गीता।

अशान्ति = स्त्री अभावे न० त०। १ शमाभावे न० ब०। २ शमशून्ये त्रि०।

अशाश्वत = त्रि० न शास्वतः। अनित्ये अस्थिरे।

अशासन = त्रि० अभावे न० त०। १ शासनाभावे न० त०। २ शासनशून्ये।

अशास्त्र = न० शास–करणे ष्ट्रन् शास्त्रं वेदादि विरोधे न० त०। वेदादिविरुद्धे नास्तिकागमादौ।

अशास्त्रीय = त्रि० शास्त्रे विहितः छ न० त०। शास्त्राविहिते निषिद्धे।

अशास्य = त्रि० शास–बा० ण्यत्। शासितुमशक्ये दुर्द्दान्ते।

अशिक्षित = त्रि० विरोधे न० त०। शिक्षाशून्ये गतिनैपुण्यशून्ये हयादौ।

अशित = त्रि० अश–कर्म्मणि क्त। १ भक्षिते “आपएव तदशितं नयन्ते” “अन्नमशितं त्रेधा विधीयते” “तेजोऽशितं त्रेधा विधीयते” इति च छा० उ०। कर्त्तरि क्त। २ अशनेन तृप्ते आशितङ्गवीनः भावे “क्त” ३ अशने न०।

अशित्र = पु० अश–संहतौ इत्र। १ चौरे। भोजनार्थात् कर्म्मणि इत्र। देवभक्ष्ये २ चरौ।

अशिथिल = त्रि० विरोधे न० त०। शिथिलभिन्ने दृढे।

अशिपद = त्रि० न श्लिपदः पदरोगभेदः वेदे पृ० ललोपः न० ब०। श्लिपदरोगशून्ये। “शिवा देवीरशिपदा भवन्तु सर्वाः” ऋ० ७, ५०, ४।

अशिमिद = त्रि० “शिमिर्वधकर्म्मा” निरु० शिमिं हिंसां ददाति दा–क उप० स०। अहिंसके “सर्व्वा नद्यो अशिमिदा भवन्तु” ऋ० ७, ५०, ४।

अशिर = पु० अश–इरच्। १ राक्षसे २ अग्नौ तस्य सर्व्व भक्षत्वात्तथात्वम् ३ भास्करे ४ वायौ च तयोर्व्यापकत्वात्तथात्वम् ६ नार्य्यां स्त्री टाप्।

अशिरस् = पु० नास्ति शिरोऽस्य। १ कवन्धे २ अग्रशून्ये त्रि०।

अशिरस्स्नान = न० न शिरसा स्नानम्। शिरोमज्जनशून्ये स्नाने।

अशिव = न० विरोधे न० त०। १ मङ्गलभिन्ने २ तद्वति त्रि० ३ उग्रे च ५ व०। ४ अमङ्गलशब्दोक्तेतत्सूचके त्रि०।

अशिशिषा = स्त्री अशितुमिच्छा अश–सन्–भावे अ। भोजनेच्छायाम् “दृश्यतेह्युत्क्रान्तौ प्राणस्याशिशिषाऽतो व्याद दातीति” छा० उ० भा०।

अशिशु = पु० विरोधे न० त०। १ शिशुभिन्ने तरुणे “जातमात्रः शिशुस्तावद्यावदष्टौ समा वयः” इति स्मृत्युक्तवयोऽनिक्रान्ते २ नववर्षवयस्के च। नास्ति शिशुर्यस्य। ३ शिशुशून्ये त्रि०। स्त्रियां ङीप् लोके, वेदेऽपि क्वचित् “आ धेनवोधुनयन्तामशिश्वीः” ऋ० ३, ५५, १६। “नो मा कुत्रानोगृहेभ्योधेनवोऽगुःस्तनाभुजो अशिश्वीः” ऋ० १, १२०, ८।

अशिष्ट = त्रि० न० त०। १ उपदिष्टभिन्ने यस्क शासनं न कृतं तस्मिन्। शिष्टः साधुः विरोधे न० त०। २ असाधौ साधुत्वञ्च वेदार्थे विश्वासवत्त्वमिति दिनकरी ३ तद्भिन्ने नास्तिके ४ पर्णसङ्करकारके व्यभिचारवंतिच “अशिष्टव्यवहारे दाणः प्रयोगे चतुर्थ्यर्थे तृतीया” वार्त्ति०।

अशिष्ठ = त्रि० अश्नाति अश–अच् अतिशायने इष्ठन्। १ भोक्तृ तमे २ अग्नौ पु० तस्य सर्ब्बभक्षकत्वात्तथात्वम्। “अशीतमेत्यशिष्ठो ह्यग्निः” शत० ब्रा०।

अशीत = न० विरोधे न० त०। १ उष्णस्पर्शे २ तद्वति त्रि०। शीतं हिमं तद्बाधा न० ब०। हिमबाधाशून्ये त्रि० “अशीतास्तरबोमाषे” नीतिः।

अशीतकर = पु० अशीत उष्णः करो यस्य। उष्णांशौ सूर्य्ये अशींतकिरणादयोऽप्यत्र।

अशीतम = पु० अश्नाति अश–बा० इनि ततः तमप् वेदे दीर्घः। भोक्तृतमे अग्नौ “अशीतमेत्यशिष्ठो ह्यग्मिः” शत० ब्रा०।

अशीति = स्त्री दशानामवयवं दशतिः दशकम् अष्टगुणिता दशतिः नि० अशीत्यादेशः। अष्टगुणिते दशके (आशी) १ संख्याभेदे, २ तत्सङ्ख्यान्विते च। “अशीतिभागो वृद्धिः स्यान्मासिमासि सबन्धके” या० स्मृ०। अर्वाग्द्वादशवर्षीयादशीतेरूर्द्ध्वमेव च” स्मृतिः अशीतिः परिमाणमस्य ठन्। अशीतिकः” वत्परिमिते त्रि०।

अशीर्षिक = त्रि० नास्ति शीर्षा यस्य व्रीह्यादि० ठन्। अशीर्षवति १ मस्तकशून्ये २ अग्रशून्ये च।

अशील = न० विरोधे न० त०। १ दुष्टशीले न० त० २ शीलशून्ये त्रि

अशुच् = त्रि० नास्ति शुगस्य। शोकशून्ये।

अशुचि = त्रि० विरोधे न० त०। १ शौचशून्ये २ अपवित्रे मूत्रादौ च। स्त्रियां ङीप्। “अशुच्योनैव तास्तेन येन वैकारिकं हितत्” शङ्खः। शुचितत्कालजीविनां कर्म्माघिकारित्वेनाशुचेः पर्य्युदस्तत्वम् “अशुचिद्रव्याणि च अशुद्धिशब्दे वक्ष्यन्ते” व्रतानामुपवासानां श्राड्वादीनाञ्च सङ्गमे। करोति यः क्षौरकर्म सोऽशुचिः सर्वकर्म्मसु” स्मृतिः “त्रिरात्रमशुचिर्भवेत्” स्मृतिः। अशुचित्वं च वैदिककर्म्मानर्हत्वप्रयोजकोधर्म्मविशेषः तच्च कर्त्तृनिष्ठ द्रव्यनिष्ठञ्च। सूतकनिमित्तं दुष्टद्रव्यसंसर्गकृतञ्च कर्त्तृनिष्ठम्। द्रव्यनिष्ठन्तु वस्तुस्वभावकृतम् “यथा मलमूत्रपुरीषास्थि निर्गतं ह्यशुचि स्मृतम्। नारं स्मृष्ट्वा तु सस्नेहं सचेलं जलमाविशेदित्यादि स्मृत्युक्तं तत्संसर्गयुतद्रव्यनिष्ठञ्च अधिकमशुद्धिशब्दे वक्ष्यते। शुचिः शुभ्रः। तद्भिन्ने ३ कृष्णवर्ण्णे पु० ४ तद्वति त्रि० स्त्रियां वा ङीप् तस्य भावः अण् अशौचम् ष्यञ् आशौच्यम्। अशुचिभावे न० “आशौच्यात् विप्रमुच्येत ब्राह्मणान् स्वस्तिवाच्य च” स्मृतिः वा पूर्ब्बपदवृद्धिः अशौच्यमपि तत्रैव। अशुचौ भवः ष्यञ् वा पूर्ब्बपदःदीर्घ अ(आ)शौच्यः तद्भवे त्रि०।

अशुद्ध = त्रि० विरोधे न० त०। १ शुद्धभिन्ने सदोषे २ अपवित्रे च दोषश्च नानाविधः व्याकरणादिलक्षणाननुसारित्वे शब्दस्य दोषः शास्त्रनिषिद्धतयाऽनुष्ठाने कर्म्मणां दोष यथा हिसादेः पापजनकतया सदोषता। स्नानाद्यपनेयमलादेश्च सदोषता विवरणमशुद्धिशब्दे। “सर्व्वतीर्थेष्वपि स्नातोह्यशुद्धः पुनरेव सः” स्मृतिः एतच्च मनःशुद्धिप्रशसार्थवादः।

***