अविघ्न = न० विघ्नं कार्य्यप्रतिबन्धकम् अभावे न० त०। १ विघ्नाभावे “अविघ्नमस्तु ते स्थेयाः पितेव धुरि पुत्रिणाम्” रघुः “अविघ्नमस्तु सावित्र्याः प्रदाने दुहितुस्तव” भा० व० प० न० ब० २ विघ्नशून्ये त्रि० “अविघ्नं गच्छ पन्थानम्” रामा०। अर्थाभावे अव्ययी० ३ विघ्नाभावे अव्य०।
अविचक्षण = त्रि० विरोधे न० त०। विचक्षणभिन्ने मन्दे अपटौ
अविचार = पु० विचारः अभावे त० त०। १ विचाराभावे “अविचारेण कर्त्तव्यम्” स्मृतिः न० ब०। २ विचारशून्ये “अविचारपुरेदेशे यः पलायति जीवति” हितो०। अवीनां चारो यत्र। ३ मेषचारणयोग्ये देशे न विगतश्चारो दूतो यस्य न० ब०। ४ चारयुक्ते त्रि०।
अविचारित = त्रि० न विचारितः। इदं कर्त्तव्यं न वेति विवेकाभावेनाकृते।
अविचाल्य = त्रि० न विचाल्यः अन्यथा कार्य्यः। अन्यथाकार्य्यभिन्ने स्थिरैकरूपे। “अविचाल्यमेतदुक्तं तथ्यञ्च भवता वचः” भा० व० प०।
अविचेतन = विशेषेण चेतना विचेतना प्रा० त० न० ब०। विशेषतोज्ञानशून्ये १ संज्ञारहिते २ नष्टचैतन्ये। “यद्वाग्वदन्त्यविचेतनानि” ऋ० ८, १००, १०।
अविच्छिन्न = त्रि० न० त०। सन्तते। अविच्छिन्न तैलधारा।
अविच्छेद = पु० न विच्छेदः अभावे न० त०। १ विच्छेदाभावे सन्ततौ न० ब०। २ विच्छेदशून्ये सन्तते। विच्छेदो नाम एकजातीयद्रव्यगुणादीनामन्यजातीयेन व्यवधानम्।
अविज्ञात = त्रि० न० त०। १ विशेषेणाज्ञाते “अविज्ञातं तु यत् क्रीतं क्रेता वा यदि वा मृतः” नाविजाते जलाशये” इति च स्मृतिः अर्थनिश्चयशून्ये त्रि० २ यदधोतमविज्ञातं निगदेनैव पव्यते” इति वेदानु०।
अविज्ञातृ = पु० विज्ञाता जीवस्तद्विलक्षणः। १ परमेश्वरे जीवेन हि आत्मनि कर्त्तृत्वाभिमानेन ज्ञातृत्वं कल्पितमिति तद्वासनया च तेन कुण्ठीभूयते ईश्वरस्तु ततो विलक्षणः। “अविज्ञाता सहस्रांशुः” विष्णुस० २ तत्तद्विषयज्ञातृभिन्ने त्रि० स्त्रियां ङीप्।
अविज्ञेय = त्रि० न० त०। १ अवेद्ये २ इदन्तया विज्ञातुमशक्ये परमेश्वरे पु० स हि प्रमाणान्तरावेद्यतया स्थूलदृष्ट्या न विज्ञेयः।
अविडीन = न० न विडीनम्। पक्षिणामाभिमुख्येन गमने
अवित = त्रि० अव–क्त। रक्षिते पालिते च।
अवितथ = न० वितथं मिथ्या विरोधे न० त०। सत्ये वचनादौ “तदवितथमवादीर्यन्मम त्वं प्रियेति” माघः “य आवृणोत्यवितथं ब्रह्मणा श्रवणावुभौ” मनुः २ तद्वति त्रि०। “अवितथा वितथा सखि! मा गिरः” माघः।
अवितर्क्य = न० तर्कयितुमशक्यः। तर्कयितुमशक्ये १ श्रौतार्थे। “अचिन्त्याः खलु ये भावा न तांस्तर्केण बाधयेत्” इत्युक्तेः विपरीततर्केणाबाध्यः श्रौतार्थः। २ तर्कमात्रेणाविज्ञेये च।
अवितारिन् = त्रि० वितारो विगमोऽस्त्यस्य न० त० स्त्रियां ङीप्। अनपायिनि “सुमेधामवितारिणीम्”। ऋ० २८, ५, ६,। “अवितारिणीम् वितारः विगमनमपायः अनपायिनीम्” भा०।
अवितृ = त्रि० अव–तृच् स्त्रियां ङीप्। रक्षितरि “सखीयतामविता बोधि सखा” ऋ० ४, १७, १८, सा नो बोध्यवित्री” ऋ०७, ९६, २।
अवित्त = त्रि० न० त०। १ अविख्याते। न० ब०। २ धनशून्ये त्रि०
अवित्ति = स्त्री विद–क्तिन् अभावे न० त०। लाभाभावे “अहमवित्त्यान्यानवृषि” छा० उ०। “अवित्त्याऽलाभेन” भा०। २ ज्ञानाभावे च। न० ब०। ३ लाभशून्ये ४ ज्ञानशून्ये च त्रि० अव्ययी०। ५ ज्ञानाभावे ६ लाभाभावे च अव्य०
अवित्यज = पु० न विशेषेण त्यज्यते रसायनादिषु त्यज–कर्म्मणि बा० क न० त०। पारदे राजनि०।
अविथुर = त्रि० व्यथ–उरच् कित् तेन संप्रसारणम् वेदे न थस्य धः न० त०। अवियुक्ते। “अनानता अविथुरा ऋजीषिणः” ऋ० १, ८७, १। “अविथुरा वियुक्ताः संङ्धीभूता इति भा० लोके तु अविधुरैत्येव।
अविथ्या = स्त्री अवये हिता अवि + थ्यन्। अजाहितायां यूथौ
अविदुग्ध = न० ६ त०। मेषीदुग्धे।
अविदित = त्रि० न विदितः। १ अज्ञाते। २ परमेश्वरे पु० “अन्यत्र विदितादन्यत्राविदितादन्यत्र कृताकृतादिति” श्रुतिः।
अविदाहिन् = त्रि० न विदाही न० त०। १ असन्तापके २ अदाहके च।
अविदूर = न० न० त०। १ समीपे अनतिदूरे २ तद्वर्त्तिनि त्रि०।
अविदूस = न० अवेर्दुग्धम् अवि + दुग्धे दूसच् न षत्वम्। मेषीदुग्धे।
अविद्धकर्ण्णी = स्त्री न विद्धः अच्छिद्रः पर्णरूपः कर्णोऽस्याः। पाठालतायाम्।
अविद्या = स्त्री न विद्या विरोधे न० त०। विद्याविरोधिनि १ अज्ञाने २ ज्ञानाभावे च। अविद्या च न्यायमते ज्ञानाभावः। सांख्यादिमते ज्ञानप्रागभावापरपर्य्यायज्ञानानगतावास्था सा च पञ्चभेदा “अविद्या पञ्चपर्व्वैषा प्रादुर्भूता महात्मनः” इति पुरा० पञ्च पर्ब्बाणि च “अविद्याऽस्मितारागद्वेषाभिनिवेशा” इति पात० सूत्रोक्तानि। तत्र “अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या” पात० सू०। व्याख्यातञ्च तद्वृत्तौ यथा अविद्या “अतस्मिन् तद्बुद्धिरित्यर्थः अमरा देवा इत्यनित्येषु नित्यत्वभ्रान्त्या देवत्वार्थं कर्म कृत्वा बध्यन्ते, एवमशुचौ स्त्रीकाये शुचित्वभ्रान्त्या बध्यन्ते तदुक्तं भगवता व्यासेन “स्थानाद्वीजादुपष्टम्भान्निष्यन्दान्निघनादपि। कायमाधेशौचत्वात् पण्डिताह्यशुचिं विदुरिति” विण्मूत्रसङ्कुलं मातुरुदरं स्थानं, शुक्रशीणितं वीजम्, अन्नपरिणामश्लेष्मादिरुपष्टम्भः सर्वद्वारैर्मलानां स्रवणं निष्यन्दः। निधनं मरणम्। तेन हि श्रोत्रियकायोप्यत्यन्ताशुचिर्भवति आधेयशौचत्वं स्नानानुलेपनादिना शुचित्वापादनम्। तथा परिणामदुःखे भोगे सुखत्वभान्तिः अनात्मनि वुद्ध्यादावात्मख्यातिः अविद्या तत्त्वविद्याविरोधिनीत्यर्थः। यद्यपि शुक्तिरूपाद्य- विद्याः सन्ति तथापि पञ्चविधैवाविद्या बन्धमूलमितिभावः” इयमविद्याऽदृष्टत्वेन नैयायिकैरङ्गीकृता “इत्येषा सह कारिशक्तिरसमा माया दुरुन्नीतितो मूलत्वात् प्रकृतिः प्रबोधभयतोऽविद्येति यस्योदिता” कुसु० “यस्येशस्य सहकारि शक्तिः कारणम् एषा सहकारिरूपा माया असमत्वात् सर्व्वकार्य्यापेक्षणीयत्वात् दुरुन्नेयत्वसादृश्यात् मायापदेऽदृष्टे लक्षणा। मूलत्वात् प्रकृतिः सैव, तत्त्वज्ञानप्रतिबध्यत्वात् सैवाविद्या उदिता उक्ता” हरिदासः। क्षणिकविज्ञानवादिनस्तु “अभिन्नोऽपि हि बुद्ध्यात्मा विपर्य्यासनिदर्शनैः। ग्राह्यग्राहकसंवित्तिर्भेदवानिव लक्ष्यते” इत्युक्तदिशा क्षणिकविज्ञानमेवैकं तत्त्वं बाह्यं वस्तु नास्ति तथाहि बाह्यपदार्थाभावेऽपि मिथ्याज्ञानरूपयाऽविद्यया सर्व्वं वस्तु कल्पितमित्याहुः। तदेतत् सांख्ये निराकृतम्। यथा “नाविद्यातोऽप्यवस्तुना बन्धायोगात्” सू० “अविद्यातोऽपि न साक्षाद्बन्धयोगः अद्वैतवादिनां “तेषामविद्याया अप्यवास्तत्वेन तया बन्धायोगात् न हि स्वाप्नरज्ज्वा बन्धनं दृष्टम्। नच “न निरोधो न चोत्पत्ति र्न बन्धो न च साधकः। न मुमुक्षु र्न वै मुक्त इत्येषा परार्थता” इति “बन्धमौक्षौ सुखं दुःखं मोहापत्तिश्च मायया। स्वप्ने यथात्मनःख्यातिः संसृतिर्न तु वास्तवी” इतिचोक्तेःबन्धोऽप्यवास्तव इति वाच्यम् विज्ञानाद्वैतश्रवणोत्तरं बन्धनिवृत्तये योगाभ्यासविरोधात् बन्धमिथ्यात्वश्रवणेन बन्धनिवृत्त्यासिड्वत्व निश्चयात् तदर्थबह्वायाससाध्ययोगाङ्गानुष्ठानासम्भवात्” भा० “वस्तुत्वे सिड्वान्तहानिः” सू० “यदि चाविद्याया वस्तुत्वं स्वीक्रियते तदा स्वाभ्युपगतस्याविद्यानृतत्वस्य हानिः” भा०। “विजातीयद्वैतापत्तिश्च” सू०। “किञ्चाविद्याया वस्तुत्वे क्षणिकविज्ञानसन्तानाद्विजातीयम् द्वैतं प्रसज्येत तच्च भवतामनिष्टम्। सन्तानान्तःपातिव्यक्तीनामानन्त्यात् सजातीयं द्वैतमिष्यतएव तैरित्याशयेन विजातीयेति। नन्वविद्याया अपि ज्ञानविशेषत्वादविद्यया कथं विजातीयद्वैतमिति चेन्न ज्ञानरूपाविद्याया बन्धोत्तरकालीनतया वासनारूपाविद्याया एव तैर्बन्धहेतुत्वाभ्युपगमात्। वासना तु ज्ञानाद्विजातीयेतिभावः” भा०। “नासद्रूपा न सद्रूपा माया नैवोभयात्मिका। सदसद्भ्यामनिर्वाच्या मिथ्याभूता सनातनी” त्युक्तिमनुसृत्याशङ्कते “विरुद्धोभयरूपा चेत्” सू० “विरुद्धं यदुभयं सदसच्च ततो विलक्षणणं वा तद्रूपैवाविद्या वक्तव्या अतो न तया पारमार्थिकाद्वैतभङ्ग इति चेदित्यर्थः। व्यक्ताव्यक्तत्वरूपसदसत्तयोः स्वमतसिद्धयोर्विरोधोनास्तीति सूचनाय विरुद्धेतिपदम्” भा० दूषयति। “न तादृक्पदार्थाप्रतीतेः” सू०। विरुद्धधर्म्मवत्पदार्थस्यासिद्धेरित्यर्थः। अपि चाविद्यायाः साक्षादेव दुःखयोगाख्यबन्धहेतुत्वे ज्ञानेन विद्याक्षयानन्तरं प्रारब्धभोगानुपपत्तिः बन्धपर्य्यायस्य दुःखभोगस्य कारणनाशात्। अस्मदादिमते तु नायं दोषः संयोगद्वारैवाविद्याकर्म्मादीनां बन्धहेतुत्वात् जन्माख्यः संयोगः प्रारब्धसमाप्तिं विना न नश्यति” भा०। पुनः शङ्कते। “न वयं षट्पदार्थवादिनो वैशेषिकादिवत्” सू० “वैशेषिकाद्यास्तिकवन्न वयं षट्षोडशादिनियत पदार्थवादिनः। अतोऽप्रतीतोऽपि सदसदात्मकः सदसद्विलक्षणो वा पदार्थोऽविद्योत्यभ्युपेयमिति भावः” भा०। परिहरति। “अनियतत्वेऽपि नायौक्तिकस्य संग्रहोऽन्यथा बा लोन्मत्तादिसमत्वम्” सू०। “पदार्थनियमोमास्तु तथापि भावाभावविरोधेन युक्तिविरुद्धस्य सदसदात्मकपदार्थस्य संग्रहो भवद्वचनमात्राच्छिष्याणां न सम्भवति। अन्यथा बालकाद्युक्तस्याप्ययौक्तिकस्य संग्रहः स्यादित्यर्थः। श्रुत्यादिक मस्मिन्नर्थे स्फुटं नास्ति युक्तिविरोधेन च सन्दिग्धश्रुतेरर्थान्तरसिद्धिरिति भावः” भा०। एवं क्षणिकविज्ञानवादनिर सनेन वेदान्तिसमुद्भाविताविद्याऽपि प्रकृतिरेवेति तत्रैव व्यवस्थापितम्। यथा “पारम्पर्येऽप्येकत्र परिनिष्ठेति संज्ञामात्रम्” सू०।। “अविद्यादिद्वारेण परम्परया पुरुषस्यजगन्मूलकारणत्वेऽप्येकस्मिन्नविद्यादौ यत्र कुत्रचिन्नित्ये द्वारे परम्परायाः पर्यवसानं भविष्यति पुरुषस्यापारिणामित्वात्। अतो यत्र पर्यवसानं सैव नित्या प्रकृतिः। प्रकृतिरिह मूलकारणस्य संज्ञामात्रमित्यर्पः” भा०।। नन्वेवं अविद्या स्थानीय प्रकृतेर्नित्यत्वानुपपत्तेस्तस्या उत्पत्तिश्रुतेर्ज्ञाननाश्यत्वाच्चेत्याशयेन मूलसमाघानमाह। “समानः प्रकृतेर्द्बयोः” सू०।। “वस्तुतस्तु प्रकृतेर्मूलकारणविचारेद्वयोर्वादिप्रतिवादिनोरावयोः समानः पक्षः। एतदुक्तं भवति यथा प्रकृतेरुत्पत्तिः श्रूयते एवमविद्याया अपि। “अविद्या पञ्चपर्वैषा प्रदुर्भूता महात्मनः” इत्यादिवाक्यैः। अत एकस्या अवश्यं गौण्युत्पत्तिर्वक्तव्या। तत्र च प्रकृतेरेव पुरुषसंयोगादिभिरभिव्यक्तिरूपा गौण्युत्पत्तिर्युक्ता। “संयोगलक्षणोत्पत्तिः कथ्यते कर्मज्ञानयोरिति” कौर्मवाक्ये प्रकृतिपुरुषयोर्गौणोत्पत्तिस्मरणात्। अविद्यायाश्च क्वापि गौणोत्पत्त्यश्रवणात्। तस्या अनादितावाक्यानि तु प्रवाहरूपेणैव वासनाद्यनादिवाक्यवद्व्याख्येयानीति। अविद्या च मिथ्याज्ञानरूपा बुद्धिधर्म इति योगे सूत्रितमतो न नित्यत्व- हानिः। अथ वा द्वयोः प्रकृतिपुरुषयोः समान एव न्याय इत्यर्थः। “यतः प्रधानपुरुषौ यतश्चैतच्चराचरम्। कारणं सकलस्यास्य स नो विष्णुः प्रसीदतु” इत्यादिवाक्यैः पुरुषस्याप्युत्पत्तिश्रवणादिति भावः। तथा च पुरुषस्येव प्रकृतेरप्रि गौण्येवीत्पत्तिः नित्यत्वश्रवणात्तदपि समानमिति। तस्मात् प्रकृतिरेवोपादानं जगतः प्रकृतिघर्मश्चाबिद्या जगन्निमित्तकारणं तथा पुरुषोऽपीति सिद्धम्। यत् तु। “अविद्यामाहुरव्यक्तं सर्गप्रलयधर्मिणम्” सर्गप्रलयनिर्मुक्तं विद्यां वै पञ्चविंशकम्” इति मोक्षधर्मे प्रकृतिपुरुषयोरविद्याविद्येति वचनं तत् तदुभयविषयतयोपचरितमेव। परिणामित्वेन हि पुरुषापेक्षया प्रकृतिरसतीति तस्या अविद्याविषयत्वमुक्तम्। एवमेव तस्मिन् प्रकरणे स्वस्वकारणापेक्षया भूतान्तं कार्यजातमविद्येत्युक्तं स्वस्वापेक्षया च स्वस्वकारणंविद्येति। पुरुषस्य परिणामरूपं जगदुपादानत्वं तु प्रकृत्युपाधिकमेव कर्तृत्वादिवच्छ्रुतिस्मृत्योरुपासार्थमेवानूद्यते। अन्यथा “अस्थूलमनण्वह्रस्वमित्यादि” श्रुतिविरोधापत्तेरिति मन्तव्यम्। मायाशब्देन च प्रकृतिरेवोच्यते “मायां तु प्रकृतिं बिद्यादिति” श्रुतौ “तस्मान्मायी सृजते विश्वमेतत्” “तस्मिंश्चात्मा मायया सन्निरुद्धः” इति पूर्वप्रक्रान्तमायायाः प्रकृतिस्वरूपतावचनात्। “सत्त्वं रजस्तम इति प्राकृतं तु गुणत्रयम्। एतन्मयी च प्रकृतिर्माया या वैष्णवी श्रुता”।। “लोहितश्वेतकृष्णेति तस्यास्तादृग्वहुप्रजाः” इत्यादिस्मृति भ्यश्च। न तु ज्ञाननाश्याविद्या मायाशब्दार्थो नित्यतानुपपत्तेः। किञ्चाविद्याया द्रव्यत्वे शब्दमात्रभेदो गुणत्वे च तदाधारतया प्रकृतिसिद्धिः पुरुषस्य निर्गणत्वादिभ्यः। अथ द्रव्यगुणकर्मविलक्षणैवास्माभिरविद्या वक्तव्येति चेन्न तादृक्पदार्थाप्रतीतेरुक्तत्वादिति” भा०। वेदान्तिनस्तु ज्ञानविरोधि अज्ञानापरपर्य्यायं पदार्थान्तरमविद्येति स्वीचक्रुः तच्च विस्तरेण अज्ञानशब्दे ९३ पृष्ठे दर्शितम्। इयञ्चाविद्या मूलाविद्यातूलाविद्याभेदेन द्विविधा। तत्र हिरण्यगर्भोपाधिर्मूलाविद्या तूलाविद्याश्च प्रतिजीवभेदं नाना मायाशब्देनाभिधीयन्ते। “मायोपाधिरयं जीवः अविद्योपाधिरीश्वर” इत्युक्तेः “इन्द्रोमायाभिः पुरुरूपईयते” इतिश्रुतेश्च तथात्वम्। मायानाञ्च मूलाविद्याकार्य्यत्वात् अविद्य्यशब्दवाच्यताऽपि। अतएव आविद्यिको जीव इति तत्तत्स्थाने भाष्यकारादिभिरुक्तम्। स्वस्वान्तःकरणरूपाविद्योपाधौ तत्त्वज्ञाने समुत्पन्ने तदीयैवाऽविद्या निवर्त्तते नान्यत्र इत्येकमुक्तौ न सर्वमुक्ति- रिति बन्धमांक्षव्यवस्था। अधिकमाकरे दृश्यम्। वैशेषिकास्तु विपर्य्ययसंशयज्ञानमविद्येत्याहुः तत्कारणप्रदर्शन पूर्ब्बकमविद्या लक्षिता वै० सू० उपस्करे च यथा “इन्द्रियदोषात् संस्करदोषाच्चाविद्या”।। “अविद्येति सामाम्यवाच्यपि पदं विपर्य्यये वर्त्तते प्रकरणात् संशयस्वप्नानध्यवसायानामुक्तत्वात्, तत्रेन्द्रियदोषोवातपित्ताद्यभिभवकृतमपाटवम्, संस्कारदोषोविशेषादर्शनसाहित्यं तदधीनं हि मिथ्याक्षानं जायते”।। “तच्च दुष्टज्ञानम्” सू०।। तदिऽत्यव्ययपदं सर्व्वनामसमानार्थकमविद्यां परामृशतिं साऽविद्या, दुष्टज्ञानं व्यभिचारि ज्ञानमतस्मिंस्तदितिज्ञानं व्यधिकरणप्रकारावच्छिन्नविशेष्यावृत्तिप्रकारकसिति यावत्, दोषश्च ज्ञानस्यानिश्चयरूपत्वमपि, तेनैककोटिसत्यत्वेऽपि संशयोदुष्ट एवानवधारणात्मकत्वात्’ तदनेन संशयोविपर्य्ययस्वप्नानध्यवसायानाञ्चत्तुर्णामप्युपसंग्रहः” उप०।। “विद्याविद्याद्वैविध्यात् संशयः” गौ० सू०। नास्ति विद्या शास्त्रादिज्ञानं यस्य। ३ शास्त्रादिज्ञानशून्ये त्रि० “अविद्यो वा सविद्यो वा ब्राह्मणो मामकी तनुः” पुरा०। “वैद्योऽविद्याय नाकामो दद्यादंर्श स्वतो धनात्” दा० भा० स्मृतिः। “अविद्यानान्तु सर्ब्बेषामीहातश्चेद्धनं भवेत्” मनुः”।
अविद्वेष = पु० अभावे विरोधे वा न० त०। १ विद्वेषाभावे २ अनुरागे च। न० ब०। ३ विद्वेषशून्ये ४ अनुरागयुक्ते च त्रि०
अविधवा = स्त्री विरोधे न० त०। सधवायां पतिवत्न्यां स्त्रियाम् “इमा नारीरविधवाः सपत्नीः” ऋ० १०, १८।
अविधा = स्त्री अभावे न० त०। प्रकाराभावे न० व०। प्रकारशून्ये
अविधान = न० अभावे न० त०। १ विधानाभावे २ इतिकर्त्तव्यता क्रमाद्यभावे। “अविधानेन यत् कुर्य्यात् तत्सर्व्वं विफलं भवेत्” स्मृतिः न० ब०। ३ विधानशून्ये त्रि०।
अविधि = पु० अभावे न० त०। विध्यभावे इतिकर्त्तव्यता क्रमाद्यभावे न० ब०। विधानशून्ये त्रि०।
अविन = पु० अवति यज्ञम् अव–इनन्। अध्वर्य्यौ उज्ज्व०।
अविनय = पु० अभावे न० त०। १ विनयाभावे। विरोधे न० त०। २ दुर्नये। “अविनयमपनय विष्णोः” शङ्करा० “बहवोऽविनयान्नष्टा राजानः सपरिच्छदाः” “वेणोविनष्टोऽविनयान्नहुषश्चैव पार्थिवः” इति च मनुः न० ब०। “विनयशून्ये त्रि०।
अविनश्वर = त्रि० विरोधे न० त०। १ विनश्वरमिन्ने चिरस्थायिनि, २ कूटस्थे परमेश्वरे पु०।
अविनाभाव = पु० विना व्यापकमृते न भावः स्थितिः अस० स०। १ व्यापकस्थित्यनुरोधिसत्तारूपायां व्याप्तौ। २ सम्बन्धमात्रे च “अविनाभावोऽत्र सम्बन्धमात्रम्” काव्यप्र० “अथ केयमाकाङ्क्षा न तावत् अविनाभावः” इति शब्दचिन्ता०।
अविनाभाविन् = त्रि० न विना व्यापकम् भवति भू–णिनि। व्याप्ये “व्यक्त्यविनाभावित्वात्तु जात्या व्यक्तिराक्षिप्यते” का० प्र०।
अविनाभूत = त्रि० न विना व्यापकमृते भूतः। १ व्याप्ते २ संबन्धमात्रे च “अभिधेयाविनाभूतप्रतीतिर्लक्षणोच्यते” का० प्र०।
अविनाशिन् = त्रि० न विनाशी स्त्रियां ङीप्। अविनश्वरे नित्ये “अविनाशी वा अरे अयमात्मा” श्रुतिः।
अविनीत = त्रि० न विनीतः। १ विनयशून्ये २ कुत्सितक्रियानुरक्ते ३ उद्धते ४ अदान्ते च। “ववृते विनीतमविनीतशासिभिः” माघः। ५ अशिक्षिते च “नाविनीतैर्व्रजेद्धुर्य्यैर्न च क्षुद्व्याधिपीडितैः” मनुः। ६ कुलटायां स्त्री।
अविनीय = पु० विनीयः कल्कः कपटञ्च न० ब०। कपटशून्ये “अविनीयसंभ्रमविकाशिभक्तिभिः” माघः।
अविनेय = त्रि० न विनेतुं शक्यः। दुर्दमे अश्वादौ।
अविन्ध्य = पु० राक्षसभेदे हरिवंशे विवरणम्।
अविपट = अवीनां विस्तारः अवि + पटच्। मेषविस्तारे।
अविपश्चित् = पु० विरोधे न० त०। विचारशून्ये तात्पर्य्यज्ञानशून्ये ३ अविवेकिनि च।
अविपाक = पु० विशेषेण पच्यते फलरूपेण वि + पच घञ् न० त०। फलरूपेणापरिणते १ धर्म्माधर्म्मोदौ। “विपाकश्च जात्यायुर्भोगाः” इति पातञ्जले उक्तः तद्रूपेणापरिणामश्च फलरूपतयाऽनाविर्भावः विहिताविहितकर्म्मणोविशिष्टदेशकालनियतत्वात् यदा कर्म्मबलीयसा प्रतिबद्धं तदा तत् कर्म अविपाक इत्युच्यते। विपाकः अन्नादेः पाकः अभावे न० त०। सुश्रुतोक्ते १ पाकाभावे २ “अरोचकाविपाकौ तु शर्करार्त्ते भवन्ति च”। नास्ति विपाको यत्र। अग्निमान्द्यहेतुके ३ रोगभेदे च “एतन्नवायसमेतेन जाटर्य्यं न भवति सन्नोऽग्निराप्यायते दुर्नामशोफपाण्डुकुष्ठरोगाविपाककाशश्वासप्रमेहाश्च न भवन्ति” सुश्रुतः।
अविपाल = त्रि० अवीन् पालयति पा–णिच् लः उप० स०। मेषपालके।
अविपुल = त्रि० विरोधे न० त०। विपुलभिन्ने क्षुद्रे।
अविप्रकृष्ट = त्रि० विरोधे न० त०। सन्निकृष्टे।
अविप्रिय = पु० अवीन् भेषान् प्रीणाति प्री–क। १ श्यामाकतृणे विप्रियमपकारः न० त०। २ अनपकारे ३ आनुकूल्ये। न० ब०। ४ अपकारशून्ये त्रि०। ५ श्येतालतायां स्त्री।
अविप्लुत = त्रि० न विप्लुतः नष्टः। अविनष्टे “अविप्लुतब्रह्मचर्य्यः सवर्ण्णां स्त्रियमुद्वहेत्” स्मृतिः।
अविभक्त = त्रि० वि + भज–क्त न० त०। १ संसृष्टेविभागरहिते २ द्रव्ये३ तत्स्वामिनि च। “अविभक्तं स्थावरं यत् सर्व्वेषामेव तद्भवेदिति” “अविभक्ता विभक्ता वा सपिण्डाः स्थावरे समाः” इति च स्मृतिः। ४ अभिन्ने एकभावापन्नेऽर्थे ५ अव्यावृत्ते अधिष्ठानतया ६ सर्व्वत्रानुस्यूते वाधाशून्यत्वेन स्वस्मिन् ७ वर्त्तमाने च।
अविभावित = त्रि० न विभावितः। २ अलक्षिते २ अचिन्तिते साक्षिप्रभृतिप्रमाणादिना ३ स्वकीयत्वेनानुद्भाविते स्वरूपेण ४ अज्ञापिते च।
अविमुक्त = त्रि० वि + मुच–क्त न० त०। १ मुक्तभिन्ने। “न विमुक्तं शिवाभ्यां यदविमुक्तं ततो विदुः” इत्युक्तलक्षणे २ काशीक्षेत्रे न०। ३ मूर्द्धचिवुकान्तरालस्थाने च। “यएषोऽनन्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठितः” इति जावा० उ०। “आसनन्ति चैनमस्मिन्” शा० सू०। “आमनन्ति चैनं परमेश्वरमस्मिन् मूर्द्धचिवुकान्तराले” भा० इमामेव श्रुतिं केचित् काशीविषयतया वर्ण्णयन्ति वाक्यशेषे “अविमुक्तः कस्मिन् प्रतिष्ठित” इति प्रश्ने नासीवरणामध्यस्थितत्वप्रत्यभिज्ञानात्। “अपरोक्षवचना देवा इत्युक्तेः असीतिवक्तव्ये नाशीतिवर्ण्णव्यत्यय इति तेषामाशयः। अविमुक्तक्षेत्रञ्च असीवरणयोर्मध्ये गङ्गापश्चिमतटस्थं परितः पञ्चक्रोशात्मकम्। तद्विवरणं काशीखण्डेऽनुसन्धेयम्।
अवियोग = पु० अभावे न० त०। १ वियोगाभावे। विरोधे न० त०। २ संयोगे। न० ब०। ३ वियोगशून्ये ४ संयुक्ते च। वियोगः विच्छेदः संयोगाभावः विभागश्च।
अवियोगव्रत = न० अवियोगार्थं व्रतम्। मार्गशीर्षशुक्लतृतीया कर्त्तव्ये स्त्रीणां व्रतभेदे “अवैधव्यप्रदं स्त्रीणामवियोगव्रतं त्विदम्। मार्गशीर्षे सिते पक्षे स्नातो शुक्लाम्बरप्रिया। दृष्ट्वा चन्द्रं द्वितीयायां नक्तं भुञ्जीत पायस” मित्युपक्रम्य कालिकापुराणे दर्शितम्। तद्विधिश्च हेमा० व्र० ख० तृतीयाव्रतप्रकरणे उक्तस्तत एवावसेयः।
अविरण = न० विरमणं विनाशः अभावे न० त० वेदे मस्य लुक्। विनाशाभांवे “सहो बभोऽविरणाय पूर्व्वीः” ऋ० १, १७४, ८ “अविरणाय अविनाशाय” भा०।
अविरत = न० विरतं विरामः भावे क्त अभावे न० त०। १ विरामाभावे नैरन्तर्य्ये। कर्त्तरि क्त न० त०। २ विरामशून्ये ३ सन्तते द्रव्यादौ त्रि० क्रियाविशेषणत्वे न०। ४ कार्य्यादनिवृत्ते त्रि०। “अविरतदयिताङ्गासङ्गसञ्चारितेन” माघः।
अविरति = स्त्री विरामो विरतिः भावे क्तिन् अभावे न० त०। १ निवृत्त्यभावे २ विषयादौ–स्थिरचित्ततायाम् ३ विरामाभावे च। न० ब०। ४ विरामशून्ये त्रि०।
अविरल = त्रि० न विरलः न० त०। घने, निविडे। विरलताच विच्छित्तिः तद्विपरीतं निविडत्वं मध्येऽविच्छेदः।
अविराम = पु० अभावे न० त०। १ विरामाभावे २ विच्छेदाभावे। न० ब०। ३ विरामशून्ये ४ सन्तते च त्रि० ‘अनिमिषमविरामा रागिणां सर्व्वरात्रम्” माघः।
अविरुद्ध = त्रि०। न० त०। १ विरुद्धभिन्ने २ विरोधशून्ये ३ एकत्रसहावस्थायिनि ४ अप्रतिबद्धे च।
अविरोध = पु० विरोधः सहानवस्थानमेकदेशे समावेशो वा अभावे न० त०। सहानवस्थानाभावे १ एकत्रावस्थाने २ एकत्र समावेशे च। “श्रुतिस्मृतिविरोधे च श्रुतिरेव गरीयसी। अविरोधे तयोः कार्य्यं स्मार्त्तं वैदिकवत् सदा, स्मृतिः “सर्वेषामविरोधेन ब्रह्मकर्म्म समारभे” पुरा० “शेषं वाऽविरोधात्” कात्या० २। ६। ३६। “नाविरोधात्” कात्या० ५। ११। ८। ३ विवादाभावे च।
अविलक्षण = त्रि० विलक्षणो भेदकधर्म्भाश्रयः विरोधे न० त०। १ तुल्यरूपे २ भेदकधर्म्मशून्ये।
अविलक्ष्य = त्रि० नास्ति विशेषेण लक्ष्यं व्याजः उद्देश्यं शरव्यं वा यस्य। १ व्याजशून्ये २ उद्देश्यशून्ये ३ शरव्यशून्ये ४ प्रतिकारशून्ये च “अविलक्ष्यमस्त्रमपरं कतमम्” किरा०। “अविलक्ष्यमसत्प्रतिकारम्” मल्लि०।
अविलम्ब = न० अभावे न० त०। १ विलम्बाभावे शौघ्र्ये। न० व०। २ विलम्बशून्ये त्रि० विलम्बश्च कार्य्योत्पत्तिसाधककालप्रागभावः। तच्छून्यः अविलम्बः।
अविलम्बित = त्रि० वि + लबि–क्त न० त०। विलम्बशून्ये १ त्वरायुक्ते द्रव्यादौ। क्रियाविशेषणत्वे न०। “अविलम्बितो द्वितीयः” कात्या० १०, १, ८,।
अविला = स्त्री अव–इलच्। मेष्याम् १ नास्ति विलं यत्र। २ गर्त्तशून्ये त्रि०।
अविलास = पु० अभावे न० त०। १ विलासाभावे २ अप्रकाशे न० व०। ३ तच्छून्ये त्रि०।
अविवक्षित = त्रि० न विवक्षितः। १ वक्तुमनिष्टे २ तात्पर्य्याविषयीभूते “बहुत्वमविवक्षितमिति रघु०।
अविवर = त्रि० नास्ति विवरं छिद्रं यत्र। नीरन्ध्रे घने।
अविवाच्य = न० नास्ति विशेषेण वाच्यो मन्त्रादिः यत्र। अत्यग्निष्टोमसंस्थे दशमाहे “अत्यग्निष्टोमोऽविवाच्यं दशमम्” कात्या० १२, ३, २१,। “अत्यग्निष्टोमसंस्थमविवाच्यं दशममहर्भवति” कर्क०। “नास्मिन्नहनि केनचित् कस्यचित् विवाच्यमविवाच्यमित्याचक्षते” आश्व० श्रौ० २, १२, १०। अस्मिन्नहनि केनचित् कस्मैचित् कर्त्त्रे मन्त्रः कर्म्म वा न विवाच्यं नाख्यावव्यमित्यर्थः कुतः? यस्मादेतदहः अविवाच्यमिति श्रुतौ प्रसिद्धम् परस्परमविवचनीयमेतस्मिन्नहनीत्यविवाच्यमिदमहर्भवति।
अविवाद = पु० विरुद्धो वादः कथनं व्यवहारभेदः विरोधश्च अभावे ३ न० त०। १, विरुद्धवादाभावे ऐक्यमत्ये २ अव्यवहारे ३ विरोधाभावे च न० ब० ४ तच्छून्ये त्रि०।
अविवाहित = त्रि० न० त०। विवाहितभिन्ने अनूढे अजातविवाहसंस्कारे।
अविविक्त = त्रि० न० त०। १ एकीभूते २ विवेकशून्ये ३ अन्योन्यतादात्म्यापन्ने “तप्तायःपिण्डवदविवक्तं सत् तदेव महावाक्यस्य वाच्यार्थो भवति” वेदान्तसा०।
अविवेक = पु० न विवेकः भेदकधर्म्मेण ज्ञानम् अभावे न० त०। अन्योन्यतादात्मारोपहेतौ १ विशेषज्ञानाभावे इति नैयायिका। विरोधे न० २ अन्योन्यतादात्म्यज्ञानरूपे मिथ्याज्ञाने “तद्योगोऽप्यविवेकात्” सा० सू०। “अयञ्चाविवेकोऽगृहीतासंसर्गकमुभयज्ञानमविद्यास्थलाभिषिक्तं विवक्षितः” “बन्धोविपर्य्यात्” विपर्ययभेदाः पञ्च” इत्यागामिसूत्रद्वयात् “तस्य हेतुरविद्येति” योगसूत्रेऽप्यविद्याया एव पञ्चपर्ब्धरूपाया बुद्धिपुरुषसंयोगहेतुतया वचनाच्चान्ययाख्यात्यनभ्युपगमएव योगतोऽत्र विशेषौचित्यात्। न पुनरविवेकोऽत्राभावमात्रं विवेकप्रागभावो वा मुक्तस्यापि बन्धापत्तेः जीवन्मुक्तस्यापि भाविविवेकव्यक्तिप्रागभावेन धर्माधर्म्मोत्पत्तिद्वारा पुनर्बन्धप्रसङ्गाच्च। तथागामिसूत्रस्थध्वान्तदृष्टान्तानुपपत्तेः अभावस्य ध्वान्तवदावकरत्वाभावात्। तथा वृद्धिह्रासावप्यविवेकस्य श्रूयमाणौ नोपपद्येयातामिति। अस्मन्मते च वासनात्मकर्स्यवाविवेकस्य संयोगाख्यजन्महेतुतया तमोवदावरकत्ववृद्धिह्रासादिकमञ्जसैवोपपद्यते। “तस्य हेतुरविद्येति” पातञ्जलसूत्रे च भाष्यकारैरविद्याशब्देनाविद्यावीजं व्याख्यातम् ज्ञानस्य संयोगोत्तरकालीनत्वेन संयोगाजसकत्वादिति। अपि च “पुरुषः प्रकृतिस्थो हि भुङ्क्त” इत्यादिवाक्येष्वभिमानाख्यसंयोगस्यैव प्रकृतिस्थताख्यसंयोगहेतुतावगम्यते। अत एव चाविद्या नाभावोऽपि तु विद्याविरोधिज्ञानान्तरमिति योगभाष्ये व्यासदेर्वः प्रयत्नेनावधृतम्। तस्मादविवेकाविद्ययोस्तुल्ययोगक्षेमतया-ऽविवेकस्यापि ज्ञानविशेषत्वमिति सिद्धम्। अयं चाविवेकस्त्रिघा संयोगाख्यजन्महेतुः साक्षात्, धर्माधर्मोत्पत्तिद्वारा, रागादिदृष्टद्वारा च भवति” सां० प्र० भा०। अधिकमविद्या शब्दे दृश्यम्।
अविवेचक = त्रि० न० त०। विवेचकभिन्ने कार्य्याकार्य्यविवेचना शून्ये।
अविवेन = त्रि० “वेनतिः कान्तिकर्म्मा” निरु० वि + वेन–अच् न० त०। विगतेच्छभिन्ने इच्छाशीले। “मनसाऽविवेनं तमित् सखायम्” ऋ० ४, २४, ६,। “अविवेनमिच्छाविगमशून्यम्” भा०
अविशङ्का = स्त्री विशेषेण शङ्का अभावे न० त०। १ विशेषशङ्का भावे। न० ब० २ विशङ्कारहिते त्रि०।
अविशङ्कित = त्रि० वि + शकि–कर्त्तरि क्त, विशङ्का जाताऽस्य इतच् वा न० त०। १ विशङ्कारहिते। “विदध्यादविशङ्कितः” स्मृतिः। २ अजातशङ्के च।
अविशस्तृ = त्रि० न विशस्ता विशसने कुशलः। यज्ञियपशुहिंसनेऽनिपुणे शमितरि “मा ते गृध्नुरविशस्तातिहाय” ऋ० १, १६२, २०।
अविशुद्ध = त्रि० विरोधे न० त०। विशुद्धभिन्ने सदोषे।
अविशुद्धि = स्त्री विरोधे न० त०। शुद्धिविपरीते दोषे “सह्यविशुद्धिक्षयातिशययक्तः” सां० का०। अविशुद्धिर्हिंसादोषसाधनता यथोक्तम् “अविशुद्धिः सोमादियागस्य पशुवीजादिबधसाधनता यथाह स्म भगवान् पञ्चशिखाचार्य्यः “स्वल्पसङ्करः सपरिहारः सप्रत्यवमर्ष” इति। स्वल्पसङ्करः ज्योतिष्टोमादिजन्मनः प्राधानापूर्वस्य स्वल्पेन पशुहिंसादिजन्मनानथेहेतुना अपूर्वेण सङ्करः। सपरिहारः कियतापि प्रायश्चित्तेन परिहर्त्तुं शक्यः। अथ प्रमादतः प्रायश्चित्तमपि नाचरितं प्रधानकर्म्मविपाकसमये च पच्यते तथापि यावदसावनर्थं सूते तावत् सप्रत्यवमर्षः प्रत्यवमर्षेण सहिष्णुतया सह वर्त्तत इति। मृष्यन्ते हि पुण्यसम्भारोपनीतस्वर्गसुधामहाह्रदावगाहिनः कुशलाः पापमात्रोपपादितां दुःखवह्निकणिकाम्। न च “मा हिंस्यात् सर्व्वाभूतानीति सामान्यशास्त्रं विशेषशास्त्रेण “अग्नीषोमीयं पशुमालभेतेत्यनेन” बाध्यत इति युक्तं विरोधाभावात् विरोधे हि बलीयसा दुर्बलं बाध्यते। न चेहास्ति कश्चित् विरोधः भिन्नविधयत्वांत्। तथा हि “मा हिंस्यादिति” निषेधेन हिंसाया अनर्थहेतुभावो ज्ञाप्यते न त्वक्रत्वर्थत्वमपि “अग्नीषोमीयं पशुमालभेत” इत्यनेन तु पशुहिंसायाः क्रत्वर्थत्वमुच्यते न त्वनर्थहेतुत्वाभावस्तथा सति वाक्यभेदप्रसङ्गात् न चानर्थहेतुत्वक्रतूपकारकत्वयोः कश्चिदस्ति विरोधः। हिंसा हि पुरुषस्य दोषमावक्ष्यति क्रतोश्चोपरिकरिष्यति” सा० कौ०। इति सांख्या मन्यन्ते मीमांसका वेदान्तिनश्च वैधहिंसाया अनर्थहेतुत्वं निराचक्रुः तच्च शा० सूत्रे तद्भाष्ये च प्रपञ्चेनोक्तम् तत्तु ४४३ पृष्ठे उदाहृतम्।
अविशेष = यु० विशेषोभेदकधर्म्मः अभावे न० त०। १ भेदकधर्म्माभावे “वायुमब्दादविशेषविशेषाभ्याम्” शा० सू०। २ अभेदे ऐक्ये च। न० ब०। ३ विशेषशून्ये तुल्ये त्रि० सांख्यादिमतसिद्धेषु शान्तत्वघोरत्वमूढत्वरूपविशेषशून्येषु स्थूलभूतोपादानेषु ४ सूक्ष्मभूतेषु। तानि च तन्मात्राणि यज्जातीयेषु शान्तादिविशेषत्रयं न तिष्ठति तज्जातीयानां शब्दस्पर्शरूपरसगन्धानामाधारभूतानि सूक्ष्मद्रव्याणि स्थूलानामविशेषाणि। “तस्मिंस्तस्मिंस्तु तन्मात्रास्तेन तन्मात्रता स्मृता। न शान्ता नापि घोरास्ते न मूढाश्चाविशेषिणः” इति विष्णुपुराणादिभ्यः। अस्यायमर्थः तेषुतेषु भूतेषु तन्मात्रास्तिष्ठन्तीति कृत्वा धर्मघर्म्यभेदाद्द्रव्याणामपि तन्मात्रता स्मृता। ते च पदार्थाः शान्तघोरमूढाख्यैः स्थूलगतशब्दादिविशेषैः शून्या एकरूपत्वात्। तथा च शान्तादिविशेषशून्यशब्दादिमत्त्वमेव भूतानां शब्दादितन्मात्रत्वमित्याशयः। अतोऽविशेषिणोऽबिशेषसंज्ञिता इति शान्तं सुखात्मकं, घोरं दुःखात्मकं, मूढं मोहात्मकम्। तन्मात्राणि च देवादिमात्रभोग्यत्वेन केवलं सुखात्मकान्येव सुखाधिक्यादिति” सां० प्र० भा०। नन्मात्राण्यविशेषाः” सां० का० तत्सत्त्वे च प्रमाणं तन्मात्रशब्दे दर्शयिष्यते। नित्ययोगे इनि। अविशेषीत्यपि तन्मात्रे।
अविशेषज्ञ = त्रि० विशेषं न जानाति ज्ञा–क असम० स०। विशेषानभिज्ञे भेदकधर्म्मानभिज्ञे।
अविशेषित = त्रि० न विशेषितः भेदकधर्म्मेण। यस्य इतरस्मात् विशेषणेन व्यावृत्तिर्नकृता तस्मिन् पदार्थे।
अविश्रान्त = त्रि० वि + श्रम–क्त न० त०। १ विरामरहिते २ सन्तते ३ अक्लिष्टे च
अविश्वसनीय = त्रि० वि + श्वस–अनीयर न० त०। विश्वासकरणायोग्ये।
अविश्वस्त = त्रि० न० त०। विश्वासयोग्यताहीने “न विश्वसेदविश्वस्तेविश्वस्ते नातिविश्वसेत्” हितो०।
अविश्वास = पु० अभावे न० त०। १ विश्वासाभावे न० ब०। २ विश्वासानाधारे ३ विश्वासायोग्ये पदार्थे च।
अविश्वासिन् = त्रि० न विश्वसिति णिनि स्त्रियां ङीप्। विश्वासाकारके।
अविश्लिष्ट = त्रि० विरोधे न० त०। विश्लिष्टभिन्ने सङ्गते।
अविष = पु० अव–टिषच्। १ समुद्रे, २ नृपे च। टित्त्वात् ङीप्। ३ नद्यां स्त्री। ४ रक्षकमात्रे त्रि०। नास्ति विषं यत्र। ५ यिषशून्ये त्रि०। “अपओषधीरविषा वनानि” ऋ० ६, ३९, ५, “अविषा विषरहिता निरक्षकाणि वा वनानि” भा०। विश्वायाम् अतिविषयाम् (आतैच्) स्त्री टाप्।
अविषक्त = त्रि० न० त०। असंलग्ने।
अविषम = त्रि० विरोधे न० त०। १ विषमभिन्ने समे (जोड) २ सुग्रहे ३ सुगमे च।
अविषय = पु० न० त०। १ अगोचरे २ अप्रतिपाद्ये। न० ब०। ३ विषयशून्ये त्रि०।
अविषह्य = त्रि० न विशेषेणसह्यः न० त०। १ सोढुमशक्ये २ इतरैर नभिभवनीये “अविषह्यविक्रमः, ३ परिच्छेत्तुमशक्ये च “सीमायामविषह्यायाम् स्वयं राजैव धर्मवित्” मनुः।
अविष्टम्भ = पु० अभावे न० त०। १ आलम्बाभावे। न० ब०। २ आलम्बनशून्ये त्रि०।
अविष्ठ = त्रि० अतिशयेन अविता अवितृ + इष्ठन् तृणोलोपः। अतिशयेन रक्षके। “यो अर्च्चतो ब्रह्मकृतिमविष्ठः” ऋ० ७। २८। ५ “अविष्ठः अतिशयेन रक्षिता” भा०।
अविष्या = स्त्री अव–गतौ इसुन् अविर्गतिमिच्छति क्यच्–भावे अ। गमनेच्छायाम्। “अविष्यामनुव्रतं सवितुः” ऋ० २, ३८, ३, “अविष्यां गमनेच्छाम्” भा०।
अविस् = न० अव–भावे इसुन्। १ रक्षणे २ गतौ च।
अविसंवाद = पु० विसंवादः प्रमाणानुसरणाभावः विरोधे न० त०। १ प्रमाणानुसरणे २ याथार्थ्यविषयकत्वे।
अविसंवादिन् = त्रि० विरोधे न० त०। प्रमाणान्तरानुसारिणि १ यथार्थ विषयके २ सफले पदार्थे च।
अविसोढ = न० अवेर्दुग्धम् अवि + सोढच् न षत्वम्। १ मेषीदुग्धे। न विसोढः। २ असोढे त्रि०।
अविस्थल = न० भारतोक्ते ग्रामभेदे। “अविस्थलं वृकस्थलं माकन्दीं वारणावतम्। अवसानञ्च गोविन्द! कञ्चिदेकञ्च पञ्चमम्” भा० उ० प०।
अविस्पष्ट = न० विस्पष्टं श्रुतमात्रेणार्थावबोधकं सुखेन श्रवणायोग्यञ्च। वि + स्पश–क्त न० त०। अस्पष्टवाक्ये।
अविस्मरण = न० अभावे न० त०। १ विस्मरणाभावे स्मरणे विस्मरणञ्चानुभूतपदार्थस्य कालरोगादि प्रयोज्यः स्मरणाभावः सच अनुभूतविषयेषूद्भूतसंस्कारस्यापि प्रणिधानादिकारणान्तराभावात् अनुद्बुद्धतया स्मृतिरूपकार्य्याजनने, रोगादिना नाशने च भवति। तदभावः अविस्मरणं तत्र च प्रणिधानादिसहकृतसंस्कारस्य स्मरणजनकता रोगाद्यनभिभवनीयता च। यथाह गौ० सू०। “प्रणिधानलिङ्गादिज्ञानानामयुगपद्भावाद्यु गपदस्मरणम्”। “प्रणिधानं चित्तै- काग्य्रं सुष्मूर्षेति यावत् लिङ्गज्ञानं उद्वोधकम् उद्वोधकानामानन्त्यादादिपदं ज्ञानात्परतोयोजनीयं तस्य क्रमात् स्मरणक्रमः यदि च युगपदुद्बोधकानि तदा तावद्विषयकमेकं स्मरणमिष्यत एव यथा पदज्ञानादाविति मन्तव्यम् वृत्तिः”। प्रणिधानादीनि च स्मृतिकारणानि तत्रैवोक्तानि। “प्रणिधाननिबन्धाभ्यासलिङ्गलक्षणसादृश्यपरिग्रहाश्रयाश्रित सम्बन्धानन्तर्य्यवियोगैककार्य्यविरोधातिशयप्राप्तिव्यवधान सुखदुःखेच्छाद्वेषभयार्थित्वक्रियारागधर्म्माधर्म्मनिमित्तेभ्यः” “स्मरणमित्थनुवर्त्तते निमित्तशब्दस्य द्वन्द्वात् परं श्रुतस्य प्रत्येक मभेदेनान्वयः। प्रणिधानं मनसोविषयान्तरसञ्चारवारणम्, निबन्धएकग्रन्थोपनिबन्धनं यथा प्रमाणेन प्रमेयादिस्मरणम्, अभ्यासः संस्कारबाहुल्यम्, एतस्य यद्यपि नोद्वोधकत्वं तथापि तादृशे शीघ्रमुद्बोधकसमवधानं स्यादित्याशयेन तदुपन्यासः। अभ्यासोदृढतरसंस्कारः उद्बोधकत्वेनोक्तैति केचित् लिङ्गं व्याप्यं व्यापकस्य स्मारकं, लक्षणं यथा कपिध्वजादि अर्जुनादेः, सादृश्यं देहादेः। परिग्रहः स्वीकारस्तस्य स्वस्वामि भावोऽर्थः तदेकतरेणान्यतरस्मरणम्, आश्रयाश्रितौ राजादि तत्परिजनौ परस्परस्मारकौ, सम्बन्धोगुरुशिष्यभावादिः, गोवृषन्थायात् पृथगुक्तः। आनन्तर्य्यं प्रोक्षणावघातादेः, वियो गोयथा दारादेः, एककार्य्या अन्तेवासिप्रभृतयः परस्परस्मारकाः। विरोधादहिनकुलादेरन्यतरेणापरस्मरणम्। अतिशयः संस्कारौपनयनादिराचार्य्यादिस्मारकः, प्राप्तिर्धनादेर्दातारं स्मारयति, व्यवधानमावरणं यथा खड्गादेः कोषादि। सुख दुःस्वयोरन्यतरेणापरस्य ताभ्यां तत्प्रयोजकस्य वा स्मरणम्, इच्छाद्वेषौ यद्विषयकतया गृहीतौ तस्य स्मारकौ, भयं मरणादेर्भयहेतोर्ब्बा स्मारकम्, अर्थित्वं दातुः, शाखादेः क्रिया वाय्वादेः, रागात्प्रीतेः पुत्रादेः स्मरणं,” धर्म्माघर्म्माभ्यां जन्मान्तरानुभूतसुखदुःखसाधनयोः प्रागनुभूत सुखादेश्च स्मरणमिति। तेषु च किञ्चित्, स्वरूपसत्किञ्चच्च ज्ञातमुद्बोधकं शिष्यव्युत् पादनाय चायं प्रपञ्चः” वृत्तिः। कणादेन तु स्मृतिसाधारणकारणमुक्तं यथा “आत्ममनसोः संयोगविशेषात् संस्काराच्च स्मृतिः” सू० “उत्पद्यत इति शेषः संयोगविशेषः प्रणिधानादिसन्निधानम्, एतस्मादसमवायिकारणादात्मनि समवायिनि स्मृतिर्विद्याविशेष उत्पद्यते, निमित्तकारणमाह संस्कारादिति चकारेण व्यापारी पूर्व्वानुभवः समुच्चीयते, अनुभवयाथार्थ्यायाथार्थ्यमियमनुविधत्ते, रज्जुं भुजङ्गतयोपलभ्य पलायितस्य तथैव स्मृतेः नचं सततं स्मृतिप्रसङ्गः, संस्कारोद्वोधा- धीनत्वात्, तदुक्तं प्रशस्तदेवपादैः “लिङ्गदर्शनेच्छानुस्मरणाद्यपेक्षादात्ममनसोः संयोगविशेषात् पट्वभ्यासादरप्रत्ययजनिताच्च संस्कारादॄष्टश्रुतानुभूतेषु शेषानुव्यवसायस्मरणेच्छाद्वेषहेतुरतीतविषया स्मृतिः” इति। आर्षं ज्ञानं सूत्रकृता पृथङ्ग लक्षितं, योगिप्रत्यक्षान्तर्भावितं, पदार्थप्रदेशाख्ये तु प्रकरणे तदुक्तं तद्यथा “आम्नायविधातॄणामृषीणामतीतानागतवर्त्तमानेष्वर्थेषु धर्म्मादिषु ग्रन्थोपनिवद्धेषु वा लिङ्गाद्यनपेक्षादात्ममनसोः संयोगाद्धर्म्मविशेषाच्च प्रातिभं ज्ञानं यदुत्पद्यते तदार्षम्” इति तच्च कदाचिल्लौकिकानामपि भवति यथा कन्यका वदति “श्वो मे भ्राता गन्तेति हृदयं मे कथयतीति” उप०। संस्कारनाश कानि च रोगकालजन्मान्तरादीनि। न० ब० स्मृतियुक्ते त्रि०
अविस्मृत = त्रि० न० त०। विस्मृतभिन्ने स्मृते।
अविहर्य्यत = त्रि० “हर्य्यतिः प्रेप्साकर्म्मेति” यास्कः वि + हर्य्य–अतच् न० त०। अनभिलषिते अनिष्टे “येनाविहर्य्यतक्रतोः” ऋ० १, ६३, २। अविहर्य्य त क्रतोरनभिलषित यज्ञस्य’ भा०।
अविहित = त्रि० न शास्त्रेण विहितः न० त०। १ निषिद्धे। २ अकृतेच
अविह्रुत = त्रि० वि + हृ–बा० उतच् किच्च न० त०। अहिंस्ये। “ताहि क्षत्रमविह्रुतम्” ऋ० ५, ६६, २, “अविह्रुतमहिंस्यम्” भा०।
अविह्वल = त्रि० विरोधे न० त०। व्याकुलभिन्ने स्वस्थे।
अवी = स्त्री अवत्यात्मानं लज्जया अव–ई। ऋतुमत्याम्।
अवीकाश = पु० वीकाशः प्रकाश उपसर्गदीर्घः अभावे न० त०। २ प्रकाशाभावे। न० ब०। २ प्रकाशशून्ये।
अवीक्षण = न० अभावे न० त०। १ दर्शनाभावे न० व०। २ दर्शनशून्ये त्रि०।
अवीक्षित = त्रि० न० त०। १ दृष्टभिन्ने। भावे क्त अभावे न० त०। २ वीक्षणाभावे न०।
अवीचि = पु० नास्ति वीचिः प्रकाशः सुखं वात्र। १ नरकभेदे तत्स्वरूपं तत्कारणञ्च भागवते ५ स्क० दर्शितं यथा “तामिस्रोन्धतामिस्र” इत्याद्युपक्रम्य “अवीचिरयःपानमित्यादिना अष्टाविंशतिनरकान् विभज्य “यस्त्विहानृतं वदति साक्ष्ये, द्रव्यविनिमये, दाने वा कथञ्चित्, स वैप्रेत्य नरके अवीचिमत्यधःशिरा निरवकाशे योजनशतोच्छ्रायात् गिरिमूर्द्धः सम्पात्यते। यत्र जलमिव स्थलमश्मपृष्ठमवभासते तदवीचिर्नाम तिलशोविशीर्य्यमाणशरीरो न म्रियमाणः पुनरारोपितो निपतति”–अवीचिमान् अवीचिमयोऽप्यत्र। २ तरङ्गशून्ये जलाशये त्रि०।
अवीज = त्रि० नास्ति वीजमस्य। वीजशून्ये १ फलादौ। २ द्राक्षायां स्त्री। वीजानाधायके त्रि० “अवीजमपि क्षेत्रं केवलं स्थण्डिलं भवेत्” मनुः। अप्राशस्त्ये न० त०। अङ्कुरोत्पादनायासमर्थे त्रैहायाणादौ ३ वीजे च। “अवीजविक्रयी चैव वीजोत्कृष्टं तथैव च” मनुः। “अवीजं प्ररोहासमर्थमिति” कुल्लू०। वीजं शुक्रं न० ब०। शुक्ररहिते ४ क्लीवे न०। “न मूत्रं फेनिलं यस्य विष्ठा चाप्सु निमज्जति। मेढ्रंचोन्मादशुक्राभ्यां स क्लीव इति कथ्यते” स्मृतेस्तस्य तथात्वम्। “उन्मत्तं पतितं क्लीवमवीज’ पापरोगिणम्” इति मनुः। ५ कारणशून्ये त्रि० ६ योगोक्ते निर्वीजे चित्तवृत्तिपरिणामनिरोधे पु०।
अवीत = न० अनुमानभेद्रे तच्च दर्शितं सा० कौ० “तच्च प्रथमं तावत्द्विविधं वीतसवीतञ्च अन्वयमुखेन प्रवर्त्तमानं विधायकं वीतम् व्यतिरेकमुखेन प्रवर्त्तमानं निषेधकमवीतम्” व्याख्यातञ्चैतदस्माभिःयथा “वीतं विशेषेण इतं सङ्गतमन्वितम् अन्वयव्याप्तिहेतुकमित्यर्थः यद्वा विशेषेण इतं ज्ञातं प्रसिद्धसाध्यव्याप्तिकमित्यर्थः तद्भिन्नमवीतम् व्यतिरेकव्याप्तिहेतुकम् अप्रसिद्धसाध्यव्याप्तिकं वेत्यर्थः व्यतिरेकमुखेन तदसत्त्वे तदसत्त्वरूपव्यतिरेकद्वारा साध्याभावव्यापकीभूताभावप्रतियीगित्वरूपव्यतिरेकव्याप्तिद्वारेत्यर्थः। निषेधकं यो यः पृथिवीभेदवान् स गन्धाभाववान् इति व्यतिरेकग्रहणेन व्यापकस्य गन्धाभावस्य पृथिव्यां निवृत्त्या पृथिवीभेदरूपस्य गन्धाभावव्याप्यस्य निवारकम्। तथा च पृथिवी पृथिवीतरभिन्ना गन्धवत्त्वादित्यनुमानमवीतम्”।
अवीर = त्रि० वीरः पुत्रादिर्नास्ति यस्य। १ पुत्रादिशून्ये। न० त० २ वीर्य्यवद्भिन्ने त्रि०। “पतिपुत्रवती नारी वीरा प्रोक्ता मनीषिभिः” इति परिभाषिता स्त्री वीरा न० त०। ३ पतिपुत्ररहितायां स्त्रियां स्त्री। “अजातपुत्रा विधवा साऽवीरा परिकीर्त्तितेति” स्मृतिः। “मा त्वा वयं सहसावन्नवीराः” ऋ० ७, ४, ६,। “अवीराः पुत्रादिरहिताः” भा०। “अवीरायाश्च योषितः” स्मृतिः।
अवृक = त्रि० वृ–कक् वृकः आवरकः न० ब०। आवरकशून्ये “ज्योतींषि कृण्वन्नवृकाणि” ऋ० १५५, ६, “वृकेणावरकेण रहितानि” भा०।
अवृत्ति = स्त्री वृत्तिर्जीवनोपायः अभावे न० त०। १ जीविकाभावे “आददीताममेवास्मादवृत्तावेकरात्रिकम्” अवृत्तिकर्षिता हि स्त्री प्रदुष्येत् स्थितिमत्यपि” अवृत्तिकर्षितः सीदन्निमं धर्म्मं समाचरेत्” इति च मनुः। नास्ति वृत्तिः स्थितिरस्य। २ अविद्यमाने। “साध्याभावदवृत्तित्वम्” साध्यवदन्यावृत्तित्वम्” इति च अनुचिन्ता०। न० ब०। जीविकाशून्ये त्रि०
अवृद्धिक = न० नास्ति वृद्धिः यत्र कप्। ऋणादौ वृद्धिः लाभरूपा (सुद) तद्रहिते १ मूलधने। तच्च स्मृतौ दर्शितं यथा “ऋणं पैतामहं पैत्रं प्रतिभाव्यागतं सुतः। समं दद्यात् तत्सुतौ च न दाप्याविति निश्चयः”। “समं सवृद्धि कम्” “ऋणमात्मोयवत् पित्र्यं पुत्रैर्देयं विभावितम्। पैतामहं समं देवमदेयं तत्सुतस्य च” या० स्मृ०। “समयावत् गृहीतं तावद्देयं न वृद्धिः” मिता०। “गोप्याधिभोगे नो वृद्धिः सोपकारेऽथ हापिते। नष्टोदेयोविनष्टश्च दैवराजकृतादृते” या० स्मृ०।
अवृध = त्रि० न वर्द्धते वृध–क। १ वृद्धिशून्ये। अन्तर्भूतण्यर्थे वृध–क न० त०। अवर्द्धके। “पनी~रश्रद्धा~ अवृधा~ अयज्ञान्” ऋ० ७, ७, ३, “अवृधान् स्तुतिभिरग्निमवर्द्धयतः” भा०।
अवृष्टि = स्त्री अभावे न० त०। १ वर्षणाभावे “अथ यदाऽवृष्टिर्भवति बलीयानेव तर्ह्यबलीयस आदत्ते धर्म्म्याह्यापः”। शत० ब्रा०। न० ब०। वृष्टिशून्ये मेघे पु०।
अवृहत् = त्रि० विरोधे न० त०। वृहद्भिन्ने क्षुद्रे स्त्रियां ङीप्
अवेक्षक = त्रि० अव + ईक्ष–ण्वुल्। १ दर्शके २ पर्य्यालोचके ३ आयव्ययादिषु अध्यक्षे च।
अवेक्षण = न० अव + ईक्ष–ल्युट्। १ दर्शने, २ प्रतिजागरणे, ३ अवधाने च “वर्ण्णाश्रमावेक्षणजागरूकः” रघुः “भूषाणामर्द्धरचना वृथा विष्वगवेक्षणम्” सा० द० “पित्र्यमन्त्रानुहरणे आत्मालम्भे ह्यवेक्षणे” श्रा० त० स्मृ०
अवेक्षणीय = त्रि० अव + ईक्ष–अनीयर्। १ दर्शनीये। “तपस्विसामान्यमवेक्षणीया” रघुः। २ आलोचनीये च।
अवेक्षा = स्त्री अव + ईक्ष–भावे अ। अवेक्षणशब्दार्थे।
अवेक्षित = त्रि० अव + ईक्ष कर्म्मणि–क्त। १ दृष्टे २ पर्य्यालोचिते च।
अवेक्षितृ = त्रि० अव + ईक्ष–तृच् स्त्रियां ङीप्। अवेक्षकशब्दार्थे।
अवेक्ष्य = त्रि० अव + ईक्ष–कर्म्मणि ण्यत्। १ पर्य्यालोच्ये २ दृश्ये च ल्यप्। ३ दृष्ट्वेत्यर्थे ४ पर्य्यालोच्येत्यर्थे च अव्य०।
अवेदनाज्ञ = त्रि० वेदनां न जानाति ज्ञा–क अस० समा०। वेदनानभिज्ञे “अवेदनाज्ञं कुलिशक्षतानाम्” कुमा०।
अवेदि = स्त्री वेदिर्वेदनम् अभावे न० त०। ज्ञानाभावे “न चेद वेदिर्महती विनष्टिः” वृ० उ०। परिष्कृतभूमि शून्ये त्रि०
अवेद्य = त्रि० न वेद्यः ज्ञेयः। १ अज्ञेये। विद–लाभे ण्यत्। २ अलभ्ये ३ अविवाह्यस्त्रियां स्त्री “व्यभिचारेण वर्ण्णानामवेद्यावेदनेन च” मनुः। ४ गोवत्से पु० शब्दच०।
अवेल = त्रि० नास्ति वेला सीमा यत्र। १ सीमारहिते निर्मर्य्यादे २ अपलापे पु० ३ चूर्ण्णगुवाके स्त्री मेदि०। अप्राशस्त्ये न० त०। ४ अनुचितकाले स्त्री। न० व०। ५ समयशून्ये त्रि०।
अवेष्ट = त्रि० अव + यज–क्त। नाशिते “अवेष्टादंदशूकाः” य० १०, १०, “अवपूर्ब्बोयजतिर्नाशार्थः” वेददी० “अवेष्टा इति लौहायसमाविध्यति” कात्या० १५, ५, २२।
अवैध = त्रि० विधित आगतम् अण् वैधं न० त०। १ विधितः अप्राप्ते २ निषिद्धे च। “अवैधं पञ्चमं कुर्ब्बन् राज्ञो दण्डेन शुध्यति” स्मृतिः।
अवैधव्य = न० विधवाया भावः ष्यञ् वैधव्यं पतिहीनत्वम् अभावे न० त०। पतिशून्यत्वाभावे सपतिकत्वे। ‘अवैधव्यप्रदं स्त्रीणाम्” कालिकापुरा० “अवैधव्यं भवेत्तस्याः सप्तजन्मसु निश्चितम्” पुरा०।
अवैमत्य = न० वैमत्यं विरुद्धमतता अभावे न० त०। १ मतद्वैधाभावे ऐकमत्ये। न० ब०। २ तच्छून्ये।
अवैयात्य = न० वैयात्यं धार्ष्ट्यं निर्लज्जता अभावे न० त०। धार्ष्ट्याभावे १ सलज्जत्वे न० ब०। ३ तच्छून्ये लज्जावति त्रि०।
अवैर = न० अभावे न० त०। १ विरोधाभावे न० ब०। २ विरोधशून्ये त्रि०।
अवैराग्य = न० वैराग्यं विषयवितृष्णा अभावे न० त०। १ विषयतृष्णायाम् २ सांख्योक्ते धर्म्माधर्म्मज्ञानाज्ञानवैराग्यावैराग्यैश्वर्य्यानैश्वर्य्यरूपाष्टविधप्रकृतिधर्म्मभेदे च।
अवैलक्षण्य = न० विलक्षणस्य भावः ष्यञ् वैलक्षण्यं भेदकधर्म्मः अभावे न० त०। १ भेदकर्म्माभावे अभेदे। न० ब०। २ तच्छूव्ये अभिन्ने त्रि०।
अवोक्षण = न० अव + उक्ष–भावे ल्युट्। तिरश्चा पाणिना सेचने “उत्तानेनैव हस्तेन प्रोक्षणं परिकीर्त्तितम्। न्यञ्चताभ्युक्षणं प्रीक्तं तिरश्चावोक्षणं स्मृतम्” स्मृतिः।
अवोद = पु० अव + उन्द–भावे घञ् नि० नलोपः। १ अवक्लेदने ततः अस्त्यर्थे अर्श० अच्। क्लिन्ने २ सार्द्रे त्रि० जटा०।
अवोदेव = अव्य० देवानामवस्तात् अव्ययी०। देवानामवरस्मिन् देशादौ “अवोदेवमुपरिमर्त्त्यं कृवि” ऋ० ७, १९, १२।
अवोष = पु० अव + उष–कर्मणि क। उष्णान्ने। अपूपा० हितार्थे छयतौ। अवोषीयम् अवोष्यं तद्धिते वस्तुनि त्रि०।
***