अवयविन् = त्रि० अवयवः कारणत्वेनास्त्यस्य इनि। अवयवजन्ये द्रव्ये। अवयवित्वंच कार्य्यद्रव्यत्वम्। तच्च नैयाकिदिभिरवयवाद्भिन्नतया उत्पद्यते इत्युरीकृतम्। तत्र मुक्ता० प्रमाणमप्युपन्यस्तम् “ननु अवयविनि किं मानं? परमाणुपुञ्जैरैवोपपत्तेः न च परमाणूनामतोन्द्रियत्वात् घटादेः प्रत्यक्ष न स्यादिति वा- च्यम् एकस्थ परमाणोरप्रत्यक्षत्वेऽपि तत्समूहस्य प्रत्यक्षत्वात् यथा एकस्य केशस्य दूरेऽप्रत्यक्षत्वे तत्समूहस्य प्रत्यक्षत्वम्। न च एकः स्थूलो महान् घट इति बुद्धेरनुपपत्तिरिति वाच्यम् एको महान् धान्यराशिरितिवदुपपत्तेः, सैवं परमाणोरतोन्द्रियत्वेन तत्समूहस्यापि प्रत्यक्षायोग्यत्वात दूरस्यकेशस्तु नातीन्द्रियः सन्निधाने तस्यैव प्रत्यक्षत्वात्। न च तदानीम् अदृश्यपरमाणुपुञ्जात् दृश्यपरमाणुपुञ्जस्योत्पन्नत्वात् न प्रत्यक्षत्वे विरोध इति वाच्यम् अदृश्यस्य दृश्यानुपादानत्वात् अन्यथा चक्षुरूष्मादिसन्ततौ कदाचिद् दृश्यत्वप्रसङ्गात्। न चातितप्ततैलादौ कथमदृश्यदहनसन्ततेः दृश्यदहनोत्पत्तिरिति वाच्यं तत्र तदन्तःपातिभिः दृश्यदहनावयवैः स्थूलदहनोत्पत्तेरुपगमात्। न च अदृश्यद्व्यणुकेन कथं त्रसरेणोरुत्पत्तिरिति? वाच्यम्। यतो न वयं दृश्यत्वमदृश्यत्वं वा कस्यचित् स्वभावादाचक्ष्महे परन्तु महत्त्वोद्भूतरूपादिकारणसमुदायवशात् दृश्यत्वं तथा च त्रसरेणोर्म्महत्त्वात् प्रत्यक्षं न तु द्व्यणुकादेःतदभावात् न हि तन्मतेऽपीदं सम्भवति परमाणौ महत्त्वाभावात् इत्थं चावयविसिद्धौ तेषामुत्पादविनाशयोः प्रत्यक्षत्वादनित्यत्वं तेषां चावयवावयविधाराया अनन्तत्वे मेरुसर्षपयोरपि साम्यप्रसङ्गः। अतः क्वचिद्विश्रामो वाच्यः यत्र च विश्रामस्तस्यानित्यत्वे त्वसमवेतकार्य्योत्पत्तिप्रसङ्गः स्यात् अतस्तस्य नित्यत्वं महत्परिमाणतारतस्यस्य गगनादौ विश्रान्तत्वमिवाणुपरिमाणतारतम्यस्यापि क्वचिद्विश्रान्तत्वमस्ति इति तस्य परमाणुत्वसिद्धिः न च त्रसरेणावेव विश्रामोऽस्त्विति वाच्यं त्रसरेणुः सावयवः चाक्षुषद्रव्यत्वात् घटवदित्यनुमानेन त दवयवसिद्धौ त्रसरेणोरवयवाः सावयवाः महदवयवत्त्वात् कपालवदित्यनुमानेन तदवयवसिद्धेः न चेदमप्रथोजकम् अपकृष्टमहत्त्वं प्रति अनेकद्रव्यवत्त्वस्य प्रयोजकत्वात् नचैवं क्रमेण तदवयवधारापि सिध्येदिति वाच्यम् अनवस्थाभवेन तदसिद्धेः”। व्यख्यातञ्चै तत् दिनकर्य्याम्। “बौद्धः शङ्कते नन्विति नन्वयं घटैत्यादि प्रतीतिरेव तत्र प्रमाणं भविष्यतीत्यत आह परमाणुपुञ्जै रेवेति विलक्षणसंस्थानविशिष्टैः परमाणुभिरेवेत्यर्थः उपपत्तेरिति अयं घट इत्यादिप्रतीतेरुपपत्तेरित्यर्थः। तत् समूहस्य परमाणुसमूहस्य। तत्र दृष्टान्तमाह यथेति। तत्समूहस्य केशसमूहस्य। अनुपपत्तिरिति परमाणुविषयत्वादिति शेषः उपपर्त्तरिति तत्र यथा धान्यसमूहस्येकत्वादेक इति प्रतीतिरेवं संयोगविशेषस्यैव महत्त्वात्मकतया महानिति प्रतीतिस्तथा परमाणुपुञ्जेष्वपीति भावः। प्रत्यक्षायोग्यत्वादिति तथाच स्वभावतोऽयोग्यानां परमाणूनां परस्परसंयोगमात्रेण योग्यत्वं न भम्भवतीति भावः। दूरस्थकेशस्तु स्वमावतो नातीन्द्रिय इति त्वदुक्तदृष्टान्तस्य वैषम्यमित्याह दूरस्थकेशस्त्विति तस्य दूरस्थ केशस्य। तस्यैवेति एवकारश्च प्राक्तनसन्निधानपदेनान्वेति तथाच सन्निधान एव तस्य प्रत्यक्षत्वादित्यर्थः तथाच दूरत्वस्य प्रति बन्धकत्वात्तद्दशायाम् अप्रत्यक्षत्वमात्रं तस्य, न तु स्वाभाविका प्रत्यक्षत्वमिति भावः। उत्पन्नत्वादिति क्षणभङ्गवादिनां मते परमाणूनामुत्पत्तिस्वीकारादिति भावः। अन्यथा अदृश्यस्य दृश्योत्पादकत्वे। तत्र तादृशदहनोत्पत्तिस्थले)। तदन्तःपातिभिः अतितप्ततैलान्तःपातिभिः। स्वभावात् कारणनैरपेक्ष्यात् उद्भूतरूपादीति आदिनालोकादिपरिग्रहः। तदभावे महत्त्वोद्भूतरूपाद्यभावे महत्त्वाभावादित्यर्थः। अत्र नास्तिकमतानुयायिनः परस्पर विभक्तपरमाणूनां महत्त्वाभावादप्रत्यक्षत्वेऽपि परस्पर संयुक्तानां पुञ्जात्मनान्तेषां प्रत्यक्षे बाधकाभावः नच महत्त्वा भावएव बाधकः परस्परविलक्षणसंयोगस्यैव महत्त्वरूपस्य प्रत्यक्षजनकत्वात् नच परमाणूनां नित्यत्वाद्घटादावुत्पत्ति नाशयोः प्रतीत्यनुपपत्तिरिति वाच्यम् तन्मते पदार्थमात्रस्यैव क्षणिकत्वात् परमाणूनामुपत्पत्तिनाशयोः स्वीकारात् नच परमाणुपुञ्जेषु घटत्वाङ्गीकारे कपालाद्घट इति प्रतीतेर नुपपत्तिः परमाणृनां कपालजन्यत्वाभावादिति वाच्य तन्मते कपालस्यापि परमाणुपुञ्जरूपतया घटरूपपुञ्जेषु कपालरूपपुञ्जजन्यत्वस्वीकारात् पुञ्जात् पुञ्जोत्पत्तिरिति तेषां सिद्धान्तादित्याहुः, तन्न घट इत्यादिप्रतीतिविषयताया अनेकपरमाणुषु कल्पने गौरवात् अवयवातिरिक्तावयविसिद्धिरिति दिक्। मेरुसर्षपयोरपीति अपिशब्दः साम्यप्रसङ्ग इत्युत्तरं सम्बध्यते तेन च द्व्यणुकस्य सावयवारब्ध्रत्वे महत्त्वापत्तिः समुच्चीयते साम्यं परिमाणतारतम्याभावः परिमाणकारणीभूताया अवयवसंख्याया उभयत्र साम्यादिति भावः। नच मेर्ववयवानां न सर्षमतुल्यपरिमाणवत्त्वं, सर्षपावयवानां च न मेर्ववयव तुल्यपरिमाणवत्त्वमित्यवयवपरिमाणविशेषाद्विशेष इति वाच्यम् मेर्बवयवसर्षपावयवयोरप्यनन्तावयवत्वेन तत्परिमाणतारतम्याभावस्याप्यापादनीयत्वाम् नच मेरुसर्षपयो रवयवगतप्रचयाख्यसंयोगविशेष इति वाच्यम् प्रचयविशेषस्यापि संख्याविशेषनियम्यत्वेन संख्याविशेषाभावे तद्वि- शेषानुपपत्तेरिति। ननु तथापि विश्रामाश्रयस्य नित्यत्वे मानाभाव इत्यत आह यत्र त्विति। असमवेतकार्य्योत्पत्ति प्रसङ्ग इति असमवेतभावकार्य्योत्पत्ति प्रसङ्ग इत्यर्थः। ननु तस्य नित्यत्वसिद्धावपि अणुत्वे किं मानमित्यत आह महत्परिमाणेति। चाक्षुषद्रव्यत्वादिति अत्रात्मनि व्यभिचारवाराय चाक्षुषंपदं घटाभावे व्यभिचारवारणाय द्रव्यपदम् तदवयवसिद्धाविति त्रसरेण्ववयसिद्धावित्यर्थः। तद सिद्धेरिति अवयवधाराया असिद्धेरित्यर्थः। अत्र नव्याः त्रसरेणोरवयवाः सावयवा इत्याद्यनुमानयोरुक्तयोरप्रयोजकत्वेन त्रुटावेव विश्रामः नच चाक्षुषं प्रति महत्त्वं कारणं तथाच त्रुटौ महत्त्वमावश्यकं तच्चावयवसंख्याजन्यमिति अवयवं विना नोत्पद्यते इत्यनुकूलतर्कसत्त्वान्नाप्रयोजकत्वं द्व्यणुकसाधकानुमानस्येति बाच्यम् त्रसरेणुमहत्त्वस्य नित्यत्वस्वीकारेणोक्ततर्कानवतारात् नचाणुव्यवहारस्याणुपरिमाणनिबन्धनतया तदाश्रयद्रव्यसिद्धिराश्यकीति वाच्यम् तस्यापकृष्टपरिमाणनिबन्धनत्वात् महत्यपि महत्तमादणुव्यवहारात् न चैवं त्रसरेणुपुञ्जएवास्त्ववयवीति वाच्यम् विशकलितेष्वपि तेषु घट इत्यादिप्रत्यय प्रसङ्गात् नच तत्संयोगवृत्त्येव घटत्वं घटोद्रव्यमित्यादि प्रतीतौ च परम्परया तद्भानमिति वाच्यं सम्भवति साक्षात् सम्बन्धविषयत्वे परम्परासम्बन्धविषयकत्वकल्पने गौरवादित्याहुः। ननु परमाणुत्रयेण कुतो न द्रव्यान्तरोत्पत्तिः परमाणुद्वयेन द्व्यणुकवत् द्व्यणुकद्वयेन द्रव्यान्तरोत्पत्त्यापत्तिस्त्रिभिर्द्व्यणुकैस्त्र्यणुकवदिति चेन्न प्रमाणाभावेन तादृशद्रव्यासिद्धौ परमाणुत्रये द्व्यणुकद्वये च द्रव्यारम्भकसंयोगाऽकल्पनात्। अत्रेदं चिन्त्यं त्रिभिः परमाणुभिरेव त्र्यणुकमस्तु परमाणुभ्यामारिम्भे सिद्धान्तिनां द्व्यणुकाभ्यामनारम्भ इव मानाभावात् फलबलेन त्रयाणामेव युगपद्द्रव्यारम्भसंयोगकल्पनात् वस्तुतो गवाक्षरन्ध्रे दृश्यमानानां द्व्यणुकत्वमेव युक्तमणुद्वयारब्धत्वे लाघवादिति”। अयमबयवी कारणात् भिन्नएव कार्य्यकारणयोरैक्याभावात् नियतपूर्व्ववर्त्तिन एव कारणतया कारणस्य प्राक्सत्त्वनियमेन कार्य्यस्य च तदाऽसत्त्वेन तयोर्भेदात्। अतएव “द्रव्याणि द्रव्यान्तरभारभन्ते” इति वै० सूत्रे अन्तरपदमुपात्तम् इति वैशेषिकादयः स्वीचक्रुः। सांख्यावेदान्तिनश्च कार्य्यस्य कारणैक्यमेव स्वीचक्रुः तथाहि “तदनन्यत्वमारम्भणशब्दादिभ्यः” “युक्तेश्च शब्दान्तराच्च” शा० सू० तद्भाष्ये चोक्तम्। “युक्तेश्च प्रागुत्पत्तेः कार्य्यस्य सत्त्व मनन्यत्वञ्च कारणादवगम्यते शब्दान्तराच्च। युक्तिस्तावद्वर्ण्यते दधिघटरुचकाद्यर्थिभिः प्रतिनियतानि कारणानि क्षीरसुवर्ण्णमृत्तिकादीन्युपादीयमानानि लोके दृश्यन्ते न हि दध्यर्थिभिर्मृत्तिकोपादीयते न घटार्थिभिः क्षीरम्। तच्चासत्कार्य्यवादे नोपपद्यते। अविशिष्टे हि प्रागुत्पत्तेः सर्वत्र सर्व्वस्यासत्त्वे कस्मात् क्षीरादेरेव दध्युत्पद्यते न मृत्तिकायाः, मृत्तिकाया एव घट उत्पद्यते न क्षीरात्। अथाविशिष्टेऽपि प्रागसत्त्वे क्षीरएव दध्नः कश्चिदतिशयो न मृत्तिकायां, मृत्तिकायामेव घटस्य कश्चिदतिशयो न क्षीरेइत्युच्येत तर्ह्यंतिशयवत्त्वात् प्रागवस्थाया असत्कार्य्यवादहानिः सत्कार्य्यवादसिद्धिश्च। शक्तिश्च कारणस्य कार्य्यनियमार्था कल्प्यमाना नान्याऽसतो वा कार्य्यं नियच्छेत् असत्त्वाविशेषादन्यत्वाविशेषाच्च। तस्मात् कारणस्यात्मभूता शक्तिः शक्तेश्चात्मभूतं कार्य्यम्। अपिच कार्य्यकारणयोर्द्रव्यगुणादीनां चाश्वमहिषवद्भेदबुद्ध्यभावात्तादात्म्यमभ्युपगन्तव्यम्। समवायकल्पनायामपि समवायस्य समवायिभिः सम्बन्धेऽभ्युपगम्यमाने तस्य तस्वान्योऽन्यः सम्बन्धः कल्पयितव्यः इत्यनवस्थाप्रसङ्गः अनायुपगम्यमानेऽत्र विच्छेदप्रसङ्गः। अथ समवायः स्वयं सम्बन्धरूपत्वा दनपेक्ष्यैवापरं सम्बन्धं सम्बध्यते, संयोगोऽपि तर्हि स्वयं सम्बन्धरूपत्वादनपेक्ष्यैव समवायं सम्बध्येत। तादात्म्यप्रतीतेश्च द्रव्यगुणादीनां सभवायकल्पनानर्थक्यम्। कथञ्च कार्य्यमवयविद्रव्यं कारणेष्ववयवेषु वर्त्त मानं वर्त्तते किं समस्तेष्ववयवेषु वर्त्ततौत प्रत्यवयवम्। यदि तावत् समस्तेषु वर्त्तेत ततोऽवयव्यनुपलब्धिः प्रसज्येत, समस्तावयवसन्निकर्षस्याशक्यत्वात् नहि बहुत्वं समस्तेष्वाश्रयेषु वर्त्तमानं व्यस्ता श्रयग्रहणेन गृह्यते। अथावयवशः समस्तेषु वर्त्तेत तदास्यारम्भकावयवव्यतिरेकेणावयविनोऽवयवाः कल्प्येरन् यैरवयवैरारम्भकेष्ववयवशवयवी वर्त्तेत। कोशावयवव्यतिरिक्तैर्ह्यवयवैरसिः कोशं व्याप्नोति। अनवस्था चैवं प्रसज्येत तेषु तेष्ववयवेषु वर्त्तयितुमन्येषामन्येषा मवयवानां कल्पनीयत्वात्। अथ प्रत्यवयवं वर्त्तेत तर्ह्येकत्र व्यापारेऽन्यात्राव्यापारः स्यात् न हि देवदत्तः स्रुघ्ने सन्निधीयमान स्तदहरेव पाटलिपुत्रे सन्निधीयते युगपदनेकत्र वृत्तावनेकत्व प्रसङ्गात् देवदत्तयज्ञदत्तयोरिव स्रुघ्नपाटलिपुत्रनिवासिनोः। गोत्वादिवत् प्रत्येकं परिसमाप्तेरदोष इति चेन्न तथा प्रतीत्यभावात्। यदि गोत्वादिवत् प्रत्येकं परिसमाप्तोऽवयवी स्यात् यथा गोत्वं प्रतिव्यक्ति प्रत्यक्षं गृह्यते एवमवय- व्यपि प्रत्यवयवं प्रत्यक्षेण गृह्येत नचैचेवं नियतं गृह्यते। प्रत्येकं परिसमाप्तौ चावयविनः कार्य्येणाधिकारात्तस्य चैकत्वात् शृङ्गेणापि स्तनकार्य्यं कुर्य्यात् उरसा च पृष्ठकार्य्यं, न चैवं दृश्यते। प्रागुत्पत्तेश्च कार्य्यस्यासत्त्वे उत्पत्तिरकर्त्तृका निरात्मिका च स्यात्। उत्पत्तिश्च नाम क्रिया सा सकर्त्तकैव मवितुमर्हति गत्यादिवत्। क्रिया च नाम स्यादकर्त्तृका चेति विप्रतिषिद्ध्येत। घटस्य चोत्पत्तिरुच्यमाना न घटकर्त्तृका किन्तर्ह्यन्यकर्त्तृकेति कल्प्या स्यात् तथा कपालादीनामप्युत्पत्तिरुच्यमानान्यकर्त्तृकैव कल्प्येत तथाच सति घटौत्पद्यते इत्युक्ते कुलालादीनि कारणान्युत्पद्यन्त इत्युक्तं स्यात् न च लोके घटौत्पद्यत इत्युक्ते कुलालादय उत्पद्यमानाः प्रतीयन्ते उत्पन्नताप्रतीतेश्च। अथ स्वकारण सत्ता सम्बन्ध एवोत्पत्तिरात्मलाभश्च कार्य्यस्येति चेत् कथमलब्धात्मकं सम्भध्येतेति वक्तव्यं, सतोर्हि द्वयोः सम्बन्धः सम्भवति न सददसतीरसतो र्वा। अभावस्य च निरुपाख्यत्वात् प्रागुत्पत्तेरिति मर्य्यादाकरणमनुपपन्नम्। सतां हि लोके क्षेत्रगृहादीनां मर्य्यादा दृष्टा नाभावस्य। न हि बन्ध्यापुत्रो राजा बभूव प्राक्पूर्ण्णवर्मण्णोऽभिषेकादित्येवं जातीयकेन मर्य्यादाकरणेन निरुपाख्यो बन्ध्यापुत्रो राजा बभूव भवति भविष्यतोति वा विशेष्यते। यदि च बन्ध्यापुत्रः कारकव्यापारादूर्द्ध्वमभविष्यत्तत इदमप्युपापत्स्यत कार्य्याभावोऽपि कारकव्यापारादूर्द्ध्वं भविष्यतीति। वयन्तु पश्यामो बन्ध्यापुत्रस्य कार्य्याभावस्य चाभावत्वाविशेषात् यथा बन्ध्यायुत्रः कारकव्यापारादूर्द्ध्वं न भविष्यति एवं कार्य्याभावीऽपि कारकव्यापारादूर्द्ध्वं न भविष्यतीति। तन्वेवं सति कारकव्यापारोऽनर्थकः प्रसज्येत, यथैव हि प्राक्सिद्धत्वात् कारणस्य स्वरूपसिद्धये न कश्चिद्व्याप्रियते एवं प्राक्सिद्धत्वात् तदनन्यत्वाच्च कार्य्यस्वरूपसिद्धयेऽपि न कश्चिद्व्याप्रियेत व्याप्रियते च, अतः कारकव्यापारार्थवत्त्वाय मन्यामहे प्रागुप्पत्तेरभावः कार्य्यस्येति। नैष दोषः यतः कार्य्याकारेण कारणं व्यवस्थापयतः कारकव्यापारस्यार्थवत्त्वमुपपद्यते। कार्य्याकारोऽपि कारणस्यात्मभूत एव अनात्मभूतस्यानारभ्यत्वादित्यभाणि। न च विशेषदर्शन् मात्रेण वस्त्वन्यत्वं भवति न हि देवदत्तः सङ्कोचितहस्तपादश्च विशेषेण दृश्यमानोऽपि वस्त्वन्यत्वं गच्छति, स एवेति प्रत्यभिज्ञानात्। यथा प्रतिदिनमनेकसंस्थानानामपि पित्रादीनां न वस्त्वन्यत्वं भवति, मम पिता मम माता मम भ्रातेति प्रत्यभिज्ञानात। जन्मोच्छेदानन्तरित्वात्तत्र तत्र युक्तं नान्यतेति चेन्न क्षीरादीनामपि दध्याद्याकार संस्थानस्य प्रत्यक्षत्वात्। अदृश्यमानानामपि वटधानादीनां समानजातीयावयवान्तरोपचितानामङ्कुरादिभावेन दर्शनगोचरतापत्तौ जन्मसंज्ञा तेषामेवावयवानामपचयवशाददर्शनापत्तावुच्छेदसंज्ञा। तत्रेदृग्जन्मोच्छेदान्तरितत्वेन चेदसतः सत्त्वापत्तिः सतश्चासत्त्वापत्तिः तथा सति गर्भवासिन उत्तानशायिनश्च भेदप्रसङ्गः। तथा बाल्ययौवनस्थाविरेष्वपि भेदप्रसङ्गः पित्रादिव्यवहार लोपप्रसङ्गश्च। एतेन क्षणभङ्गवादः प्रतिवदितव्यः। यस्य पुनः प्रागुत्पत्तेरसत् कार्य्यं तस्य निर्व्विषयः कारकव्यापारः स्यात् अभावस्य विषयत्वानुपपत्तेः आकाशस्याहननप्रयोजनखड्गाद्यनेकायुधप्रसक्तिवत्। समवायिकारणे व्यापारःकारकव्यापारःस्यादितिचेन्न अन्यविषयेण कारकव्यापारे णान्यनिष्पत्तेरतिप्रसङ्गात्। समवायिकारणस्यैवात्मातिशयः कार्य्यमितिचेन्न अतस्तर्हि सत्कार्य्यापत्तिः। तस्मात् क्षीरादीन्येव दध्यादिद्रव्यादिभावेनावतिष्ठमानानि कार्य्याख्यां लभन्त इति न कारणादन्यत्कार्य्यं वर्षशतेनापि शक्यं कल्पयितुम्। तथा च मूलकारणमेवान्त्यात्कार्य्यात् तेन तेन कार्य्याकारेण नटवत् सर्व्वव्यवहारास्पदत्वं प्रतिपद्यते। एवं युक्तेः कार्य्यस्य प्रागुत्पत्तेः सत्त्वंमनन्यत्वञ्च कारणादवगम्यते। शब्दान्तराच्चैतदवगम्यते। पूर्ब्बसूत्रे असद्व्यपदेशिनः शब्दस्योदाहृतत्वात्ततोन्यः सद्व्यपदेशी शब्द शब्दाचरः “सदेव मौम्येदग्रआसीदेकमेवाद्वितीयमित्यादि। “तद्ध्येक आहुरसदेवेदमग्रआसीदिति” चासत् पक्षमुपक्षिप्य “कथमसतः सज्जायेत?” इत्याक्षिप्य “सदेवसोम्येदमग्रआसीत्” इत्यवधारयति। तत्रेदंशब्दवाच्यस्यकार्य्यस्य प्रागुत्पत्तेःसच्छब्दवाच्येन कारणेन सामानाधिकरण्यस्य श्रूयमाणत्वात् सत्त्वानन्यत्वे प्रसिद्ध्यतः यदि नु प्र। गुत्पत्तेरसत्कार्य्यं स्यात् पश्चाच्चोत्पद्यमानं कारणे समवेयात् तदन्यत्कारणात् स्यात् तत्र “येना श्रुतं श्रुतं भवतीयं प्रतिज्ञा पीड्येत सत्त्वानन्यत्वावगतेस्त्वियं प्रतिज्ञा समर्थ्यते” भा०। “पटवच्च” शा० सू०। “यथा च संवेष्टितः पटो न व्यक्तं गृह्यते कि मयं पटः किञ्चान्यद्द्रव्यमिति स एव प्रसारितो यत् संवेष्टितं द्रव्यंस पट एवेति प्रसारणेनाभिव्यक्तो गृह्यते यथा च संवेष्टनसमये पट इति गृह्यमाणोऽपि न विशिष्टायामविस्तारोगृह्यते स एव प्रसारणसमयेऽपि विशिष्टायामविस्तारो गृह्यते न संवेष्टितरूपादयं भिन्नःपटः इति। एवं तन्त्वादिकारणावस्थं प्रटादि कार्य्यमस्पष्टं सत् तुरीवेमकुविन्दादिकारकव्यापाराभिव्यक्तं स्पष्टं गृह्यते। ततः संवेष्टितपटप्रसारितपटन्यायेनानन्यत् कारणात् कार्य्यमित्यर्थः” भा०। सां० कौ० कारणात् कार्य्यस्वानन्यता दर्शिता यथा “कार्य्यस्य कारणाभेदसाधकानि च प्रमाणानि। न पटस्तन्तुम्योभिद्यते तद्धर्मत्वात् इह यद्यतोभिद्यते तत्तस्य धर्म्मो न भवति यथा गौरश्वस्य। धर्मश्च पटस्तन्तूनां तस्मान्नार्थान्तरम्। उपादानोपादेयभावाच्च नार्थान्तरत्वम्। नाथयोरुपादानोपादेयभावः यथा घटपटयोः उपादानोपादेयभावश्च तन्तुपटयोः। तस्मान्नार्थान्तरत्वमिति। इतश्च नार्थान्तरत्वं तन्तुपटयोः संयोगाप्राप्ताभावात्। पदार्थान्तरत्वे हि संयोगोदृष्टो यथा कुण्डबदरयोः अप्राप्तिर्वा यथा हिमवद्विन्ध्ययोः” नचेह संयोगाप्राप्ती तस्मान्नार्थान्तरत्वमिति। इतश्च पटस्तन्तुभ्यो न भिद्यते गुरुत्वान्तरकार्य्याग्रहणात्। इह यद्यस्माद्भिन्नं तस्मात्तस्य गुरुत्वान्तरकार्य्यं गृह्यते यथैकपलिकस्य स्वस्तिकस्य यो गुरुत्वकार्य्योऽवनतिविशेषोऽ धिकः न च तथा तन्तुगुरुत्वकार्य्यात् पटगुरुत्वस्य कार्य्यान्तरं दृश्यते तस्मादभिन्नस्तन्तुभ्यः पटैति। तान्ये तान्यवीतान्यभेदसाधनानि। तदेवमभेदे सिद्धे तन्तवएव तेन तेन संस्थानभेदेन परिणताः पटः, न तन्तुभ्योऽर्थान्तरं पटः। स्वात्मनि क्रियानिरोधबुद्धिव्यपदेशार्थक्रियाक्रियाव्यवस्थाभेदाश्च नैकान्तिकं भेदं साधयितुमर्हन्तिएकस्मिन्नपि तत्तद्विशेषाविर्भावतिरोभावाभ्यामेतेषामविरोधात्। यथाहि कूर्मस्याङ्गानि कूर्मशरीरे निविशमानानि तिरोभवन्ति निःसरन्ति चाविर्भवन्ति न तु कूर्मतस्तदङ्गान्युत्पद्यन्ते प्रध्वंसन्ते वा एवमेकस्या मृदः सुवर्णस्य वा घटमुकुटादयोविशेषा निःसरन्त आविर्भवन्त उत्पद्यन्त इत्युच्यन्ते न पुनरसतामुत्पादः सतां वा निरोधः। यथाह भगवान् कृष्णद्वैपायनः “नासतोविद्यते भावो नाभावो विद्यते सतः” इति यया कूर्मः स्वावयवेभ्यः सङ्कोचिविकाशिभ्योन भिन्नः एवं घटमुकुटादयोऽपि मृत्सुवर्णादिभ्यो न भिन्नाः। एवञ्चेत् तन्तषु पटैति व्यपदेशो यथेह वने तिलका इत्युपपन्नः। न चार्थक्रियाभेदोऽपि भेदमापादयति एकस्यापि नानार्थक्रियादर्शनात् यथैक एव वह्निर्दाहकः प्रकाशकः पाचकश्चेति। नाप्यर्थक्रियाव्यवस्था वस्तुभेदे हेतुः तेषामेव समस्तव्यस्तानामर्थक्रियाव्यवस्थादर्शनात् यथा प्रत्येकं विष्टयो वर्त्मदर्शनलक्षणामर्थक्रियां कुर्व्वन्ति न तु शिविकावहनं मिलितास्तु शिविकां वहन्ति एवं तन्तवः प्रत्येकं प्रावरणमकुर्व्वाणा अपि मिलिताः आविर्भूतपटभावाः प्रावरिष्यन्ति। स्यादेतत् आविर्भावः पटस्य कारणव्यापारात् प्राक् सन्नसन्वा असंश्चेत् प्राप्तं तर्ह्यसत उत्पादनम्। अथ सनु कृतं तर्हि कारणव्यापारेण। न हि सति कार्य्ये कारणव्यापारप्रयोजनं पश्यामः। आविर्भावे चाविर्भावान्तरकल्पनेऽनवस्थाप्रसङ्गः। तस्मादाविर्भूतपटभावास्तन्तवः क्रियन्ते इति रिक्तं तचः। अथासदुत्पद्यत इत्यत्रापि मते केयमसदुत्पत्तिः सती असती वा, सती चेत् कृतं तर्हि कारणैः, असती चेत्तस्या अप्युत्पत्त्यन्तरमित्यनवस्था। अथोत्पत्तिः पटान्नार्थान्तरम् अपि तु पटएवासौ तथापि यावदुक्तं भवति पटैति तावदुक्तं भवत्युत्पद्यतैति न वाच्यं पौनरुक्त्यात् विनश्यतीत्यपि न वाच्यं उत्पत्तिविनाशयोर्युगपदेकत्र विरोधात्। तस्मादियं पटोत्पत्तिः स्वकारणसमवायो वा स्वकारणसत्तासमवायोवा उभयथापि नोत्पद्यते अथ च तदर्थानि कारणानि व्यापार्य्यन्ते एवं सत एव पटादेराविर्भावाय कारणापेक्षेत्युपपन्नम्। न च पटरूपेण कारणानां सम्बन्धः, तद्रूपस्याक्रियात्वात् क्रियासम्बन्धित्वाच्च कारकाणाम् अन्यथा कारणत्वाभावात्” व्याख्यातञ्चैतदस्माभिस्तट्टीकायां यथा “तद्धर्मत्वात् तेषां तन्तूनां धर्मत्वात् अवस्थाविशेषात्मकत्वात् स्वसत्त्वनियतसत्ता कत्वाद्वा। तत्सत्त्वनियतसत्त्वाकत्वरूपहेतुमध्ये एवऽन्वयव्याप्तेः प्रवेशात् व्यतिरेकव्याप्तिं दर्शयति यत् यतोभिद्यते इत्यादि तथा च व्यापकस्य धर्मत्वाभावस्य निवृत्त्या व्याप्यस्य भेदस्य निवृत्तेरभेदसिद्धिरिति भावः। पक्षे धर्भत्वरूपहेतुसत्त्वप्रदर्शनाय उपनयरूपन्यायाङ्गमाह धर्मश्चेत्यादि। धर्मत्वं च प्रागुक्तम्। निगमयति तस्मान्नार्थान्तरमिति। अन्योऽर्थः पदार्थः अर्थान्तरं मयूरव्यंसकादित्वात् समासे क्लीवता। पटः तन्तुभ्यो न भिन्नः पदार्थः किन्तु अभिन्न एवेत्यर्थः। उपादीयते कार्य्यजननाय विशेषरूपेण गृह्यते इत्युपादानम् कार्य्यस्यानागतावस्थाविशेषाश्रयरूपं कारणं तदाश्रितसूक्षमावस्थापन्नं कार्य्यन्तूपादेयं तद्भावात् कार्य्यकारणविशेषरूपत्वादित्यर्थः तथा च कार्य्य स्यानागतावस्था श्रयत्वभेवोपादानंकारणत्वम्, तच्च अनागतावस्थापन्नकार्य्यरूपमेव अन्यस्य दुर्वचत्वात् अन्यथा सर्व एव सर्वकार्य्यजननाय उपादीयेरन् न च तथा उपादीयन्ते। उपादीयन्ते च पटादिजननाय तन्तवः न तु मृदादयः। न च प्रागभाव एव तस्य नियामकः, तस्य अभावत्वेन स्वतोविशेषकत्वाभावात् प्रतियोग्युपरक्तस्य तस्य तथात्वकल्पनन्तु प्रतियोग्यसत्त्वकालेऽसम्भवात् उत्पत्तेः प्राक् प्रतियोगिनोऽसत्त्वेन तेन सह प्रागभावस्य संबन्धस्यानौचित्यात् इत्यनागतावस्थापन्नकार्य्यात्मकत्वमुपादानस्य युक्तम् तस्मात् पटः न तन्तुभ्यो भिन्न इत्युपेयमिति भावः। संयोगाप्राप्त्यमावादिति। संयोगश्च अप्राप्तिः विभागश्च तयोरभावात्। तथाच संयोगाभावः विमागाभावश्च पृथक् अभेदसाधकः यथा पटस्तन्तुप्यो न भिठ्यते तत्संयोगानाश्रयत्वात् यद्यतो भिद्यते तयोः संयोगोदृष्टः यथा घटपटयोः। न च गुणेषु व्यभिचारः स्वमते तत्र तन्त्वभेदस्येष्टत्वात् द्रव्यत्वे सतीति हेतोर्विशेषणे च व्यभिचाराभावाच्च। अप्राप्तिर्वेति विभागश्चेत्यर्थः तथा च संयोगानाश्रयत्वस्येव विभागानश्रयत्वस्यापि अभेदसाधकत्वमिति भावः। गुरुत्वान्तरकार्य्याग्रहणादिति। अयमाशयः। अवयवतन्तुपरिमाणेनेव तद्गुरुत्वेन स्वापेक्षयाधिकं महत्परिमाणमिव गुरुत्वम् जन्यते, गुरुत्वञ्च स्वपतन इव स्वाश्रिततुलादण्डादेरवनतिविशेषे हेतुरिति नैयायिकादिभिरम्युपगम्यते। तत्र यदि पटस्तन्तुभ्योभिद्येत तदा तदाश्रितगुरुत्वविशेषेण स्वाश्रिततुलादण्डादेरवनतिविशेषोऽत्र गृह्येत यथा एकपलिकस्वर्णापेक्षया द्विपलिकस्वर्ण्णस्य, तथा च पटस्तन्तुभ्यो न मिद्यते गुरुत्वान्तरप्रयुक्तस्वाश्रिततुलादण्डाद्यवनतिविशेषग्रहणायोग्यत्वात् गुरुत्वान्तरयुक्तस्वर्णादिवत् तुल्यगुरुत्वयुक्तपदार्थे व्यभिचारवारणाय ग्रहणायोग्यत्वादित्युक्तं तस्य च पृथक् तुलादण्डारोपणेऽवनत्यन्तरस्य ग्रहणसम्भवात् तन्तुपष्टयोश्च न तथासम्भव इति अभिन्नत्वमित्यन्यत्र विस्तरः। तन्तुगुरुत्वस्य कार्य्यं स्वाश्रिततुलादण्डादेरवनतिविशेषस्तस्मात् कार्य्यान्तरम् अवनत्यन्तरं न दृश्यते न गृह्यते इत्यर्थः। अवीतानि व्यतिरेकव्याप्तियुक्तानि यथा च तत्र तत्र व्यतिरेकव्याप्तिस्तथानुपदं तत्रतत्र दर्शितं प्राक्। पटैति बुद्धिविषयाः व्यपदेशभाजश्चेति शेषः। फलितमाह न तन्तुभ्योऽर्थान्तरमिति। अभेदसाधकहेतोः सत्प्रतिपक्षितत्वमाशङ्कते स्वात्मनीत्यादि। क्रिया उत्पादनक्रिया, निरोधः प्रध्वंसस्तयोर्बुद्धिः तथा च कार्य्यकारणयोरभेदे कार्य्यस्य कारणात्मकत्वेन स्वतः स्वस्योत्पत्तिविनाशबुद्ध्य सम्भव इत्यर्थः। व्यपदेशः व्यवहारः अर्थक्रिया प्रयोजनोत्पादनं क्रियाव्यवस्था प्रावरणादिकार्य्यनियमः तेषां भेदः पश्चात्पुनर्द्वन्द्वः। तथा च कार्य्यकारणयोरभेदे तन्तुषु पट इति कथं भेदव्यपदेशः? कथं वा प्रयोजनान्तरजन- कता,? प्रयोजनान्तरनियमश्च स्यादित्यर्थः। इत्थञ्चात्र प्रयोगः पटस्तन्तुभ्यो भिद्यते तत्कार्य्यत्वेन, तत्र नष्टत्वेन वा प्रतीयमानत्वात्, तन्तुषु पट इति व्यपदेशप्रयोजकसंज्ञाभेदात्, विभिन्नार्थसाधकत्वात्, कार्य्यभेदवत्त्वाच्च। इति पञ्चभिर्हेतुभिः सत्प्रतिपक्षितोऽभेदसाधकहेतुर्नाभेदसाधनायालमित्याशङ्कार्थः। समाधत्ते नैकान्तिकमिति। ऐकान्तिकं वास्तवमित्यर्थः तथा च तत्र तत्रावास्तवएव भेदव्यवहारो न वास्तवाभेदप्रतिद्वन्द्वीति मावः। एवञ्च वुद्धिमात्रस्य, व्यवहारमात्रस्य वा वास्तविकत्वप्रयोजकत्वे इदं रजतमितिबोधात् व्यवहाराच्च शुक्तिरजतस्यापि वास्तवत्वापत्तिः। तथा अर्थक्रियाक्रियाव्यवस्थाभेदयोश्च न भेदसाधकत्वम् एकस्यैव वह्न्यादेः प्रकाशनपाचनादिरूपनानाकार्य्याणां, विष्टीनां व्यस्तानां मार्गदर्शनादिकार्य्यस्य समस्तानां तु शिविकावाहनादिविभिन्नकार्य्यस्य च सम्पादनस्य दृष्टत्वात् तत्र तत्र हेतोर्व्यभिचारान्न तयोर्भेदसाधकतेति न सत्प्रतिक्षितत्वमभेदसाधकहेतोरिति भावः। तदेव क्रमश उपपादयति एकस्मिन्नपीति। प्रध्वंसन्ते नश्यन्ति। कूर्म्मत इत्यनुषङ्गः अस्मिन् पक्षे च कूर्म्मे इत्यर्थः सार्व्वविभक्तिकः सप्तम्यास्तसिल्। यथाहेति भगवद्गीतायामितिशेषः। असतोऽसत्त्वाश्रयस्य, भावः सत्त्वम्, सतः सत्त्वाश्रयस्य न अभावः असत्त्वम्, सदसतोरेकत्र समावेशा भावादिति शेषः। आपादयति व्यतिरेकव्याप्त्या साधयति तथा च प्रावरणादिक्रियाभेदः कारणभेदं विना अनुपपन्न इति व्यापकः प्रावरणादिप्रयोजनभेदाभावः निवर्त्तमानः व्याप्यं कारणभेदाभावं निवर्त्तयन् कार्य्यस्य कारणाद्भेदम् साधयतीत्यर्थः। इति यन्मतं तदनूद्य नञा दूषयित्वा तत्र हेतुप्रदर्शनाय व्यभिचारं दर्शयति एकस्यापीति तथा च कार्य्यभेदाभावः न कारणभेदाभावव्यापकः एकस्मिन् वह्न्यादौ नानाकार्य्यदर्शनात् तथा च भेदसाधकहेतुर्व्यभिचारीति भावः। एवम् भेदसाधकहेतुषु दूषितेषु इदानीं आविर्भावादेः सदसत्त्वे विकल्पेन दूषयितुं शङ्कते स्यादेतदित्यादि। कृतमित्यव्ययम् अलमर्थकं कारणव्यापारेणेतितृतीयान्तेनान्वयि तथा च कारणव्यापारसाध्यं नास्ति तस्य स्वतएव सिद्धत्वादित्यर्थः। क्रियन्ते उत्पाद्यन्ते पटरूपेण व्यवह्रियन्ते इत्यपि बोध्यम्। यद्धि उभयवादिनोस्तुल्यदोषत्वं न तद्दूष्यमित्याशयेन प्रतिवन्दिरूपदूषणदानायाह अथासदुपद्यत इत्यादि। उत्पत्तिः आद्यक्षणसंबन्धः स च स्वरूपसंबन्धविशैषः न तु संयोगमात्रः गुणक्रिययोस्तदसम्भवात् तयोश्च उत्पत्तिव्यवहारस्य सर्व्वसिद्धत्वात्। प्रकृते स्वरूपसंबन्धविशेषश्च अनुयोगिस्वरूपएव एवञ्च उत्पत्तिः पटरूप एव नार्थान्तरमिति पटस्य उत्पत्तेः प्राक् असत्त्वात् तत्र कारणव्यापारापेक्षा भविष्यतीति शङ्कते अथोत्पत्तिरित्यादि। दूषयति तथापीति। पटादिशब्देन पटत्वविशिष्टस्येव उत्पत्तिमतोऽप्युक्तत्वात् उत्पद्यते इति न प्रयोक्तव्यम् तद्वाच्यार्थस्योक्तत्वात् तदुक्तौ च पौनरुक्त्यात् घटो घट इतिवत् न तत्र शाब्दबोध इति भावः। पटादिशब्दस्य उत्पत्त्यर्थकत्वे दूषणान्तरमप्याह विनश्यतीत्यादि न वाच्यं प्रयोक्तुं न शक्यम् अयोग्यत्वादिति शेषः। पटशब्देन पटत्वविशिष्टस्येव उत्पत्तिमतोऽप्यभिधानात् उत्पत्तिमति चैकदा विनाशप्रतियोगित्वासम्भवेनायोग्यत्वादित्यर्थः। अयोग्यत्वे हेतुमाह उत्पत्त्यादीति एकत्र एकस्मिन् धर्म्मिणि युगपदेकदा विरोधात् सहानवस्थानात्। कालान्तरे भवितुमर्हतीति द्योतनाय युगपदिति। विनश्यतीति वर्त्तमानताप्रतोतेर्न विभिन्नकालता तयोरिति भावः। एवमुत्पत्तेः पटस्वरूपत्वाभावासम्भवमुक्त्वा अन्यरूपतास्वीकारेऽपि उत्पत्तेरुत्पत्त्यसम्भव एवेत्याह तस्मादियं पटीत्पत्तिरित्यादि। स्वकारणसमवायः स्वस्य कारणेषु तन्तुषु समवायः तत्संबन्धविशेषरूपा पटोत्पत्तिः। समवायस्य च सर्वदा विद्यमानत्वात न तस्या उत्पत्तिः। समवायस्य नित्यत्वात् पटस्य कादाचित्कोत्पत्तिः कथं स्यादित्यतः पक्षान्तरमाह स्वसत्तासमवाय इति। स्वसत्तया स्वकारणे विद्यमानतया यः कारणे समवायस्तथा च स्वसत्ताकालिकत्वविशिष्टसमवायस्य पूर्ब्बमसत्त्वान्न न कादाचित्कत्वव्याघात इति भावः। उभयथापि उत्पत्तेरुभयरूपमध्येऽन्यतरूपत्वेऽपीत्यर्थः न उत्पद्यते उत्पत्तिरिति शेषः। सिद्धस्वरूपत्वेऽपि सर्वजनानुभवसिद्धायाः कारणव्यापारापेक्षाया अनौचित्यस्य उभयमतेऽपि तुल्यत्वात् प्रतिवन्दिसमबधानमिति भावः। उत्पत्तेः कार्य्यस्य रूपेण सम्बन्धरूपतां शङ्कते न चेति। पटरूपस्य तन्तुरूपजन्यत्वात् तेन सह कारणानां संबन्धएव कार्य्यस्य उतपत्तिस्तथा च तस्य जन्यत्वात् कारणव्यापारापेक्षेति न समानं दूषणमिति भावः। दूषयति रूपस्येति। रूपस्य भवन्मते गुणत्वेन क्रियारूपत्वाभावात् उत्पत्तेश्च क्रियारूपतायाः सर्वैरिष्यमाणत्वात् कारणानां च क्रियानुबन्धित्वे- नैव कारकत्वाभ्युपगमात्। तन्तुभ्यः पटौत्पद्यते इत्यादिषु च तन्त्वादीनामुत्पत्तिकारकत्वप्रतीतेश्च नोत्पत्तेः पटरूपसंबन्धरूपतेति” भावः।

अवयाज् = पु० अव + यज–ण्वि। अपकृष्टयाजके संवुद्धौ अवयाः

अवयातृ = त्रि० अव + या–तृच्। पृथक् कर्त्तरि। “अदितिर्भवास्यवयाता हरस्य दैव्यस्य” ऋ० ८, ४८, २। “अवयाता पृथक्कर्त्ता” भा०।

अवयान = न० अव + या–ल्युंट्। अपगतौ “इयं धीर्भूया अवयानमेषाम्” ऋ० १, १८५, ८, “एषां पापानामवयानमपगमम्” भा०।

अवयुन = त्रि० वयुनं प्रज्ञा निरु० न० ब०। प्रज्ञाशून्ये। “सैत्तमोऽवयुनम्” ऋ० ३, २१, ३,

अवर = पूजयां कण्ड्वा० प० सक० सेट। अवर्य्यति पूजतयीत्यर्थः।

अवर = त्रि० वृ–षा० अप् न० त०। १ चरमे, २ अधमे, ३ कार्य्ये च। पश्चाद्वर्त्तिनि ५ देशे ६ काले पु० ७ दिशि स्त्री ८ तद्वर्त्तिनि त्रि०। हस्तिजङ्घायाः ९ पश्चाद्देशे न०। “दूरेण ह्यवरं कर्म्मं बुद्धियोगाद्धनञ्जय” गी० अस्य व्यवस्थावाचित्वे सर्व्वनामकार्य्यम् ङसिङ्येस्तु वा। “श्रद्धधानः परां विद्यामाददीतावरादपि” मनुः अवरस्मादिति च। व्यवस्था च देशकृता कालकृता वुद्धिकल्पिता च तत्र देशकृता यदवरं कौशाम्ब्याः। कालकृता यदवरमाग्रहायण्याः। वुद्धिकल्पिता अवरादपीतिमानवे। मासेनावरः मासावरः इत्यादौ समासे विग्रहवाक्ये च न सर्व्वनामकार्य्यं मासावराय इत्यादि। च “इषुमात्रावरंस्थण्डिलमुपलिप्य” गृ० सू०। ५ त०। अत्यन्तश्रेष्ठे त्रि०।

अवरज = पु० अवरस्मिन् काले जायते जन–ड। १ कनिष्ठसोदरे भ्रातरि, २ शूद्रे च। मनुष्येषु प्रथमोत्पत्तौ तस्वजघन्यजत्वात् तथात्वम् ३ कनिष्ठसोदरभगिन्यां, ४ शूद्रायाञ्च स्त्री टाप्। “अस्य चावरजं विद्धि भ्रातरं मां त लक्ष्मणम्” रामा० “यदि स्त्री यद्यवरजः श्रेयःकिञ्चित् समाचरेत् “मनुः “विदर्भराजावरजा तयैवम”। “रावणावरजा तत्र राघवं मदनातुरा” इति च रघुः ५ पश्चाज्जातमात्रे त्रि०। आत्मभूर वरजाखिलप्रजः स्वर्पतेरवरजत्वभाययौ” माघः।

अवरत = त्रि० अव + रम–क्त। विश्रान्ते अनवरतं सततम।

अवरतस् = अव्य० अवर + तसिल्। अवरः अवरस्मिन् अवरस्मादित्यर्थे। अवरतः रमणीयम् आगतः, वसति वा।

अवरति = स्त्री अव + रम–क्तिन्। १ विरामे, २ निवृत्तौ च।

अवरवर्ण = पु० कर्म्म०। शूद्रे।

अवरवर्णज = पु० अवरवर्ण्णः सन् जायते जन–ड। शूद्रे “श्वा तु दृष्टिनिपातेन स्पर्शेनावरवर्ण्णजः” “ब्राह्मणान् वाधमानन्तु कामादवरवर्ण्णजम्” इति च मनुः।

अवरव्रत = पु० अवरं अत्यन्तश्रेष्ठं व्रतमस्य। १ सूर्य्ये २ अर्कवृक्षे च। अवरम् अघमं व्रतमस्य। ३ हीनब्रते त्रि०।

अवरशैल = पु० अवरः पश्चाद्वर्त्ती शैलः। अस्ताचले।

अवरस्तात् = अव्य० अवर + प्रथमाद्यर्थे अस्ताति। प्रथमा प्रञ्चमीसप्तमीवृत्तेरवर्शब्दस्यार्थे। अवरस्तात् रमणीयम्, आगतः वसति वा।

अवरहस = न० अवततं रहः अच् समा०। अवतते रहसि अत्यन्तनिर्जने।

अवरार्द्ध = न० कर्म्म०। अपरभागे “सकृत्कर्म्म पितॄणामपरार्द्धं देवानाम्” इति। “अपरार्द्धतश्च परार्द्धतश्च परिगृह्य” शत० ब्रा० २ देहस्य पश्चाद्भागे च।

अवरार्द्ध्य = त्रि० अवरार्द्धे भवः यत्। शेषभागभवे। न वरत्वेन अर्ध्यते ऋध–णिच्–कर्मणि यत्। न्यूने। “नावरार्द्ध्यं ततः कुर्य्यात् पूर्ण्णपात्रमिति स्थितिः” छन्दो० परि०। “अवरार्द्ध्यं न्यूनम्” स० त० रघ० “दशगवावरार्द्ध्या दक्षिणा” आ० गृ०।

अवरीण = त्रि० अव + रिङ–क्त। तिरस्कृते।

अवरीयस् = त्रि० न वरीयान् न० त० स्त्रियां ङीप्। अत्यन्ताल्पे।

अवरुग्ण = त्रि० अव + रुज–क्त। १ भुग्ने २ रोगान्विते च।

अवरुद्ध = त्रि० अव + रुध–क्त। १ प्रतिरुद्धे अन्यैरसंलक्षिते २ गुप्ते च “अस्ति कश्चिद्राजसूनुरवरुद्धश्चरन्” दशकु० इतर गमननिषेधेन रक्षितायां ३ स्त्रियां स्त्री। (राखनी)।

अवरुद्धि = स्त्री अव + रुध भावे क्तिन्। १ अवरोधने २ प्रतिरोधे “इन्द्रियाणां वीर्य्याणाञ्चावरुद्धौ” श्रुतिः।

अवरूढ = त्रि० अव + रुह–क्त। १ कृतावरोहणे उच्चस्थानात् निर्म्नगते। २ उत्पाटिते वृक्षादौ च।

अवरोचक = अवरोचयति रुचिहीनं करोति अव + रुच–णिच्– ण्वुल्। अवरोचके रोगभेदे “स्नेहगन्धिमुखं तत्र कामश्वासावरोचकः” सुश्रु०।

अवरोध = पु० अव + रुध–भावे घञ्। १ निरोधे “फेनायमानं स्रोतोऽवरोधः” सुश्रु० बलादि० मदुप् वा ठनो बाधक इनि अवरोधवान् अवरोधी अवरोधयुक्ते त्रि०। कर्म्मणि घञ्। राजान्तःपुरस्थायां २ योषिति, ३ राज दारेषु च। “तत्र हूणावरोधानां भर्त्तषु व्यक्तविक्रमम्। “कलत्रवन्तमात्मनमवरोधे महत्यपि” रघुः आधारे घञ्। ४ राजान्तःपुरे। “पश्यावरोधे शतशोमदीयै” इति रघुः। “निन्ये विनीतैरवरोधदर्क्षैः” कुमा०। “विस्रस्तवस्त्रमवराधबधूःपपात” माघः। ल्युट्। अवरोधनं निरोधे न०।

अवरोधक = त्रि० अव + रुघ–ण्वुल्। १ प्रतिरोधके २ आवरके च। “सुधन्वा वीर्य्यवान्नाजा मिथिलामवरोघकः” रामा० आर्षत्वात् कर्म्मणि न षष्ठी।

अवरोधायन = न० ६ त०। अन्तःपुरे।

अवरोधिक = पु० अवरोधे तद्रक्षणादौ नियुक्तः ठन्। राजान्तःपुररक्षणार्थं नियुक्ते १ वामनादौ। अवरोधः स्थानं निवासत्वेनास्त्यस्य ठन्। “नृपान्तःपुरस्थायां स्त्रियां स्त्री। “ययुस्तुरङ्गाधिरुहोऽवरोधिका” माघः।

अवरोधिन् = त्रि० अवरुणद्धि अव + रुघ–णिनि स्त्रियां ङीप्। १ रोधके २ आवरके च।

अवरोपण = न० अव + रुह–णिच्–पः ल्युट्। उत्पाटने।

अवरोपित = त्रि० अव + रुह–णिच् पः क्त। उत्पाटिते।

अवरोह = पु० अव + रुह–घञ्। १ अवतरणे, (नामा) ऊर्द्ध्वदेशान्निम्नदेशगमने। कर्त्तरि संज्ञायां घ। तरोर्मूलादग्रपर्य्यन्तमारूढायां २ गुडूच्यादिलतायाम्। ३ अपादाने घञ्। चन्द्रादिलोके स्वर्गे, तत्रो हि भोगावसाने सर्ब्बेऽवतरन्ति। तत्र देहिनां चन्द्रलोकादवरोहप्रकारस्तावदुक्तः शा० सूत्रे तद्भाष्ये च यथा “कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवञ्च” शा० सू०। “इष्टादिकारिणां धूमादिवर्त्मना चन्द्रमण्डलमारूढानां ततः प्रत्यवरोह आम्नायते “तस्मिन् यावत्सम्पातमुषित्वाऽथैतमेवाध्वानं पुनर्निवर्त्तन्ते यथेत” मित्यारभ्य यावत् “रमणीयचरणाब्राह्मणादियोनिभावमापद्यन्तेकपूयचरणाः श्वादियोनिमिति”। तत्रेदं विचार्य्यते किं निरनुशया भुक्तकृत्स्न कर्म्माणोऽवरोहन्ति? आहोस्वित् सानुशयाः? इति। किं तावत् प्राप्तं निरनुशया इति। कुतः? यावत्सम्पातमितिविशेषणात्। सम्पातशब्देनात्र कर्म्माशय उच्यते सम्पतत्यनेनास्माल्लोकादमुं लोकं फलभोगायेति। यावत्सम्पातमुषित्वेति च कृत्स्नस्य तस्य तत्रैव भुक्ततां दर्शयति। “तेषां यदा तत्पर्य्यवैतोति” च श्रुत्यन्तरेणैष एवाथेः प्रदर्श्यते। स्यादेतत् यावदमुष्मिंल्लोक उपभोक्तव्यं कर्म्म तावदुपभुङ्क इति कल्पयिष्यामीति नैवं कल्पयितुं शक्यते यत् किञ्चेत्यन्यत्व परामर्शात्। “प्राप्यान्तं कर्म्मणस्तस्य यत् किञ्चेह करोत्ययम्। तस्माल्लोकात् पुनरत्यस्मै लोकाय कर्म्मणे” इति ह्यपरा श्रुतिर्यत्किञ्चेत्यविशेषपरामर्शेन कृत्स्नस्यैवेह कृतस्य कर्म्मणस्तत्र क्षयितां दर्शयति। अपि च प्रायणमनारब्ध- फलस्य कर्म्मणोऽभिव्यञ्जकंप्राक् प्रायणादारब्धफलेन कर्म्मणा प्रतिबद्वस्य अभिव्यक्त्यनुपपत्तेः। तच्चाविशेषेण यद्यावत् किञ्चिदनारब्धफलं तस्य सर्व्वस्याभिव्यञ्जकं न हि साधारणे निमित्ते नैमित्तिकमसाधारणं भवितुमर्हति नह्य विशिष्टे प्रदीपसन्निधौ घटोऽभिव्यज्यते, न पटैत्युपपद्यते। तस्मान्निरनुशया अवरोहन्तीत्येवं प्राप्ते ब्रूमः “कृतात्यये अनुशयवानिति”। येन कर्म्मवृन्देन चन्द्रमसमारूढाः फलोपभोगाय तस्मिन्नुपभोगेन क्षयिते तेषां यदम्मयं शरीरं चन्द्रमस्युपभोगायारब्धं तदुपभोगक्षयदर्शनशोकाग्निसंपर्कात् प्रलीयते सवितृकिरणसंपर्काद्धिमकरकाइंव हुतभ्युगर्च्चिःसंपर्कादिव च घृतकाठिन्यम्। ततः कृतात्यये कृतस्येष्टादेः कर्म्मणः फलोपभोगेनोपक्षयेसति सानुशया एवेममव रोहन्ति। केन हेतुना? दृष्टस्मृतिभ्यामित्याह। तथाहि प्रत्यक्षा श्रुतिः सानुशयानामवररोहं दर्शयति “तद्य इह रमणीयवरणा अभ्यासो ह यत्ते रमणीयां योनिमाषद्येरन् ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वा अथ य इह कपूयचरणा अभ्यासो हयत्ते कपूयां योनिमापद्येरन् श्वयोनिं वा शूकरयोनिं वा चाण्डालयोनिं वेति”। चरणशब्देनानेनानुशयः सूच्यत इति वर्ण्णयिष्यति। दृष्टश्चायं जन्मनैव प्रतिप्राण्युच्चावचरूपौपभोगः प्रविभज्यमानः आकस्मिकत्वासम्भवात् अनुशयसद्भावं सूचयति अभ्युदयप्रत्यवाययोः सुकृतदुःकृतयोः हेतुत्वस्य सामान्यतः शास्त्रेणावगमितत्वात्। स्मृतिरपि वर्ण्णा आश्रमाश्च स्वकर्म्मनिष्ठाः प्रेत्य कम्म फलमनुभूय ततः शेषेण विशिष्टदेशजातिकुलरूपायुःश्रुतवृत्तवित्तसुखमेधायै जन्म प्रतिपद्यन्त इति सानुशयानामेवावरोह दर्शयति। कः पुनरनुशयी नामेति केचित्तावदाहुः स्वर्गार्थस्य कर्म्मणो भुक्तफलस्यावशेषः कश्चिदनुशयो नाम भाण्डानुसारिस्नेहवत् यथाहि स्नेहभाण्डं विरिच्यमानं न सर्व्वात्मना विरिच्यते भाण्डानुसार्य्येव कश्चित् स्नेहशेषोऽवति ते तथानुशयोऽपीति। ननुकार्य्यविरोधित्वाददृष्टस्य न भुक्तफलस्यावशेषेणावस्थानं न्थाप्यम्। नायं दोषः न हि सर्व्वात्मना भुक्तफलत्वं कर्म्मणः प्रतीजानीमहे। ननु निरवशेषकर्म्मफलभोगाय चन्द्रमण्डलमारूढः। वाढं तथापि स्वल्पकर्म्मावशेषमात्रेण तत्रावस्थातुं न शक्यते यथा किल कश्चित् सेवकः सकलैः सेवोपकरणैः राजकुलमुपसप्तः चिरप्रवासात् परिक्षीणबहूपकरणः छत्रपादुकादिमात्रावशेषो न राजकुलेऽवस्थातुं शक्नोति, एव- मनुशयलेशमात्रपरिग्रहो न चन्द्रमण्डलेऽवस्थातुं शक्नोतीति। न चैतद्युक्तमिव न हि स्वर्गार्थस्य कर्म्मणो भुक्तफलस्यावशेषानुवृत्तिरुपपद्यते कार्य्यविरोधित्वादित्युक्तम्। नन्वेतदप्युक्तं न स्वर्गफलस्य कर्मणोनिखिलस्य भुक्तफलत्वं भविष्यतीति। तदेतदपेशलं स्वगांर्थं किल कर्म स्वर्गस्थस्यैव स्वर्गफलं निखिलं जनयति स्वर्गच्युतस्यापि कञ्चित् फललेशं जनयतीति” न शब्दप्रमाणकानामीदृशी कल्पनावकल्पते। स्नेहभाण्डे तु स्नेहलेशानुवृत्तिर्दृष्टत्वादुपपद्यते। तथा सेवकस्योपकरणलेशानुवृत्तिर्दृश्यते न त्विह तथा स्वर्गफलस्य कर्म्मणोलेशानुवृत्तिर्दृश्यते नापि कल्पयितुं शक्यते स्वर्गफलत्वशास्त्रषिरोधात्। अवश्यञ्चैतदेवं विज्ञेयं न स्वर्गफलस्येष्टादेः कर्मणो भाण्डानुसारिस्नेहवदेकदेशोऽनुवर्त्तमानोऽनुशय इति यदि हि येन सुकृतेन कर्मणेष्टादिना स्वर्गमन्वभूवन् तस्यैव कश्चिदेकदेशोऽनुशयः कल्प्येत ततो रमणीयएवैकोऽनुशयः स्यान्न विपरीतः। तत्रेयमनुशयविभागश्रुतिरुपरुध्येत “तद्य इह रमणीयचरणाः अथ य इह कपूयचरणा इति”। तस्मादामुद्मिक फले कर्मजाते उपभुक्तेऽवशिष्टमैहिकफलं कर्मान्तरजात मनुशयः तद्वन्तोऽवरोहन्ति। यदप्युक्तं यत्किञ्चित्यविशेषेण परामर्शात् सर्वस्येहकृतस्य कर्मणः फलोपभोगेनान्तं प्राप्य निरनुशया अवरोहन्तीति। नैतदेवम् अनुशयसद्भावस्यावगमितत्वात्। यत्किश्चिदिहकृतमामुष्मिकफलं कर्मारब्धभोगं तत् सर्वं फलोपभोगेन क्षपयित्वेति गम्यते। यदप्युक्तं प्रायणमविशिष्टत्वादनारब्धफलं कृत्स्नमेव कर्माभि व्यनक्ति तत्र केनचित् कर्मणामुष्मिल्लो~के फलमारभ्यते केनचिदस्मिन्नित्ययं विभागो न सम्भवतीति। तदप्यनुशयसद्भावप्रतिपादनेनैव प्रत्युक्तम्। अपि च केन हेतुना प्रायणमनारब्धफलस्य कर्मणोऽभिव्यञ्जकं “प्रतिज्ञायत इति वक्तव्यम् आरब्धफलेन कर्म्मणा प्रतिबद्धस्येतरस्य वृत्त्युद्भवानुपपत्तेस्तष्टुपशमात् प्रायणकाले वृत्त्युद्भवो भवतीति यद्युच्येत” ततोवक्तव्यं यथैव हि प्राक्प्रायणादारब्धफलेन कर्म्मणा प्रतिबद्धस्येतरस्य वृत्त्युद्भवानुपपत्तिरेवं प्रायणकालेऽपि विरुद्धफलस्यानेकस्य कर्म्मणः युगपत्फलारम्भामम्भावाद्वलवता प्रतिवृद्धस्य दुर्बलस्य वृत्त्युद्भवानुपपत्तिरिति। नह्यनारब्ध्वफलत्वसामान्ये जात्यन्तरोपभोग्य फलमप्यनेककर्म्मैकस्मिन् प्रायणे युगपदभिव्यक्तं सदेकां जातिमारभतैति शक्यं वक्तु प्रतिनियतफलत्वविरोधात्। नापिकस्यचित् कर्म्मणः प्रायणे अभिव्यक्तिः कस्यचिदुच्छेद इति शक्यं वक्तुम् ऐकान्तिकफलत्वविरोधात्। नहि प्रायश्चित्तादिभिर्हेतुभिर्विना कर्म्मणोऽनुच्छेदः सम्भाव्यते। स्मृतिरपि विरुद्धफलेन कर्म्मणा प्रतिबद्धस्य कर्मान्तरस्यचिरमप्यवस्थानं दर्शयति। “कदाचित् सुकृतं कर्म्म कूटस्थमिह तिष्ठति। पच्यमानस्य संसारे यावद्दुःखाद्विमुच्यते” इत्येवंजातीयका। यदि च कृत्स्नमनारब्धफलं कर्म्मैकस्मिन् प्रायणेऽभिव्यक्तं सदेकां जातिमारभेत ततः सर्गनरकतिर्य्यग्योनिष्वधिकारानवगमात् धर्म्माधर्म्मानुत्पत्तौ निमित्ताभावान्नोत्तरा जातिरुपपद्येत ब्रह्महत्यादीनां चैकैकस्य कर्म्मणोऽनेकजन्मनिमित्तत्वं स्मर्य्यमाणमुपरुध्येत। नच धम्माधर्म्मयोः स्वस्वरूपफलसाधनतादि समधिगमे शास्त्रादतिरिक्तं कारणं शक्यं सम्भावयितुम्। नच दृष्टफलस्य कर्म्मणः कारीर्य्यादेः प्रयाणमभिव्यञ्जकं सम्भवतीत्यव्यापिकापीयं प्रायणस्याभिव्यञ्जकत्वकल्पना। प्रदीपोपन्यासोऽपि कर्म्मबलाबलप्रदर्शनेनैव प्रतिनीतः। स्थूलसूक्ष्मरूपाभिव्यक्तिवच्चेदं द्रष्टव्यं यथा हि प्रदीपः समानेऽपि सन्निधाने स्थूलरूपमभिव्यनक्ति न सूक्ष्मम्, एवं प्रायणं समानेऽप्यनारब्धफलस्यकर्म्मजातस्य प्राप्तावसरत्वे बलवतः कर्म्मणोवृत्तिमुद्भावयति न दुर्बलस्येति। तस्मात् श्रुतिस्मृतिन्यायविरोधादश्लिष्टोयमशेषकर्म्माभिव्यक्तेरभ्युपगमः। शेषकर्म्मसद्भावेऽनिर्मोक्ष प्रसङ्ग इत्ययमप्य स्थाने संभ्रमः सम्यग्दर्शनादशेषकर्मक्षयश्रुतेः। तस्मात् स्थितमेतदनुशयवन्तोऽवरोहन्तीति। ते चावरहन्तो यथेतमनेवञ्चावरोहन्तीति। यथेतमिति यथागतमित्यर्थः। अनेवमिति तद्विपर्य्ययणेत्यर्थः। धूमाकाशयीः पितृयानेऽध्वन्युपात्तयोरवरोहे सङ्कीर्त्तनात् यथेतंशब्दाच्च यथागतमिति प्रतीयते। रात्र्याद्यसंकीर्त्तनादभ्रादिसंख्यानाच्च विपर्प्ययोऽपि प्रतीयते” भा०। अनतिदूरे च तत्रैव “स्वाभाव्यापत्तिरुपपत्तेः” शा० सू०। “इष्टादिकारिणश्चन्द्रमसमारुह्य तस्मिन् यावत्संम्पातमुषित्वा ततः सानुशया अवरोहन्तीत्युक्तम् अथावरोहप्रकारः परीक्ष्यते तत्रेयमवरोहश्रुतिर्भवति “अथैतमेवाध्वानं पुनर्निवर्त्तन्ते यथेतमाकाशमाशाद्वायुं वायुर्भूत्वा धूमोभवति धूमोभूत्वाऽभ्रं भवति अभ्रं भूत्वा प्रवर्षतीति”। तत्र संशयः किमाकाशादिस्वरूपमेवावरोहन्तः? प्रतिपद्यन्तेकिं वाऽकाशादिसाम्यमिति? तत्र प्राप्तन्तावदाकाशादिस्वरूपमेव प्रतिपद्यन्ते इति कुतः? एवं हि श्रुतिर्भवति इतरथा लक्षणा स्यात् श्रुतिलक्षणाविषये च श्रुतिर्न्याय्या न लक्षणा, तथा च वायु- र्भूत्वा धूमो भवतीत्येवमादीन्यक्षराणि तत् स्वरूपोपपत्तावेवकल्पन्ते तस्मादाकाशादिस्वरूपप्रतिपत्तिरित्येवं प्राप्ते ब्रूमः आकाशादिसाम्यं प्रतिपद्यन्त इति। चन्द्रमण्डले यदन्मयं शरीरमुपभीगार्थमारब्धं तदुपभोगक्षये सति प्रलीयमानं सूक्ष्ममाकाशसमं भवति ततोवायोर्वशमेति ततो धूमादिभिः संसृज्यत इति तदेतदुच्यते यथेतमाकाशाद्वायुमित्यादिना। कुतः एतत्? उपपत्तेः एवं ह्युपपद्यते। नह्यन्यस्यान्यभावोमुख्य उपपद्यते। आकाशस्वरूपप्रतिपत्तौ च वाष्वादिक्रमेणावरोहोनोपपद्यते। विभुत्वाच्चाकाशेन नित्यसंबन्धान्न तत्सादृश्यापत्तेरन्यस्तत्संबन्धो घटेत। श्रुत्यसम्भवे च लक्षणाश्रयणं न्याय्यमेव अत आकाशादितुल्यत्वापत्तिरेवात्राकाशादि भाव इत्युपचर्य्यते” भा०। नातिचिरेण विशेषात्” शा० सू० “तत्राकाशादिप्रतिपत्तौ प्राग्व्रीह्यादिप्रतिपत्तेर्भवति विशयः किं दीर्घं कालं पूर्ब्बपूर्ब्बसादृश्येनावस्थायोत्तरोत्तरसादृश्यंगच्छन्ति? उताल्पमल्पमिति?। तत्रानियमः, नियमकारिणः शास्त्रस्याभावादित्येवं प्राप्ते इदमाह नातिचिरेणेति। अल्पमल्पकालमाकाशादि भावेनावस्थाय वर्षधाराभिः सहेमां भुवमापतन्ति। कुत एतत्? विशेषदर्शनात्। तथा हि व्रीह्यादिभावापत्तेरनन्तरं विशिनष्टि “अतो वै खलु दुर्न्निष्प्रपतरमिति”। तकार एकः छान्दस्यां प्रक्रियायां लुप्तोमन्तव्यः दुर्निप्रपततरं दुर्निः क्रमतरं दुःर्खतरमस्माद्व्रीह्यादिभावान्निःसरणम्भवतीत्यर्थः। तदत्र दुःखनिःप्रपतनं प्रदर्शयन् पूर्व्वेषु सुख निःप्रपतनं दर्शयति। सुखदुःखताविशेषश्चायं निःप्रपतनस्य कालाल्पत्वदीर्घत्वनिमित्तः तस्मिन्नवधौ शरीरानिष्पत्तेरुपतापासम्भवात्। तस्माद्व्रीह्यादिभावापत्तेः प्रागल्पेनैव कालेनावरोहः स्यादिति” भा०। “अन्याधिष्ठिते पूर्व्ववदभिलापात्” सू० “तस्मिन्नेवावरोहे प्रवर्षणानन्तरं पठ्यते “इह व्रीहियवाओषधिवनस्पतयस्तिलमाषा जायन्त” इति। तत्र संशयः किमस्मिन्नवधौ स्थावरजात्यापन्नाः स्थावरसुखदुःखभाजोऽनुशयिनी भवन्ति? आहोस्वित् क्षेत्नज्ञान्तराधिष्ठितेषु संश्लेषमात्रंगच्छन्तीति? किं तावत् प्राप्तं स्थावरजात्यापन्नास्तत्सुखदुःखभाजोऽनुशयिनो भव न्तीति। कुतः एतत्? जनेर्मुख्यार्थत्वोपपत्तेः स्थावरभावस्य च श्रुतिस्मृत्योरुपभोगस्थानत्वप्रसिद्धेः पशुहिंसादि योगाच्चेष्टादेः कर्मजातस्यानिष्टफलत्वोपपत्तेः। तस्मान्मुख्यमेवेदमनुशयिनां व्रीह्यादिजन्म श्वादि जन्मवत्। यथा श्वयोनिं वा शूकरयोतिं वा चाण्डालयोनिं वेति मुख्यमेवानु शयिनां श्वादिजन्म सुखदुःखान्वित म्भवति एवं व्रीह्यादिजन्मापीत्येवं प्राप्ते ब्रूमः। अन्यैर्जी वैरधिष्ठितेषु ब्रीह्यादिषु संसर्गमात्रमनुशयिनः प्रतिपद्यन्ते न तत्मुखदुःखभाजो भवन्ति पूर्ब्धवत्। यथा वायुधूमादिभावोऽनुशयिनान्तत्संप्लेषमात्नमेवं व्रीह्यादिभावोऽपि स्थावरैः संश्लेषमात्रम्। कुत एतत्? तद्वदेवेहास्याभिलापात् कोऽभिलापस्यतद्वद्भावः! कर्तव्यापारमन्तरेण संकीर्त्तनं यथाऽकाशादिषु न कञ्चित् कर्मव्यापारं परामृशति एवं व्रीह्यादिजन्मन्यपि। तस्मान्नास्त्यत्र सुखभाक्त्वमनुशयिनाम् यत्र तु सुखदुःखभाक्त्वमभिप्रति, परामृशति तत्र कर्मव्यापारं “रमणीय चरणाः कपूयचरणा” इति च। अपि च मुख्येऽनुशयिनां व्रीह्यादिजन्मनि व्रीह्यादिषु लूयमानेषु भज्यमानेषु पच्यमानेषु भक्ष्यमाणेषु च तदभिमानिनोऽनुशयिनः प्रवसेयुः यो हि जीवोयच्छरीरमभिमन्यते स तस्मिन् पीड्यमाने प्रवसतीति प्रसिद्धम्। तत्र व्रीह्यादिभावाद्रेतःसिग्भावोऽनुशयिनां नाभिलप्येत, अतः संसर्गमात्रमनुशयिनामन्याघिष्ठितेषु ब्रीह्यादिषु भवति। एतेन जनेर्मुख्यार्थत्वं प्रतिब्रूयात् उपभोगस्थान त्वञ्च स्थावरभावस्य। न च वयमुपभोगस्थानत्वं स्थावरभावस्यावजानीमहे। भवत्वन्येषां जन्तूनामपुण्यसामर्थ्येन स्थावरभावमुपगतानामेतदुपभोगस्थानं, चन्द्रमसं त्ववरोहन्तोऽनुशयिनो न स्थावरभावमुपभुञ्जत इत्याचक्ष्महे” भा०। “अशुद्धमिति चेन्न शब्दात्” सू०। “यत् पुनरुक्तं पशुहिंसादियोगादशुद्धमाध्वरिकं कर्म तस्यानिष्टमपि फलमवकल्पत इत्यतो मुख्यमेवानुशयिनो व्रीह्यादिजन्मास्तु तत्र गौणी कल्पनाऽनर्थिकेति तत्। परिह्रियते। न शास्त्रहेतुत्वाद्धर्माधर्मविज्ञानस्य अयं धर्मः अयमधर्म इति शास्त्रमेव विज्ञाने कारणम् अतीन्द्रियत्वात्तयोरनियतदेशकालनिमित्तत्वाच्च। यस्मिन्देशे काले निमित्ते च योधर्मोऽनुष्ठीयते स एव देशकालनिमित्तान्तरेषु अघर्मो भवति तेन न शास्त्रादृते धर्मावर्मविषयंज्ञानं कस्यचिदस्ति। शास्त्राच्च हिंसानुग्रहाद्यात्मकोज्योतिष्टोमोधर्म्म इत्यवधारितं स कथमशुद्ध इति शक्यते वक्तुम्। ननु “मा हिंस्यात् सर्व्वाभूतानीति” शास्त्रमेव भूतविषयां हिंसामधर्म इत्यवगमयति”। वाढं उत्सर्गस्तु सः। अपवादः “अग्नीषोमीयं पशुमालभेतेति” उत्सर्गापवादयोश्च व्यवस्थितविषयत्वम् तस्माद्विशुद्धं वैदिकं कर्म शिष्टैरनुष्ठीयमानत्वादनिन्द्यमानत्वाच्च। तेन न तस्य प्रतिरूपं फलं जातिस्थावरत्वम्। नच श्वादिजन्मवदपि ब्रीह्यादिजन्म भवितुमर्हति तद्धि कपूयचरणानधिकृत्योच्यते नैवमिह वैशेषिकः कश्चिदधिकारोऽस्ति। अतश्चन्द्रस्थलात् स्खलितानामनुशयिनां व्रीह्यादिसंश्लेषमात्रं तद्भाव इत्युपचर्य्यते” भा० “रेतःसिग्योगोऽथ” सू०। “इतश्च व्रीह्यादि संश्लेषमात्रं तद्भावः यत्कारणं ब्रीह्यादिभावस्यानन्तरमनुशयिनां रेतःसिगभाव आम्नायते। “योयोह्यन्नमत्ति योरेतः सिञ्चति तद्भूय एव भवतीति”। न चात्र मुख्योरेतःसिग्भावः सम्भवति चिरजातो हि प्राप्तयौवनोरेतःसिग्भवतीति कथमिवानुपचरिततद्भावमद्यमानान्नानुगतोऽनुशयी प्रतिपद्येत तत्रावश्यं रेतःसिग्योग एव रेतःसिग्भावोऽभ्युपगन्तव्यः। तद्वद्व्रीह्यादिभावोऽपि व्रीह्यादियोग एवेत्यविरोधः” भा०।। “योनेःशरीरम्” सू०।। “अथ रेतःसिग्भावस्यानन्तरं योनौ सिक्ते रेतसि योनेरधिशरीरमनुशयिनामनुशयफलोपभोगायतनम् इत्या ह शास्त्रम् “तद्य इह रमणोयचरणा” इत्यादि। तस्मादप्यवगम्यते नावरोहे ब्रीह्यादिभावावसरे तच्छरीरमेव सुखदुःखान्वितं मवतीति। तस्माद्व्रीह्यादिसंश्लेषमात्रमनुशयिनां तज्जन्मेति सिद्धम्” भा०। संज्ञायां कर्त्तरि घञ् “वटादितरोः शाखातो मूलावघि अवतारकेऽंशभेदे च। “अवरोहगताकीर्ण्णं वटमासाद्य तस्थतुः” रामा०। ज्योतिषोक्ते दशाभेदे स्त्री अवरोहिशब्दे उदा०।

अवरोहण = न० अव + रुह मावे ल्युट्। अवतरणे (नामा) “एवमारोहणावरोहणमतः”। कात्या० १८। ३। ९।

अवरोहशाखिन् = पु० अवरोहति छिन्नोऽपि पुनः प्ररोहति अव + रुह–अच् कर्म्म०, अवरोहति अधोगच्छति मूलमस्याः तादृर्शा शाखा कर्म्म० ततः बाहुल्पे मत्वर्थीय इनिर्वा। वटवृक्षे, तस्यछेदनेऽपि पुनः प्ररोहः तस्य च शाखातोऽपि बहूनि मूलान्यवतरन्तीति तस्य तथात्वम्। ब०। अवरोहिशाखोऽप्यत्र।

अवरोहिका = स्त्री अवरोहति अत्यन्तमधोगच्छति अव + रुहण्वुल् टाप् कापि अतैत्त्वम्। अश्वगन्धालतायाम्।

अवरोहित = पु० अवरोरोहितो वर्ण्णः। अल्परक्तवर्ण्णे मध्वादि० अचोबाधकः मतुप्। अवरोहितवान् अल्परक्तवर्ण्णयुक्ते त्रि० स्त्रियां ङीप्।

अवरोहिन् = त्रि० अव + रुह–णिनि। १ वटवृक्ष। २ अवतरणकर्त्तृमात्रे त्रि० स्त्रियां ङीप्। सा च ज्योतिषोक्ते ३ दशाभेदे तथा हि दशाशब्देवक्ष्यमाणस्य “आचं कुराजीशबुकेशुपूर्वा” इत्यादिक्रमस्यानुसारेण जन्मनक्षत्रावधितत्तदशाधिपानामनुक्रमेण या दशा सा आरोहिणी तेषु चन्द्रादिपर्य्यन्तानां क्रमेण यथासम्भवं तेषामेव भोगेन पुनरवरोहेण सूर्य्यादीनां या दशा सावरोहिणी। तथाहि “आग्नेयादि त्रिरावृत्त्या तानि विंशोत्तरीयके” इत्युक्तदिशा जन्मनक्षत्रानुसारेण दशाधिषे आनीते तदुत्तरं तदुत्तरोत्तरपठितानां ग्रहाणां दशा। तत्र यस्य सूर्य्यदशायां जन्म तस्य आरोहिण्येव दशा यस्य तु चन्द्रादिदशायां जन्म तस्य तदुत्तरारोहक्रसेण कुजादिदशा आरोहिणी एवं शुक्रान्तदशाः परिसमाप्य सूर्य्यादीनां या दशा सैव अवरोहिणीति व्यपदिश्यते इति सम्प्रदायविदः। अन्ये तु स्वस्वभोग्य कालस्यार्द्धे प्रथममा रोहिणी दशा शेषार्द्धे अवरोहिणीत्याहुः। साच ग्रहविशेषे विशेषफलदा। यथोक्तम् “उच्चाङ्गपञ्चभस्थस्य दशा स्यादवरोहिणी। तस्यामल्पमवाप्नोति फलं क्लेशाच्छुभं नरः। मित्रोच्चांशगतस्यैषा नूनं मध्यफला भवेत्। सैवानिष्टफलानर्था नीचार्य्यंशगतस्य च। नीचाङ्गपञ्चभस्थस्य दशावरोहिणी मता। तस्यां शुभफलं श्रेष्ठमक्लेशादेव जायते। शत्रुनीचांशगस्यैषा किञ्चित्कष्टफलाऽधमा। मित्रोच्चांशगतस्यास्य सैव सम्पूर्णदा मता”। इति सामान्यतोऽभिधाय” “दशाऽवरोहा दिननायकस्य कृषिक्रियावित्तगृहेष्टनाशम्। चौराग्निपीडां कलहं विरोधं नरेशकोपं कुरुते विदेशम्” सू०। “निशाकरस्याप्यवरोहकाले स्त्रीपुत्रमित्राम्बरसौख्यहानिम्। मनोविकारं स्वजनैर्विरोधं चौराग्निभूतैर्लयमेति कष्टम्”। च० “धरासुतस्यावप्यरीहकाले स्थानार्थनाशं कलिकोपदुःखम्। विदेशवासं स्वजनैर्विरोधं चौराग्निभूपैः सततं करोति”। म०। “शशाङ्कसूनोस्त्ववरोहिणी या दशा महत् कष्टतरं तु दत्ते। विज्ञानहीनं पदरारसङ्गं नृपाग्निचौरेर्भयमत्र कष्टम्”। बु०। “देवेन्द्रपूज्यस्य दशाऽवरोहा करोति सौख्यं सकृदेव नाशम्। सकृद्यशःकान्तिविशेषजालं नरेश्वरत्वं सकृदेव याति”। वृ०। “भृगोः सुतस्याप्यवरोहकाले प्रचण्डवेश्यागमनं धनाप्तिम्। स्त्रीपुत्त्रबन्ध्वार्त्तिमनोविकारम् भ्रूमूलरोगं मदनार्त्तिमेति” शु०। “दिनेशसूनोस्त्ववरोहकाले राज्यच्युतिं दारसुतार्थनाशम्। भाग्यक्षयं भूपतिकोपयुक्तं प्रेष्यत्वमायाति गुदाक्षिरोगम्” सर्वार्थचि० राहुकेत्वोस्त्वारोहावरोहयोर्विशेषो नास्ति

अवर्ग = पु० अकारसजातीयस्वराणां वर्गः अकार + प्रातिशा ख्योक्तः वर्ग वा १ स्वरवर्ण्णमात्रे, “अकचटतपयशाः वर्गा” इतिकेरलम्। वर्गः समूहः न० ब०। २ वर्गशून्ये त्रि०।

अवर्ण = पु० अकारैकस्थानिको वर्णः शा० त०। ह्रस्वदीर्घप्लुतोदात्तानुदात्तस्वरितानुनासिकाननुनासिकभेदेन अष्टादशसंज्ञकेषु (अ)वर्ण्णेषु” “ऐत्यष्टादशाना संज्ञा” सि० कौ०। वर्ण्यतेऽनेन वर्ण्णः प्रशंसा विरोधे न० त०। प्रशंसाविरोधिनि २ अपवादे। “सोढुं न तत्पूर्व्वमवर्ण्णमीशे “न चावदद्भर्त्तुरवर्ण्ण मार्य्या” इति च रघुः।

अवर्त्तन = न० वृत–ल्युट् अभावे न० त०। १ वर्त्तनाभावे २ अस्थितौ। वर्त्ततेऽनेन करणे ल्युट् वर्त्तनं जीविका न० ब०। ३ जीविकाशून्ये त्रि०।

अवर्त्तमान = त्रि० न० त०। १ अस्थिते २ भूते ३ भविष्यति च पदार्थे।

अवर्द्धमान = त्रि० न वर्द्धमानः विरोधे न० त०। वृद्धिशून्ये क्षयिष्णौ।

अवर्षण = न० अभावे न० त०। १ वर्षणाभावे न० ब०। २ वर्षणशून्ये त्रि०।

अवलक्ष = पु० अवलक्ष्यते अव + लक्ष–घञ्। १ श्वेतवर्णे अर्श० आद्यच्। २ तद्वति त्रि०। अतोलोपे वलक्षोप्युभयत्र।

अवलग्न = पु० अव + लग–क्त नि० इडभावः लस्ज–क्त वा। (माजा) १ देहमध्यभागे। २ सम्बद्धमात्रे त्रि०। “विपुलतरोन्मुखलोचनावलग्नम्” माघः।

अवलत्तिका = स्त्री अव + लत–तिकन्। गोधायाम् उज्व०।

अवलम्ब = पु० अव + लबि–आधारे घञ्। १ आश्रये। भावे घञ्। २ द्रव्यान्तराश्रयणे। “साबलम्बगमना मृदुस्वना” रघुः। करणे घञ्। २ अवलम्बसाधने दण्डादौ।

अवलम्बन = न० अव + लबि–भावे ल्युट्। आलम्बने पतनादिनिवारणाय द्रव्यान्तराश्रयणे “अवलम्बनाय दिनभर्तुरभून्न पतिष्यतः करसहस्रमपि” माघः। “सहिष्यते तत्प्रथमावलम्बनम्” कुमा०। “प्रस्थानविक्लवगतेरवलम्बनाय” शकु०। आधारे ल्युट्। २ आश्रये। करणे ल्युट्। आलम्बसाधने ३ दण्डादौ।

अवलम्बित = त्रि० अव + लबि–कर्मणि क्त। १ आश्रिते २ आलम्बिते “अबलम्बितकर्णशष्कुलीकलसीकं रचयन्नवोचत”नैषध०। ३ शीघ्रे न० ४ तद्वति त्रि० जटा०। अव + लम्ब– कर्त्तरि क्त। ५ अवतीर्णे।

अवलम्बिन् = त्रि० अव + लबि–णिनि। १ आलम्बनकर्त्तरि “यस्या भवानपरधूर्य्यपदावलम्बी” रघुः “स गोपतिं नन्दिभुजालम्बी” कुमा० “अथ धूमाभिताम्राक्षं वृक्षशाखावलम्बिनम्” रघुः। २ अवतारके उच्चस्थानात् अधःपातिनि। “भगवति मरीचिमालिनि अस्ताचलचूडावलम्बिनि” काद०।

अवलिप्त = त्रि० अव + लिप–क्त। १ गर्विते “न मूर्खैर्नावलिप्तैश्च नान्त्यैर्नान्त्यावसायिभिः” मनुः। २ कृतलेपने ३ समन्तात् लिप्तेच

अवलीढ = त्रि० अव + लिह–क्त। १ भक्षिते २ कृतावलेहे ३ जिह्वाग्रेणास्वादिते ४ व्याप्ते च “अस्त्रज्वालावलीढप्रतिवलजलधेरन्तरौर्वायमाणः” वेणी०। “पतत्त्रिणावलीढञ्च शुना संस्पृष्टमेव च” मनुः।

अवलीला = स्त्री अवरा लीला। १ अनायासे २ अनादरे च।

अवलुञ्चन = न० अव + लुन्च–ल्युट्। १ छेदने २ उत्पाटने ३ केशादेरबन्धने ४ अपनयने “दूराद्रुजो ब्रणौष्ठस्य सन्निकृष्टेऽवलुञ्चनम्” च। सुश्रु०।

अवलुञ्चित = त्रि० अव + लुन्च + क्त। उत्पाटिते अपनीते अकृतबन्धने च।

अवलुण्ठन = न० अव + लुठि–भावे ल्युट्। भूमौ पतित्वा परिवर्तने (लोटा)।

अवलेख = पु० अव + लिख भेदने भावे घञ्। अवभेदने “वंशा बलेखसंयुक्ते मूत्रे चाजाविके भिषक्” सुश्रु०।

अवलेप = पु० अव + लिप् भावे घञ्। १ गर्व्वे “प्रियसङ्गमेष्वनवलेपमदा” माघः बलाबलेपादधुनापि पूर्ववत्” माघः। “ऐरावतमदावलेपलूनापारिजातशाखा” काद०। २ लेपने ३ भूषणे ४ सम्बन्धे च।

अवलेपन = न० अव + लिप–भावे ल्युट्। १ विलेपे, २ म्रक्षणे, ३ सम्बन्धे ४ गर्वे च। करणे ल्युट्। ५ चन्दनादौ।

अवलेह = पु० अव + लिह–घञ्। १ जिह्वाग्रेणास्वादने। कर्म्मणि घञ्। २ तदास्वाद्ये औषधादौ च। “अतोऽवलेहान्वक्ष्यामः खदिरासननिम्बराजवृक्षशालसारक्वाथे तत्सारपिण्डान् श्लक्ष्णपिष्टान् प्रक्षिप्य विपचेत् ततो नातिद्रवं नातिसान्द्र मवतार्य्य तस्य पाणितलपूर्णमप्रातराशोमधुमिश्रं लिह्या देवं सालसारादौ न्यग्रोधारग्वधादौ च लेहान्धारयेत्” इति सुश्रु०।

अवलेह्य = त्रि० अव + लिह–कर्मणि ण्यत्। जिह्वाग्रेण आस्याद्ये मधुप्रभृतौ द्रव्ये।

अवलोक = पु० अव + लुक–लोक–वा घञ्। दर्शने चाक्षुषज्ञापे “जृम्भाङ्गभङ्गनयनमीलनाङ्गावलोककृत्” सा० द०।

अवलोकन = न० अव + लुक–लोक–वा ल्युट्। १ दर्शने, २ अनुसन्धाने च। “न बभुवुरवलोकनक्षमाः” रघुः। करणे ल्युट्। ३ आलोके, ४ नेत्रे च। योगनिद्रान्तविषदैः पावनैरवलोकनैः” रघुः।

अवलोकित = त्रि० अव + लोक–अर्म्मणि क्त। १ दृष्टे। भावे क्त। २ दर्शने न०। ततोऽस्त्यर्थेऽच् ३ बुद्धभेदे पु०।

अवलोकिन् = त्रि० अव + लुक–लोक वा णिनि स्त्रियां ङीप्। वीक्षके दर्शके “तव प्रियं यच्चतुरालोकिणः” कुमा०।

अवलोप = पु० अव + लुप–घञ्। १ खण्डने २ नाशने ३ विलोपने “यदधयदधरावलोपनृत्यत्” माघः।

अवलोम = पु० अवनद्धं लोम आनुकूल्यम् प्रा० त० अच् समा०। अनुकूले।

अवल्गुज = पु० अवल्गोरशोभनाज्जायते जन–ड। १ सोमराजीलतायाम्। (हाकुच) २ असाधुजाते त्रि०।

अववर्षण = न० अव + वृष–भावे ल्युट्। कृत्स्नवर्षणे। “स्वप्न नदीतरणाववर्षणामेध्यदर्शनप्रयाणेषु तु सकृत्कालद्रव्यैकार्थत्वात्” कात्या० १। ७। १३। “तथा नदीं वृष्टिञ्च कृत्स्नामेवाभिसन्धाय मन्त्रं प्रयुङ्क्ते न चावान्तरनिद्रां नाप्येकं स्रोतः, नाप्येकां वर्षधाराम् तस्मात् सकृत्प्रयोगः तत्र नदीसन्तरणे स्रोतसां भेदेऽपि नदीद्रव्यैकत्वात् सकृन्मन्त्रः अववर्षणे कालैकत्वादेव” कर्कः।

अववाद = पु० अव + वद–घञ्। १ निन्दायाम्, २ विश्वासे, ३ अवज्ञायाम्, ४ अवलम्बने च।

अवश = त्रि० नास्तिवशमायत्तत्वं यस्य। १ अस्वाधीने, २ कामादिपरवशे, ३ पराधीने च। “जग्ध्वाह्यविधिना मांसं प्रेत्य तैरद्यतेऽवशः” मनुः। कार्य्यतेऽह्यवशः कर्म्म सर्वः प्रकृतिजैर्गुणैः” “कार्य्यतेऽह्यवशोऽपि सन्” इति च गीता।

अवशस् = त्रि० अव + शन्स–क्विप्। अववादे अवशंसने “अवशसा निःशसा यत् परागसो पारिम जाग्रतो यत्स्व पन्तः” अथ० ६। ४५। २।

अवशातन = न० अव + शद–णिच्–तङ् ल्युट्। १ नाशने २ शीर्णता करणे। “मांसानामवशातनं श्वयथुर्दंशकोथ” इति सुश्रुतः

अवशिरस् = त्रि० अवनतं शिरोऽस्य प्रा० ब०। अवाङ्मस्तके।

अवशिष्ट = त्रि० अव + शिष–क्त। १ अतिरिक्ते, २ परिशिष्टे, ३ अधिके च। “सुराकामद्यूतकृतं दण्डशुल्कावशिष्टकम्” या० स्मृ० “वाजिभ्योवाजिनमिति श्रुतौ वाजिनं आमि क्षाववशिष्टं जलमिति रघु०।

अवशीभूत = त्रि० न वशीभूतः। अनायत्ते। अवशीकृतोऽप्यत्र।

अवशीर्ष(क) = त्रि० अवनतं शीर्षं यस्य वा कप्। १ अवाङ्मस्तके। अवाक्शीर्वाख्ये सुश्रुतोक्ते २ शय्यादोषभेदे पु० “अवाक् शीर्षे दीर्घन्युब्जोत्तानसङ्कुचितदेहस्थिततादक्षिणपार्श्वशा यिनः प्रदानमिति सप्त शय्यादोषा” इति। ३ नेत्ररोगभेदे नेन्नव्यापदोऽभिधाय “अतिपीडितवद्दोषान् विधिं चाप्यवशीर्षके” इति सुश्रुतः।

अवशेष = पु० न० अव + शिष–भावे घञ्। १ कृतपदार्थस्य शेषे २ समाप्तौ च “तोयावशैषेण हिमाभमभ्रम्” भट्टिः कर्मणि घञ्। अवशिष्टे।

अवशोष = पु० अव + शुष–भावे घञ्। अत्यन्तशोषे।

अवश्य = त्रि० न वश्यः। अनायत्ते १ अनधीने २ दुर्दान्ते।

अवश्यकरण = न० अवश्यं करणं योगविभागात् मलोपः। नियतकरणे अकरणान्निवृत्तौ “अवश्यकरणञ्चाकरणान्निवृत्तिः” प्रा० त० रघु०।

अवश्यपुत्र = पु० अवश्यः पुत्रः। शासितुमशक्ये अवशीभूते पुत्रे। तस्य भावः मनोज्ञा० वुञ्। आवश्यपुत्रकम् तद्भावे न०।

अवश्यम् = अव्य० अव + श्यै–डमु। १ निश्चये २ अशक्यनिवारणै च। “अवश्यं याति तिर्य्यक्त्वं जग्धा चैवाहुतं हविः” मनुः “अवश्यम्भाविन्यर्थे वै सन्तापो नेह विद्यते” भा० शा० प०। “लुम्पेदवश्यमःकृत्ये तुम्काममनसोरपि” इत्युक्तेः कृत्यान्ते मलोपः अवश्यपाच्यम्। “अवश्यभव्येष्वनवग्रहग्रहा” नैष० अवश्यम् भवः ठञ् अव्ययस्यटिलोपः आवश्यकः। अवश्यम्भवे त्रि०। “एतेष्वावश्यकस्त्वसौ” भाषा०।

अवश्या = स्त्री अव + श्यै–क। १ कुज्झटिकायाम् २ अनायत्तायां स्त्रियाञ्च।

अवश्याय = पु० अव + श्यै–ण। १ कुज्झटिकायाम्, “अवश्यायकणास्रावाश्चारुमुक्ताफलत्विषः” भट्टिः। २ अभिमाने च। पृ० ह्रस्वः अवश्ययोऽपि कुज्झटिकायाम्।

अवश्रयण = न० अव + श्रि–ल्युट्। चूल्लीतोऽवतार्य्य स्थापने। “अधिश्रयणावश्रयणान्तादिपूर्व्वापरीभूतः व्यापारकलापः पाकादिशब्दवाच्यः” सा० द०।

अवष्टब्ध = त्रि० अव + स्तन्भ–क्त षत्वम्। १ आसन्ने, २ आक्रान्ते, ३ अवलम्बिते, “अवष्टब्धा यष्टिः” सि० कौ० ४ प्रतिरुद्धे च।

अवष्टभ्य = अव्य० अव + स्तम्भ ल्यप् षत्वम्। अवलम्ब्येत्यर्थे।

अवष्टम्भ = पु० अव + स्तम्भ–घञ् षत्वम्। १ प्रारम्भे २ अनम्रतायाम् ३ आलम्बने। “अवष्टम्भकरं वापि भयघ्नं दण्डधारणम्”। सुश्रु० कर्म्मणि घञ्। ३ स्तम्भे, “रघोरष्टम्भमयेन पत्रिणा” रघुः “न पर्य्याप्तकावष्टम्भपादप्रसारणानि गुरुसन्निधौ कुर्य्यात्” सुश्रुतः ४ सुवर्ण्णे च भावे ल्युट्। अवष्टम्भनम्। प्रारम्भे आलम्बने च न०।

अवष्वाण = पु० अव + स्वन–घञ् षत्वम्। भोजने शब्दे अवस्वान इत्येव।

***