अवजय = पु० अव + जि–अच्। पराजये “येनेन्द्रलोकावजयाय दृप्तः” रघुः।

अवज्ञा = स्त्री अव + ज्ञा–अङ्। “अनादरे। आत्मन्यवज्ञां शिथिलीचकार” रघुः। “गत्यर्थमन्यतेर्ढे चेष्टावज्ञयोः” मुग्ध०। “अविज्ञावज्ञेयं परितपति नोच्चैरपि बुधम्” उद्भटः।

अवज्ञात = त्रि० अव–ज्ञा–क्त। १ अनादृते २ तिरस्कृते ३ कृतावमाने च

अवज्ञान = न० अव + ज्ञा–भावे ल्युट्। १ अवमाने २ तिरस्कारे ३ अनादरे “ईप्सितं तदवज्ञानात् विद्धि सार्गलमात्मनः” रघुः

अवज्ञेय = त्रि० अव + ज्ञा–कर्म्मणि यत्। १ अनादरणीये २ तिरस्कार्य्ये “विप्रा हि क्षत्रियात्मानोनावज्ञेयाः कदाचन” या० स्मृ०।

अवट = पु० अव–अटन्। १ गर्त्ते, २ कूपे,। “रक्षसां गतसत्त्वानामेष धर्म्मः सनातनः। अवटे ये निधीयन्ते” रामा०। “भूतौदनो निवेद्यश्च स्कन्धापस्मारिणोऽवटे” सुश्रु० “अवटेष्ववनयति” शत० ब्रा०। ३ देहस्थ निम्नस्थाने कण्ठमूलादौ च “अवटश्चैवमेतानि स्थानान्यत्र शरीरके” या० स्मृ० “शरीरेयःअवटःकश्चिन्निम्नोदेशः कण्ठमूलकक्षादि” मिता० ४ ऐन्द्रजालिकजीविकावति च गर्गा० यञ् आवट्यः। अवटभवे त्रि०।

अवटनिरोधन = पु० अवटे गर्त्ते निरुध्यतेऽत्र अव + नि + रुध आधारे ल्युट्। नरकभेदे नरकशब्देविवृतिः।

अवटि = स्त्री अव + अटि। १ गर्त्ते २ कूपे च वा ङीप् अवटीत्यपि।

अवटीट = त्रि० अवनता नासिका प्रा० स० नतार्थेनासायाः टीटादेशः अर्श आदित्वादच्। (खांदा) नतनासिके जने।

अवटु = पु० अव + टीक–मितद्र्वा० डु। १ गर्त्ते, २ वृक्षभेदे, ३ कूपे च। ४ ग्रीवापश्चाद्भागे, ५ ग्रीवाया उन्नतभागे च स्त्री ४ देहस्थे निम्नदेशे “अवटुश्चैवमेतानि स्थानान्यत्र शरीरके” इति या० स्मृ० पाठान्तरम् “अवटावथ हन्वोश्च प्रगृह्योन्नमयेन्नरम्” सुश्रु०। न० त० ५ वटुभिन्ने पु०।

अवटुज = पु० अवटौजायते जन–ड ७ त०। शिरःस्थचरमकेशे घाटास्थकेशे “रागवानवटुजेष्ववकृष्य” माघः।

अवटोदा = स्त्री न० त० अवटस्य कूपस्योदकमिव उदकमस्याः उदादेशः। भारतवर्षीये नदीभेदे।

अवडङ्क = पु० अवगतो डङ्कः शब्दं यस्मात्। हट्टस्थाने जटा०।

अवडीन = न० अव + डी–भावे क्त। अवरोहणरूपे पक्षिगतिभेदे।

अवत = पु० अव–अटच् वेदे पृ० टस्य तः। अवटरूपे कूपादौ निरु० “सिक्तमवतम्” ऋ० १, १३०, २ “अवतमवटमिति” भा० “अवते न कोशम्” ऋ० ४, १७, १६।

अवतंस = पु० न० अव–तन्स–घञ्। १ कर्णपूरे, २ शिरोभूषाभेदे च। “कण्णावतंसद्विगुणाक्षसूत्रम्” “स्ववाहनक्षोभचलावतंसाः” “गणा नामेरुप्रसवावतंसाः” इति च कुमा०।

अवतंसित = त्रि० अव + तन्स–क्त। भूषिते “समदनमबतंसितेऽधिकर्ण्णम्” माघः। वा अल्लोपे वतंसितोप्यत्र।

अवतमस = न० अवततं व्याप्तं तमः प्रा० स० अच् समा०। व्याप्तान्धकारे। “अवतमसभिदायै भाखताभ्युद्गतेन” माघः।

अवतरण = अव + तॄ–भावे ल्युट्। तीरादिप्रदेशात् १ जलाद्यवगाहाद्यर्थमवरोहणे। २ अन्यरूपेण प्रादुर्भावे “अंशावतवणम्” भा० आ० प०। वस्तुमात्रस्य स्वस्थानात् ३ अवरोहणे (नामा) “स्तन्यावतरणे चैव् ज्वरोदोषैः प्रवर्त्तते। स्त्रीणामपप्रजातानां स्तन्यावतरणे च यः” सुश्रु०। अवतीर्य्यते येन करणे ल्युट्। नद्यादेः सोपानादौ ४ तीर्थे।

अवतरणी = स्त्री अवतरति ग्रन्थोऽनया अवतॄ करणे ल्युट्। ग्रन्थप्रस्तावार्थं प्रथममुपोद्घातरूपायां सङ्गतौ (आभास) इत्याख्यायां २ परिपाट्याञ्च स्वार्थेकन् अवतरणिकाप्यत्र।

अवतान = पु० अव + तन–घञ् कर्म्मणि घञ्। १ सन्ताने २ अधोमुखे ३ लताप्रताने च “लताशर्तरवततामवतानशतैस्तथा” रामा०।

अवतार = पु० अव + तृ करणे घञ्। १ तीर्थे, (पुष्करिण्यादेः सोपानपद्धतौ) “रुद्धे गजेन सरितः सरुषाऽवतारे” माघः। भावे घञ्। २ प्रादुर्भावे “नवावतारं कमलादिवोत्पलम्” मा भूत्परीवादनवावतारः” इति च रघुः ३ देवानामंशावेशवशेन प्रादुर्भावे च। “अवताराह्यसंख्येया” इत्युक्तेः तेषां बहुत्वेऽपि प्राधान्याद्दशैव विष्णोरवतारा शास्त्रप्रसिद्धाः यथा “मत्स्य “कूर्म्मोवराहश्च नरसिंहोऽथ वामनः। रामो रामश्च रामश्चबुद्धः कल्की च ते दश” पुरा० मुण्डमालायां तु प्रकृतेरेव एते अवताराउक्ताः “प्रकृतिर्विष्णुरूपात्र पुंरूपश्च महेश्वरः। एवं प्रकृतिभेदेन भेदास्तु प्रकृतेर्दश। कृष्णरूपा कालिका स्यात् रामरूपा च तारिणी। वगला कूर्म्ममूर्त्तिः स्यात् मीनो धूमावती भवेत्। छिन्नमस्ता नृसिंहः स्याद्वराहश्चैव भैरवी। सुन्दरी जामदग्न्यः स्यात् वामनो भुवनेश्वरो। कमला बौद्धरूपा स्यात् मातङ्गी कल्किरूपिणी। स्वयं भगवती काली कृष्णस्तु भगवान् स्वयम्। स्वयं च भगवान् कृष्णः कालीरूपोऽभवद् ब्रजे”। भागवते १ स्क० तु प्राधान्यतः अन्येऽप्यवतारा उक्ताः यथा “लीलावतारानुरतोदेवतिर्य्यङ्नरादिषु” इत्युपक्रम्य। “जगृहे पौरुषं रूपं भगवान् महदादिभिः। संभृतं षोडशकलमादौ लोकसिसृक्षया। यस्याम्भसि शयानस्य योगनिद्रां वितन्वतः। नाभिह्रदाम्बुजादासी द्व्रह्मा विश्वसृजां पतिः। यस्यावयवसंस्थानैः कल्पितोलोक विस्तरः। तद्वै भगवतोरूप विशुद्ध सत्वमूर्ज्जितम्। पश्यन्त्यदोरूपमदभ्रचक्षुषा सहस्रपादोरुभुजाननाद्भुतम्। सहस्र मूर्द्धश्रवणाक्षिनासिकं सहस्रमौल्यम्बरकुण्डलोल्लसत्। एतन्नानावताराणां निधानं वीजमव्ययम्। यस्यांशांशेन सृज्यन्ते देवतिर्यङ्गरादयः। स एव प्रथमं देवः कौमारं सर्गभाश्रितः। चचार दुश्चरं ब्रह्मा ब्रह्मचर्य्यमखण्डितम् १। द्वितीयस्तु भवायास्य रसातलगतां महीम्। उद्धरिष्यन्नुपादत्त यज्ञेशः शौकरं वपुः २। तृतीयमृषिसर्गं वै देवर्षित्वमुपेत्य सः। तन्त्रं सात्वतमाचष्ट नैष्कर्म्म्यं कर्म्मणां यतः ३। तुर्य्ये धर्म्मकलासर्गे नरनारायणावृषी। भूत्वात्मोपशमोपेतमकरोद्दुश्चरन्तपः ४। पञ्चमः कपिलो नाम सिद्धेशः कालविप्लुतम्। प्रोवाचासुरये सांख्यं तत्त्वग्रामविनिर्ण्णंयम् ५। षष्ठमत्रेरपत्यत्वं वृतः प्राप्तोऽनुसूयया। आन्वीक्षिकीमलर्काय प्रह्लादादिभ्य उचिवान् ६। ततः सप्तम आकूत्यां रुचेर्यज्ञोऽभ्यजायत सतामाद्यैः सुरगणैरपात् स्वायम्भुवान्तरम्। ७ अष्टमे मेरुदेव्यान्तु नाभेर्जात उरुक्रमः। दर्शयन् वर्त्म धीराणां सर्व्वाश्रमनमस्कृतम् ८। ऋषिभिर्याचितोभेजे नवमं पार्थिवं वपुः। दुग्धेमामोषधीर्विप्रास्तेनयः स उशत्तमः ९। रूपं स जगृहे मात्स्यं चाक्षुषान्तरसंप्लवे। नाव्यारोप्य महीमय्या मपाद्वैवस्वतं मनुम् १०। मुरासुराणामुदधिं मथ्नतां मन्दराचलम्। दध्रे कमठरूपेण पृष्ठ एकादशे विभुः ११। धान्वन्तरं द्वादशमं त्रयोदशममेव च १२। अपाययत् सुरानन्यान्मोहिन्याऽमोहयत् स्त्रिया १३। चतुर्द्दशं नारसिंहं बिभ्रद्दैत्येन्द्रमूर्जितम्। ददार करजैरूरावेरकां कटकृद्यथा १४। पञ्चदशं वामनकं कृत्वागादध्वरं बलेः। पदत्रयं याचमानः प्रत्यादित्सुस्त्रिपिष्टपम्। १५। अवतारे पोडगमे पश्यन् धर्म्मद्रुहोनृपान्। त्रिसप्तकृत्वः कुपितो निःक्षत्रामकरोन्महीम् १६। ततः सप्तदशे जातःसत्यवत्यां पराशरात्। चक्रे वेदतरोः शाखा दृष्ट्वा पुंसोऽल्पमेधसः। १७। नरदेवत्वमापन्नः सुरकार्य्यचिकीर्षया। समुद्रनिग्रहादीनि चक्रे वीर्य्याण्यतःपरम् १८। एकोनविंशेविंशति मे वृष्णिषु प्राप्य जन्मनी। रामकृष्णाविति भुवो भगवानहरद्भरम् १९। २०। ततः कलौ संप्रवृत्ते संमोहाय सुरद्विषाम्। बुद्धोनाम्नाजिनसुतः कीकटेषु भविष्यति। २१। अथासौ युगसन्ध्यायां दस्युप्रायेषु रौजसु। जनिता विष्णुयशसो नाम्ना कल्किर्जगत्पतिः २२। अवताराह्यसङ्ख्येया हरेः सर्वर्निधेर्द्विजाः। यथा विदासिनः कुल्याः सरसः स्युः सहस्रशः। ऋषयो मनवोदेवा मनुपुत्रा महौजसः। कलाः सर्व्वे हरेरेव स प्रजापतयः स्मृताः। एते चांशकलाः पुंसः कृष्णस्तु भगवान् स्वयम्। इन्द्रादिव्याकुलं लोकं गूढयन्ति युगे युगे”। “कस्मिन् काले स भगवान् किंवर्ण्णः कीदृशोनृभिः। नाम्नाकेन विधानेन पूज्यते तदिहोच्यताम्”। इति प्रश्ने। “कृतं त्रेता द्वापरञ्च कलिरित्येषु केशवः। नानावर्ण्णाभिघाकारो नानैव विधिनेज्यते। कृते शुक्लश्चतुर्बाहुर्जटिलोवल्कलाम्बरः। कृष्णाजिनोपवीताक्षान् विभ्रद्दण्डं कमण्डलुम्। मनुष्यास्तु तदा शान्ता निर्व्वैराःसुहृदः समाः। यजन्ति तपसा देवं शमेन च दमेन च। हंसः सुपर्ण्णो वैकुण्ठोधर्म्मोयोगेश्वरोऽमलः। ईश्वरः पुरुषोऽव्यक्तः परमात्मेति गीयते। त्रेतायां रक्तवर्णोऽसौ चतुर्बाहुस्तु मेखलः। हिरण्यकेशस्त्वव्यक्तः स्रुक्स्रुवाद्युपलक्षणः। तं तदा मनुजा देवं सर्व्वदेवमयं हरिम्। यजन्ति विद्यया त्रय्या धर्म्मिष्ठा ब्रह्मवादिनः। विष्णुर्यज्ञः पृश्निगर्भः सर्व्वदेव उरुक्रमः। वृषाकपिर्जयन्तश्च उरुगाय इतीर्य्यते। द्वापरे भगवान् श्यामः पीतवासा निजायुधः। श्रीवत्सादिभिरक्षोभ्यलक्षणैरुपलक्षितः। तं तदा पुरुषं मर्त्या महाराजोपलक्षणम्। यजन्ति वेदतन्त्राभ्यां परं जिज्ञासवो नृप!। नमस्ते वासुदेवाय नमःसङ्कर्षणाय च। प्रदा म्रायानिरुद्धाय तुभ्यं भगवते नमः। नारायणाय ऋषये पुरुषाय महात्मने। विश्वेश्वराय विश्वाय सर्ब्धभूतात्मने नमः। इति द्वापर उव्वींश स्तुवन्ति जगदीश्वरम्। नाना तन्त्रविधानेन कलावपि यथा शृणु। कृष्णवर्ण्णं त्विषाऽकृष्णं साङ्गोपाङ्गास्त्रपार्षदम्। यज्ञैः संकीर्त्तनप्रायैर्यजन्ति हि सुमेधसः। ध्येयं सदापरिभवघ्नमभीष्टदोहं तीर्थास्पदंशिवविरिञ्चिनुतं शरण्यम्। भूत्यार्त्तिहं प्रणतपालभवाब्धिपोतंवन्दे महापुरुष! ते चरस्मारविन्दम् भा० ११ स्कन्द०। अन्यत्र अवतारभेदस्तत्रैवोक्तः “हंसस्वरूप्यवददच्युतआत्मयोगं दत्तः कुमार ऋषभोभगवान् पिता नः। विष्णुः शिवाय जगतां कलयावतीर्णस्तेनाहृतामधुभिदा श्रुतयोहयास्ये। गुप्तोऽप्यये मनुरिलौषधयश्च मात्स्ये क्रौडेहतो दितिजौद्धरताम्भसः क्ष्माम्। कौर्म्मे धृतोऽद्रिरमृतोन्मथने स्वपृष्ठे ग्राहप्रपन्नमिभराजममुञ्चदार्त्तम्। संस्तुन्वतोनिपतितान् श्रमणानृषींश्च शक्रञ्च वृत्रबधतस्तमसिप्रविष्टम्। देवस्त्रियोऽसुरगृहे पिहिता अनाथा जघ्नेऽसुरेन्द्र मभयाय सतां नृसिंहे। देवासुरे युधि च दैत्यपतीन् सुरार्थेहत्वान्तरेषु भुवनान्यदधत् कलाभिः। भूत्वाथ वामन इमामहरद्बलेःक्ष्मां याच्ञाच्छलेन समदाददितेः सुतेभ्यः। निःक्षत्रियामकृत गाञ्च त्रिसप्तकृत्वोरामस्तु हैहयकुलाप्ययबाडवाग्निः। सोऽब्धिं बबन्ध दशवक्त्रमहन् सलक्षं सीतापतिर्जयति लोकमलघ्नकोर्त्तिः। भूमेर्भरावतरणाय यदुष्वजन्मा जातः करिष्यति सुरैरपि दुष्कराणि। वादैर्विमोहयति यज्ञकृतोऽतदर्हान् शूद्रान् कलौ क्षिति भुजोन्यहनिष्यदन्ते। एवंविधानि जन्मानि कर्म्माणि च जगत्पतेः। भूरीणि भूरियशसोवर्णितानि महाभुज!”। सुरासुराद्यंशावतारा भारते आदिपर्व्वणि दर्शिताः यथा “इत्युक्त्वा स महीं देवो ब्रह्मा राजन्! विसृज्य ताम्। आदिदेश तदा सर्व्वान् विबुधान् भूतकृत्स्वयम्। अस्या भूमेर्निरसितुं भारं भागैः पृथक्पृथक्। अस्यामेव प्रसूयध्वं विरोधायेति चाब्रवीत्। तथैव च समानीय गन्धर्ब्बाप्सरसां गणान्। उवाच भगवान् सर्व्वानिदं वचनमर्थवत्”। इत्युपक्रम्य “स्वैस्वैरंशैः प्रसूयध्वं यथेष्टं मानुषेषु च। अथ शक्रादयः सर्व्वोश्रुत्वा सुरगुरोर्व्वचः। तथ्यमर्थ्यञ्च पथ्यञ्च तस्य ते जगृहुस्तदा। अथ ते सर्व्वशींऽशैः स्वैर्गन्तुं भूमिं कृतक्षणाः। नारायणममित्रघ्नं वैकुण्ठमुपचक्रमुः। यः स चक्रगदापाणिः पीतवासाः शितिप्रभः। पद्मनाभः सुरारिघ्नः पृथुवक्षीऽञ्चितेक्षणः। प्रजापतिपतिर्द्देवः सुरनाथो महाबलः। श्रीवत्साङ्को हृषीकेशः सर्व्वदैवतपूजितः। तं भुवः शोधनायेन्द्र उवाच पुरुषोत्तमम्। अंशेनावतरेत्येवं तथेत्याह च तं हरिः” इत्युपक्रम्य च “अथ नारायणेनेत्थं चकार सह संविदम्। अवतर्त्तुं महीं स्वर्गादंशतः सहितः सुरैः। आदिश्य च स्वयं शक्रः सर्व्वानेव दिवौकसः। निर्जगामं पुनस्तस्मात्क्षयान्नारायणस्य च। तेऽमरारिविनाशाय सर्व्वलोकहिताय च। अवतेरुः क्रमेणैव महीं स्वर्गाद्दिवौकसः। ततो ब्रह्मर्षिवंशेषु पाथिवर्षिकुलेषु च। जज्ञिरे राजशर्दूल! यथाकामं दिवौकसः”। इति सामान्यत उक्त्वा। “मानुषेषु मनुष्येन्द्र! संभूता ये दिवौकसः। प्रथमं दानवाश्चैव तांस्ते वक्ष्यामि सर्व्वशः। विप्रचित्तिरिति ख्यातो य आसीद्दानवर्षभः। जरासन्ध इति ख्यातः स आसीन्मनुजर्षभः। दितेः पुत्त्रस्तु यो राजन्। हिरण्यकशिपुः स्मृतः। स जज्ञे मानुषे लोके शिशुपालो नरर्षभ!। संह्लाद इति विख्यातः प्रह्णादस्यानुजस्तु यः। स शल्य इति विख्यातो जज्ञे वाह्लीकपुङ्गवः। अनुह्लादस्तु तेजस्वी योऽभूत् ख्यातो जघन्यजः। धृष्टकेतुरिति ख्यातः स बभूव नरेश्वरः। यस्तु राजञ्छिविर्नाम दैतेयः परिकीर्त्तितः। द्रुम इत्यभिविख्यातः स आसीद्भुवि पार्थिवः। वास्कलो नाम यस्तेषामासीदसुरसत्तमः। भगदत्त इति ख्यातः स जज्ञे पुरुषर्षभ!। अयःशिरा अश्वशिरा अयःशङ्कुश्च वीर्य्यवान्। तथा गगनमूर्द्धा च वेगवांश्चात्र पञ्चमः। पञ्चैते जज्ञिरे राजन् वीर्य्यवन्तो महासुराः। केकयेषु महात्मानः पार्थिवर्षभसत्तमाः। केतुमानिति विख्यातो यस्ततोऽन्यः प्रतापवान्। अमितौजा इति ख्यातः सोऽग्रकर्म्मा नराधिपः। खर्भानुरिति विख्यातः श्रीमान् यस्तु महासुरः। उग्रसेन इति ख्यात उग्रकर्म्मा नराधिपः। यस्त्वश्वैति विख्यातः श्रीमानासीन्महासुरः। अशोको नाम राजाऽभून्महावीर्य्योऽपराजितः। तस्मादवरजो यस्तु राजन्नश्वपतिः स्मृतः। दैतेयः सोऽभवद्राजा हार्द्दिक्यो मनुजर्षभः। वृषपर्व्वेति विख्यातः श्रीमान् यस्तु महासुरः। दीर्घप्रज्ञ इति ख्यातः पृथिव्यां सोऽभवन्नृपः। अजकस्त्ववरो राजन्! य आसीद्वृषपर्व्वणः। स शाल्व इति विख्यातः पृथिव्यामभवन्नृपः। अश्वग्रीवैति ख्यातः सत्ववान् यो महासुरः। रोचमान इति ख्यातः पृथिव्यां सोऽभवन्नृपः। सूक्ष्मस्तु मतिमान्राजन्! कीर्त्तिमान् यः प्रकीर्त्तितः। वृहद्रथ इतिख्यातः क्षितावासोत्स पार्थिवः। तुहुण्ड इति विख्यातो य आसीदसुरोत्तमः। सेनाविन्दुरिति ख्यातः स बभूव नराधिपः। इषुपोनाम यस्तेषामसुराणां बलाधिकः। नग्नजिन्नाम राजासीद्भुवि विख्यातविक्रमः। एकचक्रैति ख्यात आसीद्यस्तु महासुरः। प्रतिविन्ध्य इति ख्यातो बभूव प्रथितः क्षितौ। विरूपाक्षस्तु दैतेयश्चित्रयोधी महासुरः। चित्रधर्म्मेति विख्यातः क्षितावासीत्स पार्थिवः। हरस्त्वरिहरो वीर आसीद्यो दानवोत्तमः। सुबाहुरिति विख्यातः श्रीमानासीत्स पार्थिवः। सुहरस्तु महातेजाः शत्रुपक्षक्षयङ्करः। वाह्लीको नाम राजा स बभूव प्रथितः क्षितौ। निचन्द्रश्चन्द्रवक्त्रस्तु य आसीदसुरीत्तमः। मुञ्जकेश इति ख्यातः श्रीमानासीत् स पार्थिवः। निकुम्भस्त्वजितः संख्ये महामतिरजायत। भूमौ भूमिपतिश्रेष्ठो देवाधिप इति स्मृतः। शरभो नाम यस्तेषां दैतेयानां महासुरः। पौरवो नाम राजर्षिः स बभूव नरोत्तमः। सुक्रथस्तु महावीर्य्यः श्रीमान् राजन्महासुरः। सुपार्श्व इति विख्यातः क्षितौ जज्ञे महीपतिः। क्रथस्तु राजन्! राजर्षिः क्षितौ जज्ञे महासुरः। पार्व्वतेय इति ख्यातः काञ्चनाचलसन्निभः। द्वितीयः शलभस्तेषामसुराणां बभूव ह। प्रह्लादो नाम बाह्लीकः स बभूव नराधिपः। चन्द्रस्तु दितिजश्रेष्ठो लोके ताराधिपोपमः। चन्द्रवर्म्मेति विख्यातः काम्बोजानां नराधिपः। अर्क्कैत्यभिविख्यातो यस्तु दानवपुङ्गवः। ऋषिको नाम राजर्षिर्ब्बभूव नृपसत्तमः। मृतपा इति विख्यातो य आसीदसुरोत्तमः। पश्चिमानूपकं विद्धि तं नृपं नृपसत्तम!। गविष्ठस्तु महातेजा यः प्रख्यातो महासुरः। द्रुमसेन इति ख्यातः पृथिव्यां सोऽभवन्नृपः। मयूर इति विख्यातः श्रीमान् यस्तु महासुरः। स विश्वैति विख्यातो बभूव पृथिवीपतिः। सुपर्ण इति विख्यातस्तस्मादवरजस्तु यः। कालकीर्त्तिरिति ख्यातः पृथिव्यां सोऽभवन्नृपः। चन्द्रहन्तेति यस्तेषां कीर्त्तितः प्रवरोऽसुरः। शुनको नाम राजर्षिः स बभूव नराधिपः। विनाशनस्तु चन्द्रस्य य आख्यातो महासुरः। जानकिर्न्नामंविख्यातः सोऽभवन्मनुजाधिपः। दीर्घजिह्वस्तु कौरव्य य उक्तो दानवर्षभः!। काशिराजः स विख्यातः पृथिव्यां पृथिवीपते!। ग्रहन्तु सुषुवे यन्तु सिंहिकाऽर्केन्दुमर्द्दनम्। स क्राथ इति विख्यातो बभूव मनुजाधिपः। अनायुषस्तु पुत्त्राणां चतुर्णां प्रवरोऽसुरः। विक्षरो नाम तेजस्वी वसुमित्रो नृपः स्मृतः। द्वितीयो विक्षराद्यस्तु नराधिप! महासुरः। पाण्ड्यराष्ट्राधिप इति विख्यातः सोऽभवन्नृपः। बलीन इति विख्यातो यस्त्वासीदसुरोत्तमः। पौण्ड्यमात्स्यक इत्येवं बभूव स नराधिपः। वृत्र इत्यभिविख्यातो यस्तु राजन्महासुरः। मणिमान्नाम राजर्षिः स बभूव नराधिपः। क्रोधहन्तेति यस्तस्य बभूवावरजोऽसुरः। दण्ड इत्यभिविख्यातः स आसीन्नृपतिः क्षितौ। क्रोधवर्द्धन इत्येव यस्त्वन्यः परिकीर्त्तितः। दण्डधार इति ख्यातः सोऽभवन्मनुजर्षभः। कालेयानान्तु ये पुत्त्रास्तेषामष्टौ नराधिपाः। जज्ञिरे राजशार्द्दूल! शार्द्दूलसमविक्रमाः। मगधेषु जयत्सेनस्तेषामासीत्स पार्थिवः। अष्टानाम्प्रवरस्तेषां कालेयानां महासुरः। द्वितीयस्तु ततस्तेषां श्रोमान्हरिहयोपमः। अपराजित इत्येवं स बभूव नरा- धिपः। तृतीयस्तु महातेजा महामायो महासुरः। निषादाधिपतिर्जज्ञे भुवि भीमपराक्रमः। तेषामन्यतमो यस्तु चतुर्थः परिकीर्त्तितः। श्रेणिमानिति विख्यातः क्षितौ राजर्षिसत्तमः। पञ्चमस्त्वभवत्तेषां प्रवरो यो महासुरः। महौजा इति विख्यातो बभूवेह परन्तपः। षष्ठस्तु मतिमान् यो वै तेषामासीन्महासुरः। अभीरुरिति विख्यातः क्षितौ राजर्षिसत्तमः। समुद्रसेनस्तु नृपस्तेषामेवाभवद्ग णात्। विश्रुतः सागरान्तायां क्षितौ धर्म्मार्थतत्त्ववित्। वृहन्नामाष्टमस्तेषां कालेयानां नराधिप!। बभूव राजा धर्म्मात्मा सर्व्वभूतहिते रतः। कुक्षिस्तु राजन्! विख्यातो दानबानां महाबलः। पार्व्वतीय इति ख्यातः काञ्चना चलसन्निभः। क्रथनश्च महावीर्य्यः श्रीमान्नाजन्महासुरः। सूर्य्याक्ष इति विख्यातः क्षितौ जज्ञे महीपतिः! असुराणान्तु यः सूर्य्यः श्रीमांश्चैव महासुरः। दरदो नाम वाह्लीको वरः सर्व्वमहीक्षिताम्। गणः क्रोधवशो नाम यस्ते राजन्! प्रकीर्त्तितः। ततः सञ्जज्ञिरे वीराः क्षिताविह नराधिपाः। मद्रकः कर्णवेष्टश्च सिद्धार्थः कीटकस्तथा। सुवीरश्च सुबाहुश्च महावीरोऽथ वाह्लिकः। क्रथो विचित्रः सुरथः श्रीमान्नीलश्च भूमिपः। चीरवासाश्च कौरव्य! भूमिपालश्च नामतः। दन्तवक्रश्च नामासीद्दुर्ज्जयश्चैव दानवः। रुक्मी च नृपशार्दूलो राजा च जनमेजयः। आषाढोवायुवेगश्च भूरितेजास्तथैव च। एकलव्यः सुमित्रश्च वाटधानोऽथ गोमुखः। कारुषकाश्च राजानः क्षेमधूर्त्तिस्तथैव च। श्रुतायुरुद्वहश्चैव वृहत्सेनस्तथैव च। क्षेमोऽग्रवीर्य्यः कुहरः कलिङ्गेषु नराधिपः। मतिमांश्च मनुष्येन्द्र ईश्वरश्चेति विश्रुतः। गणात् क्रोधवशादेष राजपूगोऽभवत् क्षितौ। जातः पुरा महाभागो महाकीर्त्तिर्म्महाबलः। कालनेमिरिति ख्यातो दानवानां महाबलः। स कंस इति विख्यात उग्रसेनसुतो बली। यस्त्वासीद्देवको नाम देवराजसमद्युतिः। स गन्धर्ब्बपतिर्मुख्यः क्षितौ जज्ञे नराषिपः। वृहस्पतेर्वृहत्कीर्त्तेर्द्देवर्षेर्विद्धि भारत!। अंशात्द्रोणं समुत्पन्नं भारद्वाजमयोनिजम्। धन्विनां नृपशार्दूल! यः मर्व्वास्त्रविदुत्तमः। महाकीर्त्तिर्म्महातेजाः स जज्ञे मनुजेश्वर!। धनुर्वेदे च वेदे च यं तं वेदविदो विदुः। गरिष्ठं चित्रकर्म्माणं द्रोणं स्ववुलवर्द्धनम्। महादेवान्तकाभ्याञ्च कामात् क्रोधाच्च भारत!। एकत्वमुपपन्नानां जज्ञे शूरः परन्तपः। अश्वत्थामा महावीर्य्यः शत्रुपक्षक्षयावहः। वीरः कमलपत्राक्षः क्षितावा- सीन्नराधिप!। जज्ञिरे वसवस्त्वष्टौ गङ्गायां शान्तनोः सुताः। वशिष्ठस्य च शापेन नियोगाद्वासवस्य च। तेषामवरजो भीष्मः कुरूणामभयङ्करः। मतिमान्वेदविद्वाग्मी शत्रुपक्षक्षयङ्करः। जामदग्न्येन रामेण सर्वास्त्रविदुषां वरः। योऽयुध्यत महातेजा भार्गयेण महात्मना। यस्तु राजन्! कृपोनाम ब्रह्मर्षिरभवत् क्षितौ। रुद्राणान्तु गणाद्विद्धि संभूतमतिपौरुषम्। शकुनिर्नाम यस्त्वासीद्राजा लोके महारथः। द्वापरं विद्धि तं राजन्! संभूतमरिमर्द्दनम्। सात्यकिः सत्यसन्धश्च यौऽसौ वृष्णिकुलोद्वहः। पक्षात् स जज्ञे मरुतां देवानामरिमर्द्दनः। द्रुपदश्चैव राजर्षिस्तत एवाभवद्गणात्। मानुषे नृप! लोकेऽस्मिन् सर्वशस्त्रभृतांवरः। ततश्च कृतवर्म्माणं विद्धि राजन्!! जनाधिपम्। तमप्रतिमकर्म्माणं क्षत्त्रियर्षभसत्तमम्। मरुतान्तु गणाद्विद्धि सञ्जातमरिमर्दनम्। विराटं नाम राजानं परराष्ट्रप्रतापनम्। अरिष्टायास्तु यः पुत्री हंस इत्यभिविश्रुतः। स गन्धर्वपतिर्जज्ञे कुरुवंशविवर्द्धनः। धृतराष्ट्र इति ख्यातः कृष्णद्वैपायनात्मजः। दीर्घबाहुर्महातेजाः प्रज्ञाचक्षुर्न्नराधिपः। मातुर्देशादृषेः कीपादन्ध एव व्यजायत। तस्यैवावरजो भ्राता महासत्त्वो महाबलः। स पाण्डुरिति विख्यातः सत्यघर्म्मरतः शुचिः। अत्रेस्तु सुमहाभागं पुत्रं पुत्त्रवतांवरम्। विदुरं विद्धि तं लोके जातं बुद्धिमतांवरम्। कलेरंशस्तु सञ्जज्ञे भुवि दुर्य्योधनोनृपः। दुर्बुद्धिर्द्दुर्म्मतिश्चैव कुरूणामयशस्करः। जगतो यस्तु सर्वस्य विद्विष्टः कलिपूरुषः। यः सर्व्वां घातयामास पृथिवीं पृथिवीपते। उद्दीपितं येन वैरं भूतान्तकरणं महत्। पौलस्त्या भ्रातरश्चास्य जज्ञिरे मनुजेष्विह। शतं दुःशासनादीनां सर्व्वेषां क्रूरकर्मणाम्। दुर्मुखो दुःसहश्चैव ये चान्ये नानुकीर्त्तिताः। दुर्य्योघनसहायास्ते पौलस्त्या भरतर्षभ!। वैश्यापुत्त्रो युयुत्सुश्च धार्त्तराष्ट्रः शताधिकः” इति। “धर्मस्यांशन्तु राजानं! विद्धि राजन्! युधिष्ठिरम्। भीमसेनन्तु वातस्य देवराजस्य चार्ज्जुनम्। अश्विनोस्तु तथैवांशौ रूपेणाप्रतिमौ भुवि। नकुलः सहदेवश्च सर्व्वभूतमनोहरौ। यस्तु वर्च्चा इति ख्यातः सोमपुत्रः प्रतापवान्। सोऽभिमन्युर्वृहत्कीर्त्तिरर्जुनस्य सुतोऽभवत्। यस्यावतरणेराजन्! सुरान्सोमोऽब्रवीदिदम्। नाहं ददाम्प्रियं पुत्रं मम प्राणैर्गरीयसम्। समयः क्रियतामेष न शक्यमतिवर्त्तितुम्। सुरकार्य्यं हि नः कार्य्यमसुरःणां क्षितौ बधः। तत्र यास्यत्ययं वर्च्चा नच स्थास्यति वै चिरम्। ऐन्द्रि- र्न्नरस्तु भविता यस्य नारायणः सखा। सोऽर्ज्जुनेत्यभिविख्यातो पाण्डोः पुत्रः प्रतापवान्। तस्यायं भविता पुत्रो बालो भुवि महारथः। ततः षोडश वर्षाणि स्थास्यत्यमरसत्तमाः!। अस्य षोडशवर्षस्य स संग्रामो भविष्यति। यत्रांशा वः करिष्यन्ति कर्म वीरनिसूदनम्। नरनारायणाभ्यां तु स संग्रामो विनाकृतः। चक्रव्यूहं समस्थाय योधयिष्यन्ति वः सुराः। विमुखाञ्छात्रवान् सर्व्वान् कारयिष्यति मे सुतः। बालः प्रविश्य च व्यूहमभेद्यं विचरिष्यति। महारथानां वीराणां कदनञ्च करिष्यति। सर्व्वेषामेव शत्रूणां चतुर्थांशं नयिष्यति। दिनार्द्धेन महाबाहुः प्रेतराजपुरं प्रति। ततो महारथैर्व्वीरैः समेत्य बहुशो रणे। दिनक्षये महाबाहुर्मया भूयः समेष्वते। एकं वंशकरं पुत्रं वीरं वै जनयिष्यति। प्रनष्टं भारतं वंशं स भूयो घारयिष्यति। एतत् सोमवचः श्रुत्वा तथाऽस्त्विति दिवौकसः। प्रत्यूचुः सहिताः सर्व्वे ताराधिपमपूजयन्। एवं ते कथितं राजंस्तव जन्म पितुः पितुः। अग्नेर्भागन्तु तं विद्धि धृष्टद्युम्नं महारथम्। शिखण्डिनमथोराजन्! स्त्रीपूर्ब्बं विद्धि राक्षसम्। द्रौपदेयाश्चये पञ्च बभूवुर्भरतर्षभ!। विश्वान्देवगणान् विद्धि सञ्जातान् भरतर्षभ!। प्रतिविन्ध्यः सुतसोमः श्रुतकीर्त्तिस्तथाऽपरः। नाकुलिस्तु शतानीकः श्रुतसेनश्च वीर्य्यवान्। शूरी नाम यदुश्रेष्ठो वसुदेवपिताऽभवत्”। सूर्य्यस्य कर्ण्णरूपेणावतारः यथा “प्रकाशकर्त्ता भगवांस्तस्यां गर्मं दधौ तदा। अजीजनत् सुतं चास्यां सर्वशस्त्रभृतां वरम्। सकुण्डलं सकवचं देवगर्भश्रियान्वितम्। दिवाकरसमं दीप्त्या चारुसर्व्वाङ्गभूषितम्। निगूहमाना जातं वै बन्धुपक्षभयात्तदा। उत्ससर्ज्ज जले कुन्ती तङ्कुमारं यशस्विनम्। तमुत्सृष्टं जले गर्भं राधाभर्त्ता महायशाः। राघायाः कल्पयामास पुत्रं सोऽधिरथिस्तदा”। “पुरा नाम च तस्यासीद्वसुषेण इति क्षितौ। ततो वैकर्त्तनः कर्णः कर्म्मणा तेन सोऽभवत्। आमुक्तकवचो वीरो यस्तु जज्ञे महायशाः। स कर्णैति विख्यातः पृथायाः प्रथमः सुतः। स तु सूतकुले वीरोववृधे राजसत्तम। कर्णं नरवरश्रेष्ठं सर्वशस्त्रभृतां वरम्। दुर्य्योघनस्य सचिवं मित्रं शत्रुविनाशनम्। दिवाकरस्य तं विद्धि राजन्नंशमनुत्तमम्”। “यस्तु नारायणोनाम देवदेवः सनातनः। तस्यांशो मानुषेष्वासीद्वासुदेवः प्रतापवान्। शेपस्यांशश्च नागस्य बलदेवो महाबलः। सनत्कुमारं प्रद्युम्नं विद्धि- राजन्महौजसम्। एवमन्ये मनुष्येन्द्रा बहवोंऽशा दिवौ कसाम्। जज्ञिरे वसुदेवस्य कुले कुलविवर्द्धनाः। गणस्त्वप्सरसां यो वै मया राजन् प्रकीर्त्तितः। तस्य भागः क्षितौ जज्ञे। नियोगाद्वासवस्य ह। तानि षोडश देवीनां सह्स्राणि नराधिप। बभूवुर्म्मानुषे लोके वासुदेवपरिग्रहाः। श्रियास्तु भागः सञ्जज्ञे रत्यर्थं पृथिवीतले। भीष्मकस्य कुले साध्वी रुक्मिणी नाम नामतः। द्रौपदी त्वथ सञ्जज्ञे शचीमागादनिन्दिता। द्रुपदस्य कुले कन्या वेदिमध्यादनिन्दिता। नातिह्रस्वा न महती नीलोत्पलसुगन्धिनी। पद्मायताक्षी सुश्रोणी स्वसिताञ्चितमूर्द्धजा। सर्वलक्षणसम्पूर्ण्णा वैदूर्य्यमणिसन्निभा। पञ्चानां पुरुषेन्द्राणां चित्तप्रमथनी रहः। सिद्धिर्धृतिश्च ये देव्यौ पञ्चानाम्मातरौ तु ते। कुन्ती माद्री च जज्ञाते मतिस्तु सुबलात्मजा। इति देवासुराणां ते गन्धर्ब्बाप्सरसां तथा। अंशावतरणं राजन्! राक्षसानाञ्च कीर्त्तितम्। ये पृथिव्यां समुद्भूता राजानो युद्धदुर्मदाः। महात्मानो यदूनाञ्च ये जाता विपुले कुले” इति। भा० व० प० रामावतारकथने। “न स देवासुरैः शक्यो युद्धे जेतुं विभावसो!। विहितं तत्र यत् कार्य्यमभितस्तस्य निग्रहः। तदर्थमवतीर्णोऽसौ मन्नियोगाच्चतुर्भुजः। विष्णुः प्रहरतां श्रेष्ठः स तत् कर्म करिष्यति। पितामहस्ततस्तेषां सन्निधौ शक्रमब्रवीत्। सर्वैर्देवगणैः सार्द्धंसम्भव त्वं महीतले। विष्णोः सहायानृक्षीषु वानरीषु च सर्वशः। जनयध्वं सुतान् वीरान् काम रूपबलान्वितान्। ततो भागानुभागेन देवगन्धर्वदानवाः। अवतर्त्तुं महीं सर्वे मन्त्रयामासुरञ्जसा। तेषां समक्षं गन्धर्ब्बीं दुन्दुर्भी नाम नामतः। शशास वरदो देवो गच्छ कार्य्यार्थसिद्धये। पितामहवचः श्रुत्वा गन्धर्वी दुन्दुभी ततः। मन्थरा मानुषे लोके कुब्जा समभवत्तदा। शक्रप्रभृतयश्चैव सर्वे ते सुरसत्तमाः। वानरर्क्षवरस्त्रीषु जनया मासुरात्मजान्। तेऽन्ववर्त्तन् पितॄन् सर्वे यशसा च बलेन च। भेत्तारो गिरिशृङ्गाणां शालतालशिलायुधाः। वज्रसंहननाः सर्वे सर्वे चातिबलास्तथा। कामवीर्य्यबलाश्चैव सर्वे युद्धविशारदाः। नागायुतसमप्राणा वायुवेगसमा जवे। यत्रेच्छकनिवासाश्च केचिदत्र वनौकसः” इति। एवमन्येप्यवताराः पुराणादौ ज्ञेयाः। अवतरत्यनेन रूपेण करणे घञ्। येन रूपेणाविर्भूतस्तस्मिन् ४ रूपे “मत्स्यादिभिरवतारैरवतारवता वताऽवता वसुधाम्। परमेश्वर! परिपाल्यो भवता भवतापभीतोऽहम्” शङ्करः।

अवतारण = न० अव + तॄ–णिच्–ल्युट्। भूतादीनामावेशनेन १ प्रादुर्भावने, (भूतनामान) २ अवरोपणे, ३ ग्रन्थप्रस्तावने च करणे ल्युट् स्त्री। अवतारण्यप्यत्र।

अवतारित = त्रि० अव + तॄ–णिच् क्त। “अवरोपिते “सन्तानार्थाय विधये स्वभुजादवतारिता” रघुः।

अवतीर्ण्ण = त्रि० अव + तॄ–कर्त्तरि क्त। १ कृतावगाहने २ कृतावरोहणे “कौवेरदिग्भागमपास्य मार्गमागस्त्यमुष्णांशुरिवापतीर्ण्णः” माघः ३ अन्यरूपेण प्रादुर्भावे च “तदर्थमवतीर्ण्णोऽसौ मन्नियोगाच्चतुर्भुजः” भा० व० प०।

अवतूलन = न० तूलैरवकुष्णाति तूलेन तृणाग्रमवघट्टयति अव + तूल + अवघट्टनार्थे णिच्–भावे ल्युट्। तूलेन तूलाग्रावघट्टने।

अवतोका = स्त्री अवपतित तोकमस्याः प्रा० ब०। स्रवत्गर्मायां स्त्रियाम्।

अवत्त = त्रि० अव + दो–खण्डने कर्म्मणि क्त। खण्डिते “तत् पशोरवत्तं भवति यत् हृदयस्याग्रेऽवद्यति” शत० ब्रा०।

अवत्तिन् = त्रि० अवत्तमनेन इष्टा० इनि। कृतखण्डने जने “विविघायजमानाश्चतुरवत्तिनः पञ्चावत्तिनश्चेति” आश्व० गृ०

अवत्सार = पु० ऋषिभेदे सहि “अवत्सारस्य स्पृणवाम” इति ऋ०५, ४४, १०, उक्तः।

अवदंश = पु० अवदश्यते पानरुच्यर्थम् अव + दन्श–कर्म्मणि घञ्। मद्यपानादिप्रोत्साहनसाघने भ्रष्टचर्वणद्रव्ये “अन्यतममासवं पाययेदङ्गारशूल्यावदंशम्” सुश्रु०।

अवदरण = न० अव + दृ–भावे ल्युट्। विदारे “वृषणयोवरदरणम्” “वेदनाप्रादुर्भावोऽवदरणम्” इति च सुश्रु०।

अवदाघ = पु० अव + दह भावे घञ् न्यङ्क्वा० हस्य घः। निदाघे।

अवदात = पु० अव + दै–क्त। १ शुभ्रे, २ पीते च वर्ण्णे। ३ तद्वति ४ विशुद्धे “अन्यस्मिन् जन्मनि च न कृतमवदातम्” काद०। ५ मनोज्ञे च त्रि०।

अवदान = न० अव + दो–ल्युट्। १ खण्डने, २ पराक्रमे ३ अतिक्रमे ४ शुद्धिकरणे, च अवद्यति रोगमनेन करणे ल्युट्। ५ वीरणमूले न०।

अवदारक = त्रि० अवदारयति अव + दृ–णिच्–ण्वुल्। १ विदारके अवयवविभागकारके। २ खनित्रे पु०।

अवदारण = न० अव + दॄ–णिच्–भावे ल्युट्। १ विदारणे अवयवविभाजने। करणे ल्युट्। २ खनित्रे।

अवदारित = त्रि० अव + दॄ णिच् कर्म्मणि क्त। विदारिते विभाजिते।

अवदाह = न० अवसादितोदाहो येन प्रा० ब०। वीरणमूले तस्य सेवने हि तापनिवृत्तिर्वैद्यके प्रसिद्धा अव + दह–भावे घञ्। २ ज्वरादिहेतुके दाहे।

अवदाहेष्ट = न० अवदाहे ज्वरादिहेतुके देहतापे तन्निवारणाय इष्टम्। वीरणमूले उशीरे (वेणार मूल)

अवदाहेष्टकापथ = न० अवदाहे तन्निवारणाय इष्टकापथं सोपानमिव। वीरणमूले (खस्खस्)।

अवदीर्ण = त्रि० अव + दॄ–क्त। १ द्वैधीभूते २ विभक्ते च।

अवदोह = पु० अवदुह्यते अव + दुह–कर्म्मणि घञ्। १ दुग्धे त्रिका०। भावे घञ्। २ दोहने आकर्षणपूर्ब्बकान्तःस्थित द्रवद्रव्यनिस्मारणरूपे व्यापारे।

अवद्य = त्रि० वद–यत् न० त०। १ अघमे, २ पापिनि, ३ निन्द्ये, ४ दोषे ५ कथनायोग्ये च। “निरवद्यविद्योद्द्योतेन द्योतितः” दायभा०। “ऋष्यमूकेऽनवद्योऽस्तिं” भट्टिः।

अवद्योतन = न० अव + द्युत–णिच्–भावे ल्युट्। प्रकाशने।

अवधातव्य = न० अव + धा–भावे–तव्य। १ अवधाने “तदत्र देवेनावधातव्यम्” प्रबोधच०। कर्म्मणितव्य। २ अवधेये त्रि०

अवधान = न० अव + धा–ल्युट्। मनोयोगविशेषे, यद्वशात् विषयान्तरतो मनोनिवर्त्तते। “अवधानपरे चकार सा प्रलयान्तोन्मिषिते विलोचने” कुमा० “सावधानावधारय” त०

अवधार = पु० अव + धृ–णिच्–भावे अच्। निश्चये तदभावाप्रकारकत्वे सति तत्प्रकारके ज्ञाने “तदभावाप्रकारा धीस्तत्प्रकारा तु निश्चय” इति भाषा०। “सर्व्वत्र यदवधारेणोच्यते स एकान्तः” सुश्रु०।

अवधारण = न० अव + धृ–णिच्–ल्युट्। १ इयत्तापरिच्छेदे, अयमित्थमेवेति विषयपरिच्छेदके २ निश्चये च। संख्यादिना ३ इयत्ताकरणे “यावदवधारणे” पा०। ४ अन्यतोव्यावर्त्तने च।

अवधारणीय = त्रि० अव + धृ–णिच्–कर्म्मणि अनीयर्। ईदृक्तया निश्चेतुं योग्ये। “विष्णोरिवास्यानवधारणीयम्” रघुः।

अवधारित = त्रि० अव + धृ–णिच्–क्त। यस्य संख्यारूपादिना निश्चयःकृतः १ तस्मिन् अन्यतः कृतव्यावृत्तियुते २ पदार्थे च।

अवधार्य्य = त्रि० अव + धृ–णिच्–कर्म्मणियत्। निश्चेतुं शक्ये इदमित्थमेवेति १ निर्णेये अव + धृ–णिच्–ल्यप्। २ निश्चित्येत्यर्थे अव्य०।

अवधि = पु० अव + धा–कि। १ सीमायां, २ काले “सर्वे निदाघाबधिना विमृष्टाः” रघुः। “निदाघावधिना निदाघककालेन” मल्लि०। ३ चिताभिनिवेशे च। अपादाने कि। ४ अपादाने। “मेषान्तरेक्रियापेक्षमवधित्वं पृथक् तयोः” भर्त्तृ० आधारे कि। ५ विले गर्त्ते। सीमा च द्विविधा पूर्ब्बा परा च तत्र “प्रवाहमवधिं कृत्वा यावड्वस्तवतुष्टयमित्यादौ” पूर्व्वा “सञ्चारोरतिमन्दिरावधीत्यादौ परा” प्रकारान्तरेण सा त्रिविधा कालकृता देशकृता बुद्धिकल्पिता च। पूर्ब्बोक्ते दैशिकी। ग्रासावधि विमीक्षान्तमित्यादौ” पूर्व्वा “ग्रासकालं समारभ्य जपेन्मोक्षावधि प्रिये” इत्यादौ परा कालिकी “सखीकर्ण्णावधि व्याहतमित्यादौ बुद्धिकल्पिता”। अवधित्वञ्च स्वाभिधेयापेक्षया विभागाश्रयत्वम्। तच्च पञ्चम्याऽपि बोध्यते नद्यावनमित्यादौ वनस्य नद्यपेक्षविभागाश्रयत्वात् तथात्वम्। एवं मासात् पूर्व्वं घट इत्यादौ मासतोविभागाश्रयत्वात् घटादेस्तवधिकत्वम् तत्र अयमस्मात् पूर्ब्बकालवर्त्ती इत्यादौ कालिकम् अयमस्मात् पर्व्वदेशवर्त्तीत्यादौ दैशिकं “माथुराः पाटलिपुत्रेभ्य आद्यतरा इत्यादौ बुद्धिकल्पितम्। “स्वाभिधेयापेक्षोऽवधिनियमोव्यवस्थेति सि० कौ० “सञ्चारोरतिमन्दिरावधि सखीकर्ण्णावधि व्याहृतं हास्यञ्चाधरपल्लवावधि महामानोऽपि मौनावधि। चेतः कान्तसमीहितावधि पदन्यासावधि प्रेक्षितंसर्व्वंसावधि नावधिर्मृगदृशां प्रेम्णः परं केवलमित्यादौ” दैशिकं बुद्धिकल्पिञ्चावधित्वम् “स्मरशापावधिदां सरस्वतीम्” कुमा० इत्यत्र कालिकं “जनपदतदवध्योः” पा० इत्यत्र दैशिकम्।

अवधिमत् = त्रि० अवधिरस्त्यस्य मतुप! अवधिविशिष्टे अवथि मत्त्वमेव पञ्चम्यर्थ इति नव्यनैयायिकाः तेन तस्य स्वरूपसम्बन्धेन इतरपदार्थेऽन्वयः अवधित्वस्य पञ्चम्यर्थत्व स्वीकारे तु निरूपकतासम्बन्धेनान्यपदार्थेऽन्वयस्य वक्तव्यतया नञ्समभिव्याहारे च तेनैवसम्बन्धेनाभावान्वयस्याभ्युपगम्यत्वेन निरूपकतासंसर्गस्य वृत्त्यनियामकतया तत्सम्बन्धस्य प्रतियोगितानवच्छेदकतयानन्वयः वृत्तिनियामकसम्बन्धस्यैव तथात्वात्। अवधिमत्त्वस्य तदर्थत्वे तु तस्य स्वरूपसम्बन्धेनान्वयात् नञ्समभिव्याहारे अन्वयसम्भवः स्वरूपसम्बन्धस्य वृत्तिनियामकतया तस्य प्रतियोगितावच्छेदकत्वसंभयेन बाधकाभावात् “अतएव व्युत्पत्तिवादे गदाधरेण अवधित्वमवधिमत्त्वं वा पञ्चग्या अर्थ इति प्रथमपक्षेऽस्वरस् सूचनाय तस्यान्ते निवेशः कृतः। “उत्तरादिभ्य एनप् स्यादवध्यवधिमतोः सामीप्ये” सि० कौ०।

अवधीयमान = त्रि० अव + धा कर्म्मणि शानच्। यस्मिन् विषये चित्ताभिनिवेशः क्रियते तस्मिन् विषये।

अवधीर = अवज्ञायाम् अद० चुरा० उभय० सक० सेट्। अवधीरयति ते आववधीरत् त। अवेत्यस्योपसर्गत्वे अवादिधीरत् त। अवधीरितः अवधीरी “रसैः कथा यस्य सुधावधी- रिणी” नै० अवेत्यस्योपसर्गत्वे “इतीव धारामरधीर्य्येति नैषध० घात्वबयवरूपत्वे तु अवधीरयित्वेति भेदः।

अवधीरणा = स्त्री अवधीर–भावे युच्। १ अवज्ञायां २ तिरस्कारे च “कृतवत्यसि नावधीरणामपराद्धेऽपि यदा चिरं मयि” रघुः “अयं स यस्मात् प्रणयावधीरणामशङ्कनीयां करभोरु! मन्थसे” शकु०। भावे ल्युट्। तत्रार्थे न०।

अवधीरित = त्रि० अवधीर–कर्मणिक्त। १ अवज्ञाते २ तिरस्कृते च

अवधूत = त्रि० अव + धू–क्त। १ कम्पिते “पवनावधूतवसनान्तयैकया” माघः “विदधेऽबधूतसुरसद्मसम्पदम्” माघः। कृष्णयजुर्वेदान्तर्गते २ उपनिषद्भेदे। ३ अभिभूते, ४ निवर्त्तिते, “अवधूतं रक्षो अवधूता अरातयः” शत० ब्रा० ५ अनादृते च। “यो विलङ्घ्याश्रमान् वर्ण्णान् आत्मन्येव स्थितः पुमान्। अतिवर्ण्णाश्रमी योगी अवधूतः स उच्यते” इत्युक्तलक्षणे वर्ण्णाश्रमधर्मत्यागिनि ६ सन्न्यासिनि पु०। “अक्षरत्वात् वरेण्यत्वात् धूतसंसारबन्धनात्। तत्त्वमस्यर्थसिद्धत्वादवधूतोऽभिधीयते। यथा रविः सर्वरसान् प्रभुङ्क्ते हुताशनश्चापि हि सर्व्वभक्षकः। तथैव योगी विषयान् प्रभुङ्क्ते न लिप्यते पुण्यपापैश्च शुद्धः” इति च तन्निरुक्तिलक्षणे एवमवधूतगीतशब्दे तल्लक्षणं दृश्यम्।

अवधूतगीत = न० ३ त०। भागवते ११ स्क० भगवदुद्धवसंवादे यदुनृपं प्रति कस्यचिदवधूतस्य उपदेशभेदे। यथा “अत्राप्युदाहरन्तीममितिहासं पुरातनम्। अवधूतस्य संवादं यदोरमिततेजसः। अवधूतं द्विजं कञ्चिच्चरन्तमकुतोभयम्। कविं निरीक्ष्य तरुणं यदुः पप्रच्छ षर्मवत्। कुतो बुद्धिरियं ब्रह्मन्नकर्त्तुः सुविशारदा। यामासाद्य भवाल्लो~कं विद्वांश्चरति बालवत्। प्रायोधर्मार्थकामेषु विवित्सायाञ्च मानवाः। हेतुनैव समीहन्ते आयुषा यशसा श्रिया। त्वन्तु कल्यः कविर्दक्षः सुभगोमितभाषणः। न कर्त्ता नेहसे कर्त्तुं जडोन्मत्तपिशाचवत्। जनेषु दह्यमानेषु कामलोभदवाग्निना। न तप्यसेऽग्निना युक्तो गङ्गाम्भःस्थैव द्विपः। त्वं नः संपृच्छतां ब्रह्मन्! आत्मन्यानन्दकारणम्। ब्रूहि स्पर्शविहीनस्य भवतः केवलात्मनः” इति यदुनृपेण तल्लक्षणमुक्तम्। एवं यदुना प्रष्टःस यदाह तदेव अवधूतगीतम्। तेन च “सन्ति मे बहवोराजन्! गुरवोबुद्ध्युपाश्रिताः। यतो बुद्धिमुपादाय सुस्थोऽटामीह तान् शृणु। पृथिवी वायुराकाशमापोऽग्निश्चन्द्रमा रविः। कपोतोऽजगरः सिन्धुः पतगोमधुकृद्गजः। मधुहाहरिणो मीनः पिङ्गला कुररोऽर्भकः। कमारी शरकृत् सर्प ऊर्ण्णनाभः सुपेशकृत्। ततो मे गुरवो राजन्! चतुर्विंशतिराश्रिताः। शिक्षावृत्ति भिरेतेषामन्वशिक्षमनुक्रमात्” इत्युपक्रम्य क्षित्यादिभ्यश्चतुर्विंशतेर्यथा यत् शिक्षितं तद्वर्ण्णितम् तद्विस्तरस्तु ९ नवमाध्यायसमाप्तिपर्य्यन्ते तत्रैवानुसन्धेयः।

अवधूनन = न० अव + धू–णिच्–नुक् ल्युट्। १ चालने। (झाडा) इति ख्याते व्यापारे “पादस्पर्शस्तु रक्षांसि दुर्ष्कृतीनवधूननम्” मनुः। २ चिकित्साभेदे च “तत्र तूर्ण्णं गलापीडं कुर्य्याच्चाप्यवधूननम्” सुश्रु०।

अवधूलन = न० धलिं करोति अव + धूलि–कृत्यर्थे णिच्–भावे ल्युट्। अवचूर्णने।

अवधृत = त्रि० अव + धृ–अन्तर्भूतण्यर्थः कर्म्मणि क्त। १ अवधारिते निश्चिते “अनवधृताज्ञानसंशयविपर्यासस्तु यं कञ्चित् पुरुषं प्रति प्रवर्त्तमानः” इति सा० कौ०। २ कृतनियमे ३ विषयविशेषे व्यवस्थापिते ४ स्थापिते च।

अवधृष्य = त्रि० अव + धृष–कर्म्मणि क्यप्। १ अवधृर्षणीये २ तिरस्कार्य्ये। ३ निश्चयेनावधार्य्ये “नियतं यत्ते रजसं मृत्योऽनवधृष्यम्” श्रुतिः “अनवधृष्योहि भवत्यनवधृष्यः” शत० ब्रा०। ५ पराभवनीये च। अव + धृष–ल्यप्। ६ धर्षित्वेत्यर्थे अव्य०।

अवधेय = त्रि० अव + धा–यत्। १ निवेश्ये २ स्थापनीये यत्र चित्ताभिनिवेशः क्रियते तस्मिन् ३ श्रद्धेये “प्रतिपित्सित मर्थ प्रतिपादयन् प्रतिपादयिताऽवधेयवचनो भवति” “अनवधेयवचनतया प्रेक्षावद्भिरुन्मत्तवदुपेक्ष्येत” इति च सा० कौ०। ४ ज्ञेये च। भावे यत्। ५ अवधाने न०।

अव(ब)ध्र = त्रि० अव + धृ–मूलविभु० क बध–रक् न० त० वा। अहिंसके। “अव(ब)ध्र–ज्योतिरदितेरृतावृधः” ऋ० ७, ८२, १०, “अव(ब)ध्रमहिंसकम्” भा०।

अवध्वंस = पु० अव + ध्वन्स–घञ्। १ परित्यागे, २ चूर्णिते, ३ निन्दायाञ्च “अवध्वंसैवारुणः” अथ० ५, २२, ३।

अवध्वस्त = त्रि० अव + ध्वन्स–क्त। १ नेष्टे २ निन्दिते ३ अवचूर्णिते ४ त्यक्ते च।

अवन = न० अव + ल्युट्। १ प्रीणने, २ रक्षणे, ३ प्रीतौ च “समनिन्दानवनाशंजनतालिकुलं यथैव दानवनाशम्” नलोद०

अवनत = त्रि० अव + नम–क्त। १ अधोभूते २ आनते च। “अवनतशितिकण्ठकण्ठलक्ष्मीम्” माघः। “चतुरर्थ्यां कृशाश्वा० छण् आवनतीयः, अवनतसन्निकृष्टदेशादौ त्रि०।

अवनति = स्त्री अव + नम–क्तिन्। औद्धत्याभावे, १ विनये, २ अधोनमने च। “धनुषामवनतिः” कादम्बरी। ३ प्रणामे च।

अवनद्ध = त्रि० अव + नह–क्त। १ स्वचिते, २ रोपिते ३ वेष्टिते ४ बद्धे च “चर्म्मावनद्धं दुर्गन्धि पूर्ण्णं मूत्रपुरीषयोः” मनुः। ५ मृदङ्गादिवाद्ये न०।

अवनम्र = त्रि० अव + नम–र। अतिशयनम्रे “पर्य्याप्तपुष्पस्तवकावनम्रा” कुमा०।

अवनय = पु० अव + नी–भावे अच्। १ अधःपातने २ निपातने।

अवनयन = न० अव + नी–ल्युट्। अवस्थापने। “अवनयनावस्तरणे चावटवत्” कात्या० ८। ५। २४। “गर्त्तेषु प्रोक्षण शेषोदकसेचनम्” वेददी० तेन ३ तदर्थेऽपि।

अवनाट = त्रि० अवनता नासिका प्रा० स० नतार्थे नासिकायानाटादेशः अर्श आद्यच्। (खांदा) अवनतनासिके जने।

अवनाय = पु० अव + नी “अवोदोर्नियः” पा० अधोबाधकः घञ्। १ अधोनयने अधःप्रापणे।

अवनाम = पु० अव + नम–घञ्। अवनतौ अधोभूत्वा कृतायां नतौ।

अवनि(नी) = स्त्री अव–अनि। भूमौ। “सुसाधितायामवनौ” इति सू० सि०। वा ङीप् अवनीत्यपि। “दींनदयालुतयाऽधनिपाल” “सुसमृद्धवनी वृथाऽवनी सुवनी संप्रवदत्पिकापि का इति च नैष०। करणे अनि। २ अङ्गुलीषु व० ब० निरु०। अव प्रीणने कर्त्तरि अनि। ३ नद्यां निरु० “सं यं स्तुभोऽवनयः न यन्ति समुद्रं स्रवतोरोधचक्रा” ऋ० १, १९०, ७। दीर्घान्तः ४ त्रायमाणलतायां राजनि०।

अवनिक्त = त्रि० अव + निज–क्त। १ क्षालिते २ शोधिते च।

अवनि(नी)नाथ = पु० ६ त०। नृषे भूपतौ अवनी(नि) नायकादयोऽप्यत्र।

अवनि(नी)पति = ६ त०। नृपे अवनिस्वाम्यादयोप्यत्र। “पतिरवनीपतीनां तैश्चकास्ते चतुर्भिः” रघुः।

अव(नि)नीपाल = ६ त०। नृपे “इत्यममुं पिलपन्तममुञ्चद्दीनदयालुतयावनिपालः नैष०। “कतिचिदवनिपालः शर्व्वरीः शर्वकल्पः” रघुः।

अवनीश = पु० ६ त०। भूपतौ भूमीश्वरे अवनीश्वरादयोऽप्यत्र।

अवनेजन = न० अव + निज–ल्युट्। १ प्रक्षाखने “न कुर्य्याद्गुरु पुत्रस्य पादयोश्चावनेजनम्” मनुः। श्राद्धे पिण्डदानार्थ मास्तृतकुशस्य जलेन सेकरूपे २ संस्कारभेदे च। “दक्षिणस्थितप्रागग्रकुशमूलमध्याग्रेषु मात्रादिभ्यस्तदुत्तरं मध्यस्थितप्रागग्रकुशमूलमध्याग्रेषु पित्रादिभ्यस्तदुत्तरं स्थित प्रागग्रकुशमूलमध्याग्रेषु मातामहादिभ्यः प्राङ्मुखेना वनेजनं कर्त्तव्यम्” कृत्यप्रदीप्रः। रघुनन्दनेन मातृपक्षोनादृत इति भेदः।

अवन्ति = पु० अव–झि। मालवदेशे। स च वृ० स० कर्म्मचक्रविभागे “अथ दक्षिणेन लङ्केत्युपक्रम्य “आक- रवणावन्तिकदशपुरनोनर्द्दा” इति उक्तः दक्षिणदेशस्थः। तत्र शिप्रा नदी महाकालनामा शिवमूर्त्तिविशेषः उज्जयिनी राजधानी। तत्पुरीपरत्वे स्त्री वा ङीप्। “अवन्तिनाथोऽयमुदग्रबाहुरित्युपक्रम्य “असौ महाकालनिकेतनस्य वसन्नदूरे किल चन्द्रमौलेः”। “अनेन यूना सह पार्थिवेन शिप्रातरङ्गानिलकम्पितासु विहर्त्तुम्? च रघौ तथावर्ण्णितम्। ज्योतिर्वि० विक्रमनृपवर्ण्णने “यद्राजधान्युज्जयिनी महापुरी सदा महाकालमहेशयोगिनी। समाश्रिता प्राण्यपवर्गदायिनी श्रीविक्रमार्कोऽवनिपो जयत्यपि” तस्मिन् सदा विक्रममेदिनीशे विराजमाने शमवन्तिकायाम्। सर्व्वप्रजामण्डलसौख्यसम्प्रद्बभूव सर्व्वत्र च वेदकर्म”। तथाच अवन्ती उज्जयिनी च नामान्तरं यथोक्तं सि० शि०। “यथोज्जयिन्याः कुचतुर्थभागे प्राच्यां दिशि स्याद्यम कोटिरेव। ततश्च पश्चान्न भवेदवन्ती लङ्कैव तस्याः ककुभि प्रतीच्याम्”। इयञ्च लङ्कास्थानात् मूवृत्तषोडशांशे मेरु पर्य्यन्तगतरेखायां समसूत्रस्थाने स्थिता यथोक्तं तत्रैव। “निरक्षदेशात् क्षितिषोडशांशे भवेदवन्ती गणितेन यस्मात्। तदन्तरं षोडशसंगुणं स्याद्भूमानमस्मात् बहु किं तदुक्त्या”। इंलण्डीयमानचित्रवेदिनस्तु सम सूत्रस्थानात् किञ्चिदन्तरपश्चिमस्थेति वर्ण्णयन्ति। इयञ्च मोक्षपुरी “अयोध्या मथुरा माया काशी काञ्ची अवन्तिका। पुरी द्वारवती चैव सप्तैता मोक्षदायिकाः”। पुरा०। भा० उ० प० जम्बुखण्डविभागे जनपदगणनायाम् “कुन्तयोऽवन्तयश्चैव तथैवापरकुन्तयः” इति उक्तेरस्य जनपदवाचितया इदन्तत्वाच्च ततो भवादौ ञ्य। आवन्त्यः तद्भवादौ त्रि०। बहुषु च तद्राजनि ञ्यस्य लुक्। अवन्तयः तद्देशवासिषु ब० व०। तद्देशनृपे च। स्वार्थोकन् अवन्तीनगर्य्याम् “काशीकाञ्ची अवन्तिका” पुरा०।

अवन्तीपुर = न० अवन्तिः पूः अच् समा०। अवन्तिनगरे उज्जयिन्याम्।

अव(न्ति)न्तीब्रह्म = पु० अवन्तिषु ब्रह्मा अच् समा०। अवन्तिस्थे ब्राह्मणे।

अव(न्ति)न्तीसोम = पु० अवन्तिषु सोम इव। काञ्जिके।

अवपन्न = त्रि० अव + पद–क्त। १ ससृष्टे २ सहपक्वे च “केशकीटावपन्नञ्च पदा स्पृष्टञ्च कामतः” मनुः। “अवपन्नं संसर्गदूषितम्” कुल्लू०। “केशकीटावपन्न च स्त्रीभिःस्पृष्टं तथैव च” हारी० अवपन्न सहपक्वम् प्रा० त० रघ०।

अवपाक = पु० अव + अपकर्षे पच–घञ्। अपकृष्टपाके। कर्म्मणि घञ्। २ अपकृष्टपक्वे। “त्वच उत्कर्त्तनमवपाकानां संव्रश्चम्” शत० ब्रा०।

अवपात = पु० अव + पत–भावे घञ्। अधःपतने। पतणिच्–भावे अच्। २ पातने “शस्त्रावपाते गर्भस्य पातने “चोत्तमोदमः” या० स्मृ०। आधारे घञ्। ३ गर्त्ते “अवपातस्तु हस्त्यर्थे गर्त्ते छन्ने तृणादिना” इति यादवोक्ते गजघारणार्थे ४ गर्त्तभेदे च “रोधांसि निघ्नन्नवपातमग्नम्” रघुः

अवपात्र = त्रि० अवरं भोजनायोग्यं पात्रं यस्य। यस्य भोजनेन पात्रे दुष्टेऽन्यस्य भोजनायोग्यता भवति तादृशे पतितम्लेच्छादौ जने।

अवपात्रित = त्रि० अवपात्र + कृत्यर्थे णिच्–क्त। भिन्नोदकीकृते अपपात्रितशब्दार्थे।

अवपाद = पु० अव + पद–घञ्। अधःपतने “देवावै आदित्याः खर्गाल्लोकादवपादाद्बिभियुः” ता० ब्रा०।

अवपाशित = त्रि० अवपाशः समन्तात् पाशोजातोऽस्यतार० इतच्। पाशबद्धे “पश्याम्यैव हि कण्ठेत्वां कालपाशावपाशितम्” रा०

अवपीड = त्रि० अवपीडयति अव–पीड–अच्। १ समन्तात् पीडके “चिकित्साविशेषे पु० २ वेगान्तेषु चावपीडं दद्यात्” सुश्रु० “प्रतिमर्षोऽवपीडश्च नस्यं प्रशमनं तथा। शिरोविरेचनं चेति नस्तः कर्म्म च पञ्चधा” इति चक्रदत्तोक्ते ३ नासिकाचिकित्साभेदे च। तल्लक्षणं तत्रैवोक्तं यथा “अवपीड्य दीयते यस्यादवपीडस्ततस्तु सः। शोघनः स्तम्भनश्च स्यादवपीडो द्विधा मत” इति।

अवपीडन = न० अव + पीड–णिच् ल्युट्। १ निष्पीडने। सुश्रुतोक्ते २ पीडनदोषभेदे “अतिपीडितता शिथिलपीडितताभूयोभूयोवपीडनं कालातिक्रम इति चत्वारः पीडनदोधाः”। युच्। अवपीडना निष्पीडने स्त्री “अङ्गावपीडनायाञ्च व्रणशीणितयोस्तथा” सुश्रु०।

अवप्लुत = त्रि० अव + प्लु–क्त। समन्तात् सिक्ते १ आर्द्रभूते २ अवतीर्ण्णे च।

अवबन्ध = पु० अवबध्यते आच्छाद्यते नेत्रवर्त्मानेन करणे घञ्। सुश्रुतोक्ते नेत्रवर्त्माश्रये। “पृथग्दोषाः समस्ताश्च यदा वर्त्म व्यपाश्रयाः। शिरा व्याप्यावतिष्ठन्ते वर्त्मस्वधिकमूर्च्छिता” इत्युक्रम्य “उत्सङ्गिन्यथ कुम्भीका पोथिक्यो वर्त्मशर्कराः। तथार्शवर्त्मशुष्कार्शस्तथैवाञ्जननामिका। वहलं वर्त्म यच्चापि व्याधिर्वर्त्मावबन्धकः” इत्यादीन्युक्त्वा “न सप्तं छादयेदक्षि भवेद्बन्धः स वर्त्मन” इति लक्षिते १ रोगभेदे वर्त्मावबन्धं इत्येकं नामेत्युचितम्। भावे घञ्। समन्तात् २ बन्धने च।

अवबाधा = स्त्री अव + बाध–अ। १ समन्तात् बाधायां २ प्रतिबन्धे च।

अवबाहुक = पु० अवबद्धो बाहुर्येन प्रा० च०। सुश्रुतोक्ते वायुरोगभेदे यथा “अंसदेशस्थितोवायुः शोषयित्वांसबन्धनम्। शिरास्त्वाकुञ्च्य तत्रस्थो जनयत्यवबाहुकम्”।

अवबुद्ध = त्रि० अव + बुध–कर्म्मणि क्त। १ ज्ञाते कर्त्तरि क्त। ज्ञातरि।

अवबोध = पु० अव + बुध–भावे घञ्। जागरणे। “यौ तु स्वप्राव बोघौ तौ भूतानां प्रलयोदयौ” मनुः। २ ज्ञानमात्रे च “स्वभर्त्तृनामग्रहणाद्बभूव सान्द्रे रजस्यात्मपरावबोधः” रघु० “भावावबोधकलुषा दयितेव् रात्रौ” रघुः। प्रतिकूलेषु तैक्ष्णस्यावबोधः क्रोध इष्यते” सा० द०।

अवबोधक = पु० अवबोधयति अव + बुध–णिच्–ण्वुल्। १ अर्के। नृपाणां निद्राभङ्गकारके २ स्तुतिपाठकादौ च ३ ज्ञापके त्रि०।

अवबोधन = न० अव + बुध–णिच्–ल्युट्। ज्ञापने। “स्वेतरार्थानच्छिन्नयत्स्वार्थस्यावबोधने” शब्दशक्ति०।

अवभर्ज्जित = त्रि० अव + भ्रस्ज–क्त भर्ज्जादेशः। १ भ्रष्टे २ दग्धे च।

अवभाषण = न० अव + भाष–ल्युट्। कथने “व्यापारान्तरसक्त्यन्यथावभाषणविलोकनादिकरी” सा० द०।

अवभास = पु० अव + भास–भावे घञ्। १ ज्ञाने २ प्रकाशे अन्यस्य अन्यरूपेण प्रकाशरूपे ३ मिथ्याज्ञाने च।

अवभासक = त्रि० अवमासयति अव + भास–णिच् ण्वुल्। १ प्रकाशके सर्व्वावभासकेकूटस्थे चैतन्ये न०। “यस्य भासा सर्व्वमिदं विभाति” श्रुतेः “यदादित्यगतं तेजो जगत्भासय तेऽखिलम्। यच्चन्द्रमसि यच्चाग्रौ तत्तेजो विद्धि मामकम्” गीतोक्तेश्च तस्य सर्व्वावभासकत्वम्।

अवभासित = त्रि० अव + भास + णिच्–कर्म्मणि क्त। प्रकाशिते।

अवभृथ = पु० अव + भृ–क्थन्। मुख्ययज्ञसमाप्तौ क्रियमाणे १ यथ शेषकर्म्मणि, यज्ञाङ्गभूते यज्ञान्तेकार्य्ये २ स्नानें च। “नावभृ थं सरस्वत्याम्” कात्या० २४, ६, २२, “सरस्वत्यां नावभृथं कुर्य्यात्” कर्कः “परिपार्श्वेषूदकेषु” “असत्सूद्धृत्य ततः” कात्या० २४, ६, २३, २४ “महति पात्रे कटाहादौ” कर्कः। अवभृथस्नानविधिश्च तैत्तरीयब्राह्मणे २ अष्टके ६ अ० ६ अनु० “यद्देवा देवहेडनाम्” इत्यारभ्य “समिदसि जगत्त्रीणि “चेत्यनुवाकपर्य्यन्ते उक्तः। “स्नातवत्यवभृथे ततस्त्वयि” माघः “सर्वैनोऽभृथस्नातो हयमेधे विमुच्यते”। “तथाऽश्वमेधावभथस्नानाद्वा शद्धिमाप्नुयात्”। या० स्मृ० “भुवं कोष्णेन कुण्डोध्नी मेध्येनावभृथादपि” “प्रीत्याश्वमेधावभृथार्द्रमूर्त्तेः” “भ्रातराववभृथाप्लुतो मुनिः” इति च रघुः।

अवभ्रट = त्रि० अवनता नासिका प्रा० स० नतार्थे नासिकाया- भ्रटादेशः अस्त्यर्थे अच्। अवनतनासिके (खांदा)।

अवम = त्रि० अव + अमच। १ रक्षके २ पितृगणभेदे पु० “अवमैस्त ऊर्ब्बेः काव्यैस्ते पितृभिभक्षितस्य मधुमतोनाराशंसस्य” ता० ब्रा० “त्रिविधाः पितरः अवभाः ऊर्व्वाः काव्याश्चेति अनुसवनं नारांशंसदेवताः। हे सोम! अवमैः रक्षकैः एतत्संज्ञकैः पितृभिः” भा०। अपादानेऽमच्। ३ पापे ४ तद्वति ५ कुत्सिते च त्रि०। अवोभवः अवस्ताद्भवः “अवोऽधसोर्लोपश्चेति” मः अन्त्यलोपः। ६ अधमे त्रि० “अनलकानलकानमवमां पुरीम्” रघुः। “या त ऊक्तिरवमा या परमा” ऋ० ६, २५, १, “उतावमस्य पुरुहूत बोधि” ऋ० ६, २१, ५ “प्रकृतानां सावनानाञ्चान्द्राणाञ्चान्तरमवमानीच्यते सावनदिनेभ्यश्चान्द्राहा यावद्भिरधिकास्ते दिनक्षस्याहा” इति च प्रमिताक्षरोक्ते ७ दिनक्षये न०। तदानयनप्रकारश्च सि० शि० “शशाङ्कमासोनितसाबनेन०, २८, १० त्रिंशद्धताः लब्धदिनैस्तु चान्द्रेः। रुद्रांशकोनाब्धिरसैः ६३, ५४, ३३ क्षयाहः, स्यात् सावनोऽतश्च युगेऽनुपातात्”। युगे चान्द्राणां सावनानां च यदन्तरं तान्यवमानि। तत्र एकस्मिन् मासे चान्द्रसावनान्तरं कुदिनात्मकं गृहीतम्। तत्र दिवसः शून्यम् अष्टाविंशतिर्घटिकाः दश पानीयपलानि ०, २८, १० इदमेकस्मिन् चान्द्रमासे त्रिंशत्तिथ्यात्मके कुदिनात्मकमवसखण्डम्। यद्यनेन०, २८, १०, त्रिंशद्दिनानि चान्द्राणि लभ्यन्ते तदा सपूर्णैनैकेनावमेन कियन्तीति त्रैराशिकेन लब्धैः रुद्रांशकोनाब्धिरसैः ६३, ५४, ३३ एकः क्षयाहो भवति स च सावनः एवं कल्पेऽपि अनुपातात्। “सावनान्यवमानि स्युश्चान्द्रेभ्यः साधितानि चेत्। सावनेभ्यस्तु चान्द्राणि तच्छेषं तद्वशात्तथा” इति सि० शि०। कल्पेऽवमप्रमाणञ्च दर्शितं तत्रैव। “दिनक्षयास्तत्र सहस्रनिघ्नाः खवाणवाणाश्व्यहिखेषुदस्राः” २५०८२५५००००। अन्तरं तरणिचन्द्रचक्रजं यद्भवेत् स विधुमाससंचयः। चन्द्रवक्रदिवसैक्यमूनितं चन्द्रमासभदिनै र्दिनक्षयाः” “अथ चन्द्रचक्रदिनैक्ये चन्द्रमासभदिनैक्येन वर्ज्जिते क्षयाहाः स्युः। अत्र वासना। चन्द्रभगणा रविभगणैरूनाश्चान्द्रमासाः स्युः अतो विपर्य्ययाच्चान्द्रमासोनाश्चन्द्रभगणा रविभगणा भवन्ति तैरूना भभ्रमाः सावना दिवसा भवन्ति। चान्द्राहाः क्षयाहा भवन्ति” प्रमिता०। “तिथ्यन्तद्वयमेको दिनवारः स्पृशति यत्र तद्भवत्यमवदिनम्” ज्योति० त०

अवमत = त्रि० अब + मन–क्त। १ अबज्ञाते २ तिरस्कृते च।

अवमताङ्कुश = पु० अवमतोङ्कुशस्तस्तदाघातोयेन। दुर्दान्ते गजे।

अवमति = स्त्री अव–मन भावे क्तिन्। १ अवज्ञायाम् २ अनादरे २ तिरस्कारे च।

अवमतिथि = स्त्री कर्म्म०। “स्युस्तिस्रस्तिथयो वारे एकस्मिन्न वमा तिथिः” ज्योतिषोक्ते दिनक्षये।

अवमदिन = न० कर्म्म०। “तिव्यन्तद्वयमेकोदिनवारी यत्रतद्भवत्यमवदिनम्” ज्योतिषोक्ते दिनक्षये।

अवमन्तव्य = त्रि० अव + मन–तव्य। १ अवज्ञेये २ अनादरणीये“बालोऽपि नावमन्तव्यो मनुष्य इति भूमिपः” मनुः।

अवमन्तृ = श्रि० अव + मन–तृच् स्त्रियां ङीप्। १ अवज्ञातरि२ तिरस्कर्त्तरि च।

अवमन्थ = पु० अवमथ्नाति अव + मन्थ–अच्। सुश्रुतोक्ते पालीस्थे उपद्रवरूपे १ रोगभेदे “अतऊर्द्ध्वं नामलिङ्के वक्ष्ये पाल्यामु पद्रवान्। उत्पाटकश्चोत्पुटकः श्यावः कण्डूयुतो भृशम्। अवमन्थः सकण्डूको ग्रन्थिको जम्बुलस्तथेति”। “प्रलेपनमिदं दद्याद वसिच्या वमन्थके” सुश्रु०। तत्रोक्ते शूकदीषनिमित्ते २ व्याधिभेदे च यथा “लिङ्गवृद्धिमिच्छतामक्रम प्रवृत्तानां शूकदोषनिमित्ता दश चाष्टौ च व्याधयो जायन्ते तद्यथा सर्पिका अष्ठीलिका ग्रथितं कुम्भीका अलजी मृदितं सम्मृढपिडका अबमन्थ” इत्युपक्रम्य। “दीर्घा वह्व्यश्च पिडका दीर्यन्ते मध्यतस्तु याः। सोऽवमन्थः कफासृग्भ्यां वेदनारोमहर्षकृत्” तत्रैव लक्षितः। “अवमन्थे गते पाकं भिन्ने तैलं विधीयते” सुश्रु०। ३ अवमन्थनकारके त्रि०

अवमर्द्द = पु० अव + मृद–घञ्। १ पीडने। “सच त्वमासाद्य रणावमर्द्दम” रामा० २ राज्याङ्गभेदे “अवमर्द्दः प्रतीघात स्तथा चैव बलीयसाम्” इति भा० शा० राजधर्मे।

अवमर्ष = पु० अव + भृष–घञ्। १ आलोचनायाम्, “मुख प्रतिमुखं गर्भोऽवमर्ष उपसंहृतिः। इति पञ्चास्य भेदाः स्युः” इत्युपक्रम्य “यत्र मुख्यफलोपाय उद्भिन्नो गर्भतोऽधिकः। शापाद्यैः सान्तरायश्च सोऽवमर्ष” इति स्मृतः सा० द० लक्षिते २ नाटकस्य सन्ध्यं शभेदे च। विमर्ष इति पाठान्तरम्।

अवमान = पु० अव + मन–भावे घञ्। १ अवज्ञायाम् २ अनादरे च “अमृतस्येव चाकाङ्क्षेदवमानस्य सर्व्वदा” मनुः।

अवमानना = स्त्री अव + चुरा०–मन–यच्। अपमानकरणे “तत्त्वज्ञानापदीर्षादेर्निर्वेदः स्वावमानना” सा० द०। भावे ल्युट्। अवमाननं तत्रैव न० निर्वेदः स्वावमाननम्” हेमच०।

अवमानित = त्रि० अव + चुरा० मन–क्त। १ कृतापमाने २ कृतानादरे च विप्रलब्धा तु सा ज्ञोस्या नितान्तमवमानिता” सा० द०।

अवमानिन् = त्रि० अव + मन–णिनि स्त्रियां ङीप्। अवज्ञातरि २ अनाद्रियमाणे च “धिङ्मामुपनतश्रेयोऽवमानिनम्” शकुन्तला।

अवमाननीय = त्रि० अव + चु०–मन–अनीयर्। १ अवज्ञेये २ अनादरणीये च।

अवमान्य = त्रि० अव + मन–ण्यत्। १ अवज्ञेये २ तिरस्कार्य्ये च सानुज्ञाप्याधिवेत्तव्या नावमान्या च कर्हिचित्” मनुः अव + चु० भन–ल्यप्। ३ अवज्ञायेत्यर्थे अव्य०।

अवमार्जन = न० अव + मृज–भावे ल्युट्। १ प्रक्षालने करणे ल्युट्। २ तत्साधने जलादौ “इमा ते वाजिन्नवमार्ज्जना नाम्” ऋ० १, १६३, ५, “अवमार्ज्जनानि अङ्गप्रक्षालनसाधनान्युदकानि” भा०।

अवमूर्द्धन् = त्रि० अवनतो मूर्द्धाऽस्य। अवनतमस्तके।

अवमूर्द्धशय = पु० अवमूर्द्धा सन् शेते शी–अच्। अधोमुखतया शायिनि मनुष्ये। “उत्तानशयादेवा अवमूर्द्धशया मनुष्याः” इत्युक्तेः गर्भादौ तथाशयनाद्वा नरस्य तथात्वम् २ तथाभूततया शायिमात्रे त्रि०।

अवमोचन = न० अव + मुच–भावे ल्युट्। बन्धनराहित्ये उन्मोचने।

अवमोटन = न० अव + मुट्–णिच्–ल्युट्। (मोचडान) परिवर्त्तनेनान्यथापादनरूपे परिमोटने।

अवयजन = न० अव + यज–गतौ करणे ल्युट्। अपगमसाधने “देवकृतस्यैनसोऽवयजनमसि पितृकृतस्यैनसोऽवयजनमसि मनुष्यकृतस्यैनसोऽवयजनमस्यस्मत्कृतस्यैनसोऽवयजनमसि यद्दिवा च नक्त चैनश्चकृम तस्यावयजनमसि यत् स्वपतश्च जाग्रतश्चैनश्चकृम तस्यावंयजनमसि यद्विद्वांसश्चाविद्वांसश्चैनश्चकृम तस्यावयजनमस्यैनसएनसोऽवयजनमसि” ताण्ड्यब्रा० “अवयजनम् अपगमनसाधनम्” भा०।

अवयव = पु० अवयूयते कार्य्यद्रव्येण संबध्यते अव + यु–कर्मणि अप। १ द्रव्यारम्भकेद्रव्ये “यथा परमाणुः द्व्यणुकं द्व्यणुकस्त्रसरेणुमारभते इत्यादिक्रमेण अन्त्यावयविपर्य्यन्तानि सर्व्वाणि द्रव्याष्णि स्वाश्रिततया अवयविद्रव्यान्तरमारभन्ते “द्रव्याणि द्रव्यान्तरमारभन्ते गुणाश्च गुणान्तरम्” वै० सू० उक्तेः। अन्त्यावयविविभुद्रव्याणि विहाय द्रव्याणां सजातीयद्रव्यान्तरारम्भकत्वं तदर्थः अन्त्यावयवी नित्यद्रव्य च न कस्यचिदारम्भकम्। आरम्भकद्रव्ये च द्रव्यान्तरस्य समवायेनाऽवस्थित्याऽवयरत्वम्। आरम्भकद्रव्यञ्च उपादानकारणतया समवायिकारणतया च व्यवह्रियते अधिकमवयविशब्दे बक्ष्यते “अनित्या च तदन्या स्यात् सैवावयवयोगिनी” भाषा०। अवच्छिन्नपरिमाणवत्त्वम् अव- यवत्वमिति केचित् प्रतिपेदिरे तन्न सम्यक, घटादौ अवच्छिन्न परिमाणवत्त्वेन तत्रातिव्याप्तेः किन्तु द्रव्यारम्भकद्रव्यत्वमेवावयवत्वम्। यु अमिश्रणे अप्। २ देहे तस्यान्त्यावयवितया द्रव्यान्तरानारम्भकत्वेन इतरद्रव्यसमवायशून्यत्वात् तथात्वम् ३ हस्तादिषु देहावयवत्वात्तेषान्तथात्वम्। ते च प्राधान्येन पञ्च सुश्रुते दर्शिताः ७२ पृष्ठे अङ्गशब्दे उक्ताः। अङ्गप्रत्यङ्गानि च सूक्ष्मरूपेण गर्भे एव उत्पद्यन्ते क्रमशो विवर्द्धमानानि दृश्यन्ते यथोक्तं सुश्रुते “सर्व्वाङ्गप्रत्यङ्गानि युगवत् सम्भवन्तीत्याह धन्वन्तरिः गर्भस्य सूक्ष्मत्वान्नोपलभ्यन्ते वशाङ्कुरवच्चूतफलवच्च तद्यथा चूतफले परिपक्वे केशरमासांस्थिमज्जानः प्रत्यक् दृश्यन्ते कालप्रकर्षात्, तान्येव तरुणे नोपलभ्यन्ते सूक्ष्मत्वात्। तेषां सूक्ष्माणां केशरादीनां कालः प्रव्यक्ततां करोति एतेनैव वंशाङ्कुरोऽपि व्याख्यातः एवं गर्भस्य तारुण्ये सर्व्वेष्वङ्गेषु सत्स्वपि सौक्ष्म्यात्तदनुपलब्धिः। तान्येव काल प्रकर्षात् प्रव्यक्तानि भवन्ति”। अधिकं गर्भशब्दे वक्ष्यते। “तृतीये तु मास्यङ्गैरिन्द्रियैश्च संयुक्तो भवतीत्याद्दुक्तिस्तु व्यक्ताङ्गतापरा। ४ समुदायस्य एकदेशे “पदे न वर्ण्णाविद्यन्ते वर्ण्णेष्ववयवा न च” भर्त्तृहरिः “क्तेनाहोरात्रावयवाः” पा०। “क्रियाहि नामेयमत्यन्तापरिदृष्टा पूर्व्वापरीभूतावयवा न शक्यते पिण्डीभूता निदर्शयितुम्” फ० भा० “गुणभूतैरवयवैः समूहः क्रमजन्मनाम्। बुद्ध्या प्रकल्पिताभेदः क्रियेति व्यवदिश्यते” वाक्यप०। एकदेशाभिप्रायेणैव नास्तिकादीनां मते परमाण्वादौ अवयवव्यवहारः तैः परमाणु पुञ्जस्यैव घटादिरूपतास्वीकारात्। न्यायादिमतसिद्धपरा र्थानुमानसाधनेषु ५ वाक्येषु च। ते चायववाः पञ्च इति बहवः त्रय इत्यन्ये। यथा प्रतिज्ञाहेतूदाहरणोपनयनिगमरूपाः पञ्च, प्रतिज्ञाहेतूदाहरणरूपाः हेतूदाहरणो पनयरूपा वा मतभेदेन त्रयः। यथा पर्ब्बतो वह्निमात्, धूमात्, योयोधूमवान् स वह्निमान् यथा महानसम्, वह्निव्याप्योधूमो धूमवांश्चायम् तस्माद्वह्निमान्। प्रतिज्ञादीनां लक्षणानि च तत्तच्छब्देवक्ष्यन्ते उपचारात् तत्प्रतिप्रतिपादके चिन्तामणिकृते अनुमानखण्डान्तर्गते ६ ग्रग्थे। ७ उपकरणमात्रे च।

***