अलङ्कुमारि = त्रि० अलंकुमार्य्यै तद्भरणाय। कुमारीभरणसमर्थे धनादौ।
अलङ्कृत = त्रि० अलम् + कृ–कर्म्मणि क्त। भूषिते मण्डिते। “अदोषं गुणवत् काव्यमलङ्कारैरलङ्कृतम्” सा० द० “सत्कृतालङ्कृतां कन्यां योददाति स कूकुद” इत्यमरः।
अलङ्कृति = स्त्री अलम् + कृ–भावे क्तिन्। १ भूषणे करणे क्तिन्। २ भूषणसाधने अलङ्कारशास्त्रोक्ते ३ उपमाद्यलङ्कारे च “तददोषौ शब्दार्थावनलङ्कृती पुनःक्वापि” काव्य० प्र० “यो विद्वान् मन्यते काव्यं शब्दार्यावनलङ्कृती। असौ न मन्यते कस्मादनुष्णमनलङ्कृती” चन्द्रा०।
अलङ्क्रिया = स्त्री अलम् + कृ–भावे श। भूषायाम्।
अलङ्गामिन् = त्रि० अलं पर्य्याप्तं गच्छति णिनि स्त्रियांङीप्। गमनसमर्थे रिपुं प्रति गन्तरि।
अलङ्घनीय = त्रि० न लङ्घनीयः। अनति क्रमणीये। “तुङ्गत्वमितरा नाद्रौ नेदं सिन्धावगाधता। अलङ्घनीयताहेतुरुभयं तन्मनस्विनि” माघः।
अलङ्घ्य = त्रि० न लङ्व्यः। अनतिक्रमणीये। “लिलङ्घयिषतो लोकानलङ्व्यानलघीयसः” माघः।
अलजी = स्त्री अला पर्य्याप्ता सती जायते जन–ड गौरा० ङीष्। सुश्रुतोक्ते सन्धिगतरोगभेदे यथा। “पूयानसः सोपनाहः स्रावा पर्व्वणिकालजी। कृमिग्रन्थिश्च विज्ञेया रोगाः सन्धिगता नव”। तल्लक्षणं तत्रैव “जाता सन्धौ शुक्लकृष्णेऽलजी स्यात्तस्मिन्नेवास्थापिता पूर्व्वलिङ्गैः” इति।
अलज्जा = स्त्री न लज्जा विरोधे न० त०। १ धार्ष्ट्ये अभावे न० त०। २ लज्जाभावे। न० ब०। ३ लज्जाशून्ये त्रि०।
अलञ्जुर = पु० अलं सामर्थ्यं जृणाति जृ–अच् पृ० उत्। मणिके अलिञ्जरे बहुजलाधारे(जाला)मृण्मये पात्रे।
अलञ्जीविक = त्रि० अलं जीविकायै ४ त०। जीविकापर्प्याप्ते धनादौ।
अलञ्जुष = त्रि० अलं जुष्यते कर्म्मणि बा० क। भक्षणपर्य्याप्ते मांसादौ। “अथ तच्छृतस्य परितृन्दति तदलञ्जुषम्” शत० ब्रा० “मांसं हि जोषाय भक्षणायालं पर्य्याप्तंभवति” भा०
अलति = पु० अल–वा अतिच्। गीतिमातृकायाम् स्वरसाधनार्थे सारिगामादिस्वरभेदे तदुपक्रमेणैव हि गीतेः प्रारम्भात्तेषां गीतिमातृकात्वम्।
अलन्धन = त्रि० अलं प्रभूतं धनमस्त्यस्य अच्। पर्य्याप्तधने समृद्धे। “निरादिष्टधनश्चेत्तु प्रतिभूःस्यादलन्धनः” मनुः।
अलन्तराम् = अव्य० अलम् + अतिशये तरप् आमु। अत्यर्थ पर्य्याप्त्यादावर्थे। “पुरोडाशभुजामिष्टमिष्टं कर्त्तुमलन्तराम्” माघः। एवं तमप् आमु। अलन्तमाम् तत्रैवार्थे अव्य०।
अलन्धूम = पु० अलमत्यर्थो धूमः। धूमसमूहे जटाध०।
अलब्ध = त्रि० न लब्धः। प्राप्तभिन्ने “अलब्धस्य प्राप्त्युपायोयोगः” श्रीधरः।
अलभ्य = त्रि० न लभ्यः। अप्राप्ये। “रोगे चालभ्ययोगे च सीमन्ते पुंसवेऽपि च। यद्ददाति समुद्दिष्टं पूर्व्वत्रापि न दुष्यति” कालमा० मरी० “अलभ्ययोगे पुनरप्राप्यसम्बन्धनिमित्ते अशौचान्तदिवसे पूर्व्वत्र मलमासे” शु० त० रघु०।
अलम् = अव्य० अल–बा० अमु १ गूषणे “जनयित्रीमलञ्चक्ते यः प्रश्रय इव श्रियम्” अस्व उपपदसंज्ञा अलङ्कृत्य “अलङ्कृत्य सुतादानं दैवं धर्म्मं प्रचक्षते” मनुः। २ सामर्थ्ये शक्तो “विनाप्यस्मदलम्भूष्णु रिज्यायै तपसः” सुतः “कथा हि खलु पापानामलमश्रेयसे यत” इति च माघः “वरेण शमितं लोकानलं दग्धुं हि तत्तपः” कुमा० ३ पर्य्याप्तौ ४ संपूर्णतायां ६ प्राचर्य्ये “प्रतिभूःस्याद लन्धनः” ममुः अलमस्त्यस्य धनम् अच् बहुधनैत्यर्थः कुल्लु०। ७ वारणे, “अलं विवादेन यथा श्रुतं त्वया” कुमा० “अलं विवादेन शमोविधीयताम्” महाना० ८ निषेधे “आलप्यालमिदं बभ्रोर्यत् स दारानपाहरत्” माघः ९ निरर्थकत्वे १० अस्त्यर्थे ११ अवधारणे १२ अत्यर्थेच गणर०।। “विजयायेत्यलमन्वशान्मुनिर्माम्” किरा० “अलं भूयः” मल्लि०। लस्य वा रः अरम्। तत्रार्थे अरङ्कृतशब्दे उदा०।
अलम्पशु = पु० अलं यज्ञे निरर्थः पशुः। “अप्रशस्ते पशौ “अलम्पशोरपशोश्च” कात्या० १९, १, ४, पशुर्योग्यः सन् यो नाम पशून्नविन्दते सोऽलम्पशुरपशुः” कर्क०।
अलम्पुरुषीण = पु० अलं समर्थः पुरुषाय “अषडक्षेत्यादिना” पा० स्वार्थे ख। युद्धादिसमर्थे प्रतिमल्लादौ पुरुषे।
अलम्बुद्धि = स्त्री अलम् व्यर्था बाधितविषयत्वात् पर्य्याप्ता वा बुद्धिः। मिथ्याबुद्धौ, पर्य्याप्तबुद्धौ च। “पश्यन्नपि नालम्बुद्धिमवाप” किरा० १२, ३९, श्लोक० व्या० मल्लि०।
अलम्बुष = पु० अलं पुष्णाति पुष–क पृ० पस्य बः। १ वमने छर्द्दने। २ प्रहस्ते रावणमन्त्रिराक्षसे ३ घटोत्कचहते राक्षसभेदे च “अलम्बुषं तथा युद्धे विचरन्तमभीतवत्। हैडम्बिः प्रययौ तूर्ण्णम्” इत्युपक्रम्य “रिपुं निह त्याभिननन्द वै तदा ह्यलम्बुषं पक्वमलम्बुषं यथा” भा० द्रो० प०। अलम्बुषनामानौ च द्वौ राक्षसौ कुरुक्षेत्रयुद्धे समागतौ अयमेको घटोत्कचेन निहतः भी० प० अपरोपि निहतः इत्यविरोधः। ४ अप्सरोभेदे तच्छब्दे विवृतिः। ५ मुण्डीर्य्याम् मेदि० ६ लज्जालु लतायाम् ७ अन्याप्रवेशार्थं दत्तजलरेखायाञ्च स्त्री राज०। तस्याः फलम् अण् लुप् तत्फले न०। “ह्यलम्बुषं पक्वमलम्बुषं यथा” भा० द्रो० प०।
अलम्भूष्णु = त्रि० अलम् + सामर्थ्ये भू–ग्स्नु। “समर्थे “विनाप्यस्मदलम्भूष्णुरिज्यायै तपसः सुतः” माघः।
अलय = पु० न लयः विरोधे न० त०। १ लयविरोधिनि उद्भवे। “शक्रादिष्वपि लोकेषु श्रूयमाणौ लयालयौ” रामा० अभावे न० त०। २ विनाशाभावे। नास्ति लयोयस्या ३ अवस्थानशून्ये भ्रमणशीले “स्वानमानमति कालिमालया” माघः “लयो लयनं क्वचिदवस्थानं नास्ति यस्याः” मल्लि० ४ विनाशशून्ये च त्रि०।
अलम्बुसा = पु० ब० व०। देशभेदे।
अलर्क = पु० अलमर्कतेऽर्च्यते वा अर्क–अच् अर्च–घञ् वा शक०। १ श्वेतार्कवृक्षे २ क्षिप्तकुक्करे ३ कृमिभेदे च स च भा० शा० प० दर्शितः यथा “अथ कृमिः श्लेष्ममेदोमांसशोणितभीजनः। दारुणो दारुणस्पर्शः कर्णस्याभ्यासमागतः। स० तस्योरु- मथासाद्य बिभेद रुधिराशनः। न चैनमशकत् क्षेप्तुं हन्तुं वापि गुरोर्भयात्। स दश्यमानस्तु तथा कृमिणा तेन भारत!। गुरोः प्रबोधनाशङ्की तमुपैक्षत सूर्य्यजः। कर्णस्तु वेदनां धैर्य्यादसह्यां विनिगृह्य ताम्। अकम्प्रयन्नव्यथयन् धारयामास भार्गवम्। तदास्य रुधिरेणाङ्गं परिस्पृष्टं भृगूद्वहः। तदाऽबुध्यत तेजस्वी सन्त्रस्तश्चेदमब्रवीत्। अहोऽस्म्यशुचिताम्प्राप्तः किमिदं क्रियते त्वया। कथयस्व भयं त्यक्त्वा याथातथ्यमिदं मम। तस्य कर्ण्णस्तदाचष्ट कृमिणा परिभक्षणम्। ददर्श रामस्तं चापि कृमिं शूकरसन्निभम्। अष्टपादन्तीक्ष्णदंष्ट्रं सूचिभिरिव संवृतम्। रोमभिः सन्निरुद्धाङ्गमलर्कं नाम नामतः। सं दृष्टमात्रो रामेण कृमिः प्राणानवासृजत्। तस्मिन्नेवासृजि क्लिन्नस्तदद्भुतमिवाभवत्। ततोऽन्तरीक्षे ददृशे विश्वरूपः करालवान्। राक्षसो लोहितग्रीवः कृष्णाङ्गो मेघवाहनः। स रामं प्राञ्जलिर्भूत्वा बभाषे पूर्णमानसः। स्वस्ति ते भृगुशार्दूल। गमिष्यामि यथागतम्। मोक्षितो नरकादस्माद्भवता मुनिसत्तम!। भद्रञ्च तेऽस्तु वन्दे त्वां प्रियं मे भवता कृतम्। तमुवाच महाबाहुर्जामदग्न्यः प्रतापवान्। कस्त्वं कस्माच्च नरकं प्रतिपन्नो ब्रवीहि तत्। सोऽब्रवोदहमासं प्राग्दंशो नाम महासुरः। पुरा देवयुगे तात! भृगोस्तुल्यवया इव। सोऽहं भृगोः सुदयितां भार्य्यामपहरं बलात्। महर्षेरभिशापेन कृमिभूतोऽपतं भुवि। अब्रवीद्धि स मां क्रोधात्तव पूर्व्वपितामहः। मूत्रश्लेष्माशनः पाप निरयं प्रतिपत्स्यसे। शापस्यान्तो भवेद्ब्रह्मन्नित्येवं तमथाब्रुवम्। भविता भार्गवाद्रामादिति मामब्रवीद्भृगुः”।
अलपस् = न० न रपः पापम् न० त० रस्य लः। अपापे पुण्ये।
अलबाल = न० लबमालाति ला–क न० त०। वृक्षसेकार्थे वृक्षमूले मृदादिकृते जलाधारे वेष्टने स्वार्थेऽण्। आलबालमप्यत्र।
अलस = त्रि० न लसति व्याप्रियते लस–अच्। अवश्यकर्त्तव्येषु शरीरापाटवमभिनीय १ कृताप्रयासे, “मृदुतरतनवोऽलसाः प्रकृत्याः” माघः अयुक्तः प्राकृतः स्तब्धः शठो नैकृतिकोऽलसः। २ क्रियामन्दे च (पाकु~इ) ३ पादरोगभेदे, ४ वृक्षभेदे च पु०। ५ हंसपदीलतायां स्त्री। पादरोगो यथा “क्लिन्नाङ्गुल्यन्तरौ पादौ कण्डूदाहरुजान्वितौ। दुष्टकर्दम संस्पर्शादलसं च विभावय” पादौ सिक्त्वारनालेन लेपनं ह्यलसे हितम्” इति च शुश्रुतः। गर्गादिगणपाठात् ४ मुनिभेदे ततः अपत्ये यञ् आलस्यस्तदपत्येलोहिता० यूनि ष्फ आलस्यायनः। अलसस्य भावः ष्यञ्। आलस्यम् न० तल् अलसता स्त्री त्व अलसत्वं न०। क्रियाकरणाय अप्रयत्ने।
अलसक = पु० न लस्यति अनेन लस करणे–बा० वुन्। १ रोगभेदे। यथाह सुश्रुतः “अजीर्ण्णमामं विष्टब्धं विदग्धं च यदीरितम्। विसूच्यलसकौ तस्माद्भवेताम्” इत्युपक्रम्य “कुक्षिरानह्यतेऽत्यर्थं ताम्यत्यत्यर्थं च कूजति। निरुद्धोमारु तोवापि कुक्षावुपरि धावति। वातवर्चोनिरोधश्च यस्या त्यर्थं भवेदपि। तस्यालसकमाचष्टे तृष्णोद्गारौ च यस्य तु”। तन्निरुक्तिरपि अन्यत्र दर्शिता “प्रयाति नोर्द्धं नाधस्तादाहारो न च पच्यते। आमाशयोऽलसीभूतस्तेन सोऽलसकः स्मृतः”। अलस + स्वार्थे कन्। २ अलस शब्दार्थे त्रि०।
अलात = पु० न०। ला–क्त न० त०। (कोयाला) इति ख्याते (आङ्गार) इति ख्याते च अर्द्धदग्धकाष्ठे। “निर्वाणालातलाघवम्” कुमा०।
अलातृण = त्रि० अलमत्यर्थमातृणा आतर्दनाः अलम् + आ + तृद नि० दस्य न मलोपश्च। आतर्दनशीले। “अलातृणासो विदथेषु सुष्टुताः” ऋ० १, १६६, ७, “अलातृणासः अलमत्यर्थं शत्रूणामातर्द्दनाः” भा०।
अला(बु)बू = स्त्री न लम्बते न + लबि–उ णित् नलोपश्च वृद्धिः। (लाउ), तुम्ब्याम्। वा ऊङि। अलाबूश्चात्र। “अलाबूं वर्त्तुलाकारां वार्ताकुं कुन्दसन्निभाम् स्मृतिः”।
अलाबुमय = त्रि० अलाबु + विकारे मयट्। शुष्कालाबुत्वङि निर्मिते पात्रे “यतिपात्राणि मृद्वेणुदार्वलाबुमयानि च। सलिलैः शुद्धिरेतेषां गोबालैश्चावघर्षणम्” या० स्मृतिः।
अलाबूकट = न० अलाबूनां रजः अलाबू + रजोऽर्थे कटच्। तुम्बीरजसि।
अलाभ = पु० न लाभः अभावे न० त०। १ लाभाभावे “नायं नलः खलु तवातिमहानलाभः” नैष० “सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ” गी० “अलाभे चैव कन्यायाः स्नातकव्रतमाचरेत्” स्मृतिः “अलाभे न विषादी स्याल्लाभे चैव न हर्षयेत्” मनुः। न० ब०। २ लाभशून्ये त्रि०।
अलाय्य = त्रि० ऋ–आय्य–रस्य लः। १ गमनशीले २ अभिमुख गन्तरि शत्रौ च। “अलाय्यस्य परशुर्ननाश” ऋ० ९, ६७, ३०, “अलाय्यस्य अभिगमनशीलस्य शत्रोः” भा०।
अलार = न० अरार्य्यं ते ऋ–यङ् लक अच् रस्य लः। कपाटे शब्दरत्न०।
अलास = पु० न लस्यति अनेन लस–करणे घञ् न० त०। जिह्वागतरोगभेदे यथाह सुश्रुतः। “जिह्वागास्तु कण्टकास्त्रिविधास्त्रिभिर्दोषैरलास उपजिह्विका च” इत्युक्त्वा “जिह्वाऽनिलेन स्फुटिता प्रलुप्ता भवेच्च शाकच्छदनप्रकाशा। पित्तेन पीता परिदह्यते च चिता सरक्तैरपि कण्ठकैश्च। कफेन गुर्वी वहुलाचिता च मांसोद्गतैः शाल्मलिकण्टकाभैः। जिह्वातले यः श्वयथुः प्रगाढः सोऽलाससंज्ञः कफरक्तमूर्त्तिः। जिह्वां स तु स्तम्भयति प्रवृद्धे मूले तु जिह्ला भृशमेति पाकम्”।। स तु असाध्यरोगः यथोक्तं तत्रैव। “असाध्या अपि वक्ष्यन्ते रोगा ये यत्र यादृशा” इत्युपक्रम्य “जिह्वागतेष्वलासस्तुतालव्येष्वर्वुदं तथा” इत्यद्यभिधाय “असाध्याः कीर्त्तिताह्येते रोगा नव दशैव च”
अलि = पु० अलति दंशे, कूजिते, शब्दिते, वा समर्थो भवति अल–इन्। १ भ्रमरे, “अलमलेरिव गन्धरसावमू” माघः। “श्यामीभूताः कुसुमसमूहेऽलीनाम्” “मङ्क्षूदपाति पटलैरलीनाम्” इति च माघः “अलिपङ्क्तीरमेकशस्त्वया” कुमा०। २ वृश्चिके, ३ काके, ४ कोकिले, ५ वृश्चिकराशौ च स च द्वादशधा विभक्तराशिचक्रस्याष्टमो भागः विशाखाद्यपादामुराघाज्येष्ठारूपः। ६ सुरायां च।
अलिक = न० अल्यते भूष्यते अल–कर्म्मणि इकन्। ललाटे। “असंस्कृतालकिनीमलिकलेखाम्” काद०।
अलिकुलसङ्कुल = पु० अलिकुलेन सङ्कुलः व्याप्तः। १ कुब्जवृक्षे राजनि०। २ भ्रमरकुलव्याप्ते त्रि० “अलिकुलसङ्कुल कुसुम निराकुल नवदलमालतमाले” जयदेवः।
अलिगर्द्ध = पु० अलिरिव वृश्चिक इव गृध्नोति गृध–अच्। (आलय) इतिख्याते सर्पभेदे श० र०।
अलिगु = पु० अलिरिव दुःसहा गौर्वाणी अस्य। गर्गादिगण पठिते ऋषिभेदे। ततः गोत्रे यञ् आलिगव्यः। तदपत्ये पुंस्त्री० स्त्रियां तु लोहिता० ष्फः। आलिगवायनी।
अलिङ्ग = त्रि० नास्ति लिङ्गं ज्ञापकहेतुश्चिह्नं वा यस्य। १ अनुमापकहेतुशून्ये २ चिह्नशून्ये च। वेदान्तिमतसिद्धे परमात्मनि पु०। न० त०। लिङ्गभिन्ने ३ अननुमापके तच्च सांख्यमते “हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितम् लिङ्गम्। सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम्” सा० का० उक्तमव्यक्तम्। “अकार्य्यं नित्यं व्यापि अक्रियम् एकमनाश्रितमलिङ्गमनवयवं स्वतन्त्रमव्यक्तमिति” सा० त० कौ०। तद्धि न कस्यापि लिङ्गम् कार्य्येण कारणानुमानमिह विवक्षितं तेन संहत्यकारित्वेन परार्थतया तस्य पुरुषानुमाकत्वेऽपि न क्षतिरिति च तत्रानुसन्धेयम् “तदलिङ्ग- मेकद्रव्यत्वात् कर्म्मणः” वै० सू०। “कर्म्म न तावत् समवायिकारणतया आकाशमनुमापयति कर्म्मण एकद्रव्यत्वात् एकमात्रमूर्त्तसमवायिकारणत्वात्” वै० सू० उ०। ४ दुष्टचिह्नेच।
अलिङ्गिन् = त्रि० न लिङ्गी वेशधारो। कपटवेशधारिभिन्ने ब्रह्मचारिप्रभृतौ।
अलिजिह्वा = स्त्री अलिरिवक्षुद्रा जिह्वा। जिह्वामूलस्थायां क्षुद्रं जिह्वायाम् (आलजिभ) स्वार्थे कन् अत इत्त्वम्। तत्रैव।
अलिञ्जर = पु० अलनमलिः अल–इन् तं जरयति जृ–अच् पृषो० मुम्। (जाला) इति ख्याते मृण्मये जलाधारे पात्रभेदे मणिके। “उदकान्तमुपानीय मत्स्यं वैवस्वतो मनुः। अलिञ्जरे प्राक्षिपत्तं चन्द्रांशुसदृशप्रभम्” भा० व० प०।
अलिदूर्व्वा = स्त्री अलिरिवाकारेण दूर्व्वा। मालादूर्व्वायाम्।
अलिन् = पु० अलं वृश्चिकपुच्छस्थकण्टकं विद्यतेऽस्य इनि, अल–इनि वा। १ वृश्चिके, २ म्रमरे च। “मलिनिमाऽलिनि माधवयोषिताम्” माघः स्त्रियां ङीप् अलिनी “रमतालिनी शिलीन्ध्रे” माघः।
अलिन = त्रि० अल–बा० इनन्। पर्य्याप्ते तपोभिरतिप्रवृद्धे। आ पक्थासोभलानसोभनन्तालिनासो विषाणिनः” ऋ० ७। १८। ७। “अलिनाः तपोभिरतिवृद्धाः” भा०।
अलिन्द = पु० अल्यते भूष्यते अल + कर्म्मणि किन्दच्। १ द्वार प्रकोष्ठे २ बहिर्द्वारवर्त्तिनि चत्वराकारे प्रदेशे। “यस्यामलिन्देषु न चक्रुरेव मुग्धाङ्गना गोमयगोमुखानिः” माघः २ बहिर्द्वारभागमात्रे ३ देशभेदे ४ तद्देशतासिनि ५ तद्राजनि च ब० व०। “अलिन्दाः कालवाश्चैव कुण्ठकाः करटा स्तथा” भा० उ० प० जम्ब खण्डविभागे प्राच्यजनपदकथने। गौरादिगणपाठात् स्त्रियां ङीष्। अलिन्दी।
अलिपक = पु० कुत्सितवर्णेन लिप्यते लिप–बा० कर्मणि वुन्। १ कोकिले २ भृङ्गे ३ कुक्कुरे च मेदि०।
अलिपत्रिका = स्त्री अलिर्वृश्चिक इव पत्रमस्याः वा कपि अत इत्त्वम्। वृश्चिकपत्राख्यलतायाम्। अलिपर्ण्यप्यत्र।
अलिप्रिथ = न० ६ त०। १ कोकणदे रत्नोत्पले २ भ्रमरप्रिये त्रि० ३ पाटलावृक्षे राजनि०।
अलिमक = पु० अलिरिव मक्कते–मक्क अच् पृ० कलोपः। १ भेके २ कोलिले ३ भृङ्गे ४ मधूकवृक्षे ५ पद्मकेशरे च मेदि०।
अलिमोदा = स्त्री अलीन् मोदयति मुद + णिच् अण्। गणिकारीवृक्षे
अलिम्पक = पु० कुत्सितं लिप्यते वर्ण्णेन लिप–बा कर्म्मणि श न० त० संज्ञायां कन्। १ भृङ्गे २ कोकिले ३ मधूकवृक्षे ४ भेके ५ पद्मकेशरे च।
अलिल् = पु० ऋ–इलच् रस्य लः। वेदान्तप्रसिद्धे गगनचारिणि पङ्किभेदे–अलिलः पक्षिणः पुत्रो गगनाद्याति भूतलम्। स्वबोधाभावतः, स स्वबोधे यात्यम्बरं पुनः”। वेदा० वा०। अलिन इति पाठस्तु सम्यक्।
अलिवल्लभ = पु० ६ त०। १ फलेरुहावृक्षे २ पाटलौ।
अलिवाहिनी = स्त्री अलिं वाहयति गन्धेन वह–णिचणिनि ङीप्। कोङ्कणदेशप्रसिद्धो कवकावृक्षे।
अलीक = न० अल–ईकन् १ अप्रिये, २ ललाटे, च। अलति गच्छत्यधोऽनेन। ३ असत्ये। मिथ्याकथने हि नरकपातः। तत्र अप्रिये “गुरोश्चालीकनिर्बन्धः समानि ब्रह्महत्यया” मनुः “तद्यथा स महाराजो नालोकमधिगच्छति” रामा०। विशेषेण अलीकम् व्यलोकम् अत्यन्ताप्रिये “व्यलीकनिश्वासमिवोत्ससर्ज” कुमा०। अलीकमस्त्यस्य सुखा० इनि न ठत्। अलोकोतिद्वति त्रि० स्त्रियां ङीप्। अलीके भवः दिगा० यत् अलीक्यः। मिथ्याभूतभवे त्रि०।
अलीकमत्स्य = पु० “माष पष्टिकयालिङ्ग्य नागवल्लीदलैर्महत्” तत्तु संस्वेदयेद्युक्त्या स्थाल्यामङ्गारकोपरि। ततोनिष्काशितं खण्ड्यं तिलतैलेन भर्जयेत्। अलोकमत्स्यौक्तोऽयं प्रकारः पाकपण्डितैः। तं वृन्ताकं भटित्रेण वास्तूकेन च भक्षयेत्” राजनि० उक्तेपिष्टकनेदे।
अलु = स्त्री अल–उन्। क्षुद्रकलस्याम्।
अलुक्समास = पु० नास्ति विभक्तेः लुक्–यत्र। विभक्तेर्लुक्शून्ये समासे यथा मनसिजः सरसिजमित्यादि।
अलुब्ध = त्रि० न लुब्धः। निर्लोभे लोभशून्ये।
अलूक्ष = त्रि० न रूक्षः वेदे रस्य लः। रूक्षभिन्ने चिक्कणे “अलूक्षाधर्म्मकायाः” तैत्ति० उ०।
अलेपक = त्रि० नास्ति लेपः संबन्धोयस्य वा कप्। निस्सम्बन्धे परात्मनि पु०। लिप–ण्वुल् न० त०। लेपकभिन्ने त्रि०।
अलोक = पु० न लोक्यते लोक–कर्म्मणि घञ्। अस्मदादिभिरदृश्ये १ पातालादौ २ अदृश्यमात्रे त्रि० “लोकालोकैवाचलः” रघुः। लोकालोकशब्दे विवृतिः। ३ लोकशून्ये निर्ज्जने त्रि० ३ लोकशून्ये रहसि च न० “रक्ष सर्व्वानिमान् लोकान् नालोकं कर्त्तुमर्हसि” रा०। लोकस्याभावः अभावे अव्ययी०। ४ लोकाभावे अव्य०। नास्ति लोकोभोग्यलोको यस्य। ५ अकृतपुण्ये त्रि० ६ ऋत्विगादौ ७ अलोका ऋत्विजः शत० ब्रा० तेषां दक्षिणाग्रहणेन पुण्यभगित्वाभावात् च भोग्यलोकशून्यत्वम्। ७ इष्टकाभेदे स्त्री अलोका इष्टका उपदधाति”। लोकते कर्तरि अच्। ८ दर्शकभिन्ने।
अलोक्य = त्रि० लोकाय स्वर्गादिलोकप्राप्तये हितः तत्र साधु वा यत् न० न०। स्वर्गादिलोकासाधने। “यदलोक्यामग्निचित्याहुरथ किमचैषीरिति “सहोवाच किं तु लोक्यं किमलोक्यम् लोक्या शतायुतेत्येवाहुस्तदुह पुरायुषः स्वःकामी न प्रेयादलोक्यं हि तत्” शत० ब्रा० “ययास्यो द्विजते वाचा नालोक्यां तामुदीरयेत्” मनुः।
अलोभ = पु० लोभःधनादिष्वतितृष्णा अभावे न० त०। धनादिष्वतितृ णाभावे। लोभोहि सत्यास्तेयापरिग्रहविरोधी १ सति हि लोभे सत्यादयो लुप्यन्ते। “लोभस्य पुरतः केऽमी सत्यास्तयापरिग्रहाः” प्रबो च०। “लोभात् सद्यः प्रणश्यन्ति सत्यास्तेयापरिग्रहाः” पुरा० अतएव “लोभस्य यमादिप्रतिपक्षत्वं पातञ्जले उक्तम् “वितर्कबाधने प्रतिपक्षभावनम्” एतेषां यमनियमादीनां वितर्कैः हिंसादिसंकल्पैः “हनिष्याम्येवम्” “अनृतं वक्ष्यःमि” “परस्वमादास्ये” इत्येवंरूपैः बाधने प्राप्तेसति यमपरः ब्राह्मणः प्रतिपक्षभावनं कुर्य्यादित्यर्थः।
अलोभिन् = त्रि० अलोभोस्त्यस्य इनि लोभोऽनुपदं व्याख्यातः। तच्छून्ये “अल मी स्यात् प्रजावित्ते गृह्णीयात् सम्मितं करम्” भा० शा० प०।
अलोल = त्रि० न लोलः। १ अचञ्चले २ वितृष्णे च।
अलोलुप = त्रि० न० त०। लोभनीयद्रव्यस्येन्द्रियसन्निनेऽपि अविक्रिये लोभशून्ये पुरुषे।
अलोह = पु० पाणिन्युक्ते नडादिगणीये ऋषिभेदे। गोत्रापत्ये नडा० फक् आलोहायनः। तस्य गोत्रापत्येपु० स्त्री०।
अलोहित = न० त०। १ लोहितभिन्ने रक्तताशून्ये। नाणि लोहितं यस्मात्। २ रक्तपद्मे रत्नमाला।
अलौकिक = त्रि० लोके विदितः ठक् न० त०। लोकेषु अविदिते स्त्रियां ङीप्। “अधिहरि हरि ङि इत्यलौकिकं विग्रहवाक्यम्” सि० कौ०। इन्द्रियादिलौकिकसन्निकर्षाभावेऽपि २ सामान्यलक्षणाद्यवीने प्रत्यक्षे न० इति नैयायिकाः तथाहि प्रत्यक्षं द्विविधं लौकिकमलौकिकञ्च। आद्यं चक्षुरादिजन्यमन्त्यं तदजन्यम्। तत्र सामान्यलक्षणादिसन्निकर्षजन्यमलौकिकम् ते च सन्निकर्षा अनुपर्द वक्ष्यन्ते।
अलौकिकसन्निकर्ष = पु० लोकेषु अविदितः सन्निकर्षः। “अलौकिकः सन्निकर्षस्त्रिविधः परिकीर्त्तितः। सामान्य लक्षणा ज्ञानलक्षणा योगजोमत” इति भाषा० उक्ते प्रत्यक्षसाधनसन्निकर्षभेदे सामान्यलक्षणादिलक्षणं च तत्तच्छब्दे वक्ष्यते तथाहि यत्किञ्चिद्घटादौ चक्षुःसन्निकर्षे घटत्वसामान्यधर्म्मज्ञानेन सकलघटादिज्ञानं सामान्यलक्षणाधीनं घटादिज्ञाने न घटादिज्ञानं ज्ञानलक्षणाधीनम्, योगविशेषजनितं सकलघटज्ञानं च एतत्त्रयमलौकिकं प्रत्यक्षं तस्य च अलौकिकत्वात् तदुत्तरं तत्तद्विषये साक्षात्करोमीति नानुव्यवसायः किन्तु जानामीत्येवानुव्यवसाय इति भेदः।
अल्प = त्रि० अल–प। १ क्षुद्रे, २ ईषदर्थे, ३ सूक्ष्मे, ४ मरणार्हे। “अथ यदल्पं तन्मर्त्यम्” छा० उ०। स्वार्थे कन् अल्पकमप्यत्र। ५ यवासे पु०। अल्पत्वञ्च यस्य वस्तुनः यावती इयत्ता उचिता ततोन्यूनत्वम् तत्त्वं च परिमाणभेदः अपेक्षाबुद्धिविशेषविषयत्वमपकर्षाघायकधर्म्मविशेषोवा तेन द्रव्यगुणादिधर्म्मत्वंतस्य। तच्च जातिगुणक्रियाद्रव्येषु भवति अल्पा नदी अल्पः श्यामः अल्पं ज्ञानं अल्पः पाकः अल्पोऽवकाशः। “क्कचाल्पविषया मतिः” रघुः। “अल्पप्रयोजनकृतोरुतरप्रयासैः” माघः। “प्रक्षालनेन त्वल्पानामद्भिः शौचं विधीयते” मनः। अस्य गुणपरतापि “करणे च स्तोकाल्पकृच्छ्रकतिपयस्यासत्त्ववचनस्येति” पाणिन्युक्तेः अल्पान्मुक्तः अल्पतया मुक्त इत्यर्थः। वीप्सार्थे शस्। अल्पशः अव्य०। “पतितापत्रस्तैरल्पशः” पा०। अस्य संख्यावद्गुणवचनत्वात् अतिशायने इष्ठन् ईयसुन् च। अल्पिष्ठः अल्पीयान् स्त्रियां ङीप्। “संख्यायाः अल्पीयस्याः” वार्त्ति० अत्र प्रकृतेर्वा कन्। कनिष्ठः कनीयान् “कनीयान् वृषमुत्सृजेत्” स्मृतिः “भ्राता ज्येष्ठः कनिष्ठो वा” स्मृतिः। भावे इमनिच् अल्पिमा पु० ष्यञ् आल्प्यम् पु० स्त्री तल् अल्पता। स्त्रीत्व अल्पत्वं न० क्षुद्रपरिमाणे।
अल्पकेशी = स्त्री अल्पः केश इव पत्रमस्याः। भूतकेशीवृक्षे।
अल्पगन्व = न० अल्पो गन्धोयस्य। १ रक्तकैरवे। २ स्वल्पगन्धयुक्त मात्रे त्रि०। एकान्तसम्बन्धे इच् समा०। अल्पगन्धिः तत्रैव त्रि०।
अल्पतनु = त्रि० अल्पा क्षुद्रपरिमाणा तमुः शरीरं यस्य १ खर्व्वे, २ दुर्बले, ३ स्वल्पास्थियुक्ते च। पत्रके २ वृक्षमात्रे च।
अल्पपत्र = पु० अल्पं पत्रं यस्य। १ क्षुद्रपत्रयुक्ततुलसीभेदे स्वल्प-
अल्पपद्म = न० अल्पमसम्पूर्णं पद्मम्। रक्तकमले रत्नमा०।
अल्पप्रमाण = पु० अल्पं प्रमाणमस्य वा कप्। (तरमुज) (खरमुज) वा इति १ ख्याते वृक्षे! २ अल्पप्रमाणयुक्ते त्रि०।
अल्पप्राण = पु० अल्पः प्राणः प्राणनक्रिया यस्मिन्। वर्ण्णभेदे यस्योच्चारणे अल्पप्राणवायोर्व्यापारस्तस्मिन्। स च शिक्षा- यामुक्तः “अयुग्मवर्गयमगायणश्चाल्पासवःस्मृताः” इति तथा च वर्गेषु प्रथमतृतीयपञ्चमवर्ण्णाः यमगाः यवरलाश्च अल्पासवः। कर्म्म०। २ तादृशवर्ण्णोच्चारणवाह्यण्यत्ने। वाह्यप्रयत्नास्तु एकादशपा “विवारः संवारः श्वासोनादो घोषोऽघोषोऽल्पप्रंणो महाप्राण उदात्तोऽनुदात्तः स्वरितश्चेति” सि० कौ०। अल्पः पाणः प्राणहेतुकं बलमस्य। ३ अल्पबले त्रि०।
अल्पमारिष = पु० अल्पः मारिषः शाकः कर्म्म०। (नटिया) शाके।
अल्पमेधस् = त्रि० अल्पा मेधाऽस्यं असिच् समा०। अल्पधारणायुक्तबुद्धौ धारणा च दृढसंस्कारः।
अल्पम्पच = त्रि० अल्पं पचति पच–बा ख मुस् उप० स० १ मितम्पचे आत्मम्भरौ कृपण। करणस्य कर्त्तृत्वविवक्षायाम्। २ अल्पपाकसाधने पात्रादौ।
अल्पशमी = स्त्री कर्म्म०। क्षुद्रायां शम्यां शम्याकारे क्षुद्रवृक्षे।
अल्पसरस् = न० अल्पं सरः कर्म्म०। (डोवा) क्षुद्रजलाशये।
अल्पायुस् = पु० अल्पमायुः जीवनकालो यस्य। १ छागे पशुषु तस्यैवाल्पायुष्कत्वात् तथात्वम्। २ अल्पजीवन काले त्रि०। “दुराचारोहि पुरुषो लोके भवति निन्दितः। दुःखभागी च सततं व्याधितोऽल्पायुरेव च” मनुः वा कप अल्पायुष्कोऽप्यत्र। कर्म्म०। यस्य यावदायुरुचितं ततोऽल्पमिते। जीवनकाले ३ आयुश्च जीवनकालः “शतायुर्वै पुरुष” इति श्रुतेः शतवर्षावच्छिन्नजीवनकालोनराणामादुः। एवमन्येषामायुःपरिमाणमायुःशब्दे वक्ष्यते। तत्र विशेषकालतायां ज्योतिषोक्तग्रहयोगस्य सूचकता यथा जातकालङ्कारे। “आयुर्मूलं जन्मिनां जीवनं स्यादाजीवानां निर्जराणां सुधेव। एवम्राहुः पूर्ब्बमाचार्य्यवर्य्यास्तस्मादायुर्योगजाख्यं प्रवक्ष्ये। लग्नाधीशोऽतिवीर्य्यो यदि शुभविहगैर्वीक्षितः केन्द्रयातैर्दत्ते ह्यायुः सुदीर्घं गुणगणहितं श्रीयुतं मानवानाम्। सौम्याः स्वीयालयस्था जनुषि च रजनीनायके स्वीयतुङ्गे वीर्य्याढ्ये लग्ननाथे वपुषि च शरदां षष्टिरायुर्नराणाम्।। सौम्याः केन्द्रालयस्थावपुषि सुरगुरौ लम्बतोवा सुधांशोरायुर्युक्तं न दृष्टं न च गगनगतैः सप्नतिर्वत्सराणाम्। याता मूलत्रिकोणे शुभगगनचराः खीयतुङ्गे सुरेज्ये लग्नाधीशोऽतिवीर्य्यो गगनवसु ८० समासंख्यमायुर्नराणाम्।। सौम्ये केन्द्रेऽतिवीर्य्ये यदि निघनपदं खेटहीनं समाः स्युस्त्रिंशत् सौम्येक्षितं चेद्गगनहिमकरैः संयुतोऽथ स्वभे चेत्। स्वल्पांशे चामरेज्ये मुनिनयन २७ मितं स्वर्क्षगो लग्नगो वा चन्द्रोद्यूने शुभश्चेद्- गगनरसमिनं ६० कोणगाः सौम्यखेटाः।। कीटे लग्ने सुरेज्ये यदि भवति तदा खाष्ट ८० तुल्यं लवेशे धर्म्माङ्गेवाङ्गनाये निधनभवनगे क्रूरदृष्टेऽम्बुहस्ताः २४। लग्नाधी शाष्टनाथौ लयभवनगतौ सप्तविंशत् २७ विलग्ने क्रूरेज्यौ चन्द्रदृष्टौ यदि निधनगतः कश्चनास्ते द्विपक्षाः २२।। लग्नेदू क्रूरहीनौ वपुषि सुरगुरौ रन्ध्रभं खेटहीनं केन्द्रे सौम्ये खशैलाः ७० सितविबुथपुरू स्याच्छतं १०० केन्द्रगौ चेत्। वागीशे कर्कलग्ने शतमिह भृगुजे केन्द्रगेऽथार्कसूनो धर्माङ्गस्थे सुधांशौ व्ययनवमगते हायनानां शतं स्यात्।। धीकेन्द्रायुर्नवस्था यदि खलखचरा नो गुरोर्भे विलग्ने केन्द्रे काव्ये गुरौ वा शतमथ निधनं सौम्य दृष्टं शतं स्यात्। लग्नादिन्दोर्न खेटा यदि निधनगता वीर्य्यभाजौ सितेज्यौ पूर्णायुः स्वीयराशौ शुभगगनचराः षष्टिरङ्गोच्चगेज्ये।। कोदण्डान्त्यार्द्वमङ्गं यदि सकलखगाः स्वोच्चगा ज्ञे निजांशे गोस्थे पूर्णं च केन्द्रे सुरगुरुभृगुजो लाभगेऽब्जे परायुः। शुक्रे नीचे तनुस्थे निधनपदगते सोम्यदृष्टे सुधांशौ जीवः केन्द्रे शतं स्यादय तनुगृहपश्छिद्रगः पुष्करेऽब्जे।। वागीशोवीर्य्यदुक्तो नवमभवनगाः सर्वखेटाःशतायुः कर्केऽङ्गे चन्द्रजीवौ सहजरिपुभगे स्यात् कविज्ञौ च केन्द्रे। केन्द्रे सूर्य्यारमन्दागुरुनवलबगा वाक्पतो लग्नयाते व्यष्टस्थानेषु शेषाः शरगज ८५ कलितं स्यान्नराणां तदायुः।। क्रूराः सौम्यांशयाता उपचयगृहगाः ३, ६, १०, ११, कातराः कण्टक १, ४, ७, १० स्थाः सौम्या व्योमार्कसङ्ख्यं १२० यदितपनकुजौ रन्ध्रगो नो परायुः। केन्द्रे लग्नेशजीवौ नवसुतनिलये कण्टके १४, ७१०, नो ख लाख्याःसम्पूर्ण्णंपापखेटायदि गुरुलबर्गाजीवभागे च सौम्याः। युग्नर्क्षांशे गता वा व्ययधनगृहगाश्चे च्छुभाः शीतमानुः सम्पूर्णो लग्नयायी शतमिह हि नृणामिन्दिरामन्दिरं स्यात्। लग्नेशः सौम्ययुक्तो वपुषि च लयपो रन्धरो नान्यदृष्टो विंशत् केन्द्रें लयेशे बलवियुजि तथा लग्नपे त्रिंशदायुः।। इन्दावापोक्लिमस्थे ३, ६, ९, १२, तदनु तनुपतौ निर्बले पापदृष्टेदन्तैस्तुल्यं ३२ ततोऽर्कोऽशुभस्वगविवरेलग्नतोऽब्जात्त्रिसंख्यम्। रिप्फेकेन्द्रे सुरेज्ये गुरुरिपुसहजे स्यात् स वापोऽङ्गनाथो रामाब्दं कर्कलग्ने कुजतुहिनकरौ केन्द्ररन्ध्ने ग्रहो न।। रामाब्दं ३ स्याल्लयेशो वपुपि च निधनं सौम्यहीनं खवेदाः ४० लग्नेशोरन्ध्रयातो वपुषि निधनपः स्यान्नृणां वाणसंख्यम् ५। नक्रे तिम्मांशुमन्दौ सहजरिपुततौ कण्ठके १, ४, ७, १० रन्ध्रनाथः पारावाराब्धिसंख्यं ४४ तदनु शुभखगाः स्वांशगास्त्रिंशदायुः।। अङ्गेशे सौम्यदृष्टे यदि शुभविहगावीर्य्यवन्तस्तदानीम् यातः सौम्ये गणेऽब्जी गुण मुनिगणितं ७३ रन्ध्रगैर्मध्यमायुः। स्याच्चन्द्रादह्नि पादै रथ तपनसुते द्व्यङ्गलग्नं प्रयाते रिप्फेशोवायुरीज्यो यदि बलरहितं कङ्कपत्राक्षसंख्यम् ५५।। कर्काङ्गे चण्डधामा खलविहगयुतः पुष्करे ज्ञो द्विजेन्द्रो वागीशोऽनस्तयायी विशिखपवनयुक् ७५ स्याच्चतुर्थास्पदस्थः। सौम्यः पीयूष धामान्तिमतनुविलये संस्थितीऽसौ कवीज्यावेकर्क्षे पुष्कराक्षं ५० व्ययरिपुनिधने मूर्त्तिपश्चन्द्रयुक्तः।। मन्दांशे लग्ननाथो भुजगशरमितं ५८ स्यादथो सौम्यखेटा रन्ध्रे नो देहनाथो व्ययरिपुनिधने पापयुक् षष्टि ६० रायुः। राशीशोलग्ननाथो दिनमणिसहितो मृत्युगोवासवेज्यो नो केन्द्रे षष्टिरायुर्व्वपुषि दिनकरः शत्रुभौमान्वितश्चेत्।। वागीशोहीनवीर्य्यो व्ययतनुजगते यामिनीशे खशैला ७० घर्मे सर्वैः परायुः स्वलखगलबगैः केन्द्रयातैरशीतिः ८०। क्रूरैः क्रूरर्क्षयातैः शुभभवनगतैः सौम्यखेटैः सवीय्य लग्नेशे स्यात् परायुः सुतभवनगतैः षष्टिरायुर्नराणाम्।। सारङ्गस्यान्त्यभागे यदि वपुषि गते चाद्यमागे च केन्द्रे सोम्याः खेटाः शतं स्याद्वसु ८ सहज ३ सुखे ४ स्याच्चिरायुः समस्ताः। लग्नात् प्रालेयधाम्नो निधनसदनपोरिप्फकेन्द्रेऽष्टविंशत् २८ केन्द्रे सौम्यग्रहोने यदि मृतिभवने कश्चिदास्ते खरामाः ३०।। क्षीणे प्रालेयभानौ यदि खलखचरो रन्ध्रगोरन्ध्र नेता केन्द्रस्थो लग्ननाथो निजबल रहितः खाश्वि २० तुल्यं तदायुः। सोम्यैरापोक्लिमस्थै र्दिनमणिजविधू वैरिरन्ध्रालयस्थौ तुल्यं कामाङ्कुशैः २२ स्यादथ धनलयगौ रिप्फगौ पापखेटौ।। हीनौ खर्भानुना वा यदि हिममहसाकाशबाहु २० प्रमाणं केन्द्रस्थौ सूर्य्यमन्दो यदि वपुषि कुजः पुष्पवाणाङ्कुशः २५ “स्यात्। शुक्रेज्यावङ्गयातौ तनयभवनगौ भानुपापावनायुर्जन्मेशः सार्कलग्ने खलखगसहितो वेक्षितः स्यादनायुः।। यत् सम्मोक्तं योगजातम्पुराणैर्होरापारावारपारप्रयातैः। तस्मादायुः सारमंशं गृहीत्वा पुंसामुक्तम्पुण्यभाजाम्मयेदम्।। बलाबलविवेकेन पुनरागमयायिनाम्। सुमनोमिरिदं देश्यमायुर्धर्म्मादिशालिनाम्”।। “पाषस्त्रिकोणकेन्द्रे सौम्याः षष्ठाष्टमव्ययगताः। सूर्य्योदये प्रसूतः सद्यः प्राणांस्त्यजति जन्तुः”। सूर्य्यरिष्टम्। “षष्ठेऽष्टमे च चन्द्रः सद्योमरणाय पापसंदृष्टः। अष्टाभिश्च शुभैर्दृष्टोवर्षैर्मिश्रैस्तदर्द्धेन”। चन्द्ररिष्टम्। “सुत मदननवान्त्यलग्नरन्धेष्वशुभयुतोमरणाय शीतरश्मिः। भृगुसुतशशिपुत्रदेवपूज्यैर्य्यदि बलिभिर्न युतोऽवलोकितोवा”। पापयुतचन्द्ररिष्टम्। “द्यूनचतुरस्रसंस्थे पापद्वयमध्यगे शशिनि जातः। विलयं प्रयाति नियतं देवैरपि रक्षितोबालः”। पापमध्यगचन्द्ररिष्टम्। “क्षीणे शशिनि विलग्ने पापैः केन्द्रेषु मृत्युसंस्थैर्वा। भवति विपत्तिरवश्यं जवनाधिपतेर्मतञ्चैतत्”। क्षीणचन्द्ररिष्टम्। “नाग ८ गो १ सिद्ध २४ जाती २२ षु ५ क्ष्मा १ ब्धि ४ त्र्यश्वि २३ धृति १८ र्नखाः २०। क्ष्माग्नि २१ दिक् १० चेत्यजा द्यंशे तत्तुल्याब्दैर्विधौ व्यसुः”। मेषादीनां त्रिंशांशबिशेषस्थचन्द्ररिष्टम्। “भौमे विलग्ने शुभदैरदृष्टः षष्ठेऽष्टमे वार्कसुतेन युक्तः। सद्यः शिशुं हन्ति वदेन्मुनीन्द्रः स्मरे यमारौ न शुभेक्षितौ च”। त्रिविधभौमरिष्टम्। “कर्कटधामनि सौम्यः षष्ठाष्टमराशिगोविलग्नर्क्षात्। चन्द्रेण दृष्टमूर्त्तिर्वर्षचतुष्टयेन मारयति”। बुधरिष्टम्। “वृहस्पतिर्भौमगृहेऽष्टमस्थः सूर्य्येन्दुमौमार्कजदृष्टमूर्त्तिः। र्वर्षैस्त्रिभिर्भार्गवदृष्टिहीनोलोकान्तरं प्रापयति प्रसूतम्” वृहस्पतिरिष्टम्। “रविशशिभवने शुक्रोद्वादशरिपुरन्ध्रगोऽशुभैः सर्व्वैः। दृष्टः करोति मरणं षड्भिर्वर्षैः किमिह विचित्रम्”। शुक्ररिष्टम्। “मारयति षोडशाहात् शनैश्चरः पापवीक्षितोलग्ने। संयुक्तोमासेन वर्षाच्छुद्ध्वस्तु सारयति”। त्रिविधशनिरिष्टम्। “राहुश्चतुष्टयस्थोमरणाय वीक्षितोभवति पापैः। वर्षैर्वदन्ति दशभिः षोडशभिः केचिदाचार्य्याः। घटसिंहवृश्चिकोदयकृतस्थितिर्जीवितं हरति राहुः। पापैर्निरीक्ष्यमाणः सप्तमितैर्निश्चितं वर्षैः”। राहुरिष्टम्। “केतुर्य्यस्मिन्नृक्षेऽभ्युदितस्तस्मिन् प्रसूयते जन्तुः। रौद्रे सर्पमुहूर्त्ते प्राणैः संत्यज्यते चाशु”। केतुतिष्टम्। “लग्ने ये द्रेक्काणा निगडाहिविहङ्गमपाशधरसंज्ञाः। मरणाय सप्तवर्षे क्रूरयुताः स्वपतिदृष्टाः”। द्रेक्काणरिष्टम्। “मीनकर्कटयोरन्त्यौ वृश्चिकस्याद्यमध्यमौ। सर्पाश्चत्वार एवैते द्रेक्काणा निगडाश्च ते। तुलामध्यान्तसिंहाश्च कुम्भाद्याः पक्षिणः स्मृताः। वृषाद्यमकराद्यन्त्या द्रेक्काणाः पाशधारिणः”। लग्नाधिपजन्मपती षष्ठाष्टमरिप्फगौ प्रसवकाले। अस्तमितौ मरणकरौ राशिप्रमितैर्वदेद्वर्षैः। जन्मपतिर्जन्मराश्यधिपः। लग्नाधिपजन्माधिपरिष्टम् “सौम्याः षष्ठाष्टमगाः पापैर्वक्रोपगतैर्दृष्टाः। मासेन मृत्युदास्तेयदि न शुभैस्तत्र संदृष्टाः”। सौम्यग्रहरिष्टम्। “एकः पापोऽष्टमगः शत्रुगृही शत्रुवीक्षितोवर्षात्। मार- यति नरं प्रसूतं सुधारसोयेन पीतोऽपि”। पापग्रहरिष्टम्। “होरायाः सप्तने सौरिर्हिवुकस्थश्च भास्करः। अस्मिन् योगे तु योजातः सोऽल्पायुर्भवति प्रिये। वसुषष्ठगते जीवे समसप्तगते शनौ। द्वादशस्थोयदा भानुर्वर्षमेकं न जीवति”। “प्रतिपद्युत्तराषाढा नवम्यामेव कृत्तिका। पूर्व्वभाद्रपदाष्टम्यामेकादश्याञ्च रोहिणी। द्वादश्याञ्च यदाश्लेषा त्रयोदश्यां यदा मघा। एमिर्जातोन जीवेत यदि शक्रसमोभवेत्”। एवमन्येऽपि अल्पायुर्योगा आकरे दृश्याः। मनुना तु “अनभ्यासेन वेदानामाचारस्य तु वर्ज्जनात्। आलस्यादन्नदोषाच्च मृत्युर्विप्रान् जिघांसति” इति अन्नदोषादेरपि अल्पायुर्हेतुतोक्ता। अन्नदोषश्च अभक्ष्य भक्षणादि तच्चाभक्ष्यशब्दे उक्तम् आचारश्च आचारशब्दे वक्ष्यते।
अल्पाल्प = त्रि० अल्पप्रकारः अतिशयेन वा अल्पः अल्प + प्रकारादौ द्विरुक्तिः। अत्यन्ताल्पे पादादौ “फलं चाल्पाल्पकं तस्य धर्म्मस्यार्द्धक्षयो भवेत्” ति० त० स्मृ०।
अल्पिका = स्त्री अल्पा प्रमाणेन कन्। १ मुद्गपर्ण्ण्याम्। अल्पार्थे कन्। २ अल्पमात्रायाम्।
अल्पित = त्रि० अल्पं क्रियते स्म अल्प + कृत्यर्थे णिच्–कर्म्मणि क्त। अल्पीकृते “मृषा न चक्रेऽल्पितकल्पपादपः” नै०।
अल्पिष्ठ = त्रि० अतिशयेन अल्पः इष्ठन्। अतिशयिताल्पे।
अल्पीयम् = त्रि० अतिशयेन अल्पःईयसुन् स्त्रियां ङीप्। अति शयिताल्पे।
अल्ला = स्त्री अल्यते इत्यल् क्विप् अले भूषायै लाति गृह्णाति ला–क ४ त०। १ मातरि। अलतीति अल् पर्य्याप्तः सन् लाति सर्व्वानत्ति गृह्णाति जानाति वा ला–क। २ सर्व्वज्ञायां सर्व्वभक्षिकायां परमात्मदेवतायाम् सा च अथर्व्ववेदे अल्लाल्लेत्यादिसूक्ते प्रसिद्धा।
अव = रक्षणे, गतौ, स्पृहायां, तृप्तौ, शोभायां, श्रबणे, व्याप्तौ आलिङ्गने, प्रार्थने, प्रवेशे, सत्तायां, वृद्धौ, ग्रहणे, बधे, सामर्थ्ये, अवगमे, करणे, इच्छोत्पादने च यथायथं सक० अक० च भ्वादि० सेट् पर०। अवति आवीत्। आव। अघ्यात्। अविता। अवितः अवन्। अविषः। “अवतु वोगिरिसुता शशिभृतः प्रियतमा” उद्भ०। “अरिसमुदयादवतः” नलोदयः। “प्रविष्टीमिनमाविषुः”। य० २३, २९, तत्र तर्पणे “न मामवति सद्वीपा रत्नसूरपि मेदिनी” रघुः। रक्षणे “यदाविथ सखीयतो यदाविथ” ऋ० १, १३१, ५, “आविथ रक्षसि अन्यत्र तर्पयसि” भा० गतौ च आनो “बर्हिः सदताविता” ७, ५९, ६, “अविता आगच्छत्” भा०। भक्षणेच “प्रोथदश्वो न यवसेऽविष्यन्यदा”। ७, ३, २, “अविष्यन् भक्षयिष्यन्” “भा० तृष्वविष्यन्नतसेषु तिष्ठति” १, ४८, २, “अविष्यन् भक्षयिष्यन्” भा० एवमन्यार्थेषूदाहार्य्यम्।
अव = अव्य० अव–अच्। १ निश्चये, २ व्याप्तौ, ३ अनादरे, ४ असाकल्ये ५ आलम्बने, ६ शुद्धौ, ७ परिभवे, ८ नियोगे, ९ निम्नतायां च। अयं चादिः प्रादिश्च “अव ज्ञानावज्ञालम्बशुद्धीषदर्थव्याप्ति पराभवातियोगेषु” गण० र० ज्ञाने अवगतोऽर्थः। अवज्ञायामवजानाति। आलम्बने आलम्ब्य यष्टिं गच्छति शुद्धौ अवदातम्। ईषदर्थे अवहन्ति अल्पं हन्ति, व्याप्तौ अवकीर्ण्णः। परिभवे अवघ्नन्ति। अतियोगे अवघात इत्युदाहृतञ्च। अनादरे “अवजानासि मां यस्मात्” रघुः अवमानः। व्याप्तौ अवकाशः असत्यां व्याप्तौ न सर्व्वतः प्रवेशः इति तस्य व्याप्त्यार्थकता। अवगाहते। निश्चये अवस्यति अवसायः अवधारयति। निम्नतायाम् अवनमति अवतरति अवक्षिपति अवाचीनः इत्यादिः। असाकल्य मीषदर्थः। ब्रीहीनवहन्ति अवघातश्च वितुषीकरणार्थ एकदेशमात्रे घातः न तु सर्व्वावयवे इति असाकल्यद्योतकता पराभवे शत्रून् अवहन्ति पुराभवतीत्यर्थः नियीगे अवक्लप्तिः “एवेचानियोगे” वा० अनियोगोऽनवक्लप्तिः सि० कौ अवकल्पते। अस्य वातो लोपः वगाहः। “अवादयः क्रुष्टाद्यर्थे तृतीयया” वा० उक्तेः क्रोशार्थेऽपि अवक्रुष्टं कोकिलया अवकोकिलः।
अवकट = अव + स्वार्थे कटच्। १ अवशब्दार्थे अतिशयिताधरे ततः स्वार्थे कन् तत्रैव।
अवकम्पित = अव + कपि कर्त्तरि–क्त। १ विवलिते २ बुद्धभेदे पु०।
अवकर = पु० अव + कॄ–अप्। १ उपहतौ “स्तोमानवकरगन्महि” ता० ब्रा० “अवकर उपहतिः” भा०। २ सम्मार्ज्जन्यादिक्षिप्ते धूल्यादौ। “अवकरशोधनेन” ५, १२४, मनुव्या० कुल्लू०।
अवकर्षण = न० अव + कृष–ल्युट्। बलपूर्ब्बकाकर्षणे स्थानान्तरनयनार्थं बलेनाकर्षणे।
अवकलित = त्रि० अव + कल–क्त। १ वृष्टे २ ज्ञाते ३ गृहीते च
अवका = स्त्री अव–ग्रहणे कर्म्मणि क्वुन् क्षिपका० न इत्त्वम्। शैवाले “तदृतुं करोत्यवकामुपदधाति अवकाभिः प्रच्छादयति आपोवा वा अवकाः” शत० ब्रा० “अरत्निमात्रेऽषाढां दक्षिणेनावकासूपरिष्टाच्च” कात्या० १७, ४, २८ “अवकासु शैवालेषु कर्क०। “मण्डूकावकावेतसशाखावेणौ बद्घावकर्षति” का० १, २, १०,।
अवकाश = पु० अव + काश–घञ्। अवस्थितियोग्यतासम्पादके काले, देशे च। तत्र कालिकोऽवकाशः क्रियान्तरस्थितियो ग्यतासम्पादकः सचावसर इत्यप्युच्यते, “कृत्वावकाशे रुचि संकॢप्तम्” इति भट्टिः। द्रव्यान्तरस्थितिप्रवेशयोग्यतासम्पादको दैशिकः स चावकाश इत्येव “अवकाशं किलोदन्वानिति” रघुः।
अवकीर्ण = त्रि० अव + कॄ–क्त। १ व्याप्ते “चतुष्कपुष्पप्रकारावकीर्ण्णः कुमा०। २ चूर्ण्णिते ३ ध्वस्ते च” भावे क्त। ४ “अवकीर्णित्वे, ब्रह्मचर्य्यव्रतभङ्गे। अवकीर्णनिमित्तं तु ब्रह्महत्याव्रताचरेत्”। अङ्गि०।
अवकीर्ण्णिन् = पु० अवकीर्णमनेन इष्टा० इनि। ध्वस्तव्रते ब्रह्मचारिणोयद्व्रतमुक्तं स्त्रीसङ्गमादिवर्जनं तस्य भ्रंसेऽवकीर्णता। “अवकीर्ण्णी तु कालेन गर्द्धभेन चतुष्पथे। पाकयज्ञविधानेन नैरृतं निशि याजयेत्” अङ्गि० “कुशीलवोऽवकार्ण्णी च वृषलीपतिरेव च” मनुः। अवकीर्णिलक्षणञ्च–“कामतोरेतसः सेकं ब्रतस्थस्य द्विजन्मनः। अतिक्रमं व्रतस्याहुर्धर्म्मज्ञा ब्रह्मवादिनः “अवकीर्ण्णी भवेद्गत्वा ब्रह्मचारी तु योषितम्। गर्द्धभं षशुमालभ्य नैरृतं स विशुध्यति” या० स्मृ० स्त्रियं विनाऽपि रेतसः स्रावे ब्रतलोपः “ब्रह्मचारी चेत् स्त्रियमुपेयात् अरण्ये चतुष्पथे लौकिकेऽग्नौ रक्षोदैवतं गर्द्दभं पशुमालभेत नैरृतं वा चरुं निर्वपेत् तत्र जुहूयात् कामाय स्वाहा कामकामाय स्वाहा निरृत्यै स्वाहा रक्षोदेवताभ्यः स्वाहेति एतदेव रेतसः प्रयत्नोत्सर्गे” इति वसिष्ठोक्तेः तेन कामतोरेतस उत्सर्गेऽपि अवकीर्ण्णित्वम्। अकामतस्तु नावकार्णित्वं किन्तु प्रायश्चित्ताल्पत्वं यथोक्तं मनुना “स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रमकामतः। स्नात्वार्क मर्च्चयित्वा त्रिः पुनर्वानतृचं जपेत्”।
अवकुञ्चन = न० अव + कुञ्च ल्युट्। १ आकुञ्चने आकुञ्चनञ्च सत् स्वेवावयवानामारम्भकसंयोगेषु परस्परमवयवानामनारम्भकसंयोगोत्पादकं वस्त्राद्यवयवकौटिल्योत्पादकं च कर्म, यतो भवति सङ्कुचति पद्मं सङ्कुचति वस्त्रं सङ्कुचति चर्म्मोत प्रत्ययः, तादृशं कर्म्म” वै० सू० उ०। करणे ल्युट् “अतऊर्द्धं सर्ब्बवदनाभवन्ति उपक्रम्य” “तोदनभेदनस्तम्भन स्वप्रावकुञ्च नाङ्कुशिकाभवन्तीति” सुश्रुतोक्ते २ रोगभेदे च।
अवकीर्णिव्रतम् = अवकोर्ण्णिनो ब्रतम् प्रायश्चित्तम्। “अथातोऽवकार्ण्णिप्रायश्चित्तं व्याख्यास्यामः ब्रह्मचारी यश्चा वकीर्य्येत स चतुर्थकालमब्दं भैक्ष्यं चरेदेवं पूतो भवतीति” शातातपोक्ते “एतस्मिन्नेव संप्राप्ते वसित्वा गर्द्धभाजिनम्। तप्तवानचरेत् भैक्ष्यं स्वकर्म्म परिकीर्त्तयन्। तेभ्यो लब्धेन भैक्ष्येण वर्त्तयन्नेककालिकम्। उपस्पृशःस्त्रिसवनमेनस स विशुध्यति” मनूक्ते अवकीर्ण्णिब्रतमुपक्रम्य “तत्र प्रायश्चित्तं महाव्याहृतिभिर्जुहूयात् ओङ्कारपूर्व्विकाभिः। संवत्सरं वा नक्तं भैक्ष्यं चरेत् चतुर्थकाले मितभुग् गायत्रीं वत्सरानुगां जपेदिति” शङ्खलिखितोक्ते च “अवकीर्ण्णनिमित्तन्तु ब्रह्महत्याब्रतञ्चरेत्। खरचर्म्मवासा षण्मामासांस्तस्मान् मुच्येत किल्विषात्” अङ्गिरसोक्ते च व्रतभेदे। एतस्य विषयभेदः प्रायश्चित्तविवेकतोज्ञेयः।
अवकुटार = त्रि० अव + स्वार्थे अतिशये वा कुटारच् अत्यन्तनिम्नादौ १ अवशब्दार्थे २ वैरूप्ये न०।
अवकृष्ट = त्रि० अव + कृष–क्त। १ दूरोकृते २ अपसारिते, ३ वहिष्कारिते च। अवकृष्टं गृहावकरादेरवकर्षणमस्त्यस्य अर्श० अच्। ४ गृहावकरमार्जके दासभेदे पु०। “पणोदेयोऽवकृष्टस्य षडुत्कृष्टस्य वेतनम्। षाण्मासिकस्तथाच्छादो धान्य द्रोणस्तु मासिकः” मनुः। “अवकृष्टस्य गृहादिसंमार्जकोदकादिवाहादेः कर्म्मकरस्य कुल्लू” ०।
अवकृष्य = त्रि० अव + कृष कर्म्मणि क्यप्। १ आकषर्णीये २ दूरीकार्य्ये अव + कृष ल्यप्। ३ आकृष्येत्यर्थे अव्य०।
अवकॢप्ति = स्त्री अव + कृप–क्त रोलः। सम्भावनायाम् “अनवकॢप्त्या मर्वयोः” पा० “अनवकॢप्तिरसम्भावना” सि० कौ० “क्वेव भोक्ष्यसे अनवकॢप्तावेव” सि० कौ०।
अवकेशिन् = त्रि० अवच्युतं कं सुखं यस्मात् प्रा० ब० अवकं फलशून्यतामीशितुं शीलमस्य अवक + ईश–णिनि। १ अफले वृक्षे। अवसन्नाः केशा विद्यन्ते अस्य इनि! २ अल्पकेशयुक्ते।
अवकोकिल = त्रि० अवक्रुष्टः कीकिलया प्रा० स०। कोकिलया कुष्टे।
अवक्तव्य = त्रि० न वक्तव्यः। १ वक्तुमनर्हे अश्लीलादौ वाक्ये २ निषिद्धवचने ३ मिथ्याभूत्ते च।
अवक्त्र = त्रि० नास्ति वक्त्रं यत्र। सुश्रुतोक्ते शोणितादिनिस्मारण मुखशून्ये ब्रणादौ “अन्तःपूयेष्ववक्त्रेषु तथैवोत्सङ्गवत्स्वपि। नेत्रवर्त्मगुदाभ्यासनाड्योऽवक्त्राः सशोणिताः”।
अवक्र = त्रि० विरोधे न० त०। वक्रताविरोधिनि सारल्ययुक्ते।
अवक्रक्षिन् = त्रि० अव + कृष णिनि पृ०। अकर्षणशींले “अवक्रक्षिणं वृषभं यथा जुरम्” ऋ० ८, १, २, अवक्रक्षिणमवकर्षणशीलम्” भा०।
अवक्रन्द = त्रि० अव + क्रन्द कर्त्तरि अच्। १ नीषैः क्रन्दनशीले “क्रन्दते स्वाहाऽवक्रन्दाय स्वाहा” य० २२७। भावे घञ् नोचैः २ क्रन्दने पु०। भावे ल्युट् अवक्रन्दनमप्यत्र न०।
अवक्रम = पु० अव + क्रम–भावे घञ्। अवक्रमणे निम्नगतौ
अवक्रय = पु० अवक्रीयते प्रतिरूपदानेन स्वाघीनं क्रियतेऽनेन अव + क्री–अच्। ग्राह्यस्य प्रतिरूपत्वेन देये १ मूल्ये २ भाटके च माटकञ्च गृहवस्त्रादिवस्तुनः एतावत् उपभोगे धनं ग्राह्य मिति समयेन परायत्तीकरणम् करणेऽच्। ३ तत् साधने द्रव्ये शुक्लादिस्थाने वणिग्भिर्नृपाय देये (मासुल) ४ करे च।
अवक्रान्ति = स्त्री अव + क्रम–क्तिन्। निम्नक्रमणे अधोगमने।
अवक्रुष्ट = त्रि० अव + क्रुश–कर्म्मणि क्त। कृताक्रोशे यमुद्दिश्य क्रोशः कृतस्तस्मिन्। “अवक्रुष्टः कोकिलया” सि० कौ०।
अवक्लिन्न = त्रि० अव + क्लिद–क्त। पाकादधस्तात् १ क्लिन्ने (पचा) १ फलादौ जलादिना २ अत्यन्तार्द्रेच। पूर्ब्बं पक्वंततोऽवक्लिन्नं राज० पूर्व्वनि०। अवक्लिन्नपक्वम्।
अवक्लेद = पु० अव + क्लिद–भावे घञ्। पाकोत्तरं क्लेदे (पचा हओया) क्लेदश्च जलविशेषसंयोगेन वस्तुनो नाशजनकः अवयवसंयोगशैथिल्यसंपादको व्यापारः।
अवक्षय = पु० अव + क्षि–भावे अच्। वृद्ध्युत्तरं नाशोन्मुखायस्थायां भावविकारभेदे।
अवक्षयण = न० अव + क्षि–णिच्–भावे ल्युट्। अवक्षयसाधने व्यापारभेदे। “ब्राह्मणा उन्मुखावक्षयणमक्रत” शत० भा०।
अवक्षिप्त = त्रि० अव + क्षिप–कर्म्मणि क्त। कृतावक्षेपे वस्तुनि यस्यावक्षेपः कृतस्तस्मिन्।
अवक्षीण = त्रि० अव + क्षि–क्त। १ अवक्षयप्राप्ते विनाशोन्मुखे पदार्थे। भावे क्त। २ अवक्षये न०।
अवक्षुत = त्रि० अव + क्षु–क्त। उपरि कृतक्षुते। यस्योपरि क्षुतं कृतं तस्मिन्। “द्विषदन्नं नगर्य्यन्नं पतितान्नमवक्षुतम्” मनुः।
अवक्षेपण = अव + क्षिप–भावे ल्युट्। अधःसंयोगानुकूलेक्रियाभेदे। “मुसलमवक्षिपामीतीच्छाजनितेन प्रयत्नेन प्रयत्नवदात्मसंयोगरूपादसमवामिकारणात् हस्ते क्रिया जायते ततोऽवक्षेपणविशिष्टहस्तनोदनादसमवायिकारणात् हस्तसंयुक्तमुसलेऽप्यवक्षपणं कर्म्म युगपद्वा जायते” र्व० सू० उ० उक्तं ज्ञेयम्। “उत्क्षेपणमवक्षेपणमाकुञ्चनं प्रसारणं गमनमिति कर्म्माणि” वैसू० “उत्क्षेपर्णं तथावक्षेपणमाकुञ्चनं तथा। प्रसारणञ्च गमनं कर्म्माण्येतानि पञ्च च” भाषा०। भावे घञ्। अवक्षेपोऽप्यत्रार्थे। करणे ल्युट् ङीप्। २ बलायामोधषौ स्त्री।
अवखात = न० निम्रः खातः। गभीरगर्त्ते।
अवखाद = पु० अववज्ञातः निन्दितः खादः खाद्यम् प्रा० स०। निन्दितखाद्ये “नात्रावखादो अस्ति वः” ऋ० १, ४ वृ, ४ “अवखादः अवज्ञातः खादः जुगुप्सितहविर्विशेषः” भा०।
अवगणन = न० अव + गण–भावेल्युट्। १ अवज्ञायां २ निन्दने ३ तिरस्कारे ४ परिभवे च।
अवगणित = त्रि० अव + गण–कर्म्मणि क्त। १ अवज्ञाते २ निन्दिते च ३ तिरस्कृते ४ पराभूते च।
अवगण्ड = पु० अव + गम–ड डकारस्य नेत्त्वम्। गण्डस्थव्रणभेदे गण्डोपरिजाते रोगभेदे (गरगण्ड)।
अवगत = त्रि० अव + गम–क्त। १ निम्रगते, २ ज्ञाते च। “तस्मान्नावगतब्रह्मात्मभावस्य यथापूर्ब्धं संसारित्वं यस्य तु यथापूर्ब्बं संसारित्वं नासावगतब्रह्मात्मभाव” इति शा० भा०।
अवगति = स्त्री अव + गम–मावे क्तिन्। १ ज्ञाने २ निश्चयात्मकज्ञाने च “अवगतिपर्य्यन्तं ज्ञानं सन्प्रत्ययवाच्यायाइच्छायाः कर्म्म फलविषत्वादिच्छायाः ज्ञानेन हि प्रमाणेनावगन्तुमिष्टं ब्रह्म” “ब्रह्मावगतिर्हि पुरुषार्थः” ब्रह्मावगतिस्त्व प्रतिज्ञातेति” च शा० भा०।
अवगथ = पु० अव + गा–कर्त्तरि थ नि० ह्रस्वः। प्रातःस्नाते उज्ज्व०।
अवगदित = त्रि० अव + गद–कर्म्मणिक्त। १ अपवादयुक्ते २ निन्दिते।
अवगम = पु० अव + गम–भावे घञ्। १ ज्ञाने २ निश्चयात्मकज्ञाने “प्रत्यक्षावगमं धर्म्म्यं सुसुखं कर्त्तुमव्ययम्” गीता।
अवगाढ = त्रि० अव + गाह–क्त। १ निविडे, २ अन्तःप्रविष्टे, ३ निमग्ने। यस्मिन् अवगाढः कृतस्तस्मिन् ४ जलादौ ५ विषयभूते पदार्थे च। यथा षटज्ञानेन घटत्वविशिष्टघठस्तत्संसर्गश्च अवगाढः। अस्य वा अतोलोपे वगाढोऽप्युक्तार्थेषु
अवगाह = पु० अव + गाह–घञ्। १ स्नाने, २ अलःप्रवेशे ३ ज्ञानेन विगयीकरणे च।। आधारे घञ्। ४ स्नानस्थाने। वा अल्लोपे वगाहोप्यत्रार्थे। ल्युटि। अवगाहनमप्यत्र न०।
अवगाह्य = त्रि० अव + गाह–कर्म्मणि ण्यत्। १ अवगाहनादि योग्ये जलादौ २ अन्तःप्रवेश्ये ३ विषयीकार्य्ये च। अव + गाह–ल्यप्। ४ अवगाहनं कृत्वेत्यर्थे अव्य०।
अवगीत = त्रि० अव + गै–क्त। २ निर्व्वादे जनापवादे २ दुष्टे ३ गर्हिते ३ मुहूर्दृष्टे मेदि० भावे क्त। ४ निन्दायाम् ४ लोकापवादे च न०।
अवगुण = पु० अव + गुण–क। दोषे। “परावगुणम् अन्य दोषमिति किरा० १३। ४८। श्लोकव्या० मल्लि०।
अवगुण्ठन = न० अव + गुण्ठ–ल्युट्। योषितां २ शिरःप्रावरण क्रियायाम्। करणे ल्युट्। २ मुखाद्यच्छादने वस्त्रे। “अव- गुण्ठनसंवीता कुलजाभिसरेद्यदि” सा० द० “चण्डालस्तिमिरावगुण्ठनपटक्षेपं विधत्ते विधुः” सा० द०। स्रस्तावगुण्ठपटक्षणललक्ष्यमाणः “माघः। ३ आच्छादनमात्रे च हुमित्यवगुण्ठनं कृत्येति” तन्त्रम्।
अवगुण्ठनमुद्रा = स्त्री अवगुण्ठनाय मुद्रा। “सव्यहस्तकृता मुष्टिर्दीर्घाधोमुस्वतर्जनी। अवकुण्ठनमुद्रेयमभिती भ्रमिता मता” तन्त्रसारोक्ते मुद्राभेदे।
अवगुण्ठिका = स्त्री अवगुण्ठयति आवृणोति अव + गुण्ठण्वुल् स्त्रीत्वात् टापि अत इत्त्वम्। स्त्रीणां १ मुखावरणशाट्याम्, २ जवनिकायाञ्च। अव–गुण्ठ–धात्वर्थे ण्वुल्। ३ अवगुण्ठनक्रियायाम्।
अवगुण्ठित = त्रि० अव + गुण्ठ–क्त। १ कृतावगुण्ठने आवृते “रजनीतिमिरावगुण्ठिते” कुमा०। ३ चूर्णिते च
अवगुम्फित = त्रि० अव + गुन्फ–कर्मणि क्त। ग्रथिते।
अवगूर्य्य = अव्य० अव + गुरी–उद्यमे ल्यप्। बधार्थं दण्डमुद्यम्येत्यर्थे “अवगूर्य्य चरेत् कृच्छ्रमतिकृच्छ्रं निपातने” मनुः।
अवगृह्य = न० अव + ग्रह–क्यप्। व्याकरणसिद्धे प्रगृह्यसंज्ञके पदे। पाणिनीये प्रगृह्यमिति संज्ञा प्रातिशाख्येतु अवगृह्यमिति संज्ञा। यस्यावग्रहः विशेषेण ग्रहः विच्छेद वत्त्वेन भवति न सन्धिकार्य्यं तत् पदं प्रगृह्यमवगृहमिति च भण्यते। यथा हरी एतौ इत्यादि।
अवगोरण = न० अव + गुर–उद्यमे ल्युट्। बधायास्त्राद्युद्यमे। दण्डनिपातनप्रायश्चित्तेन नान्तरीकतया प्रसङ्गेन अवगोर णनिमित्तप्रायश्चित्तस्य सिद्धिः” प्रा० वि०।
अवग्र(ग्रा)ह = पु० अव + ग्रह–घ १ घञ् वा। १ वृष्टिजलप्रतिबन्धे “वृष्टिर्भवति शश्यानामवग्रहविशोषिणाम्” “रावणावग्रहक्लान्तमिति वागमृतेन सः”। नभोनभस्ययोर्वृष्टिमवग्रहैवान्तरे” इति च रघुः २ अनावृष्टौ च “वृषव सीतां तदवग्रह क्षताम्” कुमा०। ३ निग्रहे “स्वयं विधाता सुरदैत्यरक्षसामनुग्रहावग्रहयोर्यदृच्छया” माघः। व्याकरणोक्तेर्सन्धिराहित्यरूपे ४ विच्छेदे “इन्द्र्योसि विशौजाः य० १०, २८ मन्त्रे विडौजा इति प्राप्ते विशौजाश्छान्दन्द्रसमतएव पद कारो नावग्रहं चकार” वेददी०। ५ प्रतिबन्धमात्रे “अवश्यभव्येष्वनवग्रहग्रहा यथा दिशा धावति वेघसः स्पृहा” नै०। ६ गजसमूहे हारा० ७ गजललाटे मेदि०। ८ स्वभावे त्रिका० अवग्राहस्तु ९ शापे।
अवग्रहण = न० अव + ग्रह–भावे ल्युट्। १ प्रतिरोधे २ अनादरे मेदि० ३ ज्ञाने च।
अवघट्ट = पु० अव + घट्ट–आधारे घञ्। भूमिरन्ध्रे १ छिद्रे त्रिका० करणे घञ्। २ घरट्टे (या~ता) पेषणयन्त्रमेदे। भावे घञ्। ३ चालने घट्टनाक्रियायाम् भावे ल्युट्। अवघट्टनं तत्रैवार्थे न०। “प्रदेशस्य बहुशोऽवघट्टनादयोहि व्यधा” सुश्रुतः। युच्। तत्रैवार्थे स्त्री।
अवघट्टित = त्रि० अव + घट्ट–कर्म्मणि क्त। चालिते।
अवघर्षण = न० अव + घृष–ल्युट्। अधःस्थापयित्वा १ घर्षणे सर्व तो २ घर्षणे “दुर्न्यासात् व्रणवर्त्मावघर्षणम्” सुश्रुतः ३ मार्जने च मलावधर्षणम् पात्रावघर्षणम्” सलिलैः शुद्धिरेतेषां गोबालैश्चावघर्षणात्” या० स्मृ०।
अवघात = पु० अव + हन–घञ्। १ अवहनने तण्डुलादेर्वितुषी करणव्यापारे। अवघातश्च व्रीहिसंस्कारार्थः व्यापारभेदः तदकरणे यज्ञासिद्धिः “व्रीहीन् प्रोक्षति व्रीहीनवहन्ति” इत्यादौ प्रोक्षणादिजन्यः। कालान्तरभाव्यवघातजनको व्या पारो व्रीहिनिष्ठः कल्प्यते प्रोक्षिता ब्रीहय एवावघाताय कल्पन्ते” कुसु० तथाचावघातजन्यः संस्कारः व्रीहिनि ष्ठ इति मीमांसकाः। नैयायिकास्तु “संस्कारः पुंस एवेष्टः प्रोक्षणाभ्युक्षणादिषु” कुसु० उक्तेः पुरुषएव संस्का रोऽदृष्टविमेषो जन्यत इत्याहुः अवघातश्च धर्मिणि सत्येव तदीयवितुषीकरणरूपपरिस्काररूपः २ हननमात्रे ३ ताडनमात्रे च “कर्णावघातैरपि ताड्यमाना दूरीकृताकरिवरेण” “अघरे दत्तदन्तावघाते” सा० द०।
अवघातिन् = त्रि० तव + हन–णिनि। अवघातके स्त्रियां ङीप्।
अवघुष्ट = त्रि० अव + घुष–क्त। घोषणया प्रचारिते।
अवघूर्ण्णन = न० अव + घूर्ण्ण–भ्रमणे भावे ल्यु। सर्ब्धतोभ्रमणे।
अवघोटित = अव + घुट–परिवर्त्तोक्त। सर्व्वतोवेष्टिते समन्तात् परिवृते। सह “शिविकया प्रायादवषोटितया स्वनगरमनुप्राप्य” भा० व० प०।
अवघोषण = न० अव + घुष–भावे ल्युट्। सर्व्वजनज्ञानायोच्चैर्घोषणे युच्। अवघोषणाप्यत्र स्त्री
अवघ्राण = न० अव + घ्रा–भावे ल्युट्। आघ्राणे “पिण्डपितृयज्ञवद्दानप्रभृति प्रागवघ्राणात्” का० २०५११ “अपघ्राणमितरेषु” का २२, १०, ४। इदञ्च भोजनानुकल्पतया शिष्टै रुक्तम्। अतएव श्राड्वशेषभोजनस्यावश्यकतया उपवासदिने तदवघ्राणमात्रम् विहितम् “आघ्राय पितृमेवित मिति” स्मृतेस्तथाचरणम्।
अवचक्षण = त्रि० अव + चक्ष–ल्यु। निन्दिताख्यानकर्त्तरि “कुत्साभीक्ष्णायोरर्थे एतस्य तिङःपरत्वे अनुदात्तत्वम्।
अवचन = म० न वचनं कुत्सायां न० त० १ निन्दायाम्। अभावे न० त०। २ कथनाभावे “प्रकृतौचावचनात्” कात्या० २०, ७, २१, “अवचनेऽग्निष्टोमः”। कात्या० २२, १, २। न० ब०। ३ वचनशून्ये त्रि० “शकुन्तला साध्वमादवचना तिष्ठति”। शकु०।
अवचनीय = त्रि० वक्तुमनर्हः वच–अर्हार्थे अनीयर् न० त०। १ वक्तुमनर्हे अश्लीलादौ शब्दे “वादेष्वचनीयेषु तदेव द्विगुणं भवेत्” सनुः १ वचनीयं निन्द्यम् न० त०। २ निन्द्यभिन्ने त्रि०।
अवचय = पु० अव + चि–अच्। पुष्पफलाद्यादाने। “ततः प्रविशतः कुसुमावचयमभिनयन्त्यौ सख्यौ” शकु०।
अवचाय = पु० अव + चि “हस्तादाने चेरस्तेये” पा० अचोवाधको घज्। हस्तेन पुष्पफलाद्यादाने। “अविरतकुसुमावचायखेदा” माघः। अव + चि–णमुल् अवचायम्। अभीक्ष्णमवचित्येत्यर्थे अव्य०।
अवचारण = त्रि० अव + चर–णिच्–ल्युट्। १ प्रचारणेसुश्रुतोक्ते २ क्षारपाकविधौ च “विशेषक्रियावचारणाच्च” “क्षेत्राणि ग्रहणं जातीः पोषणं सावचारणम्” शुक्रदोषक्षयकरं यथास्वमवचारणम्” सुश्रुतः।
अवचूड(ल) = पु० अवनता चूडाग्रं यस्य वा डोलः। १ ध्वजाधोबद्धे वस्त्रे। “पिच्छावचूडकलनामिवोरः” “पिच्छावचुडमनुमाधवधाम जग्मुः” इति च माघः “अस्योच्चूडावचूडाख्यौ मूर्द्धाधोमुखचूडयोरिति” हला० उक्तेः २ ध्वजाषोमुखाङ्गे चामरादौ च।
अवचूर्ण्णन = न० सुश्रुतोक्ते १ व्रणरोगभेदे। “तत्र ब्रणस्य षष्टिरुपक्रमा भवन्ति” इत्युपक्रम्य “सर्पिस्तैलं रसक्रियावचूर्ण्णन व्रणधूपनम्” इत्युक्त्वा “तेषु कषायो वर्त्तिः कल्कः सर्पिस्तैलं रसक्रियावचूर्ण्णनमिति शोधनरोपणानीति”। अव + चूर्ण्ण–भावे ल्युट्। २ पेषणे। चूर्ण्णैरध्वंसते अवचूर्ण्ण यति अव + चूर्ण्ण + अवध्वंसार्थे णिच्–भावे ल्युट्। ३ चूर्ण्णनेनावध्वंसे।
अवचूर्ण्णित = त्रि० अव + चूर्ण्ण–पेषे कर्म्मणि क्त। १ पिष्टे। अवचूर्ण्णयतेर्नामधातोः क्त। २ चूर्ण्णनेनावध्वस्ते।
अवचूल = न० अवचूडवत् विग्रहः। ध्वजाधःस्थे १ चामरादौ ध्वजाद्यङ्गे “दिवसकरवारणस्यावचूलचामरकलाप इव” काद०।
अवचूलक = न० अवचूलमिव इवार्थे कन् संज्ञायां वा कन्। चामरे त्रिका०।
अवच्छिन्न = त्रि० अव + छिद–क्त। अवच्छेदः विशेषणोपाघिना विशेषकरणम्। उपाध्यादिना विशेषिते अवच्छेदकतानिरूपिते च “प्रतियोग्यसमानाधिकरणयत्समानाधिकरणात्यन्ताभावप्रतियोगिताच्छेदकावच्छिन्नं यन्न भवतीति” चिन्तामणिः। अवच्छेदकता हि स्वरूपसम्बन्धविशेषः अनतिरिक्तवृत्तित्वं वा तन्निरूपितत्वमवच्छिन्नत्वं यथा दण्डादीनां घटकारणतावच्छेदकं दण्डत्वादिकं तस्य तदतिरिक्तदेशेऽवृत्तित्वात् एवं घटादीनामत्यन्ताभावप्रतियोगितायाः तदतिरिक्तदेशेऽवृत्तित्वात् घटत्वादिकमवच्छेदकम् अतः प्रतियोगितायां घटाद्यवच्छिन्नत्वम्। परिमाणादौ च अवच्छिन्नत्वमियत्ताकरणम् यथा द्रोणावच्छिन्नोब्रीहिः द्रीणपरिमाणेन कृतपरिच्छेदोव्रीहिरित्यर्थः। सीमाकरणमप्यवच्छेदः। गृहावच्छिन्न आकाशः गृहाकाशः कर्ण्णशष्कुल्यवच्छिन्नं आकाशः श्रोत्रमित्यादि। एवमन्तःकरणावच्छिन्नं चैतन्यं जीव इति वेदान्तिनः।
अवच्छिन्नवाद = पु० अवच्छिन्नतया अन्तःकरणावच्छिन्नतया जीवस्य वादोव्यवस्थापनम्। वेदान्तिमतप्रसिद्धे चैतन्यस्य अन्तः करणावच्छिद्वतया व्यवस्थापके मतभेदे। तथाहि तेषां मतद्वैधम् केचित् अन्तःकरणे प्रतिविम्बितं चैतन्यं जीव इति प्रतिपेदिरे केचिच्च तदवच्छिन्नं चैतन्यंजीव इति। तत्र नीरूपस्य चैतन्यस्यान्तःकरणे प्रतिविम्बासम्भवेन प्रतिविम्बस्य च मिथ्यात्वेन जीवस्य सत्यत्वानुपपत्तेः बन्धमोक्षयोः सामानाधिकरण्याभावापत्तेः प्रतिविम्बवादं दूषयित्वाऽवच्छिन्नवादं समर्थयाञ्चक्रिरे। तथा च नैयायिकादीनामेकस्यापि नभसः कर्ण्णशष्कुल्यादिभेदेन उपाधिकृतं नानात्वं न वस्तुकृतमेवमेकस्यापि चैतन्यस्यान्तःकरणोपाधिभेदेनावच्छिन्नतया नानात्वं तेन “तद्गुणसारत्वात्” शा० सू० “घटसंवृतआकाशे नीयमाने यथा घटे। घटोनीयेत नाकाशस्तद्वंज्जीवोनभोपम” इत्युक्तेश्च जीवस्य न स्वत इहलोकपरलोकगामित्वमपि तु बुद्धिरूपाषिभेदन तथाव्यवहारः अतो न बन्धमोक्षव्यवस्थानुपपत्तिः यन्निन्नुपाधौ अज्ञानाधीना संसारप्रवृत्तिस्तस्य जीवभावात्मकतया बन्धः, यत्र च तन्निवृत्तिः न तत्र तथा, किन्तुमोक्षः। विस्तरस्त्वाकरे।
अवच्छुरित = न०। अव + छुर–भावे क्त। १ अट्टहासेस्वार्थे कन् तत्रैव। कर्म्मणि क्त। २ मिश्रिते त्रि०।
अवच्छेद = पु० अव + छिद–भावे घञ्। १ छेदने २ सीमाकरणे ३ विशेषकरणे ४ अवधारणे “शब्दार्थानामवच्छेदे विशेषस्मृति हेतवः” वाक्य प० ५ इयत्ताकरणे ६ व्याप्तौ च। अवच्छिद्यतेऽनेन करणे घञ्। इयत्ताकरणसाधने ७ एकदेशे अवयवादौ। यः कश्चित् पदार्थः कस्मिंचिदाधारे एकदेशे तिष्ठति तत्रैव प्रदेशान्तरे चेन्न तिष्ठतीति स अव्याप्यवृत्तिः तस्याव्याप्यवृत्तिताया निरूपकोऽवयवादिः। यथा वृक्षे अग्रदेशे कपिसंवोगः मूलदेशे तदभावः अतः कपिसंयोगः अव्याप्यवृत्तिः तादृशाव्याप्यवृत्तिताया नियामकश्च मूलादिप्रदेशः तत्रावच्छेदशब्देनाभिधीयते। तादृशावच्छेदश्च द्विविधः देशः कालश्च। तत्र देशसत्त्वे काल विशेषे तदभावात् कालएव तत्राव्याप्यवृत्तितायानियामकः। यथा आत्मनि जाग्रदादौ ज्ञानं सुषुप्तौ तदभावः। देशरूपस्तूक्तः। अवच्छेदावच्छेदेन साध्यसिद्ध्वौ सामानाधिरण्यसिद्धिः प्रतिबन्धिका इति शिरोमणिः। अवच्छेदाः यावन्तः साध्यसिद्धौ प्रदेशास्तावतामेवावच्छेदेन साध्यसम्बन्धव्यापकत्वेनेति तदर्थः।
अवच्छेदक = त्रि० अवच्छिन्नति अव + छिद–ण्वुल्। १ छेदके २ इयत्ताकारके ३ सीमाकारके ४ अवधारके ५ अव्याप्यवृत्ति तानिरूपके च। अवच्छिन्नशब्दे विवृतिः। “प्रतियोगितावच्छेदकावच्छिन्नमिति” चिन्तामणिः। अबच्छेदकत्वं च अवदके इव तदवच्छेदकेऽपि स्वीक्रियते यथा वह्निमान् पर्व्वत इति बुद्धौ वह्न्यभाववान् पर्ब्धत इति निश्चयःप्रतिबन्धकः तत्र प्रतिबन्धकतावच्छेदकं निश्चयत्वमिव तत्तद्विषयताऽपि तत्रावच्छेदिका तथा च बह्नित्वावच्छिन्नप्रकारतानिरूपितपर्व्वतत्वावच्छिन्नविशेष्यताशालिज्ञानत्वावच्छिन्नं प्रति वह्नित्वावच्छिन्नप्रकारतानिरूपिताभावत्वावच्छिविशेष्यतासमानाधिकरणप्रकारतानिरूपितपर्वतत्वावच्छिन्नविशेष्यताशालिनिश्चयत्वेन प्रतिबन्धकत्वे निश्चयत्वस्येव तत्तद्विषयताया अपि तत्प्रतिबन्धकतावच्छेदकत्वं तथा तादृशज्ञानत्वस्येव तत्तद्विषयताया अपि प्रतिबध्यतावच्छेदकत्वम्। इयांस्तुभेदः अनुल्लेख्यमानजातेः स्वरूपतोऽवच्छेदकत्वं न तदवच्छेदकताया अवच्छेदकमस्ति तेन घटवद्भूतलमिति बुद्धौ घटत्वनिष्ठप्रकारतावच्छेदकताया नान्यदवच्छेदकम् तथाच यथा घटनिष्ठप्रकारताया अवच्छेदकम् घटत्वम् एवं घटत्वनिष्ठप्रका रतायानान्यदवच्छेदकमतस्तस्य निरच्छिन्नावच्छेदकता अनुल्लिख्यमानेत्युक्तेरुल्लिख्यमानजातेर्नस्वरूपतोऽवच्छेदकत्वं तेन घटत्ववत्त्वान् देश इत्यादौ घटत्वप्रकारताया अवच्छेदकमस्तीति। अत्राप्ययंविशेषः धर्म्म्यंशे भाममानधर्म्मः विशेष्यतावच्छेदकः प्रकारांशे भासमानः प्रकारताच्छेदकएवं सर्व्वत्र। किन्तु प्रतियोग्यंशे भासमानधर्म्मस्य न प्रतियोगितावच्छेदकत्वमपि तु अतिप्रसङ्गाद्यनापादकस्यैव घर्मस्य तथात्वं यथा कम्बुग्रीवादिमान्नास्ति इत्याद्यभावबुद्धौ घटत्वस्यैव प्रतियोगितावच्छेदकत्वम् “सम्भवति लघौ धर्म्मे गुरो तदभावात्” दीधित्युक्तेः शक्यतावच्छेदकत्वं विषयतावच्छेदकत्ववत् गुरुधमस्यापि स्वीकृतमाकरे।
अवच्छेदकत्वनिरुक्ति = स्त्री रघुनाथशिरोमणिकृते अवच्छेदकतापदार्थनिर्ण्णायके अनुमानखण्डान्तर्गते ग्रन्थभेदे।
अवच्छेद्य = त्रि० अव + छिद–ण्यत्। १ छेदनार्हे २ अवधार्य्ये विशेषणीये ३ अवच्छेदार्हे च पदार्थे यथा दण्डत्वेनावच्छेद्या घटादिकारणता घटत्वेनावच्छेद्या घटप्रतियोगिता।
***