अर्जुन = पु० अर्ज्ज–उनन्। स्वनामख्याते १ वृक्षे, “सोऽङ्गणान्निःसृतः कृष्णः कर्षमाण ऊदूखलम्। यमलाभ्यां प्रवृत्ताभ्यामर्ज्जुनाभ्यां निवारितः। मध्यान्निश्चक्राम तयोः शिशुः कर्षन्नुदूखलम्। तत्तस्य कर्षतो बद्धं तिर्य्यग्गतमुदूखलम्। लग्नं ताभ्यां समूलाभ्यामर्ज्जुनाभ्याञ्चकर्ष सः। तावर्ज्जुनौ कृष्यमाणौ तेन बालेन वक्षसा। समूलविटपौ भग्नौ स च मध्ये जहास वै” इति हरिवं०। “कदम्बंसर्जार्जुननीपकेतकी” ऋतु०। २ मध्यमपाण्डवे शुद्धचरितत्वान्मध्यमपाण्डवस्यार्ज्जुनत्वम्। “पृथिव्यां चतुरन्तायां वर्ण्णीमे दुर्लभः समः। करोमि कर्म्म शुद्धञ्च तेन मामर्ज्जुनं विदुः” भा० वि० प० उत्तरं प्रति तस्य स्वनामव्युत्पत्तिकथनम्। स च पाण्डोः क्षेत्रे कुन्त्यां शक्रेण जनितः “एवमुक्ता ततः शक्रमाजुहाव यशस्विनी अथाजगाम देवेन्द्रो जनयामास चार्जुनम्। जातमात्रे कुमारे तु वागुवाचाशरीरिणी। महागम्भीरनिर्घोषा नभोनादयतीव ह। शृण्वतां सर्व्वभूतानां तेषां चाश्रमवासिनाम्। कुन्तीमाभाष्य विस्पष्टमुवाचेदं शुचिस्सिताम्। कार्त्तवीर्य्य समः कुन्ति! शिवतुल्यपराक्रमः। एष शक्र इवाजय्यो यशस्ते प्रथयिष्यति। अदित्या विष्णुना प्रीतिर्य्यथाऽभूदभिवर्द्धिता। तथाविष्णुसमः प्रीतिं वर्धयिष्यति तेऽर्जुनः”। भा० आ० प०। “पार्थः कर्ण्णबधाय मार्गणगणान् यानर्ज्जुनः संदघे” लीला० ३ हैहयाधिपे कार्त्तवीर्य्ये “एतस्सिन्नेव काले तु कृतवीर्य्यसुतोबली। अर्ज्जुनो नाम तेजस्वी क्षत्रियो हैहयाधिपः। दत्तात्रेयप्रसादेन राजा बाहुसहस्रवान्। चक्रवर्त्ती महातेजा विप्राणामाश्वमेधिके। ददौ स पृथिवां सप्तद्वीपां सवनपर्व्वताम्”। हरिवं० ४ करवीरे, ५ मयूरे, “तृणाख्यायामित्युक्तेः” ६ तृणे ७ धवले। ८ शुभ्रतागुणवति त्रि०। “अहश्च कृष्णमहरर्ज्जुनं च” ऋ० ६, ९, १, “अर्ज्जुनं सौरेण तेजसा शुक्लवर्णम् भा०। “कृष्णा रूपाण्यर्ज्जुना वि वो मदे विश्वा” ऋ० १०, २१, ३ “हे अग्ने! त्वं कृष्णा कृष्णान्यर्ज्जुना अर्ज्जुनानि श्वेतवर्णानि” भा० “पिशङ्गमौञ्जीयुजमर्ज्जुनच्छविम्” माघः। (आजनि) इति ख्याते ९ नेत्ररोगभेदे” “एकोयः शशरुधिरोपमस्तु विन्दुः शुक्रस्थो भवतितदर्ज्जुनं वदन्ति” माधवः। एफस्यामातुरेकस्मिन् १० पुत्रे मेदि० ११ इन्द्रे “अर्ज्जुनोवै इन्द्रोयदस्य गुह्यं नाम” शत० व्रा०। अर्जुनस्यापत्यम् इञ्। आर्जुनिः आभिमन्यौ।

अर्जुनध्वज = पुं न० ६ त०। हनूमति। विवरणं कपिध्वजशब्दे।

अर्जुनपाकी = स्त्री अर्जुनः श्वेतः पाकः फलादिः यस्याः ङीप्। श्वेतपाक्यां लताभेदे हरितक्यादित्वात् फले जातस्याणोलुप् लुपि प्रकृतिव्यक्तिवचने। अर्जुनपाकी तत्फले स्त्री।

अर्ज्जुनी = स्त्री गौरा० ङीष्। १ ऊषायां, २ वाहुदायां, नद्याम् ३ स्त्रियां गवि, ४ कुट्टिन्थाञ्च।

अर्ज्जुनोपम = पु० अर्ज्जुनः स्वनामख्यातः वृक्ष उपमा यस्य। (सेगुन) इति ख्याते १ शाकद्रुमे, २ महापत्राख्यवृक्षे च।

अर्ण = पु० ऋ–न। अकारादौ १ वर्ण्णे “पञ्चार्ण्णोमनुरीरितः” तन्त्रम्। २ गमनस्वभावे त्रि०। “ऋणोरपो अनवद्यार्ण्णाः” ऋ० १, १७४, २ “अर्ण्णाः अरणस्वभावा” भा० “त्यं चिर्दणं मधुपः” ऋ० ५, ३२, ८ “अर्णं गन्तारम्” भा०। ३ जले म० “अग्ने! दिवो अर्णमच्छा” ऋ० ३, २२, ३। “अणमम्भः” भा०। अर्णं जलमस्त्यस्यअर्श० अच्। ४ नद्याम् स्त्री। “वैर्धान्तामभिषाता अर्ण्णाः” ऋ० ५, ४१, १४। “अर्ण्णाःनद्यः, भा०। अभि + अर्द्द–क्त इडभावादि। अभ्यर्ण्णम्। नि + न्थर्ण्णम् वि + व्यर्ण्णम् सम् + समर्ण्णम् अभ्यासादौ न० तद्वर्त्तिनि त्रि०। “कालोऽभ्यर्ण्णजलागमः” इति सा० द०। “कृष्णार्णवाभ्यर्णचरैकहंसः” माघः।

अर्ण्णव = पु० अर्णा~सि सन्त्यस्मिन् अर्णस् + व सलोपः। १ समुद्रे। “यादोरत्नैरिवार्ण्णवः” रघुः “कृष्णार्ण्ण वाभ्यर्णचरैकहंसः” माघः २ उदकयुक्ते त्रि० “ततः समुद्रादर्णवात्” सन्ध्यामन्त्रः “तिरः समुद्रमर्णवम्” ऋ० १, १९, ७। “अर्णवमुदक- युक्तम्” भा०। अर्णांसि दातृवेनास्त्यस्य मतुप् सलोपः। जलदातरि ३ सूर्य्ये ४ इन्द्रे च “आदित्याज्जायते वृष्टिः” गीतोक्तेः सूर्य्यस्य पर्जन्याघिपत्वाच्च शक्रस्य जलदातृत्वात्तथात्वम्। “सभानुरर्ण्णवो नृचक्षाः” ऋ० ३, ५१, २ “शतक्रतुमर्ण्णवं शाकियं नरम्” ३, ३, ५, १, २, अर्ण्णवं पर्ज्जन्यात्मनोदकवन्तम्” भा०। ५ सजले च। “अजएकपादनमितुरर्ण्णवम्” ऋ० १०, ६६, ११। “ब्रह्मलोके, एतादेवताः सृष्टा अस्मिन्महत्यर्ण्णवे” ऐ० ब्रा०। अस्य समुद्रावाचित्वेन क्षीरार्णवः जलार्णवः लवणार्ण्णवः इत्यादौ आधारतामात्रबोधः।

अर्ण्णवज = पु० अर्ण्णवात् जायते जन–ड ५ त०। १ समुद्रफेने रत्नमा०। २ समुद्रजातमात्रे त्रि०। अर्ण्णवजातादयोऽप्यत्र।

अर्णवमन्दिर = पु० अर्ण्णवः मन्दिरमिव यस्य। वरुणे

अर्ण्णवोद्भव = पु० उद्भवत्यस्मात् उद + भू–अपादाने अप् अर्ण्णव उद्भवोऽस्य। १ अग्निजारवृक्षे २ चन्द्रे च ३ अमृते न०। ४ श्रियां स्त्री।

अर्णस् = न० ऋच्छति ऋ–असुन् उदके नुट् चेति, नुट्। जले। “सवर्ण्णमर्ण्णः कथमन्यथास्य” माघः। “सिन्धुर्नपिप्येऽर्ण्णसा” ऋ० ९, १०७, १२।

अर्णस = पु० अर्ण्णोऽस्त्यस्य अर्श० अच्। १ समुद्रे २ जलवति त्रि०।

अर्णस्वत् = यु० अर्ण्णांसि सन्त्यस्मिन् मतुप् मस्य वः १ समुद्रे २ जलवति त्रि०।

अर्ण्णोद = पु० अर्णांसि ददाति दा–क। १ मेघे २ मुस्तके त्त जलदातरि त्रि०।

अर्ण्णोभव = पु० अर्णसि जले भवति भू–अच् ७ त०। १ शङ्खे २ जलोद्भवमात्रे त्रि०।

अ(आ)र्त्तगल = पु० आर्त्तैव गलति गल–अच् पृषो० वा ह्रखः। नीलझिण्टिकायाम्। ह्रस्वाभावे आर्त्तगलश्च।

अर्त्तन = न० ऋत–ल्युट् पक्षे इयङभावः। निन्दायाम्।

अर्त्ति = स्त्री अर्द्द–क्तिन्। १ पीडायाम्। करणेक्तिन्। २ धनुष्कोट्याम्। “नान्नं वाञ्छति नो निद्रामुपैत्यर्त्तिनिपीडितः” सुश्रुतः।

अर्त्तिका = स्त्री। ऋत–ण्वुल्। नाट्योक्तौ ज्येष्ठभगिन्याम्।

अर्त्तुक = त्रि० ऋत–बा० उकञ्। स्पर्द्धके। “समद्वैनान्विन्दत्यर्त्युकाह भवत्न्यपि हतर्मधं समद्विन्दति” शत० ब्रा०।

अर्थ = याचने अद० चु० आत्म० द्विक० सेट्। अर्थयते आर्त्तिथत। अर्थयामास। अर्थकः अर्थी अर्थितः अर्थ्यः अर्थनीयः अर्थयितुम् अर्थनम् अर्थना। अर्थयित्वा अर्थयिता “सुराः सपभ्यर्य्ययितार एते” कुमा०। “अवकाशं किलो- दन्यान् रामायाभ्यर्थितो ददौ” रघुः “अग्लोपित्वं स्थानिवत्त्वं चादन्तस्य प्रयोजनम् यत्र त्वेते न विद्येते तत्राग्लोपविकल्पनम्। तद्बलादन्त्यदीर्घश्च पुक् चेत्यङ्कापयत्यपि” कामधेनूक्तेः पुक्–दीर्घश्च अर्थापयते। सम् + समर्थने सममर्थयते समर्थनञ्च प्रमाणेन व्यवस्थापनम्। कु पीडने कदादेशः कदर्थयते। अभि + आभिमुख्येन प्रार्थने अभ्यर्थनीयः। “अभ्यर्थनाभङ्गभयेन साधुः” कुमा०। प्रति + प्रतिकूलाचरणे प्रत्यर्थी। “प्रत्यर्थीभूतामपि तां समाधेः” कुमा०।

अर्थ = पु० अर्थ भावकर्म्मादौ ययायथम् अच्। १ अभिधेये २ शब्दशक्त्या वोध्येपदार्थे च “तददोषौ शब्दार्थावनलङ्कृती पुनः क्वापि” का० प्र० आलङ्कारिकमते स च अर्थस्त्रिविधः वाच्यो लक्ष्योव्यङ्ग्यश्चेति भेदात्। “अर्थोवाच्यश्च लक्ष्यश्च व्यङ्ग्यश्चेति त्रिधा मतः। वाच्योऽर्थोऽभिधया बोध्यो लक्ष्योलक्षणया मतः। व्यद्ध्योव्यञ्जनया ताः स्युस्तिस्रः शब्दस्य शक्तयः” सा० द०। ताश्च तत्तच्छब्दे वक्ष्यन्ते। अन्यमते “तात्पर्य्याख्यां वृत्तिमाहुः पदार्थान्वयबोधने। तात्पर्य्यार्थं तदर्थञ्च वाक्यं तद्बोधकंपरे”। इति तात्पर्य्य प्रतिपाद्योऽप्यपरः अर्थभेदः। स च अभिहितान्वयशब्दे विवृतः। ३ धने। तस्य सर्व्वैरर्थनीयत्वात्तथात्वम् “अजरामरवत् प्राज्ञोविद्यामर्थांश्च चिन्तयेत्” “अर्थस्योपार्ज्जने क्लेशस्ततोऽपि परिरक्षणे” नीति०। सचार्थस्त्रिविधः शुक्लः शवलः कृष्णश्चेति भेदात् यथा “अथ गृहाश्रमिणस्त्रिविधोऽर्थोभवति। शुक्लः शवलोऽसितश्चेति। शुक्लेनार्थेन यदैहिकं करोति तद्देवमासादयति। यच्छबलेन तन्मानुष्यम्, यत्कृष्णेन तत्तिर्य्यक्त्वम्।। स्ववृत्त्युपार्जितं सर्व्वं सर्व्वेषां शुक्लम्। अनन्तरवृत्त्युपात्तं शवलम्। अन्तरितवृत्त्युपात्तञ्च कृष्णम्। क्रमागतं प्रीतिदायम् प्राप्तञ्च सह भार्य्यया। अविशेषेण सर्व्वेषां धनं शुक्लं प्रकीर्त्तितम्।। उत्कोचशुक्लसंप्राप्तमविक्रेयस्य विक्रये। कृतोपकारादाप्तञ्च शवलं समुदाहृतम्।। पार्श्विंकद्यूतचौर्य्याप्तं प्रतिरूपकसाहसैः। व्याजेनोपार्जितं यच्च तत् कृष्णं समुदाहृतम्।। यथाविधेन द्रव्येण यत्किञ्जित् कुरुते नरः। तथाबिधमवाप्नोति स फलं प्रेत्यचेहच” विष्णु० सू०।। ४ प्रयो जने इष्टे। प्रयोजनञ्च इच्छाविषयः। तच्च गौणमुख्यभे देन द्विविधम् यत्र अन्येच्छानधीनेच्छा जायते तत् मुख्यं यथा सुखं दुःखाभावश्च तयोरिच्छाया अन्येच्छानधीनत्वात्। साक्षात् परम्परया वा तत्साधनं तु गौणं तत्र सुखदुःखाभावेच्छयैव इच्छोदयात् गौणत्वम्। प्रबोजनञ्च यद्यपि नानाविधम् तथापि शास्त्रकारैः प्राधान्येन धर्म्मार्थकाममोक्षरूपाणि चत्वार्येवाङ्गीकृतानि तत्रैव सर्व्वप्रयोजनानामन्तर्भावात्। तएव चत्वारः षुरुषार्थाः पुरुषेणेष्यमाणत्वात्। मांख्यास्त सर्गापवर्गात्मकं द्विविधं पुरुषार्थमाहुःपुरुषस्य प्रयोजनमुद्दिश्य प्रकृतेः प्रवर्त्तनात्। एवं चतुर्विधे द्विविधे वा पुरुषार्थे मतभेदेन स्थिते तेषु मध्ये मोक्षएव परमपुरुषार्थः “अथ त्रिविधदुःखात्यन्तनिवृत्तिरत्यन्तपुरुषाषार्थः” सा० सृ०। “इह खलु धर्म्मार्थकाममोक्षाख्येषु चतुर्विधपुरुषार्थेषु मोक्षएव परमपुरुषार्थं” वे० प०। दुःखात्यन्तनिवृत्तिरूपमुख्यप्रयोजनस्य अन्येच्छानधीनेच्छाविषयत्वात् प्राधान्यम्। धर्म्मार्थकामास्तु तत्साधनानि तत्रापि धर्म्मोऽर्थसाधनम् अर्थः कामस्य साधनमित्यवान्तरभेदः “ईक्ष्वाकूणां दुरापेऽर्थे तदधीनाहि सिद्धयः” रघुः। “ज्ञातार्थोज्ञासम्बन्धः श्रोतुं श्रोता प्रवर्त्तते” इत्यत्रार्थपदेनाभिधेयप्रयो जनयोर्ग्रहणम् “कस्यार्थकामौ वद पीडयामि” “अप्यर्थकामौ तस्यास्तां धर्म्म एव मनीषिणः” रघुः। ५ निमित्ते “अतोऽर्थान्न प्रमाद्यन्ति प्रमदासु विपश्चितः” मनुः अर्थाथेतोः कुल्लू० “अर्थोऽयमंर्थान्तरलभ्य एव” कुमा० “अर्थान्तरं कारणान्तरमिति” मल्लि०। निमित्तञ्च कारणनुद्देश्यञ्च तत्र निमित्तार्थेन “अर्थेन तु नित्यसमासो विशेष्यनिघ्नता चेति” वार्त्तिकोक्तेः नित्यश्चतुर्थीसमासः। द्विजार्थं पयः। द्विजार्था यवागूः। यूपार्थं दारु। भाष्यकृता तु यूपार्थं दारु इत्यादौ वहुव्रीहिरपि माधुः स्वरे विशेष इत्युक्तम् “अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः” गीता “मदर्थमपि कर्म्माणि कुर्व्वन्नाप्नोति किल्विषम्” गीता “मदर्थसन्देशमृणालमन्थरः” नैष०। “परलोकसहायार्थं सर्व्वभूतान्यपीडयन्” “तस्माद्धर्म्मं सहायार्थं” इति च मनुः। कर्म्मणि–अच्। ६ विषये शब्दादौ। “इन्द्रियाणीन्द्रियार्थेभ्यः गीता” “इन्द्रियेभ्यः पराह्यर्था ह्यर्थेभ्यश्च परं मनः” क० उ०। ७ ज्ञेयवस्तुनि “इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानं प्रत्यक्षम्” गौ० सू०। अत्रार्थः घटादिवस्तुमात्रम्। राज्ञ उपाये ८ तन्त्रावापादौ अर्थचिन्ताशब्दे उदा० ९ वस्तुस्वभावे यथार्थम्। १० निवर्त्तनीये मशकार्थोधूमः। ज्योतिषोक्ते ११ लग्नावघिद्वितीयभवने १२ प्रकारे। भावे अच् १३ अभिलाषे १४ प्रार्थ ने च कर्म्मणि यत् १५ अर्थ नीये विष्णौ पु० “अर्थोऽनर्थो महाकोपः” वि० स० “सुखरूपतया सव्वै रर्थ्यत इत्यर्थः। भा० १६ फले। अर्थाय साधुः अर्था- दनपेतो वा यत् अर्थ्यः। अर्थादनपेते अर्थसाधने च त्रि०। “अर्थ्यामर्थपतिर्वाचम” रघुः। “वागीशं वाग्भिरर्थ्याभिः” कुमा०।

अर्थकर = त्रि० अर्थं करोति कृ–हेत्वादौ ट। अर्थ हेतु कर्मकारके स्त्रियां ङीप्। अर्थकरी दण्डनीत्यादिविद्या।

अर्थकृच्छ्र = न० अर्थ विषये कृच्छ्रम्। अर्थस्य प्रयोजनस्य कृच्छ्रतायाम् कष्टसाध्यत्व एव तस्य तधात्वम्।

अर्थकृत् = त्रि० अर्थं करोति–कृ–क्विप्। अर्थकारके।

अर्थक्रम = पु० ६ त० क्रमनिर्णयाय श्रुतशब्दक्रमातिक्रमेणाश्रयणीये प्रयोजनानुसारिक्रमे यथा पाठक्रममनादृत्याग्निहोत्रसाधनतया यवागूपाकः प्राक्क्रियते अग्निहोत्ररूपप्रयोजनादेः यवागूसाध्यत्वात्तथात्वम् यथोक्तं मीमां० यत्र प्रयोजनवशेन क्रमनिर्णयः स अर्थक्रमः। यथा अग्निहोत्रं जुहोतियवागूंपचतीत्यग्निहोत्नहोमयबागूपाकयोः। यवाग्वा वहोमसाधनत्वेन तत्पाकः प्रयोजनवशेन पूर्ब्बमनुष्ठीयते। स चायं पाठक्रमाद्वलवान्। यथापाठं ह्यनुष्टाने क्रमस्य प्रयोजनबाधेऽदृष्टार्थत्वं स्यात्। नहि होमानन्तरं क्रियमाणस्य पाकस्य किञ्चिद् दृष्टं प्रयोजनमस्ति येनार्थक्रमबाधेन पाठक्र मस्तत्रादिद्रियेत”।

अर्थगत = त्रि० अर्थं गतः। १ अर्थनिष्ठे अर्थाश्रये अलङ्कारोक्ते २ दोषभेदे पु० अर्थदोषशब्दे विवरणम्। गतोऽर्थोऽस्य आहिता० वा परनि०। ३ गतार्थे त्रि०।

अर्थगौरव = न० ६ त० स्वल्पशब्दस्यापि अर्थस्य गौरवम्। “भारवेरर्थगौरवम्” उद्भटः।

अर्थघ्न = त्रि० अर्थं हन्ति ताच्छील्यादौ ट स्त्रियां ङीप्। अर्थनाशके “व्याधिता वाऽधिवेत्तव्या हिंस्रार्यघ्नी च सर्वदा” मनुः।

अर्थचिन्ता = स्त्री अर्थानां तन्त्रावापादीनां चिन्ता। राज्याङ्ग तन्त्रावापादीनां चिन्तने। “मन्त्री स्यादर्थचिन्तायामर्थास्तन्त्रावपादयः” सा० द०। अर्थचिन्तनमप्यत्र न० “मन्त्री स्वञ्चोभयञ्चापि सखा तस्यार्थचिन्तने” इति। सा० द० अन्यमतम्।

अर्थजात = न० अर्थानां जातम् ६ त०। १ अर्थ समूहे। अर्थोजातोऽस्य। २ जातधने त्रि०।

अर्थज्ञ = त्रि० अर्थं जानाति ज्ञा–क। प्रयोजनाभिज्ञे।

अर्थतम् = अव्य० अर्थ + तसिल्। १ अर्थादित्यर्थे २ अर्थानुसारणत्यर्थे ३ वस्तुस्वभावादित्यर्थे च। “अर्थतोऽप्यद्वयानन्दानतोतद्वैतभानतः” वे० सा०।

अर्थद = त्रि० अर्थान् थनानि ददाति दा–क। १ धददे धन- दानेम तोषकेऽध्याप्ये २ शिष्यभेदे पु०। “आचार्य्यपुत्र शुश्रूषुर्ज्ञानदोधार्म्मिकः शुचिः। आप्तः शक्तोऽर्थदः साधुरध्याप्या दश धर्म्मतः” इति मनुः। ३ कुवेरे पु०।

अर्थदूषण = न० अर्थानां दूषणं नाशनम्। क्रोधजव्यसनमध्ये अतिशयेनासत्कर्म्मणि विनियोगेन कष्टदायके धननाशनरूपे व्यसनभेदे। “पैशुन्यं साहसं द्रोहईर्ष्यासूयार्थ दूषणम्। वाग्दण्डजञ्च पारष्यं क्रोधजोऽपि गणोऽष्टकः इति “दण्डस्य पातनञ्चैव वाक्पारुष्यार्थ दूषणे। क्रोधजेऽपि गणे विद्यात् कष्टमेतत्त्रिकं सदेति च” मनुः। “अर्थदूषणञ्च धनानामपहारः देयानामदामञ्चेति” म० त० रघुनन्दनः।

अर्थना = स्त्री अर्थ–युच्। याचने। “अभ्यर्थना भङ्गभयेन साधुः” कु०

अर्थपति = पु० अर्थानां पतिः ६ त०। १ नृपे,। “अर्थ्यामर्थपतिर्व्वाचम्” सनैषधस्यार्थपतेः सुतायाम्” “किञ्चिद्विहस्यार्थपतिर्बभाषे”। “बलनिसूदनमर्थपतिञ्च तम्” इति च रघुः। २ कुवेरे च।

अर्थप्रकृति = स्त्री अर्थानां प्रयोजनानां प्रकृतिः कारणम्। १ प्रयोजनहेतौ। “वीजं विन्दुः पताका च प्रकरी कार्यमेव च। अर्थप्रकृतयः पञ्च ज्ञात्वा योज्या यथाविधि” सा० द० उक्ते नाटकाङ्गे २ कार्य्यंवीजरूपपञ्चके च।

अर्थप्रयोग = पु० अर्थानां धननां प्रयोगः नियोगः। ऋणदानादिवृत्तौ १ ऋणदानवाणिज्यादिरूपे धनवृद्ध्यर्थके व्यवहारे। अर्थास्तन्द्रावापादयः ६ त०। २ यथायथं तन्द्रावापादेर्विनियोगे च। “अर्थप्रयोगकुशल” इति अमात्यलक्षणम्।

अर्थप्राप्त = पु० अर्थतः वाचकशब्दाप्रयोगेऽपि तात्पर्य्यवशतः प्राप्तः। वाचकशब्दानुच्चारणेऽपि तात्पर्य्यवशात्ज्ञाते “अर्थप्राप्त एवात्मज्ञानविधेरेव यज्ञोपवीतादिपरित्यागो न विधातव्यः” वृ० उ० भा०।

अर्थबन्ध = पु० अर्थैः विषयैः शब्दादिभिर्बन्धः। १ जीवस्य शब्दादिभिः श्रोत्रसम्बन्धरूपे बन्धे २ धनकृतबन्धे च।

अर्थभावना = स्त्री अर्थनिष्ठा भावना भावयितुर्व्यापार उत्पादना। भट्टमतोक्तायामर्थनिष्ठायां यागसाधनिकायां स्वर्गाद्युत्पादनायां स्वर्गादीष्टं यागेन साधयेदित्येवंरूपायाम्। मावना च द्विधा शाब्दी आर्थी च विवरणं भावनाशब्दे।

अर्थमर्य्यादा = स्त्री अर्थस्य कारणस्य मर्य्यादा इतरसहकारेण सामग्रीसमवधानम्। सामग्रीसमवधाने, सामग्रीसमवघाने हि कार्य्योत्पत्तिरर्थप्राप्तेति तदुत्पादस्यार्थमर्य्यादाधीनत्वम्।

अर्थमात्र = न० अर्थ एव मयूर० अवधारणाद्यर्थमात्रशब्देननित्यस०। १ अवधारितेऽर्थे। “भोजनाच्छादनाभ्यधिकं स्पन्पमप्यर्थमात्रं न सम्पद्यते” इति वृ० भा०। अल्पार्थमात्रा शब्देन ६ त०। २ अल्पधनांशे स्त्री वृहत्त्वार्थे च मात्राशब्देन। ६ त०। ३ धनवाहुल्ये। कथं मयास्येयमर्थमात्राहर्त्तव्या” महती धनमात्रेत्यर्थः।

अर्थवत् = त्रि० अर्थोऽस्त्यस्य असन्निहतः मतुप् मस्यवः। १ अर्थयुक्ते २ सार्थके “अर्थवदधातुरप्रत्ययः प्रातिपदिकम्” पा०। ३ प्रयोजनयुक्ते ३ फलयुक्ते च “अपसव्य उपेतश्चे दाहिताग्न्यावृतार्थवत्। या० स्मृ० “विण्मूत्रोत्सर्गशुड्यार्थं मृदाद्यादेयमर्थवत्” मनुः ४ असन्नितधनवति त्रि०। सन्निहिते तु इनि अर्थीत्येव। स च व्यवहारे वादिनि रूढः “ततोऽर्थी लेखयेत् सद्यः प्रतिज्ञातार्थसाधनम्” या० स्मृ०। स्त्रियामुभयत्र ङीप्। ५ पुरुषे पु० राजनि०। अर्थमर्हति अर्थेन तुल्यंक्रिया, अर्थे इव वा वति। ६ अर्थार्हे ७ अर्थतुल्यक्रियायाम् ८ अर्थसदृशे आश्रये च अव्य०।

अर्थवाद = पु० अर्थस्य लक्षणया स्तुत्यर्थस्य, निन्दार्थस्य वा वादः बद–करणे घञ्। १ प्रशंसानीयगुणवाचके, २ निन्द्रनीयदोषवाचके च शब्दविशेषे। भावे घञि। ३ तत्कथने। अभिधया गौण्या वा वृत्त्या भूतमर्थं वदन् स्वाध्यायविध्यापादित प्रयोजनवत्त्वलाभाय विधिमाकाङ्क्षनर्थवादः” अर्थवादेन हि र्क्कचिद्विधिशक्तिरवसीदन्ती विध्यर्थे शीघ्रं प्रवर्त्तयितुमुत्तभ्यते। सच चतुर्विधः “स्तुतिर्निन्दा परकृतिः पुराकल्प इत्यर्थवादः” गी० सूत्रोक्तेः। तत्र स्तुतिः साक्षाद्विध्यर्थस्य प्रशंसार्थकं वाक्यं यथा “सर्व्वस्य जिता वै देवाः सर्वमजयन् सर्वस्य व्याप्त्यै सर्वस्य जित्यै सर्वमेवैतेनाप्नोति सर्वं जयतीत्यादि”। अनिष्टसाधनताद्वारा विध्यर्थ्यवर्त्तकं वाक्यम् निन्दा। यथा “एष वाव प्रथमोयज्ञानां यज्ज्योतिष्टोमः य एतेनानिष्ट्वा अन्येन यजते स गर्त्ते पततोत्यादि”। पुरुषविशेषनिष्ठतया कयनं परकृतिः परक्रिया, यथा “वपामेवाग्रेऽभिधारयन्ति अथ पृषदाज्यं तदुह चरकाध्यर्यवः पृषदाज्यमेवाग्रेऽभिघारयन्त्यग्नेःप्राणाः पृषदाज्यमित्यभिदधतीत्यादि” ऐहिह्यमात्रचरिततया कीर्त्तनं पुराकल्पः। एवमन्येऽपि अर्थवादा ब्राह्मणरूपाः सामसंहिताभाष्ये माधवाचार्य्येंण दर्शिताः यथा “हेतुर्निर्वचनं निन्दा प्रशंसा संशयो विधिः। परकृतिः षुराकल्पोयावधारणकल्पना” इति “तेन ह्यन्नं क्रियत” इति हेतुः “एतद्दध्नोदधित्वमिति” निर्वचनम्। “अमेध्या बै माषा” इति निन्दा “वायुर्वैक्षेपिष्ठेति” प्रशंसा” “तद्क्यचिकित्सन् जुहवानीमाहोषामिति” संशयः “यजमानेन सम्मिता औदुम्बरी भवतीति” विधिः “माषानेव मह्यं पचते” इति परकृतिः “पुरा ब्राह्मणा अभैषुः” इति पुराकल्पः। “यावतोऽंशान् प्रतिगृह्लीयात् तावतो वारुणांश्चतुष्कपालान्निर्वपे दितिं विशेषावघारणकल्पनेत्युदाहृतं च तत्रैव। लौगाक्षिणा तु त्रैविध्यमुक्तम् “अर्थवादश्च त्रिविधः गुणवादोऽनुवादोभूतार्थवादश्चेति तदुक्तम्।। “गुणवादीविरोधे स्यादनुवादोऽवधारिते। भूतार्थवादस्तद्धानादर्थवादस्त्रिधा मतः”।। गुणवादश्च “यथा सिंहो माणवक” इत्यादौ माणवके सिंहाभेदस्य विरोधेन तद्गतदशाभेदोवोध्यते तेन समर्थत्वादिरूपं तद्वृत्तिगुणमनुवदति प्रतिपादयतीति गुणवादः अन्ये तु “यजमानः स्रस्तर” इत्यादौ प्रत्यक्षादिभिरवघारितेऽर्थे तमेवार्थमनुवदतीत्यनुवादः यथा “वह्निर्हिमस्य भेषजं, “भूमिरावपनं महत् सूर्य्यस्तापकर” इत्याहुः। तद्धानादेतदुभयार्थकत्वाभावात् तथा चैतदुभयभिन्नं भूतं सिद्धार्थं वदतीति भूतार्थवादः इति। अयञ्चानेकविघः क्वचिदुक्तः, स्तुत्यर्थ वादः फलार्थवादः सिद्धार्थवादः निन्दार्थ वादः परकृतिः पुराकल्पः मन्त्रश्चेति”। तत्र स्तुत्यर्थ वादो यथा “वायुर्वैक्षेपिष्ठा देवता” इत्यादि।। फलार्थ यादो यथा “तरति गृत्युं तरति ब्रह्महत्यां योऽश्वमेधेन यजेतेत्यादिं। “प्रतितिष्ठन्ति ह वै यएता रात्रीरुपयन्तोत्यादि” च यद्यप्येतस्य परकृतावेव पर्य्यसावनं तथापि फलस्य विशेष्यतयाऽ नभिधानात्ताद्रूप्येण पृथगुपन्यासः।। सिद्धार्थवादो यथा। “यन्न दुःखेन संभिन्नं न च ग्रस्तमनन्तरम्।। अभिलाषोपनीतं यत् तत् सुखं स्वःपदास्पदमित्यादि”।। निन्दार्थवादो यथा “अन्धन्तमस्ते प्रविशन्तिये के चात्महनोजना” इत्यादि।। परकृतिः परकृत्यभिधानं परक्रियोक्तिः। एवञ्च लौगाक्षिभास्करोक्तस्य” “विरोधेनानुवादः स्यादित्यादि कारिकोक्तस्य त्रैविध्यस्य मध्ये स्तुत्यर्थवादस्यैवावान्तरभेदेन तस्य सप्तविधत्वमिति भेदः। ३ ग्रन्थतात्पर्य्यावधारणार्थे लिङ्गषट्कान्तर्गते लिङ्गभेदे च। “उपक्रमोपसंहारावभ्यासोऽपूर्ब्बता फलम्। अर्थवादोपपत्ती च हेतुस्तात्पर्य्यनिर्ण्णये इति वे० सा० यथा “उत तमादेशमप्राक्षो” येनाश्रुतं श्रुतम्। इत्यादिनाऽद्वितीयवस्तुनः प्रशंसनम्” छा० उ० भा० उक्तम्।

अर्थविज्ञान = न० ६ त० शुश्रूषाद्यष्टविधायुक्तधीगुणान्तर्गते गुणभेदे हे०।

अर्थविद् = त्रि० अर्थं कार्य्यं वेत्ति विट–क्विप्। कार्य्याभिज्ञे “विवक्षितामर्थविदस्तत्क्षणं प्रतिसंहृताम्” माघः।

अर्थविप्रकर्ष = पु० अर्थस्य अर्थबोधस्य विप्रकर्षः बोधनस्य विलम्बेनोत्पादनम्। पूर्व्वपूर्व्वमपेक्ष्य उत्तरोत्तरस्य विलम्बेनार्थबोधने “श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात् “जै० सू०। तयाहि अनपेक्षरवरूपायाः द्वितीयादिश्रुतेः अर्थप्रकाशनसामर्थ्यरूपलिङ्गापेक्षया शीघ्रार्थबोधकत्वम् इति तस्याः सर्वतः प्राब ल्यम् एवं लिङ्कस्य वाक्याद्यपेक्षया शीर्घार्थोपस्थापकतया बलवत्त्वम्। विवृतिः बलाबलाधिकरणशब्दे।

अर्थव्ययज्ञ = त्रि० अर्थस्य धनस्य व्ययं तत्प्रकारं जानाति ज्ञा–क। किं धनं, कथं, कुत्र, कियत्, कस्मै वा व्ययितव्यमिति विशेषाभिज्ञे।

अर्थव्यापाश्रय = पु० अर्थस्य प्रयोजनस्य व्यपाश्रयः। १ प्रयोजनसम्बन्धे २ अमिधेयाश्रये। ब०। ३ सप्रयोजने त्रि०।

अर्थशास्त्र = न० अर्थस्य भूमिधनादेः प्रापकं शास्त्रं शाक० त०। १ नीतिशास्त्रे, अभिचारादिकर्म्मप्रतिपादके २ शास्त्रे च। “अर्थशास्त्रात्तु बलवत् धर्म्मशास्त्रमिति स्थितिः” या० स्मृ० विवृतमेतन्मिताक्षरायाम् “यद्यपि समानकर्तृकतया अर्थशास्त्रधर्म्म शास्त्रयोः स्वरूपगतो विशेषोनास्ति तथापि प्रमेयस्य धर्म्मस्य प्राष्टान्यादर्थस्य चाप्राधान्याड्वर्मशास्त्रं बलवदित्यभिप्रायः धर्मस्य च प्राधान्यं शास्त्रादौ दर्शितन्तस्माद्धर्मशास्त्रार्थशास्त्रयोर्विरोधे अर्थशास्त्रस्य वाध एव। “गुरुर्वा वालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम्। आततायिनमायान्तं हन्यादेवाविचारयन्। नाततायिवधे दोषोहन्तुर्भवति कश्चन। प्रच्छन्नं वा प्रकाशं वा मन्युस्तं मन्युमृच्छति” तथा “आततायिन मायान्तमपि वेदान्तगं रणे। जिघांसन्तञ्जिघांसीयान्न तेन व्रक्ष्महा भवेत्” इत्याद्यर्थशास्त्रम्। “इयं विशुद्धिरुदिता प्रमाप्याकामतोद्विजम् सकामतो व्रक्ष्मबधे निष्कृतिर्न विधीयते” इत्यादि धर्म्मशास्त्रन्तयोर्विरोघे धर्म्मशास्त्रं बलवदिति युक्त” मित्यन्यमतमुक्त्वा। “हिरण्यभूमिलाभेभ्योमित्रलब्धिर्वरा वतः। अतो यतेततत् प्राप्तौ” इत्यर्थ शास्त्रम्। “धर्म्मशास्त्रानुसारेण क्रोधलोभविवर्जितः” इति धर्म्मशास्त्रम्। तयोः क्वचिद्विषये विरोधो भवति यथा चतुष्पाद्व्यवहारे प्रवर्तमाने एकस्य जयेऽवधार्य्यमाणे धर्म्मानुमरणम् न मित्रलाभः। अन्यस्य तु जये मित्रलब्धिर्नधर्म्म–शास्त्रमनुसृतम्भवति तत्रार्थशास्त्राद्धर्मशास्त्रं बलवत् अतएव “धर्मार्थसन्निपाते अर्थग्राहिण एतदेवेति” प्रायश्चित्तस्य गुरुत्वन्दर्शितमापस्तवेन” इति।

अर्थशौच = अर्थानां तदुपायानां शौचम् तदर्जने शुद्धिः। अन्यायेन धनोपार्ज्जनपरिहारेण अर्थार्ज्जनशुद्धौ “सर्व्वेषामेव शौचानामर्थशौचं परं स्मृतमिति” मनुः।

अर्थसंग्रह = पु० ६ त०। धनसञ्चये।

अर्थसंस्थान = न० अर्थानां धनानां संस्थानं स्थितिर्यस्मात् सम् + स्था–अपादाने ल्युट् वा। १ धनोपार्जनसाधन प्रतिग्रहादौ। २ भवे ल्युट् ६ त०। १ अर्थस्थितौ।

अर्थसञ्चय = पु० अर्थानां धनानां सञ्चयः संग्रहः समुदायश्च। १ धनसंग्रहे। “कुदेशमासाद्य कुतोऽर्थसञ्चयः” इति नीति०। २ धनसमूहे च।

अर्थसमाज = पु० अर्थानां कारणानां वा समाजः समूहः। १ बहुविधार्थसमूहे २ कारणसमूहे च। “अर्थसमाजग्रस्तत्वात् नीलघटत्वादिकम् न कस्यचित् कार्य्यतावच्छेदकमिति” गदा०। तथाहि घटत्वं दण्डादेः कार्य्यतावच्छेदकम्। नीलत्वन्तु नीलकपालस्येति भिन्नभिन्नकारणस्यैव तत्तत्कार्य्यतावच्छेदकम् तथाच नीलघटत्वं न कस्याप्येकस्य कारणस्य कार्य्यतावच्छेदकम् नीलघटत्वस्य नाना कारणस्यैव कार्य्यतावच्छेदकत्वात् एवञ्च तस्य कारणसमाजग्रस्तत्वात् न कस्यापि कार्य्यतावच्छेदकत्वम्। एवमन्यदप्युदाहार्य्यम्। ३ धनसमूहे च।

अर्थसमाहार = पु० ६ त०। १ धनसंग्रहे सम्यगुपायेनार्ज्जने ते च उपायाः “सप्त वित्ताशमा धर्म्म्या दायोलाभः क्रयोजयः। विभागः संप्रयोगश्च सत्प्रतिग्रहएव चेति” स्मृत्युक्ताः साधारणाः “ब्राह्मणस्याधिकं लब्धं क्षत्रियस्य विजितं निर्विष्टं वैश्यशूद्रयोः गौ० उक्ताः “याजनाध्यापनप्रतिग्रहैर्ब्राह्मणोधनमर्ज्जयेदितिश्रुत्युक्ताश्च ब्राह्मणादेः यथायथम् असाधारणाः ज्ञेयाः। २ धनसमूहे च।

अर्थसम्बन्ध = पु० अर्थस्य धनस्य वाच्याद्यर्थस्य वा सम्बन्धः। १ धनसम्बन्धे वाच्याद्यर्थसम्बन्धे। २ धनसम्बन्धप्रयोजकाश्च अपतितपुत्रत्वादयः शास्त्रीयाः क्रयादयश्च लौकिकाः।

अर्थसिद्ध = अर्थात् अर्थान्वयविशेषात् सिद्धः। शब्दादिनाऽबोधनेऽपि अन्वयवललभ्ये पदार्थे” यथा घटमानयेति वाक्ये घटस्य छिद्रेतरत्वमन्वयबललभ्यं न च तत्र शब्दशक्त्याद्यपेक्षा। तथा च शाब्दबोधे योग्यताज्ञानस्य हेतुतया छिद्रेत रघटएव जलाहरणप्रयोजकत्वावधारणेन तत्रैव प्रवृत्तिर्ने तरघटादौ एवमन्यत्रापि। अर्थः प्रयोजनं धनं वा सिद्धोऽस्य परनि०। २ सिद्धार्थे सिद्धप्रयोजने ३ स्वतः सिद्धधने च त्रि०।

अर्थसिद्धि = स्त्री अर्थतः योग्यान्वयवशात् सिद्धिः। १ अपदा र्थस्य तात्पर्य्यविधया सिद्धौ। ६ त०। २ धनसिद्ध्वौ।

अर्थहर = त्रि० अर्थान् धनानि हरति ताच्छील्यादौ ट स्त्रियां ङीप्। परकीयघनहरणशीले चौरादौ।

अर्थहीन = त्रि० अर्थेन धनेन हीनः। १ धनहीने दरिद्रे। २ वाच्यार्थहीने च।

अर्थागम = पु० अर्थस्य आगमः। १ आये। अर्थागमोनित्यमरोगिता च” नीति०। अर्थ आगमम्यतेऽनेन करणे घञ्। २ धनार्जनोपाये क्रयादौ। ३ वाच्याद्यर्थापतने च “दण्डा पूपिकयान्यार्थागमोऽर्थापत्तिरिष्यते” सा० द०।

अर्थान्तर = न० अन्योऽर्थः अर्थान्तरं मयूर० त०। १ अन्यार्थे, “बुद्धिरुपलब्धिर्ज्ञानमित्यनर्थान्तरमिति” सांख्यम्। न्यायमते उद्देश्यसिद्ध्यर्थं प्रयुक्ते शब्दसामर्य्यादनुद्देश्यसिद्ध्यनुकूले २ वाक्ये। तस्य प्रतिवादिनोद्भावने वादिनिग्रहः। “प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्रतिज्ञासंन्यासोहेत्वन्तरमर्थात्वरं फलमित्यादि” गौ० सूत्रेण निग्रहस्थानान्यक्त्वा “प्रकृतादर्थादसम्बन्धार्थोऽर्थान्तरमिति” लक्षितम्। प्रकृतात् प्रकृतोपयुक्तात् ल्यल्लोपे पञ्चमी तेन प्रकृतोपयुक्तमर्थमुपेक्ष्यासम्बन्धार्थाभिधानमर्थान्तरं प्रकृतानाकाङ्क्षिताभिधानमिति फलितार्थः यथा शब्दोऽनित्यः कृतकत्वात् इत्युक्त्वा शब्दोगुणः स चाकाशस्येत्याद्युक्तिः” न्या० वृत्तिः। शब्दस्यानित्यत्वसाधने प्रवृत्तेतस्य गुणत्वस्याकाशवृत्तित्वस्यचसाधने प्रकृतोपयोगित्वं नास्तीति तस्य तथात्वम्। विवरणं निग्रहस्थानशब्दे। अर्थशब्दस्य कारणपरत्वे ३ कारणान्तरे “अर्थोऽयमर्थान्तरलभ्य एव” कुमा० “अर्थान्तरेण कारणान्तरेण लभ्य” इति मल्लि०।

अर्थान्तरन्यास = पु० अर्थान्तरं न्यास्यतेऽत्र। अर्थालङ्कारभेदे “सामन्यं वा विशेषेण विशेषस्तेन वा यदि। कार्य्यञ्च कारणेनेदं कार्य्येण च समर्थ्यते।। साधर्म्म्येणेतरेणार्थान्तरन्यासोऽष्टधा ततः”। क्रमेणोदाहरणानि। “वृहत्सहायःकार्य्यान्तं क्षोदीयानपि गच्छति। सम्भूयाम्भोधिमभ्येति महानद्या नगापगा”।। अत्र द्वितीयार्द्धगतः सामान्योऽर्थः सोपपत्तिकः क्रियते। “यावदर्थपदां वाचमेवमाधाय माधवः। विरराम महीयांसः प्रकृत्या मितभाषिणः” अत्र सामान्येन विशेषसमर्थनम्। “पृथ्वि! स्थिरा भव भुजङ्गम! धारयैनां त्वं कूर्म्मराज! तदिदं द्वितीयं दधीथाः। दिक्कुञ्जराः! कुरुत तत्त्रितये दिधीर्षामार्य्यः करोति हरकार्मुकमाततज्यम्” अत्राततज्याकरणं पृथ्वी- स्थैर्य्यादेः कार्य्यस्य समर्थकम्। “सहसा विदधात न क्रियामविवेकः परमापदां पदम्। विवृणते हि विमृष्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः” इत्यादौ सम्पद्वरणं कार्य्यं सहसा विधानाभावस्य विमृष्यकारित्वरूपस्य कारणस्य समर्थकम्। एतानि साधर्म्म्ये उदाहरणानि वैधर्म्म्ये यथा “इत्थमाराध्यमानोऽपि क्लिश्नाति भुवन त्रयम्। शाम्येत् प्रत्यपकारेण नोपकारेण दुर्ज्जनः”।। अत्र समान्यं विशेषस्य समर्थकम्। “सहसा विदधीतेति” अत्र सहसा विधानाभावस्यापत्पदत्वं विरुद्धं कार्य्यं समर्थकम्” सा० द०।

अर्थापत्ति = स्त्री अर्थस्य अनुक्तार्थस्य आपत्तिः सिद्धिः। शब्देनानुपस्थापितार्थस्यसिद्धिरूपे मीमांसकोक्ते १ प्रमितिभेदे। यथा पीनोदेवदत्तोदिवा न भुङ्ङ्क्ते इत्यादौ पीनत्वविशिष्टस्य देवदत्तस्य रात्रिभोजित्वरूपार्थस्य शब्दानुक्तस्यापि सिद्धिः। अर्थस्यापत्तिर्यतः। २ तत्साधने च यथोक्तं वे० प०। “तत्रोपपाद्यज्ञानेनोपपादककल्पनमर्थापत्तिः। तत्रोपपाद्यज्ञानं करणम् उपपादकज्ञानं फलम्। येन विना यदनुपपन्नं तत्तत्रोपपाद्यम् यस्याभावे यस्यानुपपत्तिः तत्तत्रोपपादकं यथा रात्रिभोजनेन विना दिवाअभुञ्जानस्य पीनत्वमनुपपन्नमिति तादृशं पीनत्वमुपपाद्यं यथा वा रात्रिभोजनस्याभावे तादृशपीनत्वस्यानुपपत्तिरिति रात्रिभोजनमुपपादकं रात्रिभोजनकल्पनारूपायां प्रमितौ, अर्थ स्यापत्तिः कल्पनेति षष्ठीसमासेनार्थापत्तिशब्दोवत्तंते। कल्पनाकरणेपीनत्वादिज्ञाने तु अर्थ स्यापत्तिः कल्पना यस्मादिति वहुब्रीहिसमासेन वर्त्तते इति फलकरणयो रुभयोस्तत्प्रयोगः। नचेयमर्थात्तिरनुमानेऽन्तर्भवितुमर्हति अन्वयव्याप्त्यज्ञानेनान्वयिष्वनन्तर्भावात्। व्यतिरेकिणश्चानुमापकत्वं प्रागेव निरस्तम् अतएवार्थापत्तिस्थलेऽनुमीनोमीति नानुव्यवसायः किन्त्वनेनेदं कल्पयामीति”। “अद्वैतागमनासीरे साधुसा धुन्वती परान्। सेवामेवार्ज्जयत्यर्थापत्तिपत्तिपरम्परा” ख० खा०। सांख्यादिभिश्चनेयं प्रमाणान्तरमपि तु अनुमानेऽन्तर्भवतीत्युक्तम् यथा “एवमर्थापत्तिरपि न प्रमाणान्तरं तथाहि जीवतश्चैत्रस्य गृहाभावदर्शनेन बहिर्भावस्यादृष्टस्य कल्पनमर्थापत्तिरभिमता वृद्धानां साप्यनुमानमेव। यदा खलु व्यापकः सन्नेकत्र नास्ति तदान्यत्रास्ति, यदा व्यापकएकत्रास्ति तदान्यत्र नास्तीति सुकरः स्वशरीरे एव व्याप्तिग्रहः। तथाच सति गृहाभावदर्शनेन लिङ्गेन बहिर्भावदर्शनमनुमानमेव। न च चैत्रस्य क्वचि- त्सत्त्वेन गृहाभावः शक्योऽपह्नोतुं येनासिद्धोगृहाभावो बहिर्भावे न हेतुः स्यात्। न च गृहाभावेन वा सत्त्वमपह्नूयते येन सत्त्वमेवानुपपद्यमानमात्मनः सत्तां बहिरवस्थापयेत् तथाहि चैत्रस्य गृहासत्त्वेन सत्त्वमात्रं वा विरुध्यते, गृहसत्त्वं वा? न तावद्यत्र क्वचन सत्त्वस्यास्ति विरोधो गृहासत्त्वेन, भिन्नविषयत्वात्। देशसामान्येन गृहविशेषाक्षेपोऽपि पाक्षिक इति समानविषयकतया विरोघ इति चेन्न प्रमाणनिश्चितस्य गृहेऽसत्त्वस्य पाक्षिकतया सांशयिकेन गृहसत्त्वेन प्रतिक्षेपातोगात्। नापि प्रमाणनिश्चितोगृहाभावः पाक्षिकमस्य गृहसत्त्वं प्रतिक्षिपन् सत्त्वमात्रमपि प्रतिक्षेप्तुं सांशयिकत्वं वापनेतूमर्हतीति युक्तं गृहावच्छिन्ने न चैत्राभावेन गृहसत्त्वं विरुद्वत्वात् प्रतिक्षिप्यते न तु सत्त्वमात्रं तस्य तत्रौदासीन्यात्। तस्मात् गृहाभावेन लिङ्गेन मती बहिर्भावोऽनुमीवत इति युक्तम्। एतेन विरुद्धयोः प्रमाणयोर्विषयव्यवस्थया अविरोधापादनमर्थापत्तेर्विषयैति परास्तम् अवच्छिन्नानवच्छिन्नयोर्विरोधाभावात्। उदाहरणान्तराणि चार्थापत्ते रेवमेवानुमानेऽन्तर्भावनीयानीति” सां कौ०। व्याख्यातञ्चैतदस्माभिस्तट्टीकायां यथा “व्यापकस्य देशविशेषेऽस्थितावपि देशान्तरे सत्त्वमवगम्यते इत्याह व्यापकः सन्नित्यादि। सन् सत्त्वाश्रयः। व्यापकः सत्त्वव्यापकः, तथा च। सन् चैत्रो वहिरस्ति गृहेऽस्थितत्वात्स्वएरीरवदित्यनुमानादेवार्थापत्ति–विषय–सिद्धिरिति भावः। सत्त्वाश्रयस्य सतः पक्षीकरणात् सत्त्वासत्त्वयोश्व विरोधितया सत्त्वप्रतिरुद्धः कथं गृहेऽसत्त्वरूपो हितुस्तिष्ठेत् तथाच स्वरूपासिद्धहेतुना कथं बहिःसत्त्वरूपसाध्यसिद्धिरिति आशङ्क्य समाधत्ते न च चैत्रस्येत्यादिना। गृहाभावः गृहासत्त्वम् बहिर्भावः बहिःसत्त्वम्। ननु गृहेऽसत्त्ववतः कथं सत्त्वाश्रयता सत्त्वासत्त्वयोर्विरोधित्वात्तथा चाश्नयासिद्धिरित्याशङ्क्य समाधत्ते न च मृहाभावेनैति गृहासत्त्वेमेत्यर्थः। गृहासत्त्वस्य गृहसत्त्वं प्रत्येव विरोधिता न तु सत्त्वसामान्यं प्रतीति समर्थयितुं विकल्पयति तथाहि चैत्रस्थेति। ननु सत्त्वमाश्रयमामान्यमाक्षिपत् देशमामान्यमेवाक्षिपति देशसामान्यमाक्षिपता च तेन तन्मध्यवर्त्तिनोगृहरूपदेशस्यापि समाक्षेपात् मृहस्यापि पाक्षिकसत्त्वलाभेन तेन सह गृहासत्त्वस्य विरोघित्वात् पुनः स्वरूपासिद्धिरित्याशङ्कते देशसामान्येनेति आक्षिप्यमाणेनेत्यादिस्तघाच सामान्यदेशाक्षेपेणैवविशेषदेश- स्याप्याक्षेपैति भावः। परिहरिति नेति। पाक्षिकतया पक्षे प्राप्ततया। सांशयिकेन संशयमापन्नेन। “सामान्यविषयं सत्तावाक्यं “गृहंविषयं न वेति” संशयमात्रलब्धेनगृहसत्त्वेन प्रतिक्षेपायोगात् तस्थ दुर्बलतया प्रतिबन्धकत्वानौचित्यात्। प्रमाणनिश्चितस्य प्रात्यक्षिकस्य गृहासत्त्वस्य गृहसत्त्वं प्रत्येव प्रतिबन्धकत्वं न तु सत्त्वसामान्यं प्रतीति व्यवस्थापयन्नाह नापि प्रमाणेति। अस्य चैत्रस्य। प्रतिक्षिपन् प्रतिरुन्घन्। प्रतिक्षेप्तुं प्रतिरोद्धुमर्हतीत्यग्रेणान्वयः। सांशयिकत्वं संशयमापन्नत्वम्। एतस्य च सत्त्वमात्रस्येत्यादिः। अपनेतुमपवारयितुम्। विषयविशेषे एव विरोधित्वमित्युपसंहरति युक्तमित्यादिना एतावता प्रबन्धेन व्यवस्थापिवमर्थं निगमयन्नाह तस्मादिति। गृहासत्त्वप्रमाणं प्रत्यक्षं, सत्त्वसामान्यप्रमाणमनुमानमेतयोर्विषयविशेषे व्यवस्थापनेनाविरोधापादनम् समावेशनमित्येवार्थापत्तेः फलं तत् निरस्यति एतेनेति। वक्ष्यमाणहेतुनेत्यर्थः परास्तमित्यग्रेणास्यान्वयः। विरोधाभावे हेतुं वदन् निरसनहेतुं द्योतयति अवच्छिन्नेत्यादि गृहावच्छिन्नसत्त्वं प्रत्यक्षविषयः, गृहानवच्छिन्नसत्त्वमनुमानविषय इत्येकविषयत्वाभावेन–विरोधाभावात् विरोधस्यैब तत्रासद्भावात् अर्थापत्त्या किं समाधास्यते इति भावः”। ३ अर्थालङ्कारभेदे “दण्डापूपिकयान्यार्थागमोऽर्थापत्तिरिष्यते” सा० द०। “मूषिकेण दण्डो भक्षित” इत्यनेन तत्सहचरितमपूपभक्षणमर्थादायातं भवति इत्येष न्यायो दण्डापूपिका। अत्र च क्वचित् प्राकरणिकादर्थादप्राकरणिकस्यार्थस्यापतनं क्वचिदप्राकरणिकार्थात् प्राकरणिकार्थस्येति द्वौ भेदौ। क्रमेणोदाहरणे। “हारोऽयं हरिणाक्षीणां लुठति स्तनमण्डले। मुक्तानामप्यवस्थेयं के वयं स्मरकिङ्कराः”। विललाप सवाष्पगद्गदं सहजामप्यवहाय धीरताम्। अभितप्तमयोऽपि मार्द्दवं भजते कैव कथा शरीरिणाम्”।। “यदकीर्त्तितमर्थादापद्यते सार्थापत्तिः” इति सुश्रुतोक्ते ४ तन्त्रयुक्तिभेदे च।

अर्थिक = पु० अर्थयते इत्यर्थी याचकः कुत्सितार्थी कन्। निद्रागतनृपादेर्जागरणार्थं नियुक्ते स्तुतिपाठकादौ।

अर्थित = त्रि० अर्थ–गौणे कर्म्मणि क्त। १ याचिते यस्य सकाशात् याच्यते स्म तस्मिन्। “अवकाशं किलोदन्वान् रामायाभ्यर्थितोददौ” रघुः। तस्याविवक्षायां मुख्ये कर्म्मणि क्त। याचनाकर्म्मणि २ पदार्थे यद्वस्तु कस्यचित् समीपे याच्यतेस्म तस्मिन्। अर्थिनो याचकस्य भावः तल्। ३ याच्ञायां स्त्री। “न व्यहन्यत कदाचिदर्थिता” रघुः। याच्ञायास्तु व्याघातः याच्ञाफलालाभ एव भवति। “यद्यर्थि ता तु दारैःस्यात् क्लीवादीनां कथञ्चन” मनुः। ४ कामनायाञ्च।

अर्थिन् = त्रि० अर्थ + अस्त्यर्थे इनि। १ याचके, २ सेवके, असन्निहितधने ३ धनस्वामिनि। “नैक्षतार्थिनमवज्ञया मुहुः” “शात्रवादिव पराङ्मुखोऽर्थिन” इति च माघः “यथाकामार्च्चितार्थिनाम्” “ततः समानीय स मानितार्थी” इति च रघुः। ४ कार्य्यार्थिनि “ततोऽर्थी लेखयेत् सद्यः प्रतिज्ञातार्थसाधनम्” या० स्मृ०। “स धर्म्मस्थसखः शश्वद् अर्थिप्रत्यर्थिनां स्वयम्” रघुः स्त्रियां ङीप्। “कान्तार्थिनी तु या याति” इत्यमरः सन्निहितधने तु अर्थवानित्येव।

अर्थिसात् = अव्य० अर्थिभ्योदेयमधीनं करोति अर्थिन् + साति। याचकाधीनतया कृते देये। “विभज्य मेरुर्न यदर्थिसात्कृतः” नैषधम्। कृभ्वस्त्यादियोगएवास्य साधुता।

अर्थे = अव्य०–के। साक्षा०। अर्येकृत्य अर्थेकृत्वा इत्यर्थे असार्थकं सार्थकं साम्पाद्येत्यर्थेगणरत्ने तु “विकल्पने प्रभृतीनामेदन्तत्वं लवणादीनाञ्च मान्तत्वं गणपाठसामर्थ्यादेव यद्वा सप्तमीप्रतिरूपकम् द्वितीया प्रतिरूपकञ्च निपातनात्” इत्युक्तम्। तथाच २ अर्थशब्दार्थे च।

अर्थोपमा = स्त्री अर्थेन नतु शब्देन उक्ता उपमा। लुप्तोमा भेदे। विवरणमुपमाशब्दे।

अर्थोपक्षेपक = पु० अर्थान् प्रयोजनानि उपक्षिपति उप + क्षिपण्वुल्। नाटकाङ्गभेदे विष्कम्भकादिपञ्चके “अर्थोपक्षेपकाः पञ्च विष्कम्भकप्रवेशकौ। चूलिकाङ्कावतारोऽथ स्यादङ्कमुखमित्यपि” सा० द०।

अर्थ्य = त्रि० अर्थात् प्रयोजनादनपेतः यत्। सार्थके सप्रयोजने “वागीशं वाग्भिरर्थ्याभिः प्रणिपत्योपतस्थिरे” कुमा०। “अर्थ्यामर्थपतिर्वाचम्” रघुः। “स्तुत्यंस्तुतिभिरर्थ्याभिः” रघुः। २ पण्डिते पु०। अर्थस्य भावः यत्। ३ वस्तुस्वभावे। अर्थादागतः। ४ न्याय्ये। अर्थ–कर्म्मणि यत्। ५ याचनाकर्म्मणि अर्थनीये। अर्थाय साधुः यत्। ६ अर्थसाधने त्रि०।

अर्द्द = पीडने भ्वादि० उभ० सक० सेट्। अर्द्दति ते आर्द्दीत् आर्द्दिष्ट। “रक्षःसहस्राणि चतुर्द्दशार्दीत्” रघुः। आनर्द्द अर्द्दकः अर्द्दी अर्द्दित्वा अर्द्दितः। अति–अतिपीडने। अत्यर्द्दितः अभि + आभिमुखेन पीडने। “अभेश्वाविदूर्य्ये” पा० उक्तेः सामीप्ये च अभ्यर्ण्णः समीपवर्त्ती “कालोभ्यर्ण्ण जलागमः” सा० द०। अन्यत्र अभ्यद्दितः। निस् + निर् + वा–भृशपीडने। “सोऽस्यायं पराङेव प्राणो निरर्दति” शत० व्रा०। वि + विशेषेण पीडने “तद् या ऊर्म्मी व्यर्द्दतः पशौ वा पुरुषे वा” शत० व्रा०। सम् + समर्ण्णः नि + न्यर्ण्णः वि + व्यर्ण्णः।

अर्द्द = याचने, गतौ, सक० पीडायां अक० भ्वादि० पर० सेट्। अर्द्दति आर्द्दीत्। याचने “शरद्घनं नार्द्दति चातकोऽपीति” रघुः।

अर्द्द = बधे चुरा० उभय० सक० सेट्। अर्द्दयति ते आर्द्दिदत् त। “येनार्द्दिदत् दैत्यपुरं पिनाकी” भट्टिः। “अव्यर्ण्णो गिरिकूटाभानभ्यर्ण्णानार्द्दिदत् द्रुतम्” भट्टिः। सम् + सम्यक्पीडने “यन्तारमस्य सहसा त्रिभिर्वाणैः समार्द्दयत्” भा० व० प० प्रति + प्रतिरूपपीडने यस्य यत्कर्त्तृकं पीडनं तेनैव पुनस्तस्य पीडने “प्रत्यर्द्धयत संक्रुद्धो राघवः पुनराहवे” रामा०।

अर्द्दन = न० अर्द्द–ल्युट्। १ गतौ २ पीडायां ३ बधे ४ वाचने च।

अर्द्दना = स्त्री चु० अर्द्द–भावे युच्। १ हिंसायां बधे।

अर्द्दित = त्रि० अर्द्द–क्त। १ पीडिते, २ गते, ३ याचिते च। ४ रोगभेदेन० “अर्दयित्वाऽनिलोवक्त्रमर्दितं जनयत्यतः। वक्रीभवति वक्त्रार्द्धं ग्रीवा चाप्यपवर्त्तते। शिरश्चलति वाक्सङ्गो नेत्रादीनाञ्च वैकृतम्। ग्रीवाचिवुकदन्तानां तस्मिन् पार्श्वे तु वेदना। यस्याग्रजो रोमहर्षो वेपथुर्नेत्रमाविलम्। वायुरूर्द्धं त्वचि स्वापस्तोदोमन्याहनुग्रहः। तमर्दितमिति प्राहुर्व्याधिं व्याधिविशारदाः। क्षीणस्या निमिषाक्षस्य प्रसक्ताव्यक्तभाषिणः। न सिध्यत्यर्दितं वाढं त्रिवर्षं वेपनस्य च”। इति सुश्रु०। “क्षयकासश्वास व्रणा र्शोऽर्द्दितापहम्”। “हनुमोक्षमधीमन्थमर्दितञ्च सुदारुणम्” इति च सुश्रु०!

अर्द्दितिन् = त्रि० अर्दितमस्त्यस्य इनि। नेत्रादिरोगभेदयुक्ते “अर्दिती कर्णशूली च दन्तरोगीच मानवः” सुश्रु०।

अर्द्ध = पु० ऋध–वृद्धौ भावादौ धञ्। १ वृद्धौ। आधारे घञ्। २ गृहादौ। “आतून इन्द्र! वृत्रहन्नस्माकमर्द्धमागहि” यजु० ३३, ६५। “अर्द्धम् निवासदेशम्” वे० दी०। अधि + ऋध–अच्। वृद्धिप्राप्त्याधारे २ वायौ। “कतमोऽध्यर्द्ध इति” प्रश्ने “योऽयं पवते” इत्युत्तरं दत्त्वा “तदाहुर्यदयमेकैवैष पवतेऽथ कथमध्यर्द्ध” इति प्रश्नेउत्तरम्। “यदस्मिन्निदं सर्व्वमध्यार्ध्रोत् अस्मिनवायौ सति इदं सर्व्वम् अधिकमार्घ्नोति प्राणः आप्त प्राप्नोति इति तेनाध्यर्द्ध” इति छा० उ०। करणे घञ्। ४ अवयवरूपे खण्डे अवयवेनेवोपचयात् अवयविनो वृद्धिरिति तस्य तथात्वम्। समखण्डवाचित्वे तु न०। “अर्द्धं नपुंसकम्” पा० सूत्रेतथैवोक्तेः। ५ समीपे अर्धदेवशब्दे उदा० समांसवाचिनस्तु एकदेशिसमासः। अर्धर्च्चः अर्धकायम् अर्धपिप्पली क्षचित् षष्ठीसमासः “एतच्छतार्द्धमावत्त्य त्रैलोक्यविजयी भवेत्” तन्त्रम्। एतत् पूर्व्वकनौशब्दान्ततत्पुरुषात् अच् अर्धनावम् खार्य्यास्तु वा अर्धखारम् अर्धखारो। खण्डमात्रवाचित्वे षष्ठीसमासः। “क्रोशार्धं प्रकृतिपुरस्सरेण गत्वा” रघुः। अवयवावयविनोर्भेदात् क्वचित् धर्म्मिपरता। अर्ध्यते वर्ध्यते ऋध्–णिच्–कर्म्मणि अच्। ६ खण्डिते त्रि० जसि अर्धाः अर्धे।

अर्द्धकृत = त्रि० अर्धं कृतम्। असम्पूर्णकृते यस्य यथा करणे क्रियासमाप्तिस्ततोऽर्द्धे कृते।

अ(आ)र्धकौडविक = त्रि० अर्धकुडवपरिमाणमर्हति ठञ् उत्तर पदस्य वृद्धिःपूर्वस्य वा। अर्धकुडवपरिमाणार्हे स्त्रियां ङीप्।

अर्द्धखारी = स्त्री अर्धं खार्य्याः एक० त० वा अच्। खारीपरि माणार्धांशे। अत्र वा अच्। अर्धखारम् तत्रैव न०।

अर्द्धगङ्गा = स्त्री अर्द्धं गङ्गायाः एकदेशित०। स्नानादौ गङ्गास्नानादेरर्द्धफलदायिन्यां कावेरीनद्याम्।

अर्द्धगर्भ = त्रि० अर्द्धे वत्सरस्यार्द्धेभार्गादौ पौषादौ वाब्रह्माण्डस्यार्धे गगने वा गर्भं गर्भस्थानीयमुदकं यस्य। सूर्य्यरश्मिभेदे ते हि मार्गादौ पौषादौ च भूमिस्थम् उदकमाकृष्य गर्भरूपेण गगने धारयन्ति इति ज्योतिषप्रसिद्धम् “तासां शतानि चत्वारि रश्मीनां वृष्टिसर्जने इत्यादिना ३२४ पृष्ठ दर्शितेन यादववाक्येनं तेषां मध्ये शतत्रयेश गर्भधारण स्योक्तेस्तथात्वम् गर्भधारणकालश्च वृ० स० उक्तम् यथा। “मार्गशिरःशुक्लपक्षप्रतिपत्प्रभृति क्षपाकरेऽषाढाम्। पूर्वां वा समुपगते गर्भाणां लक्षणं ज्ञेयम्। यन्नक्षत्रमुपगते गर्भ श्चन्द्रे भवेत् स चन्द्रवशात्। पञ्चनवते दिनशते तत्रैव प्रसवमायाति। सितपक्षभावाः कृष्णे, शुक्ले कृष्णा द्युसम्भवाः रात्रौ। नक्तंप्रभवाश्चाहनि, सन्ध्याजाताश्च सन्ध्यायाम्। मार्गशीर्षाद्यागर्भामन्दफलाः पौषशुक्लजाताश्च। पौषस्यकृष्णपक्षेण निर्दिशेच्छ्रावणस्य सितम्। माषसितोद्भवा गर्भाः श्रावणकृष्णे प्रसूतिमायान्ति। माधस्य कृष्णपक्षेण निर्दिशेद्भाद्रपदशुक्लम्। फाल्गुनशुक्लसमुत्था भाद्रपदस्या सिते विनिर्देश्याः। तस्यैव कृष्णपक्षोद्भवास्तु ये तेऽश्वयुक्शुक्ले। चैत्रसितपक्षजाताः कृष्णेऽश्वयुजस्य वारिदा गर्भाः। चैत्रासितसम्भूताः कार्त्तिकशुक्लेऽभिवर्षन्ति” इति। “सप्तार्द्धगर्भा भुवनस्य रेतः” ऋ० १, १६४, ३६। “वत्- सरस्यार्द्धेगर्भस्थानीयमुदकं धारमाणाः” भा०।

अर्द्धगुच्छ = पु०। अर्द्धः चन्द्रसमः गुच्छः। १ चतुर्विंशतिलतिके हारभेदे

अर्द्धगुञ्जा = स्त्री अर्द्धं गुञ्जायाः। गुञ्जायास्तुल्यार्धपरिमाणे “तुल्या यवाभ्यां कथितात्र गुञ्जा” लीला० उक्तेः यवद्वयार्द्धे एकयवरूपे तत्परिमाणे। तदर्हति ठञ्। उत्तरपदस्य वृद्धिः पूर्ब्बस्य वा।। अ(आ)र्द्ध गौञ्जिकः तत्परिमाणार्हे त्रि०। स्त्रियां ङीप्।

अर्द्धचन्द्र = पु० अर्द्धं चन्द्रस्य एक० त०। १ चन्द्रस्यार्द्धे, तदाकारे२ नखक्षते, ३ गलहस्ते, ४ वाणभेदे, “रावणेन हृता सीताअर्द्धचन्द्रार्द्धभास्करा” महाना० “सार्द्धचन्द्रं बिभर्त्ति यः” कुमा० “अर्द्धचन्द्रमुखैर्वाणैश्चिच्छेद कदलीसुखम्” रघुः “शृगालाः सर्व्वे गलेऽर्द्ध चन्द्रं दत्त्वा निस्सारिताः”। “तद्दीयतां द्रागेतस्यार्द्धचन्द्रः” इति च पञ्च० त०। गलहस्तस्तु तर्ज्जन्यङ्गुष्ठविस्ताररूपा हस्तसन्निवेशविशेषमुद्रा। (तेओडीति) ख्यातायां ५ त्रिवृति स्त्रीणां ६ तिलकभेदे च। स्त्री। स्वार्थे कन्। ह्रस्वे अतैत्त्वे। अर्द्धचन्द्रिका १ कर्णस्फोटलतायां २ चित्रपर्ण्याञ्च।

अर्द्धचन्द्रक = पु० अर्द्धचन्द्र इव कायति कै–क। १ मयूरपिच्छ्वस्थार्द्धचन्द्राकारे पदार्थे।

अर्द्धचन्द्राकृति = पु० अर्द्धचन्द्रस्याकृतिरिवाकृतिर्यस्य। गलहस्ते तर्ज्जुन्यङ्गुष्ठविस्ताररूपे गले हस्तसन्निवेशविशेषे।

अर्द्धचोलक = न० अर्द्धं चोलस्य एकदेश त० संज्ञायां क्वन्। (काच्चुलीति) ख्याते कुर्पासकवस्त्रे।

अर्धजरतीय = पु० अर्द्धा जरतीव इवार्थे कन्। अर्द्धवृद्धातुल्ये न्यायभेदे स च अर्द्धं कुक्कुट्याः पाकाय अर्द्धं प्रसवाय यथा न प्रभवति एवमेकभागस्यान्यपरत्वमन्यभागस्यान्यपरत्वं न युक्तमित्येवं परः न्यायः। “न च जानीमो विषयसन्धाया मिवान्तरालेऽवस्थानमर्द्धजरतीयकौशलम्” वृ० उ० भा०। यथा न जागर्त्ति न स्वपितीति विषयग्रहणमिति अन्तरालेऽवस्थानं दुर्घटं यथा चार्द्धं कुक्कुट्याः पाकार्थमर्धञ्च प्रसवायेतिकौशलं नोपलभ्यते” आ० गि०। जरत्या एव पाकः युवत्यास्तु प्रसवार्थत्वं नत्वेकस्या एव द्विविधकार्य्य करत्वमित्यर्थः “तुल्ययोर्विज्ञानार्थयोः प्रश्नप्रतिवचनयोः प्रकरणस्य विज्ञानार्थत्वादर्द्धजरतीयोन्यायो न युक्तः कल्पयितुम्” छा० भा०।

अर्द्धजाह्नवी = स्त्री अर्द्धगङ्गावत्। कावेर्य्यां नद्याम्।

अर्द्धतिक्त = अर्द्धः असम्पूर्ण्णस्तिक्तः। नेपालनिम्बे।

अर्द्धदिन = अर्द्धं दिनस्य। दिनस्य तुल्याऽंशे सार्द्धसप्तमुहूर्त्तात्मके काले।

अर्द्धदेव = पु० अर्द्धे समीपे तद्वर्त्ती देवानाम्। देवसमीपे वर्त्तमाने। “इन्द्रं न वृत्ततुरमर्द्धदेवम्” “वृत्रहणं ददथुरर्द्धदेवम्” ऋ० १, ४३, ८, ९। “अर्द्धदेवं देवानामर्द्धे समीपे वर्त्तमानम्” भा०

अ(आ)र्द्धद्रौणिक = त्रि० अर्द्धद्रोणमर्हति ठञ्। उत्तरपदस्य वृद्धिः पूर्व्वस्य वा। अर्द्धद्रोणपरिमाणार्हे वस्तुनि स्त्रियां ङीप्।

अर्द्धधार = न० अर्द्धे धाराऽस्य। सुश्रुतोक्ते विंशतिशस्त्रमध्ये शस्त्रभेदे “विंशतिः शस्त्राणि। तद्यथा। मण्डलाग्रकरपत्रवृद्धिपत्रनस्वशस्त्रमुद्रिकोत्पलपत्रकार्द्धधारसूचीमुख कुशपत्राटीमुखशरारीमुखान्तर्मुखत्रिकूर्चककुठारिकाव्रीहिमुखारावेतसपत्त्रवडिशदन्तशङ्क्केषण्य” इति। “वृद्धिपत्रनखशस्त्रमुद्रिकोत्पलपत्रार्द्धधाराणि छेदने भेदेने च” सुश्रु०।

अर्द्धनारायण = न० अर्द्धमर्द्धमितं स्थानं यस्य तादृशोनारा यणो यत्र “प्रवाहमवधिं कृत्वा यावद्धस्तचतुष्टयम्। अत्र नारायणः स्वामी नान्यः स्वामी कथञ्चन” इत्युक्ते गङ्गायाः प्रवाहावधिहस्तचतुष्टयात्मके नारायणस्वामिके स्थाने।

अर्द्धनारीश्वर = पु० अर्द्धाङ्गे या नारी तस्या ईश्वरः। हरगौरीरूपे शिवमूर्त्तिभेदे तद्रूपादि ध्यानशन्दे वक्ष्यते।

अर्द्धनाव = न० अर्द्धं नावः अच् समा०। नौकायास्तुल्यांशे।

अर्द्धनिशा = स्त्री अर्द्धं निशायाः एकदेशित०। अर्द्धरात्रे।

अर्द्धपण = पु० अर्द्धं पणस्य। “वराटकानां दशकद्वयं यत् सा काकिणी ताश्च पणश्चतस्र” इत्युक्तपणस्यार्द्धे काकिणीद्वये।

अर्द्धपथ = न० अर्द्धंपथः अच् समा०। मार्गस्य तुल्यांशे प्रदेशे।

अर्द्धपाञ्चालिक = पु० अर्द्धपञ्चाले भवः टण् उत्तरपदवृद्धिः। अर्द्धपञ्चालदेशभवे।

अ(आ)र्द्धपादिक = त्रि० अर्द्धपादं तच्छेदमर्हति ठञ्। पूर्व्वपदस्य वा वृद्धिः। अर्द्धपादच्छेदार्हे। “गोषु ब्राह्मणसंस्थासु छुरिकायाश्च भेदने। पशूनां हरणे चैव दण्डः कार्य्योऽर्द्धपादिकः” मनुः अर्धपद मर्हति ठञ् उत्तरपदस्य वृद्धिः पूर्ब्बपदस्यवा। अर्द्धपदप्रमाणार्हे उभयत्र स्त्रियां ङीप्।

अर्द्धपारावत = पु० अर्द्धेन अङ्गेन पारावत इव। चित्रकण्ठक। पोते (तित्तिरीति) ख्याते पक्षिणि।

अर्द्धपुलायित = न० “शतार्द्धार्द्धक्रमादूनैर्मण्डलायितवल्गितैः। उन्मुखस्याश्वमुख्यस्य गतिरर्द्धपुलायितमिति” परिमाषिते अश्वगतिभेदे।

अ(आ)र्द्धप्रस्थिक = त्रि० अर्द्धप्रस्थमर्हति ठञ् “नातः” पा० नोत्तर पदस्य वृद्धिः पूर्व्वस्य तु वा। अर्द्धप्रस्थप्रमाणार्हे स्त्रियां ङीप्।

अर्द्धभाग = पु० अर्द्धं भागस्य। भागस्यार्द्धे “तदर्द्धमागेन लभस्व काङ्क्षितम्” कुमा०। अर्द्धभागमर्हति ठञ् वा पूर्व पदवृद्धिः। अ(आ)र्द्धभागिकः। अर्द्धभागार्हे त्रि० “जातोऽपि दास्यां शूद्रेण कामतोऽशंहरोभयेत्। मृते पितरि कुर्य्युस्तं भ्रातरस्त्वर्द्धभागिकम्” या० स्मृतिः।

अर्द्धभाज् = त्रि० भज्–ण्वि उप० स०। अर्द्धांशहरे “निधीनां तुपुराणां च धातूनामेव च क्षितौ। “अर्द्धभाग्रक्षणाद्राजा भूसेरधिपतिर्हि सः” मनुः।

अर्द्धभ्रम = न० अर्द्धात् भ्रमोभ्रमणं यत्र। “आहुरर्द्धभ्रमं नाम श्लोकार्द्धभ्रमणं यदीति सर० कण्ठा० उक्ते शब्दालङ्कारभेदे यथा “स स त्व र ति दे नि त्यं स द रा म र्ष ना शि नि। त्व रा धि क क सं ना दे र म क त्व म क र्ष ति” किरा० अग्निपुराणे तु “गोमूत्रिकार्द्ध भ्रमके” इति कान्ततयापठित्वा “पादार्द्धाद्यैश्चतुर्भिश्च कुर्य्याद्विन्यासमेतयोः। न्यस्यतामिह वर्ण्ण नामधोधः भ्रमभागिणाम्। अधोधःस्थितवर्ण्णानामाचतुर्थपदं नयेत्। तुर्य्यपादं नयेदूर्द्धं पादार्द्धप्रातिलोम्यत” इति तल्लक्षणमुक्तम्। अयमर्थः तिर्य्य ग्गताः पञ्चरेखाः ऊर्द्ध्वगताश्च नव रेखालेख्या एवं द्वात्रिंशत् कोष्ठानि भवन्ति तत्र प्रथमादिपङ्क्तिक्रमेण एकैककोष्ठगैकैकाक्षरकाश्चत्वारः पादाः क्रमेण पङ्क्तिचतुष्के लेख्याः एवं लेखने द्वात्रिंशद्वर्ण्णा एकैककोष्ठगा भवन्ति। तत्र प्रथमपादार्द्धगता आद्याश्चत्वारोवर्ण्णाः क्रमशोऽधोवर्त्तिनीषु प्रथमादिपङ्क्तिषु यथा भवन्ति यथा च तस्यापरार्द्धगताश्चत्वारो वर्ण्णा अन्तिमादिपङ्क्तिषु उर्द्धोर्द्धक्रमेण अन्त्य कोष्ठगा भवन्ति तथा वर्णाः श्लोके निवेश्याः। एवं द्वितीयपादार्धगा आद्याश्चत्वारो वर्ण्णा अधोऽधःक्रमेण प्रथमादिपङ्क्तिद्वितीयकोष्ठगाः अपरार्धघटकाश्चत्वारश्च वर्ण्णा ऊर्द्ध्वोर्द्ध्वक्रमेण अन्तिमादिपङ्क्तिषु सप्तमकोष्ठगाः। तृतीयपादार्धगाः आद्याश्चत्वारो वर्णाः प्रथमादिपङ्क्तिषु अधोऽधःक्रमेण तृतीयकोष्ठगा उत्तरार्धगाश्चत्वारो वर्ण्णाश्च ऊर्द्ध्वोर्द्ध्वक्रमेण अन्तिमादिषु षष्ठकोष्ठगाः चतुर्थपादार्धगा आद्याश्चत्वारोवर्ण्णाः अधोधःक्रमेण प्रथमादिषु पङ्क्तिषु चतुर्थकोष्ठगाः उत्तरार्धगता श्चत्वारो वर्ण्णाश्च ऊर्द्धार्द्धक्रमेण अन्तिमादिषु पञ्चमकोष्ठगाः यथा भवेयुस्तथा वर्ण्णविन्यासो विधेयः। एवं सति यथा प्रथमादिपङ्क्तिक्रमेण चत्वारः पादाः पठितुं शक्यन्ते एवमुक्तप्रकारेण अधोधःक्रमेण च प्रथमादिकोष्ठगवर्ण्णग्रहणेन एवं अन्तिमादिषु, ऊर्द्ध्वोर्द्ध्वक्रमेण अन्तिमकोष्ठस्थवर्ण्णग्रहणेन, उक्तरीत्या प्रथमादिपङ्क्तिषु द्वितीयादिकोष्ठस्थवर्ण्णग्रहणेन अन्तिमादिषु उपान्तिमकोष्ठगवर्ण्णग्रहणेन च उक्तदिशा पाठे द्वितीयादिपादा भवन्ति। सर्व्वतोभद्रस्येवास्य सर्व्वतोऽनुलोमविलोमपाठासम्भवेन अर्धभ्रमत्वम् अयञ्च वन्धः अनुष्टुप्छन्दस्येव नान्यत्र छन्दसीति ज्ञेयम्। एवम् “अभीकमतिकेनेद्ध्वे भीतानन्दस्य नाशने। कनत्सकामसेनाके मन्दकाममकमस्यति” माघश्लोकेऽपि ज्ञेयः।

अर्द्धमाणवक = पु० अर्धं माणवकस्य। द्वादशलतिके हारभेदे माणवकरारस्यचतुर्विंशतिलतिकत्वात्तस्यार्धमानतयास्य तथात्वम्।

अर्द्धमात्रा = स्त्री अर्धं मात्रायाः। विन्द्वर्धचन्द्राकारव्यज्यायां २ ब्रह्मरूपायाम् वाचि २ तद्वाच्यायां देव्याञ्च। “अर्धमात्रा स्थिता नित्यं यानुच्यार्य्या विशेषतः” देवीमा० “अकारो भगवान् ब्रह्मा उकारो विष्णुरुच्यते मकारो भगवान् रुद्रो प्यर्धमात्रा महेश्वरी। उत्तरोत्तरभावेनाप्युत्तमत्वं स्मृतं बुधैः। अतः सर्व्वेषु शास्त्रेषु देवीसर्व्वोत्तमा स्मृता” देवीपुरा०। अर्धमात्रा उच्चारणकालोऽस्य। ३ हलवर्णे त्रि० “व्यञ्जनं चार्धमात्रक” मित्युक्तेस्तथात्वम्।

अर्द्धमास = पु० अर्धं मासस्य एकदे० त०। पञ्चदशाहात्मके मास स्यार्धरूप्रे पक्षात्मके काले “दर्शेन चार्धमासान्ते पौर्ण्णमासेन चैव हि” मनुः “पञ्चदश वा अर्धमासस्य रात्रयः” इति शत० ब्रा०। “तत्त्रिंशता भवेन्मास” इत्युक्तेर्मासस्य त्रिंश त्तिथ्यात्मकतया तदर्धस्यपञ्चदशत्वम् “ऐरण्डतैलं वा मासमर्धमासं वा पाययेत्” सुश्रुतः।

अर्द्धयाम = पु० अर्द्धं यामस्य प्रहरस्य। दिनरात्रयोः अष्टधा विभक्ते काले यावद्दिनमानं रात्रिमानं वा तस्याष्टधाविभागे यः कालस्तस्मिन्। तस्यैव वारवेलाकालवेलासंज्ञा तस्य च वारविशेषेषु वर्ज्यता ज्योतिषोक्ता। “कृतमुनि यमशरमङ्गलर्त्तुभास्करादियामार्द्धे। प्रभवति वारवेला न शुभा शुभकार्य्वकरणाय”। ज्यो० त० तथाच रवौ चतुर्थोऽर्द्धयामः वारवेला एवं चन्द्रे सप्तमः। कुजे द्वितीयः, बुधे पञ्चमः, गुरौ अष्टमः, भृगौ तृतीयः, शनौ षष्ठः वारवेला। “कालस्य वेला रवितः शराक्षिकालानलागाम्बुघयो गजेन्दू दिने, निशायामृतुवेदनेत्रनगेषुरामा विधुदन्तिनौ च” ज्यो० त०। यथा दिने रवौ पञ्चमः कालवेला एवं चन्द्रे द्वितीयः, कुजे षष्ठः, बुधे तृतीयः,। गुरौ सप्तमः, भृगौ चतुर्थः, शनौ अष्टमः आद्यश्च।। रात्रौ रवौ षष्ठः कालवेला। एवं चन्द्रे चतुर्थः। कुजे द्वितीयः। बुधे सप्तमः, गुरौ पञ्चमः भृगौ तृतीयः, शनौ आद्यः अष्टमश्च कालवेला।। एवं दिने वारवेलाकालवेलाद्वयसमा- वेशेन द्वयीर्वर्ज्ज्यता यथोक्तं “रवौ वर्ज्यं चतुःपञ्च सोमे सप्त द्वयं तथा। कुजे षष्ठं द्वितीयञ्चबुधे वाणतृतीयकम्। गुरौ सप्ताष्टकञ्चैव त्रिचत्वारि च भार्गवे। शनावाद्यं च षष्ठञ्च अष्टमं परिवर्जयेत्”।। एवञ्च रात्रौ न वारवेला किन्तु कालवेलैव। तद्दोषोऽप्युक्तः “यात्रायां मरणं काले (कालयेलायाम्) वैधव्यं पाणिपीडने। व्रते ब्रह्मबधः प्रोक्तः सर्व्वं कर्म्म ततस्तजेत्” ज्यो० त०। दिनविशेषे तदीशविशेषोऽपि ज्यो० त० उक्तः। “वारेशादर्द्धयामेषु रात्र्यह्नोः पञ्च षट् क्रमात्। अधिपाःस्युर्ग्रहास्तत्र यथार्काहे भवन्ति हि। रवीज्येन्दुभृगुक्ष्माजशनिज्ञरवयो निशि। रविशुक्रज्ञरात्रीशशनीज्यकुजभास्कराः। दिने तूह्याः परेष्येवम्” अयमर्थः यस्मिन् दियसे यो वारेशः सएव प्रथमयामार्द्धाधिपः। ततो द्वितीयेशस्तु रात्रौ वारेशापेक्षया पञ्चमः, पुनस्तदपेक्षया पञ्चमस्तृतीयेश एवं व्रमेण ज्ञेयः। दिने तु वारेश एव आद्याधिपः द्वितीयेशस्तु वारेशापेक्षया षष्ठस्तदपेक्षया पुन षष्ठस्तृतीयेश इत्येवंक्रमेण ज्ञेयः।। एतच्च पताकीवेधे पापस्वामिकस्य रिष्टसूचकताविवेचनार्थम् अन्यत्र शुभकर्म्मसु वर्जनार्थञ्च।

अर्द्धरथ = पु० रथोऽस्त्यस्य अच् रथः रथी अर्द्धः असंपूर्ण्णोरथः। असम्पूर्ण्णे रथिनि। “सखा ते दयितो नित्यं य एष रण कर्कशः। उत्साहयति राजंस्त्वां विग्रहे पाण्डवैः सह। एष विकत्थनो नीचः कर्णोवैकर्त्तनस्तव। मन्त्री नेता च वन्धुश्च मानी चात्यन्तमुच्छ्रितः। एष नैव रथः कर्णो न चाप्यतिरथो रणे। वियुक्तः कवचेनैष सहजेन विचेतनः। कुण्डलाभ्याञ्च दिव्याभ्यां वियुक्तः सततं वृणी। अभिशाशापाच्च रामस्य ब्राह्मणस्य च भाषणात्। करणानां वियोगाच्च तेन मेऽर्द्धरथोमतः। नैष फाल्गुनमासाद्य पुनर्ज्जीवन् विमोक्ष्यते। ततोऽब्रवीत् पुनर्द्रोणः सर्व्वशस्त्र भृतां वरः। एवमेतत् यथात्थ त्वं न मिथ्याऽस्ति कदाचन। रणेरणेऽभिमानी च विमुखश्चापि दृश्यते। घृणी कर्णः प्रमादी च तेन मेऽर्द्धरथो मतः” इति भा० उ० प०।

अर्द्धरात्र = अर्द्धं रात्रेः अच्समा०। रात्रेस्तुल्यार्द्धभागे यामद्वयपूर्त्तिकाले “अर्द्धरात्रे त्वसम्पूर्ण्णे दिवा पुण्यमनागतम्” “अर्द्धरात्रे व्यतीते तु विज्ञेयं चापरेऽहनि” “सम्पूर्णे चार्द्धरात्रे चेति” च देवी पु०। “कलान्यूनार्द्धरात्रे तु यदि संक्रमणं भवेत्” गर्गः। “अर्द्धरात्रे कलाधिक्ये यदा संक्रमते रविः”। “अर्द्धरात्रे तु संपूर्णेयदा संक्रमते रविः भु० भी०। “पूर्ण्णेचेदर्द्धरात्रे तु रवि संक्रमणं भवेत्” शाता० जावा०। “प्रभाते चार्द्धरात्रे वा स्नानं कुर्य्यात् परेऽहनि” भविप्य पुरा०। “अथार्द्धरात्रे स्तिमितप्रदीपे” रघुः “मध्यन्दिनेऽर्द्धरात्रेच श्राद्धं भुक्त्वाच सामिषम्” मनुः।

अर्द्धर्च्च = पु० न० अर्द्धम् ऋचः एकदेशित० अच् समा०। ऋचोऽर्द्धभागे “अर्द्धर्च्चेऽर्द्धर्चे प्रतिगृहणीयात्” शत० ब्रा०। “ऋचः पादं मात्रया कल्पयन्तोऽर्द्धर्चेन” अथ० ९, १०, १९, अस्य परिमाणवाचकत्वात् वोप्सायां शष्। अद्धर्च्चशः। अर्द्धर्च्चमर्द्धर्चमिति वीप्सावृत्तौ कारकभूते अर्द्धर्चे “तस्य वाससा पाणिभ्यां पाणी संगृह्य सावित्रोमन्वाह पच्छोर्द्धर्चशः सर्वाम्” कात्या० १७, १, १८, “तस्मादद्धर्चशः शंसेत्” शत० ब्रा० “अत्यार्द्धर्चशोद्वौवा इमौ प्राणौ” शत० ब्रा०।

अर्द्धर्चादि = पु० ६ त०। “अर्द्धर्चाः पुंसि चेति” पाणिन्युक्ते पुंनपुंसकलिङ्गानुशासननिमित्ते शब्दसमहे सच गणः १३, १४ पृष्ठे दर्शितः।

अर्द्धलक्ष्मीहरि = अर्द्धं लक्ष्म्या आकारेऽस्य तादृशो हरिः। लक्ष्मोनारायणात्मके विष्णोर्मूर्त्तिभेदे तद्रूपं यथा “उद्यत् प्रद्योतनशतरुचिं तप्तहेमावदातं पार्श्वद्वन्द्वे जलघिसुतया विश्वधात्र्या च जुष्टम्। नानारत्नोत्कलितविविधाकल्पमापीतवस्त्रं विष्णुं वन्दे दरकमल कौमोदकोचक्रपाणिमिति”

अर्द्धविसर्ग = पु० अर्द्धं विसर्गस्य तद्व्यञ्जकत्वादुपचारः। विसर्ग सदृशाकारार्द्धरेखया व्यञ्जनीये कखयोःपरत जिह्वामूलीयाख्ये पफयोःपरतः उपाध्मानीयाख्ये च वर्ण्णभेदे अर्द्धविसर्जनीयादयोऽप्यत्र।

अर्द्धवीक्षण = न० अर्द्धमसंपूर्णं वीक्षणम्। कटाक्षदर्शने।

अर्द्धवैनाशिक = पु० अर्द्धोऽसम्पूर्णः वैनाशिकः बौद्धभेदः। वैशेषिकशास्त्रकारे तस्य च सर्वस्य क्षणिकतावादितया वैनाशिकसमयवत् परिणामभेदेन देहादेराशुविनाशस्वीकारेण आत्मनस्तु स्थायित्वाङ्गीकारेण च ततो बैलक्षण्यात् अर्द्धवैनाशिकत्वम् इति वेदान्तिनो वदन्ति। वैशेषिकादयस्तु वेदान्तिनोऽर्द्धवैंनाशिकत्वं कल्पयन्ति “तैर्हि वेनाशिकवत् सर्वेषां पदार्थानां चिद्रूपज्ञानमात्रात्मकतया स्वीकारेण चितश्च स्थायित्वाङ्गीकारमात्रेण ततो वैलक्षण्यमित्यर्द्धवैनाशिकत्वमिति। यथा च नैषां तथात्वं तथा विवरणप्रमेयोपन्यासे प्रपञ्चितम् विद्यारण्येन।

अर्द्धवैशस = न० अर्द्धस्य वैशसं वघः। अर्द्धबधे “विधिना कृतमर्द्धवैशसम् “अर्द्धोवा आत्मनो यत् पत्नी” इति श्रुतेस्तस्य नाशे पत्न्या अर्द्धनाशोयुक्त इति तथोक्तम्।

अर्द्धशत = न० अर्द्धं शतस्य एकदे० त०। १ पञ्चाशत्संख्यायां २ तत्संख्यान्विते च। “तैश्योऽप्यर्द्धशतं द्वे च” मनुः। क्षचित् ६ त०। तत्रैवार्थे न० एतच्छतार्द्धमावर्त्त्य लैलोक्यविजयी भवेत्” तन्त्रम्।

अर्द्धशन = एकदेशित० शक०। अर्द्धभोजने रत्नावली० अर्द्धाशनमप्यत्र।

अर्द्धशफर = पु० अर्द्धः शफरः। (दाडका) इति ख्याते मत्स्यभेदे

अर्द्धश्लोक = पु० अर्द्धं श्लोकस्य एकदेशित०। श्लोकस्यार्द्धे प्रथम पादद्वये

अर्द्धसम = त्रि० अर्द्धेन समः। १ अर्द्धेन तुल्ये पदार्थे “प्रथमाङ्घ्रिसमो यस्य तृतीयश्चरणोभवेत् द्वितीयस्तुर्य्यवद्वृत्तं तदर्द्धसममुच्यते” वृत्तरत्नाकरोक्ते २ वृत्तभेदे न० यथा “अयुजि न युगरेफतोयकारो युजि च नजौ जरगाश्च पुष्पिताग्रा” एवमुपचितादीनि।

अर्द्धसीरिन् = पु० अर्द्धं सीरस्यहलकृष्टशस्यादिफलस्य सोऽस्यास्ति इनि १ हलसाध्यकलशस्यस्यार्द्धभाजि। “शूद्रेषु दासगोपालकुलमित्रार्द्धसीरिणः। भोज्यान्ना नापितश्चैव यश्चात्मानं निवेदयत्” या० स्मृतिः अत्र निरुक्तार्थपरत्वम् मिताक्षराकृतोक्तं पराशरेण तु तस्य पारिभाषिकत्वम् दर्शितं यथा” दासनापितगोपालकुलामित्रार्द्धसीरिणः एते शूद्रेषु भोज्यान्ना यश्चात्मानं निवेदयेत्” इत्युक्त्वा “वैश्यकन्वासमुत्पन्नो ब्राह्मणेन तु संस्कृतः। अर्द्धिकः स तु विज्ञेयो भोज्यं विप्रैर्न संशयः” इत्युक्तम् तेन वैश्यागर्भजो ब्राह्मणेनोत्पादितः संस्कारवान् वर्णसङ्करभेदः अर्द्धिकः अर्द्धसीरीति। तेन २ तदर्थेऽपि।

अर्द्धहार = पु० ऋध–वृद्धौ अच् अर्द्धः सम्पन्नः हारः। चतुः षष्टिलतिके हारमेदे।

***