अराग = पु० अभावे न०। १ अनुरागाभावे रञ्जनाभावे च न० ब०। २ रागशून्ये त्रि०। “तमहमरागमतृष्णम्” वेणी०
अरागिन् = त्रि० न रागी न० त०। विरक्ते स्त्रियां ङीप्।
अराजक = त्रि० नास्ति राजा यत्र कप्। राजशून्ये देशादौ “अराजको हि लोकोऽस्मिन् सर्व्वतो विद्रुते भयात्” मनुः।
अराजन्य = पु० न० त०। क्षत्रियभिन्ने “राज्ञो न धनमन्विच्छेदराजन्यप्रसूतितः” मनुः।
अराजिन् = त्रि० राजा अधिष्ठातृत्वेनास्त्यस्य ब्रीह्या० इनि न० त०। १ राजानधिष्ठिते “वि पर्व्वताः अराजिनः” ऋ० १, ७, २३। अराजिनः राज्ञा केनचित्स्वामिनाऽनघिष्ठिताः” भा०। न राजते राज–इनि। २ दीप्तिशून्ये त्रि० स्त्रियामुभयतो ङीप्।
अराजीव = पु० अरम् चक्राङ्गं तत्साधनम् आजीवति आ + जोव अन् उप० स०। १ रथकारे। राजीवं पद्मम् न० ब०। ३ पद्मशून्ये जलादौ त्रि०।
अराति = पु० न राति ददाति सुखं रा + क्तिच् न० त०। १ शत्रौ। “देशः, सोऽयमरातिशोणितजलैर्यस्मिन् ह्रदाः पूरिताः” वेणी० अरिशब्दे विवृतिः। ज्योतिषोक्ते २ षष्ठस्थाने। “आरतिव्रणयोः षष्ठे अष्टमे मृत्युरन्ध्रयोः” इत्यक्तेः षष्ठस्थाने अरिकृतशुभाशुभचिन्तनीययत्वात्तथात्वम् कामादिष्वान्तररिपुषु ४ षट्संख्यायां कामादीनामान्तररिपूणां संख्यासाम्यात्। ५ अभिगमनशीले च “मा घान्यर्योवनुषामरातयः” ऋ० ७, ८३, ५,। “विश्वा अग्नौ अरातीः ऋ० ८, ४९, २, अरातीः अभिगमनशीलाः शत्रवोवा भा० भावे क्तिन् अभावे न० त०। ६ दानामावे स्त्री “मा नो अरातिरीशत” ऋ० २, ७, २। “अरातिरदानम् शत्रुर्वा वेदे शत्रौ अरातिशब्दः स्त्री” भा०। अरातिरिवाचरति। आत्मनः अरमिच्छति क्यच् अरातीयति। शत्रुतुल्यमचरति तदिच्छति येत्यर्थे। “य उक्त यजमने यारातीयति” शत० व्रा०। योऽस्मभ्यमरातीयात्” यजु० ११, ८०।
अरातीयु = त्रि० अरातिरिव आचरति अराति + क्यच्–उ। अथ० १०, ६, १। शत्रुतुल्याचारशीले “अरातीयोर्भ्रातृव्यस्य दुर्हृदः”
अरातीवन् = त्रि० अरातिमिच्छति वेदे मत्वर्थोयोवनिप् पूर्व्वपददीर्घश्च। शत्रुतुल्याचारवति। “अघायुररातीवा मर्चयति द्वयेन” ऋ० १, १४७, ४।
अराधस् = त्रि० राधः धननाम निरु०। तन्नास्ति यस्य। धनरहिते ‘कदामर्त्तमराधसम्’ ऋ० १, ८४, ८, “अराधसम् राधसा धनेन रहितम्” भा० ‘पदा पणी~ रराधसो निबाधस्वं ऋ० ८, ६१, २ “अराधसं धनहीनम् यज्ञञ्च” भा०।
अराय = त्रि० नास्ति रा धनं यस्य वेदे षच्समा०। १ धनशून्ये स्त्रियां ङीष्।। “अपमृज्य वा यातुधानानप सर्व्वा अराय्यः” अय० ४, १८, ८ रा + भावे घञ् रायोयज्ञादौदानम् न० ब०। २ तच्छून्ये त्रि०। “नारायासो न ज्वह्लवः” ऋ० ८। ६१। ११, “अरायाः अधनाः अहविष्का वा” भा० “अरायेभ्योजिघत्सुभ्य इमं मे परिरक्षत” अथ० ८, २, २०।
अराल = पु० ऋ–विच् अरमालाति आ + ला–क। १ सर्ज्जरसे २ मत्तहस्तिनि। ३ कुटिले त्रि०। “तत्रामरालयमरालमरालकेशी” नैष० “भित्त्वा निराक्रामदरालकेश्याः” रघुः “नोवक्त्रमात्मीयमरालपक्ष्मणः” कुमा०। ४ वेश्यायां स्त्री
अरावन् = त्रि० रा–वनिप् न० त०। अदातरि। “अरावा चन मर्त्यः” ऋ० ८, ८, ४, ‘पाहिधूर्त्तेरराव्णः, ऋ० १, ३६, १५ स्त्रियां ङीप् वनोरश्च। अरावरी।
अरि = पु० ऋ–इन्। १ शत्रौ २ रथाङ्गे, चक्रे, ३ विट्खदिरे, ४ कामक्रोधलोभमोहमदमात्सर्येषु षट्सु, तत्संख्यासाम्यात् ५ षट्संख्यायां, ६ ज्योतिषप्रसिद्धे लग्नावधिके षष्ठस्थाने ७ ईश्वरे च। तत्र शत्रौ “दूरात्प्रशमितारिभिः” “विजितारिपुरः पुरः” रघुः। “नारीणामनुकूलमाचरसि चेज्जानासि” का० प्र० “अरिकरिहरणार्थम्” लीला०। “नारिं न मित्रं यं विद्यात्तं श्राद्धेभोजयेत् द्विजम्” मनुः। चक्रे “गदारिखड् ग पद्मधृक्” विष्णुध्यानम्। कामादौ “कृतारिषडवर्गजयेन” किरा०। ईश्वरे अरिधामश् शब्दे उ० विट्खरि अरिमेदः। “सितासितौ चन्द्रमसो न कश्चित् बुधः शशी सौम्यसितौ रवीन्द। रवीन्दुभौमा रवितस्त्वमित्रा” इति ज्योतिषोक्तेषु रव्यादीनां ८ शुक्रमन्दादिषु। यथा रवेः शुक्रशनी, कुजस्य बुधः, बुधस्य शशी, गुरोः बुधशुक्रौ शुक्रस्य रविचन्द्रौ” शनेः रविचन्द्रभौमाः। “नीचस्थितेऽरिगेहगेऽथ पराजिते वा जीवे भृगौ ब्रतविधौ स्मृतिकर्महीनः” ज्योति० एते च नैसर्गिका अरयः तात्कालिकास्तु “चतुर्थदशवित्तान्त्यविनाशस्थाः परस्परम्। तत्कालमित्राण्युच्चस्थः कैश्चिदुक्तोऽन्यया रिपुः” ज्योतिषोक्तेः तत्काले तत्तद्राशिस्थग्रहापेक्षया २, ३, ४, १०, ११, १२ स्थानभिन्नेषु १, ५, ६, ७, ८, ९ स्थानेषु स्थिताः ग्रहाः तथाहि कर्मकाले ये ग्रहा यत्र राशौ तिष्ठन्ति तेषां यदपेक्षया १, ५, ६, ७, ८, ९, स्थान स्था ग्रहास्ते तेषां तत्कालिकारयो भवन्ति तएव ग्रहा यदि नैसर्गिकरिपवस्तदा अधिशत्रवः नैसर्गिकसमाश्चेत् रिपवः, इति भेदः। यथोक्तं हितसमरिपुसंज्ञा ये निसर्गे निरुक्ताः अधिहितहितमध्यास्तेऽपि तत्कालमित्रैः। रिपुसमसुहृदाख्या ये निसर्गोपदिष्टा अधिरिपुरिपुमध्याः शत्रुभिश्चिन्तनीया’ इतिराजभा०। निसर्गसमाश्च “बुधःकुजेज्यास्फुजिदर्कपुत्राः शुक्रार्कजौ, भौमसुरेज्यमन्दाः,। शनिः, कुजज्यौ, सुरराजमन्त्रो रव्यादितोऽमी समसं ज्ञिताः स्युः” इत्युक्ताः यथारवेः बुधः, चन्द्रस्य कुजगुरुशुक्रशनयः। कुजस्य शुक्रशनी, बुधस्य कुजगुरुशनयः। गुरोः शनिः, शुक्रस्य कुजगुरू’ शनेः गुरुः, एतेषां क्रमेणैते समास्त एव समा अपि तात्कालिकरिपवश्चेत् रिपव इति अवगन्तव्यम्। एतेषां वलज्ञानार्थं तत्तत् संज्ञा तयाहि अधिमित्रगृहे २२। ३० कला बलम मित्रगृहे१५ कलाः, समगृहे ११। ४५ कलाः शत्रुगेहे ७। ३ कलाः अधिशत्र गृहे ३। ४५ कलाबलम्। मूलं जातकादौ दृश्यम्। नैसर्गिकरिगुता तु सर्वकार्य्यमात्रे इति भेदः। एतच्च जातोक्तग्रहादिबलज्ञानोपयोगि। ताजके तु “दृष्टिः स्यान्नमपञ्चमे बलवती प्रत्यक्षतः स्नेहदा पादोना (४५ कलाः)ऽखिलकार्य्यसाधंनकरी मेलापकाख्योच्यते। गुप्तस्नेहकरी तृतीयभवने कार्य्यस्य संसिद्धिदा त्र्यशोना कथिता (४० कलाः) तृतीयभवने षड्भागदृष्टिर्भवे (१०कलाः)। दृष्टिः पादमिता (१५ कलाः) चतुर्थदशमे गुप्तारिमावा स्मृताऽन्योन्यं सप्तमभे तथैकभवने प्रत्यक्षवैराखिला” (६० कलाः) इति दृष्टिविशेषमभिधाय “पश्यन्मित्रदृशा (३, ५, ९, ११,) सुहृत्, रिपुदृशा (१, ४, ७, १०) शत्रः। समस्त्वन्यथा २, ६, ८, १२, इति नील० उक्तदिशातात्कालिकमित्रादि। तेन स्वापेक्षप्या १, ४, ७, १०, स्थानस्था ग्रहाः रिपवः। तत्र “स्वस्वाधिकारोक्तबलं सुहृद्भे पादोनमर्द्धं समभेऽरिभेऽङ्घ्रः” नील०। राहोनिसर्गरिपवस्तु “सूर्य्यःशशाङ्को धरणीसुतश्च राहो रिपुः” इत्युक्ता ज्ञेयाः। तत्कालिकास्तुप्रागुक्तदिशा ज्ञेयाः केतोस्तु “शुक्रशनी विपक्षौ” इत्युक्तौ ज्ञेयौ। जातके षष्ठस्थाने “षष्ठे च क्षतविद्विषौ” इत्युक्तौ चिन्तनीयौ। ताजके तु “रिपौ मातुलमान्द्यारिचतुष्पाद्बन्धनीव्रणा” इति नील० ताजकोक्ताः चिन्तनीयाः। ८ तन्त्रोक्ते मन्त्रभेदे। तथाहि षोडशकोष्ठात्मके सिद्धादिचक्रे चतुश्चतुःकाष्ठादिक्रमेण सिद्धः, साध्यः सुसिद्धः अरिरिति संज्ञा। तत्रापि तेषु चतुःकोष्ठात्मकेषु प्रत्येकं चतुर्थं कोष्ठमपि अरिसंज्ञं तथा च पञ्चमकोष्ठं सप्तमकोष्ठं त्रयोदशकोष्ठं एकादशंकोष्ठम् द्वादशं पञ्चदशं कोष्ठंषोडशं चेति सप्तकमरिसंज्ञं तस्यारिसंज्ञकत्वात् तत्रस्थवर्ण्णा अप्यरिसंज्ञाः। षोडशकोष्ठस्थवर्णेषु मध्ये साधकनामाक्षरं यत्र तिष्ठति तस्यैंवादित्वं प्रकल्प्य दक्षिणावर्त्तेन सर्ब्बत्र चतुर्षु चतुःकोष्ठात्मकेषु गणना तथा च प्रथमादिकोष्ठस्थाक्षरादिको मन्त्रः सिद्धादिनामभाक्। यथा आद्यकोष्ठचतुष्टये प्रथमे १ सिद्धसिद्धः २ द्वितीये सिद्धसाध्यः। तृतीये ३ सिद्धसुसिद्धः ४ चतुर्थे सिद्धारिः। द्वितीयकोष्ठचतुष्के आद्ये साध्यसिद्धः द्बितीये साध्यसाध्यः। तृतोये साध्यसुसिद्धः चतुर्थे साध्यारिः। तृतीयकोष्ठचतुष्टये आद्ये सुसिद्धसिद्धः द्वितीयेसुसिद्धसाध्यः। तृतीवे सुसिद्धसुसिद्धः चतुर्थे सुसिद्धारिः। चतुर्थकोष्ठचतुष्के आद्ये अरिसिद्धः। द्वितीये अरिमाध्यः तृतीये अरिसुसिद्धः चतुर्थे अर्य्वरिरिति गणना। एतच्च प्रदर्शनमात्रमुक्तम् किन्तु सर्ब्बत्र यत्र कोष्ठे साधकनामाक्षरं तदारभ्यैव गणना तथाच साधकनाभाक्षरं यत्र तिष्ठति तत्कोष्ठस्यैवादित्वं प्रकल्प्य दक्षिणाबर्तेन गणने मन्त्राक्षरं यत्र तिष्ठति तत्पर्य्यन्तगणनायां सिद्धादिषोडशसंज्ञा तथा च ३८ पृष्ठे दर्शिताऽकथहचक्रानुसारेण प्रथमादिसंज्ञा साधकनामाक्षारादिकल्पनयैव। ततश्च सिद्धादिचक्रस्थकोष्ठानां प्रथमादिसंख्या या उक्ता सा न नियता अकथहचक्रशब्दे तन्मूलं दृश्यम्। “अरिमन्त्रं न गृह्लीयादिति” तन्त्रम। राज्ञो विषयानन्तरस्थे ९ नृपतौ। स च द्वादशराजचक्रमध्ये आदिमूतः यथोक्तं माघ २, ८१ श्लोकव्याख्यायां मल्लि०। “अरिर्मित्रमरेर्मित्रं मित्रमित्रमतः: परम्। अरिमित्रस्य मित्रञ्च विजिगीषोः पुरस्मराः” पञ्चेतिशेषः “पार्ष्णिग्राहस्ततः पश्चादाक्रन्दस्तनन्तरम्। आसारावनयोश्चैव विजिगोषोस्तु पृष्ठतः” पार्ष्णिग्राहासारः आक्रन्दासारश्चेति चत्वार इति शेषः एवं नव भवन्ति विजिगीषुर्दशमः “अरेश्च विजिगीषोश्च मध्यमो भूम्यन्न्तरः। अनुग्रहे संहतयोः समर्थोव्यस्तयोर्बधे। मण्डलाद्वहिरेतेषामुदासीनो बलाधिकः” इति मध्यमोदासीनाभ्यां सह द्वादश इति। अरये साधु तस्मै हितं वा यत्। अराय्यं तत्र साध्वादौ त्रि० “असौ यो अधराद्गृहस्तत्र सन्त्वराय्यः” अथ० २, १४, ३,। १० प्रेरके त्रि० अरिष्टुतशब्दे उदा०।
अरिक्थभाज् = त्रि० रिकथ पित्रादिदायं न भजते भज–ण्वि अस० स०। दायाग्राहिणि अनंशे क्लीवपतिताढौ अनंशशब्दे १४३ पृष्ठेऽस्य विवरणम्।
अरिगूर्त्त(र्ण) = पु० अरये तद्धननाय गूर्त्तः उद्युक्तः गुरी उद्यमे क्त तस्य न वेदे नत्वम्। शक्रुबधायोद्युक्ते “पर्षदरि गूर्त्तः सूरिः ऋ० १, १८६, ३ लोके तु अरिगूर्ण्ण इत्वेव।
अरिता = स्त्री अरेर्भावः तल्। शत्रुतायामनिष्टसम्पादने।
अरितृ = पु० ऋ–अन्तर्भूतण्यर्थे तृच् वेदे इट्। नाविके कर्ण्णधारे “इयर्त्ति वाचमरितेव नावम्” ऋ० ९, ९५, २, २, ४२, १, लोके तु नेट् अर्त्ता गन्तरि स्त्रियां ङीप्।
अरित्र = न० ऋच्छत्यनेन ऋ–इत्र। (हालि( इति ख्याते १ नौकाचालनकाष्ठे। “लोलैररित्रैश्चरणैरिवाभितः” माघः “नौर्ह वा एषा स्वर्ग्या यद्बहिष्पवमानं तस्या ऋत्विज एव स्फ्याश्चारित्राश्च” शत० ब्रा०। २ गमनसाधने वाहनादौ च “अरित्रं वां दिवस्पृथु” ऋ० १, ४६, ८, “अरित्रं गमनसाधनं नौरूपम्” भा०। “शतारित्रां नावमातस्थिवांसम्” ऋ० १, ११६। ५, “शतारित्रां बह्वरित्रां यैः काष्ठैः पार्श्वतोबद्धैर्जलालोडने सतिनौः शीघ्रं गच्छति तान्यरित्राणि” भा०। अरितः पापादितस्त्रायते त्रै–क। पापादितो ३ रक्षके त्रि०। “दशारित्रो मनुष्यः स्वर्षाः” ऋ० २, १८, १, “दशारित्रः अरिभ्य पापेभ्यस्त्रायन्ते इत्यरित्रा ग्रहाः दशसंख्याकाग्रहायस्य” भा०। काश्या० ष्ठञ्ञिठौ। तत्सम्बन्धिनि आरत्रिकः तद्भवादौ च त्रि० ञिष्ठ स्त्रियां ङीष्।
अरिदान्त = पु० अरिर्दान्तोयेन निष्ठान्तत्वात् विशेष्यस्यापि परनिपातः। यदुवंश्ये क्षत्त्रियभेदे। “रामे भारं समासज्य, युयुधाने च वीर्य्यवान्। अक्रूरेविपृथौ चापि गदे च कृतवर्म्मणि। चक्रदेवे सुदेवे च सारणे च महाबले। निवृत्तशत्रौ विक्रान्ते भङ्गकारे विदूरथे। उग्रसेनात्मजे कङ्के शतद्युम्ने च केशवः। राजाधिदेवे मृदरे प्रसेने चित्रके तथा। अरिदान्ते वृहद्दुर्गे श्वफल्के सात्यकौ पृथौ। वृष्ण्यन्धकेषु चोन्यषु मुख्येषु। मधुसूदनः। गुरुमासज्य तं भार ययौ द्वारवतीं प्रति”। इति हरिवं०।
अरिधायम् = त्रि० अरिभिरीश्वरेः धार्य्यते धा–असुन् पृ० युट् च। ईश्वरधार्य्ये। “अष्टावरिधायसोगाः” ऋ० १, १२६, ५, अरिधायसः “अरिभिरीश्वरैः धार्य्यमाणा” भा०।
अरिनन्दन = त्रि० अरीन् शत्रून् नन्दयति तोषयति नन्दणिच्–ल्यु उप० स०। शत्रुसन्तोषके अकृतेन्द्रियजये व्यसनासक्ते।
अरिन्दम = त्रि० अरीन् शत्रून् कामादीन् वा दाम्यति दमयति दम–अन्तर्भूतण्यर्थे खच् मुम् उप० स०। परामि- भावके १ शत्रुतापके २ जितकामादौ च। काश्या० ष्ठञ्ञिठौ आरिन्दमिकः। तत्सम्बन्धिनि त्रि० ष्ठञि स्त्रियां ङीष्।
अरिप्र = त्रि० रिप्रमिति निरुक्ते पापनाम तन्नास्ति यस्य। पाप रहिते “अरिप्रा वृत्रहन्तमाः” ऋ० ८, ८, ९, “रिप्रमिति पापनाम” भा०। “तं वो वयं शुचिमरिप्रमद्य”। ऋ० ७, ४७, १, “अरिप्रं पापरहितम्” भा०।
अरिमर्द्द = पु० अरिं रोगरूपं शत्रुं मृद्गाति मृद–अण् उ० स० १ कासमर्द्दवृक्षे। २ शत्रुतापके त्रि०।
अरिमर्द्दन = त्रि० अरिं मृद्नाति मृद–ल्यु–उप० स०। १ शत्रुतापके गान्दिनीपुत्रे अक्रूरसोदरे श्वफल्कस्य पुत्रे यदुवंश्ये क्षत्त्रियभेदे “श्वफल्कः काशिराजस्य सुतां भार्य्यामविन्दत। गान्दिनीं नाम तस्यार्थे गाः सदा प्रददौ पिता। तस्यां जज्ञे महाबाहुः श्रुतवानिति विश्रुतः। अक्रूरोऽथ महाभागो यज्वा विपुलदक्षिणः। उपमद्गुस्तथा मद्गुर्मुदरश्चारिमर्द्दनः। अरिक्षिपस्तथोपेक्षः शत्रुघ्नोऽथारिमर्द्दनः। धर्म्मधृग्यतिधर्म्मा च गृध्रमोजान्तकस्तथा आवाहाप्रतिवाहौ च सुन्दरी च वराङ्गना” हरिवं०।
अरिमेजय = पु० अरिमेजयति कम्पयति एज–णिच्–खश् मुम् उ० स०। शत्रुतापके अक्रूरसोदरे यदुवंश्ये क्षत्त्रियभेदे अरिमर्द्दनशब्दे विवृतिः।
अरिमेद = पु० अरेर्विट्स्वदिरस्येव मेदः सारः स्यन्दोऽस्य। (गुइयावावला) १ वृक्षभेदे। अरिरिव मेद्यति रूक्षक्षत्वात् अल्पं स्निह्यति मिद–अच्। २ विट्खदिरे। संज्ञायां कन्। ३ कृमिभेदे तद्गणनायाम् “वाह्यका पिच्चिटः कुम्भी वर्च्चकीटोऽरिमेदकः” सुश्रु०।
अरिला = स्त्री “षोडशकले विलासिनि! छन्दसि प्रतिपदमन्ते यमकविलासिनि। अरिला नाम पयोधरधारिणि! शेषे नियतलघुद्वयधारिणि” “इत्युक्तलक्षणे मात्रावृत्तभेदे।
अरिष = पु० न इयर्त्ति मलं यस्मात् ऋ–किषन् न० त०। १ अपानमांसजे रोगभेदे। न रिष्यति विच्छिद्यते रिष–क न० त०। २ अविच्छिन्नधारावर्षणे न०।
अरिषडष्टक = न० षट् च अष्टौ च द्व० ततः परिमाणार्ये कन् षडष्टकम् अरिस्वामिकं षडष्टकं शाक० त०। विवाहे वर्जनीये योगविशेषे, तथाहि दम्पत्योः परस्परराश्यपेक्षया परस्परस्य राशेः षष्ठत्वेऽष्टमत्वे वा अशुर्भ तयोः राश्योर्मित्रस्वामिकत्वे पुनर्न दोषः शत्रुस्वामिकत्वेऽतीव दोषः। यथोक्तं “मकरः करिकुलरिपुणा कन्या मेषेण सह झषस्तुलया। कर्किघटौ वृषधनुपी वृश्चिकमिथुने चारिविधौ। यदि कन्याष्टमे भर्त्तुर्भर्त्तुः षष्ठे च कन्यका। षडष्टकं विजानीयात् वर्ज्जितं त्रिदशैरपि” ज्यो० त०। तत्र प्रतिप्रसवः। “सौहृद्ये ह्युभयोर्द्व योरपि तयोरैकाधिपत्येऽपि वा ताराषट्सु सुमित्रमित्रसुखदक्षेमार्थसम्पद्यदि। षट्काष्टे नवपञ्चमे व्ययधने योगे च पुंयोषितोः प्रोत्यायुःसुखवृद्धिपुष्टिजननं कार्य्यो विवाहः शुभः” भुज० भी०। अत्यन्तापद्विषये व्यासः। “मैत्रादियोगेऽपि षडष्टकादौ ताराविपतप्रत्यरिनैधनाख्याः। वर्ज्या विवाहे पुरुषोडुता हि प्रीतिः परा जन्मसु तारकासु”। तत्रदानमुक्तम् तत्रैव। “षडष्टके गोमिसुनं प्रदेयमिति”।
अरिषड्वर्ग = पु० षण्णां वर्गः समुदायः षड्वर्गः अरीणां कामक्रोधलोभमोहमदमात्सर्य्यरूपाणामन्तःशत्रूणां षड्वर्गः देवीभागवतवत् विष्णुभागवतवच्च सापेक्षत्वेऽपि गमकतया स०। कामादिषु षट्स्वान्तरेष रिपुषु “कृतारिषड्वर्गजयेन” किरा०।
अरिषण्य = त्रि० न रिषति हिनस्ति रिष हिंसायाम् अन्यक् न० त०। अहिंसके “श्वानेव नौ अरिषण्या तनूनाम्” ऋ० २, ३९, ४, “अरिषण्यावहिंसकौ श्वानौ” भा०।
अरिष्ट = पु० रिष–हिसाय कर्त्तरि–क्त न० त०। १ लशुने २ निम्बे। “सर्षपारिष्टपत्राभ्यां सर्पिषा लवणेन च “ब्रणि रक्षायां सुश्रुतः। “सुमनायाश्चपत्राणिपटोलारिष्टयोस्तथेति” विद्रधिचिकित्सायां सुश्रुतः। ३ लङ्कानिकटवर्त्तिपर्वतभेदे ४ काके ५ कङ्के (रीठा) इति ख्याते ६ फेनिलफलकवृक्षे। “अरिष्टकस्त्रिदोषघ्नोग्रहजिद्गर्भपातनः” वैद्य०। ७ कृष्णहतेऽसुरभेदे। “यत्र शाल्वञ्चमैन्दञ्च कंसं द्विविदमेव च अरिष्टं वृषभं केशिं पूतनां दैत्यदारिकाम्। नागं कुवलया पीडं चानूरं मुष्टिकं तथा। दैत्यान् मानुषदेहस्थान् सूदयामास वीर्य्यवान्” हरिव०। ८ अशुभे। ९ तक्रे। १० सूतिकागृहे। “अरिष्टशब्यां परितोविसर्पिणा” रघुः तत्करणप्रकारस्तु “नवमे मासि सूतिकागारमेनां प्रवेशयेत् प्रशस्ततिथ्यादौ तत्रारिष्टं ब्राह्मणक्षत्रिमवैश्यशूद्राणां श्वेतरक्तपीतकृष्णेषु भूमिप्रदेशेषु विन्यस्तन्यग्रोधतिन्दुकभल्लातकसर्षपदूर्वानिर्म्मितं शय्यागारं यथासंख्यं तन्मयपर्य्यङ्कमुपलिप्तभित्ति सुविभक्तपरिच्छदं प्राग्द्वारं दक्षिणद्वारं वाऽष्टहस्तायतंचतुर्हस्तविस्तृतं रक्षामङ्गलसम्पन्नं विधेयम्” सुश्रु०। तत्र प्रवेशे “रोहिण्यैन्दवपौष्णे तु स्वातीवरुणयोरपि। प्रनर्वसौ पुष्यहस्तधनिष्ठासूत्तरासु च। मैत्रे त्वाष्ट्रे तथाश्विन्यां सूतिकागारमाविशेत्” नि० सि० तारा उक्ता। एतच्च सम्भवे “प्रसूति समये प्राप्ते सद्यएव प्रवेशयेत्” वशिष्ठोक्तेः। तच्च नैरृत्यां वास्तुभूमौकार्यम् “वारुण्यां भोजनगृहं नैरृत्यां सूतिकागृहम्” वशिष्ठोक्तेः “दशाहं सूतिकागारमायुधैश्च विशेषतः। वह्निना तिन्दुकालातैः पूर्णकुम्भैः प्रदीपकैः। मुषलेन तथा द्वारि वर्णकैश्चित्रितेन च” विष्ण० पु० ११ अनिष्टसूचके उत्पाते भूमिकम्पादा अरिष्टे त्रिविधोत्पाते” इतिज्यो० १२ अनिष्टस्थानस्थेषु रव्यादिग्रहेषु। १३ पानेनारिष्टकारके मद्ये। “रक्तारिष्टं शोषिताजीण्णं शेषम्” माघः। “अरिष्टं लघु पाकेन सर्व्वतस्तु गुणाधिकम्। अरिष्टस्य गुणा ज्ञेया वीजद्रव्यगुणैः समाः” वैद्य०। मद्ये पुस्त्वमपि भावप्र०। नास्ति रिष्टंयतोऽधिकम् ५ ब०। १४ मरणचिह्ने। “रोगिणो मरणं यस्मादवश्यं भावि लक्ष्यते। तल्लक्षणमरिष्टं स्यात् रिष्टमप्यभिधीयत” इति पुरा०। न० त०। १५ शुभे न० ५ व०। १६ शुभदायके विधाने १७ अविनाशिनि च त्रि०। १८ वलिपुत्रे दैत्यभेदे पु० “अरिष्टो वलिपुत्रश्च वरिष्ठोऽथ शिलायुधः” हरिवं० (कट्की) ख्यातायां १९ कटुकायां २० कश्यपपत्नीभेदे च स्त्री “अदितिर्दितिर्दनुश्चैव अरिष्टा सुरसा खशा” इत्युपक्रम्य “कद्रुर्मुनिश्च राजेन्द्र! तास्वपत्यानि मे शृणु अरिष्टा तु महासत्वान् गन्धर्वानमितौजसः” हरिव० रिष्टं हिंसा विरोधे न० त०। २१ सुखेनावस्थाने न० “मर्त्तवेऽथो अरिष्टतातये” ता० ब्रा०। “अरिष्टं सुखेनावस्थान’ तस्य तातये विस्ताराय” भा०। स्वार्थे कन्। निम्बादौ।
अरिष्टगातु = अरिष्टं हिंसितं गच्छति गम–तुन् नि० आदन्तादेशः। अहिंसितगमने। “अरिष्टगातुःसहोतासहोभरिः” ऋ० ५, ४४, ३, “अरिष्टगातुरहिंसितगमनः” भा०।
अरिष्टताति = अरिष्टस्य करः वेदे अरिष्ट + तातिल्। सुखकरणे ‘जीवातवे न मृत्यवेऽथोऽरिष्टतातये’ ऋ० १०, ६०, ८, “ओषधीरस्मा अरिष्टतातये” यजु०। लोके तु तायक्तिन्। अरिवृविस्तारे “तदत्रभवतां निष्पन्नाशिषमरिष्टतातिमाशास्महे” वीरच०। क्वचिद्वेदेऽपि तथा अरिष्टशब्दे दृश्यम्।
अरिष्टदुष्टधी = त्रि० अरिष्टेन मरणसूचकनिमित्तेन दुष्टा धीरस्य। आसन्नमरणसूचक–निमित्तेन दुष्टमतौ
अरिष्टनेमि = पु० ६ त० कश्यपपुत्रे विनतायाः पुत्रभेदे “तार्क्ष्य- श्चारिष्टनेमिश्च गरुडश्च महाबलः। अरुणश्चारुणिश्चैत विनतायाः सुताः स्मृताः” ह्नरिव० २ तीर्थकरे जिनभेदे च।
अरिष्टि = स्त्री न रिष्टिः हिंसा अभावे न० त०। हिंसाभावे। “पोषं रयीणामरिष्टिं तनूनाम् ऋ० २, २१, ६,। “अरिष्टिमहिंसाम्” भा०।
अरिष्टुत = त्रि० अरिभिः प्रेरयितृभिः स्तुतं वेदे षत्वम्। प्रेरयितृभिः स्तुते प्रशस्ते “रासते विश्वगूर्त्तो अरिष्टुतः ऋ० ८, १, २२। लोके तु न षत्वम्।
अरिष्ठ = त्रि० अरये तिष्ठते स्था–क वेदे षत्वम्। शत्रनाशायस्थातरि।
अरिह = त्रि० अरीन् हन्ति हन–ड। १ शत्रुनाशके “हरिहयोऽरिहयोगविचक्षणः” रघुः “पौरवे नृपभेदे” अवाचीनोऽपि वैदर्भीमपरामुपयेमे मर्य्यदां नाम तस्यामस्य जज्ञे अरिहः, अरिहः खल्वङ्गामुपयेमे” भा० आ० प०।
अरीढ = त्रि० न रोढः लीढः न आस्वादितः लस्य रः। १ अनास्वादिते। ऋग्वेदे तु ढस्य लहः अरील्हः इत्येब। “अरील्हं वत्सम्” ऋ० ४, १८, १०। अरील्हं शत्रुभिरनभिभूतमानम् भाष्योक्ते २ अर्थे च।
अरीहण = पु० अरिं हन्ति हन–अच् पूर्व्वदीर्घः। नृपभेदे अरीहणेन निर्वृत्तम् वुञ्। आरीहणकम्। चतुरर्थ्याम् उत्करा० छ। अरीहणीयः तत्सन्निकृष्टदेशादौ त्रि०।
अरीहणादि = पु० अरीहण आदिर्यस्य। निर्वृत्तार्थे विहितवुञ्प्रत्ययनिमित्ते पाणिन्युक्ते शब्दसमूहे। स च गणः अरीहण, द्रुघण, द्रुहण, भगल, उलन्द, किरण, सांपरायण क्रौष्ट्रायण, औष्ट्रायण, त्रैगर्तायन, मैत्रायण भास्रायण, वैमतायन। गौमतायन, सौमतायन। सौसायन, धौमतायन, सौमायन, ऐन्द्रायण,। कौन्द्रायण खाडायन, शाण्डिल्यायन, रायस्पोष, विपथ, विपाश। उद्दण्ड, उदञ्चन, खाण्डवीरण, वीरण, कशकृत्स्न, जाम्बवत शिंशपा, रैवत, विल्व, सुयज्ञ, शिरीष, बधिर जम्बु खदिर सुशर्मन्, दलतृ, भलन्दन, खण्डु, कनल यज्ञदत्त, अरीहणादिः।
अरुंषिका = अरूंषि मर्मस्थानान्यधिकृत्य जाता ठन् पृ०, मुम्। क्षुद्ररोगभेदे। “समासेन चतुश्चत्वारिंशत्क्षुद्ररोगा भवन्ति।। तद्यथा अजगल्लिका यवप्रख्याऽन्धालजी विवृता। कच्छपिका वल्मीकमिन्द्रवृद्धा पनसिका पाषाणगर्द्दभो जाल गर्द्दभः कक्षा विस्फोटकोऽग्निरोहिणी चिप्पं कुनखोऽनुशयी विदारिका शर्कराऽर्वुदं पामा विचर्च्चिका रकसा पाददारिका कदरमलसेन्द्रलुप्तौ दारुणकोऽरुंषिका पलितं मसू- रिका यौवनपिडका पद्मिनीकण्टकी जतुमणिर्म्मशकश्चर्म्म कीलस्तिलकालको न्यच्छं व्यङ्गः परिवर्त्तिकाऽवपाटिका निरुद्धपकशः निरुद्धगुदोऽहिपूतनं वृषणकच्छूर्गुदर्भ्रंशश्चेति”।। अरूंषि बहुवक्त्राणि बहुक्लेदानि मूर्द्धनि। कफासृक् कृमिकोप्रेन नृणां विद्यादरुंषिकाम्” “अरुं षिकाहृते रक्ते सेचयेन्निम्बवारिणा” इति च सुश्रुतः।
अरुग्ण = त्रि० रुग्णः विरोधे न० त०। स्वस्थे रोगशून्ये “रुजदरुग्णं विबलस्य सानुम्” ऋ० ६, ३९, २।
अरुच् = त्रि० नास्ति रुक् कान्तिर्यस्य। प्रकाशहीने मलीमसे “अयं रोचयदरुचोरुचानोऽयम्” ऋ० ६, ३९, ४।।
अरुचि = पु० न रुचिर्यत्र। सत्यप्यभिलाषे १ भोजनायोग्यता सम्पादके १ रोगभेदे। न रुचिः सन्तोषः न० त०। २ सन्तोषाभावे ‘इत्यरुचेराह’ जगदीशः। पूर्व्वोद्भावितदोषस्य शिथिलत्वशङ्कया सन्तोषाभावादित्यर्थः। भोजनादौ ३ अभिलाषाभावे च “सन्निपातक्षयश्वासकाशहिक्काऽरुचिप्रनुत्” “स्याद्दुर्विरिक्ते कफपित्तकोपो दाहोऽरुचिर्गौरवमग्निसादः” इति च सुश्रुतः।
अरुज = त्रि० नास्ति रुक् रोगो यस्य। १ रोगशून्ये २ अनुत्पन्नरोगे च “कोऽरुक् कोऽरुक्कोऽरुक् “इति प्रश्ने” घृतभुगमितभुगशाकभुक् सोऽरुगित्यद्भटः “अरुक् सएवाप्यचलो महांश्च मर्म्मोत्थितश्चापि विवर्ज्जनीयः” सुश्रुतः।
अरुज = पु० न रुजति रुज–क। (सोंदाल) इति ख्याते १ वृक्षे। नास्ति रुजा यस्मात् ५ ब०। २ रोगाभावसाधने त्रि० “विषेभ्यः खलु सर्ब्बेभ्यः कर्णिकामरुजां स्थिराम्” सुश्रुतः। ३ दानवभेदे पु० दानवगणनायां हरिवं० “अनुह्रादो हरि हयोवराहः संहारोऽरुजः”। ६ त०। ४ रोगशून्येनीरोगे च त्रि०। “अपाककठिनः स्थूलोग्रन्थिर्वर्त्मभवोऽरुजः” सुश्रुतः। “अरुजं वा ह्यतः शूनमन्तः क्लिन्नं स्रवत्यपि” सुश्रु०।
अरुण = पु० ऋ–उनन्। १ सूर्य्ये, २ सूर्य्यसारथौ, ३ गुडे, ४ सन्ध्यारागे ५ निःशब्दे, ६ दानवभेदे ७ कुष्ठभेदे, ८ पुन्नागवृक्षे। ९ अव्यक्तरागे १० कृष्णमिश्रितरक्तवर्णे च ११ तद्वति त्रि०। १२ कुङ्कुमे, १३ सिन्दूरे च न०। १४ मञ्जिष्ठायाम् १५ श्यामाकायाम्, १६ अतिविषायाम् १७ नदीभेदे १८ कदम्बपुष्पायाञ्च स्त्री। १९ त्रिवृतायां मेदि० २० इन्द्रवारुण्याम् २१ गुञ्जायां राजनि० २२ मुण्डतिक्तायाम् च स्त्री। तत्र अनूरौ ‘विभावरी यद्यरुणाय कल्पते कुमा० “यावत् प्रतापनिधिराक्रमते न भानुरह्नाय तावदरुणेन तमोनिरस्तम्” रघुः। “तार्क्ष्यश्चारिष्टनेमिश्च गरुडश्च महाबलः अंरुणश्चारुणिश्चैव विनतायाः सुताः स्मृताः” हरि० “अरुणोगरुडभ्राता जवापुष्पसमप्रभः। योगानाञ्चैव सर्वेषां साध्यानामधिपः कृतः” हरिव०। “तदुत्पत्त्यादिकथा अनूरुशब्दे” १९१ उक्ता। सूर्य्ये “संसृज्यते सरिजैररुणाशुभिन्नैः” रघुः “रागेण बालारुणकोमलेन” कुमा०। वर्ण्णे तद्वति च “नयनान्यरुणानि घूर्णयन्” कुमा० “अरुणपुष्पाणि फाल्गुनानि” शत० ब्रा०। “दधत् सन्ध्यारुणव्योमस्फुरत्तारानुकारिणीः” माघः। द्वादशादित्यमध्ये माघमासाधिपे २३ आदित्यभेदे “अरुणो माघमासे वै” आदित्यहृदयम् विवरणमादित्यशब्दे। २४ देशभेदे पु०। धूमादि० वुञ्। आरुणकः तद्भवे त्रि० गुणवचनात् भावे इमनिच् अरुणिमा पु० ष्यञ् आरण्यम् न०। तल् अरुणता स्त्री त्व अरुणत्वम् न०। रक्तादिवर्णे। अपत्ये इञ्। आरुणिः जटायौ सूर्य्यपुत्रेमन्दे यमे कर्णेवैवस्वतमनौ सुग्रीवे ऋषिभेदे च। अश्विनाकुमारयोः द्वि० व० यमुनायां तपत्यां च स्त्री गुणवचनात् भृशा० अभूतत्द्भावेक्यङ् अरुणायते अरुणायमानः। गौरा० ङीष्। २५ अरुणवर्णायां गवि स्त्री। “अरुण्योगाव उषसासमिति” निरुक्तोक्तायाम् २६ ऊषायामपि स्त्री। २७ मन्दरगिरिस्थे सरोवरे तस्य चारुणजलत्वात्तथात्वम् “सरांस्यथैतेष्वरुणञ्च मानसं महाह्रदः श्वेतजलं यथाक्रमात्” सि० शि०। “एतेषु मन्दरादिविष्कम्भशैलेषु” गुडकुङ्कुमसिन्दूरादीनाञ्चारुणवर्णत्वात्तथात्वम्।
अरुणकमल = न० कृष्णसर्पवत् नित्यकर्म्मधा०। रक्तोत्पले
अरुणदूर्वा = स्त्री कृष्णसर्पवत् नित्यसमासः। रक्तदूर्ब्बाभेदे, “यद्यदारान्न विन्देयुः अरुणदूर्ब्बा अभिषुणुयात् एष वै सोमस्य न्यङ्गो यदरुणदूर्व्वा तस्मादरुणदूर्व्वा अभिषुणुयात् यद्यरुणदूर्व्वा न विन्देयुः” शत० व्रा०।
अरुणप्रिया = स्त्री अरुणस्य प्रिया। सूर्य्यभार्य्यायाम् १ संज्ञायाम् २ छायायाञ्च अरुणभार्य्यादयोऽप्यत्र “तस्य भार्य्याऽभवत् देवी संज्ञा त्वाष्ट्री विवस्वतः” इति। “असहन्ती तु तां छायां सवर्ण्णां निर्म्ममे ततः। छायामयीं तु सा सज्ञा, तस्याश्छायासमुत्थिता। प्राञ्जलिः प्रणता भूत्वा छाया संज्ञां नरेश्वर!। उवाच किं मया कार्य्यं कथयस्व शुचिस्मिते!। स्थितास्मि तव निर्द्देशे शाधि मां वरवर्णिनि!। संज्ञोवाच। अहं यास्यामि भद्रंते स्वमेव भवनं पितुः। त्वयेह भवने मह्यं वस्तव्यं निर्वाचरया। इमौ च बालकौ मह्यं कन्या चेयं सुमध्यमा। संभाव्यास्ते न चाख्येयमिदं भगवते क्वचित्। छायोवाच। आकचग्रहणा द्देवि! आ शापान्नैव कर्हिचित्। आख्यास्यामि मतं तुभ्यं गच्छ देवि! यथेच्छया”। इति हरिवं०। ३ प्रधाकन्याभेदे च। “सुषुवेऽष्टौ महाभागा प्रधा देवर्षिपूजिताः”। अनुवन्द्या मनूकाञ्च अनूनामरुणप्रियाम् अनुगां सुभगाञ्चैव” हरिवं० अरुणवर्णं पुष्पादि प्रियमस्य। ४ रक्तवर्णपुष्पप्रिये सूर्य्ये पु० ५ तद्वर्णपुष्पप्रियमात्रे त्रि०।
अरुणप्सु = त्रि० अरुणः प्सुः रूपं (निरु०) यस्य। रक्तवर्णरूपे “ऋतावरीमरुणप्सुं विभातीम्” ऋ० ५, ८०, १, “अरुणप्मुमरुणरूपाम्” भा०।
अरुणलोचन = पु० अरुणे रक्ते लोचने यस्य। १ पारावतपक्षिणि २ रक्तनेत्रयुक्ते त्रि०
अरुणसारथि = पु० अरुणः गरुडाग्रजः सारथिरस्य। सूर्य्ये विवरणमनूरुशब्दे।
अरुणात्मज = पु० ६ त०। १ जटायौ पक्षिणि। २ सूर्यपुत्रे मन्दे ३ सावर्ण्णे मनौ ४ कर्ण्णे ५ सुग्रीवे ६ यमे च ७ अश्विनोकुमारयोः द्वि० व० ९ यमुनयां तपत्यां च स्त्री। “त्रीण्यपत्यानि कौरव्य! संज्ञायां तपतांवरः। आदित्यो जनयामास कन्यां द्वौ च प्रजापती। स च वैवस्वतः पूर्ब्बं श्राद्धदेवः प्रजापतिः। यसश्च यमुना चैव यमजौ संभूवतुः”। संज्ञायां द्वौ सुतौ सुता चेति त्रीण्यपत्यानि। “द्वितीयायां तु संज्ञायां संज्ञेयमिति चिन्तयन्। आदित्यो जनयामास पुत्रमात्मसमं तथा। पूर्ब्बजस्य मनोस्तात! सदृशोऽयमिति प्रभुः। मनुरेवाभवन्नाम्रा सावर्ण्ण इति चोच्यते। द्वितीयायां सुतस्तस्याः स विज्ञेयः शनैश्चरः”। इति सावर्ण्णः शनिश्च एतौ द्वौ सुतौ, संज्ञायाः छायाख्यायां द्वितीयायां सवर्ण्णायां जातौ हरिवं०। वडवारूपधरिण्यां संज्ञायाञ्च अश्विनीकुमारौ जातौ यथा तत्रैव। “बडवारूपमास्थाय वने चरति शाद्वले। स तथारूपमास्थाय स्वां भार्य्यां शुभलीलया। ददर्श योगमास्थाय स्वां भार्य्यां वडवां ततः। अधृथां सर्व्वभूतानां तपसा नियमेन च। बडवावपुषा राजंश्चरन्तीमकुतोभयाम्। सोऽश्वरूपेण भगवांस्तां सुखं समभावयत्। मैथुनाय विचेष्टन्तीं, परपुरुषशङ्कया। सा तन्निरवमच्छुक्रं नासिकायां विवस्वतः। देवौ तस्यामजायेतामश्विनो भिषजां वरौ। नासत्यश्चैव दस्रश्च स्मृतौ द्वाबश्विनाविति”। तपतीशब्दे तदुत्पत्तिः कर्ण्णोत्प्रत्तिः यथा “एवमुक्ता बहुविधं सान्त्वपूर्व्वं विवस्वता। सा तु नैच्छद्वरारोहा कन्याऽहमिति भारत!। बन्धुपक्षभयाद्भीता लज्जया च यशस्विनी। तामर्कः पुनरेवेदमब्रवीद्भरतर्षभ!। मत्प्रसादान्न ते राज्ञि! भवि- ता दोष इत्युत। एवमुक्त्वा स भगवान् कुन्तिराजसुतां तदा। प्रकाशकर्त्ता तपनः सम्बभूव तया सह। तत्र वीरः समभवत् कर्णः शस्त्रभृतां वरः। आमुक्तकवचः श्रीमान्देवगर्भः श्रियाऽन्वितः। सहजं कवचं बिभ्रत् कुण्डली द्योतिताननः। अजायत सुतः कर्णः सर्व्वलोकेषुविश्रुतः”। भा० आ० प०। सुग्रीवोत्पत्तिः सुग्रीवशब्दे दृश्या।
अरुणानुज = पु० अरुणस्यानुजः। गरुडे तस्य ततोऽनुजातकथानूरुशब्दे दृश्या।
अरुणावरज = पु० ६ त०। गरुडे “अरुणावरजं श्रीमानारुरोह रणे हरिः” हरिवं०।
अरुणित = त्रि० अरुणं क्रियते स्म अरुण + कृत्यर्थे णिच्–कर्म्मणि क्त, तारकादि० इतच् वा। १ रक्तवर्णीकृते २ जातलोहितवर्णे च। “स्तनाङ्गरागारुणिताच्च कन्दुकात्” कुमा०।
अरुणोदक = न० अरुणमुदकं यस्य। १ सरोवरभेदे। उदकस्य वा उदादेशे अरुणोदमप्यत्र। तच्च सरः मन्दरगिरिरूपविष्कम्भपर्वतस्थम् बि० पु०। २ नदीभेदे स्त्री सा च “मन्दरोत्सङ्ग एकादशशतयोजनोत्तुङ्गदेवचूतशिरसोगिरिशीखरस्थूलानि फलान्यमृतकल्पानि पतन्ति। तेषांविशीर्य्यमाणानामति मधुरसुरभिसुगन्धिवहलारुणरसोदेनारुणोदा नाम नदी मन्दरगिरिशिखरान्निपतन्ती पूर्व्वेणेलावृतमुपप्लावयति” इति भागवतोक्तस्थलस्था।
अरुणोदय = पु० अरुणस्यार्कस्य तत्किरणस्योदयो यत्र। “चतस्रो घटिकाः प्रात ररुणोदय उच्यते” इत्युक्ते सूर्य्योदयात् प्राचि चतुर्दण्डात्मके काले।
अरुणोदयविद्धा = स्त्री अरुणोदयकाले विद्धा। अरुणोदयकाले दशम्या विद्धायामेकादश्याम्। “दशमीशेषसंयुक्ता यदि स्यादरुणोदये। वैष्णवेन न कर्त्तव्यं तद्दिनैकादशीव्रतम्” हेमा० भवि० पु० “अरुणोदयविद्धा तु द्वादश्यां पारणा लाभेऽपि वैष्णवैर्नोपास्या” ए० त० रघुनन्दनः।
अरुणोदयसप्तमी = स्त्री अरुणोदयकाले पुण्यविशेषसाधनं सप्तमी। माघशुक्लसप्तम्याम्। “सूर्य्यग्रहेण तुल्या हि शुक्ला माघस्य सप्तमी। अरुणोदयवेलायां तस्यां स्नानं महाफलम्। माघे मासि सिते पक्षे सप्तमी कोटिभास्करा। दद्यात् स्नानार्घदानाभ्यामायुरारोग्यसम्पदः। अरुणोदयवेलायां शुक्ला माघस्य सप्तमी। गङ्गायां यदि लभ्येत सूर्य्यग्रहशतैः समेति” ति० त० भविष्य पु०।
अरुणोपल = पु० अरुण उपलः। (चुनीति) ख्याते पद्मरागे।
अरुन्तुद = त्रि० अरूंषि मर्म्माणि तुदति तुद–खश् मुम् च। मर्म्मपीडके दुःखदायके “अरुन्तदमिवानालं नवबद्धस्य दन्तिनः” इति रघुः “नारुन्तुदः स्यादार्त्तोऽपि न परद्रोहकर्मकृत्” मनुः।
अरुन्धती = स्त्री न रुन्धती। १ रोधनाकारिकायां स्त्रियाम् २ वसिष्ठपत्न्याम् संज्ञात्वादव्युत्पन्नः “अन्वासितमरुन्धत्या स्वाहयेव हविर्भुजम्” रघुः “आर्य्याप्यरुन्धती तत्र व्यापारं कर्त्तुमर्हति” “साक्षादिव तपःसिद्धिर्बभासे बह्वरुन्धती” इति च कुमा०। सा च कर्द्दमप्रजापतेराकूत्यामुत्पन्ना भाग० तपसा सिद्धा नक्षत्ररूपेण सप्तर्षिस्थाने स्थिता। ३ तन्नामके नक्षत्रभेदे तत्स्थितिस्थानञ्च “प्रागुत्तरतश्चैते सदोदयन्ते ससाध्वीकाः। पूर्ब्बे भागे भगवान् मरीचिरपरे स्थितो वसिष्ठोऽस्मात्। तस्याङ्गिरास्ततोऽत्रिस्तस्यासन्नः पुलस्त्यश्च। पुलहः क्रतुरिति भगवानामन्नानुक्रमेण पूर्वाद्याः। तत्र वसिष्ठं मुनिवरमुपाश्रितारुन्धता साध्वी” वृ० सं०।। विवाहकाले सैव पत्न्यै पत्या दर्श्यते “अरुन्धतीञ्ज रुन्धाहमस्मीति” गोभि०। “एवञ्च सप्तर्षि निकटवर्त्तिनीं सूक्ष्मां तारामरुन्धतीं रुन्धाहमस्सीति मात्रमन्त्रेण पश्येत्” सं० त० रघु०। अरुन्धती यथा पत्यौ अनुरक्ता एवमेवं त्वं मयि इत्यभिप्रायेण तद्दर्शनम्। आसन्नमृत्यवश्च तां न पश्यन्ति यथोक्तम् सुश्रुते। “न पश्यति सनक्षत्रां यस्तु देवीमरुन्धतीम्” ध्रुवमाकाशगङ्गां च तं वदन्ति गतायुषे” ४ दक्षकन्यारूपे धर्मस्य पत्नीभेदे। “ददौ स दश घर्माय” इत्युपक्रम्य “तासां नामानि मे शृणु” इति चोक्त्वा। “अरुन्धती वसुर्यामी लज्जा भानुर्मरुत्वती। सङ्कल्पा च मुहूर्त्ता च साध्या विश्वा च भारत!। धर्मपत्न्यो दश त्वेता इति” “पृथिवीविषयं सर्वमरुन्धत्यामजायत च” हरिव०। ५ जिह्वायाञ्च “अरुन्धतीं ध्रुवञ्चैव विष्णोस्त्रीणि पदानि च। आसन्नमृत्युर्नो पश्येच्चतुर्थं मातृमण्डलम्” इत्युक्त्वा तत्रारुन्धत्यादिशब्दानां पारिभाषिकत्वं दर्शितं यथा “अरुन्धती भवेज्जिह्वा ध्रुवोनासाग्नमुच्यते विष्णोः पदानि भ्रूमध्यं नेत्रेऽग्नौ मातृमण्डलम्” काशीखण्ड०।
अरुन्धतीजानि = पु० अरुन्धती जाया यस्य निङ् समा०। वसिष्ठे मुनौ
अरुन्धतीदर्शनन्याय = पु० अरुन्धत्यादर्शनमिव दर्शनं यस्य तत् सूचको न्यायः। प्रथमस्थूलदर्शनेन सूक्ष्मदर्शनरूपे न्याये “यथाऽरुन्धतीं दिदर्शयिषुः तत्समीपस्थां स्थूलां ताराममुख्यां प्रथममरुन्धतीति ग्राहयित्वा तां प्रत्याख्याय पश्चादरुन्धतीमेव ग्राहयति” शा० भा०।
अरुन्धतीनाथ = पु० ६ त०। वसिष्ठे मुनौ तत्पत्यादयोऽप्यत्र।
अरुष = त्रि० न रोषति क्रुध्यति रुष–क न० त०। १ अक्रोधने। “युञ्जन्ति व्रघ्नमरुषं चरन्तं परितस्थुषः” यजु० २३, ५ “असौ वा आदित्योव्रघ्नोऽरुषः” इति श्रुतिः। विरोधे न० त०। २ रोचमाने। “श्वेतं सज्ञानमरुषं सहिता” ऋ० ३, १, ४, ‘अरुषं रोचमानम्’ भा०। ऋ–गतौ–उषन्। ३ गमनशीले अश्वादौ वेदे स्त्रियां ङीप्। “युक्ष्वाह्यरुषी रथे” ऋ० १, १४, १२, अरुषीर्गमनशीला वडवाः” भा०। रुषा हिंसा न० ब०। ४ हिंसारहिते “जानन्ति वृष्णो अरुषस्य शेवम्” ऋ० ३, ७, ५,। “अरुषस्य हिंसारहितस्य” भा०।
अरुष् = त्रि० नास्ति रुट् यस्य। १ अक्रोधे। गौ० ङीष्। २ उषसि स्त्री निरु०।
अरुष्क = पु० अरुर्म्मर्म्मस्थानं कायति पीडयति कै–क। स्पर्शमात्रेण व्रणकारकफलरसे (भेला) भल्लातकवृक्षे।
अरुष्कर = पु० अरुः करोति ट उप० स० षत्वम्। स्पर्शमात्रेणव्रणकारकफलरसे १ भल्लातके (भेला) २ व्रणकारके त्रि० “शुष्कोह्यपार्घकोऽरुषकरश्च” सुश्रु०। स्त्रियां ङीप्।
अरुस् = पु० ऋ–उसि। १ अर्के, २ रक्तखदिरे च। ३ मर्म्मणि न०। ४ व्रणे, ५ क्षते च पु० न०। “अरुर्द्विषदजन्तस्य मुम्” पा०। “अरुर्वैं पुरुषोऽवच्छित्तः अनरुरेवैतद्भवति” शत० ब्रा०। “यद्दण्डेन यदिष्वा यद्वारुषा हरसा” अथ० ५, ५, ४। “अरुर्वै पुरुषस्याक्षीति” शत० ब्रा० उक्ते ६ नेत्रे च। अरुस् + अभूतद्भावे च्वि अन्तलोपः दीर्घः अरूकरोति।
अरुहा = स्त्री न किञ्चिन्म्लमाश्रित्य रोहति रुह + क। भूम्यामलक्याम् राजनि०। कृशा० छण्। आरुहीयम् तत्सन्निकृष्टदेशादौ त्रि०।
अरूक्ष = त्रि० विरोधे न० त०। स्निग्धे मसृणे, “दर्भैः प्रच्छ्वाद्यत्यरूक्षतायै”, शत० ब्रा०।
अरूक्षित = त्रि० न रूक्षितः विरोधे न० त०। स्निग्धे मसृणे, “अरूक्षितं दृश आ रूपे अन्नम्” ऋ० ४, ११, १, अरूक्षितं स्निग्धम्” भा०।
अरूक्ष्ण = त्रि० रूक्ष + नन् विरोधे न० त०। स्निग्धे। “यत्ते वासः परिधानम्–संस्पर्शेऽरूक्ष्णमस्तु ते” अथ० ८, २, १६।
अरूप = त्रि० नास्ति रूपमस्य। १ रूपशून्ये २ सांख्योक्ते प्रधाने वेदान्तोक्ते ३ ब्रह्मणि न० “अशब्दमस्पर्शमरूपमव्ययभिति” कट० उ०। कुत्सितार्थे न० त०। ३ कुत्सितरूपे न०।
अरूपहार्य्य = त्रि० रूपेण न हार्य्यः वशीकार्य्यः अस० स०। सौन्दर्य्यादिना अवशीकार्य्ये “अरूपहार्य्यं मदनस्य निग्र हात्” कुमा०।
अरूष = पु० ऋ–ऊषन्। १ सर्पविशेषे २ सूर्य्ये च सि० कौ०।
अरे = अव्य० ऋ–ए। १ रोषाह्वाने, २ नीचसंबोधने “आत्मा वा अरे द्रष्टव्यः श्रोतव्य इति” न वा अरे पत्युः कामायास्याः पतिः प्रियो भवति” शत० ब्रा० बहुकृत्वः पाठः। तच्च याज्ञवल्क्येन मैत्रेयीनामकपत्नीं प्रति सम्बोधनायोक्तं तस्याश्च स्वापेक्षया न्यूनत्वात् नीचसम्बोधनम्। ३ अपकृतौ, ४ असूयायाञ्च।
अरेपस् = त्रि० नास्ति रेपः पापं निरुक्तोक्तं यस्य १ निष्पापे “प्रापे रूपी पुराऽरेपाः” इति माघः २ निर्मले च “अरेपसा तन्वा शाशदाना” ऋ० १, १२४, ५, अरेपसाऽपापया निर्म्मलया वा” भा०।
अरेऽरे = अव्य० अरे + वीप्सायां द्विरुक्तिः। नीचसंबोधनादौ। २ सक्रोधसम्बोधने च “अरेरे राधागर्भभारभूत! सूतापसद! किमेवमाक्षिपसि” अरेरे वाचाट! वृथाशस्त्रग्रहणदुर्विदग्ध! वटो” इति च वेणीसंहारः।
अरोक = त्रि० रुच–दीप्तौ घञ् रोकश्छिद्रं दीप्तिश्च न० ब०। १ छिद्रशून्ये २ दीप्तिशून्ये च। “विभाषा श्यावारोकाभ्याम्” पा० बहुव्रीहौ एतत्पूर्व्वकदन्तस्य दतृ। अरोकदन् अरोकदन्तः। निविडदन्ते दत्रादेशे स्त्रियां ङीप्।
अरोग = त्रि० नास्ति रोगोऽस्य। रोगशून्ये “अरोगाः सर्व्वसिद्धार्थाश्चतुर्वर्षशतायुषः” सुश्रु०। “एतद्विधानमातिष्ठेदरोगः पृथिवीपतिः” मनुः तस्य भावः ष्यञ्। आरोग्यम्। रोगाभावे न० “आयुरायोग्यविजयं देहि देवि! नमोऽस्तु ते” दुर्गास्तवः “आरोग्यं वित्तसम्पत्तिर्गङ्गास्मरणजं फलमिति” पुरा० तल् अरोगता स्त्री त्व अरोग्यत्वम्” तत्रैव न०।
अरोगण = त्रि० रोगोऽस्त्यस्य बा० मत्वर्थेन न० त०। रोगशून्य “तेषामसि त्वमुत्तममनाश्रावमरोगणम्” अथ० २, ३, २।
अरोगिन् = त्रि० न रोगी विरोधे न० त०। रोगशून्ये “यावज्जीवमरोगी स्यात्” पुरा० स्त्रियां ङीप्। “अरोगिणों भ्रातृमताम्” स्मृतिः।
अरोचक = पु० न रोचयति प्रीणयति ऋच + णिच्–ण्वुल् न० त०। रोगभेदे यत्र क्वचिदपि द्रव्ये भोजनादौ न प्रीतिस्तादृशे रोगे स च सुश्रुतोक्तः। ‘दोषैः पृथक् सहजचित्तविपर्य्ययाच्च भक्तायनेषु हृदि चावतते प्रगाढम्। नान्ने रुचिर्भवति तं भिषजो विकारं भक्तोपघातमिह पञ्चविधं वदन्ति। हृच्छूलपीडनयुतं विरसाननत्वं वातात्मके भवति लिङ्गमरोचके तु। हृद्दाहशोषबहुता मुखतिक्तता च मूर्च्छा सतृड् भवति पित्तकृते तथैव। कण्डू गुरुत्वकफसंस्रवसादतन्द्राः श्लेष्मात्मके मधुरमास्यमरोचके तु। सर्व्वात्मके पवनपित्तकफा बहूनि रूपाण्यथास्य हृदये समुदीरयन्ति। संरागशोकभयविप्लुतचेतसस्तु चिन्ताकृते भवति सोऽशुचिदर्शनाच्च” इति। “गुल्मान् प्लीहोदरं कालं हलीसकमरोचकम्” इति सुश्रुतः।
अरोदन = न० अभावे न० त०। १ रोदनाभावे। ब०। २ क्रन्दनशून्ये त्रि०।
अरोधन = न० अभावे न० त०। १ रोधाभावे २ आवरणाभावे ३ गतिरोधके व्यापारे। न० ब०। ४ तच्छून्ये त्रि०।
अरोध्य = त्रि० न रोध्यः। रोद्धुमशक्ये।
अरोपण = न० अभावे न० त०। १ रोपणाभावे न० ब०। २ रोपणशून्ये त्रि०।
अरोष = पु० अभावे न० त०। १ क्रोधाभावे। न० ब०। २ क्रोधशून्ये त्रि०।
अरौद्र = त्रि० न रौद्रः विरोधे न० त०। १ भीषणभिन्ने सौम्याकृतौ २ रागद्वेषादिशून्ये विष्णौ पु०। “अरौद्रः कुण्डली चक्री” विष्णुस० “कर्म रौद्रं, रागश्च रौद्रः, कोपश्च रौद्रः, त्रयं यस्य नास्ति अवाप्तसर्वकामत्वेन द्वेषरागादेरभावादित्यरौद्रः” भा०।
अर्क = तापे, स्तुतौ च चुरा० उभ० सक० सेट्। अर्कयति ते आर्चिकत् त। अर्कयामास अर्कितः अर्कयितुम्।
अर्क = पु० अर्च–कर्मणि घञ् कुत्वम्। १ सूर्य्ये, २ इन्द्रे, ३ ताम्रे, ४ स्फटिके, ५ विष्णौ, ६ पण्डिते, (आकन्द,) इति ख्याते ७ वृक्षे, (आरख) इति ख्याते ८ क्वाथविशेषे च। ९ अर्चनीये त्रि०। “आ सूर्य्यो न भानुमद्भिरर्कैः” ऋ० ६, ५, ६ “अर्कैः अर्चनीयैः” भा० “ब्रह्मादिभिः पूज्यमानैरर्चनीयत्वादर्कः” भा० १० ज्येष्ठे” पु०। लक्षणया ११ अर्काधिपे वारे १२ सप्तमीतिथौ १३ उत्तरफल्गुनीनक्षत्रे १४ द्वादशसंख्या याञ्च तत्र विष्णौ। “अर्को वाजसनः शृङ्गी” वि० सह० अर्कवृक्षे “अर्कः पलाशःखदिरः इति विष्णुध०। सूर्य्ये “अर्काद्विनिःसृतः प्राचीं यद्यात्यहरहः शशी” सूर्य्यसि० “संपर्कादर्करोचिषाम्” माघः “स्प्रष्टुं जगत्पूज्यमयुज्य तार्कः” माघः इन्द्रे अर्कसोदरशब्दे उदा०। अर्कस्यापत्यम् इञ्। आर्किः सूर्यपुत्रे यमादौ, यमुनायां, तपत्याञ्च स्त्री अरुणात्मजशब्दे विवृतिः।
अर्ककला = स्त्री ६ त०। शारदातिलके सूर्य्यस्य उपास्यत्वेनोक्ते द्वादशसंख्याके पीतवर्णे कादिडान्तवर्णभूषिते कलाभेदे। ताश्च १ “तपिनी २ तापिनी ३ धूम्रा ४ मरोचि ५ र्ज्वालिनी ६ रुचिः। ७ सुषुम्णा ८ भोगदा ९ विश्वा १० बोधिनी ११ धारिणी १२ क्षमा। काद्याश्च वसुदाः सौर्य्यो डान्ता स्ता द्वादशेरिताः” “वराभयकरा ध्येयाः श्वेतपीतारुणाः क्रमात्” शार० ति०।
अर्ककान्ता = स्त्री अर्कोऽर्ककिरणः कान्तोऽनुकूलो यस्याः कमक्त। (हुढुडिया) इति ख्याते १ वृक्षे ६ ब०। २ सूर्य्यप्रियायाम् ३ संज्ञायां छायायाञ्च अरुणप्रियाशब्दे विवृतिः।
अर्कक्षेत्र = न० ६ त० “कुजशुक्रबुघेन्द्वर्कसौम्यशुक्रावनीभुवाम्। जीवार्किभानुजेज्यानां क्षेत्राणि स्युरजादयः” ज्योतिषोक्ते सूर्य्यस्वामिके सिंहराशौ।
अर्कचन्दन = पु० अर्कस्य प्रियःचन्दनः शाक० त०। रक्तचन्दने
अर्कज = पु० अर्काज्यायते जन–ड ५ त०। १ यमादौ २ तपत्यां ३ यमुनायां च स्त्री ४ अश्विनीकुमारयोः द्वि० ब०। ५ सुग्रीवे ६ कर्ण्णे च। अरुणात्मजशब्दे विवृतिः।
अर्कतनय = पु० ६ त०। राधासुते १ कर्णे २ यमादौ च। अरुणात्मजशब्दे विवृतिः
अर्कदुग्ध = न० अर्कस्य वृक्षस्य दुग्धमिव निर्य्यासः। अर्कवृक्षनिर्य्यासे श्वेतत्वेन दुग्धाकारे पदार्थे।
अर्कनयन = पु० अर्कोनयनं यस्य। विराट्पुरुषे। “सूर्य्याचन्द्रमसावग्निर्यस्य नेत्राणि जज्ञिरे” पुरा० अनन्तबाहुं शशिसूर्य्यनेत्रम्” गीता अर्कैव दुर्दर्शं नयनमस्य। २ दुर्द्द शलोचने त्रि०।
अर्कनामन् = पु० अर्कं नामयति अनुकूलयति नम–णिच् कनि। रक्तार्के वृक्षे।
अर्कपत्र = पु० अर्कः सूर्य्यैव तीक्ष्णं पत्रं यस्य। १ अर्कवृक्षे। अर्कपर्णोऽप्यत्र। २ सुनन्दायाम् ३ अर्कमूलायां स्त्री। ६ त०। ४ अर्कवृक्षस्य पत्रे न० “स कदाचिदऽर्कपत्राण्यभक्षयत् क्षुधार्त्तः तैर्भक्षितैरर्कपत्रैः” भा० आ० प० “देवराजो मया दृष्टो वारिवारणमस्तके। खादयत्यर्कपत्राणि” विद० मु०। “सप्त वदरपत्राणि सप्तार्कपत्राणि च शिरसि निधायेति, साघसप्तस्यां स्नाने कृ० त० रघु०।
अर्कपर्ण = त्रि० अर्क इश रक्तं पर्णमस्य। १ मन्दारे। ६ त० २ अर्कवृक्षपत्रे न०।
अर्कपादप = पु० अर्कः अर्कवृक्षैव तीक्ष्णः पादपः। १ निम्बे। कर्म्मधा०। (आकन्द) २ वृक्षभेदे।
अर्कपुष्पी = स्त्री अर्कस्यार्कवृक्षस्य पुष्पमिव पुष्पमस्याः जातित्वात् ङीप्। २ कटुम्बिनीवृक्षे। वा कप्। अत इत्त्वे अर्कपुष्पिकाप्यत्र।
अर्कप्रिया = स्त्री अर्कं प्रीणाति प्री–क। जवायाम्। ६ त०। १ सूर्य्यप्रियायां, २ संज्ञादौ अरुणप्रियाशब्दे विवृतिः।
अर्कबन्धु = पु० अर्कस्य बन्धुरिव। १ गोतमे सूर्यवंश्ये बौद्धभेदे। तस्य तत्कुलोत्पन्नत्वात्तद्बन्धुत्वम्। अर्कस्य बन्धुरिव प्रकाश्य त्वात्। २ पद्मे। अर्कबान्धवोऽप्युभयत्र।
अर्कभ = न० अर्काक्रान्तं भं नक्षत्रं शा० त०। १ सूर्य्याक्रान्ते नक्षत्रे ६ त०। तत्स्वामिके २ सिंहराशौ ३ उत्तरफल्नीनक्षत्रे, च।
अर्कभक्ता = स्त्री अर्कस्य भक्ता (हुडहुडिया) इति ख्यातायां लतायाम्। तत्किरणसंपर्के एव हि तस्याः सौन्दर्य्यम्।
अर्कमूल = पु० अर्कैव सर्पाणां दुष्प्रसहं मूलं यस्याः। (इशेरमूल) इति ख्यातायां लतायाम्।
अर्कलूष = पु० अर्कैव रूष उग्रः रस्य लः। ऋषिभेदे विदा० अञ्। आर्कलूषः तदपत्ये पुंस्त्री०। स्त्रियां ङीप्।
अर्कवल्लभ = पु० अर्कस्य वल्लभः समानवर्ण्णपुष्पत्वात्। रक्तपुष्प त्वेन अर्कतुल्यपुष्पे वन्धूकवृक्षे। ब०। २ पद्मे।
अर्कविवाह = पु० अर्कवृक्षस्य कन्यात्वेन प्रकल्पनेन विवाहः। तृतीयविवाहसिद्ध्यर्थमर्कवृक्षस्य कन्यात्वकल्पनेन विहिते विवाहभेदे। “चतुर्थादिविवाहार्थं तृतोयेऽर्कंसमुद्वहेत्। “आदित्यदिवसे वापि हस्तर्क्षे वा शनैश्चरे। शुभे दिने वा पूर्ब्बाह्णे कुर्य्यादर्कविवाहकम्” कश्य०। “तृतीये स्त्रीविवा हे तु संप्राप्ते पुरुषस्य तु। आर्कं विवाहं वक्ष्यामि शौनकोऽहं विधानतः” शौनकः। तत्प्रकारस्तु विधानपारिजाते तृतीयविवाहप्रकरणे दृश्यः।
अर्कवेध = पु० अर्कस्य वृक्षस्येव वेधोऽत्र। तालीशपत्रे वृक्षे।
अर्कव्रत = पु० अर्कस्याराधनार्थं व्रतम्। माघशुक्लसप्तम्यादौ कर्त्तव्ये अर्काराधनार्थे १ व्रते। अर्कस्येव व्रतम् नियमः। “सहस्रगुणमुत्स्रष्टुमादत्ते हि रसान् रविः” इत्युक्तेर्यथा रविणा लोकवृद्ध्यर्थं रसस्य ग्रहणमेवं प्रजापालनार्थमेव राज्ञा प्रजाभ्यो यत् कर्स्य ग्रहणं क्रियते तादृशे “अष्टौ मासान् यथादित्यस्तोयं गृह्णाति रश्मिभिः। तथा हरेत् करं राष्ट्रान्नित्यंमर्कव्रतं हि तदिति” मनूक्ते राज्ञः २ करादानभेदे।
अर्कसूनु = पु० ६ त०। १ यमे २ शनैश्चरे ३ सुग्रीवे ४ कर्णे ५ श्राद्धदेवे ६ अश्विनोकुमारयोः द्वि० व०। ७ यमुनायां ८ तपत्याञ्च स्त्री
अर्कसोदर = पु० अर्कस्य इन्द्रस्य सोदर इवोपकारकत्वात्। १ ऐरावते हस्तिनि २ अर्कतुल्ये दुर्द्दर्शेच।
अर्कहिता = स्त्री ६ त०। १ अर्कभक्तायां (हुढुडुडिया) लतायाम् २ सूर्य्यहितकरे त्रि०।
अर्काश्मन् = पु० अर्कस्य अनुगतः, अश्मा। सूर्य्यकान्तमणौ, स हि सूर्य्यरश्मिसंपर्कादुज्ज्वलति ततस्तस्यार्कसम्बन्धि- त्वम्। अर्कैव रक्तः अश्मा। (चुनी) २ अरुणोपले।
अर्किन् = त्रि० अर्च्यंतेऽनेन मन्त्रेण अर्कोऽर्चनहेतुमन्त्रः सोऽस्यास्ति इनि। अर्चनसाधनमन्त्रयुक्ते। “वृहदिन्द्रमर्केभिरर्किणः” ऋ० १, ७, १, ‘अर्किणः अर्चनहेतुमन्त्रोपेताः’ भा० “गायन्ति त्वा गायत्रिणोऽर्चन्त्यर्कमर्किणः। ऋ० १, १०, १,। अर्कोऽर्चनमस्त्यस्य इनि। २ अर्चनयुक्ते त्रि०। “वन्दस्व मारुतं गणं त्वेषम् अपनस्युमर्किणम्” ऋ० १, ३८, १५। अर्किणम् अर्चनोपेतम् भा०।
अर्केन्दुसङ्गम = पु० अर्कः इन्दुश्च सङ्गच्छेते यत्र। अमावास्यायां तिथौ तद्दिने हि सूर्य्याचन्द्रमसोरेकराश्येकावच्छेदेन उपर्य्यधोभावेन स्थितिः ज्योतिषप्रसिद्धा ‘सूर्य्याचन्द्रमसोर्य्यः परः सन्निर्कर्षः साऽमावास्येति” गोभिलेन तस्यास्तथाविधत्वकीर्त्तनात् तथात्वम्।
अर्कोपल = पु० अर्कस्यानुगतौपलः। १ सूर्य्यकान्तमणौ (चुनी) पद्मरागे च।
अर्क्य = त्रि० अर्च–कर्म्मणि ण्यत् कुत्वम्। १ अर्चनीये। अर्कस्यायम् यङ्। अर्क्यः अर्कमम्बन्धिनि। “स एष वार्कोय एष तपति तस्यैतदन्नं क्यमेष चन्द्रमार्क्यम्” शत० व्रा०।
अर्गल = स्त्रीन० अर्ज्ज–कलच् न्यङ्क्वा० कुत्वम्। १ कपाटमध्यस्थेरोधके १ काष्ठादिदण्डे, “ससम्भ्रमेन्द्रद्रुतपातितार्गला निमीलिताक्षीव भियाऽमरावती” का० प्र०। “पुरार्गलादीर्घभुजा बुभोज” रघुः, “अथानपोढार्गलमप्यगारमिति” रघुः। सप्नशतीस्तोत्रस्यादौ पाठ्ये २ स्तोत्रविशेषे “अर्गलां कीलकं चादौ पठित्वा कवचं पठेत्। जपेत् सप्तशतीं पश्चात्” मत्स्यसूक्तम्। ३ कल्लोले, ४ कपाटे च न० ५ क्षुद्रार्गले स्त्री। गौरा० ङीष् स्वार्थेकन्। अर्गलिकाप्यत्रार्थे। ६ विष्कम्भमात्रे रोघकमात्रे स्त्रीन०।। वार्य्यर्गलाभङ्ग इव प्रवृत्तः” रघुः। अनुगतनयमार्गामर्गलां दुर्नयस्य” माघः।
अर्ग्बध = पु० आरग्बधः पृ०। आरग्वधे (सिं धालि) वृक्षे
अर्घ = मूल्ये भ्वादि० पर० सक० सेट्। अर्घति आर्घीत्। आनर्घ। अर्घः। अर्घ्यः।
अर्घ = पु० अर्घ–घञ्। क्रेयवस्तुग्रहणार्यं देये तुल्यरूपे रजतादिद्रव्यरूपे १ मूल्ये। “कुर्ब्धीर्त चैषां प्रत्यक्षमर्ध संस्थापनं नृपः” “कुर्य्युरर्घं यथापण्यमिति” च मनुः अर्ह–करणे घञ् न्यङ्क्वादित्वात् कुत्वम्। २ पूजोपचारे दूर्व्वाक्षतादौ। सामगैरयं सयकारः क्लीवलिङ्गश्च प्रयोक्तव्यः अन्यैः पुंलिङ्गोनिर्यकारश्च। अघाय देयम् यत्। अर्घ्यम् पूजार्थे देवे जलादो अर्घद्रव्याणि च “आपः क्षीरं कुशाग्रञ्च दधि सर्पिः सतण्डुलम्। यवः सिद्धार्थकश्चैव अष्टाङ्गोऽर्घः प्रकीर्त्तितः” काशीखण्डम्। “तमर्व्यमर्व्यादिकयादिपूरूषः” माघः “अर्घ्यमर्घ्यमिति वादिनं नृपं सोऽनवेक्ष्य भरताग्रजो यतः” “अर्घानुपदमाशिषमिति” च रघुः।
अर्घोश = पु० अर्घोऽस्त्यस्य इनि देयत्वेन तेषु ईशः। सर्व्वदेवेषु पूज्यतमे महादेवे।
अर्घ्य = त्रि० अर्ह्यते पूज्यते अर्ह–ण्यत्–न्यङ्का० कुत्वमर्घमर्हति अर्घ + यत् वा। १ पूजनीये “तमर्घ्यमर्घ्यादिक यादिपूरुषः माघः”। अर्घाय देयं यत्। २ पूजार्थं देये जलादौ। “तानर्घ्यानर्घ्यमादाय दूरात् प्रत्युद्ययौ गिरिः” कुमा०। “अनर्घ्यमर्घ्येण तमद्रिनाथः” कुमा०। अर्घं मूल्यमधिकमर्हति यत्। ३ जरुत्कारतपोवनवृक्षोद्भवे मधुनि न० तस्य बहुमूल्यत्वात्तथात्वम्।
अर्च = पूजायाम् उभ० भ्वादि० सक० सेट्। अर्चति ते आर्चीत् आर्च्चिष्ट। आनर्च–र्चे “पितॄश्चैवाष्टकास्वर्च्चेत्” मनुः। “एवं हि सर्वभूतानि ब्राह्मणोनित्यमर्चति” मनुः। “रत्नपुष्पोपहारेण छायामानर्च पादयोः” रघुः “वृन्दिष्ठमार्च्चीद्वसुधाधिपानाम्” “समीहे मर्त्तुमानर्चे तेन वाचाऽखिलं बलम्”। “आर्च्चीत् द्विजातीन् परमार्थविन्दान्” “प्रानर्च्चुरर्च्यं जगदर्चनीयम्” “विप्रानर्चंस्तथा स्तुवन्” इति च भट्टिः अर्चिः अर्चकः अर्चितः अर्चितवान् अर्चितुम् अर्चित्वा।
अर्च = पूजायां चुरा० उभ० सक० सेट्। अर्चयति ते आर्चिचत् त। अर्चयामास। “दूरस्थमार्चयेदेनम् मनुः। “स्वर्गौकसामर्चितमर्चयित्वा” कुमा०।
अर्चक = त्रि० अर्चति अर्च–ण्वुल्। पूजके “व्रह्मचारी व्रती च स्याद्गुरुदेवद्विजार्चकः” मनुः स्त्रियां टाप् अत इत्त्वम्।
अर्चत्रि = त्रि० अर्च–वेदे बा० अत्रि। अर्चनीये। “अर्चत्रयो घुनयो न वीराः” ऋ० ६, ६६, १०। “अर्चत्रयः अर्चनीयाः” भा०।
अर्चत्त्र्य = त्रि० अर्च–भावे–अत्रि अर्चत्रिमर्चनमर्हति–यत्। पूजनीये। “अर्चत्र्योमघवा नृभ्यः” ऋ० ६, २४, १। “अर्चत्र्यः अर्चनीयः” भा०।
अर्चन = न० अर्च–भावे ल्युट्। पूजने। “अरिष्टं नाशयेत् सर्व्वं ग्रहविप्रसुरार्चनम् पुरा०।
अर्चना = स्त्री चु० अर्च–युच्। पूजायाम्। “देवार्चनायां “निरतः पुरा०।
अर्चनीय = त्रि० अर्च + अनीयर्। पूजनीये। “प्रानर्चुरर्च्यं जगदर्चनीयम” भट्टिः।
अर्चा = स्त्री अर्च्च–आधारे अङ्। १ प्रतिमायाम् “आभिरूप्येण चार्चाया देवः सान्निध्यमृच्छति” ति० त० पुरा०। “देवार्च्चामग्रतः कृत्वा ब्राह्मणानां विशेषतः” आ० त०। भावेऽङ्,। २ पूजायाम् “लोकः पच्यमानश्चतुर्भिर्धर्मै! ब्राह्मणं भुनक्त्यर्चया च दानेन चोज्यया दयया च”। शत० ब्रा०।
अर्चि = स्त्री अर्च–इन्। वह्न्यादिशिखायाम्। “यस्या रुशन्तो अर्चयः प्रतिभद्रा अदृक्षत” ऋ० १, ४८, १३, “तव ज्योतीं ष्यर्चयः” ऋ० ८, ४४, १७।
अर्चित = त्रि० अर्च–क्त। १ पूजिते “खर्गौकसामर्चितमर्चयित्वा” कुमा० २ विष्णौ पु० “अर्चिष्मानर्चितः कुम्भः” वि० स०। “सर्व्वलोकार्चितैर्ब्रह्मादिभिरर्चितः” भा०।
अर्चिरादिमार्ग = पु० अर्चिरादिभिस्तदभिमानिदेवैः उपलक्षितो मार्गः। देवयाने पथि उत्तरमार्गे। “तेऽर्चिषमभिसम्भवन्ति अर्चिषोऽहः, अह्न आपूर्य्यमाणपक्षम्, आपूर्य्यमाणपक्षात् यान् षडुदङ्ङेति मासांस्तान्, मासेभ्यः संवत्सरं, संवत्सराद् आदित्यम्, आदित्याच्चन्द्रमसं, चन्द्रमसो विद्युतं, तत्पुरुषोऽमानवः स एनान् ब्रह्म गमयत्येष देवयानः पन्थाः” छा० उ०। “आतिवाहिकास्तल्लिङ्गात्” शा० सूत्रे तेषां तदभिमानिदेवतापरतेत्युक्तम् “अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् तत्र प्रयाताः गच्छन्ति व्रह्म ब्रह्मविदोजनाः” गीता।
अर्चिव(म)त् = त्रि० अर्चिरस्त्यस्य मतुप् वेदे मस्य वः। दीप्तियुक्ते। “उद्यन्नक्षत्रमर्च्चिवत्” ऋ० ७, ८, ९१, २, “यत्ते पवित्रमर्चिवदग्नेः” ऋ० ९, ६७, २४। लोके तु अर्चिमान्। स्त्रियां ङीप्।
अर्चिष्मत् = पु० अर्च्चिर्विद्यतेऽस्य मतुप्। १ सूर्य्ये, २ वह्नौ ३ उपदेवभेदे च “अर्चिष्मांस्तुम्बुरुश्चैव भोरिश्च वदतांवरः। नेतारो देवदेवानामेते हि तपसान्विताः” हरिवं० ४ दीप्ते त्रि०। स्त्रियां ङीप्। सा च ५ अग्निपुर्य्याम्। इन्द्रलोकमुपवर्ण्ण्य “एतस्यादक्षिणे भागे येयं दृश्येत पूः शुभा। इमामर्च्चिष्मतीं पश्य वोतहोत्रपुरीं शुभाम्” काशीख० विवरणमग्निलोकशब्दे। ५ विष्णौ पु० अर्चितशव्दे उदा०।
अर्चिस् = न० अर्च्च–इसि। १ वह्न्यादेः शिखायां “प्रदक्षिणार्च्चिर्व्याजेन” “प्रदक्षिणार्च्चिंर्हविरग्निराददे” “आसीदासन्ननिर्वाणप्रदीपार्च्चिरिवोषसि” इति च रघुः २ मयूखे ३ वह्नौ च पु० “तेऽर्च्चिषमभिसम्भवन्ति अर्च्चिषोऽहः” छा० उ० “अग्निर्ज्योतिरहः शुक्ल” इति गीतावाक्यैकवाक्य- त्वात् अर्च्चिरत्र वह्निः ४ दीप्तिमात्रे न० “प्रशमादर्चिषामेतदनुद्गीर्ण्णसुरायुधम्” कुमा०।
अर्च्य = त्रि० ऋच–स्तुतौ ण्यत् न कुत्वम् चु० अर्च–यत् वा। पूजनीये प्रानर्च्चुरर्च्यं जगदर्च्चनीयम्” भट्टिः।
अर्ज = प्रतियत्ने भ्वादि० पर० सक० सेट्। अर्ज्जति, आर्ज्जीत् आनर्ज अर्जकः अर्जितः अर्जितवान् अर्जित्वा उपार्ज्य अर्जन्। “अर्जकोद्व्यंशमाहारेत्। दाय० स्मृ० “न तत्पुत्रैर्भजेत्सार्द्धमकामः स्वयमर्जितम्” मनुः। “आनर्जुर्नृभुजोऽस्त्राणि” भट्टिः।
अर्ज्ज = संस्कारे चुरा० उभ० सक० सेट्। अर्ज्जयति ते आर्जिजत् त। “अनुपघ्नन् पितृद्रव्यं श्रमेण यदुपार्ज्जयेत्” स्मृतिः “परस्वान्यर्जयन्नारीरन्यदीयाः परामृशन्” भट्टिः। अर्ज्जयितुम् अर्ज्जयित्वा।
अर्ज्जक = पु० अर्ज्जयति रज्जुम् अर्ज्ज–ण्वुल्। (वावुइ) इति ख्याते वृक्षे, तत्त्वक्तन्तुना हि रज्जुर्निर्म्मीयते। अर्ज्जनकर्त्तरि त्रि०। “अर्ज्जकोद्व्यशमाहरेत्” स्मृतिः।
अर्जन = न० अर्ज–ल्युट्। १ सम्पादने स्वामित्वसम्पादके २ व्यापारभेदे च। स्वामित्वहेतवश्च “सप्त वित्तागमाः धर्म्म्या दायोलाभः क्रयोजयः। विभागः संप्रयोगश्च सत्प्रतिग्रह एव च” स्मृत्युक्ताः “स्वामी रिक्थक्रयसंविभागाधिगमेषु ब्राह्मणस्याधिकं लब्धं क्षत्रियस्य विजितं निर्विष्टं वैश्यशूद्रयोः” गो० उक्ताश्च रिक्थादयः साधारणाः सर्व्ववर्णेषु। तत्राप्रतिबन्धोदायोरिक्थंयथा पित्रादिवने पुत्रादेः। अप्रतिबन्धोदायोविभागो यथा पत्नीप्रभृतेः। लब्धं प्रतिग्रहः ब्राह्मणस्य तदसाधारणं “याजनाध्यापनप्रतिग्रहैर्ब्राह्मणोधनममर्ज्जयेदिति” श्रुत्या ब्राह्मणकर्त्तृकार्ज्जनस्य याजनादिकरणकत्वनियमनात्। क्षत्रियस्य विजितं विज यलब्धमसाधारणम्। निर्विष्टं भृतिः तच्च वैश्यस्य कृषिगोरक्षादिलब्धम् शूद्रस्य शुश्रूया वेतनं चेति तयोरसाधारणम्। एवञ्च मनुना “सूतानामश्वसारय्यम्” इत्यादि यदुक्तं तत् सर्व्वं तेषामसाधारणं तदपि निविष्टशब्दाभिधेयम्” मिता० शूद्रवत् वर्णसङ्करा इति स्मृतेः “शूद्राणान्तु, सधर्म्माणः सर्व्वेऽपध्वंसजा स्मृताः” मनूक्तेश्च तेषां शूद्रधर्म्मातिदेशात्तथा। तच्चार्ज्जनं पुरुषार्थं न यज्ञार्थं तेन यद्यस्य वर्णस्योचितं तदतिरेकेणार्ज्जितेनापि धनेन क्रतुसिद्धिः पुरुषस्य परं नियमातिक्रमे दोषः इति जैमिनीये लिप्तासूत्रे स्थितम्। मिताक्षराकृता तस्य चायमर्थ एवं विवृतः। “यदा द्रव्यार्ज्जननियमानां क्रत्वर्थत्वं तदा- नियमार्जितेनैव द्रव्येण क्रतुसिद्विरिति न पुरुषस्य नियमातिक्रमदोषः इति पूर्व्वपक्षे सिद्धान्ते तु अर्ज्जननियमस्य पुरुषार्थत्वात् तदतिक्रमेणार्जितेनापि द्रव्येण क्रतुसिद्धिर्भवति पुरुषस्यैव नियमातिक्रमाद्दोष इति नियमातिक्रमार्जितस्यापि स्वत्वमङ्गीकृतम् अन्यथा क्रतुमिद्ध्यभावात्। नचैतावता चौर्य्यादिप्राप्तस्यापि स्वत्वं स्यादिति मन्तव्यम्। लोके तत्रतत्र स्वत्वप्रसिद्ध्यभावात् व्यवहारविसं वादाच्च” इति। एवञ्च प्रतिग्रहाद्युपायकं स्वत्वं लौकिकमेव अतएब “सप्त वित्तागमाधर्म्म्याः” इत्यनेन तेषां धर्म्महेतुत्वमात्रमुक्तं न तु भृतिप्रभृतीनां तत्रानुक्तानां स्वत्वाहेतुत्वमपि “अर्जयितृव्यापारोऽर्ज्जनमिति” दायभा०। “अर्ज स्वत्वं नापादयतीति” मिता०। “कणिशाद्यर्जनं शिलम्” मनुः। “अर्थानामर्जने दुःखमिति” नीति० अर्जधातोः प्रतियत्नार्थकतया विद्यमानपदार्थस्यैव स्वत्वसम्पादनार्थकत्वेन तस्य तथात्वम्।
***