अयव = पु० अल्पोयवस्तुत्तुल्योवा। १ पुरीषजे कृमिभेदे कृमिशब्दे विवरणम् नास्ति यवः यज्ञसाधनं यत्र। अङ्गतया यवहीने तिलसाधने २ पितृकृत्यादौ। युमिश्रणेकर्त्तरि अच् न० त०। ३ असम्बद्धे शत्रौ ४ रबिचन्द्रयोर्वियोजके कृष्णपक्षे च “अयवानामाधिपत्यमिति पूर्वपक्षा वा यवाअपरपक्षा वा अयवास्ते हीदं सर्वं युवते चायुवते” इति शतव्रा०।

अयवस् = पु० न युतः पृथग्भूतौ चन्द्रसूर्य्यौ यत्र यु–असुन् न० त०। अर्द्धमासे पक्षे। “सजुरब्दो अयवोभिः” यजु० १२७४ “यवाश्चायवाश्चार्द्धमासाश्चोच्यन्ते वे० दी०।

अयशस् = विरोधे न० त०। यशोविरोधिनि अपवादे। अयशो“महदाप्नोति नरकञ्चैव गच्छति” मनुः। “स्वभावलोलेत्य यशः प्रमृष्टम्” रघुः। न० ब०। कीर्त्तिशून्ये त्रि० वा कप् अयशस्कः तत्रैव।

अयशस्कर = त्रि० अयशः करोति कृ–ताच्छील्यादौ ट स्त्रियां ङीप्। अपवादकरे।

अयशस्य = न० यशसे हितम् यत् यशस्यम् विरोधे न० त०। अपवादकरे “पैशुन्यानृतालस्यायशस्यानि हित्वा” सुश्रु०।

अयश्चूर्ण्ण = न० ६ त०। “शकृद्रसं तुरङ्गस्य सुशुषकं भावयेदति। निःक्वाथेन विडङ्गानां चूर्ण्णं प्रधमनन्तु तत्। अयश्चूर्ण्णान्यनेनैव विधिना यौजयेद्भिषक्” सुश्रुतोक्ते लौहचूर्ण्णघटितौषधभेदे।

अयस् = न० एति चलति अयस्कान्तसान्निध्यात् इण–असुन्। लौहे धातुभेदे तस्य स्थिरत्वेऽपि अयस्कान्तसान्निध्याच्चणनात्तथात्वम्। “सुहृदयोहृदयः प्रतिगर्ज्जताम्” “अभितप्तमयोऽपि मार्द्दवं भजते कैव कथा शरीरिणाम्” इति च रघुः “ताम्रायःकांस्यरैत्यानां त्रिपुणः सीसकस्य च” अयः कांस्यपलानाञ्च द्वादशाहमपान्नता” इति च मनुः। अयसः पाकादि अमृतसारशब्दे ३२६ पृष्ठे दृश्यम्। अधिकं लीहशब्दे वक्ष्यते। उपचारात् २ अयोनिर्स्मिते शस्त्रादावपि। “तेजोऽयसो न धाराम् ऋ० ६, ३, ५, अयसः अयोमयस्य परश्वादेर्धाराम्” भा०। हिरण्यशृङ्गोऽयो अस्यपादाः ऋ० १, १६३, ९ भावे असुन्। ३ गमने न०। ‘ज्योतिरकारि हरिती नाऽयसे ऋ० १, ५७, ३ “अयसे गमनाय” भा० अयसानिर्म्मितम् अण्। आयसम् लौहमये कठाहादौ अयसोविकारः अण् आयसः। लौहविकारे ‘अयस्कान्तैवायसम्’ रघुः “आयसेन तु पात्रेणेत्यादि २७८ पृष्ठे दर्शितम्। मयट् अयोमयः। वेदे तु अयस्मयादि० नि० अयस्सयः। लोहविकारे त्रि० स्त्रियां ङीप्। चतुरर्थ्यां छण्। आयसीयः अयस्मन्निकृष्टदेशादौ त्रि० स्त्रियां ङीप्। एति यज्ञस्थानम् इण असुन्। ३ वह्नौ पु०। “अयाश्चाग्नेऽस्यनभिशस्त्ययाश्च सत्वमित्त्वमया असि। अयानो यज्ञं वहास्यया नोऽवेहि भेषजम्” यजु०। ४ हिरण्ये निरु० “रक्षोहा विचर्षणिरमियोनिमयोहतम् अभ्यनूषतायोहतम् ऋ० ९, १, २, ८०, “अय इति हिरण्यनामेति भा० “हिरण्यपाणिः प्रतिदोषमास्थात् अयोहनुर्यजते इति ऋ० ६, ७१, १, अयोहनुर्हिरण्मयहनुः” भा०।

अयस्कंसा = पु० न०। अयोविकारः कंसं पात्रंसत्वम्। लौहनिर्म्मिते पानपात्रे।

अयस्कर्ण्णी = स्त्री अय इव कर्ण्णावस्य गौ० ङीष्। लौहतुल्यकठिनकर्ण्णयुक्तायां स्त्रियाम्।

अयस्कान्त = पु० अयस्सु कान्तः रमणीयः कस्कादित्वात् सत्वम्। (कान्तिलौह) इति ख्याते १ लौहभेदे। अयसां कान्तः इष्टः सन्निधिमात्रेणाकर्षकत्वात्। सन्निधिमात्रेण लौहाकर्षके (चुम्वक) इति ख्याते २ प्रस्तरभेदे। “शम्भोर्यतध्वमाक्रष्टुमयस्कान्तेन लौहवत्” कुमा० “स चकर्ष परस्मात्तदयस्कान्तमिवायसम्” रघुः। अयस्कान्तेनाकर्षणीयशल्यापनयनार्थे ३ व्रणचिकित्साभेदे यथोक्तं सुश्रुते “अनुलोममनवबद्वमकर्णमनल्पव्रणमुखमयस्कान्तेन”।

अयस्काम = त्रि० अयः कामयते कम–अण् उप० स० सत्वम्। लौहाभिलाषिणि।

अयस्कार = त्रि० अयोविकारं करोति कृ–अण् उप० स० सत्वम्। लौहकारे (कामार)।

अयस्कुम्भ = पु० अयोविकारः कुम्भः सत्वम्। लौहमये घटे।

अयस्कुशा = स्त्री अयःसहिता कुशा शाक० त० सत्वम्। लौहसहितकुशायाम्।

अयस्कृति = स्त्री अयसा कृतिः चिकित्साप्रक्तिया सत्वम्। सुश्रुतोक्तेमहाकुष्ठचिकित्साभेदे “अथ ऊर्द्ध्वमयस्कृतीर्वक्ष्यामः। तीक्ष्णलोहपत्राणि तनूनि लवणवर्गप्रदिग्धानि गोमयाग्निप्रतप्रानि त्रिफलाशालसारादिकषायेण निर्वापयेत् षोडशवारांस्ततः स्वदिराङ्गारतप्तान्युपशान्ततापानि सूक्ष्म- चूर्णानि कारयेद्गाढतान्तवपरिस्नावितानि ततो यथाबलं मात्रां सर्पिर्मधुभ्यां संसृज्योपयुञ्जीत। जीर्णेयथाव्याध्यनम्लमलवणमाहारं कुर्व्वीत। तुलामुपयुज्य कुष्ठमेहमेदः श्वयथुपाण्डुरोगोन्मादापस्मारानपहृत्य वर्षशतं जीवति तुलायां तुलायां वर्षशतगुणोत्कर्षः। एतेन सर्व्वलौहेष्वयस्कृतयो व्याख्याताः।

अयस्थूण = पु० अयोनिर्म्मितः स्थूणः वा विसर्गलोपः। लोहमये १ गृहस्थूणे ६ ब०। तथाविधगृहस्थूणयुक्ते २ गृहस्थे। “अयस्थूणगृहपतीनां वै” शतव्रा० अयस्थूणा गृहपतयस्तेपामिति तेषाम् हीनद्रव्यकत्वादाक्षेपः भा०। ७ त० ३ अयोमयाक्षे रथादौ त्रि०। “व्युष्टावयस्थूणमुदिता सूर्य्यस्य” ऋ० ५, ६२, ८, अयस्थूणमयोमयशङ्कुं गर्त्तं रथं वेति भा०। ४ऋषिभेदे पु० तस्य गोत्रम् अण् आयस्थूणः तस्य बहुषु लुक्। अयस्थूणाः। गौ० पाटात् ङीष् अयस्थूणी।

अयस्पात्र = न० अयोमयं पात्रं सत्वस्। लौहमये पात्रे।

अयस्मय = त्रि० अयोविकारः अयस् + मयट् वेदे नि०। भत्वम् स्त्रियां ङीप्। अयोमये लौहमये “असुरा एषु लोकेषु पुरश्चक्रिरेऽयस्मयोमेवास्मि~लोके रजतामन्तरीक्षे हरिणीं दिवि” शतव्रा०। “भूम्या अयस्मयम् पातु” अथ० ५, २८, ९, शतमृष्टिरयस्मयीः अथ० ४, ३७, ८, छन्दसीति प्रायिक तेन लोकेऽपि “पंरिभ्रमन्तमनिशं तीक्ष्णधारमयस्मयम्” भा० आ० प० “ततः शक्तिं गृहीत्वा तु रुक्मदण्डमयस्मयीम् भा० द्रो० प०।

अयस्मयादि = पु० ६ त० “अयस्मयादीनि छन्दसि” पा० उक्ते भत्वादिकार्य्यार्थे निपाताङ्गे अकृतिगणभेदे।

अयाचित = न० याच + क्त न० त०। १ अमृताख्यवृत्तौ “अमृतं स्यादयाचित” मिति मनुः। १ अप्रार्थिते त्रि०। “अयाचितोपस्थितमम्बु केवलम्” “अयाचिताहृतं ग्राह्यमपि दुष्कृतकर्म्मणः” स्मृतिः “याचेर्दुहादिपाठात् गौणे कर्म्मणि” क्त। यस्य सकाशे न याच्यते ३ तस्मिन् जने च।

अयाज्य = त्रि० न याजयितुमर्हः यज–णिच्–कर्म्मणि यत् न० त०। पतितादौ स्मृतिनिषिद्धयाजने। ते च स्मृतौ दर्शिताः यथा देवलः “पतितेन सहोषित्वा जानन् संवत्सरं नरः मिश्रित स्तेन सोऽब्दान्ते स्वयञ्च पतितो भवेत्। याजनं योनिसम्बन्धं साध्यायं सहभोजनन्। कृत्वा सद्यः पतत्येष पतितेन न संशयः। बौधा० “संवत्सरेण पतति पतितेन न संशयः याजनाध्यांपनाद्यौनात् सद्यो न शयनासनात्”। मनुविष्णू। “संवत्सरेण पतति पतितेन सहाचरन् याजनाध्यापनाद्यौनात् न तु यानासनाशनात्” पैठौनसिः “संवत्सरेण पतति पतितेन सहाचरन्। याजनाध्यापनाद्यौनान्न त्वेकशयनासनात्”। पतितानभिधायाह सुमन्तुः। “यश्च तैर्यौनमौखस्रौवाणां सम्बन्धानामन्यतमेन सह संवत्सरं सम्पर्कमियात् तस्याप्यैतदेव प्रायश्चित्तं विदध्यात्” इयात् कुर्य्यात् द्बादशवार्षिकमित्यर्थः मौखं मुखसाध्यमध्यापनं स्त्रौवं स्रुवसाध्यं याजनमित्यर्थः अत्र याजनादीनामन्यतमेन संवत्सरेण पततीत्यवगम्यते प्रा० वि०। हारीतः। “संवत्सरेण पतति पतितेन सहाचरन् याजनाध्यापनाद्यौनादेकशय्यैकभोजनात्” वृहस्पतिः। “षाण्मासिके तु संयोगे याजनाध्यापनादिना। एकत्रासनशय्याभिः प्रायश्चित्तार्द्धमाचरेत्”। “याजनादिकं लघुगुरुभेदेन द्विविधं भवति तत्र गुरुणाज्ञानकृतेन याजनादिना एकैकेन सद्यःपातः तेनैवाज्ञानकृतेन वारद्वयाभ्यासात्। लघुनि याजनादावज्ञानकृते संवत्सरेण पतति तस्मिन्नेव ज्ञानकृते वत्सरार्द्धेनेति व्यवस्था। तथाहि याजनं योनिसम्बन्धमित्यत्र देवलवचने पतितेन सहोषित्वा जानन्निति पूर्व्ववचनस्थस्य जानन्निति पदस्य सम्बन्धात् ज्ञानकृतत्वे गुरुत्वं दर्शितं गुरुयाजनाध्यापनादिकमाह देबलः। “आचार्य्याद्व्रतनियमशुश्रूषादिभिस्त्रयोविद्योपादानमध्ययनम्। तस्य चाचारान्वयप्रक्रमसामर्य्य भक्तिशीलशुश्रूषोपनताय शिष्याय प्रदानमध्यापनं, पशुक्षीराज्यपुरोडाशसोमौषधिचरुप्रभृतिभिः खदिर पलाशाश्वत्थन्यग्रोधोदुम्बरप्रभृतिभिः समिद्भिः स्रुक्स्रुवोदूखलमुषलकुठारखनित्रयूपदारुचर्म्मदर्भग्रावपवित्रभाजनादिभिर्द्रव्योपकरणैः प्रोत्साहिहोत्रध्वर्य्युब्रह्मादिभिः ऋत्विग्भिः काम्यनैमित्तिकाणां पक्षादिपूर्ब्बकाणां यथोक्तदक्षिणानां यज्ञानां समापनं यजनम् एतेन याजनं व्याख्यातम्”। तथा च ज्योतिष्टोमादियज्ञानां याजनं गुरु, पूर्त्तादिकर्मणा याजनं लघु। कौर्मम् “याजनं योनिसम्बन्धं तथैवाध्यापनं द्विजः। कृत्वा सद्यः पतेज्जानन् सहभोजनमेव च”। यमः। “असत्प्रतिग्रहीतारस्तथैवायाज्ययाजकाः। नक्षत्रैर्जीव्यते यश्च सोऽन्धकारं प्रपद्यते”। बमिष्ठः। श्रद्दधानस्यभोक्तव्यञ्चौरस्य च विशेषतः। न त्वेव बहुयाज्यस्य यश्चो पनयते बहून्”। बौधायनः। “बहुप्रतिग्राह्यं वाऽप्रतिगुह्ययाज्य बा याजयित्वाऽप्रतिग्राह्यस्य वा प्रतिगृह्य अनाशनस्य वाऽन्नमशित्वा तरत्समन्दीयं जपेत्”। वशिष्ठः। “एतेनैव गर्हिताध्यापकयाजकाव्याख्याता” दक्षिणात्यागाच्च पूताभवन्तीति विज्ञायते” “एतच्च शूद्रेतरस्योपपातकादिगर्हितस्य पञ्चमहायज्ञयाजनादिविषयमिति धर्म्मप्रदीपः” प्रा० वि०। तत्रैव शूद्रपुरोहितयाजकाध्यापकाद्यनुवृत्तौ यमः। “एतेषामेव सर्व्वेषां प्रत्यापत्तिन्तु मार्गताम्। भैक्षान्नमुपयुञ्जानोद्विजश्चान्द्रायणञ्चरेत्। फलं नागद्रदे तोये प्ल्यवयेदभिभावितम् अर्थोत्सर्गेण यन्त्रान्ते तस्मात् पापात् प्रमुच्यते। अक्षारणलवणं रुक्षां पिबेद्व्रह्मसुवर्च्चलाम्। तस्योपनयनं कृत्वा व्यवहार्य्यस्तदा भवेत्” इति। फलं लब्धं धनं नागह्रदे गजमज्जनयोग्यह्रदे अविभावितम् अभुक्तम्। यन्त्रान्ते व्रतान्ते।

अयाज्ययाजन = न० अयाज्यस्य याजनम्। अयाज्यस्य पतितादेर्याजने। याजनं च लघुगुरुभेदेन द्विधेत्तुक्तमयाज्यशब्दे। “अयाज्ययाजनैश्चैव नास्तिक्येन च कर्म्मणाम् कुलान्याशु विनश्यन्ति यानि हीनानि मन्त्रतः” मनुः।

अयाज्यसंयाज्य = न० सम् + यज–णिच्–भावे यत् ६ त०। अयाज्यस्य पतितादेर्याजने “सेवाथायाज्यसंयाज्युपारदार्य्यात्मविक्रयः” इति मनुः।

अयातयाम = पु० न यातोयामः समयोऽस्य। १ अपर्य्युषिते २ अनतिक्रान्तकाले ३ विगतदोषे च। “छन्दांस्येवैतत् पुनराप्याययत्ययातयामानि करोति–न वा अत्र स्तुवते न शंसंन्ति तच्छन्दांस्येवैत्त् पुनराप्याययत्ययातयामानि करोति तैरयातयामैर्यज्ञं तन्वते” इति शत० ब्रा०। “छन्दांस्ययातयामानि” भाम०। “अयातयामानि विगतदोषाणि” श्रीधरः।

अयातु = पु० भीमो भीमसेनवत् यातुर्यातुधानः न० त०। १ राक्षसभिन्ने २ अहिंसके च योमायातुं यातुधानेत्याह ऋ० ७, १०४, १६, अयातुमराक्षसम् भा०। “ह्वयामि देवा~ अयातुरग्ने! ऋ० ७, ३४, ८ अयातुः अहिंसकः भा०।

अयाथातथ्य = न० त०। मिथ्यात्वे। अयथातथशब्दे विवृतिः।

अयान = न० न यानं चलनं यस्य। १ स्वभावे निसर्गे यथा जले। शैत्यं अग्नेरुष्णता न हि तत् कदापि चलतीति तस्य तथात्वम् अभावे न० त०। २ गमनाभावे। यानं गममं वाहनञ्च न० ब०। ३ यानशून्ये त्रि०।

अयानय = पु० द्यूते सर्व्व शारगन्तव्यशेषसोमाभूते शीर्षस्थाने व्युत्पत्तिविवरणम् मत्कृतसरलायाम् यथा आनीयन्ते शारा अस्मिन् इत्यानयः अयेन दक्षिणावर्त्तेनापसव्य- गमनेनानयः अयानयः शीर्षस्थानम्। तत् नेयः ख। द्यूतविशेषे हि चतस्रोवीथयः प्रत्येकं द्वादशकोष्ठोपेताः शारास्तु त्रिंशत् ते च एकैककितवेन पञ्चुदशशो ग्राह्याः स्ववामपार्श्वस्थप्रथमकोष्ठपर्य्यन्तमारभ्यान्तिमकोष्ठरूपंशीर्षस्थानरूपमयानयं दक्षिणावर्त्तेनापसव्यगत्या सर्व्वेऽपि शारा नेया अतस्ते अयानयीना इत्युच्यन्ते तत्रायं प्रकारः “ससहायस्य शारस्य परैर्नाक्रम्यते पदम्। असहायस्तु शारेण परकीयेण हन्यते इत्युक्तदिशावसेयः। परैः परकीयैः नाक्रम्यते द्व्यादिशाराश्रितकोष्ठं नाक्रम्यते परकीयशारेण तत्स्थानाक्रमणेन प्रतिरोधात्। असहायस्तु हन्यते इत्यतः प्रतिरोधाजनकः “अनुपदसर्व्वायानयं बद्धा भक्षयति नेयेषु” पा० “अयानयः स्थानविशेषः तं नेयः अयानयीनः शारः” सि० कौ।

अयाशु = त्रि० अयमश्नाति नाशयति अश–उ–६ त०। शुभावहविधिलोपके यातुधानभेदे “खलजाःशकधूमजा उरुण्डा ये च मट्मटाः कुम्भमुष्का अयाशवः। तानस्या ब्रह्मणस्पतेः प्रतीबोधेन नाशय” अथ० ८, ६, १५।

अयास्य = त्रि० यस–णिच्–शक्यार्थे यत् न० त०। १ उपक्षपयितुमशक्ये “अयुजो असमोनृभिरेकः कृष्टीरयास्यः” ऋ० ८, ६२, २, “अयास्यः उपक्षपयितुमशक्यः” भा०। यासः प्रयत्नस्तत्साध्यः यत् न० त०। २ युद्धरूपसाधनैः साधयितुमशक्ये शत्रौ। आस्यादयते निर्गच्छति अच् पृ० पदव्यत्ययः। ३ मुखेन निर्गमनवृत्तिके प्राणवायौ उपचारात ४ तदुपासके अङ्गिरसि ऋषिभेदे। “अयास्यः स्तवमानेभिरर्कैः” ऋ० १, ६२, ७, “अयास्यः यासः प्रयत्नः तत्साध्यो यास्यः न यास्योऽयास्यः। युद्धरूपैः प्रयत्नैः साधयितुमशक्य इत्यर्थः यद्वा अयास्यः पञ्चवृत्तिर्मुख्यः प्राणः। स ह्यास्यान्मुखादयते गच्छति निष्क्रामति। तदुपासकोऽप्यङ्गिगिरा उपचारादयास्य उच्यते। तथा च छन्दोगैराम्नातम् “तं हायास्य उद्गीथमुपासाञ्चक्रे एतमु एवायास्यं मन्यन्ते आस्याद्यदयते तेनेति”। अथवा अयमास्ये मुखे वर्त्तत इत्ययास्यः तथा च वाजसनेयकम् “ते होचुः क्व नु सोऽभूद्योन इत्थमसक्तेत्ययमास्यान्तरितीति”। पूर्ववदुपासकोऽप्ययास्थः” भा०।

अयि = अव्य० इण–इन्। १ प्रश्ने, २ अनुनये, ३ संबोधने, ४ अनुरागे च “अयि सम्प्रति देहि दर्शनम्” “अयि जीवितनाथ। जीवसि” इति च कुमा०। “अयि जानीषे रेभिलस्य सार्थवाहस्य गृहम्” मृछ०।

अयुक्छद = पु० अयुग्माः सप्त सप्त छदा अस्य। सप्तपर्ण्णे वृक्षे तस्य हि प्रत्येकपल्लवे सप्त सप्त पर्ण्णानि विद्यन्ते। “ववुरयुक्छदगुच्छसुगन्धयः” माघः। अयुक्पत्रादयोऽप्यत्र।

अयुक्त = त्रि० युज–क्त न० त०। १ विषयान्तरासक्ततया कर्त्तव्येष्यनवहिते, २ अनुचिते, ३ आपद्गते ४ असंयुक्ते च “अयुक्तः प्राकृतस्तब्धः शठो नैकृतिकोऽलसः गीता” अयुक्तः अनविहित इति आ० त० रघु०। “नचायुक्तस्य भावना” गीता ५ अयोग्ये “अयुक्तरूपं किमतः परं वद” कुमा०। अयुक्तं शपथं कुर्व्वन्नयोग्योयोग्यकर्म्मकृत्। ६ बहिर्मुखे “अयुक्तः कामकारेण फले सक्तोनिबध्यते इति गींता” “अयुक्तः बहिर्मुखः” म० त० रघु०। युक्तियुक्तं युक्तम् न० त० ७ युक्तिशून्ये त्रि०। “अयुक्तंयदिह प्रोक्तम्” इति दुर्गादासः ८ अनियीजिते च। “अयुक्तचारप्राणधिः नीति०।

अयुक्ति = स्त्री अभावे न० त०। १ युक्त्यभावे। न० ब०। २ युक्तिशून्ये ३ योजनशून्ये च त्रि०।

अयुग = न० त०। युग्मभिन्ने (विजोड) विषमे। “युगपदयुगसप्तिस्तुल्यसंख्यैर्मयूखैः” माघः अयुगनेत्रः त्रिनेत्रः अयुगेषुः पञ्चशरः १ अयुगलादयोऽप्यत्र। न० ब०। २ युगशून्ये त्रि०। ३ भग्नयुगे रथादौ

अयुगपद् = अव्य० न० त०। युगपद्भिन्ने क्रमिकभवने।

अयुगू = स्त्री एति बन्ध्यत्वम् इण्–उन् अयुर्गीयते गै–कू। काकबन्ध्यायां स्त्रियाम्। “अयुगूः काकबन्ध्या या जाता तां न विवाहयेत्” कात्या० स्मृतिः।

अयुग्म = न० न० त०। युग्मभिन्ने (विजोड) १ विषमे। यथा संख्यायामेकत्रिपञ्चसप्तादयः। न० ब०। २ तत् संख्यान्विते त्रि०। “अथेन्द्रिचक्षोभमयुग्मनेत्र” इति कुमा०। अयुग्मशरः पञ्चवाणः। अयुग्मच्छदः सप्तच्छदः अयुग्मवाहः सप्ताश्वः। “अयुग्मे विधवा नारी” उ० त० पु० “युग्मासु पुत्राजायन्ते स्त्रियोऽयुग्मासु रात्रिषु” मनुः। “द्वादशराशिषु विषममसंख्यान्वितेषु मेषमिथुनसिंहतुलाधनुःकुम्भेषु” श्लोके प्रथमतृतीयचरणयोः।

अयुग्मनेत्र = पु० अयुग्मानि नेत्राण्यस्य। त्रिनेत्रे महादेवे “अथेन्द्रियज्ञोभमयुग्मनेत्रः” कु०। अयुग्मलोचनादयोऽप्यत्र।

अयुग्मच्छद = पु० अयुग्माः सप्त सप्त च्छदा अस्य। सप्तच्छदे (च्छातिम्) वृक्षे अयुग्मपत्रादयोऽप्यत्र।

अयुग्मवाह = पु० अयुग्माः सप्त वाहा अस्य। सप्ताश्वे सूर्य्ये। अयुग्माश्वादयोऽप्यत्र।

अयुग्मशर = पु० अयुग्माः पञ्च शरा अस्य। पञ्चवाणे कामदेवे अयुग्मवाणादयोऽप्यत्र। वाणपञ्चकं च पञ्चवाणशब्देवक्ष्यते।

अयुज् = त्रि० न युज्यते सजातीयेन, युज–क्विन् न० त०। अयुग्मे (विजोड) विषमे “अयुजि नयुगरेफतो यकारो युजि नजरगाश्च पुष्पिताग्रा” “अयुग्दान्तं स्त्रीणाम्” गोभि०। “अयुक् अयुग्माक्षरम्” सं० त० रघु० “अयुक्षु तु पितॄन् सर्व्वान्” मनुः। “ववुरयुक्च्छदगुच्छमुगन्धयः” माघः।

अयुत = त्रि० न युतः संयुक्तः सम्बद्धो वा। १ असंयुक्ते २ असम्बद्धेच ३ दशसहस्रसंख्यायाम् न० “सूर्य्याव्धिसंख्यया द्वित्रिसागरैरयुताहतैः” सू० सि०। स विज्ञेयः परः धर्म्मोनाज्ञानामुदितोऽयुतैः” मनुः। ४ तत्संख्यान्निते च।

अयुतनायिन् = पु० अयुतं पुरुषमेधानामयुतं नीतवान् जिभूते णिनि। पुरुवंश्ये महाभौमपुत्रे राजभेदे। “पूरोस्तुभार्य्या कौशल्यानाम तस्यामथ जज्ञे जनमेजय” इत्युपक्रम्य “महाभौमः खलु प्रासेनजितीमुपयेमे तस्य पुत्रो जज्ञे अयुतनायी यः पुरुषमेधानामयुतमनयत् तेनास्यायुतनायित्वम्” भा० आ० प०।

अयुतशम् = अव्य० अयुतमयुतम् वीप्सार्थे कारकात् शस। अयुतमयुतमित्यर्थे।

अयुतसिद्ध = त्रि० युतः पृथग्भूतः सन् सिद्धो न भवति न० त०। कारणकपालादेरपृथग्भूततया सिद्धे १ कार्य्यद्रव्ये घटादौ तथाभूते वैशेषिकोक्तेद्रव्याश्रिते २ गुणे ३ कर्म्मणि च तदेतदयुतसिद्धत्वं कार्य्यद्रव्यगुणकर्म्मणां वेदान्तिभिर्नाङ्गीक्रियते यथा शा० भा०। गुणकर्म्मादीनां कारणद्रव्यात्मकतां व्यवस्थास्य द्रव्यगुणादेरयुतसिद्धत्वनिरासायोक्तम् “गुणानां द्रव्याधीनत्वं द्रव्यगुणयोरयुतसिद्धत्वादिति यद्युच्येत तत्पुनरयुतसिद्धत्वमपृथग्देशत्वं वा स्यात् अपृथक्कालत्वं वा अपृथक्खभावत्वं वा। सर्व्वथापि नोपपद्यते। अपृथग्देशत्वे तावत् स्वाभ्युपगमोविरुध्येत कथं तन्त्वारब्धो हि पटस्तन्तुदेशोऽभ्युपगम्यते नतु पटदेशः प्रटस्य तु गुणाः शुक्लत्वादयः पटदेशा अभ्युपगम्यन्ते न तन्तुदेशाः तथाचाहुः। “द्रव्याणि द्रव्यान्तरमारभन्ते गुणाश्च गुणान्तरमिति”। तन्तबो हि कारणद्रव्याणि कार्यद्रव्यं पटमारभन्ते तन्तुगताश्च गुणाः शुक्लत्वादयः कार्यद्रव्ये पटे शुक्लत्वादि गुणान्तरमारभन्ते इति हि तेऽभ्युपगच्छन्ति। सोऽभ्युपगमोद्रव्यगुणयोरपृथगदेशत्वेऽभ्युपगम्यमाने बाध्येत। अयापृथक्कालत्वमयुतसिद्वत्वमुच्येत सव्यदक्षिणयोरपि गोविषाणयोरयुतसिद्धत्वं प्रसज्येत। अथापृथक्स्यभावत्वे त्वयुतसिद्धत्वे न द्रव्यगुणयोरात्मभेदः सम्भवति तस्य तादात्म्येनैव प्रतीयमानत्वात्। युतांसद्धयोः सम्बन्धः संयोगः अयुतसिद्धयोस्तु समवाय इत्ययमभ्युपगमोमृषैव। तेषां प्राक्सिद्धस्य कार्य्यात् कारणस्यायुतसिद्धत्वानुपपत्तेः अथान्यतरापेक्ष एवायमभ्युपगमः स्यात् अयुतसिद्धस्य कार्यस्य कारणेन सम्बन्धः समवाय इति” एवमपि प्रागसिद्धस्यालब्धात्मकस्य कार्यस्य कारणेन सम्बन्धोनोपपद्यते द्वयायत्तत्वात् सम्बन्धस्य। सिद्धं भूत्वा सम्बध्येत इति चेत् प्राक्कारणसम्बन्धात् कार्यस्य सिद्धावभ्युपगम्यमानायाम् युतसिद्ध्यभावात् कार्यकारणयोः संयोगविभागौ न विद्यते इतीदमुक्तं दुरुक्तं स्यात्। यथा चोत्पन्नमात्रस्वाक्रियस्य कार्य्यद्रव्यस्य विभुभिराकाशादिद्रव्यान्तरैः सम्बन्धः संयोग एवाम्युपम्यते न समवायः एवं कारणद्रव्येणापि सम्बन्धः संयोग एवस्यान्न समवायः। नापि संयोगस्य समवायस्य वा सम्बन्धस्य सम्बम्बिव्यतिरेकेणास्तित्वे किञ्चित्प्रमाणमस्ति। सम्बन्धि शब्दप्रत्ययव्यतिरेकेण संयोगसभवायशब्दप्रत्यदर्शनात्तयोरस्तित्वमिति चेन्न एकत्वेऽपि स्वरूपबाह्यरूपापेक्षयाऽनेकशब्दप्रत्ययदर्शनात्। यथैकोऽपि सन् देवदत्तोलोके स्वरूपं सम्बन्धिरूपञ्चापेक्ष्यानेकशब्दप्रत्ययभाग्भवति मनुष्योब्राह्मणः श्रोत्रियोवदान्योबालो युवा स्थविरः पितापुत्रः पौत्रोभ्राताजामातेति। तथा चैकापि सती रेखास्थानान्यत्वेन निवेश्यमानैकदशशतसहस्रादिशब्दप्रत्ययभेदमनुभवति तथा सम्बन्धिनोरेव सम्बन्धिशब्दप्रत्ययव्यतिरेकेण संयोगसमवायशब्दप्रत्ययार्हत्वं न व्यतिरिक्तंवस्त्वस्तित्वेनेत्युपलब्धिलक्षणप्राप्तस्यानुपलब्धेरभावोवस्त्वन्तरस्य। नापि सम्बन्धिविषयत्वे सम्बन्धशब्दपत्यययोः सततभावपसङ्गः स्वरूपवाह्यरूपापेक्षयेत्युक्तोत्तरत्वात्। तथैवाऽण्वात्ममनसामप्रदेशत्वान्न संयोगः सम्भवति प्रदेशवतो द्रव्यस्य प्रदेशवता द्रव्यान्तरेणसंयोगदर्शनात्। कल्पिताः प्रदेशाअण्वात्ममनसाम्भविष्यन्तीतिचेन्न अविद्यमानार्थस्य कल्पनायां सर्व्वार्थसिद्धि प्रसङ्गात् इयानेवाविद्यमानोविरुद्धोऽविरुद्धोवार्थः कल्पनीयोनातोऽधिकैति नियमहेत्वभावात् कल्पनायाश्च स्वायत्तत्वात् प्रभूतत्वसम्भवाच्च। नच वैशेषिकैः कल्पितेभ्यः पड्भ्योऽर्थेभ्योऽभ्यधिकाः शतं सहस्रं वार्थान कल्पयितव्या इति निवारकोहेतुरस्ति। तस्माद्यस्मै यस्मै यद्यद्रोचते तत्तत् सिध्येत्। कश्विद्दयालुः प्राणिनां दुःखबहुलः संसार एवमा भूदिति कल्पयेत् अन्योवाव्यसनी मुक्तानामपि पुनरुत्पत्तिं कल्पयेत् कस्तयोर्निवारकः स्यात्। किञ्चान्यत् द्वाभ्यामणुभ्यां निरवयवाभ्यां सावयवस्य द्व्यणुकस्याकाशेनेव संश्लेषानुपपत्तिः नह्याकाशस्य पृथिव्यादीनाञ्च जतुकाष्ठवत् संश्लेषोऽस्ति। कार्य्यकारणद्रव्ययोराश्रिताश्रयभावोऽन्यथा नोपपद्यते पूत्यवश्यकल्प्यः समवायैति चेन्न इतरेतराश्रयत्वात्। कार्य्यकार णयोर्हि भेदसिद्धावाश्रिताश्रयभावसिद्धिराश्रिताश्रयभाव सिद्धौच तयोर्भेदसिद्धिः कुण्डवदरवदितरेतराश्रयता स्यात्। नहि कार्य्यकारणयोर्भेदः आश्रिताश्रयभावो वा वेदान्तवादिभिरभ्युपगम्यते कारणस्यैव संस्थानमात्रं कार्य्यमित्यभ्युपगमात्। किञ्चान्यत् परमाणूनां परिच्छिन्नत्वात् यावत्योदिशः षडष्टौ दश वा तावद्भिरवयवैः सावयवास्ते स्युः सावयवत्वादनित्याश्चेति नित्यत्वनिरवयवत्वाभ्युपगमोबाध्येत। यांस्त्वं दिग्भेदभेदिनीऽवयवान् कल्पयसि तएव भम परमाणव इति चेन्न स्थूलसूक्ष्मतारतम्यक्रमेणा परप्रकारत्वेन नाशोपपत्तेः। यथा पृथिवी द्व्यणुकाद्यपेक्षया स्थूलतमा वस्तुभूतापि विनश्यति ततःसूक्ष्मं सूक्ष्मतरञ्च पृथिव्येकजातीयकं विनश्यति ततोद्व्यणुकं तथा परमाणवोऽपि पृथिव्येकजातीयकत्वाद्विनश्येयुः। विनश्यन्तोऽवयवविभागेनैव विनश्यत्तीतिचेन्नायं दोषः यदोघृतकाठिन्यविलयनवदपि विनाशोपपत्तिमवोचाम। यथाहि घृतसुवर्णादीनामविभ ज्यमानावयवानामप्यग्निसंयोगात् द्रवभावापत्त्या काठिन्यविनाशोभवति एवं परमाणुनामपि परमकारणभावापत्त्याविनाशोमविष्यति। तथा कार्य्यारम्भोऽपि नावयवयवसंयोगेनैव केवलेन भवति क्षीरजलादीनामन्तरेणाप्यवयवसंयोगान्तरं दघिहिमादिकार्य्यारम्भदर्शनात्”। वृ० उ० भा० सत्कार्यव्यवस्थापनोद्देशे “द्विनिष्ठत्वात् सम्बन्धस्यायुतसिद्धानामदोष इति चेत् न। भावाभावयोरयुतसिद्धत्वानुपपत्तेः। भावभूतयोर्हि युतसिद्धताऽयुतसिद्धता वा स्यान्न तु भावाभावयोर्वा तस्मात् सदेव काय प्रागुत्पत्तेरिति सिद्धम्”। “युतसिद्धयोरज्जुघटयोर्मिथःसंयोगे पृथक्सिद्धिरपेक्ष्यते अयुतसिद्धानां परस्परपरिहारेण प्रतीत्यनर्हाणां कार्यकारणादीमां मिथोयोगेऽपृथकसिद्ध्यभावो न दोषमावहतीति शङ्कते अयुतेति” आनन्दगिरिः। “द्रव्याश्रयेष्वपि गुणेषु” भा० ५, ३८, वाख्यायां मल्लिनाथः द्रव्याश्रयेष्वपि अयुतसिद्धत्वात् द्रव्यसमवेतत्वाच्च द्रव्याधी नसत्ताकेषु सत्स्वपीति।

अयुतसिद्धि = स्त्री यु–अमिश्रणे क्त युतः पृथग्रूपेण स्थितः तथाभूतयोः सिद्धिः अभावे न० त०। पृथग्भायेमा- सिद्धौ। यथा अवयवावयविनोः, द्रव्यगुणयोः, द्रव्यक्रिययोस्तयासिद्धिः ते हि स्वस्वकारणे अपृयग्भूततया सिद्धाः। अतएवोक्तं “युतसिद्ध्यभावात् कार्य्यकारणयोः संयोगविभागौ न विद्येते” वै० सू०। “ससम्बन्धयोर्विद्यमानत्वम् पृथगाश्रयाश्रयित्वं वा युतसिद्धिस्तदभावस्त्ववयवावयविनोः” इति उप० वृत्तिः। अयमाशयः ‘घटपटादयो हि पृयग्भूततया सिद्धाः आश्रयाश्रयिभातं लभन्ते। कार्य्यकारणयोस्तु न पृथक्स्थितिर्येन तथा स्यात्’ इति।

अयुताजित् = पु० अयुतं जितवान् जि–भूते क्विप् दीर्घः उ० प० स०। यदुवंश्ये नृपभेदे। “अयुताजित् सहस्राजित् शताजिदथ दासकः उपवाह्यकसृञ्जुर्य्यां भजमानाद्विज ज्ञिरे” हरि० प०।

अयुद्ध = न० अभावे न० त०। १ युद्धाभावे न० ब०। २ युद्धशून्ये त्रि०।

अयुव = त्रि० न यौति यु–बा० क०। असंसृष्टे “अयुवमार्य्यस्य राष्ट्र भवति” ऐत० व्रा०।

अयुवन् = पु० स्त्री० न युवा विरोधे न० त०। वृद्धे–स्त्रियां ङीप्।

अयूप्य = त्रि० यूपे साधु यत् न० त०! यूपासाधने निम्बजम्बीरादौ वृक्षे “वृक्षा द्विविधा यूप्या अयूप्याश्च पलाशखदिरविल्वादयो यूप्या निम्बजम्बीरादयस्त्वयूप्याः” यजु० वेद० दी०।

अये = अव्य० इण्–एच्। १ कोपे, २ विषादे, ३ संभ्रमे, ४ स्मृतौ, ५ अबुद्धौ च। “अये दक्षिणेन पुष्पवाटिकामालाप इव श्रूयते” शकु० “अये गौरीनाथ! त्रिपुरहर! शम्भो! त्रिनयन”! सां० द०।

अयोग = पु० युज्–घञ् अभावे न० त०। १ योगाभावे, अप्राशस्त्ये न० त०। ज्योतिषोक्ते तिथिवारादीनां दुष्टे २ योगे “अयोगः सिद्धियोगश्च द्वावेतौ भवतोयदि। अयोगोहन्यते तत्र सिद्धियोगः प्रवर्त्तते” इति राजमा०। “अयोगे सुयोगोऽपि चेत् स्यात्तदानीमयोगं निहत्यैव सिद्धिं तनोति। परे लग्नशुद्ध्या कुयोगादिनाशं दिनार्द्धोत्तर विष्टि–पूर्व्वञ्च शस्तम्” “यत्र लग्नं विना” किञ्चित् क्रियते शुभसंज्ञकम् तत्र तेषामयोगानां प्रभावाज्जायते फलम्” इति च मुहू० चि०। न० ब०। ३ विधुरे, ४ कूटे, ५ कठिनोदये सुश्रुतोक्ते वमनापशमनीये ६ रोगभेदे च। “यत्राध्मानं हृदयग्रहस्तृष्णा मर्च्छा दाहश्च भवति तमयोगमित्याचक्षते तमाशु वमयेदिति”। “अयोगाहास्तु वक्ष्यामि व्यापदः सचिकित्सिताः। अनुष्णोऽल्पौषधी हीनो वस्तिनति प्रयोजितः विष्टम्भानशूलैशृ तमयोगं प्रचक्षते इति च सुश्रुतः।

अयोगवः = पु० अय इव कठिना गौर्वाणी यस्य नि० अच्। अयोगं दुष्टयोगं वाति वा–क वा। “शूद्रादयोगवःक्षत्ता चाण्डालश्चाधमोनृणाम्। वैश्यराजन्यविप्रासु जायन्ते वर्ण्णसङ्कराः इति मनूक्ते शूद्रात् वैश्यायां जाते प्रतिलोमजे सङ्कीर्णवर्णे। “प्रसाधनोपचारज्ञमदासं दासजीवनम् सैरिन्ध्रं वागुरावृत्तिं सूते दस्युरयोगवे, मनुः। अयोगवस्यायम् अण्। आयोगवः तज्जातिसम्बन्धिनि त्रि० स्त्रियां ङीप्। “भवन्त्यायोगवीष्वेते जातिहीनाः पृथक् त्रयः” मनुः।

अयोगवाह = पु० अक्षरसमाम्नायसूत्रेषु “ऐउण्” इत्यादिषु चतुर्दशसु नास्ति योगः पाठादिरूपः संबन्धो येषां ते तथापि वाहयन्ति षत्वणत्वादिकार्य्यादिकं निष्पादयन्ति वाहेः अच् कर्म्मधा०। “अनुस्वारो विसर्गश्च + क~पौ चैव पराश्रितौ। अयोगवाहाविज्ञेया” इति शिक्षाकृदुपदिष्टेषु अनुस्वारविसर्गादिषु

अयोगुल (ड) = पु० गुलः गोलाकारः अयसा निर्म्मितोगुलः। (गोलीति (ख्याते लौहगुटिकायाम्। बा लस्य डः।

अयोगू = पु० अयोलोहविकारं गच्छति कर्त्तृत्वेन गम–ला० डू। अयोगन्तरि अयस्कारे “पास्मने क्लीवमाक्रियाया अयोगूमिति”। पुरुषमेधे यजु० ३०५ “अयोगूमयोगन्तारम्। वेद दी०।

अयोग्य = त्रि० न० त०। १ योग्यभिन्ने अनर्हे २ अनुचिते च।

अयोऽग्र = न० अयोऽग्रे मुखे यस्य। मुषले तस्य मुखे लौहावस्थित्या तथात्पम्।

अयोघन = पु० अयांसि हन्यन्तेऽनेन हन अप पादेशश्च नि०। (हातुडीति) ख्याते लौहमुद्गरे। “अयोघनेनाय इवाभितप्तम्”।। रघुः।

अयोजाल = न० अयोविकारः जालम्। १ लौहमये जाले अय इव दुर्भेद्यं जालं मायाऽस्य। २ दुर्भेद्यकपटे असुरादौ त्रि० “अयोजाला असुरा मायिनोऽयस्मयैः” अथ० १, १९, ६६।

अयोदंष्ट्रा = त्रि० अयोमयी दंष्ट्रा चक्राग्रधारा अस्य। लौहमयधारे रथादौ। “पश्यन् हिरण्यवक्रानयोदंष्ट्रान् विधावतो वराहून्” ऋ० १, ८८, ६, “दंष्ट्रा चक्रधारा” भा०।

अयोदत् = त्रि० अयैव कटिनो दन्तोयस्य संज्ञायां दत्रादेशः। लीहवत्कठिनदन्तयुक्ते राक्षसादौ स्त्रियां ङीप्।

अयोध्य = त्रि० योद्धुमशक्यः युध–ण्यत् न० त०। योद्धुमशक्ये “अष्टाचक्रा नवद्वारा देवानां पूरयोध्या” अथ० १०, २, ३१, इक्ष्वाकुवंश्यनृपाणां राजधान्यां खी सा च सरयू तीरसन्निकृष्टा सेवनादौ मोक्षदा च। “अयोध्या मथुरा माया काशी काञ्ची अवन्तिका। पुरी द्वारवती चैव सप्तैता मोक्षदायिकाः” पुरा० “बलगुपहितशोभां तूर्ण्णमायादयोध्याम्” भट्टिः।

अयोध्याकाण्ड = न० अयोध्यायास्तत्रत्यवृत्तान्तवर्ण्णनस्य काण्डम्। रामायणान्तर्गते अयोध्यावर्णनात्मके ग्रन्थे।

अयोनि = स्त्री न० त०। १ योनिभिन्नस्थाने। “अमानषीषु पुरुषे उदक्यायामयोनिषु। रेतः सिक्त्रा जले चैव कृच्छ्रं सान्तपनं चरेत्” मनुः। नास्ति योनिरुत्पत्तिस्थानं यस्य! २ अजन्ये नित्ये। “जगद्योनिरयोनिस्त्वम्” कु०।

अयोनिक = त्रि० न आभ्नाता योनिरस्य कप्। अनाम्नात योनिकेषु ग्रहरूपयज्ञपात्रादौ “नायोनिकेषु” कात्या० ९, ५, २३, अयोनिकेषु यत्र “एष ते योनिः” इत्यस्याम्नानं न भवति तत्र “एष ते योनिः” इत्यनेनासादनं भवति “सर्वे ष्विति वात्स्योऽविशेषात्” कात्या० ९, ५, २७ “सर्वेष्वाम्नात योनिकेषु अनाम्नातयोनिकेषु च ग्रहेषु परिमार्जनानन्तरम् एष ते योनिरिति मन्त्रेणासादनं भवत्येव” कर्क०।

अयोनिज = न० योनेर्न जायते जन–ड। योनितोऽनुत्पन्नेशुक्रशोणितसन्निपातानुत्पन्ने जरायुजभिन्ने कृमिदंशादौ तथाहि “शरीरं द्विविधं योनिजमयोनिजञ्च” वै० सू०। तत्र पार्थिवादिशरोरेषु मध्ये पार्थिवं शरीरं द्विविधं योनिजमयोनिजञ्चेति आप्यतैजसवायवीयशरीराणां वरुणादित्यवायुलोकेषु प्रसिद्धानामयोनिजत्वमेव शुक्रशो णिससन्निपातानपेक्षत्वात्। अयोनिजञ्च देवानामृषीणाञ्च श्रूयते हि “ब्रह्मणोमानसामन्वादय” इति। कारणमन्तरेण कथं कार्य्यमिति चेत् योनेः शरीरत्वावच्छेदेनाकारणत्वात् ऊष्मजकृमिमशकादिशरोरे व्यभिचारात् संस्थानविशेषवत्त्वस्य चासिद्धेः देवर्षिशरीरापेक्षयाऽस्मदादिशरीराणामन्यादृशत्वात्, योनिजमपि द्विविधं जरायुजमण्डजञ्च, जरायुजं मानुषपशुमृगाणां, गर्भाशयस्य जरायुत्वात्, पक्षिसरीसृपाणामण्डजं परितः सर्पणशीलत्वात् सर्पकीटमत्स्यादयोऽपि सरीसृपा एव यद्यपि वृक्षादयोऽपि शरीरभेदा एव भोगाधिष्ठानत्वात् न खलु भोगाधिष्ठानत्वमन्तरेण जीवन–मरण–स्वप्र–जागरणभेषज–प्रयोग–वीजसजातीयानुबन्धानुकूलोपगम–प्रतिकूलापगमादयः सम्भवन्ति वृहिलतमगृमंरोहणे च भोगोयपादके स्फुटे एव, आगमोऽप्यस्ति। “नर्म्मदातोरसम्मूताः सरलार्ञ्जुनपादपाः। नर्म्मदातोयसंस्पर्शात् ते पान्ति परमां गतिम्”। “श्मशाने जायते वृक्षः कङ्कगृध्रादिसेवितः”, इत्यादिश्च तथापि चेष्टावत्त्वमिन्द्रियवत्त्वञ्च नोद्भिदां स्फुटतरगतो न शरीरत्यवहारः उ० वृ०।। वृक्षादीनामयोनिजशरीरसत्त्वे प्रमाणान्तरमस्ति “शरीरजैः कर्म्मदोषैर्याति स्थावरतां नरः” मनुना कर्मविशेषैर्नराणां तद्भावप्राप्तिरुक्ता। “गुरुं तुङ्कृत्य हुङ्कृत्य विप्रं निर्जित्य वादतः। श्मशाने जायते वृक्षः कङ्कगृघ्रादिसेवित” इत्यादि वचनेन। अयोनिजशरीरोत्पत्तिकारणमाह। “अनियतदिग्देशपूर्व्वकत्वात्” वै० सू०। “धर्म्मविशेषाच्च” “समाख्याभावाच्च” “अनियतदिग्देशाः परामणबोधर्म्मविशेषजनितकर्म्माणस्तत्पूर्ब्बकत्वात् अयोनिजशरीराणाम् ननु परमाणूनां कर्म्म विना कथं द्रव्यासमवायिकारणं संयोगमन्तरेण द्रव्योत्पत्तिरत आह। अदृष्टवदात्मसंयोगादेव सर्गादौ परमाणूनां कर्म्म तेन च कर्म्भणा सम्भूय परमाणवो द्व्यणुकादिक्रमेण अयोनिजं देवर्षीणां शरीरमारभन्ते इत्यर्थः, उपलक्षणञ्चैतत् अधर्म्मविशेषाच्च क्षुद्रजन्तूनामूष्मजानां यातनामयानि शरीराण्युत्पद्यन्ते इत्यपि द्रष्टव्यम् देवर्षीणामयोनिजे शरीरे प्रमाणान्तरमाह। समाख्या अन्वर्था संज्ञा श्रुतिस्मृतीतिहासपुराणादिषु संज्ञायाआदित्वात् प्रसिद्धा तथाहि दुर्व्वासःप्रभृतयो मानसाः “अहङ्कारेभ्यः समभबदङ्गिरा” इत्यादिका, तथाऽपि ज्ञायते सन्त्ययोनिजानि शरीराणि देवर्षीणामिति प्रमाणान्तरमाह। सर्गादौ या ब्रह्मादिसंज्ञा आदिभृता प्राथमिकी तया ज्ञायते अस्त्ययोनिजं शरीरमिति नहि तदा ब्रह्मणो मातापितरौ स्तः याभ्यां ब्रह्मादिसंज्ञा कृता स्यादिति भावः उप्रसंहरति। “सन्त्ययोनिजाः” “वेदलिङ्गाच्च वै० सू०” शरीरविशेषा इति शेषः उपसंहृतेऽतिदार्द्यार्थं प्रमाणान्तरमाह। वेदो मन्त्रः स च लिङ्ग्यते ज्ञाप्यतेऽनेनेति वेदलिङ्गं ब्राह्मणम्, ततोऽप्ययोनिजं शरीरं प्रतिपद्यते इत्यर्थः। तथाहि ब्राह्मणम् “प्रजापतिः प्रजा अनेका असृजत् स तपोऽतप्यत प्रजाः सृजेयमिति म मुस्वतो ब्राह्मणमसृजत् वाहुभ्यां राजन्यमूरुभ्यां वैश्यम् पद्भ्यां शूद्रम्” इति, वेदोऽपि “ब्राह्मणोऽस्य मुखमासीत् बाहूराजन्यः कृतः ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रोऽजायत” इत्यादिः, पवं योनिजमयोनिजञ्च पार्थिवशरीरमुक्तम्, आय्यं तैजमं वायवीयञ्चायोनिजमेव “ब्रह्मणो मानसा मन्वादय” इति उप० वृत्तिः। “किन्तु देहमयोनिजमिति” भापा० छा० उ० तद्भाप्ये च त्रैविध्यमुक्त यथा “तेषां खल्वेषांभूतानां त्रीण्येव वीजानि भवन्त्याण्डजं जीवजमुद्भिज्जमिति” छा० उ० “तेषां जीवाविष्टानां खल्वेषु पक्ष्यादीनां भूतानामेषामिति प्रत्यक्षनिर्द्देशान्नतु तेजः प्रभृतीनां तेषां त्रिवृत्करणस्य वक्ष्यमाणत्वादसति त्रिवृत्करणे प्रत्यक्षनिर्द्देशानुपपत्तिः। देवताशब्दप्रयोगाच्च तेजः प्रभृतिषु इमास्तिस्रोदेवता इति। तस्मात्तेषां खल्वेषां भूतानां पशुपक्षिस्थावरादीनां त्रीण्येव नातिरिक्तानि वीजानि कारणानि भवन्ति। कानि तानीत्युच्यन्ते। आण्डजमण्डाज्जातं अण्डजमेवाण्डज पक्ष्यादि। पक्षिसर्पादिभ्यो हि पक्षिसर्पादयो जायमाना दृश्यन्ते। ते च पक्षिणां वोजम्। सर्पः सर्पाणां वीजम्। तथाऽन्यदप्यण्डाज्जांतं तज्जातीयानां वीजमित्यर्थः भा०। २ अयोनिजदेहवति नरादौ च त्रि० “राघवाय तनयामयोनिजाम्” रघुः ३ विष्णौ पु०। “वाचस्पतिरयोनिज” इति वि० सह०।

अयोमय = त्रि० विकारे मयट् स्त्रियां ङीप्। लौहविकारे अस्त्रशस्त्रादौ। “निःक्षेप्योऽयोमयः शङ्कुर्ज्वलन्नास्ये दशाङ्गुलः” गुरुतल्प्यभिभाष्यैनस्तप्ते स्वप्यादयोमये” इति च मनुः।

अयोमल = न० अयसो मलमिव। (लौहगू) इतिख्याते लौहभले तत्किट्टे “शताब्दमुत्तमं किट्टं मध्यञ्चाशीतिवार्षिकम्” अधमं षष्ठिवर्षीयं ततो हीनं विषोपमम् यल्लौहं यद्गुणं प्रोक्तं तत्किट्टं चापि तद्गुणमिति” राजनि०।

अयोमुख = न० अयोविकाररूपं मुखं यस्य। १ लाङ्गलादौ “भूमिं भूमिशयांश्चैव हन्ति काष्ठमयोमुखम्” २ अग्रलौहयुक्ते त्रि० भेत्स्यत्यजः “कुम्भमयोमुखेन” रघुः। अय इव कठिनं मुख यस्य। ३ लौहतुल्यकठिनमुखे विहगादौ “अयोमुखाः सूचीमुखाः अयोविकृतिमुखाः पिशाची क्रव्यादो वातरंहसः अथ० ११, १०, ३। “श्वानो भीषणकाया अयोमुखानि वयांसि जले गृध्रपक्षिणाञ्च सङ्घाः भा० शा० प०। ४ असुरभेदे पु०। “शङ्कुकर्णो विराषश्च गवेष्ठी दुन्धुभिस्तथा अयोमुखः शम्बरश्च कपिलोवामनस्तथा हरिवं०। अयःसुवर्ण्णं मुखमाद्यं यस्य। सुवर्ण्णादिधातौ “अयोमुखैश्च विपुलः पर्व्वतो धातुभिर्युतः इति हरिवं० तत्र भवः स्रुघ्नादि० छ। अयोमुखीयः तद्भवे त्रि०।

अयोरस = पु० ६ त०। लौहमले। ताप्यमानाल्लोहात् यत् पृथग् भवति तस्मिन् “सर्बायोरसाश्मचूर्णैः रुद्राः संसृज्ये कात्या० १५, ५, ९, “अयोरसः लोहसिङ्घानः किट्ट इति यः प्रसिद्धः कर्क० “अथैतत्रयं पिष्टं भवति शर्कराश्मायोरसस्तेन सं सृजति” श० ब्रा०।

अयोहृदय = त्रि० अय इव कठिनं हृदयमस्य। कठिनचित्ते दयाशून्यचित्ते। “सुहृदयोहृदयः प्रतिगतर्जताम् रघुः।

अय्मन् = त्रि० अय–मनिन्। १ गन्तरि २ गमनसन्धने च “समानमय्मन् पर्य्येति जागृविः” ता० ब्रा० “अय्मन् अयमनि गमनसाधने रथे उपविष्टः” मा०।

अर = पु० इयर्त्ति गच्छत्यनेन ऋ–अच्। १ चक्रस्य २ नाभिनेम्योर्मध्यस्थे काष्ठे ३ शीघ्रे च ४ शीघ्रतादिगुणवति त्रि०। “गण्डोज्ज्वलामुज्ज्वालनाभिचक्रया विराजमानां नवयोदरश्रियां” माघः उदरा उन्नता अराश्चक्रशलाका इति मल्लि० “विभुररान्न नेमिः परिभूरजायथाः ऋ०१ १४, ९ “अरा इव रथनाभाविति” श्रुतिः “सम्यञ्चोऽग्निं स पर्यतारा नाभिमिवाभितः” अथ० ३, ३०, ६, “अरा इवाग्ने नेमिरिति” शत० ब्रा०। एवमस्य पुंस्येव प्रयोगात् “रोपधः” ६। ७ पृष्ठे दर्शितात् पा० सूत्राच्च पुंस्त्वे स्थिते मेदिनीकरोक्तं क्लीवत्वं शीघ्रतायामेवान्वितं न तु चक्राङ्गेऽपि। “यदपि च तच्चक्रं द्वादशारं यद्वै कुमाराः परिवर्त्तयन्ति तेऽपि षडृतवः संवत्सरश्चक्रम्” भा० आ० प०। द्वादश मासा अराइव यस्य तदर्थः। “पञ्चारे चक्रे परिवर्त्तमामे तस्मिन्नातस्थुर्भुवनानि च विश्वा” ऋ० १, १६४, १३ पञ्चारे पञ्चर्त्तुरूपैररैर्युक्ते हेमन्तशिशिरयोरेकत्वाभिप्रायेण पञ्चर्त्तुता” भा० ४ कोणे “त्रिपञ्चारे पीठे शवशिवहृदीति” श्यामास्तवः। संज्ञायां कन्। ५ शैवाले “प्रापडीति” ख्याते ६ पर्पटे च पु०।

अरक्षस् = त्रि० नास्ति रक्षो रक्षस्तुल्यं बाधकं यस्य। “बाधकरहिते। “जिघर्म्यरक्षसा मनसा च तज्जुषेत” ऋ० २, १०, ५। “अरक्षसा बाधकरहितेन मनसा” भा०।

अरक्षित = त्रि० न रक्षितः। रक्षितभिन्ने। “पादं स्वामिन्यरक्षिते” स्मृतिः।

अरग्बध = पु० पृ० ह्रस्वः। आरग्वधवृक्षे (शु~धालो)।

अरघट्ट = पु० अरं शिघ्रं घट्ट्यते चाल्यतेऽसौ। १ महाकूपे, २ कूपोपरिनिबद्धजलोत्तोलनकाष्ठे च। “अथ कूपमासाद्यारघट्टघाटिकामार्गेण सर्पस्तेनानीतः”। “तदाकर्ण्य तु अरघट्टघाटिकामार्गमहमाश्रित्येति” च पञ्चत० स्वार्थे कन्। तत्रैव।

अरङ्कृत् = त्रि० अलं करोति अलम् + कृ–क्विय लस्य रः। १ अलङ्कारिणि “त्वमग्ने! द्रविणोदा अरद्भूते” ऋ० २ १, ६, ० “अरङ्कृते अलङ्कुर्वते” भा० हविष्यन्तो अरङ्कृतः ऋ० १, १४, ५, भा० अलङ्कृतःअलङ्कुर्वतः “कपिलकादीनां संज्ञाछन्दसोः” लस्य रः भा०। २ पर्य्याप्तकारिणि च “उरुधाराभरङ्कृतम् ऋ० ८, १, १०, “अरङ्कृतं पर्य्याप्तकारिणमिन्द्रम्” भा०।

अरङ्कृत = त्रि० अलं क्रियते स्म अलम् + कृ + क्त लो रः। अलङ्कृते भूषिते “यमोह यज्ञो गच्छत्यग्निदूतो अरङ्कृतः” ऋ० १०, १४, १३, अरङ्कृतः बहुभिर्द्रव्यैरलङ्काररूपैर्युक्तः” भा०।

अरङ्कृति = स्त्री अलम् + कृ + क्तिन लस्य रः। अलङ्कारे भूषायाम् “का ते अस्त्यरङ्कृतिः सूक्तैः” ऋ० ७, २९, ३। “अरङ्कृतिरलङ्कृतिः” भा०।

अरङ्गम = पु० अलं पर्य्याप्तं गमोगतिः लस्य रः। पर्य्याप्त गमने “अरङ्गमाय जग्मयेऽपश्चाद्दघ्वने नरे” ऋ० ६, ४२, १, “अरङ्गमाय पर्य्याप्तगमनाय” भा०।

अरजस् = त्रि० रन्ञ असुन् नलोपः न० ब०। १ रजोगुणकार्य्यकामक्रोधादिशून्ये। “अजरममरमभयममृतमरज” इति शत० व्रा० वा कप्। अरजस्कोऽप्यत्र। २ अनार्त्तवायां नग्निकायां स्त्री। भृशा० अभूततद्भावे क्यङ्” सलोपश्च, अरजायते।

अरज्जु = न० नास्ति रज्जुर्बन्धनसाधनं यत्र। १बन्धनागारे रज्जुहीनत्वेऽपि बन्धनहेतुत्वात् तथात्वम्। “अरज्ज्वौ दस्यून्त्समुनब्दभीतये” ऋ० २, १३, ९, “अरज्जौ बन्धनागारे” भा० २ रज्जुरहिते रोगादौ च “सेतुभिः रज्जुभिः सिनीथः, ७, ८१, २, रज्जुरहितैः रोगादिभिः भा०।

अरटु (लु) = पु० अरं शीघ्रमटति अट–अल वा उन् शक०। (शोना) वृक्षे इति ख्याते ऋश्यादि० क। डलयोरैक्यात् अरडुकः तद्भवे त्रि०।

अरट्व = पु० न रटति रट–वन् न० त०। पृथुश्रवोनृपतिमन्त्रिभेदे “अरट्वे अक्षे नहुषे सकृत्वनि” सुकृत्तराय सुक्रतुः” ऋ० ९, ४५, १७ अरट्वे अक्षे नहुषे सुकृत्वनि च एते तस्य राज्ञोऽध्यक्षाः” भा०।

अरण = त्रि० नास्ति रणं युद्धं यस्य। १ युद्धशून्ये “अरणं मरणं समयात् समयात्” भट्टिः नास्ति रणः शब्दो येन। वाक्सङ्गरहिते २ रिपौ “ब्रह्मराजन्याभ्यां शूद्राय चार्य्याय स्वाय चारणाय” यजु० १६, २, “अरणाय पराय वाक्सङ्गरहिताय शत्रवे” वेददी०। ३ अरममाणे पृ० साधुः। “योनः स्वो अरणो यश्च निष्ठ्यो जिघांसति” ऋ० ६, ७५, २९ “अरणोऽरममाणः” इति भा०। ४ दुःखिते “मा भूम निष्ठ्या इवेन्द्र! अरणा इव” ऋ० ८, १, १३, “अरणा अरममाणाः दुःखिनः” भा०।

अरणि = पु० ऋ–अनि। १ सूर्य्ये ‘गणियारीति’ ख्याते २ वृक्षे। ऋच्छति प्रापयत्यग्निम्। ३ अग्निमन्थनकाष्ठे द्वि०। स्त्रियां ङीप्। “जाते पुत्रेऽरणिं मथित्वेति” श्रुतिः “आत्मानमरणिं कृत्वा” पुरा० “अग्न्युद्धारशब्दे ६३ पृष्ठे विवरणम् “अरणीसहितं मन्थं ब्राह्मणस्य तपस्विनः। मृगस्य घर्षमाणस्य विषाणे समज्जतं” भा० व० प०। “ततः पुनर्महत्मानः पाणिं वेनस्य दक्षिणम्। अरणीमिव संरब्धा ममन्थुर्जातमन्यव” इति हरिवं० “पराशरकुलोद्भूतः शुकोनाम महातपाः। भविष्यति युगे तस्मिन् महायोगी द्विजर्षभः। व्यासादरण्यां संभूतो विधूमोऽग्निरिव ज्वलन्” हरिव०। अरणीमधिकृत्य कृतोग्रन्थः ढक्। आरणेयम् भारतवनपर्व्वान्तर्गते अरणीहरणाधिकारेण व्यासकृतेऽवान्तरपर्वभेदे।

अरणिक = पु० अरणये अग्निमन्थनकाष्ठाय साधु ठन्। अग्निमन्थनकाष्ठसाधने अग्निमन्थनवृक्षे।

अरणीकेतु = पु० अणणी केतुरस्य। अग्निमन्थनवृक्षे राजनि०।

अरणीसुत = पु० ३ त०। शुकदेवे “स लब्धा परमं देवाद्वरं सत्यवतीसुतः”। अरणीसहिते गृह्य ममन्थाग्निविर्कीर्षया। अथ रूपं परं राजन् बिभ्रतीं स्वेन तेजसा। घृताचीन्नामाप्सरसमपश्यद्भगवानृषिः। ऋषिरप्सरसं दृष्ट्वां सहसा काममोहितः। अभवद्भगवान् व्यासो वने तस्सिन् युधिष्ठिर!। सा च दृष्ट्वा तदा व्यासं कामसंविग्नमानसम्। शुकीभूत्वा महाराज! घृताची समुपागमत्। स तामप्सरसं दृष्ट्वा रूपेणान्येन संवृताम्। शरीरजेनानुगतः सर्व्वगात्रातिगेन ह। स तु धैर्य्येण महता निगृह्णन् हृच्छयं मुनिः। न शशाक नियन्तुन्तत् व्यासः प्रविसृतं मनः। भावित्वाच्चैव भावस्य घृताच्या वपुषा हृतः। यत्नान्नियच्छतस्तस्य मुनेरग्निचिकीर्षया। अरण्यामेव सहसा तस्य शुक्रमवापतत्। सोऽविशङ्केन भनसा तथैव द्विज सत्तमः। अरणों ममन्थ ब्रह्मर्षिस्तस्यां जज्ञे शुको नृपः। शुक्रे निर्म्मथ्यमाने स शुको जज्ञे महातपाः। परमर्षिर्महायोगी अरणीगर्भसम्भवः। यथाऽध्वरे समिद्धोऽग्निर्भाति हव्यमुदावहन्। तथारूपः शुको जज्ञ प्रज्वलन्निव तेजसा” भा० शा० प०।

अरण्य = पु० न० अर्य्यते शेषे वयस्यत्र ऋ–अन्य। १ वने, अर्द्धर्च्चादि। “माता यस्य गृहे नास्ति भार्य्या चाप्रियवादिनी। अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम्” चाणक्यः। “सावित्रीमप्यधीयीत गत्वारण्यं समाहितः। गृहे गुरौ वारण्ये वा निवसन्नात्मवान् द्विजः” मनुः। “गृहस्थस्तु यदा पश्येद्बलीपलितमात्मनः। अपत्यस्यैव चापत्यं तदारण्यं समाश्रयेत्” मनुना अन्त्ये वयस्येव अरण्यवासविधानात्तस्य तथात्वम्। स्वार्थे कन् तत्रैव। “य एनमेव विन्दन्ति ये चारण्यकमाश्रिताः” या० स्मृ०। २ कट्फलवृक्षे पु०। उत्करादि० चतुरर्थ्यां छ। अरण्यीयः अरण्यसन्निकृष्टदेशादौ त्रि०। अरण्येऽध्येयः बुञ्। आरण्यकं वनपाठ्ये अनुवाक्भेदे “आरण्यकमधीत्य च” मनुः। अरण्यमधिकृत्य कृतः ग्रन्थः आरण्यम् रामायणान्तर्गतारण्यकाण्डे।

अरण्यकदली = स्त्री अरण्यस्थैव कदली। गिरिकदल्यां तस्या ग्रामादावनुत्पत्तेस्तथात्वम्।

अरण्यकाण्ड = न० रामायणान्तर्गते रामस्य वनगमनवर्ण्णनात्मकेग्रन्थभेदे।

अरण्यकार्पासी = स्त्री अरण्ये कार्पासी। (वनकापास) इति ख्यातायां वनकार्पास्याम्।

अरण्यकुलत्थिका = स्त्री अरण्यस्य कुलत्थिका। (वनकुलधीति) ख्यातायाम् वनकुलत्थिकायाम्।

अरण्यकुसुम्भ = पु० ६ त०। वनकुसुम्भे!

अरण्यगज = पु० अरण्यस्थो गजः। दुर्द्दान्तगजे।

अरण्यगान = न० अरण्येगीयते कर्म्मणि ल्युट्। सामवेदान्तर्गते अरण्ये गेये गानभेदे।

अरण्यघोलो = स्त्री अरण्यजा घोली। वनघोल्यां पत्रशाकभेदे राजनि०।

अरण्यचटक = पु० ६ त०। वनचटके।

अरण्यचन्द्रिका = अरण्ये चन्द्रिकेव निष्फला द्रष्टुरभावात्। निष्फलभूषणे। लोके हि चन्द्रिका उन्मीलितनेत्रपङ्क्तिभिरालोक्यते अरण्ये तु लोकाभावेन दर्शकाभावात् दर्शनेन प्रीतिजनिका न भवतीति तस्याः यथा निष्कला शोभा एवमन्यस्यापि तथा, अतएव “स्त्रीणां प्रियालोकफलोहि वेशः” इति कुमा० व्याख्यायां मल्लिनाथेन “अन्यथा अरण्यचन्द्रिका स्यादित्युक्तम्”।

अरण्य(ण्ये)चर = त्रि० अरण्ये चरति चर–ट ७ त० वा अलुक्स०। वनचरे व्याधादौ।

अरण्यज = त्रि० अरण्ये जायते जन–ड उप० स०। वनजाते।

अरण्यजार्दक = न० अरण्ये जायते जन–ड कर्म्म०। (वन आदा) इति ख्याते वनार्द्रके।

अरण्यजीर = पु०। ६ त०। वनजीरके।

अरण्यजीव = त्रि० अरण्येन तद्भवफलादिना जीवति जीव–क। वनस्थफलादिना जीविकावति वानप्रस्थादौ।

अरण्यधर्म्म = पु० अरण्ये आचरणीयो धर्मः। वानप्रस्थधर्म्मे। स च धर्मः “गृहस्थस्तु यदा पश्येद्बलीपलितमात्मनः। अपत्यस्यैव चापत्यं तदारण्यं समाश्रयेत्। सन्त्यज्य ग्राम्यमाहारं सर्व्वञ्चैव परिच्छदम्। पुत्त्रेषु भार्य्यां निक्षिप्य वनं गच्छेत् सहैव वा। अग्निहोत्रं समादाय गृह्यञ्चाग्निपरिच्छदम्। ग्रामादरण्यं निःसृत्य निवसेन्नियतेन्द्रियः। मुन्यन्नैर्व्विविघैर्म्मेध्यैः शाकमूलफलेन वा। एतानेव महा यज्ञान्निर्व्वपेद्विधिपूर्ब्बकम्। वसीत चर्म्म चीरं वा सायं स्नायात् प्रगे तथा। जटाश्च बिभृयान्नित्यं श्मश्रुलोमनखानि च। यद्भक्ष्यं स्यात्ततो दद्याद्बलिं भिक्षाञ्च शक्तितः। अम्मूलफलभिक्षाभिरर्च्चयेदाश्रमागतान्। स्वाध्याये नित्ययुक्तः स्याद्दान्तोमैत्त्रः समाहितः। दाता नित्यमनादाता सर्व्वभूतानुकम्यकः। वैतानिकञ्च जुहुयादग्निहोत्रं यथाविधि। दर्शमस्कन्दयन् पर्व्व पौर्णमासञ्च योगतः। ऋक्षेष्ट्याग्रयणञ्चैव चातुर्म्मास्यानि चाहरेत्। उत्तरायणञ्च क्रमशो दक्षिणायनमेव च। वासन्तशारदैर्म्मेध्यैर्मुन्यन्नैः स्वयमाहृतैः। पुरोडाशांश्चरूंश्चैब विधिबन्निर्व्वपेत् पृथक्। देवताभ्यस्तु तद्धुत्वा वन्यं मेध्यतरं हविः। शेषमात्मनि युञ्चीत लवणञ्च स्वयंकृतम्। स्थलजोदकशाकानि पुष्पमूलफलानि च। मेध्यवृक्षोद्भवान्यद्यात् स्नेहांश्च फलसम्भवान्। वर्जयेन्मधुमांसञ्च भौमानि कवकानि च। भूस्तृणं शिग्रुकञ्चैव श्लेष्मान्तकफलानि च। त्यजेदाश्वयुजे मासि मुन्यन्नं पूर्व्वसञ्चितम्। जीर्णानि चैव वासांसि शाकमूलफलानि च। न फालकृष्टमश्नीयादुत्सृष्टमपि केनचित्। न ग्रामजान्यार्त्तोऽपि मूलानि च फलानि च। अग्निपक्वाशनोवा स्यात् कालपक्वभुगेव वा। अश्मकुट्टोभवेद्वापि दन्तोलूखलिकोपि वा। सद्यःप्रक्षालको वा स्यान्माससञ्चयिकोऽपि वा। षण्मासनिचयोवा स्यात् समानिचय एव वा। नक्तञ्चान्नं समश्नीयाद्दिवा वाहृत्य शक्तितः। चतुर्यकालिकोवा स्यात् स्याद्वाप्यष्टमकालिकः। चान्द्रायणविधानैर्वा शुक्ले कृष्णे च वर्त्तयेत्। पक्षान्तयोर्वाप्यश्नीयाद्यवागूं क्वथितां सकृत्। पुष्पमूलफलैर्वापि केवलैर्वर्त्तयेत् सदा। कालपक्वैः स्वयंशीर्णैर्वैखानसमते स्थितः। भूमौ विपरिवर्त्तेत तिष्ठेद्वा प्रपदैर्द्दिनम्। स्थानासनाभ्यां विहरेत् सवने स्नपयन्नपः। ग्रीष्मे पञ्चतपास्तु स्याद्वर्षास्वभ्रावकाशिकः। आर्द्रवासास्तु हेमन्ते क्रमशो वर्द्धयंस्तपः। उपस्पृशंस्त्रिषवणं पितॄन् देवांश्च तर्पयेत्। तपश्चरंश्चोग्रतरं शोषयेद्देहमात्मनः। अग्नीनात्मनि वैतानान् समारोप्य यथाविधि। अनग्निरनिकेतः स्यान्मुनिर्मूलफलाशनः। अप्रयत्नः सुखार्थेषु ब्रह्मचारी धराशयः। शरणेष्वममश्चैव वृक्षमूलनिकेतनः। तापसेष्वेव विप्रेषु यात्रिकं भैक्ष्यमाचरेत्। गृहमेधिषु चान्येषु द्विजेषु वनवासिषु। ग्रामादाहृत्य वाश्नीयादष्टौ ग्रासान् वने वसन्। प्रतिगृह्य पुटेनैव पाणिना शकलेन वा। एताश्चान्याश्च सेवेत दीक्षा विप्रो वने वसन्। विविधा श्चौपनिषदीरात्मसंसिद्धये श्रुतीः। ऋषिभिर्ब्राह्मणैश्चैव गृहस्थैरेव सेविताः। विद्यातपोविवृद्ध्यर्थं शरीरस्य च शुद्धये। अपराजितां वास्थाय व्रजेद्दिशमजिह्मगः। आ निपाताच्छरीरस्य युक्तो वाय्येनिलाशनः। आसां महर्षिचर्य्याणां त्यक्त्वान्यतमया तनूम्। वीतशोकमयो विप्रो ब्रह्मलोके महीयते” मनुः ६ अ०।

अरण्यधान्य = न० ६ त०। नीवारादौ वनधान्ये।

अरण्य(ण्यानाम्) = पति पु० अरण्यानां तत्रस्थानां चौराणां पतिः वा अलुक् समा०। चौराधिष्ठातरि १ रुद्रे “नमोनमोनिचेरवे परिचरायारण्यानां पतये नमः” यजु० १६, २०, “रुद्रो हि लीलया चौरादिरूपं धत्ते यद्वा रुद्रस्य जगदात्मकत्वाच्चौरादयो रुद्रा एव ध्येयाः यद्वा स्तेनादिशरीरे जीवेश्वररूपेण रुद्रोद्विधा तिष्ठति तत्र जीवरूपं स्तेनादिशब्दवाच्यम् तदीश्वररुद्ररूपं लक्षयति यथा शाखाग्रं चन्द्रम्” वे० दी०। तस्य सर्वनियन्तृत्वेन चौराणामपि पतित्वं युक्तमेव “एष एव साधु कर्म्म कारयति तं यमुन्निनीयते एष एवासाधु कर्म्म कारयति तं यमधोनिनीषते” इति श्रुत्या तस्य साध्वसाधुकर्म्मनियन्तृत्वस्योक्तेः पूर्व्वकृतकर्म्मसापेक्षत्वेन च न वैषम्यनैर्घृण्ये इत्याकरे व्यक्तम्। २ अरण्यचरव्याधपतौ च।

अरण्यभव = त्रि० अरण्ये भवति भू–अच्। वनभवे।

अरण्यमक्षिका = स्त्री ६ त०। (डाश) इदि ख्याते दंशे।

अरण्यमार्ज्जार = पु० अरण्ये मार्ज्जारः। वनविडाले।

अरण्यमुद्ग = पु० ६ त०। वनमुद्गे।

अरण्ययान = न० अरण्ये यानम्। अयोम्यकाले वनगमने “अरण्ययाने सुकरे पिता माम्” इति भट्टिः।

अरण्यरक्षक = पु० अरण्ये रक्षकः। वनरक्षके वनेषु लोकरक्षार्थ राज्ञा नियुक्तसैन्यभेदे।

अरण्यराशि = अरण्यसंज्ञको राशिः। “मकरादिमार्द्धसिंहौ वन्यौ दिवसेऽजवृषभौ चेति” ज्योतिषोक्ते सिंहादिराशौ।

अरण्य(ण्ये)रुदित = न० अरण्ये रुदितं रोदनम् सप्तम्या वा अलुक्। शान्त्युपायकारकश्रोतृशून्ये निष्फले १ रोदने २ तत्तुल्ये निष्फले वस्तुमात्रे च। लोके हि रोदने तद्रोदनशान्त्युपायोदयालुभिः क्रियते अरण्ये रोदने तु न कश्चित् तस्य शमयितेति तस्य निष्फलत्वम्।

अरण्यवायस = पु० ६ त०। (दा~डकाक) इतिख्याते द्रोणकाके।

अरण्यवास = पु० अरण्ये वासः। वनवासे।

अरण्यवासिन् = त्रि० अरण्ये वसति वस–णिनि। वनवासिनि १ मुन्यादौ “एते हिमगिरेरुपत्यकारण्यवासिन” इति शकु०। स्त्रियां ङीप्। सा च २ अत्यम्लपर्ण्णीलतायां राजनि०।

अरण्यवास्तूक = पु० ६ त०। (वनवेतो) इति ख्याते बनवास्तूके।

अरण्यशालि = पु० अरण्यभवः शालिः। वनभवे नीवारादौ।

अरण्यशूकर = पु० अरण्यस्य शूकरः। वनवराहे।

अरण्यशूरण = पु० शा० त०। वनभवे (ओल) इति ख्याते शूरणे।

अरण्यश्वन् = पु० अरण्ये श्वेव हिंस्रः। वृके।

अरण्यषष्ठी = स्त्री अरण्याय गन्तुं षष्ठी। ज्यैष्ठशुक्लषष्ठ्याम्। “ज्यैष्ठे मासि सिते पक्षे षष्ठी यारण्यसंज्ञिता। व्यजनैककरास्तस्यामटन्ति विपिने स्त्रियः” इतिः राजमा०।

अरण्याध्यक्ष = पु० अरण्यरक्षणादौ अध्यक्षः। वनेषु लोकरक्षणार्थं राजनियुक्ते सैन्यपतिभेदे।

अरण्यानी = स्त्री महदरण्यं नि० ङीप् आनुक् च। महारण्ये। “यथारण्यान्यामुत्साश्चरत” शत० ब्रा०।

अरण्यायन = न० अरण्येऽयनं वानप्रस्थधर्म्मस्तदिवाचरणमस्त्यस्य अच्। “यद् अरण्यायनमित्याचक्षते ब्रह्मचर्य्य मेव तदिति” श्रुत्युक्ते ब्रह्मचर्य्ये। “तदरश्च ण्यश्चार्ण्णवावित्यादिना तत्रैव व्युत्पत्तिर्दर्शिता।

अरण्येतिलक = पु० सप्तम्या अलुक्। वनतिलभेदे।

अरण्येऽनूच्य = त्रि० अरण्ये अनूच्यः नियतपाठ्योमन्त्रो यस्य अलुक समा० १ अरण्यमात्रपाट्यमन्त्रेण संस्कृते पुराडाशादौ “पश्चादरण्येऽनूच्यम्” १८, ४, २०। “अरण्येऽनूच्या बक्तव्याः पठनीया मन्त्रा यस्यासौ अरण्येऽनूच्य” इति कर्क०। ७ त० अलुक्स०। २ अरण्येऽनूच्ये (पाठ्ये) मन्त्रभेदे पु०। स च “उग्रश्च भीमश्चेत्यादिमन्त्रः सहि नियतमरण्ये पठ्यते” इति कर्क०। “वागेवारण्येऽनूच्यासोऽरण्येनूच्यो भवति” ता० ब्रा०। “अरण्येऽनूच्यः कश्चि- दनुवाकः तेन हूयमानोऽपि पुरोडाशोऽरुण्येऽनूच्यो भवति” भा०। अयमेव पक्षः श्रेयान् कर्कमते बहुव्रीह्या श्रयणे सप्तम्या लुक् न स्यात् अलुक्समासस्य तत्पुरुषै कविषयत्वात् अत उपचारात् तत्सम्बन्धवाचकत्वं युक्तम् “सोऽस्यैषोऽवाङ् प्राण एतस्य प्रजापतेः सोऽरण्येनूच्यो भवति” शत० व्रा०।

अरण्यौकस् = पु० अरण्ये विधानेनओकोयस्य। १ मुन्यादौ २ वानप्रस्थे “वैक्लव्यं मम तावदीदृशमपि स्नेहादरण्यौकसः” शकु०

अरत = त्रि० न रतः। १ अननुरक्ते २ विरते च।

अरतत्रप = पु० अरता विरता त्रपा यस्य। १, कुक्कुरे २ लज्जाहीने त्रि०।

अरति = पु० ऋ–अति। १ क्रोधे। रम–क्तिन् न० त०। २ अनवस्थितचित्ततायाम्, ३ रागाभावे, “मुखं कषायमरतिर्गौरवं कण्ठवक्षसोः” सुश्रुतः। ४ रतिविरहे, ५ उद्वेगे, “स्वाभीष्टवस्त्वलाभेन चेतसो याऽनवस्थितिः अरतिःसा” इत्येवंरूपे ६ इष्टवियोगान्मनसोव्याकुलीभावे ७ असन्तोषे “भृशसरतिं हि सद्वियोगः” इति। किरा० स्मरकृते ८ नायकदशाभेदे च स्त्री। “दृङ्मनः सङ्गसङ्कल्पाजागरः कृशताऽरतिः। ह्रीत्यासोन्मादमूर्च्छ्रास्ताः इत्यनङ्गदशा दश” मल्लि०। सा च विषयविद्वेष करोति। न० ब०। ९ रागहीने त्रि०।

अरत्नि = पु० ऋ–कत्नि रत्निः बद्धमुष्टिकरः स नास्ति यत्र। १ विस्तृतकनिष्ठे बद्वमुष्टिहस्ते, २ कफोणिमारभ्य कनिष्ठाङ्गुलिपर्य्यन्तपरिमाणे। अतस्ततः प्रमाणे मात्रच्। तत्परिमिते त्रि०। “अरत्निमात्रान्तरिते देशे” भवदेवः। “तामुत्तरतोऽग्नेर्निदघात्यरत्निमात्रे” गृह्यसू०। “अरत्निमात्र क्षुपकाः पत्रैर्द्व्यङ्गुलसम्मितैः” सुश्रु०। ३ कफोणौ (कुनो) बाहोरवयवे। “भीष्मो धनुष्मानुपजान्वरत्निः” भट्टिः। “जवनेनाहवनीयमरत्नी संधत्त” शत० ब्रा०। ४ बाहौ बाहुर्वा अरत्निः बाहुना वीर्य्यं क्रियते” शत० ब्रा०। वा कप्। अरत्निकोऽप्युक्तार्थे।

अरथि = पु० ऋच्छ्वति रथिना सह युद्धभूमिम् ऋ–रथिन् सारथिः न० त०। सारथिभिन्ने! “अस्त्वनश्वश्चिद्यमजत्यरथीः” ऋ० ६, ६६, ७, रथिः सारथिः न रथिअरथिः” छा० दीर्घः भा०।

अरद = पु० न जातोरदोयस्य। अजातदन्तावस्थे बाले २ भग्नदन्ते वृद्धे च

अरध्र = त्रि० राध–हिंसने, कर्म्मणि रन् ह्रस्वश्च न० त०। शत्रु“भिरहिंस्ये उग्रमुग्रस्य तवसस्तवीयोऽरध्रस्य रध्रतुरोबभूब” ऋ० ६, १८, ४, राध–सिद्धौ रन्–ह्रस्वः भा०। २ समृद्धे च “ता ह त्यद्वर्त्तिर्यदरध्रमुग्रे त्था” ऋ० ६, ६२, ३, अरध्रम् समृद्धम् भा०।

अरन्तुक = न० कुरुक्षेत्रान्तर्गतसमन्तपञ्चकसीमाभूते स्थानभेदे। “तरन्तुकारन्तुकयोर्यदन्तरं रामह्रहानाञ्च सचक्रकस्य च। एतन् कुरुक्षेत्रसमन्तपञ्चकम्” इति भा० व० प०।

अरन्धन = न० अभावे न० त०। पाकाभावे स च सिंहसंक्रान्तौ कन्यासंक्रान्तौ च विधेयः “कर्कान्नमद्यात् सिंहार्के सिंहान्नं सिंहकन्ययोः”। इत्याचारमार्त्तण्डोक्तेः तस्मिन् पर्य्युषितान्न भोजनविधानेन पाकाभावो गम्यते।

अरन्ध्र = त्रि० नास्ति रन्ध्रं छिद्रं यस्य। निविडे छिद्ररहिते

अरपस् = त्रि० नास्ति रपोदुरितं यस्य। पापशून्ये “शंयोररपोदधातन” ऋ० १०, १५, ४, “तदस्मे शंयोररपोदधातन” ऋ० १०, ३७, ११।

अरम = अव्य० अल–अम् वा लस्य रत्वम्। १ वक्ष्यमाणेऽलमर्थे २ शीघ्रतायाञ्च। अरङ्कृतशब्दे अरङ्कृतिशब्दे च उदा०। ३ अत्यर्थे च। “तस्मा अरं गमावः” य० ११, ५२ अरमिषे स्तवामहे मील्हुषे अरंगमाय जग्मये” ऋ० ८, ४६, १७।

अरम = त्रि० न रम्यतेऽत्र आधारे घञ्। अधमे।

अरमति = स्त्री अरात्यर्था पर्य्याप्ता वा मतिः। १ पर्य्याप्तबुड्वौ २ दीप्तौ च। “स्यादस्मे अरमतिर्वसूयुः ऋ० ७, ३४, २१। “उप स्वैनमरमतिर्वसूयुः” छा० उ०।

अरर = त्रि० ऋ–अरन्। १ कवाटे। “सरभसमरराणि द्रागपावृत्य” वीर० च०। २ अपिधाने ३ वंशकोषेविश्वः ४ ऋषिभेदे पु०। गर्गा० यञ्। आरर्य्यस्तदपत्ये पुंस्त्री०

अररि = पु० न० ऋच्छति ऋ + विटरमियर्त्तिऋ–इन्। कपाटे

अररिन्द = न० रा–कि द्विश्च ररिर्दाता नास्त्यन्योररिरस्य पिपासोपशमस्य अररिं पिपासोपशमं ददाति दा–ख मुम्। जले निरु०। “अधारयदररिन्दानि सुक्रतुः” ऋ० १। २९। १०। भाष्ये प्रागुक्ता अत्या च व्युत्पत्तिर्दर्शिता। “यद्वाअररिरितश्चेतश्च गमनं औणादिकोऽरिप्रत्ययः। आतोऽनुपसर्गे कः पृषोदरादित्वादभिमतरूपस्वरसिद्धिः। तद्ददतीत्यररिन्दान्युदकानि चेष्टाप्रदानीत्यर्थः। “आपोमयाः प्राणा” इति श्रुतेः। यद्वा ररिर्दानं न विद्यते तौदृशं दानमितरमृतुषु तदररि अन्यैरदेयं लोकोपकारि भोगं ददतीत्यर्थः” इति।

अररिवस् = त्रि० रा–क्कसुः ररिवान् न० त०। अदातरि। “योनो अग्ने अररिवा~ अघायुररातीः” ऋ० १, १४७, ४।

अररु = पु० ऋ–अरु। १ शत्रौ सि० कौ०। २ आयुधे उज्ज्वलद० ३ गमनस्वभावे त्रि० अररुं, शूर मर्त्यं परिवृणक्षि मर्त्यं ऋ० १, १२९, ३, ‘अररुं गमनस्वभावम्’ भा०।

अररुस् = पु० ऋ–अरुस्। अर्त्तेररुः इति” सूत्रं सान्तमिति माधवः। उपद्रवकर्त्तुमागते शत्रौ “मा नः शंसो अररुषो धूर्त्तिः” ऋ० १, १८, ३,। “अररुषः उपद्रवं कर्त्तुमस्मत्समीपे प्राप्तस्य शत्रुरूपप्य मनुष्यस्य” भा०।

अररे = अव्य० अरं शीघ्रं राति रा–के। शीघ्रं प्रत्युत्तर लाभेच्छया कृते अतिव्यग्रतया संबोधने। तच्च नीचं प्रत्येव

अरलु = पु० अरं लाति ला–कु–ऋ अरु कपिलका० रस्य लः वा। (शोना) श्योनाकवृक्षे। “अरलुत्वक्प्रियङ्गू च मधूकं दाडिमाङ्कुरान्। अवाप्य पिष्ट्वा दधनि यवागूं साधयेद्द्रवम्” सुश्रु०। स्यार्थे कन् “तत्रैव। कपोतवङ्कारलुको वरुणः पारिभद्रक” इति सुश्रु०।

अरव = पु० अभावे न० त०। १ रवाभावे प्रतिषेधार्थक शब्दाभावे न० ब०। २ तच्छून्ये त्रि०।

अरविन्द = न० अरान् चक्राङ्गानीव पत्राग्राणि विन्दते विदश। पद्मे “सरसीष्वरविन्दानां वीचिविक्षोभशीतलम् रघुः” “रविन्दधानेऽप्यरविन्दधाने” माघः “रागेण श्रियमरविन्दतः कराग्रैः” माघः २ सारसपक्षिणि ३ नीलीत्पले, ४ रक्तकमले ५ ताम्रे च।

अरविन्दनाभ = पु० अरविन्दं नाभौ यस्य अच् समा०। पद्मनाभे विष्णौ।

अरविन्दाक्ष = त्रि० अरविन्दमिव मनोहरमक्षि यस्य षच् समा० स्त्रियां ङीष्। १ पद्मसदृशगनेत्रे २ पुण्डरीकाक्षे विष्णौ पु०। “पद्मानाभोऽरविन्दाक्षः” विष्णु सह०।

अरविन्दिनी = स्त्री अरविन्दस्य सन्निकृष्टदेशादि इनि ङीप्। १ पद्मयुक्ते देशे २ पद्मलतायाञ्च। तेषां संघः इनि। ३ पद्मसमूहे।

अरश्मन् = त्रि० नास्ति रश्मिरस्य वेदे बा० अनिच्समा०। प्रग्रहरज्जुरहिते रथादौ “अरश्मानो येऽरा अयुक्ताः” ऋ० ९, ६, ७, २, ०। “अरश्मानो रज्जुरहिताः” भा०।

अरस = पु० अभावे न० त०। १ आस्वादाभावे। रस्यते आस्वाद्यते कर्म्मणि अच्। आस्वाद्यं मधुरादि न० त०। २ मघुरादिरसभिन्ने ३ अप्रकृष्टरसे। न० ब०। ४ रसशून्ये त्रि० “अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत्” श्रुतिः ५ असारे त्रि०। “वृश्चिकस्यारसं विषमरसं वृश्चिक! ते विषम्” ऋ० १, १९१, १६, “अरसमसारमिति भा०”। रसं वेत्ति अच् न० त०। रसज्ञभिन्ने। “किमस्यानाम स्वादरसपुरुषानादरभरैः” नैष०।

अरसिक = त्रि० रसं वेत्ति रस + ठन् न० त०। रसानभिज्ञे “अरसिकेषु रहस्य निवेदनं शिरसि मा लिख” इत्युद्भटः।

***