अमत = पु० अम–रागादौ अतच्। १ मृत्यौ २ काले ३ रोगे च। ४ रेणौ उज्ज्वल०। मन–क्त न० त०। ५ सम्मतभिन्ने त्रि०। “यस्यामतं तस्य मतमिति श्रुतिः। ६ अज्ञाते च।

अमति = पु० अम–अति। १ काले उणा०। २ चन्द्रे मेदि० ३ रूपे स्त्री निरु० वेदे तु रूपे एव अस्यप्रयोगः “हिरण्मयोममतिं यामशिश्रेत्” “व्युर्वा पृथ्वीममतिं सृजान” ऋ० ७, ३८, १, २ अमतिं रूपमिति भा० आबन्धुरेष्वमतिं दर्शता” १, ६४, ९। दुष्टे त्रि० शब्दार्ण०। मननं मतिः अभावे न० त०। ४ ज्ञानाभावे यथास्वरूपाज्ञाने। “अमत्यैतानि षड्जग्ध्वा त्रिरात्रमिति” मनुः “कृच्छ्रांस्तु चतुरः कुर्य्याद्गोबधे बुद्धिपूर्ब्बके अमत्या तु द्वयं कुर्य्यादिति स्मृतिः ५ अप्रशस्तबुद्धौ च स्त्री न० ब०। ६ ज्ञानहीने त्रि०।

अमतीवन् = त्रि० अमतिरप्रशस्ता बुद्धिः तया वनुते वन–क्विप् दीर्घः। अप्रशस्तबुद्धियुक्ते। “न मे स्तोताऽमतीवान दुर्हितः स्यात्” ऋ० ८, १९, २६। “अमतीवा अप्रशस्तबुद्धिमान्” भा०।

अमत्र = न० अमत्यन्नमत्र अम–भोजने आधारे अत्रन्। १ भोजनपात्रे। “अयं सोमश्चमूसुतोऽमत्रे परिषिच्यते” ऋ० ५, “आसनं वसनं चैव शय्याऽमत्रं कमण्डलुः। आत्मनस्तु शुचीनि स्युर्न परेषां कदाचन” स्मृतिः। अम–रोगे अत्रन्। २ शत्रूणामभिभावके। “महा~ अमत्रो वृजने” ऋ० ३, ३६, ४। “अमत्रः शत्रूणामभिभविता” भा० अम–गतौ कर्त्तरि अत्रन्। ३ गमनशीले त्रि०। “स्वरिरमत्रो ववक्षे रणाय १, ६१, ९। “अमत्रः युद्धादिषु गमनकुशलः” भा० ४ बले च “गम्भीरेण न ऊरूणाममत्रिन्”! ६, २४, ९ “अमत्रं बलं तद्वन्! भा०।

अमत्त = त्रि० न० त०। १ मत्तभिन्ने मादकद्रव्यादिभिरविकृत चित्ते २ सावधाने अप्रमत्ते च।

अमत्सर = यु० अभावे न० त०। १ अन्यशुभद्वेषाभावे। न० ब०। २ अन्यद्वेषशून्ये त्रि०।

अमनस् = त्रि० नास्ति कार्य्यक्षमं मनो यस्य। १ कार्य्यक्षममनो हीने बालादौ “यथा बाला अमनसः प्राणन्तः” छा० उ०। २ मनोवृत्तिहीने योगिनि च। सर्ब्बथा मनःशून्ये ३ परात्मनि पु० “अप्राणोह्यमनाः शुभ्रः” श्रुतिः। वा कप्। ४ अन्यमनस्के ५ स्नेहशून्ये ६ अनिगृहीतमनस्के च ६ योगग्रन्थभेदे पु०।

अमनि = स्त्री अमति गच्छत्यत्र अम–अनि। पथि।

अमनुष्य = पु० अप्राशस्त्ये न० त०। १ मनुष्योचितकर्त्तव्यशून्ये जातिमात्रमनुष्ये २ मनुष्यभिन्ने गन्धर्व्वादौ च “सहस्रसंवत्सरममनुष्याणामसम्भवात्” कात्या० १, ६, १७। सहस्रसंवत्सर- सत्रम् अमनुष्याणां मनुष्यभिन्नानां गन्धर्व्वादीनां सम्भवात् सहस्रायुष्यं भवति मनुष्याणां तु तदसम्भवात्” कर्क०।

अमनोगत = त्रि० न मनोगतः। १ अनभिप्रेते २ मनसाऽचिन्तिते।

अमनोनीत = त्रि० न मनसा नीतः गृहीतः। १ मनोवृत्त्या अगृहीते २ अनभिप्रेते च

अमनोयोग = पु० गनसो योगः विषयेषु सावधानतया संयोजनम् अभावे न० त०। अवधानाभावे तत्त्वनिर्णायकमनोवृत्त्यभावे। न० ब०। तच्छून्ये त्रि०।

अमनोहर = त्रि० विरोधे न० त०। रम्यभिन्ने कुत्सिते।

अमन्तु = त्रि० मन्तुर्मन्ता मन–तुन् न० त०। अज्ञातरि “अकर्मा दस्युरभितो अमन्तुरन्यव्रतः” ऋ० १०, २२, ८ १ मन्तुरपराधः न० व०। २ तच्छून्ये त्रि०

अमन्त्र = त्रि० नास्ति मन्त्रः पाठ्यो यत्र कर्मणि। १ मन्त्रशून्ये कर्म्मादौ “साय त्वन्नस्य सिद्धस्य पत्न्यमन्त्रं बलिं हरेत्” मनुः नास्ति मन्त्रः मन्त्राध्ययनमस्य। २ वेदपाठशून्ये “अब्रतानाममन्त्राणां जातिमात्रोपजीविनां नैषाम् प्रतिग्रहो देयः” “निरिन्द्रियाह्यमन्त्राश्च स्त्रियोऽनृतमितीरिताः” इति च मनुः। वा कप्। अमन्त्रकोऽप्युभयत्र “अमन्त्रकं तु शूद्रस्य सर्व्वकर्म्माणि कारयेत्” अमन्त्रकस्य शूद्रस्य विप्रोमन्त्रेण गृह्यते” इति च स्मृतिः।

अमन्द = त्रि० विरोधे न० त०। १ मन्दभिन्ने पटौ २ उत्कृष्टे च।

अमम = त्रि० नास्ति ममेत्यभिमानः गेहादिषु यस्य। गृहपुत्रादिषु ममेत्यभिमानशून्ये “शरणेष्वममश्चैव वृक्षमूलनिकेतमः” मनुः। २ जिनविशेषे पु०। अममकारादयोऽत्र

अमर = पु० मृ–पचाद्यच् न० त०। बहुकालस्थायितया मृत्युहीने देवे, “तत्रामरालयमरालमरालकेशी” नै० “मुषाण रत्नानि हरामराङ्गनाः” माघः। त्रीण्युत्तराणि क्रमशः प्लवङ्गमनरामराः” मनुः अष्टशाब्दिकमध्ये २ अमरसिंहनामके शाब्दिके, “पाणिन्यमरजैनेन्द्राः जयन्त्यष्टादिशाब्दिकाः” इति कविक०। स च काण्डत्रययुक्तलिङ्गानुशासनकोषकर्त्ता विक्रमादित्यसभासदनवरत्नमध्येऽन्यमतमः “धन्वन्तरिः क्षपणकोऽमरसिंहशङ्कुवेतालभट्टघटकर्परकालिदासाः। ख्यातोवराहमिहिरोनृपतेः सभायां रत्नानि वै वररुचिर्नव विक्रमस्य” शङ्कुः सुवाग् वररुचिर्मणिरंशुदत्तो जिष्णुस्त्रिलोचनहरी घटकर्पराख्यः। अन्येऽपि सन्ति कवयोऽमरसिंहपूर्व्वा यस्येह विक्रमनृपस्य सभासदोऽमी” इति च ज्योतिर्विदा०। ३ स्नुहीवृक्षे, स हि छिन्नोऽपि पुनःपुनः प्ररोहति, सहसा न म्रियते। ४ पारदे तस्य वह्न्यादी बहुतापनऽपि न ध्वंसः। अपादाने वा अप्। तत्रैव तस्य सेवने हि मृत्यु राहित्यम् रसेश्वरदर्शनशब्दे वक्ष्यते। ५ अस्थिसमुच्चये च स हि बहुकालं भूमौ स्थितोपि न जीर्य्यति। स० ब० ६ मरणशून्येत्रि०। “अजरामरवत् प्राज्ञो विद्यामर्थांश्च चिन्तयेत्” हितो० “उत्पादयति सावित्र्या सा नित्या साऽजराऽमरा” मनुः ज्योतिषोक्ते ७ विवाहयोटकार्थे नक्षत्रगणभेदे “हस्तास्वातिश्रुतिमृगशिरः पुष्यमैत्राश्विभानि पौष्णादित्ये जगुरिह बुधा देवसंज्ञानि भानि” कृत्यचिन्ता० अधिकं गणशन्दे दृश्यम्। मरुत्वतीगर्भजाते ८ मरुद्गणभेदे पु०। “मारुत्वती च मरुतो देवानजनयत् सुतान् अग्निचक्षुर्हविर्ज्योतिः सावित्रं मितमेवं च। अमरं शरवृष्टिञ्च सक्षयञ्च महाभुजम्” इत्यादि हरिवं० ९ गुडूच्याम् १० दूर्व्वायां ११ वारुणीवृक्षे १२ महानिलीवृक्षे १३ घृतकुमार्य्याम् १४ स्नुहीवृक्षे च स्त्री। एतासां छेदनेऽपि पुनः प्ररूढत्वात् यथायथं दूर्मरत्वाच्च तथात्वम्। न म्रियतेऽनया करणे अप्। १५ जरायौ स्त्री। तच्चर्म्मणा वेष्टनेनैव जठरानलदाहनिवारणात् मरणनिवारकत्वात् तथात्वम्। १६ नाभिनालायाम् राजनि० १७ स्थूणायां गृहष्वं सनिवारककत्वात्तथा। अमराः सन्त्यस्याम् अर्श आ० अच्। १८ इन्द्रपुर्य्याममरावत्यां स्त्री

अमरकोष् = पु० अमरेण कृतः कोषः। अमरसिंहकृते लिङ्गानुशासनाख्ये त्रिकाण्डात्मके अभिधानभेदे।

अमरज = पु० अमरः दुर्मर इव जायते जन–ड। दुष्खदिरे कालस्कन्दाख्ये खदिरभेदे दुर्मरत्वेन जातत्वात्तथात्वम्।

अमरदारु = पु० न०। अमराणां प्रियं दारु। देवदारुवृक्षे।

अमरद्विज = पु० अमरपूजकः द्विजः शाक० त०। देवले (पूजा रीति) ख्याते विप्रे।

अमरपति = पु० ६० त०। देवराज इन्द्र अमरभर्त्त्रादयोऽप्यत्रार्थे

अमरपुष्पक = पु० अमरमविशीर्णं पुष्पं यस्य। १ कल्पवृक्षे २ इक्षुगन्धायां स्त्री। ३ काशतृणे पु० रत्नमा०।

अमरपुष्पी = स्त्री अमरमविशीर्णं पुष्पमस्याः जातित्वात् ङीप्। अवाक्पुष्प्याम्। कप् अत इत्त्वम्। अमरपुष्पिकाप्यत्र।

अमरप्रभु = पु० ६ त०। १ विष्णौ तस्य सर्व्वेश्वरत्वात्तथा। २ शक्रे च

अमररत्न = न० अमर इव शुद्धं रत्नम्। स्फटिके मणौ।

अमरराज = पु० ६ त० टच् समा०। देवराजे इन्द्रे।

अमरलोक = पु० ६ त०। १ स्वर्गे। अमराणामिव लोको भुवनं यस्य। २ प्राप्तदेवलोके धार्म्मिके त्रि०। “तेषां सम्यगवर्त्त- मानो गच्छत्यमरलोकताम्” मनुः।

अमरवल्ली = स्त्री अमरा उच्छेदनेऽपि न म्रियमाणा वल्ली। आकाशवल्ल्याम् (आलकलता) अमरलतादयोऽप्यत्र।

अमरसरित् = स्त्री ६ त०। मन्दाकिन्यां गङ्गायाम्।

अमराङ्गना = स्त्री ६ त०। “अप्सरःसु “मुषाण रत्नानि हरामराङ्गनाः” माघः।

अमराद्रि = पु० ६ त०। सुमेरौ। तत्स्थानञ्च। “लङ्का कुमध्ये यमकोटिरस्याः प्राक्पश्चिमे रोमकपत्तनञ्च। अधस्ततः सिद्धपुरं सुमेरुः मौम्येऽथ याम्ये बडवानलश्च। इह हि मेरुगिरिः किल मध्यगः कनकरत्नमयस्त्रिदशालयः द्रुहिणजन्मकुपद्मककर्णिकेति च पुराविद इत्थमवर्णयन्” सि० शि०। अधिकं मेरुशब्दे भूगोलशब्दे च दृश्यम्।

अमराधिप = पु० ६ त०। देवराजे इन्द्रे अमराधीशादयोऽप्यत्र

अमरापगा = स्त्री ६ त०। गङ्गायाम्।

अमरालय = पु० ६ त०। स्वर्गे “तत्रामरालयमरालमरालकेशी” नैष०।

अमरावती = स्त्री अमराविद्यन्तेऽस्यां मतुप् मस्य व दीर्घः। इन्द्रनगर्य्याम्। सा च मेरुपर्ब्बतोपरिस्था “सद्रत्नकाञ्चनमयं शिखरत्रयञ्च मेरो मुरारिकपुरारिपुराणि तेषु। तेषामधः शतमखज्वलनान्तकानां रक्षोऽम्बुपानिलशशीशपुराणि चाष्टौ” सि० शि०। एतद्वर्णनं भा० स० प० ७ अध्याये काशी० ख० १० अध्याये च दृश्यम्। “ससम्भ्रमेन्द्रद्रुतपातितार्गला निमीलाताक्षीव भियाऽमरावती” का० प्र०।

अमरिष्ण = त्रि० मृ–बा० इष्णुच् न० त०। मरणशीलभिन्ने “अनातुरा अजरास्थामरिष्णवः” ऋ० १०, ९४, ११।

अमरु = पु० अमरुशतकग्रन्थकारके कविभेदे “कविरमरः कविरमरुः कविश्चैरोमयूरक” इत्युद्भटः।

अमरेश = पु० ६ त०। देवराजे इन्द्रे अमरेश्वरादयोऽप्युक्तार्थे “अयममरेशदिशोमुखं सुधांशुः” सा० द०।

अमर्त्त = त्रि० मृ–तच् न० त०। मरणधर्म्मशून्ये “नृम्णानि च नृतमानो अमर्त्तः” ऋ० ५, ३३, ६, “अमर्त्तः अमरणधर्म्मा” भा०

अमर्त्त्य = त्रि० मृतिमर्हति यत् न० त०। मरणशून्ये “अग्ने विवस्वदुपसश्चित्रं राधो अमर्त्त्य!” ऋ० १, ४४, १, “अमर्त्त्य! मरणरहित!” भा० “उत्क्रान्तवाय्वोःसमकालमेव अमर्त्यभावेऽपि कयोश्चिदासीत्” रघुः।

अमर्त्त्यभुवन = न० अमर्त्यानां देवानां भुवनम्। स्वर्गो।

अमर्य्याद = त्रि० नास्ति मर्य्यादा सीमा सम्मानो वा यत्र। १ सीमारहिते २ सम्मानरहिते च।

अमर्ष = पु० मृप–क्षान्तौ घञ् विरोधे न० त०। क्षसाविरुद्धे फोपे। “अमर्षशून्येन जनस्य जन्तुना न जातहार्द्देन न विद्विषादरः” किरा० तानेव सामर्षतया निजघ्नुः” रघुः हर्षामर्षभयोद्वेगैर्वियुक्तः स च मे प्रियः” गीता।

अमर्षण = त्रि० मृष–ल्यु न० त०। १ असहने २ क्रोधने, च। “हृदि क्षतो गोत्रमिदाप्यमर्षणः” रघुः। अमर्षणोऽनयस्थायी विशालं कायलक्षणम्”। अमर्षणः स्वयं जेतुमशक्तः क्षत्रियोरणे भा० आ० प०। भावे ल्युट्। क्रोधे न०।

अमर्षित = त्रि० मृष–क्त इट् गुणश्च न० त०। क्रुद्धे “अस्त्रं प्रादुश्चकारोग्रं नारायणममर्षितः” भा० आदिप०।

अमर्षिन् = त्रि० मृष–णिनि न० त०। क्रुद्धे स्त्रियां ङीप्।

अमल = न० अम + कलच्। १ सातलावृक्षे २ अभ्रके च नास्तु मलं यस्य। ३ निर्मले, दोषरहिते त्रि० “रसकलामलपल्लवलीलया” माघः “संक्षिप्ताक्षरकोमलामलपदैर्लालित्यलीलावतीम्” “अमलकमलराशेस्त्र्यंशपञ्चांशषष्ठैः” लीला०

अमलात्मन् = पु० अमलः रागादिदोषरहितत्वात् शुद्ध आत्माअन्तःकरणं यस्य। निवृत्तरागादौ योगिनि।

अमस = पु० अम–गतिरोगादौ असच्। १ काले २ रोगे ३ निर्बोधे च

अमलिन = त्रि० विरोधे न० त०। १ मालिन्यशून्ये २ निर्द्दोषे च कुलममलिनं नत्वेवाहं न च जीवितम्” माल०।

अमसृण = त्रि० विरोधे न० त०। चिक्वणभिन्ने रुक्षे।

अमा = अव्य० न + मा–का। १ सहार्थे, अमेवानः सुहवाः” ऋ० २, ३६, ३। “अमा सह भा०”। अमावस्या। २ निकटे च। न माति परिच्छिनत्ति क्षयोदयविशेषम् मा–क न० त०। सर्व्व कलाव्यापकतया स्थितायां चन्द्रस्य षोडश्यां ३ कलायाम् स्त्री “अमा षोडशभागेन देवि! प्रोक्ता महाकला संस्थिता परमा माया देहिनां देहधारिणी अमादिपौर्ण्णमास्यन्ताया एव शशिनः कलाः। तिथयस्ताः समाख्याताः षोडशैव वरानने!” इति स्क० प्रभा० ख०। व्याख्यात चैतत् कालमाधवीये “महामाया आधारशक्तिरूपा देहिनां देहधारिणी सा चन्द्रमण्डलस्य षोडशभागेन परिमिता चन्द्रदेहधारिणी अमानाम्नी महाकलेति प्रोक्ता क्षयोदयरहिता नित्या तिथिसंज्ञिकैव इतरा अपि पञ्चदश कला दिवसव्यवहा रो पयोगिन्यः क्षयोदयवत्यः पञ्चदश तिथयो भवन्तीति तिथयः षोडशैव एवञ्चात्र सामान्यविशेषरूपेण तिथिद्वैवि ध्यमुक्तं भवति। तत्र येयम् अमेत्युक्ता क्षयोदयवर्ज्जिता ध्रुवा षोडशी कला तद्युक्तः कालस्तिथिसामान्यम्। यास्त्ववशिष्टा वृद्धिक्षयोपेताः पञ्चदश कलास्ताभिः विशिष्टकालविभागस्तिथिविशेष” इति। अधिकं तिथिशब्दे वक्ष्यते सूर्य्यकिरणासंपर्काददीप्तायां, ४ पञ्चदश्यां कलायाम् न मीयते दृश्यते विघुरत्र। ५ अमावस्यायां तिथौ च स्त्री। “अमार्कपाते श्रवणं यदि स्यात्” “यद्यमा रविवारेण” इति च प्रा० त० पुरा०। “अमायां तु सदा सोम–ओषधीः प्रतिपद्यते” इति सोमो०। न मीयतेऽसौ मा–कर्मणि क्विप्। ६ आत्मनि पु०। ७ मानशून्ये त्रि०। ८ गृहे अव्य० निरु०। “कामश्चरताममा भूते” ऋ० २, ३८, ६। “अमा गृहमिति” भा०। अम्यते गम्यते चन्द्रलोकात् अत्र अम–आधारे–घञ् वा ह्रस्वः। ९ इहलोके। “अमातोमरुतोवि आन्तरिक्षादमायुत” ऋ० ५, ५०, ५८। “अमातः अस्माल्लोकात्” भा०। तत्र यावत्सम्पातमुषित्वा “क्षोणे पुण्ये मर्त्यलोकं विशन्तीति” श्रुतौ चन्द्रलोकादेव इह लोकागमनात्तथात्वम्।

अमांस = त्रि० नास्ति मांसं यस्य। १ दुर्ब्बले। मांसहीनो हि दुर्ब्बलः।

अमात्य = पु० अमा सह वसति त्यक्। मन्त्रिणि। तस्य दण्डनीतौ राजसहचरत्वात्तथात्वम्। “पुरोहितामात्यमुखाश्च योधाः” भट्टिः। “अमात्यपुत्रैः सवयोभिरन्वितः” रघुः। “अमात्ये दण्ड आयत्त” इति मनुः “अमात्यव्यञ्जना राज्ञां दूष्यास्ते शत्रुसंहिताः” माघः। अमात्यलक्षणमुक्तं हेमा० विष्णुध० पु०। “सर्व्वलक्षणलक्षण्यो मन्त्री राज्ञस्तथा भवेत्। ब्राह्मणो वेदतत्त्वज्ञोविनोतः प्रियदर्शनः। छललक्ष्ये महात्मा च स्वामिभक्तः प्रियवदः। वृहस्पत्युशनःप्रोक्तां नीतिं जानाति सर्व्वतः। रागद्वेषेण यः कार्यं न च हन्ति महीक्षितः। लोकापवादाद्राजार्थे भयं यस्य न विद्यते। क्लेशक्षमस्तु धर्म्मात्मा विजितात्मा जितेन्द्रियः। गूढमन्त्रश्चाऽश्वदक्षः प्राज्ञो भक्तजनप्रियः। इङ्गिताकारतत्त्वज्ञ ऊहापोहविशारदः। शूरश्व ज्ञातविद्यश्चन मानी न च मत्सरी। चारप्रचारकुशलः प्रणिघिप्राण आत्मवान्। षाड्गुण्यविधितत्त्वज्ञ उपायकुशलस्तया। वेत्ता विधाता कार्य्याणां नैव कार्य्यातिपातनः। समयज्ञश्च कालज्ञो भृत्यानाञ्च गुणप्रियः। कृतानामकृतानां च कर्मणामन्ववेक्षिता। यथा पुरुषमर्हाणां पुरुषाणां नियोजकः! कर्त्ता परोक्षे कार्य्याणि सांपराये भृगूत्तम। तत्त्वातत्त्ववेदिता च कर्मणो गुरुलाघवम्। शत्रुमित्रविभागज्ञो विग्नहे चैव तत्त्ववित् स राज्ञः सर्व्वकार्य्याणि कुर्याद्भृगुकुलोद्वह! विदितानि तथा कुर्यान्न ज्ञातानि महीक्षिता अज्ञातानि नरेन्द्रस्य कृत्वा कार्य्याणि भार्गव! अचिरेणापि विद्वेषं स मन्त्री त्वधिगच्छति। कुरुते यस्तु कार्य्याणि विदितानि महीपतेः भेदो न तस्य भवति कदाचिदपि भूभुजा एवंगुणो यस्य भवेत्तु मन्त्री वाक्ये च तस्याभिरतस्य राज्ञः। राज्यं स्थिरं स्याद्विपुला च लक्ष्मीर्यशश्च दीप्तं भुवनत्रयेऽपि” इति।

अमात्र = पु० नास्ति मात्रा परिच्छित्तिर्यस्य। १ इयत्ताशून्ये परमात्मनि तुरीये ब्रह्मणि। वृहत्परिमाणकल्पनेन २ परिच्छेदशून्ये गगनादौ च त्रिं०। अमात्रं त्वा धिषणं तविषे ऋ० १, १०२, ७, “अमात्रं मात्रया इयत्तया रहितम्” भा०।

अमानना = स्त्री अभावे न० त०। आदराभावे न० ब०। आदरशून्ये त्रि०।

अमानस्य = न० मानसे साधु न भवति मानस + यत् न० त०। मनः कष्टदायके दुःखे।

अमा (म)मासी = स्त्री अमा सह सूर्य्येण माः मासो वा चन्द्रमा यस्यां गौरा० ङीष्। अमावस्यायाम्।

अमाय = त्रि० नास्ति माया यस्य। १ कषटशून्ये २ अयविद्याशून्ये ब्रह्मणि न०। मायोमानम्। ३ इयत्ताशून्ये त्रि०।

अमानिन् = त्रि० न मन्यतेऽमिमन्यते मन–णिनि न० त०। अभिमानशून्ये “अमानित्वमदम्भित्वम्” गीता।

अमार्जित = त्रि० मृज–क्त विरोधे न० त०। अपरिष्कृते।

अमा (वा)वसी = स्त्री अमा सह वसतश्चन्द्रार्कौ यस्याम् अप् वञ् वा नि० गौरा० ङीष्। अमावास्यायाम्।

अमाव(वा)स्या = अमा सह वसतश्चर्न्द्रार्कौ यस्याम् नि०। कृष्णपक्षीयपञ्चदशीतिथौ। तथा हि अधः प्रदेशवर्त्ती शीघ्रगामी चन्द्रः, ऊर्द्ध्वप्रदेशवर्त्ती मन्दगामी सूर्य्यः। तयोर्गतिविशेषात् यत्काले चन्द्रमण्डलमन्यूनमनतिरिक्तं सत् सूर्य्यमण्डलस्याधोभागे व्यवस्थितम् भवति तदा सूर्य्यरश्मिभिः साकल्येनाभिभूतत्वात् चन्द्रमण्डलमीषदपि न दृश्यते इति कृष्णपक्षे पञ्चदशकलाक्रियाकूटोपलक्षितःकालः अमावस्येति निष्कर्षः। “सूर्य्याचन्द्रमसोः यः परो विप्रकर्षः सा पौर्णमासी र्यः परःसन्निकर्षः साऽमावस्येति” गोभि० “अमावस्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी” मनुः। अमावास्यायांभवः वा क्वुन् अमावास्यकः अण् आमावस्यः। तत्रभवे त्रि०। “य आगारे मृगयन्ते प्रतिक्रोशेऽमावास्ये” अथ० ३६, ३

अमावसु = पु० आयुपुत्रे ऋषिभेदे “अमावसुमिति ख्यातमायोः पुत्रं यशस्विगम्” ह० बं०।

अमित = त्रि० न मितः। १ अपरिच्छिन्ने इयत्ताशून्ये “अमितस्य हि दातारं भर्त्तारं का न पूजयेत्”? रामा०। २ अज्ञाते च।

अमितविक्रम = पु० अमिता अपरिच्छिन्ना विक्रमास्त्रयः पाद- विक्षेपा अस्य, अमितः विक्रमः शौर्य्यमस्येति वा १ विष्णौ। “मुकुन्दोऽमितविक्रमः” वि० स०। बहुशौर्य्ये त्रि०।

अमिताशन = पु० अमितमश्नाति संहारममये अश–ल्यु। सर्वभक्षके परमेश्वरे। “यस्य ब्रह्म च क्षत्रञ्च उभे भवत ओदने मृतृर्यस्योपसेचनम्” इति श्रुतेः “अत्ता चराचरग्रहणात्” इति शा० सूत्राच्च तस्य सर्वभक्षकत्वम्। २ विष्णौ च “वेगवानमिताशनः” विष्णुस०।

अमितौजस् = त्रि० अमितमोजो यस्य। अपरिच्छिन्न सामर्थ्ये प्रचुरबले। “कविरमितौजा अजायत” ऋ० १, ११, ४। “स तैः पृष्टस्तया सम्यगमितौजा महात्मभिः” मनुः।

अमित्र = अम० रोगे इत्र। रिपौ। “स्याताममित्रौ मित्रे च सहजप्राकृतावपि” तस्य मित्राण्यमित्रामित्रास्ते” इति च माघः “अमित्रजिन्मित्रजिदोजसा स यदिति” नैष० “अमित्रादपि सद्वृत्तममेध्यादपि काञ्चनम्” मनुः।

अमित्रस (सा)ह = त्रि० अमित्रं सहते बलाधिक्यात् अच् अण् वा। रिपुजयशीले बलिनि “शासैत्था महा~ अस्यमित्र साहः”। अथ० १, २०, ४।

अमिथ्या = अव्य० विरोधे न० त०। मिथ्याभिन्ने सत्ये “तामूचतुस्ते प्रियमप्यमिथ्या” रघुः।

अमिन् = त्रि० चु० अम–रोगे ह्रस्वः इनि। रोगिणि।

अमिन = त्रि० मि–क्षेपे बा० कर्मणि नङ् न० त०। अक्षेपणीये अहिंस्ये “उत द्विवर्हा अमिनः सहोभिः” ऋ० ६, १९, १। “अमिनः अहिंसनीयः” भा०।

अमिश्र = त्रि० न० त०। संकीर्णभिन्ने पृथग्भूते। “तद्वा अमिश्रमेव वसूनां प्रातः सवनम्” शत० ब्रा०।

अमिश्रित = त्रि० न० त०। मिश्रितभिन्ने पृथग्भूते।

अमिष = न० अम–भोगे कर्मणि इषन्। १ लौकिकसुखे नास्ति मिषश्छलं यत्र। २ व्याजशून्ये त्रि०।

अमीत = त्रि० मी–बधे कर्मणि क्त न० त०। अहिंसिते। “अमो तवर्णा उषसश्चरन्ति” ऋ० ४, ५१, ९, “अमीतवर्णा अहिंसितवर्णाः” भा०।

अमीव = त्रि० अम–वन् नि० ईडागमः। १ रोगे “सनेम्यस्मद्यु यवन्नमीवाः य०” ९, १६। अमीवाः व्याधीन् सुपांसुः वे० दी०। “अपामीवं बाधते वेति” ऋ० १, ३५, ९ “अमीवां रोगादिबाधाम्” भा० “प्रजावन्तोऽनमीवा अनागमः” ऋ० १०, २७, ७ “अनमीवा रोगरहिताः” भा०। “अमोवहा वास्तोष्पते”! ऋ० ७, ५५, १ “अमीवं रोगं हन्ति अमीवानां रोगाणां नाशयिता” भा०। २ पापे, ३ दुःखे, च न०। उज्ज्वलदत्तस्तु मीञ् हिंसायां वन् मीवः उदरक्रमिरित्येवनिपातः न तु अमीवः इत्याह।

अमीवचातन = त्रि० अमीवं रोगं चातयति चत–याचने णिच्–ल्यु। रोगहिंसके “देवममीवचातनम्” ऋ० १, १२, ७ अमीवानां हिंसकानां शत्रूणां रोगाणां वा चातनं घातकम्” भा० स्त्रियां गौ० ङीष्। आप इद्ध उ भेषजीरापो अमीवचातनीः” ऋ० १०, १३७, ६।

अमुक = त्रि० अदस् + टेरकच् उत्त्वमत्वे। अदःशब्दार्थे “अत्राहममुकः साक्षी” “समाप्तेऽर्थे ऋणी नाम स्वहस्तेन निवेशयेत् मतं मेऽमुकपुत्रस्थ यदत्रोपरि लेखितम्” च या०

अमुक्त = त्रि० न मुक्तः विरोधे न० त०। मुक्तभिन्ने १ बद्धे “सदा प्रहृष्टया भाव्यं व्यये चामुक्तहस्तया” मनुः। २ ससंसारबन्धयुक्ते च न मुच्यते सर्व्वदा योधैः। हातछुरी)। ३ छुरिकाभेदे न०

अमुक्ति = स्त्री अभावे न० त०। १ मुक्त्यभावे मुक्तिर्मोचनं रज्ज्वादिबन्धननिवृत्तिः संसारबन्ध्निवृत्तिरूपोमोक्षश्च। न० ब० २ मुक्तिशून्ये त्रि०।

अमुख्य = त्रि० मुख्यम् विरोधे न० त०। मुख्यभिन्ने प्रधानभिन्ने गौणे।

अमुग्ध = त्रि० न मुग्धः १ मुग्धभिन्ने। मुग्धः मोहान्वितः मनोहरश्च। २ मुग्धावस्थातीतप्रौढायां स्त्रियां स्त्री।

अमुतस् = अव्य० अमुष्मात् अदस + तसिल् उत्त्वभत्वे। १ अमुष्मा दित्यर्थे २ परलोकादित्यर्थे च “इतआजातोऽमुतः कुतश्चित् ऋ० १, १७९ ४।

अमुत्र = अव्य० अमुष्मिन् अदस् त्रल् उत्त्वमत्त्वे। १ अमुष्मिन्नित्यर्थे २ परलोके इत्यर्थे च “यत्तु बाणिजके दत्तं नेह नामुत्र तद्भवेत्” मनुः।

अमुत्रभूय = न० अमुत्र भवनम् भू–भावे क्यप्। परलोकभवने “अमुत्रभूयादध यद्यमस्य” श्रुतिः।

अमुथा = अव्य० अमुना प्रकारेण थाल्। अमुनाप्रकारेणेत्यर्थे “इत्थं नः सद्योऽमुथासद्योः न एतदतिक्रामादिति” शत० व्रा०।

अमुद्र्यञ्च्(च्) = त्रि० अमुमञ्चति अदस + अन्च क्विप् अद्र्या गमः उत्त्वमत्वे। १ अदः शब्दार्थप्राप्ते २ तत्पूजके च। शसादौ अमुद्रीचः। पूजार्थे अमुद्र्यञ्चः। स्त्रियां ङीप्।

अमुमुयञ्च्(च्) = त्रि० अमुमञ्चति अदस् अन्च–क्विप् गतौ न लोपः अद्र्यादेशः अद्रेरपि उत्त्वमत्वे। १ अदः शब्दार्थं गते तत्पूजके च शसादौ अमुमु ईचः अमुमुञ्चः स्त्रियां ङीप्।

अमु(दो)वत् = अव्य० अमुष्येव वति वेदे उत्त्वमत्वे। अमुष्येवेत्यर्थे “मनुष्वद्भरतवदमुवदिति यजमानार्थे यान्याह” कात्या० ३, २, ७।

अमुष्यकुल = न० ६ त० नि० अलुक्। प्रसिद्धकुले। मनोज्ञा० वुञ् आमुष्यकुलकम् तद्भावे कौलीन्ये न०।

अमुष्यपुव = पु० ६ त० नि० अलुक्। प्रख्यातवंशे कुलीने तस्य भावः मनोज्ञा० वुञ् आमुष्यकम्। कौलीन्ये न०।

अ(आ)मुष्यायण = पु० अमुष्य अपत्यम् फ (फञ्) अलुक्। विख्यातकुलोत्पन्ने अपत्ये अमुष्यापत्ये च।

अमूदृक्ष = त्रि० अमुष्येव दर्शनमस्य अदस् + दृश–क्स आति ऊत्त्वमत्वे। अदःशब्दार्थसदृशे। कञ्। अमूदृशः क्विन् अमूदृक् कुत्वम्। उक्तार्थे। कञ् प्रत्यये स्त्रियां ङीप् “अमूदृशी तत्कविवृन्दवन्दिता” नै०।

अमूर = स्त्री अमूः मूच्छाभावः कुञ्जा० अस्त्यर्थेर०। मूढभिन्ने मोहशून्ये “संजानत स्वैर्दक्षैरमूराः” ऋ० १ ६८ ‘४, “यास्कस्तु मूढा वयं स्मोऽमूढस्त्वमसि इति” मूढशब्दस्य रूपमाह तत्र पृ० साधुत्वम्।

अमूर्त्त = त्रि० न० त०। मूर्त्तभिन्ने अवयवशून्ये अपरिच्छिन्नपरि माणे “क्षितिर्ज्जलं तथा तेजः पवनोमन एव च। परापर त्वमूर्त्तत्वक्रियावेगाश्रया अमो” भाषा० “मूर्त्तत्वमवच्छिपरिमाणवत्त्वमिति” सि० मुक्ता० तड्वीने गगनादौ। “द्वे वाव ब्रह्मणो रूपे मूर्त्तञ्चामूर्त्तमेव च” शत० ब्रा०।

अमूर्त्तगुण = पु० ६ त०। वैशेषिकोक्ते अमूर्त्ताकाशादेर्गुणविशेषे “धर्म्माधर्म्मौ भावना च शब्दोबुद्ध्यादयोऽपि च एतेऽमूर्त्तगुणाः सर्व्वे” भाषा०।

अमूर्त्ति = त्रि० नास्ति मूर्त्तिरस्य। १ अवयवशून्ये गगनादौ २ विष्णौ पु० “अमूर्त्तिरनघोऽचिन्त्यः” विष्णुस० “मूर्त्तिर्घनरूपं धारणसमर्थं चराचरलक्षणं तन्नास्ति यस्य” भा०।

अमूर्त्तिमत् = त्रि० न० त०। १ मूर्त्तिमद्भिन्ने गगनादौ २ विष्णौ पु० “दीप्तमूर्त्तिरमूर्त्तिमान्” वि० स०।

अमूल = त्रि० नास्ति मूलं यस्य। १ आदिकारणशून्ये “मूलं मूलाभावादमूलम्” सा० सू०। “त्रयोविंशतत्त्वानां मूलमुपादानं प्रधानं अमूलं मूलशून्यं अनवस्थापत्त्या तत्र मूलान्तरासम्भवात्” प्र० भ०। “इयं वा इदं जीवनं “मूलि चैवामूलञ्च तदुभयं देवानां यन्मनुष्याः उपजीवन्ति पशवोऽमूलाः ओषघयोमूलिन्यः” शत० ब्रा०। मूलि च अमूलञ्चान्नाद्य प्रतिष्ठितम्” शत० ब्रा०। २ मूलवृक्षादिशिफा तच्छून्ये त्रि० मूलान्नञ”। पा० अजादि टाप्। सा च ३ अग्निशिस्वावृक्षे। कप्। अमूलकोऽत्युक्तार्थे मूलग्रन्थेषु–अदृष्टे च “एतद्वचनममूलकम्” भूरिलोकप्रसिद्धिः।

अमृक्त = त्रि० मृज–शोधालङ्कारयोः वेदे न षत्वम् न० त०। १ अशोधिते अनिर्णिक्ते “अमृक्तेन ऋशता वाससा” भ० ऋ० ९, ६९, ५ लोके तु अमृष्टः। तत्रार्थे धातूनामनेकर्थत्वात् २ अहिंसिते। “रथोवाजा ऋभुक्षणो अमृक्तः” ऋ० ७, ३७, १। “अमृक्तः अहिंसितः” भा०।

अमृणाल = स० सादृश्ये न० त०। मृणालसदृशे वीरणमूले।

अमृत = त्रि० न मृतः। १ मरणशून्ये जीविते “अमृते जारजः कुण्डः” अमरः “अपाम सोमममृता अभूम” इति श्रुतिः मरणञ्चात्र “आभूतसंप्लवस्थानममृतत्वं हि भाष्यते इति” विष्णु पु० उक्तम् महाकल्पावस्थायित्वं, देवानामपि तथैवामृतत्वम् “कार्य्यात्यये तदध्यक्षेण सहातः परमाम्नायात्” शा० सू० कार्य्यब्रह्मणा सह सर्व्वेषां लयाभिधानात्। न मृतं मरणं यस्मात्। २ पीयूषे तत्सेवने हि अमृतत्वं भारतादौ प्रसिद्धम्। तच्च प्रथमं पृथूपदिष्टैर्दैर्वरिन्द्रं वत्सं कृत्वा गोरूपधरायाः पृथ्वा दुग्धम् पश्चाच्च दुर्वासःशापात् समुद्रमध्यं गतम् ततो देवासुरैः समुद्रे मथिते पुनरुत्पन्नमिति पौराणिकी कथानुसन्धेया “देवासुरैरमृतमस्वुनिधिर्ममन्ते” किरा० न वै देवा अश्नन्ति पिबन्ति एतदेवामृतं दृष्ट्वा तृप्यन्ति” चा० उ०। “अमृतदीधितिरेष विदर्भजे। भजसि तापमनुष्यकिमंशुभिः। यदि भवन्ति मृताः सखि! चन्द्रिकाः इति” नैषधम्। ३ जले तस्य प्राणहेतुत्वात् अमृतत्वम्। “अन्नमयं हि सौम्य! मन आपोमयः प्राणः” इत्युपक्रम्य षोडशकलः सौम्य! पुरुषः पञ्चदशाहानि माशीः काममपः पिबापोमयः प्राणो न पिबतो विच्छेत्स्यते” छा० उ०। जलपानाभावे प्राणविच्छेदौक्तेः तत्पाने च प्राणवृद्धेः जलस्य मरणाहेतुत्वम्। “अमृतोपस्तरणमसि स्वाहा” “अमृतापिधानमसि स्वाहेति” आपोशनमन्त्रः। ४ घृते तस्य, “आयुर्वै घृत” मित्युक्तेरायुर्जनकत्वात् मरणाहेतुत्वात्तथात्वम्। “अमृतं नाम यत् सन्तोमन्त्रजिह्वेषु जुह्वति। शोभैव मन्दरक्षुव्धक्षुभिताम्भोधिवर्णना” माघः। ५ पारदे तस्य च रसायनादिना पाने “अभ्रकस्तव वीजन्तु मम वोजन्तु पारदः अनयोर्मेलनं देवि! मृत्युदारिद्र्यनाशनम्” इत्युक्तेः बहुकालजीवनहेतुत्वात् तथात्वम् रसेश्वरनर्शने विवरणम्। ६ यज्ञशिष्टे द्रव्ये “यज्ञशेषोऽमृतं स्मृत” मित्युक्तेस्तथात्वम्। ७ अयाचिते वस्तुनि “मृतं स्वाद्याचितं भैक्ष्यममृतं स्याद्दयाचितम्” मनूक्तेस्तस्य मरणरूपापमानहेतुयाचनशून्यत्वात् तथात्वम्। “ऋतामृताभ्यां जीवेत” मनुः। ८ दुग्धे तस्य देहधारकत्वेन मरणाहेतुत्वात् तथात्वम्। ९ अन्ने “अन्नमूलं हि जीवन” मित्युक्तेस्तथात्वम्। न म्रियते क्षीयते। १० स्वर्णे। “अग्नौ सुवर्णमक्षीणमिति” या० उक्तेस्तस्य वह्नौ बहुतापनेऽपि अक्षीणत्वात्तथात्वम् अतएव तस्य तैजसत्वं “स्वर्णं तैजसमत्यन्तानलसन्तापेऽपि अनाश्यत्वादित्यनुमानेन” सि० मु० साधितम्। एवदभिप्रायेणैव “अमृतं वै हिरण्यमित्युक्तमा शत० ब्रा०। ११ भक्षणीयद्रव्यमात्रे, तस्यान्नवत्तथात्वम् १२ स्वादुद्रव्ये अमृततुल्यस्वादवत्त्वात्। १३ तत्साधने द्रव्येत्रि० “आदित्योवै देवमधु” इत्यादि मधुविद्यायाम् “ता एवास्यामृतामधुनाड्यः” छा० उ० पञ्चकृत्वः पाठः। १४ हृद्ये अमृतवदाह्लादकत्वात् तथात्वम् १५ विषे १६ वत्सनाभे विषे तयोः वैद्यकोक्तदिशा शोधने अमरणहेतुत्वात्तथा। अतएव “विषमष्यमृतं क्वचिद्भवेदिति” रघुः १७ मोक्षे “बिद्ययामृतमश्नुते” इति श्रुतिः क्षयशून्यत्वात्तथा “अमृतस्यैष सेतुरिति” श्रुतिः “स श्रिये चामृताय च” अमरः। १८ अमृततुल्ये आनन्दकरत्वात्तथा। “अमृतं वालभाषितमिति” हितो०। “आप्यायितोऽसौ वचनामृतेन उद्भटः”। अमृतमस्त्यस्य स्वामित्वेन भक्षकत्वेन वा अर्श० अच्। १९ धन्वन्तरौ सहि समुद्रमथा नसमये अमृतं बिभ्रदुत्थितः इति पुराणे प्रसिद्धम्। २० देवे तद्भक्षत्वेन तथात्वम्। देवानाञ्चामृतदर्शनेनैव तृप्तत्वम् “न वै देवा अश्नन्ति पिबन्ति एतर्देवामृतं दृष्ट्वा तृप्यन्तोति” छा० उ० उक्तेः “रथेनामृतं मर्त्त्यञ्च” य० ३३, ४० अमृतं देवादिकमिति” वे० दी०। न स्रियते स्म कर्त्तरि क्त। २१ वाराहीकन्देषु तस्य बहुच्छेदनेऽपि पुनःप्ररूढत्वात्तथा २२ वनमुद्गे च तस्य ओषधितया फलपाकान्तत्वेऽपि छिन्नप्ररूढत्वात्तथात्वम्। २३ शुडूच्याम्। २४ इन्द्रवारुण्यां २५ ज्योतिष्मन्याम् २६ गोरक्षदुग्धायाम् २७ अतिविषायां २८ रक्तत्रिवृति २९ दूर्व्वायाम् ३० आमलक्यां ३१ हरीतक्यां ३२ तुलस्यां ३३ पिप्पल्यां ३४ स्थूलमांसहरीतक्याञ्च स्त्री। एतासां यथायथं रोगनिवारकत्वेन तथात्वम्। अमृतेन सहोत्पन्नत्वात् अमृततुल्यास्वादवत्त्वाच्च ३५ सुरायां स्त्री। ३६ सूर्य्यरश्मिभेदे स्त्री “तासां शतामि चत्वारि रश्मीनां वृष्टिसर्ज्जने। शतत्रयं हिमोत्सर्गे तावद्गर्भस्य सर्ज्जने। आनन्दाश्च हि मेघाश्च भूतनाः पृतना इति। चतुःशतं वृष्टिवाहाः सर्व्वास्ता अमृता स्त्रियः” मल्लि० यादवः। तासाञ्चामृतस्य जलस्य दायित्वात्तथा। “सौरीभिरिव नाडीभिरमृताख्याभिरम्मयः” रघुः। ३७ मरणशूग्ये विष्णौ पु० “अमृतः शाश्वतः स्थाणुः” वि० स०। नास्ति मृतं मरणं यस्मात्। ३८ अजरमरत्वप्रदे त्रि०। “इन्द्रियस्येन्द्रियमिदं पयोऽमृतं मधु” यजु० १९, ७२, ७३, ७४, ७५। “अमृतमजरा मृत्युप्रदत्वात् आनन्दकरम् अमृततुल्यम् वे० दी० “नन्दा भौमार्कयोर्भद्रा शुक्रेन्द्वोश्च जया बुधे। शुभयोगा गुरौ रिक्ता पूर्ण्णा मन्देऽमृताह्वया। “आदित्यभौमयोर्नन्दा भद्रा शुक्रशशाङ्कयोः जया ज्ञोस्याद् गुरौ रिक्ता पूर्णार्के चामृता शुभेति” इति ज्योतिषोक्ते ३९ तिथिवारयोगरूपे योगभेदे “ध्रुवगुरुकरमूला पौष्णभान्यर्कशारे हरियुगविधियुग्मे फल्गुनीभाद्रयुग्मे। दिवसकरतुरङ्गौ शर्वरीनाथवारे। गुरुयुमनलवातोपान्त्यपौष्णानि कौजे। दहनविधिशताख्यामैत्रभं सौम्यवारे। मरुददितिभपुष्या मैत्रभं जीववारे। भगयुगजयुगश्वोविष्णुमैत्रे सिताहे। श्वसनकमलयोनी सौरिवारेऽमृतानि” राज मा० उक्ते आदित्यहस्ता गुरुपुष्ययुक्ता बुधानुराधा शनिरोहिणी च। सोमे च विष्णुः कुजरेवती च शुक्राश्विनी चामृतयोगवर्गाः। उक्ते च ४० वारनक्षत्रयोगजे योगभेदे “यदि विष्टिव्यतीपातौ दिनंवाप्यशुभं भवेत्। हन्यतेऽमृतयोगेन भास्करेण तमो यथा” ज्योति०। ४१ ब्रह्मणि न०।

अमृतगति = स्त्री यदि दशमं गुरु विहितं विशिखमितं सुक विहितम्। अमृतगतिः फणिकथिता दलयतिका नृप! कथिता” इत्युक्तलक्षण छन्दोभेदे।

अमृतगभ = पु० अमृतं ब्रह्म गर्भेऽभ्यन्तरे यस्य। १ जोवे तस्य ब्रह्मात्मकत्वात् ब्रह्मणा चान्तर्यामितया तदन्तःस्थितत्वात् तथात्वम्। “यो न जीवोऽसि न मृतो देवानाममृतगर्भोऽसि स्वप्न” अथ० ६, ४६, १ “स्वप्स्यन् स्वेन तदा सपन्नो भवतीति” श्रुतेः सुषुप्त्यवस्थायां सकलानर्थानवभासनेन तच्छून्यतया जीवस्य ब्रह्मरूपापत्त्या तथात्वम् अधिकं सुषुप्तिशब्दे दृश्यम् अमृतस्य मोक्षस्य गभे आधारः। २ ब्रैह्मणि

अमृतजटा = स्त्री अमृतमिव स्वादुर्जटा यस्याः। जटामांस्याम्

अमृततत्व = न० अमृतस्यामरणस्य भावः त्व। १ मोक्षे। “त्यागे नैके अमृतत्वमानशुः” श्रुतिः “कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन्” क० उ०। “अमृतत्वममरणधर्म्मत्वम् भा० “अहिंसया च भूतानाममृतत्वाय कल्पते” इति मनुः “आभूतसंप्लवस्थानममृतत्वं हि भाष्यते” इति विष्णु० पु० उक्ते २ महाकल्पावस्थायित्वे च।

अमृततरङ्गिणी = स्त्री अमृतस्य सुधाया तुषारस्य तरङ्गिणी नदीव। ज्योत्स्नायाम् राज० नि०।

अमृततिलका = स्त्री नगणपयोधररुचिरा कुसुमविराजितसु- कुरा। वसुलघुदीर्घयुगलका भवति सखेऽमृततिलका इत्युक्तलक्षणे दशाक्षरपादके वर्णवृत्तभेदे “त्वरितगतिश्च नजनगैरित्युक्तत्वरितगतिलक्षणाक्रान्तत्वात् तस्या एव नामान्तरम्।

अमृतदीधिति = पु० अमृतमिबाप्यायिका दीधितिरस्य। चन्द्रे “अमृतदीधितिरेष विदर्मजे भजसि तापममुष्य” नै०।

अमृतद्युति = पु० अमृतमिवाप्याधिका द्युतिरस्य। चन्द्रे।

अमृतधारा = स्त्री अमृतस्य धारा सन्ततिः। अमृतसन्ततौ। “चरमचरणलयमवसितिगुरुयुग्मम्। अखिलमपरमुपरिगतमिति ललितपदयुक्ता तदियसमृतधारा” वृ० र० उक्ते१ पदचतुरूर्द्धपदके २ छन्दोभेदे। उपरिगतम् “मुखपादोऽष्टभिर्वर्णैः परेऽस्मान्मकरालयैः क्रमाद्वृद्धा” इत्याद्युक्तलक्षणम् ६ त०। २ सुधासन्ततौ च।

अमृतनाद = पु० उपनिषद्भेदे सा च कृष्णयजुर्वेदान्तर्गता उपनिषच्छब्दे विवरणम्।

अमृतनालिका = स्त्री अमृतस्य स्वादुरसस्य नालीव। कर्पूरनालिकाभेदे पक्वान्नभेदे शब्द० र०।

अमृतप = पु० अमृतं पाति रक्षति असुरेभ्यः पा–रक्षणे क। १ विष्णौ सहि अमृतमन्थनसमये असुरैर्ह्रियमाणममृतं मोहिनीरूपं विधाय तान् वञ्चयित्वा देवेभ्योदानात् तत् पालकः इति भागवती कथा। “सोमपोऽमृतपः सोम” इति वि० स०। अमृतं पिबति पा पाने क। २ देवे तद्दर्शनेन तृप्तत्वात्तत्पायित्वम् अमृतशब्दे दृश्यम्। ३ अमृततुल्यमध्वादिपातरि त्रि०। “ध्रुवममृतपनामवाञ्छयासावधरमसुं मधुपस्तवाजिहीते” माघः।

अमृतपक्ष = पु० अमृतस्य हिरण्यस्य पक्षः क्षयाकारित्वात्। १ वह्नौ “अग्नौ सुवर्ण्णमक्षीणम्” या० उक्तेः सर्व्वदाहकस्यापि वह्ने र्न सुवर्ण्णनाशकत्वमित्यतस्तस्य स्वर्ण्णपक्षत्वम्। “तस्येतावमृतपक्षौ यावेतावभितोऽग्नी” इति शत० ब्रा० अमतं स्वर्ण्णमिव पीतौ पक्षावस्य। १ स्वर्ण्णवर्ण्णपक्षे श्येनभेदे “हिरण्यपक्षः शकुनोभुरण्युममृतं वै हिरण्यमृतपक्षः शकुनः” शत० ब्रा०।

अमृतफल = न० अमृतमिव स्वादु फलम्। (नासपातीति) १ यवनप्रसिद्धे रुचिफले “अमृतफलं लघु वृष्यं सुस्वादु त्रीन्हरेद्दोषान्। देशेषु मुद्गलानां बहुलं तल्लभ्यते लैकैः भा० प्र०। ६० ब०। २ आमलक्याम् ३ द्राक्षायाञ्च स्त्री ४ पटोले ५ पारावतवृक्षे च पु०।

अमृतबन्धु = पु० अमृतस्य बन्धुः एकस्थानोत्पत्तिकत्वात् सहोदरः। १ चन्द्रे तस्य अमृतमन्थनसमये समुद्रात् उत्पन्नत्वात् तथात्वम्। “ततः शतसहस्रांशुर्मथ्यमानात्तु सागरात् अमृतात्मा समुत्पन्नः सोमः शीतांशुरूज्ज्वन” इति भा० आ० प०। अमृतस्य बन्धुरिव ग्राहकत्वात्। २ देवमात्रे “तं देवा अन्वजानन्त भद्रा अमृतबन्धवः” ऋ० १०, ७२, ५,।

अमृतभल्लातकी = स्त्री “सुपक्वभल्लातफलानि सम्यक् द्विघा विदा र्य्याढकसम्मितानि। विपाच्य तोयेन चतुर्गुणेन चतुर्थशेषेव्यपनीय तेन।। पुनः पचेत् क्षीरचतुर्गुणेन घृतांशयुक्तेन घनं यथा स्यात्। सितोपलाः षोडशभिः पलैस्तु विमिश्रा संस्थाप्य दिनामि सप्त।। ततः प्रयोज्याग्निबलेन मात्रां जयेद् गुदोत्थानस्विलान् विकारान्। कचान् सुनीलान् घनकुञ्चिताग्रान् सुवर्ण्णदृष्टिं सुकुमारताञ्च।। जवं हयानाञ्च मतङ्गजं बलं, स्वरं मयूरस्य हुताशदीप्तिम्। स्त्रीवल्लभत्व लभते प्रजाञ्च नीरोगमब्दद्विशतानि चायुः।। न चान्नपाने परिहार्य्यमस्ति न चातपे चाध्वनि मैथुने च। प्रयोगकाले सकलाभयानां राजा ह्ययं सर्व्वरसायनानाम्।। भल्लताकी शुद्धिरिह प्रागिष्टा चूर्ण्णगुण्डनात्। घृताच्चतुर्गुणं क्षीरं घृतस्य प्रस्थ इष्यते” चक्रदत्तोक्ते घृतभेदे।

अमृतभुज् = पु० अमृतं भुङ्क्ते दृष्ट्वा भोगतुल्यं तृप्तिमश्नुते भुजक्विप् ६ त०। देवे “न वै देवा अश्नन्ति पिबन्ति एतदेवामृतं दृष्ट्वा तृप्यन्तीति” छा० उ० उक्तेः दर्शनमात्रेण भोजनतृप्तिमत्त्वात्तथात्वम्। अमृतम् अयाचितं यज्ञशिष्टान्नं वा भुङ्क्ते। २ यज्ञशिष्टान्नभोक्तरि ३ अयाचितान्नभोक्तरि च त्रि०।

अमृतयोग = पु० अमृताख्योयोगः। ज्योतिषोक्ते। तिथिवारादियोगभेदे स चामृतशब्दे उक्तः।

अमृतरस = पु० अमृतं रस इव आस्वाद्यम्। १ अमृतरूपे आस्वाद्ये “विम्लानोन विमर्द्दनेऽमृतरसप्रस्यन्दमाध्वीकभूः” कुमा०। अमृतस्य रसः सारः। २ सुधारसे “सिक्ता इवामृतरसेन मुहुर्जनानाम्” माघः। अमृतं मोक्षः रस इव यस्य। ३ परमात्मनि “स एष सैन्धवघनोऽमृतरस इति” श्रुतिः अमृतस्येव रस आस्वादोऽस्याः। ४ कपिलाद्राक्षायां (अन्दरसा) प्रसिद्धे ५ पक्वान्नभेदे च स्त्री। सा च “तृतीयभागखंण्डेन मिश्रितं षष्ठिपिष्टकम्। शुभ्रमीषद्दधियुतं मर्द्दयेद्दृढपाणिना। एवं समुद्धितं कृत्वा स्थापयेद्रजनीमितम्। ततोऽन्यम्मिन्नहनि तु चित्रितं निस्त्वचैन्तिलैः विधाय पूपकं तेन तम्बिकायां घृते पचेत्। ततोऽमतरसा जाता वातह्रद्बलवर्द्धिनी” इति भा० प्र० उक्ता।

अमृतलता = स्त्री अमृतालता। १ गुडूच्याम्” (अमरलता) इति २ ख्यातायां लतायाञ्च।

अमृतवपुस् = अमृतेनाप्यायितं वपुरस्य। १ चन्द्रे स हि कृष्ण- पक्षे वह्न्यादिभिः कलानामेकैकशः भक्षणेऽपि पुनः यज्ञशिष्टरूपामृतेनाप्याय्यते। यथोक्तं कालमाधषीये सोमोत्पत्तिवाक्येन “प्रथमां पिबते वह्निर्द्वितीयां पिबते रविः। विश्वे देवास्तृतीयान्तु चतुर्थां सलिलाधिपः। पञ्चमीं तु वषट्कारः षष्ठीं पिबति वासवः। सप्तनीमृषयोदिव्या अष्टमीमजएकपात्। नवमों कृष्णपक्षस्य यमः प्राश्नातिवै कलाम्। दशमीं पिबते वायुः पिबत्येकादशीमुमा। द्वादशीं पितरः सर्वे समं प्राश्नन्ति भागशः। त्रयोदशीं धनाध्यक्षः कुवेरः पिबते कलाम्। चतुर्द्दशीं पशुपतिः पञ्चदशीं प्रजापतिः। निष्पीतश्च कलाशेषश्चन्द्रमा न प्रकाशते। कला षोडशिकाया तु सा त्वपो विशते तदा। अमायां तु सदा सोम ओषधोः प्रतिपद्यते। तमोषधिगतं गावः पिबन्त्य प्सुगतञ्च यत्। तत्क्षीरममृतं भूत्वा मन्त्रभूतं द्विजातिभिः। हुतमग्निषु यज्ञेषु पुनराप्यायते शशी। दिने दिने कलावृद्धिः पौर्णमास्यां तु पूर्णता” इति। यद्यपि ज्योतिषे कृष्णपक्षे सूर्य्यमण्डले प्रवेश एव उक्तस्तथापि तत्तद्दिवसे चन्द्रकलाभक्षणवत् वह्न्यादीनां तृप्तिरित्येतत्परत्वं सोमोत्पत्तिवाक्यस्य देवानाम् अस्मदादीनामिव भोजनस्यासिद्धेः तृप्तिमात्राधायकत्वेन तद्भोग्यत्वम् “न वै देवा अन्नन्ति पिबन्ति एतर्दवामृतं दृष्ट्वा तृप्यन्ति” छा० उ० उक्तेस्तथावगम्यते इत्यविरोधः। अनश्वरखरूपे विष्णौः “अमृताशोऽमृतवपुः” विष्णुस०।

अमृतवल्ली = स्त्री अमृता वल्ली। गुडूच्याम् (गुलुञ्च)।

अमृतवाक = त्रि० अमृतमिव वाको वचनं यस्य। १ अमृततुल्य वचने “अमृतवाका वयसां सा क्षिप्रश्येनं जनयति” शत० ब्रा०

अमृतसंभवा = स्त्री अमृतैव सम्भवति सम् भू + अच्। गुडूच्याम् (गुलुञ्च)।

अमृतसंयाव = न० अमृतमिव स्वादु संयावम्। पक्वान्नभेदे। “पचेत् घृतोत्तमे तप्ते न्यसेत् पक्वं नवे घटे। ततो मरिचचूर्णेन स्वण्डचूर्ण्णावचूर्णितम्। कुर्य्यात् कर्पूरसंयुक्तं संयाव ममृतोपमम्। संयावममृतस्वादु पित्तघ्नं मधुरं स्मृतमिति भा० प्र०।

अमृतसार = पु० अमृतस्य दुग्धस्य सारः। घृते। चक्रदत्तोक्ते अयःपाकभेदे यथा “लोहस्य पाकमधुना नागार्ज्जुनशिष्टमधिदघ्नः।। लोहारकूटताम्रजकटाहे दृढमृण्मये प्रणम्य शिवम्। तदयः पचेदचपलः काष्ठेन्धनेन वह्निना मृदुना।। निक्षिप्य त्रिफलाजलमृदितं यत्तत् घृतञ्च दुग्धञ्च। संचाल्य लौहमय्या दर्व्या लग्नं समुत्पाठ्य।। मृदुमध्यखरभावैः पाकस्त्रिविधोऽत्र वक्ष्यते पुंसाम्। पित्तसमीरणश्लेष्मप्रकृतीनां मध्यमस्य समः।। अभ्यक्तदर्विलोहं सुखदुःखस्खलनयोगि मृदु मध्यम्। उज्झितदर्वि खरं परिभाषन्ते केचिदाचार्य्याः।। अन्ये विहीनदर्व्वीप्रलेपमाखुत्कराकृतिं ब्रुवते। मृदुमध्यमर्द्धचूर्णं सिकतापुञ्जोपमन्तु खरम्।। त्रिबिधोऽपि पाक ईदृक् सर्वेषां गुणकृदेव न तु विफलः। प्रकृतिविशेषे सूक्ष्मौ गुणदोषौ जनयतीत्यल्पम्।। विज्ञाय पाकमेवं द्रागवतार्य्य क्षितौ क्षणान् कियतः। विश्राम्य तत्र लोहे त्रिफलादेः प्रक्षिपेच्चूर्णम्।। यदि कर्पूरप्राप्तिर्भवति ततो विगलिते यदुष्णत्वे। चुर्ण्णीकृतमनुरूपं क्षिपेन्न वा न यदि तल्लाभः।। पक्वं तदश्मसारं सुचिरघृतस्थित्यभाविरुक्षत्वे। गीदोहनादिभाण्डे लौहभाण्डाभावे सति स्थाप्यम्। यदि तु परिल्पुतिहेतोर्घृतमौक्षेताधिकं ततोऽन्यस्मिन्। भाण्डे निधाय रक्षेद्भाव्युपयोगो ह्यनेन महान्।। अयसि विरुक्षीभूते स्नेहस्तिलघृतेन सम्पाद्यः। एतत्ततो गुणोत्तरमित्यमुना स्नेहनीयं तत्।। अत्यन्तकफप्रकृतेर्भक्षणमयसोऽमुनैव संसन्ति। केबलमपीदमशितं जनयत्ययसो गुणान् कियतः।। अमृतसारः” चक्र० द०।

अमृतसारज = पु० अमृतादिव स्वादोः सारात् जायते जन–ड ५ त०। १ गुडे रा० नि०।

अमृतसू = अमृतं दीधितिरूपमाप्ययनं सूते सू–क्विप्। चन्द्रे। अम्रतान् देवान् सूते। देवमातरि स्त्री।

अमृतसोदर = अमृतस्य सोदर एकत उत्पन्नत्वात्। उच्चैःश्रवसि अश्व। तस्यामृतमथने समुद्रादुत्पन्नत्वात् तथात्वम्। सुरा देवी समुत्पन्ना तुरगः पाण्डरस्तथा” भा० आ० प०। तज्जातीयत्वात् घोटकमात्रे राजनि०।

अमृतस्रवा = स्त्री० अमृतमिव स्रवति स्रु–पचाद्यच्। १ रुदन्तीलतायाम्। भावे अप् ६ त०। २ अमृतनिष्यन्दे पु०।

अमृतांशु = पु० अमृतमिवाप्यायकः अशुंरस्य। चन्द्रे।

अमृतांशूद्भव = पु० अमृतांशोश्चन्द्रस्योद्भवो यस्मात्। विष्णौ “अमृतांशूद्भवो भानुः” वि० स०। ५ त० चन्द्रोद्भवे त्रि०।

अमृतान्धस् = पु० अमृतमन्धोऽन्नमिव दर्शनात् तृप्तिकरमस्य। अमृताशने देवे तेषाममृताशनञ्च दर्शनमात्रेण “न वै देवा अश्नन्ति पिबन्ति एतदेवामृतं दृष्ट्वा तृप्यन्ति” श्रुतेः। तेषां तत्पानकथा “ततस्तदमृतं देवो विष्णुरादाय वीर्य्यवान्। जहार दानवेन्द्रेभ्यो नरेणसहितः प्रभुः। ततो देवगणाः सर्ब्बे पपुस्तदमृतं समम्” भा० आ० प०।

अमृताफल = न० अमृतायाः फलम्। पटोले द्रव्याभि०।

अमृतायमान = त्रि० असतमिवाचरति अमृत + क्यङ् शानच्। अमृततुल्ये “उत्तिष्ठ वत्सेत्यमृतायमानम् वचोनिशम्येति” रघुः।

अमृताश = पु० अमृतममरणं क्षयाभावमश्नुते अश–व्याप्तौ अण्। विष्णौ “१ अमृताशोऽमृतवपुः” विष्णु० स० अमृतं सुधामश्नाति अश–भोजने अण्। २ देवे।

अमृताशन = पु० अमृतमश्नाति अश–भोजने ल्यु। देवे अमृतान्धःशब्दे विवरणम्

अमृताश्म = त्रि० न म्रियते मृ–तन् न० त० जौत नित्यः कर्म्म० टच् समा०। प्रस्तरभेदे जीविप्रस्तरखण्डभेदे।

अमृताष्टक = पु० अमृताप्रभृतीनामष्टकं यत्र। गूडूचीन्द्रयवारिवृपटोलं कटुका तथा नागरं चन्दनं मुस्तं पिप्पलीचूर्णसंयुतम् “अमृताष्टक इत्येषपित्तश्लेष्मज्वरापहः” चक्रदत्तोक्ते कषायभेदे।

अमृतासङ्ग = न० अमृतस्य विषस्येवासङ्गो यत्र। नीलवर्णे तुत्थभेदे हेम० तस्य विषतुल्यनीलवर्णत्वात् तथात्वम्।

अमृतासु = त्रि० अमृता अनश्वरा असवो यस्य। अनश्वरप्राणे बहुकालजीविनि। “आबभूयामृतासुर्वर्धमानः सुजन्मा” “उतामृतासुर्व्रतएमि” इति च अथ० ५, १, १, ७।

अमृताहरण = पु० अमृतमाहरति मातृदास्यनिवारणार्थं स्वर्गात् भूलोकं नयति आ + हृ–ल्युट्। गरुडे तत्कथा भा० आदि प० ३३ अ०। “तान् कृत्वा पतगश्रेष्ठः सर्व्वानुत्क्रान्तजीवितान्। अतिक्रान्तोऽमृतस्यार्थे सर्व्वतोऽग्निमपश्यत।। आवृण्वानं महाज्ज्वालमर्चिर्भिः सर्वतोऽम्बरे। दहन्तमिव तीक्ष्णांशुं चण्डवायुसमीरितम्।। ततो नवत्या नवतीर्म्मुखानां कृत्वा महात्मा गरुडस्तरस्वी। नदीः समापीय मुखैस्ततस्तैः सुशीघ्रमागम्य पुनर्ज्जवेन।। ज्वलन्तमग्निं तममित्रतापनः समास्तरत् पत्ररथो नदोभिः। ततः प्रचक्रे वपुरन्यदल्पं प्रवेष्टुकामोऽग्निमभिप्रशाम्य।। जाम्बूनदमयो भूत्वा मरीचिनिकरोज्ज्वलः। प्रविवेश बलात् पक्षी वारिवेग इवार्णवम्।। स चक्रं क्षुरपर्य्यन्तमपश्यदमृतान्तिके। परिभ्रमन्तमनिशं तीक्ष्णधारमयस्म यम्।। ज्ज्वलनार्कप्रभं घोरं छेदनं सोमहारिणाम्। घोररूपं तमत्यर्थं यन्त्रं देवैः सुनिर्मितम्।। तस्यान्तरं स दृष्ट्वैव पर्य्यवर्त्तत खेचरः। आरान्तरेणाभ्यपतत् संक्षिप्याङ्गं क्षणेन ह।। अधश्चक्रस्य चैवात्र दीप्तानलसमद्युती। विद्युज्जिह्वौ महावोर्य्यौ दीप्तास्यौ दीप्तलोचनौ।। चक्षुर्विषौ महाघोरौ नित्यं क्रुद्धौ तरस्विनौ। रक्षार्थमेवामृतस्य ददर्श भुजगोत्तमौ।। सदा संरक्तनयनौ सदा चानिमिषेक्षणौ। बयोरेकोऽपि यं पश्येत् स तूर्णं भस्मसाद्भवेत्।। तयोश्चक्षूंषि रजसा सुपर्णः सहसाऽऽवृणोत्। ताभ्यामदृष्टरूपोऽसौ सर्वतः समताडयत्।। तयोरङ्गे समाक्रम्य वैनतयोऽन्तरीक्षगः। अच्छिनत्तरसा मध्ये सोममभ्यद्रवत्ततः।। समुत्पाट्यामृतं तत्र वैनतेयस्ततो बली। उत्पपात जवेनैव यन्त्रमुन्मथ्य वीर्य्यवान्।। अपीत्वैवामृतं पक्षी परिगृह्याशु निःसृतः। अगच्छदपरिश्रान्त आवार्य्यार्कप्रभां ततः”।। तृच्। अमृताहर्त्ता तत्रैव। “काश्यपेयोऽमृताहर्त्ता” ध्वजपूजामन्त्रः।

अमृताह्व = न० अमृतमाह्वयते स्पर्द्धते तुल्यस्वादफलेन आ + ह्वे–क (आराकानदेश) जाते लघुविल्वाकृतौ (नासपाति) नामके रुचिकले वृक्षे। अमृतफलशब्दे विवरणम्।

अमृतेशय = पु० अमृते जले शेते शी–अच् अलुक् स०। विष्णौ तस्य प्रलये जलशायित्वात् तथात्वम्।

अमृतोत्पन्न = न० अमृतं विषमिव उत्पन्नम् नीलवर्णत्वात्। खर्परीतुत्थे राजनि०।

अमृतोत्पन्ना = स्त्री अमृतमिव स्वादु मधु उत्पन्नं यस्याः ५ त०। मक्षिकायां राजनि०।

अमृतोद्भव = न० अमृतं विषमिव नीलवर्णतया उद्भवति उद् + भू–अच्। खर्परीतुत्थे (तुते) तुत्थभेदे। अमृतं मृत्युञ्जयं शिवमुद्भवते प्राप्नोति स्वसाध्यार्चनावत्त्वात्। विल्ववृक्षे। “अमृ तोद्भवः श्रीवृक्षः शङ्करस्य सदा प्रियः” तद्दानमन्त्रः।

अमृत्यु = पु० अभावे न०। १ मृत्युविगमे। नास्ति मृत्युर्यस्मात्। २ मृत्युहेतुभिन्ने त्रि०। “स्वभानवे श्रवोऽमृत्यु धुक्षत” ऋ० ६, ४८, १२ “अमृत्यु अमरणहेतुं श्रवोऽन्नम्” भा०। मृत्युर्विनाशो नास्त्यस्य। ३ विनाशशून्ये विष्णौ “अमृत्युः सर्ब्बदृक् सिंहः” विष्णुसहस्रनाम।

अमृध्र = त्रि० मृधू उन्दने बा० रक् न० त०। केनाप्यहिंस्ये! “पृथुं मिहोनपातममृध्रम्” ऋ० १, ३७, ११, “अमृध्रं केनाहिंस्यम्” भा०।

अमृषा = अव्य० न० त०। मिथ्याभिन्ने सत्ये। “यथा वृक्षो वन स्पतिस्तथैव पुरुषोऽमृषा” शत० ब्रा०।

अमेधस् = त्रि० नास्ति मेधा धारणावती बुद्धिर्यस्य असिच् समा०। श्रवणमात्रेण विस्मारिणि धारणाशून्यबुद्धिमति मूर्खे।

अमेध्य = त्रि० न मेध्यम् पवित्रम् विरोधे न० त०। अपवित्रे। “अमेध्यादपि काञ्चनम्” “नामेध्यं प्रक्षिपेदग्नौ” इति अमेध्यप्रभवानि च” इति च मनुः। २ पुरीषे न०।

अमेनि = त्रि० मि–नि–न० त०। परिच्छेदाभावे। “मेन्या मेनिरस्यमेनयस्ते सन्तु मेऽस्मानभ्यधारयन्ति” अथ० ५, ६, ९।

अमेय = त्रि० न मेयः। १ परिच्छेत्तुमशक्ये २ ज्ञातुमशक्ये च “अमेयो मितलोकस्त्वभनर्थः प्रार्थनावहः” रघुः ३ “वृषाकपिरमेयात्मा” विष्णुस०।

अमोघ = त्रि० मोघो निष्फलः न० त०। १ सफले, २ अव्यर्थे च। “अमोघासु पतन्तेषु धर्म्मपोतेन सन्तर” भा० शा० प०। “यदमोघमपामन्तरुप्तं वीजमज! त्वया” कुमा० धनुष्यमोघं समधत्त सायकम्” “अमोघाः प्रतिगृह्णन्तावर्घानुपदमाशिषम्” इति च रघुः। ३ नदभेदे पु०। ४ पटोललतायां, हरितक्यां ५ विडङ्गे च स्त्री। ६ विष्णौ पु० “अमोघः पुण्डरीकाक्षः” विष्णु० स० “सत्यकामः सत्यसङ्कल्प” इति श्रुतेः अवितथसङ्कल्पत्वात्तस्य तथात्वम्।

अमोत = न० अमा सह ऊतम् व्ये–क्त। अच्छिन्नदशवस्त्रयुग्मे “अमोतं वासो दद्याद्धिरण्यमपि दक्षिणाम्” अथ० ९, ५, १४

अम्ब = गतौ म्बादि० पर० सक० सेट्। अम्बति आम्बीत् आनम्ब अम्बा अम्बालिका अम्बिका अयमिदित् शब्दे इत्येके।

अम्बक = न० अम्बति शीघ्रं नक्षत्रस्थानपर्य्यन्तं गच्छति अम्ब–ण्वुल्। १ नेत्रे। अम्ब्यते स्नेहेनोपशब्द्यते घञ् स्वार्थे क। २ पितरि।

अम्बर = न० अबि–शब्दे घञ् अम्बः शब्दस्तं राति धत्ते रा–क ६ त०। १ शब्दाश्रये आकाशे २ मर्म्मरशब्दयुक्ते वस्त्रे, स्वनाम ख्याते ३ गन्धद्रव्ये ४ अभ्रकधातौ च। “अङ्कुशाकरायाङ्गुल्या तावतर्जयताम्बरे” इति रघुः “धौतदुकूलवल्कलधवलाम्बर इति काद० “आकाशसाम्यं दधुरम्बराणि” माघः संविव्युरम्बरविकाशि चमूसमुत्थम्” माघः। २ अन्तिके निरु०।

अम्ब(रि)रीष = पु० न० अम्ब्यते पच्यतेऽत्र अम्ब–अरिष नि० वा दीर्घः। (भाजनाखोला) इति ख्याते भर्जनपात्रे। अम्बरीषमपि। “वैश्यकुलाम्बरीषमहानसाद्वा” कात्या० ४, ७, १६,। “अग्निमाहृत्य गार्हपत्यागारे निर्मथ्याभ्यादधीतेति शेषः वैश्यकुलाच्च लौकिकोऽग्निर्हुतोच्छिष्टो वा ग्राह्यः न तु परिगृहीत आवसथ्यादिः। अथवा अम्बरीषात् भ्राष्ट्रात् कन्दुकगृहात् महानसाद्वेति कर्क०। दीर्घयुक्तस्तु २ विष्णौ, ३ शिवे, ४ भास्करे ५ बालके आम्रातकटवृक्षे, ७ नरकभेदे, ८ अनुतापे। ९ सूर्य्यवंश्यनृपभेदे पु० स च। “भगीरथसूतो राजा श्रुत इत्यभिविश्रुतः। नाभागस्तु श्रुतस्यासीत् पुत्रः परमधार्मिकः। अम्बरीषस्तु नाभागिः सिन्धुद्वीपपिताऽभवत्” इति हरिवंशोक्तः सूर्य्यवंश्यभगीरथपौत्रः “अम्बरीष! शुकप्रोक्तं नित्यं भागवतं शृणु। परा० उ०। “मगवान् अम्बरीषश्च ब्राह्मण्यानमितौजसे भा० आवु० प०। “पुण्यश्लोकोऽम्बरीषश्च पुण्यश्लोको युधिष्ठिरः” इति प्रातःस्मरणीययेषु पुरा०।

अम्बरौकस् = पु० अम्बरमोको यस्य। देवेषु तेषां मेरुस्थितत्वेऽपि मेरोः सर्ब्बतः उच्चत्वादस्मदाद्यपेक्षयाम्बरवासित्वम्। तेन आकाशस्य धारणाक्षमत्वेऽपि न क्षतिः। “विलिप्यते मौलिभिरम्बरौकसाम्” कुमा०।

अम्बर = आभरणे कण्ड्वा०। अम्बर्य्यति।

अम्बष्ठ = पु० अम्बाय चिकित्सकबब्दाय तत्प्रख्यापनार्थं तिष्ठतेऽभिप्रैति स्था–क पत्वम्। चिकित्सके “विप्रात् वैश्यकन्यायां जाते १ सङ्कीर्णवर्णे, “ब्राह्मणाद्वैश्यकन्यायामम्बष्ठोनाम जायते मनुः “सजातिजानन्तरजाः षट्सुता द्विजधर्मिण” इति मनूक्तेः “द्विजातीनां समानजातीयासु जाताः तथानुलोम्येनोत्पन्नाः ब्राह्मणेन क्षत्रियावैश्ययोः, क्षत्रियेण वैश्यायामेवं षट् पुत्रा द्विज धर्म्मिणः उपनेयाः ताननन्तरजनाम्न इति यदुक्तं तत् तज्जातिव्यपदेशार्थं न संस्कारार्थमिति कस्यचिद्भ्रमः स्यात् अत एषां द्विजातिसंस्कारार्थवचनमिति” कुल्लू० उक्तेश्च अम्बष्ठादीनामुपनयनसंस्कारसत्त्वेऽपि इदानीन्तनानां संस्कारलोपेन शूद्रत्वम् अतएव इदानीं क्षत्रियादीनां शुद्रत्वमेवमम्बष्ठादीनामपि” इति रघु० ये तु व्रात्यदोषप्रायश्चित्तमाचरन्ति तेषामुपनयनयोग्यता भवत्येव “येषां पित्रादयोप्यनुपनीतास्तेषामापस्तम्बोक्तम् “यस्य पिता पितामहावनुपनीतौ स्यातान्तस्य संवत्सरं त्रैविद्यकम्ब्रह्मचर्य्यं यस्य प्रपितामहादीनां नानुस्मर्य्यते उपनयनन्तस्य द्वादशवार्षिकं त्रैविद्यकम्ब्रह्मचर्य्यमिति” मिता० उक्तेः। “सूतानामश्वसारथ्यमम्बष्ठानां चिकित्सितम्” मनूक्ता तेषां वृत्तिः। २ देशभेदे, ३ हस्तिपके च। ४ यूथिकायां स्त्री। स्वार्थे कनि ह्रस्वे अत इत्त्वे। अम्बष्ठिकाप्यत्रैव (वामनहाटीति) प्रसिद्धायां ५ ब्राह्मीलतायाञ्च।

अम्बष्ठकी = स्त्री अम्बष्ठं कायति आदानार्थमाह्वयति कै–क गौरा० ङीष्। १ (पटाण्डु) इति स्थातायां १ लतायां पाठायाम्।

अम्बष्ठा = स्त्री अम्ब्यते शब्द्यते अम्बा तादृशी सती तिष्ठति स्थाक अम्बा० षत्वम्। (अम्बाडा) इति ख्यातायाम् शठाम्बायाम् (पटांडु) इति हिमगिरिप्रसिद्धायां १ पाठायाम्। २ चाङ्गेर्य्याम्। ३ यूथिकायाञ्च। संज्ञायां कन् अत इत्त्वे। अम्बष्ठिका। (वामन् हाटी) ४ ब्राह्मीलतायाम्।

अम्बा = स्त्री अम्ब्यते स्नेहेनोपगम्यते अम्ब–कर्म्मणि घञ्। १ मातरि, लोके सम्बोधने तदर्थे ह्रस्वः। “कृताञ्जलिस्तत्र यदम्ब! सत्यात्” रघुः। वेदे तु “अम्बेऽम्बालेऽम्बिके पूर्ब्बेति” पा० निर्देशात् न ह्रस्वः। “अम्बे! अम्बिके अम्बालिके! न मानयति कश्चन य० २३, १८। नाट्योक्तावपि तत्रैव, २ अम्बष्ठालतायां, ३ काशीराजकन्यायाञ्च। “अथाश्रौषं महाबाहो तिस्रः कन्याः स्वयम्बराः। रूपेणाप्रतिमा लोके काशीराजसुतास्तदा। अम्बां चैवाम्बिकां चैव तथैवाम्बालिकामिति। राजानश्च समाहूताः पृथिव्यां भरतर्षभ!। “अम्बा ज्येष्ठाभवत्तासामम्बिका त्वथ मध्यमा। अम्बालिका च राजेन्द्र! राजकन्या कनीयसी इत्युपक्रम्य। अम्बाया उपाख्यानं विस्तरेण वर्ण्णितम् भा० उ० प० अम्बोख्याने। “मया सौभपतिः पूर्व्वं मनसा हि वृतः पतिः इत्यन्बि योक्ते “अनुजज्ञे तदा ज्येष्ठामम्बां काशीपतेः सुताम्। अम्बिकाम्बालिके भार्य्ये प्रादात् प्रीत्या यवीयसे। भीष्मो विचित्रवीर्य्याय विधिदृष्टेन कर्मणा” भा० आ० प०।

अम्बाला = स्त्री अम्बेति शब्दं लाति धत्ते ला–क। मातरि।

अम्बालिका = स्त्री अम्बालैव स्वार्थे के ह्रस्वे अत इत्त्वम्। मातरि, १ पाण्डुराजमातरि काशीराजकन्यायां विचित्रवीर्य्यस्य भार्य्यायाम्।

अम्बिका = स्त्री अम्बैव कन्। १ मातरि २ दुर्गायाम् “आशीर्भिरेधयामासुः पुरः। पाकाभिरम्बिकाम्” कुमा०। काशीराजस्य मध्यमकन्यायां विचित्रवीर्य्यस्य भार्य्यायां धृतराष्ट्रस्य २ मातरि।

अम्बिकापति = पु० ६ त०। शिवे।

अ(आ)म्बिकेय = पु० अम्बिकाया अपत्यम् ढ (ठक्) वा। १ गणेशे २ धृतराष्ट्रे च।

***