अभिहत = त्रि० अभि + हन–क्त। १ अभिवातसंयोगवति। “सोदीर्णोमूर्ध्न्यभिहतो वक्त्रमापद्य मारुतः” शिक्षा। २ ता डिते “परस्परेणाभिहता विनेदुः” पु०। ३ गुणिते च। “अत्योन्यहाराभिहतौ हरांशौ” लीला०।
अभिहरण = न० अभि + हृ–ल्युट्। १ आभिमुखाहरणे “कार्मुकाभिहरणाय मैथिलः” रघुः। २ विवाहादौ यौतकदाने च।
अभिहव = पु० अभिहूयते अभि + ह्वे–अप् संप्रसारणञ्च। आभिमुख्येनाह्वाने हु–अप्। २ सर्व्वतोहोमे।
अभिहस्य = त्रि० अभि + हस–यत्। उपहसनोये “यस्ते मदोऽव केशोविकेशो येनाभिहस्यं पुरुषं कृणोषि” अथ० ६, ३०, २, ल्यप्। २ उपहस्येत्यर्थे अव्य०।
अभिहार = पु० अभि + हृ–घञ्। १ अपचिकीर्षया अभिगम्याक्रमणे, २ साक्षाच्चौर्य्ये, ३ अभियोगे, ४ कवचादिधारणे ५ संश्लेषणे ६ मेलने च। “अतिदूरात् सामीप्यादिन्द्रियघातान्मनोनवस्थानात्। सौक्ष्म्याद्व्यवधानादभिभवात् समानाभिहाराच्च” सां० का०। “समानाभिहारात् तोयदविमुक्तानुदविन्दून् जलाशये न पश्यति” सा० कौ०।
अभिहित = त्रि० अभि + वा–क्त। १ अभिधया वृत्त्या बोधिते २ उक्ते। “अभिहिते प्रथमा” वा०। अभिधानञ्च प्रायेण्ण तिङ् कृत्तद्धितसमासैः क्कचिदव्ययेन। तत्तद्गतसंख्याया अभिहितत्वे कर्त्तृकर्मणोरभिहितत्वमिति नैयायिकाः भवति च ग्रामं गच्छति चैत्रः ग्रामो गम्यते चैत्रेणेत्यादौ कर्तृकर्मगतसंख्याया आख्यातेनाभिधानमतस्तत्र प्रथमोपपत्तिः। तथाचास्व्यातार्थसंख्यावत्त्वेन कर्त्तृकर्म्मणोः अभिहितत्वम्। वैयाकरणमते कर्त्तृकर्मणोरेव आख्यातेनाभिधानमिति भेदः। “अनभिहिते” पा० अनभिहिते इत्यधिकाये कर्मादौ द्वितीयादि “इति प्रविश्याभिहिता द्विजन्मना” कु० अस्य वच्यर्थकतया गौणे कर्मणि क्त। वचनोद्देश्यत्वेन तस्याः कर्म्मत्वादुक्तता। गौणकर्म्मणोऽप्रयोगे तु मुख्यकर्म्मणोवचनादेरुक्तता। “वासुदेवेनाभिहिते वाक्ये तेन महात्मना” भा० उ० प०।
अभिहितान्वय = अभिहितानामन्वयः। अभिभावृत्त्या(शक्त्या)उप स्थापितानामर्थानां परस्परसंबन्धे। तथा हि अभिधावृत्त्या पदार्थबोधने द्विधा प्रकारः। अन्विताभिधानम् अभिहितान्वयश्च तत्र मोमांसका एवमाहुः “सर्वेषां शब्दानां व्यवहारादेव प्रथमं व्युत्पत्तिर्गृह्यते इतरोपायानां शब्दव्युत्पत्त्यघीनत्वात्। तथा हि प्रयोजकस्य वाक्योच्चारणानन्तरं प्रयोज्यप्रवृत्तिमुपलभमानो बालः प्रेक्षावद्वाक्योच्चारणस्य प्रयोजनजिज्ञासायां तदन्तयव्यतिरेकानुबिधायित्वादुपस्थितत्वाच्च प्रयोज्यवृद्धप्रवृत्तिरेव प्रयोजनमवधारयति न चाकिञ्चित्कुर्व्वतस्तादर्थ्यं सम्भवतीति तद्वाक्यजन्यं प्रवृत्त्यनुकूलं कार्य्यताज्ञानमेव कल्पयति स्वप्रवृत्तौ बालेन कार्यताज्ञानस्य हेतुत्वावधारणात् तथा च प्रेक्षावत् प्रवृत्तिः कार्यताज्ञानाधीना प्रवृत्तित्वात् मदीयप्रवृत्तिवदित्यनुमीषते तत्र कारणान्तरानुपस्थितेः शब्दस्यैवोपस्थितेस्तस्यैव कार्यताज्ञानहेतुत्वमवधार्य्य तत्रैव शक्तिं कलायति पश्चाच्चान्वयव्यतिरेकाभ्यां क्रियाकारकपदानां कार्य्यान्विततत्तदर्थेषु शक्तिं गृह्णाति प्रथमं गृहीतसामान्यशक्त्यनुरोधात्। ततश्च पदं कार्य्यान्वितज्ञानशक्तं पदत्वादिति सामान्यतोऽवगतः स्वार्थः, विशेषः नरं नाधिगनः स च उत्तरकाले सुहृदुपदेशादिभिरव गम्यते। अतः प्रवृत्तिपराणामेब शब्दानां प्रवर्त्तकज्ञानजनकत्वम् तच्च क्कचित् साक्षात् क्वचित्परम्परया कार्य्यान्वितम् तत्र साक्षात् यजेत घटमानयेत्यादौ वाक्ये। विधिशेषीभूतार्थबादादौ तु परम्परया। कार्य्यान्वय इति सर्व्वत्र वेदे काय्यान्वितस्वार्थबोधकता स्वरूपाख्यानपराणान्तु काव्यनाटकादेनां पदार्थासंसर्गाग्रहेण संसर्गस्य व्यवहारः न तु संसर्गग्रहेण, तथा च व्यवहारेणैवानुमिते इतरान्वितज्ञाने करणत्वग्रहात् तत्रैव शक्तिर्गृह्यते उपस्थितत्वात् नचाग्रे तत्त्यागः हेत्वभावात्। न तु पदार्थमात्रे शक्तिग्रहः व्यवहारात्तस्यानुपस्थितेः उपायान्तरात्तदुपस्थित्त्यन्तरकल्पने मानाभावात। एवञ्च इतरान्वितस्वार्थ ज्ञानशक्तत्वेन ज्ञात पद स्वार्थान्वयानुभावकमिति वाक्यार्थ एव शक्त्याऽभिधीयते इत्यन्विताभिधानवादिनः”। अभिहितान्वयवादिनस्तु नैयायिकादयस्तेषामयमाशयः। इतरा- न्वितपदार्थज्ञानोपस्थितौ पदार्थज्ञानं विशेष्यमिति तदुपस्थितौ पदार्थस्य विषयत्वात् विशिष्टज्ञानस्य विशेष्यविषयत्वनियमादिति तत्रैब शक्तिः कल्प्यते लाघवात् नत्वऽन्वयांशेऽपि गौरबात् अस्तु वा प्रथममितरान्विते शक्ति ग्रहोऽग्रे तस्य त्यागः आकाङ्क्षायोग्यतादिलभ्यत्वप्रतिसन्धानात् अनन्यलभ्यस्यैव शब्दार्थत्वात् प्रथम गृहीतत्वमात्रस्याकिञ्चित्करत्वात् तथा च घटशक्तत्वेनज्ञातं पदं स्वार्थस्मरणद्वाराकाङ्क्षादिसहकारिवशात् समभिव्याहृतपदार्थेन सहस्वार्थस्यान्वयमनुभावयति स्वभावादित्यन्यथैवान्वयज्ञानोदयात् किं तत्र शक्त्या, अन्वयमात्रशक्तावपि अन्वयविशेषज्ञानार्थमाकाङ्क्षादेरवश्यमपेक्षणात् तैरेव सहकारिभिरन्वयविशेषावगमसम्भवात्। क्रियाकारकपदयोः प्रत्येकमितरान्वितस्वार्थबोधकत्वेऽवान्तरवाक्यार्थद्वयबोधप्रसङ्गात्। न चैकमेव पदमन्विताभिधायकमितरत्तु अन्वयप्रतियोगिस्मारकमिति वाच्यम् अविशेषात् कस्याभिधायकत्वमित्यनिर्ण्णयात्। किञ्च किमशक्ययोरेवान्वये शक्तिः? उत शक्ययोः? आद्ये यस्य कस्यापि अन्वयबोधकत्वापत्तेरतिप्रसङ्गः स्यात् तथा च शक्यान्वयाभिधायकत्वं वाच्यं एवं च शक्ये शक्यान्वये च द्विधा शक्तिः कल्पनीयेति गौरवम्। अथ अन्वयतात्पर्य्यकतया तत्प्रतिपादकं पदमित्युभयसस्मतम् तात्पर्य्यनिर्वाहिका च वृत्तिः सा च न गौणी न वा लक्षणेति अगत्या शक्तिः स्वीकार्य्योति चेत् वृत्तिं विनापि तात्पर्य्यनिर्वाहात् किं वृत्त्या, पदानामुक्तक्रमेणान्वयबोधकत्वसम्भवात् अन्यथा शक्त्यैव तात्पर्य्यनिर्वाहावश्यम्भावे लक्षणोच्छेदः स्यात्। अथ घटमानयेत्यादौ प्रत्येकमन्वये सत्येव विशेषान्वयसामान्ये जिज्ञासा भवति न च सामान्यानवगमे विशेषे सा स्थादित्यतस्तत्र शक्तिरिति चेन्न कारकेण क्रियायाः क्रियया च कारकस्य सामान्यत आक्षेपात् दृष्टे फले तदीयरसजिज्ञासावत् तदुपपत्तेः ततश्च पदार्थे एव शक्तिः न पदार्थान्वयांशे तस्मात् पदज्ञानं करणं पदार्थस्मरणं व्यापारः आकाङ्क्षादिसहकारात् स्मारितपदार्थान्वयानुभवः फलमिति”।
अभिहूति = स्त्री अभि + ह्वे–क्तिन्। आभिमुख्येनाह्वाने।
अभिह्रत् = त्रि० अभि + हृ–कर्मणि अति वेदे पृ० न गुणः। आभिमुख्येन ह्रियमाणे। “दुरितादमिह्रतः शंसादघादभिह्रतः” ऋ० १, १२८, ५ “अभिह्रत आभिमुख्येन ह्रियमाणान्” भा०।
अभिह्वर् = त्रि० अभि + ह्वृ–विच्। १ कुटिलगन्तरि “नाभि- ह्वरे पदं निदधाति मृत्यवे” अथ० ६, ७६, ३ अभि + ह्वृकर्म्मणि अप्। अभिह्वरः उपह्वरे गन्तव्यदेशादौ।
अभिह्व्रत् = त्रि० ह्वृ कौटिल्ये कर्त्तरि अति पृ०। आभिमुख्येन कुटिलं कुर्ब्बति “निनित्सोरभिह्व्रतामसि” ऋ० १, १८९, ६, “अभिह्व्रतामाभिमुख्येन कुटिलं कुर्व्वताम्” भा०।
अभिहूति = स्त्री अभि + ह्वृ–क्तिच् वेदे पृ०। कुटिलस्वभावे। “शतभुजिभिस्तमभिह्वुतेरघाते” ऋ० १, १६६, ८ “अभिह्वुतेः कुटिलस्वभावात्” भा०।
अभी = त्रि० नास्ति भीर्यस्य। भयशून्ये। कप्। अभीकोऽप्यत्र
अभीक = त्रि० अभि + कन् “अनुकाभिकाभीकाः कमयिता” पा० नि०। १ कामयमाने “मेदस्विनः सरभसोपगतानभीकान्” माघः। २ क्रूरे ३ उत्सुके च। आभिमुख्येन कायति प्रकाशते दीर्घः। ४ समीपे “प्रतङ्गावयो वहन्त्वरुषामभीके” ऋ० १, ११८, ५, “अभीकेगृहसमीपे” भा०। ४ अभि + इण + कक्। ५ अभिगते त्रि० “यामन्नुरुष्यतामभीके” ऋ० ७, ८६, १, “अभीके अभिगते” भा०। ६ कवौ ७ स्वामिनि च त्रि०।
अभीक्ष्ण = त्रि० अभि + क्ष्णु–तेजने बा० ड पृ० दीर्घः अभिगतः क्षणं बा पृ०। १ सन्तते २ भृशे च। ३ क्रियापौनःपुन्ये” न०। “महारण्यमनभीक्ष्णोपसेवितम्” रामा०। अभीक्ष्णस्य भावः ष्यञ्। आभीक्ष्ण्यम् सन्ततभावे “नित्यबीप्सायोः” पा० “आभीक्ष्णये” इति सि० कौ०।
अभीक्ष्णम् = अव्य० अभि + क्ष्णु–बा० डमु पृ० दोर्घः। पौनःपुन्येस्वरादि। “अभीक्ष्णमक्षुण्णतयाऽतिदुर्गमम्” माघः।
अभीत = त्रि० अभि + इण–क्त न० त०। १ अभिगते। न भीतः विरोधे न० त०। २ भीतभिन्ने उत्साहान्विते त्रि०।
अभीति = स्त्री अभावे न० त०। १ भयाभावे २ तद्दानार्थायाम् अभयमुद्रायाञ्च। “परशुगृगवराभीतिहस्तं प्रसन्नम्” शिवध्यानम्। ६ त०। ३ भीतिशून्ये त्रि०। अभि + इणक्तिन्। अभिगमने ४ “अभीतिमर्य्ये” इति ऋ० ७, २१, ९। “अभीतिमभिगमनम्” भा०। कर्मणि क्तिन्। ५ समीपे।
अभीपत् = त्रि० अभि + पत–क्विप् दीर्घः। अभिगमनकर्त्तरि। “अभीपतोवृष्टिभिस्तर्पयन्तम् ऋ० १, १६४, ५२, “अभीपतोऽभिगमनवतः” भा०।
अभीप्सित = त्रि० अभि + आप + सन–क्त। १ अभीष्टे अभिलषिते।
अभीप्सु = त्रि० अभि + आप + सन्–उ। अभिलाषुके।
अभीम = त्रि० विरोधे न० त०। १ भयानकमिन्ने सौम्ये।
अभीमान = पु० अभि + मन–क्विप् वा दीर्घः। अभिमानशब्दार्थे
अभीर = पु० अभिमुखीकृत्य ईरयति गाः अभि + ईरः अच्। गीपे जातिवाचकादन्तशब्दत्वेन ततः स्त्रियां ङीप्।
अभीरु(लु) = त्रि० न० त०। १ भीरु(लु)भिन्ने युद्धादाबुत्साहान्वित। “स्थाने युद्धे च कुशलानभीरूनविकारिणः” मनुः “ते वाशीमत इष्मिणो अभीरवः” ऋ० १, ८७, ६। २ वटुकभैरवे पु० “अभीरुर्भैरवो भीरुर्भूतपोयोगिनीपतिः” वटुकस्तवः ७ त०। युद्धस्थाने न०। शतमूल्यां स्त्री असङ्कुचितपत्रत्वात्तथात्वम्। वा ऊङ्। अभीरूः शतमूल्याम्। “अभीरूमिसिसिन्धूथवत्सकोशीरपद्मकैः” सुश्रुतः।
अभीरुण = अभि + रु–बा० उनन् दीर्घः। १ अभिमुखे “यच्चाभिदुद्रोहानृतं यच्च शेपे अभीरुणम्” श्रुतिः।
अभीरुपवी = स्त्री न भीरूणि असंकुचितत्वात् पत्राण्यस्याः जातौ ङीप्। शतमूल्याम्।
अभील = न० अभि + ईर–अच् रस्य लः। १ कष्टे २ भयानके ३ तद्वति। त्रि०
अभीलाप = पु० अभि + लप–भावे षञ् दीर्घः। अभिमुखकथनरूपे शब्दे। “आलापाश्च प्रलापाश्चाभीलापलपश्च ये” अथ० ११, ८, २५ लप् लपनं भावे क्विप् ततोद्वन्द्वः। तेन लपनालापप्रलापाभीलापाश्चत्वार इह उक्ताः। अभीलापलप् इति शब्दकल्पनं भ्रमविजृम्भितम्।
अभीवर्ग = पु० अभि + वृज–आधारे घञ्। अभिमुखसंघे “अहं राष्ट्रस्याभीवर्गे निजोभूयासमुत्तमः” अथ० ३, ५, २०।
अभीवर्त्त = पु० अभिवर्त्तन्ते गच्छन्ति स्वर्गमनेन अभि + वृत–करणे घञ्। १ ब्रह्मसामनि तच्च “उदञ्चमृतीषाहमित्यस्यां योना वुत्पन्नं ब्राह्मणाच्छंसिनऋत्विगभेदस्य पृष्ठ्यस्त्रोत्रम्। “अभीवर्त्तोब्रह्मसाम भवति अभीवर्त्तेन वै देवाः स्वर्गं लोकमभ्यवर्त्तन्त यदभ्यवर्त्तन्त तदभीवर्त्तो ब्रह्मसाम भवति स्वर्गस्य लोकस्याभिवृत्त्यै” ता० ब्रा०। “अभिवृत्तिसाधनत्वादस्य साम्रोऽभीवर्त्तसंज्ञा निष्पन्ना” भा०। “तदभीवर्त्तस्याभीवर्त्तत्वमिति सांख्यायनसू०। एतदभोवर्त्ताख्यं सान पूर्ब्बस्मिन् पक्षसि विद्यमानानामाभिप्लविकानामह्नां स्वरसान्नां च माध्यन्दिने सवने यजमानान्वारब्धेन ब्रह्मणा पृष्ठस्त्रोत्रतया कर्त्तव्यं, तथा उत्तरस्मिन् पक्षसि “इन्द्रक्रतुन्न आभरे” त्येक एव प्रगाथः ब्रह्मसामाश्रयः कर्त्तव्यः। प्रत्यहं च तस्मिन् प्रगाथे अन्यदन्यत्साम ब्रह्मणा पृष्ठ्यस्त्रोत्रार्थं कर्त्तव्यम् इति” ता० ब्रा० भा०। २ संवत्सरे। “अभीवर्त्तंः सविंशः” यजु० १४, २३। अभिवर्त्त्यते आबर्त्त्यत इत्यभोवर्त्तः सामावृत्तिरूपः स विंशः स्तोमः यद्वा अभिवर्त्तयत्यावत्त यति सर्वाणि भूतानीत्यभीवर्त्तः सवत्सरः “उपसर्गस्य घञ्यमनुष्ये बहुलमिति पा० दीर्घः। द्वादशमाससप्तर्त्तुसंवत्सररूपविंशतिसङ्ख्यया सहितः सविंशः। य एष सविंशस्तोमः तमुपदधातीत्यर्थः “संवत्सरो वा अभीवर्त्तः इति संवत्सरो हि सर्वाणि भूतान्यभिवर्त्तते” श्रुतिः वे० दी०। ३ अभीवर्त्तेनेत्यादिके सूक्ते “अथैनं सारयमाणमुपारुह्याभीर्वतं वाचयति” आश्व० गृ०। ४ अभिवृत्तिसाधने हविर्भेदे च। “अभीवर्त्तेन हविषा येनेन्द्रो अभिवावृते” ऋ० १०, १७४, १।
अभीशु = पु० अभि + अश–उन् पृ० अत इत्त्वम्। १ वाहौ “अभीशवोऽभ्यश्नुवते कर्म्मणि” निरु०। २ अश्वरज्जौ। “स्थिरा वसन्तु नेयोरथो अश्वा स एषां सुसंस्कृता अभीशवः” ऋ० १, १३८, १२,। ३ किरणे “प्रफुल्लतापिञ्छनिभैरभीशुभिः” माघः “सुयन्तुभिः सर्वशासैरभीशुभिः” ऋ० ५, ४४, ४, अभीशुभिः रश्मिभिः” भा०। ४ “अङ्गुलौ च अभीशवोऽङ्गुलयः” ऋ० भा० उक्तेः।
अभीशुमत् = पु० अभीशवः किरणा बाहुल्येन सन्त्यस्य मतुप्। सूर्य्ये “क्षितिपःक्षिप्तुरभीशुमानिव” माघः।
अभीषङ्ग = पु० अभि + सन्ज–घञ् दीर्घः। अभिषङ्गशब्दार्थे।
अभीषु = पु० अभि + इष + कु। १ किरणे (लागाम) इति ख्याते २ प्रग्रहे, ३ कामे, ४ अनुरागे च। सर्वे कोषकारा मूर्द्ध न्यान्ततया पेठुः लोकवेदयोस्तु तालव्यान्तप्रयोगः” मल्लि०।
अभीष्ट = त्रि० अभि + इष–क्त। १ वाञ्छिते, २ दयिते, ३ हृद्ये च “स्नातकं गुरुमभीष्टमृत्विजम्” माघः। “आत्मानमखिलाधारमाश्रयेऽभीष्टसिद्धये” वे० सा०।
अभुक्त = त्रि० भुज–कर्म्मणि क्त न० त०। १ “अभक्षिते अन्नादौ २ अकृतभोगे पुण्यादौ च। “नाभुक्तं क्षीयते कर्म्म कल्पकोटिशतैरपि” पुरा०। भोगश्च भोजनीयद्रव्याहारः कर्म्मकृतसुखदुः स्वानुभवश्च।। भुक्तं भोजनं भावे क्त अर्शा० अच् न० त०। ३ भुक्तवद्भिन्ने “भुक्ताब्राह्मणाः पीता गाव इति अर्श आद्यच” पा० भाष्यम्। मुग्धबोधे तु कर्त्तरि क्त इत्युक्तम्। “अभुक्तौ ह्यतिथिर्व्रजन्” स्मृतिः “अभुक्तस्य दिवा निद्रा पाषाणमपि जीर्य्यति” वैद्य०।
अभुक्तमूल = न० “भुजङ्गपौरन्दरपौष्णभानां तदग्रभानाञ्च यदन्तरालम्। अभुक्तमूलं प्रहरप्रमाणं त्यजेत् सुतं तत्रभवां सुताञ्च” इति नार०। “ज्येष्ठान्ते घटिके द्धे च मूलाद्य घटिकाद्वयम्। अभुक्तमूलमित्याहुर्ज्जातं तत्र विवर्ज्जयेत्” वशि० ज्येष्ठान्त्यघटिकार्द्धञ्च मूलादौ घटिकार्द्धकम्। तयोरन्तर्गता नाडी ह्यभुक्तमूलमुच्यते” इति वृह० प० उक्ते ज्येष्ठामूलानक्षत्रयोराद्यन्तघटिकाविशेषे।
अभुज् = त्रि० न भुङ्क्ते भुज–क्विप् न० त०। अभक्षके। “नम आशृणोः किमभुग्वदामि” ऋ० १०, ९५, ११।
अभूत = त्रि० न भूतः। भूतशब्दार्थभिन्ने। “अभूतमासज्य विरुद्वमीहितम्” माघः। २ मिध्याभूते ३ अविद्यमाने च
अभूततद्भाव = पु० अभूतस्य प्रकृतिरूपेणानाविर्भूतस्य तेन रूपेण भावः। यः कश्चित् पदार्थः येन रूपेण प्रागभूतस्तेन रूपेण तस्याविर्भावे। यथा मृत्तिका घटीभवति। “कृभ्वस्तियोगे सम्पद्ये कर्त्तरि च” पा० “अभूततद्भावे इति वक्तव्यम्” वा०।
अभूताभिनिवेश = पु० अभूतेऽसत्येऽभिनिवेशः। असत्ये सत्यत्वाभिमाने।
अभूति = स्त्री अभावे न० त०। १ भवनाभावे “तस्य ह न देवाश्च नाभूत्या ईशते” शत० ब्रा०। “अभूत्यै अभवनाय” भा० ३ सम्पत्त्यभावे” “ध्वजाश्चापि व्यशीर्य्यन्त भरतानामभूतये” भा० श० प०। न० ब०। भूतिशून्ये त्रि०।
अभूमन् = पु० विरोधे न० त०। १ भूरिभिन्ने स्वल्पे।
अभूमि = स्त्री न० त०। १ अनाश्रमे अविषये “अभूदभूमिः प्रतिपक्षजन्मनां भियामिति” माघः “अभूमिरियमपनयस्य” शकु० “नाभूदभूमिः स्मरशायकानाम्” नैष०। “सखलु मनोरथानामप्यभूमिर्विसर्जनावसरसत्कारः” इति शकु०। अप्राशस्त्ये न० त०। अप्रशस्तभूमौ। न० ब०। भूमिशून्ये त्रि०।
अभूमिज = त्रि० न० त०। १ भूमिजभिन्ने आकाशजे जलादौ २ अप्रशस्तभूमौ उत्पन्ने धान्यादौ च। “अभूमिजं नवञ्चापि न धान्यं गुणवत् स्मृतमिति” सुश्रुतः।
अभूयिष्ठ = त्रि० विरोधे न० त०। भूरिभिन्ने अल्पे।
अभूषित = त्रि० विरोधे न० त०। भूषितभिन्ने अपरिष्कृते
अभृत = त्रि० न भृतः। १ अप्राप्तवेतने। गोस्वाम्यनुमते भृत्यः “सा स्यात् पालेऽभृते भृतिः” मनुः २ अपुष्टे च।
अभृश = त्रि० न० त०। १ भृशभिन्ने मन्दे अल्पे०।
अभेद = पु० अभावे न० त०। भेदाभावे ऐक्ये “गतयोरभेदमिति सैन्ययोस्तयोः” माघः “अभेदः शिवरामयोः” पुरा० “रलयोर्दलयोश्चैव जययोर्बवयोरपि। शसयोर्णनयोश्चान्ते सविसर्गाविसर्गयोः। सविन्दुकाविन्दुकयोः स्यादभेदेन कल्पनम्” आलङ्कारिकाः “गुणगुणिनोः क्रियाक्रियावतोश्चाभेद” इति सांख्यादयः। अभेदश्च भेदाभाव इति बहवः। तादात्म्यमिति तु साङ्ख्यादयः। तादात्म्यञ्च तत्सत्त्वनियतसत्ताकत्वं तेन गुणगुणिनोः क्रियाक्रियावतोरपि तादात्म्य गुणक्रिययोर्द्रव्यनियतसत्ताकत्वात् अतएव वेदान्तपरिभाषायोम सत्यैक्ये मिथोभेदस्त दात्म्यमित्युक्तं द्रव्यगुण- योर्मिथोभेदसत्त्वेऽपि तत्सत्त्वनियतसत्ताकत्वात् तथात्वम्।
अभेद्य = त्रि० भेत्तुं शक्यते भिद–शक्यार्थे ण्यत् न० त०। १ भेत्तुमशक्ये “अभेद्यकवचं दधे” भा० द्रो० प०। २ हीरके न० तस्य केनापि धातुना भेत्तुमशक्यत्वात् तथात्वम्।
अभोक्तव्य = त्रि० न भोक्तुमर्हम् स्मृत्यादिनिषिद्धत्वात्। अभक्ष्ये। तच्चाभक्ष्यशब्दे २७४ पृष्ठे दर्शितम्।
अभोक्तृ = त्रि० न भोक्ता स्त्रियां ङीप्। भोक्तृभिन्ने।
अभोग = पु० अभावे न० त०। १ भोगाभावे न० ब०। २ भोगशून्ये त्रि०
अभोजन = न० अभावे न० त०। भोजनाभावे उपवामे “स्नातकव्रतलोपे च प्रायश्चित्तमभोजनम्” “यतात्मनोऽप्रमत्तस्य द्वादशाहमभोजनम्” इति च मनुः। भोजनाभावश्च भोजनविषयकनिवृत्तिरिति मीमांसकाः भोजनात्यन्ताभाव इति नैयायिकाः अत्यन्ताभवस्य क्षैमिकजन्यत्वाङ्गीकाराच्च कृतिसाध्यत्वमिति विवेकः। भोजनाभावश्च भोजने क्वचिद्रागाभावेन रोगेण वा, क्वचिच्च शास्त्रादितो भोजने बलवदनिष्टसाधनत्वज्ञानेन विरोधात् इष्टसाधनताज्ञानानुदयेन, यथा न कलञ्जं भक्षयेदित्यादौ। क्वचिच्च व्रतरूपे भोजनाभावे इष्टसाधनताज्ञानेन। स च भोजननिवृत्तिस्तदन्त्याभावो वेत्युक्तम्। विस्तरस्तु निषेधनिषेधविधिशब्दयोर्दृश्यः। “अजीर्ण्णे भोजनं येषां जीर्ण्णे येषामभोजनम् रात्रावभोजनं येषां तेषां नश्यन्ति धातव” इति वैद्य०। न० ब०। २ भोजनशून्ये त्रि०।
अभोज्य = त्रि० न भोक्तु शक्यं निषिद्धत्वात्। अभक्ष्ये तत् स्वामिनि उपचारात् “अभोज्यानान्तु भुक्त्वान्नमिति” मनुः अभक्ष्यशब्दे २७४ पृष्ठे विवरणम्।
अभोज्यान्न = त्रि० न० भोज्यमन्नं यस्य स्मृतिनिषिद्धत्वात्। अभक्ष्यान्नस्वामिनि ते च अभक्ष्यशब्दे २७४ पृष्ठे उक्ताः। “य एतेऽन्ये त्वभोज्यान्नाः क्रमशः परिकोर्त्तिताः” मनुः।
अभौम = न० भूमो भवम् न० त०। भौमभिन्ने नाभसजलादौ विररणं जलशब्दे “अभौममम्भोविसृजन्ति मेघाः” इति पुरा०
अभ्यक्त = त्रि० अभि + अन्ज–क्त। १ कृततैलाद्यभ्यङ्गे २ अभितोलिप्ते च।
अभ्यग्र = त्रि० अभिमुखमग्रं यस्य। आसन्ने निकटे।
अभ्यङ्ग = पु० अभि + अन्ज–घञ् कुत्वम्। तैलादिमर्द्दने। “मूर्ध्नि दत्तं यदा तैलं भवेत् सर्वाङ्गसङ्गतम्। स्रोतोमिस्तर्पयेत् बाहू अभ्यङ्गः स उदाहृतः” “तैलमल्पं यदाङ्गेषु न च स्याद्बाहुतर्पणम्। संमार्ष्टिबहुशोऽभ्यङ्गोमस्तकादौ प्रकीर्त्तितः” इति चवैद्यकोक्ते २ विशेषाभ्यङ्गे च। “तैलाभ्य- ङ्गनिषेधे तु तिलतैलं निषिध्यते”। “अतैलं सार्षपं तैलं यत् तैलं पुष्पवासितम्। अंदुष्टं पक्वतैलञ्च स्नानाभ्यङ्गेषु नित्यश” इति च ति० त० स्मृतिः। “अभ्यङ्गनेपथ्य मलञ्चकार” कुमा०। “अभ्यङ्गमञ्जनञ्चाक्ष्णोरुपानच्छत्रधारणमिति” मनुः। “अभ्यङ्गमाचरेन्नित्यं सजराश्रमवातहम्”। “शिरःश्रवणपादेषु तं विशेषेण शोलयेत्” वैद्य०।
अभ्यञ्जन = न० अभि + अन्ज–भावे ल्युट्। अभ्यङ्गशब्दार्थे “भोजनाभ्यञ्जनाद्दानात् यदन्यत् कुरुते तिलैः” मनुः। “ताम्बूलाभ्यञ्जनं चैव कांस्यपात्रे च भोजनम्। यतिश्च ब्रह्मचारी च विधवा च विववर्जयेत्” शु० त० प्रचेताः। करणे ल्युट्। २ नेत्रादौ कज्वलादिदाने। ३ तत्साधने द्रव्ये। अभि + अन्ज–णिच् ल्युट्। अभ्यञ्जनसाधनव्यापारे “अभ्यञ्जनं स्नापनञ्च गात्रोत्सादनमेव च। गुरुपत्न्या न कार्य्याणि” मनुः।
अभ्यञ्जनीय = त्रि० अभि + अन्ज–कर्मणि अनीयर्। १ अनुलेप्ये चन्दनादौ २ मर्द्दनीये तैलघृतादौ च “एतदभ्यञ्जनीयं घृतमिति” दुर्गोत्सवपूजापद्धतिः”।
अभ्यधिक = त्रि० भृशमधिकः प्रा० स०। उत्कृष्टतमे। “अयं वै नः श्रेष्ठ” इति वृ० उ० भाष्ये श्रेष्ठः प्रशस्मतमः अध्यधिकैति व्याख्यानात् तथात्वम्। “न त्वत्समोऽस्त्यभ्यधिकः कुतोन्यः” गीता। २ अधिकपरिमाणे “धान्यं दशभ्यः कुम्भेभ्योहरतोऽभ्यधिकं वधः” “तथा धरिम (पल) मेयानां शतादभ्याधिके बधः” इति। “पञ्चपलतस्त्वभ्यधिके हस्तच्छेदनमिष्यते” इति च मनुः।
अभ्यध्व = अव्य० अध्वनोऽभिमुखम् अव्ययी० अच्समा०। मार्गाभिमुखे “संस्थितेऽध्वर्युराहवनीयसमीपे स्थित्वाऽभ्यध्वं शम्यां प्रास्यति” कात्या० २४, ५, ३५, “अभ्यध्वं मार्गाभिमुखम्” कर्कः। “ययोरभ्यध्वे उत यद्दरे चित्” “अथ० ४, २८, २” तृतीयासप्तम्योर्ब्बहुलम्” पा० वा नाम्
अभ्यक्ष्ण = पु० स्मभि–अक्ष–अच् पृ०। तिलकल्के। (खलि)
अभ्यनुज्ञा = स्त्री० अभि + अनु + ज्ञा–अङ्। अनुज्ञायाम् इदं कुरु इत्यादिना प्रवर्त्तने “कृताभ्यनुज्ञा गुरुणा गरीयसा” कुमा० “पपौ वशिष्ठेन कृताभ्यनुज्ञः” रघुः।
अभ्यनुज्ञात = त्रि० अभि + अनु + ज्ञा–क्त। इदं कुरु इत्याद्युक्त्वा नियोजिते आभिमुख्येनानुज्ञाते।
अभ्यनुज्ञान = न० अभि + अनु + ज्ञा–भावे ल्युट्। १ अनुज्ञायाम् इदं कुरु इत्याद्युक्त्या नियोजनभेदे। “भरद्वाजाभ्य- नुज्ञानाच्चित्रकूटस्य दर्शनम्” रामा०।
अभ्यनूक्त = त्रि० अभि + अनु + वच–क्त। १ आभिमुख्येन अनूक्ते २ प्रकाशिते च
अभ्यन्तर = न० अभिगतमन्तरम्। १ अन्तराले, मध्यस्थाने। “नवोटजाभ्यन्तरसम्भृतानलम्” कुमा०। “प्रदीपः स्नेहमादत्ते दशयाभ्यन्तरस्थया” “शमीमिवाभ्यन्तरलीनपावकाम्” इति च रघुः। “ब्रह्मद्विट्परिवित्तिश्च गणाभ्यन्तर एव च” मनुः। २ उभयोर्मध्ये ३ अन्तःकरणे च। अभ्यन्तरे भवः अण् आभ्यन्तरम्। अन्तःकरणस्थे त्रि० “शौचन्तु द्विविधं प्रोक्तं वाह्यमाभ्यन्तरं तथा। मृज्जलाभ्यां स्मृतं वाह्यं भावशुद्धिस्तथान्तरम्। अशौचाद्धि वरं वाह्यं तस्मादाभ्यन्तरं वरम्” दक्षः।
अभ्यन्तराराम = त्रि० अभ्यन्तरे सर्व्वाभ्यन्तरे परमात्मनि आरमति कर्त्तरि घञ्। आत्मारामे आत्मज्ञे योगिनि “आत्मनश्च “इन्द्रियेभ्यः प्ररा ह्यर्था ह्यर्थेभ्यश्च परं मनः। मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान् परः। महतः परमव्यक्तमव्यक्तात् पुरुषः परः” इति गीतावाक्येन अन्तर्यामिब्राह्मणेन १२० पृष्ठे दर्शितेन च सर्व्वाभ्यन्तरवर्त्तित्वम्।
अभ्यमन = न० अभितः अमनम् अम–गत्यादौ मावे ल्युट्। १ अभिगमने। चु० अम–ल्युट् अमन्तत्वात् ह्रस्वः। २। रोगे, करणेल्युट्। ३ तत्साधने अहितसेवने च।
अभ्यमित = त्रि० उभि + चु० + अम–कर्मणि क्त। १ रुग्णे २ पीडिते च। वा नि०। अभ्यान्तोऽप्यत्रैव “बहुभिस्तेन चाभ्यान्तस्तं विव्याध ततोऽधिकैः” भा० द्रो० प०।
अभ्यमित्र = अव्य० अमित्रस्यामिमुख्यम् अव्ययी०। अमित्रस्य शत्रोराभिमुख्ये। अमित्रमलंगामीत्यर्थे “अलं गामीत्यधिकारे “अभ्यमित्राच्छ च” पा० छ अभ्यमित्रीयः चात् खयतौ अभ्यमित्रीणः अभ्यमित्र्यः। सामर्थ्येन शत्रोरभिमुखगामिनि वीरे पु०। “मारीचोऽनुनयंस्त्रासादभ्यमित्र्योभवामि ते” “उद्योगमम्यमित्रीणोयथेष्टं त्वञ्च सन्तनु” इति च भट्टिः।
अभ्यमिन् = त्रि० अभि + चु० + रोगे–अम–कर्त्तरि अमन्तत्वात् ह्रस्वः णिनि। १ रोगयुक्ते २ आभिमुख्येन पीडके।
अभ्यय = पु० अभितः सर्व्वतः अयः निष्क्रमः इण–अच्। १ अस्तमये “आदित्याभ्ययेऽहुतायामपि” कात्या० ८, ९, १३ “वपाहोमात् पूर्व्वमादित्यास्तमये” कर्कः। २ अपगमे च “तमोऽभ्यये सायं जुहुयात्” कात्या० ४, १५, १३ तमसोऽन्धकारस्याभ्ययेऽपगमे” कर्कः।
अभ्यर्चन = न० अभि + अर्च–ल्युट्। १ समन्तात्पूजने २ आभिमुख्यार्थं पूजने च। “नित्यं–स्नात्वा शुचिः कुर्य्यादित्युपक्रमे “देवताभ्यर्चनञ्चैव” मनुः। भावे अ। अभ्यर्चाप्यत्र स्त्री।
अभ्यर्च्य = त्रि० अभि + अर्च–कर्म्मणि ण्यत्। १ अभितः पूजनीये “देवाग्नयः सदाभ्यर्च्यागृहस्थैस्तु विशेषतः” पु०। ल्यप्। २ आभिमुख्येन पूजयित्वेत्यर्थे अव्य० “देवान् पितॄन् समभ्यर्च्य खादन् मांसं न दोषभाक्” मनुः।
अभ्यर्ण = त्रि० अभि + अर्द्द–कर्मणि क्त आविदूर्थे इडभावे नि० नत्वम्। समीपे। “कालोऽभ्यर्ण्णजलागमः कुशलिनोवत्सस्य वार्त्तापि न” सा० द०। “अभ्यर्ण्णमागस्कृतमस्पृशद्भिः” रघुः। “कृष्णार्ण्णवाभ्यर्ण्णचरैकहंसः” प्रतप्तमभ्यर्ण्णतया विवस्वता” इति च माघः।
अभ्यर्थना = स्त्री ऐ + अर्थ–भावे युच्। आभिमुस्त्येन प्रार्थने “अभ्यर्थनाभङ्गभयेन साधुर्माध्यस्थ्यमिष्टेऽप्यवलम्बतेऽर्थे” कुमा०। भावे ल्युट्। तत्रैव न०।
अभ्यर्थनीय = त्रि० अभि + अर्थ–गौणे कर्मणि अनीयर्। अभिमुखं याचनीये।
अभ्यर्थित = त्रि० अभि + अर्थ–गौणे कर्मणि क्त। १ प्रार्थिते “अवकाशं किलोदन्वान् रामायाभ्यर्थितो ददौ” रघुः। गौणकर्म्माविवक्षायां मुख्ये क्त। २ प्रार्थनाकर्म्मणि।
अभ्यर्थ्य = त्रि० अभि + अर्थ–ण्यत्। प्रार्थनीये। “कार्य्येषु चैककार्य्यत्वादभ्यर्थ्योऽस्मि न वज्रिणा” रघुः। ल्यप्। अभिमुखं याचयित्वेत्यर्थे अव्य०।
अभ्यर्द्दित = त्रि० अभि + अर्द्द क्त। भृशपीडिते।
अभ्यर्हणा = स्त्री अभि + अर्ह–भावे युच्। १ पूजायाम् २ अभिभुखमर्चायाञ्च। भावे ल्युट्। तत्रैव न०।
अभ्यर्हणीय = त्रि० अभि + अर्ह–अनीयर्। पूजनीये। “शारङ्गो मन्दपालेन जगामाभ्यर्हणीयताम्” मनुः।
अभ्यर्हित = त्रि० अभि + अर्ह–कर्मणि क्त। १ पूज्ये २ उचिते च।
अभ्यवकर्षण = न० अभि + अव + कृष–भावेल्युट्। शल्याद्युद्धारे।
अभ्यवस्कन्द = पु० अभि + अव + स्कन्द–घञ्। १ शत्रोराक्रमे, २ निर्बलीकरणाय शत्रुभिः क्रियमाणे प्रहारे ३ अभ्यवसादने ४ प्रहारमात्रे, ५ आसादने, ६ प्रपाते च। ल्युटि अभ्यवस्कन्दनमप्यत्रार्थे न०।
अभ्यवहरण = न० अभि + अव–हृ–ल्युट्। भोजने।
अभ्यवहार = पु० अभि + अव + हृ–घञ्। भोजने। “अल्पान्नाभ्यवहारेण” मनुः।
अभ्यवहार्य्य = त्रि० अभि + अव + हृ–ल्युट्। भोक्तुंयोग्ये। “सर्व्व त्रौदरिकस्याभ्यवहार्यमेव” विक्र०। ‘खरं विशदभ्यवहार्य्यम्’ पा० भ०
अभ्यवहृत = त्रि० अभि + अव + हृ–क्त। भक्षिते।
अभ्यवायन = न० अभि + अव + इण–ल्युट्। आभिमुख्येनापयाने “यत्र शुष्कस्य चार्द्रस्य च सन्धिःस्यात्तदुपगूहेत यद्यु अभ्यवायनाय” शत० ब्रा०।
अभ्यसन = न० अभि + अस–ल्युट्। १ अभ्यासे २ पौनःपुन्येनैकक्रियाक्ररणे ३ पुनःपुनरावर्त्तने “विद्यामभ्यसनेनेव प्रसादयितुमर्हसि” रघुः। “स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते” गीता “अनभ्यसनशीलस्य विद्येव तनुतां गता” रामा० “वेदस्वीकरणं पूर्ब्बं विचारोऽभ्यसनं जपः” दक्षः।
अभ्यसनीय = त्रि० अभि + अस–आवश्यकार्थे अनीयर्। अवश्याभ्यासयोग्ये वेदादौ।
अभ्यसूयक = त्रि० अभि + असू–उपतापे कण्ड्वा० यक् ण्वुल्। अत्यन्तासूयाकर्त्तरि सन्मार्गवर्त्तिनां गुणेषु दोषारोपके। “मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः” गीता।
अभ्यसूया = स्त्री अभि + असू–उपतापे कण्ड्वादि० यक् प्रत्ययान्तत्वात् अ, स्त्रीत्वात् टाप्। गुणेषु दोषारोपणे। “केनाभ्यसूया पदकाङ्क्षिणा ते” कुमा० “रूपेषु वेशेषु च साभ्यसूयाः” “शक्राभ्यसूयाविनिवृत्तयेयः” “नूनं तेषामभ्यसूयापरीऽभूत्” इति च रघुः।
अभ्यस्त = त्रि० अभि + अस–क्त। पौनःपुन्येनैकजातीयाकिया कर्मणि पुनःपुनरावर्त्तिते। “शैशवेऽभ्यस्तविद्यानां यौवने विषयैषिणामिति” रघुः। २ “उभे अभ्यस्तम्” पा० उक्तयोः कृतद्वित्वयोरुभयोः धातुभागयोः। “नाभ्यस्ताच्छतुः” “अभ्यस्तस्य च” पा०।
अभ्यस्य = अव्य० अभि + अस–ल्यप्। पुनःपुनरावर्त्त्येत्यर्थे।
अभ्याकाङ्क्षित = न० अभि + आ + काङ्क्ष–भावे क्त। १ मिथ्याभियोगे। (मिथ्यानालिश) कर्म्मणि क्त। २ ईप्सिते त्रि०।
अभ्याख्यान = न० अभि + आ + ख्या–ल्युट्। १ भिथ्याभियोगे “शतं मे धारयसीत्यादि” मिथ्याभियोगे २ मिथ्योद्भावने च।
अभ्यागत = पु० अभि + आ + गम + क्त। भिन्नग्नामीणे गृहं गतेऽतिथौ “सर्व्वत्राभ्यागतो गुरुः” पुरा०। २ सम्मुखागतमात्रे त्रि०। “अभ्यजातोऽभ्यागततूर्णतर्णकान्” माघः।
अभ्यागम = आभिमुख्येनागम्यतेऽत्र अभि + आ + गम–अप्। १ युद्धे। कर्मणि अप्। २ अन्तिके। करणे अप्। ३ विरोधे। भावे अप्। ४ अभ्युत्थाने ५ अभिघाते ६ अभिमुखगमने “किं वा मदभ्यागमकारणं ते” रघुः।
अभ्यागमन = न० अभि + आ–गम–ल्युट्। १ आभिमुख्ये नोद्गमने २ अभ्युत्थाने च।
अभ्यागारिक = पु० अभ्यगारे तद्गतकर्म्मणि व्यापृतः ठन्। १ गृहवृत्तिपुत्रादिपोषणेषु व्यापृते २ तेनैव व्याकुले।
अभ्याघात = पु० आ + आ + हन–घञ्। १ आघाते २ ताडने च। करणे घञ्। ३ आघातोपदेशे। “अभ्याघातेषु भध्यस्थान् शिष्याच्चौरानिव द्रुतम्” मनुः “अभ्याघातेषु चौर्य्योपदेशेषु” कुल्लू०।
अभ्याघातिन् = त्रि० अभि + आ + हन–ताच्छील्ये घिनुण्। हिंसाशीले। “अभ्यावातिभिरामिश्रश्चातकैः परिराटिभिः” भट्टिः।
अभ्याचार = पु० अभि + आ + चर–घञ्। आभिमुख्येनाचरणे। “अवारयन्त वरणेन देवाअभ्याचारमसुराणाम्” अथ० १०, ३, २
अभ्याज्ञाय = पु० अभि + आ + ज्ञा–घञ्। अभिज्ञाने पूर्ब्बज्ञातस्य तथात्वरूपेण ज्ञाने “तस्मिन् दक्षिणां दधाति तूपरौ मिथुनौ दद्यादित्यभ्याज्ञायेनैवमन्य” इति शत० ब्रा०
अभ्यातान = पु० अभि + आ + तन–घञ्। अत्यन्तसन्ततौ।
अभ्यात्त = पु० अभि + आ + अत + सातत्ये कर्त्तरि क्त वेदे नि०। १ सर्व्वव्यापके परमेश्वरे। “सर्व्वमिदमभ्यात्तोऽवाक्यनादरः” छा० उप०। “सर्व्वमिदं जगदभ्यात्तः अभिव्याप्तः अततेः व्याप्त्यर्थस्य कर्त्तरि निष्ठा” भा०। अभि + आ–दा–क्त। २ आभिमुख्येन गृहीते त्रि०।
अभ्यादान = न० अभि + आ + दा–ल्युट्। १ आभिमुख्येनादाने, २ आरम्भे च।
अभ्याधान = न० अभित आधानम्। अभितोमन्त्रादिना वह्न्यादेराधाने “यानिध्मस्य परिदधात्यभ्याधानाय” शत० ब्रा०।
अभ्यान्त = पु० अभि + अम–क्त नि०। रोगयुक्ते निष्पीडिते अभ्यमितशब्दे २७५ पृष्ठे विवरणम्।
अभ्यापत्ति = स्त्री अभि + आ–पद–क्तिन्। अभिमुखागमने।
अभ्यामर्द्द = अभि + आ + मृद–आधारे घञ्। १ रणे। भावे घञ्। २ निष्पीडने।
अभ्यायंसेन्य = त्रि० अभि + आ + यम–कर्म्मणि बा० सेन्य। अभितो नियन्तव्ये। “वोससोऽभ्यायंसेन्या भवतं मनीषिभिः” ऋ० १, ३४, १, “अभ्यायंस्येन्यौ अभितोनियन्तव्यौ” भा०।
अभ्यारम्भ = पु० अभि + आ + रभ–घञ् मुम्। प्रथमारम्भे
अभ्यारूढ = त्रि० अभि + आ + रुह–क्त। भृशमारूढे वृद्धे “तेनैव क्षत्रमनभ्यारूढम्” शत० ब्रा०।
अभ्यारोह = पु० अभि + आ + रुह–घञ्। १ अभिमुखारोहणे। आभिमुख्येनारोहति देवभावमनेन करणे घञ्। २ मन्त्रजपभेदे “नन्विदमभ्यारोपजपविधिशेषोऽर्थवादः” इति वृ० भा०। “श्रेयान् वा एषोऽभ्यारोहाद्भवति” शत० ब्रा०।
अभ्यारोहणीय = त्रि० आभ + आ + रुह–अनीयर्। आभि मुख्येनारोहणीये। ण्यत्। अभ्यारोह्योऽप्यत्र।
अभ्यावर्त्त = त्रि० भि + आ + वृत–अच्। १ पुनः पुनरावर्त्तमाने “प्रजा वै बर्हीरेतः आज्यं तत्प्रजास्वेवैतत् रेतः सिच्यते तेन रेतसा सिक्तेनेमाः प्रजाः पुनरभ्यावर्त्तं प्रजायन्ते” शत० ब्रा०। भावे घञ्। २ भृशमावृत्तौ पु०। अभि + आ + वृत–णिच् कर्मणि अच्। २ पुनः पुनरावर्त्तनीये स्तोत्रादीत्रि०। “चतुर्विंशाः पवमानाः त्रिवृदभ्यावर्त्तं चतुश्चत्वारिशाः पवमानाः एकविंशमभ्यावर्त्तम् अष्टाचत्वारिंशाः पवमानास्त्रयस्त्रिंशमभ्यावर्त्तम्” शत० ब्रा०।
अभ्यावर्त्तिन् = त्रि० भृशमावर्त्तते अभि + आ + वृत–णिनि। १ सन्तत वर्त्तमाने। २ वेदप्रसिद्धे चयमानराजपुत्रे पु०। “शेषोऽभ्यावर्त्तिने चायमानाय शिक्षन्” ऋ० ६, २७, ५। “अभ्यावर्त्ती चायमानो ददाति” ऋ० ६, २७, ८।
अभ्यावृत्त = पु० अभि + आ + वृत–उपसृष्टत्वात् कर्मणि क्त। आभिमुख्येन आनीते होमशेषद्रव्ये। “वातोऽभ्यावृत्तः” य० १, ५ ८। “अभ्यावृत्तः होमशेषीभूतः” वे० दी० ३ पुनःपुनरभ्यस्ते त्रि०।
अभ्यावृत्ति = स्त्री अभि + आ + वृत–क्तिन्। पौनःपुन्येनाभ्यासे “संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्” पा०। “मनागनभ्यावृत्त्या वा कामं क्षाम्यतु यः क्षमी” माघः।
अभ्याश = पु० आभिमुख्येनाश्यते व्याप्यतेऽनेन अशू–व्याप्तौ करणे घञ्। निकटे। निकटस्थस्याभिमुखव्यापनात्तथात्वम्। २ क्षिप्रे तस्याव्यवहितकालेन व्यापनात्तथात्वम्। “यएतदेवं विद्वान् साधु सामेत्युपास्ते अभ्याशोह यदेनं साधवोधर्म्मा अभ्यागच्छेयुः” छा० उ०। “अभ्याशः क्षिप्रम्” भा० “तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्येरन्”। य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां योनिमापद्येरन्” छा० उ०।
अभ्यास = पु० आभिमुख्येनास्यते क्षिप्यते असु–क्षेपे कर्म्मणि घञ्। १ निकटे। “चूतयष्टिरिवाभ्यासे मधौ परभृतोन्मुखी” कुमा०। अभेर्बीप्सार्थत्वे। २ पुनःपुनरनुशीलने पौनःपुन्येन करणे। “अमङ्गलाभ्यासरतिं विचिन्त्य तमिति” कुमा०। “अभ्यासयोगेन ततो मामिच्छाप्तु धनञ्जय! “अभ्या सेन च कौन्तय ! वैराग्येण च गृह्यते”। “अभ्यासेऽप्यसमर्थोऽसि मत्कर्म्मपरमोभव” ३ “अभ्यासयोगयुक्तात्मा ततो याति परां गतिम्” इति च गीता ४ वेदादेरावृत्तौ च अभ्यासश्च पञ्चधा। “वेदस्वीकरणं पूर्ब्बं विचाराऽभ्य सनं जपः। तद्दानञ्चैव शिष्येभ्योवेदाभ्यासो हि पञ्चधा” दक्षः। ४ ग्रन्थतात्पर्यज्ञापके पौनःपुन्येन कथनरूपे लिङ्गभेदे “उपक्रमोपसंहाराबभ्यासोऽपूर्ब्धता फलम्। अर्थवादोपपत्ती च हेतुस्तात्पर्यनिर्ण्णये इति” उक्तेः यथा च्छान्दोग्ये षष्ठप्रपाठके “तत्त्वमसि श्वेतकेतो ! इत्यस्य नवकृत्वः अभ्यासः। ५ एकस्मिन्नालम्बने देवादौ इतरतः समाहृत्य मनसः स्थापने च। कर्मणि घञ्। ६ व्याकरणोक्तयोः द्विरुक्तभावापन्नयोः धातुभागयोः”। “स्थादिष्व अभ्यासेन चाभ्यासस्य” पा०।
अभ्यासयोग = पु० अभ्यासेन सततानुशीलनेन योगः। सततैकविषयचिन्तनेन जाते समाधौ। “अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्चय” ! “अभ्यासयोगयुक्तात्मा ततो याति परां गतिमिति” च गीता।
अभ्यासादन = न० अभि + आ + सद–णिच् ल्युट्। १ शस्त्राद्यैः शत्रोर्निर्बलताकरणे, २ शत्रोः सम्मुखगमने ३ समीपस्थापने च।
अभ्याहार = पु० अभि + आ + हृ–घञ्। १ अभिहारार्थे २ समक्षहरणे ३ आभिमुख्येन आनयने च। “अस्मिन्नुहैकेऽवान्तरदेशे कर्षूं खात्वा ततोऽभ्याहारं कुर्व्वन्ति” शत० ब्रा०
अभ्याहित = त्रि० अभि + आ + धा–कर्मणि क्त। १ आभिमुख्येन मन्त्रादिना स्थापिते विधिना कृतसंस्कारे वह्नौ।
अभ्युक्त = त्रि० आभिमुख्येनोक्तः। १ सभक्षमुक्ते २ प्रकाशिते च
अभ्युक्षण = न० अभि + उक्ष–सेचने ल्युट्। “उत्तानेनैव हस्तेन प्रोक्षणं परिकीर्त्तितम्। न्यञ्चताभ्युक्षणं प्रोक्तं तिरश्चावोक्षणं स्मृतम्” स्मृत्युक्ते अवतानपाणिना सेच्याभिमुख्येन, सेचने २ सेचनमात्रे “परस्पराभ्युक्षणतत्पराणाम्” रघुः अभ्युक्षणं च स्नानकार्य्ये कात्या० २२, ६, १४। कर्त्तव्यमिति शेषः। अभ्युक्षणादि च द्रव्यादिसंस्कारविशेषः अभ्युक्षितद्रव्याणामेव यागाङ्गत्वात्। स च संस्कारः अदृष्टविशेषरूपः द्रव्यनिष्ठ इति मीमांसकाः तेषामयमाशयः। यो यद्गतफलार्थितया क्रियते स तन्निष्ठफलजनकव्यापारजनक इति नियमेन व्रीह्यादिगतावघातानुकूलशक्तिरूपफलार्थितथा क्रियमाणानां प्रोक्षणाभ्युक्षणादीनां स्वगतावघातादिरूपफलजनकव्यापारत्त्वम् तथा च प्रोक्षिता एव व्रीह्यादयोऽवघातादौ कल्पन्ते प्रोक्षणादिजन्यः कालान्तरभाव्यवघातजनकोव्यापारो व्रीह्यादिनिष्ठ एव कल्प्यते” इति।। नैयायिकास्तु “संस्कारः पुंसएवेष्टः प्रोक्षणाभ्युक्षणादिभिः” कुसुमा० उक्तेः प्रोक्षणादिभिः संस्कारोऽदृष्टं पुंसएव पुंनिष्ठः एव स्वीक्रि- यते प्रतिव्रीह्यादि नानाशक्तिकल्पनापेक्षया एकस्यैवादृष्टस्यात्मनिष्ठस्य प्रोक्षणादिजन्यस्य लाघवेन कल्पनात् शास्त्रदेशितं फलमनुष्ठातरीतिन्थायेन क्रियाकर्त्तर्य्येव प्रधानकलवत्तत्तदवान्तरादृष्टस्यापि तत्रैव कल्पनौचित्यात् अन्यथा अन्यगतादृष्टेन अन्यगतप्रधानापूर्ब्बजनने वैयधिकरण्यात् अतिप्रसङ्गः स्यात् व्रीह्यादेश्च सर्व्वपुरुषसाधारण्येनानिणमकत्वात् अन्यथा अकृतप्रोक्षणादिसंस्कारस्यापि पुंसः परकृतसंस्कारेण प्रधानापूर्ब्बवत्त्वापत्तेः। यो यद्गतफलार्थितयेत्यादिनियमस्य शत्रुनिष्ठबधाद्युद्देशेन क्रियमाणे श्येनयागादौ व्यभिचारान्नार्थसाधकत्वं तत्र हि शत्रु गतबधफलाद्युद्देशेऽपि अभिचारिपुरुषगतस्यादृष्टविशेषस्य कल्पनावश्यम्भावात् अन्यथा तत्कर्त्तुः प्रायश्चित्तोपदेशस्यानर्थक्यापत्तेः अभिचारकर्मणश्च उपपातकमध्ये मन्वादिभिर्गणनात् तस्य पापजलकत्वसिद्धिरिति।
अभ्युक्षित = त्रि० अभि + उक्ष–क्त। कृताभ्युक्षणे यज्ञपात्रादौ
अभ्युक्ष्य = त्रि० अभि + उक्ष–अर्हार्थे ण्यत्। अभ्युक्षणार्हे। ल्यप्। अवतानपाणिना सिक्त्वेत्यर्थे अव्य० “असन्द्यैनमवभृथं हृत्वाभ्युक्ष्य सोमोपनहनेन” कात्या० २२, ६, १३। तेनोदकेनात्मानं पूजनोपकरणञ्चाभ्युक्ष्येति” त० सा०।
अभ्युच्चय = पु० अ भि + उद + चि–अच्। १ वृद्धौ। “अभ्युच्चयस्तु लक्ष्मीः” किरा० २, १९ मल्लिनाथोक्तेः २ लक्ष्म्यामपि।
अभ्युत्थान = न० अभि + उत्–स्था–ल्युट्। १ आदरेणासनादित उत्थाने २ गौरवेणोत्थानादिना ३ प्रत्युद्गमने, ४ उत्थानमात्रे, ५ उद्यमे, ६ उद्भवे च। “नवाभ्युत्थानदर्शिन्योननन्दुः सप्रजाः प्रजाः” रघुः “अभ्युत्थानमधर्म्मस्य तदात्मानं सृजाम्यहम्” गीता।
अभ्युत्थायिन् = त्रि० अभि + उद् + स्था–णिनि। अभ्युत्थान कर्त्तरि स्त्रियां ङीप्।
अभ्युत्थित = त्रि० अभि + उद्–स्था–क्त। १ कृताभ्युत्थामे अभिवादे सम्मानार्थमासनादित् उत्थिते। २ अभिमुखेनोद्गते च “अभ्युत्थिताग्निपिशुनैरतिथीनाश्रमोन्मुखान्” रघुः!
अभ्युत्थेथ = त्रि० अभि + उद् + स्था–उपसृष्टत्वात् कर्मणि यत्। अभिवाद्ये यस्याभिवादनार्थमासनादित उत्थानं क्रियते तस्मिन्। “अभ्युत्थेयस्यापि” कात्या० २२, ५, २७ गुर्व्वादेरभ्युत्थेयस्यापि अभ्युत्थानमिति” कर्क०।
अभ्युत्पतन = न० अभि + उत् + पत–ल्युट्। आभिमुख्येनोत्पतने “अलक्षिताभ्युत्पतनो नृपेण प्रसह्य सिंहः” रघुः।
अभ्युदय = पु० अभि + उत् + इण्–अच्। १ अभीष्टकार्य्याणां प्रादुर्भावे, २ वृद्धौ, “भवो हि लोकाभ्युदयाय तादृशाम्” रघुः। अभ्युदीयतेऽनेन करणे अच्। ३ आशास्यमानचूडादिसंस्कारे च। अत एव तदर्थकश्राद्धम् आभ्युदयिकमित्युच्यते। ४ अभ्युदयसाधने इष्टलाभे ५ वृद्धिनिमित्तके श्राद्धे च “सम्पन्नमित्यभ्युदये दैवे रुचितमित्यपि” मनुः। “अभ्युदये वृद्धि श्राद्धे” कुल्लू०। “प्रतिषेद्धाऽपि चेद्या तु मद्यमभ्युदयेष्वपि” मनुः। भावे अच्। ६ उत्तरोत्तरोत्तरवृद्धौ “अभ्युदयफलं घर्म्मज्ञानमिति” शा० भा० “धर्मः श्रेयः समुद्दिष्टं श्रेयोऽभ्युदयसाधनमिति” भवि० पु०। अभ्युदयः इष्टलाभादि प्रयोजनमस्य ठञ्। अभ्युदयनिमित्ते श्राद्धे। “अथाभ्युदयिके श्राद्धे युग्मानाशयेत्” गोभि० “अभ्युदयः इष्टलाभः विवाहादि तदर्थं श्राद्धम् आभ्युयिकम् तच्च भूतभविष्यद्भेदेन द्विविधम् भूतं पुत्रजन्मादि भविष्यत् विवाहादि श्रा० त० रघुनन्दनः।
अभ्युदयार्थक = न० अभ्युदयः इष्टलाभादि अर्थो निमित्तं यस्य। अभ्युदयनिमित्ते श्राद्धे “नैमित्तिकमथो वक्ष्ये श्राद्धमभ्युदयार्थकम्” मार्क० पु०।
अभ्युदानयन = न० अभि + उद् + आ + नी–ल्युट्। अग्नेरभिनुखानयने “अभ्युदानयन्” गो० सू० अभ्युदानयन् अग्नेरभिमुखमानयन् जपेदिति स० त० रघुनन्दनव्याख्यानात् तदुपसृष्टस्य नयतेः तथार्थत्वम्।
अभ्युदाहरण = न० अभि + उद् + आ + हृ–ल्युट्। १ अभिमुखकयने २ आभिमुख्येनोर्द्धमुत्क्षेपणे च।
अभ्युदित = त्रि० अभितः सर्व्वतः उदितमुत्क्रान्तं प्रातर्विहितं कर्म यस्मात्। सूर्य्योदयकाले निद्रयाऽकृततत्कालकर्त्तव्ये १ ब्रह्मचारिणि। “सूर्य्येण ह्यभिनिर्मुक्तः शयानोऽभ्युदितश्च यः” मनुः। २ अभितौदिते, ३ प्रकाशिते च त्रि० “माघे मासि रटन्त्यापः किञ्चिदभ्युदिते रवौ” म० त० पुरा०।
अभ्युदीरित = त्रि० अभि–उद् + ईर–क्त। अमिसुखमुक्ते। भावे क्त कथने न०।
अभ्युद्गम = पु० अभि + उद् + गम–भावे अप्। १ अभ्युत्थाने २ उद्भवे च। ल्युट्। अभ्युद्गमनमप्यत्र न०।
अभ्युद्यत = त्रि० अभि + उद् + यम–क्त। उढ्युक्ते “कुलमभ्युद्यत नूतनेश्वरम्” रघुः। १ अयाचितोपनीते फलादौ, “एधोदकं मूलफलमन्नमभ्युद्यतञ्च यत्” मनुः।
अभ्युद्धृत = त्रि० अभि + उद् + हृ–क्त। १ अयाचितोपनीते २ अभ्यर्थ्य दत्ते च “एधोदकं मूलफलमन्नमभ्युद्धृतञ्च यत्” शु० त० मनुवचनपाठः “अभ्यर्थ्य दत्तमिति व्याख्यातं च रघुनन्दनेन। अभि + उद् + धृ–क्त। ३ आभिमुख्ये नोत्तोलनेन धृते।
अभ्युन्नत = त्रि० आभिमुख्येन उन्नतः। आभिमुख्येन उन्नते अत्यन्तोन्नते। “अभ्युन्नताङ्गुष्ठनखप्रभाभिः” कुमा०।
अभ्युपगत = त्रि० अभि + उप + गम–क्त। १ स्वीकृते अङ्गीकृते। २ समीपगते ३ अभिमुखमुपगते च।
अभ्युपगम = पु० अभि + उप + गम–अप्। १ स्वीकारे “क्रियाभ्युपगमात्त्वेतद्वीजार्थं यत् प्रदीयते” मनुः। २ समीपगतौ च १ “नियमदयादीक्षाभ्युपगमेत्यादि” सुश्रुतः।
अभ्युपपत्ति = स्त्री अभि + उप + पद–क्तिन्। अनिष्टनिवारंणपूर्व्वकाभीष्टसम्पादनरूपे अनुग्रहे, “ब्राह्मणाभ्युपपत्तौ च शपथे नास्ति पातकमिति” “स्त्रीविप्राभ्युपपत्तौ च धर्मेण घ्नन्न दुष्यति” “स्त्रीवालाभ्युपपत्तौ च वाह्यानां सिद्धिकारणम्” इति च मनुः अभ्युपपूर्व्वपद्यतेः सान्त्वनानुग्रहार्थत्वेनैव “रतिमभ्युपपत्तुमातुरामिति” कु० प्रयोगः। २ सान्त्वने च
अभ्युपपत्तुम् = अव्य० अभि + उप + पद–तुमुन्। सान्त्वयितुम् अनुग्रहीतुं वेत्यर्थे “रतिमभ्युपत्तुमातुराम्” कुमा०।
अभ्युपपन्न = त्रि० अभि + उप + पद–क्त। अनुगृहीते।
अभ्युपाय = पु० अभि + उप + इण्–अच्। १ स्वीकारे २ अधिकोपाये च। “तस्मिन् सुराणां विजयाभ्युपाये” कुमा० “तान् वोऽभ्युपायान् वक्ष्यामि” मनुः।
अभ्युपेत = त्रि० अभि + उप + इण–क्त। १ अभिमुखसमीपगते २ अङ्गीकृते ३ अङ्गीकर्त्तरि च।
अभ्युपेत्य = त्रि० अभि + उप + इण–कर्मणि क्यप्। अभिमुखं समीपगम्ये। ल्युप्। स्वीकृत्वेर्थे अव्य०। “अम्युपेत्य च शुश्र्षामिति” नार०।
अभ्युपेत्याशुश्रूषा = स्त्री अभ्युपेत्य अङ्गीकृत्य अशुश्रुषाऽसेवनम्। अङ्गीकृत्य पश्चात् दास्याकरणरूपे विवादभेदे “अभ्युपेत्य च शुश्रूषां यस्तां न प्रतिपद्यते। अशुश्रूषाभ्युपेत्यैतद्विवाद पदमुच्यते” नार०। “आज्ञाकरणं शुश्रूषा तामङ्गीकृत्य पश्चाद्यो न सम्पादयति तद्विवादपदमभ्युपेत्याशुश्रूषाख्यमिति” मिताक्षरा।
अभ्युपेत्या = स्त्री अभि + उप + इण–भावे क्यप्। सेवायाम्।
अभ्युषित = त्रि० अभि + वस–क्त। १ अभिमुखमुषिते अभिमुखस्थिते सेवकादौ पु०।
अभ्यु(भ्यू)ष = पु० अभित उ(ऊ)ष्यते अग्निना दह्यते अभि + ऊ (ऊ)ष–बा० कर्मणि क। १ यवगोधूमादिचूर्ण्णकृते (रोटि) प्रसिद्धे दग्धान्नभेदे। ऊष भावे कर्म्मणि वा घञ्। वह्निना ईषद्दग्धेऽन्ने हेम० भावे घञ्। कलायादेरीषद्दहने अभि + उष–भावादौ घञ्। अभ्योषोऽप्यत्र अभ्यु(भ्यूभ्यो)षायहितं छ यतौ अभ्यू(भ्यु)(भ्यो)षीयम् अभ्यू(भ्यु)(भ्यो)- ष्यञ्च। तत्रहिते गोधूमकलायादौ। अपूपादिगणपाठात् नि० अभ्येषशब्दोऽप्युक्तार्थे ततोऽपि छयतौ उक्तार्थे।
अभ्यूह = अभि + ऊह–घञ्। स्वबुद्धिमात्रकल्पिते तर्के “नैषा तर्केण मतिरापनेयेति” कठ उ० भाष्ये “सुबुद्ध्यभ्यूहेन केवलेन तर्क्यमाण इति” उक्तम्।
अभ्यूहनीय = त्रि० अभितः ऊहनीयः। स्वबुद्ध्या तर्कणीये।
अभ्यूह्य = त्रि० अभितः उह्यः। १ स्वबुद्धिमात्रेण तर्कणीये। ल्यप्। २ अभितस्तर्कयित्वेत्यर्थे अव्य०।
अभ्र = अतौ भ्वादि० पर० सक० सेट्। अभ्रति आभ्रीत् आनभ्र अभ्रम् “तेष्वसौ दन्दशूकारिर्वनेष्वानभ्र निर्भयः” भट्टिः।
अभ्र = न० अभ्र–अच्। १ मेघे २ मुस्तके ३ आकाशे च अब्भ्रशब्देऽधिकं दृश्यम्। “तदा विद्यादनध्यायमनृतौ चाभ्रदर्शने” मनुः “अभ्रं लिहाग्रं रविमार्गभङ्गम्” भट्टिः। “वर्षात्ययेन रुचमभ्रघनादिवोन्दोः” रघुः कुर्व्वादिगणपाठात् तन्नामके ऋषिभेदे पु०। तस्य अपत्यम् कुर्वादि० ण्य। अभ्र्यः तदपत्ये पुंस्त्री। अभ्रमिवाचरति क्यङ् अभ्रायते।
अभ्रक = न० पु० अभ्र–क्वुन्। क्वचित् पुंस्त्वमप्यस्य। (आव)धातुभेदे एतच्च गौरीरजोजातं यथोक्तम् रस्वेश्वरदर्शने शिववाक्यम्। “अभ्रकस्तव वीजन्तु भम वीजन्तु पारदः अनयोर्मेलनं देवि! मृत्युदारिद्र्यनाशनम्”। जारिताभ्रस्यैव पारदमेलनद्वारा मृत्युनाशकत्वमतस्तज्जारणविधिर्दर्शितः श्चक्रदत्ते। “कृष्णाभ्रकमनेकवपुर्व्वज्राख्यञ्चैकपात्रकं कृत्वा। काष्ठमयोदूखलके चूर्ण्णं मुषलेन कुर्व्वीत।। भूयो दृशदि च पिष्टं वासःसूक्ष्मावकाशतलगलितम्। मण्डूकपर्ण्णिकायाः प्रचुररसे स्थापयेत्त्रिदिनम्।। उद्धृत्य तद्रसादथ पिंष्याद्धैमन्तिकधान्यभक्तस्थम्। अक्षोदात्यन्ताम्लस्वच्छजलेन प्रयत्नेन। मण्डूकपर्ण्णिर्कायाः पूर्ब्बं सुंरसेनालोडनं कुर्य्यात्। स्थालीपाकं पुटनं चाद्यैरपि भृङ्गराजाद्यैः।। ताडादिपत्रमध्ये कृत्वा पिण्डं निधाय भस्माग्नौ। तावद्दहेन्न यावल्लीनोऽग्निर्दृश्यते सुचिरम्।। निर्वापयेच्च दुग्धेन दुग्धं प्रक्षाल्य वारिणा तदनु। पिष्ट्वा घृष्ट्वा वस्त्रे चूर्ण्णं निश्चन्द्रकं कुर्य्यात्” इति।
अभ्रंलिह = त्रि० अभ्रं गगनं लेढि स्पृशति अभ्र + लिहखश् मुम्। गगनस्पर्शिनि अत्युच्चे “प्रासादमभ्रंलिहमारुरोह” रघुः “अभ्रंलिहाग्रं रविमार्गभङ्गमिति” भट्टिः।
अभ्रङ्कष = त्रि० अभ्रं गगनं कषति पीडयति उच्चत्वात् अभ्र + कष–ख मुम्। अत्युच्चे। “आदायाभ्रङ्कषं प्रायान्मलयं फलशालिनम्” भट्टिः।
अभ्रजा = त्रि० अभ्रात् मेघात् जायते जन–विट् ५ त०। मेघजाते “यो अभ्रजा वातजा यश्च शुष्मोवनस्पतीन्त्सचतां पर्व्वतांश्च, अथ० १, १२, ३ जन–ड। अभ्रजोऽप्युक्तार्थे त्रि०
अभ्रनाग = पु० ६ त० १ ऐरावते गजे।
अभ्रपथ = पु० ६ त० अच् समा०। विमाने गगनमार्गे।
अभ्रपिशाच = पु० अभ्रे गगने पिशाच इव। राहुग्रहे तस्य च्छ्वायात्मकत्वेन नीलवर्ण्णतया पिशाचतुल्यत्वम्।
अभ्रम = पु० भ्रमोभ्रमणं मिथ्याज्ञानञ्च अभावे न० त०। १ भ्रमाभावे। न० व०। २ भ्रान्तिशून्ये त्रि०।
अभ्रमांसी = स्त्री अभ्रमिव जटाया मांसमस्य गौ० ङीष्। जटामांस्याम्।
अभ्रमाला = स्त्री ६ त०। मेघसमूहे।
अभ्रलिप्ती = स्त्री ३ त० ङीप्। १ अल्पाम्रैर्लिप्तायां दिवि २ अल्पमुस्तकेन लिप्तायां स्त्रियाञ्च।
अभ्रवर्ष = पु० अभ्रैर्मेघेर्वृष्यते कर्मणि घञ्। १ मेघैः सिच्यमाने “दिव्यानकोशासो अभ्रवर्षाः” ऋ० ९, ८८, ६, अभ्रवर्षाः अभ्रैर्वृष्यमाणाः भा०। भावे घज्। २ मेघवर्षणे।
अभ्रवाटिका = स्त्री अभ्रेण शून्येन वाटो वेष्टनं यस्याः गौ० ङीष्। अम्रातकवृक्षे। तस्याः पत्रशून्यकाले शून्यावृतत्वेन प्रतीतेस्तथात्वम्।
अभ्राज = त्रि० न भ्राजते भ्राज–अच् न० त०। १ दीप्ति शीलभिन्ने २ सामगानविशेषद्रष्टरि ऋषिभेदे पु०। तेन दृष्टं साम अण्। आभ्राजं तद्दृष्टे सामभेदे न० तच्च “परिस्वानो गरिष्ठा इत्यस्यामृचि गीयमानं साम” ता० ब्रा० भा०। तदपि ऊहगाने ६ प्र० दर्शितम्। तस्य च पाठविनियोगः ता० ब्रा० उक्तः यथा “भ्राजाभ्राजे पवमानमुखे भवत” इति गबामयने विषुवन्नामाहे तत् पाठ्यम्।
अभ्रातृ(क) = पुंस्त्री नास्ति भ्राता यस्य वेदे न कप् लोके तु कप्। भ्रातृशून्ये। “अभ्रातेव पुंस एति प्रतीची” ऋ० १, २२, ३, कवभावे स्त्रियां ङीप्। “नाभ्रात्रीमुपयच्छेत्” गृ०। कपि तु अभ्रातृका तत्रार्थे “अभ्रातृकां प्रदास्यामि तुभ्यं कन्यामलङ्कृताम्” मनुः।
अभ्रातृव्य = त्रि० नास्ति भ्रातृव्यः शत्रुर्यस्य। शत्रुरहिते “अभ्रातृव्योभ्रातृव्यहा भवति य एवं विद्वान्” शत० ब्रा०
अभ्रान्त = त्रि० विरोधे न० त०। १ भ्रान्तभिन्ने यथार्थज्ञानयुक्ते २ भ्रमणशून्ये स्थिरे च।
अभ्रान्ति = स्त्री अभावे न० त०। १ मिथ्यानाभावे २ भ्रमणाभावे च। न० ब०। ३ मिथ्याज्ञानशून्ये ४ भ्रमणशून्ये च त्रि०।
अभ्रावकाश = पु० अभ्रमेवावकाशः। इतरावरणशून्ये आकाशमात्रावकाशे।
अभ्रावकाशिन् = त्रि० अभ्रावकाशोस्त्यस्य इनि। गगनमात्रावकाशवति निरावरणे। स्वार्थे कन्। तत्रैव “ग्रीष्मे पञ्चतपास्तु स्याद्वर्षास्वभ्रावकाशिकः” मनुः।
अभ्रि = स्त्री अभ्रति मलं यस्मात् अभ्र गतौ अपादाने इन्। १ नौकामलघर्षणार्थे काष्ठमये कुद्दाले २ कुद्दालभात्रे च। “खनति भेषजमित्युपक्रम्य ! “हिरण्मयीभिरभ्रिभिर्गिरीणामुपसानुषु” अथ० १०, ४, १४। वा ङीप्। अभ्रीत्यप्यत्र
अभ्रित = त्रि० अभ्रं मेघोजातमस्य तार० इतच्। जातमेघे अम्बरादौ “ददर्श काले दिवसभ्रितामिव” रघुः।
अभ्रिय = त्रि० अभ्रे मेघे भवः घ। १ मेघोद्भवे, २ मुस्तकभवे, ३ गगनभवे च। “व्यभ्रिया न द्युतयन्त्यो वृष्टयः ऋ० २, ३४, २,। “यदभ्रियां वाचमुदीरयन्ति ऋ० १, १६८, ८,।
अभ्रेष = पु० भ्रेष–चलने घञ् न० त०। १ न्याय्ये, उचिते। २ चलनशून्ये त्रि०।
अभ्व = त्रि० भू–प्राप्तौ क्कन् डिच्च न० त०। महति निरु०। “यद्ध ते विश्वागिरयश्चिदभ्वाः” इति ऋ० १, ६३, १।
अम = रीगे चुरा० उभय० सेट् अक० पीडने सक०। अमयतिने आमिमत् त। “यस्या उदरमामयत्” ॠ० १०८६, ८ मा च नः किञ्चनाममत्” अथ० ६, ३७, ३। अमितःआन्तः घञादौ कृति अमः–आमः अमी–आमी।
अम = गतौ भोजने भ्वादि० सक० शब्दे च अक० सेट् प०। अमति आमीत्। “किशूरपत्निनस्त्वमभ्यमीषि” १०, ८६, ८ वेदे शपोलुकि ईट्। अमतः अमतिः अमनिसः।
अम = पु० अम–रोगे घञ्। १ रोगे “अम–गतौ अच्। प्राणे सर्व्वदागतिमत्त्वातस्य तथात्वम्। “बाग्वै सामैषा सा चामश्चेति वृ० उ० “अमो नामासि अमा हि सर्व्वमिदम् छा० उ०। अमः प्राणः भा०। अमति सहगच्छति। सेवके “याहि राजेवाम~वा” इभेन य० १३, ९। “अमवान् सेवकान्” वेदी० ४ अपक्वफलादौ न० शब्दर०। प्राणहेतुत्वात् ५ बले “सेनेव सृष्टामं दधाति” ऋ० १, ६६, ४, अमं बलम् भा०।
अम् = अव्य० चु० अम–क्विप् स्वरादि०। १ अल्पे २ शीघ्रतायाञ्च
अमङ्गल = पु० नास्ति मङ्गलं प्रयोजनं यतः। एरण्डवृक्षे। ६ व०। कशलशून्ये त्रि०। न० त०। मङ्गलभिन्ने। अमङ्गलञ्च मङ्गलविरोधिवस्तु। मङ्गलञ्च अभिप्रेतार्थसिद्धिर्मङ्गलमित्युक्त लक्षणं तद्विरोधि अनभिप्रेतार्थसिद्धिः। तथा च अनिष्ट दुःस्वावाप्तिरमङ्गलं मङ्गलस्य हेतोर्विनायकस्तवपाठादेर्मङ्गलत्ववत् अनिष्टप्राप्तिसाधनस्याप्यमङ्गलत्वम्। अमङ्गल साधनं च द्विविधं लौकिकमलौकिकञ्च। लौकिकमिष्टवियोगादि। अलौकिकन्तु अनिष्टसूचकत्वात् अनिष्टसाधनम् न तु कारकम् “गोचरे वा विलग्ने वा ये ग्रहारिष्टसूचकाः इत्युक्तेः “उत्पातेन ज्ञापिते चेति वार्त्तिकोक्तेश्च। अलौकिकमपि त्रिविधं भौमं दिव्यमान्तरिक्षञ्च। तानि च उत्पातशब्दे वक्ष्यन्ते। अमङ्गलसूचकानि लिङ्गानि च कानिचित् साधारणानि कानिचिच्चासाधारणानि नेत्रस्पन्दादीनि तत्र साधारणानि कतिचित् संगृह्य दर्श्यन्ते यथा भा० भी० प०। “तथेमानि निमित्तानि भयायाद्योपलक्षये।। श्येना गृध्राश्च काकाश्च कङ्काश्च सहिता वकैः। संपतन्ति नगाग्रेषु समवायांश्च कुर्व्वते।। अभ्यग्रञ्च प्रपश्यन्ति युद्धमानन्दिनो द्विजाः। क्रव्यादा भक्षयिष्यन्ति मांसानि गजवाजिनाम्।। निर्द्दयञ्चाभिवाशन्तो भैरवा भयवेदिनः। कङ्काः प्रयान्ति मध्येन दक्षिणामभितो दिशम्।। उभे पूर्वापरे सध्ये नित्यं पश्यामि भारत!। उदयास्तमने सूर्य्यं कबन्धैः परिवारितम्।। श्वेतलोहितपर्यन्ताः कृष्णग्रीवाः सविद्युतः। त्रिवर्ण्णाः परिघाः सन्धौ भानुमन्तमवारयन्।। ज्वलितार्केन्दुनक्षत्रं निर्व्विशेषदिनक्षयम्। अहोरात्रं मया दृष्टं तद्भयाय भविष्यति।। अलक्ष्यः प्रभया हीनः पौर्ण्णमासीञ्च कार्त्तिकीम्। चन्द्रोऽभूदग्निवर्णश्च पद्मवर्ण्णे नभस्तले।। स्वप्स्यन्ति निहता वीरा भूमिमावृत्य पार्थिवाः। राजानो राजपुत्त्राश्च शूराः परिघबाहवः।। अन्तरीक्षे वराहस्य वृषदंशस्य चोभयोः। प्रणादं युध्यतो रात्रौ रौद्रं नित्यं प्रलक्षये।। देवताप्रतिमाश्चैव प्रकम्पन्ते हसन्ति च। वमन्ति रुधिरञ्चास्यैः स्विद्यन्ति प्रपतन्ति च।। अनाहता दुन्दुभयः प्रणदन्ति विशाम्पते। अयुक्ताश्च प्रवर्त्तन्ते क्षत्त्रियाणां महारथाः।। कोकिलाः शतपुत्त्राश्च चाषां भाषाः शुकास्तथा। सारसाश्च मयूराश्च वाचो मुञ्चन्ति दारुणाः।। गृहीतशस्त्राः क्रोशन्ति वर्म्मिणो वाजिपृष्ठगाः। अरुणोदये प्रदृश्यन्ते शतशः शलभव्रजाः।। उभे सन्ध्ये प्रकाशेते दिशां दाहसमन्विते। पर्ज्जन्यः पांशुवर्षी च मांसवर्षी च भारत!।। या चैषा विश्रुता राजंस्त्रैलोक्ये साधुसम्मता अरुन्धती तयाप्येष वशिष्ठः पृष्ठतः कृतः।। रोहिणीं पीडयन्नेष स्थितो राजन्! शनैश्चरः। व्यावृत्तं लक्ष्म सोमस्य भविष्यति महद्भयम्।। अनव्भ्रे च महाघोरः स्तनितः श्रूयते स्वनः। वाहनानाञ्च रुदतां निपतन्त्यश्रुविन्दवः।। खरा गोपु प्रजायन्ते रमन्ते मातृभिः सुताः। अना- त्तेवं पुष्पफलं दर्शयन्ति वनद्रुमाः।। गर्भिण्यो राजपुत्रांश्च जनयन्ति विभीषणान्। क्रव्यादाः पक्षिणश्चापि सहाश्रन्ति परस्परम्।। त्रिविषाणाश्चतुर्नेत्राः पञ्चपादा द्विमेहनाः। द्विशीर्षाश्च द्विपुच्छाश्च दंष्ट्रिणः पशवोऽशिवाः।। जायन्ते विवृतास्याश्च व्याहरन्तोऽशिवा गिरः। त्रिपदाः शिखिनस्तार्क्ष्याश्चतुर्द्दंष्ट्रा विषाणिनः।। तथैवान्याश्च दृश्यन्ते स्त्रियो वै ब्रह्मवादिनाम्। वैनतेयान् मयूरांश्च जनयन्त्यः पुरे तव।। गोवत्सं बडवा सूते श्वा शृगालं महोपते!। कुक्कुटान् करभांश्चैव शुकांश्चाशुभवादिनः।। स्त्रियः काश्चित् प्रजायन्ते चतस्रः पञ्च कन्यकाः। जातमात्राश्च नृत्यन्ति गायन्ति प्रसहन्ति च।। पृथग्जनस्य सर्वस्य क्षुद्रकाः प्रहसन्ति च। नृत्यन्ति परिगायन्ति वेदयन्तो महद्भयम्। प्रतिमाश्चालिखन्त्येते सशस्त्राः कालचोदिताः अन्योन्यमभिधावन्ति शिशवो दण्डपाणयः। अन्योन्यमवमृद्नन्ति नगराणि युयुत्सवः।। पद्मोत्पलानि वृक्षेषु जायन्ते कुमुदानि च। विष्वग्वाताश्च वान्त्युग्रा रजो नाप्युपशाम्यति। अभीक्ष्णं कम्पते भृमिरर्कं राहुरुपैति च। श्वेतो ग्रहस्तथा चित्रां समतिक्रम्य तिष्ठति। अभावं हि विशेषेण कुरूणां तत्र पश्यति।। धूमकेतुर्म्महाघोरः पुष्यञ्चाक्रम्य तिष्ठति। सेनयोरशिवं घोरं करिष्यति महाग्रहः।। मघास्वङ्गारको वक्रः श्रवणे च वृहस्पतिः। भाग्यं(मघाम्)नक्षत्रमाक्रम्य सूर्यपुत्रेण पीड्यते।। शुक्रः प्रौष्ठपदे पूर्ब्बे समारुह्य विरोचते। उत्तरे तु परिक्रम्यसहितः समुदीक्ष्यते।। श्वेतो ग्रहः प्रज्वलितः सधूम इव पावकः। ऐन्द्रं तेजस्वि नक्षत्रं ज्जेष्ठामाक्रम्य तिष्ठति।। ध्रुवं प्रज्वलितं घोरमपसव्यं प्रवर्त्तते। रोहिणीं च पीडयत उभौ च शशिभास्करौ।। चित्रास्वात्यन्तरे चैव धिष्ठितः परुषो ग्रहः। वक्रानुवक्रं कृत्वा च श्रवणं पावकप्रभः। ब्रह्मराशिं समावृत्य लोहिताङ्गो व्यवस्थितः।। सर्व्वसस्यपरिच्छन्ना पृथिवी सस्यशालिनी। पञ्चशीर्षा यवाश्चापि शतशीर्षाश्च शालयः।। प्रधानाः सर्व्वलोकस्य यास्वायत्तमिदं जगत्। ता गावः प्रस्नुता वत्सैः शोणितं प्रक्षरन्त्युत।। निश्चेरुरर्चिषश्चापात् खड्गाच्च ज्वलिनो भृणम्। व्यक्तं पश्यन्ति शस्त्राणि संग्राम समुपस्थितम्।। अग्निवर्ण्णा यथा भासः शस्त्राणामुदकस्य च। कवचानां ध्वजानाञ्च भविष्यति महान् क्षयः।। पृथवी शोणितावर्त्ता ध्वजोडुपसमाकुला। कुरूणां वैशसे राजन्! पाण्डवैः सह भारत!।। दिक्षु प्रज्वलितास्याश्च व्याहरन्ति मृगद्विजाः। अत्याहितं दर्शयन्तो वेदयन्ति महद्भयम्।। एकपक्षाक्षिचरणः शकुनिः खचरो निशि। रौद्रं नदति संरव्धः शोणितं छर्द्दयन्निव।। शस्त्राणि चैव राजेन्द्र! प्रज्वलन्तीव संप्रति। सप्तर्षीणामुदाराणां समवच्छाद्यते प्रभा।। संवत्सरस्थायिनौ च ग्रहौ प्रज्वलितावुभौ। विशाखायाः समीपस्थौ वृस्पतिशनैश्चरौ।। चन्द्रादित्यावुभौ ग्रस्तावेकपक्षे त्रयोदशीम्। अपर्व्वणि ग्रहं यातौ प्रजासक्षयमिच्छतः।। अशोभिता दिशः सर्व्वाः पांशुवर्षैः समन्ततः। उत्पातमेघा रौद्राश्च रात्रौ वर्षन्ति शोणितम्।। कृत्तिका पीड्यते तीक्ष्णैर्नक्षत्रं पृथिवीपते!।। अभीक्ष्णं वाता वायन्ते धूमकेतुमवस्थिताः। विषमं जनयन्त्येत आक्रन्दजननं महत्।। विषु छत्रेषु सर्व्वेषु नक्षत्रेषु विशाम्पते! गृघ्रः संपतते दीर्घः जनयन् भयमुत्तमम्।। चतुर्द्दशीं पञ्चदशीं भूतपूर्ब्बां च षोडशीम्। इमान्तु नाभिजानामि भूतपूर्ब्बां त्रयीदशीम्।। चन्द्रसूर्य्यावुभौ ग्रस्तावेकमासे त्रयोदशीम्। अपर्ब्बणि ग्रहावेतौ प्रजाः संक्षययिष्यतः। शोणितैर्व्वक्तसम्पूर्ण्णा अतृप्तास्तत्र राक्षसाः। प्रतिस्रोतोवहा नद्यः सरितः शोणितोदकाः। फेनायमानाः कूपाश्च कूर्द्दन्ति पृषभा इव।। पतन्त्युल्काः सनिर्घाताः शक्राशनिसमप्रभाः। अद्य चैव निशां व्युष्टामुदये भानुराहरत्।। ज्ज्वलन्तीभिश्च वह्वीभिरुल्काभिः सर्व्वतोदिशम्। अन्योन्यमवमृष्यद्भिस्तत्र चोक्तं महर्षिभिः। भूमिपालसहस्राणां भूमिः पास्यति शोणितम्।। कैलासमन्दराभ्यान्तु तथा हिमवतो गिरेः। सहस्रशो महाशब्दाः शिखराणि पतन्ति च।। महाभूता भूमिकम्पे चत्वारः सागराः पृथक्। वेलामुद्वर्त्त यन्तीव क्षोभयन्तो वसुन्धराम्। वृक्षानुन्मथ्य वान्त्युग्रा वाताः शर्करकर्षिणः।। अभग्माः सुमहावातैरशनीभिः समाहताः। वृक्षाः पतन्ति चैत्याश्च ग्रामेषु नगरेषु च। नीललोहितपीतश्च भवत्यग्निर्हुतो द्विजैः। वामार्चिर्दुष्टगन्धश्च मुञ्चन् वै दारुणं स्वनम्।। स्पर्शा गन्धा रसाश्चैव विपरीता महीपते!। धूमं ध्वजाः प्रमुञ्चन्ति कम्पमाना मुहुर्मुहुः।। मुञ्चन्त्यङ्गारवर्षञ्च भेर्यश्च पटहास्तथा।। शिखराणां समृद्धामामुपरिष्टात् समन्ततः। वायसाश्च रुवन्त्युग्रं वामं मण्डलमाश्रिताः। पक्वापक्वेति सुभृशं वावाश्यन्ते वयांसि च।। निलीयन्ते ध्वजाग्रेषु क्षयाय पृथिवीक्षिताम्।। ध्मायन्तः प्रकिरन्तश्च व्याला वेपयुसंयुताः। दीनास्तुरङ्गमाः सर्वेवारणाः सलिलाश्रयाः” इति असाधारणाणि अमङ्गलानि च दर्शितानि यधा “मुक्तकेशीं छिन्ननासां रुदतीञ्च दिगम्बराम्। कृष्णवस्त्रपरीधाना- मपरां विधवामपि। मुखदुष्टां योनिदुष्टां व्याधिताञ्चैव कुट्टिनीम्। पतिपुत्त्रविहीनाञ्च डाकिनीं पुंश्चलीमहो। कुम्भकारं तैलकारं व्याधं सर्पोपजीविनम्। कुचेलमतिरुक्षा ङ्गं नग्नं काषायवासिनम्। अङ्गविक्रयिणञ्चैव कन्याविक्र यिणं तथा। चितां दग्धशवं भस्म निर्व्वाणाङ्गारमेव च। सर्पक्षतनरं सर्पं गोधाञ्च शशकं विषम्। श्राद्धपात्रञ्च पिण्डञ्च मोटकं वानरं तथा। देवलं वृषवाहञ्च शूद्रश्राद्धान्नभोजिनम्। शूद्रान्नपाचकं शूद्रयाजकं ग्रामयाजकम्। कुशपुत्तलिकाञ्चैव शवदाहनकारिणम्। शून्यकुम्भं भग्नकुम्भं तैलं लवणमस्थि च। कार्पासं कच्छपं चूर्णं कुक्कुरं शब्दकारिणम्। दक्षिणेन शृगालञ्च कुर्वन्तं भैरवं रवम्। कपर्द्दकञ्च क्षौरञ्च छिन्नकेशं नखं मलम्। कलहञ्च विलापञ्च विलापकारिणं जनम्। अमङ्गलं वदन्तञ्च रुदन्तं शोककारिणम्। मिथ्यासाक्षिप्रदातारं चौरञ्च नरघातिनम्। पुंश्चलोपतिपुत्त्रञ्च पुंश्चल्योदनभोजिनम्। देवतागुरुविप्राणां वस्तुवित्तापहारिणम्। दत्तापहारिणं दस्युं हिंसकं सूचकं खलम्। पितृमातृविरक्तञ्च द्विजाश्वत्थविघातिनम्। सत्यघ्नञ्च कृतघ्नञ्च स्थाप्यापहारिणं जनम्। विप्रद्रोहं मित्रद्रोहं क्षतं विश्वासघातकम्। गुरुदेवद्विजानाञ्च निन्दकं स्वाङ्गघातकम्। जीवानां घातकञ्चैव स्वाङ्गहीनञ्च निर्द्दयम्। व्रतोपवासहीनञ्च दीक्षाहीनं नपुंसकम्। गलितव्याघिगात्रञ्च काणं बधिरमेव च। पुक्कसं छिन्नलिङ्गञ्च सुरामत्तं सुरां तथा। क्षिप्तं वमन्तं रुधिरं महिषं गर्द्दभं तथा। मूत्रं पुरीषं श्लेष्माणं कन्थिनं नृकपालिनम्। झञ्झावातं रक्तदृष्टिं वात्याञ्च वृक्षपातनम्। वृकञ्च शूकरं गृध्रं श्येनं कङ्कञ्च भल्लुकम्। पाशञ्च शुष्ककाष्ठञ्च वायसं गन्धकं तथा। अग्रदानिब्राह्म णञ्च तन्त्रमन्त्रोपजीविनम्। वैदञ्च रक्तपुष्पञ्चैवौषधं तुषमेव च। कुवार्त्तां मृतवार्त्ताञ्च विप्रशापञ्च दारुणम्। दुर्गन्धवातं दुःशब्दे राजा संप्राप वर्त्मनि। मनश्च कुत्सितं प्राणः क्षुभितश्च निरन्तरम्। वामाङ्गस्पन्दनं देहज्यरो राज्ञो बभूव ह। तथापि राजा निःशङ्कं दर्शंदर्शममङ्गलम्” इति ब्रह्म० पु० नि० निएवमन्यान्यपि साधारणासाघारणानि निमित्तानान्युन्नेयानि “अमङ्गलाभ्यासरतिं विचिन्त्य तम्” कुमा०
अमङ्गल्य = त्रि० अमह्नलाय हितं यत्। अमङ्गलसाधने “अमङ्गल्यं शीलं तव भवतु नामैकमखिलम्” पुष्पदन्तः।
अमण्ड = त्रि० नास्ति मण्डो भक्तावशिष्टं भूषा वा यस्य। १ मण्डहीने भक्तादौ २ भूषणहीने च।
***