अभिपत्ति = स्त्री अभि + पद–क्तिन्। निष्पत्तौ।
अभिपन्न = त्रि० अभि + पद–क्त। १ अपराधवति, २ आपद्गते, ३ स्वीकृते, ४ आभिमुख्येन गते च।
अभिपित्व = न० अभि + पा–भावे कित्वन्। १ अभिपतने २ आगमनकाले “विश्वंजगदभिपित्वे मनीषा” य० ३३, ३४, “अभिपित्वे अभिपतने आगमनकाले” वेददी०। ३ अभिमतप्राप्तौ “सुदक्षमिहाभिपित्वम् करते गृणानः” ऋ० ४, १६, १, “अभिपित्वमभिमतप्राप्तिम्” भा०। ४ अभितः प्राप्तौ “तस्येदिन्द्रो अभिपित्वेषु रणति” ऋ० १, ८३, ६, “अभिपित्वेषु अभिप्राप्तिषु” भा० कुहाभिपित्वं करतः कुहोषतुः ऋ० १०, ४०, २, “इमामेव ऋचमभिप्रेत्य “क स्विद्रात्रौ भवथः क्व दिवा क्वाभिप्राप्रिं कुरुथ” इति यास्केन अभिप्राप्तिपरत्वमस्य सूचितम्। कर्म्मणि कित्वन्। ५ अभिपतनीये, “नोविश्वं जगदभिपित्वे मनीषा” १, १८६, १, “अभिपित्वे अभिपतनीये” भा० ६ अभिगन्तव्ये, “सूरिभिरभिपित्वे सजोषाः” ऋ० १, १८६, ६, “अभिपित्व अभिगन्तव्ये” भा० ७ अभिप्राप्ने “परुष्णीमाशुश्चनेदभिपित्वं जगाम” ऋ० ७, १८, ९, “वृक्षाश्चिन्मे अभिपित्व अरारणुः” ऋ० ८, ५, २१, अभिपित्वे अभिप्राप्ते भा०। ८ आसन्नकाले “कक्षीवा~ अभिपित्वे अह्नाम्” ऋ० ०१, १२६, ३ “अभिपित्वशब्दस्त्वासन्नकालवाचीति” भा० ९ अभिप्राप्तकाले “अभिपित्वे मनवे शास्यः” ऋ० १, १८९, ७ “अभिपित्वे अभिप्राप्तकाले” भा०।
अभिपुष्प = पु० अभितः पुष्पमस्य। १ सर्वतः पुष्पवति वृक्षे।
अभिपूरण = न० अभ्यासेन अभितो वा पूरणम् प्रा० स०। अभ्यासेन सर्वतः पूरणे “अभिप्लवाभ्यासेनाभिपूरणम्” कात्या० २४, ३, ३३,।
अभिप्रज्ञा = स्त्री अभितः सततं प्रज्ञा चिन्तनम्। सततचिन्तने “तमशनायापिपासे अब्रूतामावाभ्याभिप्रजानीहि” ऐ० भा० अभिप्रजानोहि चिन्तयेति व्याख्यानात्तस्यास्तथार्थत्वम्।
अभिप्रणयन = न० अभितः सर्वतः प्रणयनं संस्कारः। वेदविधिना अग्न्यादेः संस्कारे।
अभिप्रणीत = पु० अभितः प्रणीतः। सर्वतः वेदविधिना संस्कृते वह्न्यादौ “जज्वाल लोकस्थितये स राजा यथाध्वरे वह्निरभिप्रणीतः” भट्टिः।
अभिप्रमुर् = स्त्री अभिप्रमूर्च्छति आहुतिदानेन वह्निरनया। १ अभि + प्र + मूर्च्छ करणे क्विप्। जुह्वाम्।
अभिप्रवर्त्तन = न० अभितः प्रवर्त्तनम्। १ सर्वतः प्रवृत्तौ २ सर्वतः प्रवृत्तिसम्पादने च “त्वक्खादोरोमहर्षश्च स्वेदस्याभिप्रवर्त्तनम्” सुश्रुतः
अभिप्रातर् = अव्य० अत्यन्तं प्रातः। १ अतिप्रत्यूषे “अथाभिप्रातरेव स्थालीपाकावृताज्यमिति” शत० ब्रा०।
अभिप्राप्ति = स्त्री आभिमुख्येन प्राप्तिः प्रा० स०। १ आभिमुख्येन प्राप्तौ अभिपित्वशब्दे उदाहृतं निरुक्तवाक्यम्।
अभिप्राय = पु० अभि + प्र + इण–भावे अच्। १ आशये। “तेषां स्वंस्वमभिप्रायमुपलभ्य पृथक् पृथक्” मनुः। “सर्वानभिप्रायकृतान् भार्य्यालभत कौरव भा० उ० प० अभिप्रैति कर्त्तरि पचा० अच्। २ अभिगामिनि “स्वरितञित आत्मनेपदं कर्त्त्रभिप्राये क्रियाफले” पा० कर्त्त्रभिगामिनीति व्यख्याकारः मणिकृता तु एतत्सूत्रं कर्त्रुद्देश्यकतापरतया व्यख्यातम् तच्चापूर्बशब्दे २५० पृष्ठे दर्शितम्। अभिप्रेयते पुरुषार्थक ङ्क्षिभिः आभिमुख्येन प्रलयेऽभिप्रैति जगदस्मिन् वा कर्मणि आधारे वा अच्। ३विष्णौ “अभिप्रायः प्रियार्होऽर्ह” इति बि० सह०।
अभिप्री = त्रि० अभिप्रीणाति अभि + प्री–क्विप्। १ सर्वतस्तर्पके “तुभ्यं वाता अभिप्रियस्तुयं मर्षन्ति सिन्धवः” ऋ० ९, ३१, ३
अभिप्रेत = त्रि० अभि + प्र + इण–क्त। १ अभिलषिते “अभिप्रेतार्थसिद्धिर्मङ्गलम् “कामाय तु भवेत् काम्यमभिप्रेतार्थसिद्धये” भवि० पु०।
अभिप्रेत्य = अव्य० अभि + प्र + इण–ल्यप्। १ उद्दिश्येत्यर्थ। “यदभिप्रेत्य धात्वर्थस्तत्सम्प्रदानमिति” व्याकरणान्तरम्
अभिप्रेप्सु = त्रि० अभि + प्र + आप–सन–उ। प्राप्तुमिच्छौ “सहासनमभिप्रेप्सुरुत्कृष्टस्यापकृष्टजः” “ऐन्द्रं स्थानमभिप्रेप्सुः” इति च मनुः।
अभिप्रोक्षण = न० अभितः प्रोक्षणं संस्कृरभेदः। १ जलादिना सर्वतः सेचनरूपे र्वधे संस्कारे।
अभिप्लव = पु० अभिप्लवन्ते स्वर्गमभिगच्छन्ति अभि + प्लु–गतौ अच्। १ प्राजापये आदित्ये। “अथादित्याश्च आङ्गिरसश्च उभये प्राजापत्या अस्पर्द्धन्तवयं पूर्बे स्वर्गं लोकमेष्यामोवयं पूर्ब इति। आदित्याश्चतुर्भिः स्तौमैश्चतुर्मिः पृष्ट्यैर्लघुभिः सामभिः स्वर्गं लोकमभ्यप्लवन्त तस्मादभिप्लवाः आदित्याः” शत० ब्रा०। वर्षसाध्ये गवामयने प्रत्येकमासीयचतुर्विंशतिदिवसेषु चतुःषट्कात्मकेषु चतुर्षु षडहेषु विशेषः गवामयनशब्दे वक्ष्यते। “अभिप्लवः षडहः षड्द्यहानि भवन्त्यभिप्लवः” इति शत० ब्रा०। “अभिप्लवं पूर्ब्बं पुरस्ताद्विषुवत् उपयन्ति चतुर्विंशेन महाव्रतमभिप्लवेन परमभिप्लवमिति” च शत० ब्रा०। ३ षडहसाध्ये स्तोमादिफुष्ठसाधनक गवामयनाङ्गयागभेदे च। ४ उपप्लवे–उपद्रवे ५ सर्ब्बतः प्लवने च। अभिप्लवे विहितः ठक्। आभिप्लविकः उक्तषडहेषु विहिते सामादौ।
अभिप्लुत = त्रि० अभि + प्लुत–क्त। १ सर्वतोव्याप्ते २ अभितः सिक्ते च।
अभिभङ्ग = त्रि० अभितोभङ्गोयस्मात्। १ भङ्गहेतौ “अभिभुवेऽभिभङ्गाय वन्वते” ऋ० २, २१, २, अभितोभङ्गः। २ सर्वतोभङ्गे पु०। अभिमतोभङ्गो यस्य। ३ भङ्गर्शीले त्रि०।
अभिभव = पु० अभि + भू–अप्। पराजये, तिरस्कारे, अनादरे, च। “रघोरभिभवाशङ्कि चुक्षुभे द्विषतां मनः” रघुः “अलभ्यशोकाभिभवेयमाकृतिर्विमानना सुभ्रु! कुतः पितुर्गृहे” कु० “अधर्माभिभवाच्चैव प्रदुष्यन्ति कुलस्त्रियः” गीता। रोगादिना गात्रादिजडीभावे “वृषसिंह वृश्चिकघटैर्विद्धि स्थानं गमागमौन स्तः। न मृतं न चापि नष्टं न रोगशान्तिर्नचाभिभवः” षट् पञ्चाशिका।
अभिभवन = न० अभि + भू–ल्युट्। १ अभिभवे रोगादिनाज्ञानरोधे “जरया चाभिभवनं व्याधिभिश्चोपपीडनम्” मनुः
अभिभा = स्त्री अभि + भा–अङ्। १ अभिभवे “मा त्वा काचिदभिभा विश्व्याविदत्” ऋ० २, ४२, १। “अभिभा अभिभवः” भा०।
अभिभार = त्रि० अभिर्भृशार्थे अतिशयितो भारो यस्य। अतिभावान्विते “चतुरुपमृति तद्वज्रमभिभारं करोति तेन वज्रेणाभिभारेणेमा~ लोकान् प्रभिनत्ति” शत० ब्रा०।
अभिभावक = त्रि० अभि + भू–ण्वुल्। १ अभिभवकर्त्तरि २ तिरस्कारके ३ पराजेतरि ४ जडीभावकारके च।
अभिभाविन् = त्रि० अभिभवति अभि + भू–णिनि स्त्रियां ङीप्। १ तिरस्कारके २ पराजेतरि “सर्वातिरिक्तसारेण सर्वतेजोऽभिभाविना” रघुः। तृच्। अभिभविताप्यत्र।
अभिभावुक = त्रि० अभि + भू–उकञ्। १ तिरस्कारके २ पराजेतरि ३ जडीभावकारके च।
अभिभाषण = न० आभिमुख्येन भाषणम् प्रा० स०। १ आभिमुख्येन कथने।
अभिभाषिन् = त्रि० आभिमुख्येन भाषते अभि + भाष–णिनि स्त्रियां ङीप्। आभिमुख्येन भाषिणि। “प्रसन्नमुखरागं तं स्मितपूर्ब्बाभिभाषिणम्” रघुः।
अभिभू = त्रि० अभिभवति अभि + भू–क्विप्। १ अभिभावके २ तिरस्कारके “अभिभुवे अभिभङ्गाय बन्वते” ऋ० २, २१, २, “अभिभुवे अभिभवित्रे” भा०।
अभिभूत = त्रि० अभि + भू–क्त। १ किं कर्त्तव्यमिति ज्ञानशून्ये, २ पराभूते, ३ व्याकुले च। “सज्वरेणाभिभूत” इति ज्यो०।
अभिभूति = स्त्री अभि + भू–क्तिन्। १ पराभवे २ अवज्ञायाञ्च अभिभवति कर्त्तरि क्तिच्। ३ अभिभावके त्रि०। “गायत्र्यै छन्दसे अभिभूत्यै स्वाहा” कात्या० २५२। “यस्य पूर्बी र्द्योर्नक्षत्रमभिभूति पुष्यात्” ऋ० ४, २१, १। अभिभूति अभिभावुकं वलम्” भा०। अतः संगृभ्याभिभूत आभर” ऋ० १, ५, ३, ३। “अभिभूते, शत्रूणामभिभवितः” भा०।
अभिभूय = न० अभि + भू–भावे ‘भुवो भावे’ पा० क्यप्। अभितोभावे “अभिभूयाय त्वा राष्ट्रम्” अथ० १९, ३७, ३। अभि + भू–ल्यप्। तिरस्कृत्येर्थे अव्य०।
अभिभूवन् = त्रि० अभि + भू–ङ्वनिप् स्त्रियां ङीप् रश्च। अभिभावके “समजैषमिमा अहं सपत्नीरभिभूवरीः” ऋ० १०, १५९, ९।
अभिमत = त्रि० अभि + मन–कर्मणि क्त। १ अभिमानविषयीभूते ममेदमिदमित्याकारमिथ्याज्ञानविषये २ सम्मते ३ आदृते ४ अभीष्टे च “अभिमतफलशंसी चारु पुस्फोर बाहुः” भट्टिः। भावे क्त। ५ अभिमाने मिथ्याज्ञाने न०।
अभिमति = स्त्री अभि + मन–क्तिन्। १ अभिमाने, मिथ्याज्ञाने २ आदरे, ३ सम्माने, ४ अभिलाषे च।
अभिमनस् = त्रि० अभिमुखं मनो यस्य। कर्त्तव्यप्रवणमनस्के। भृशा० क्यङ् सलोपश्च अभिमनायते। “कान्तिं नाभिमनायेत कोवा स्थाणुसमोऽपि ते” भट्टिः।
अभिमन्तव्य = त्रि० अभि + मन–कर्मणि तव्य। ज्ञातव्ये “न सा स्त्रीत्यभिमन्तव्या यस्यां भर्त्ता न रज्यति” पुरा०। २ अभिमानेन विषयीकर्त्तव्ये च।
अभिमन्तृ = त्रि० अभि + मन–तृच् स्त्रियां ङीप्। १ अभिमानिनि “मनसश्चाप्यहङ्क्षारमभिमन्तारमीश्चरम्” मनुः। २ सम्मानकर्त्तरि च।
अभिमन्तोस् = अव्य० अभि + मन–तोसुन्। अभिमन्तुमभिमानेन विषयीकर्त्तुमित्यर्थे “एष वै रुद्रियोऽग्निः सहैनमीश्वरः सपुत्रं सपशुमभिमन्तोः” शत० ब्रा०।
अभिमन्त्र = न० अभि + मन्त्र–भावे अच्। १ “मन्त्रमुच्चारयन्नेव मन्त्रार्थत्वेन संस्मरेत्। शेषिणं तन्मना भूत्वा स्यादेतदमुमन्त्रणम् एतदेवाभिमन्त्रस्य लक्षणं वीक्षणाधिकम्” मीमांसोक्ते मन्त्रपाठपूर्वकेक्षणादिसंस्कारभेदे। ल्युट्। अभिमन्त्रणमप्यत्र न० “अभिमन्त्रणशेषी वा विशेषोपदेशात्” कात्या० ६, १, १९, “अभिमन्त्रणमुत्तरैः” कात्या० ९, ८, २१।
अभिमन्त्र्य = अव्य० अभि + मन्त्र + ल्यप्। १ अभिमन्त्रणं कृत्येत्यर्थे
अभि(धि)मन्थ = पु० अभि(धि)मथ्नाति नेत्रम्। “वृद्धैरेतैरभिष्यन्दैर्नराणामक्रियावताम्। तावन्तस्त्वभि(धि)मन्थाः स्युर्नयने तिव्रवेदने” इति माधवोक्ते १ नेत्ररोगभेदे भावे घञ्। २ भृशमन्थने। अव्ययी०। मन्थदण्डस्याभिमुख्येऽव्य०।
अभिमन्यु = पु० कृष्णस्वसृसुभद्रागर्भजाते अर्ज्जुनपुत्रे। स च युद्धे षड्भिः महारथैः परिवृत्य हतः। तत्कथा। “एतत्कुरु महेष्वास! राधेय! यदि शक्यसे। अथैनं विमुखीकृत्य पश्चात् प्रहरणं कुरु। सधनुष्को न शक्योऽयमपि जेतुं सुरासुरैः। विरथं विधनुष्कञ्च कुरुष्वैनं यदीच्छसि तदाचार्य्यवचः श्रुत्वा कर्ण्णो वैकर्त्तनस्त्वरन्। अस्यतो लघुहस्तस्य पृषत्कैर्द्धनुराच्छिनत्। तस्याश्वानबधीद्भोजो गौतमः पार्ष्णिसारथी। शेषास्तु छिन्नधन्वानं शरवर्षैरवाकिरन्। त्वरमाणास्त्वराकाले विरथं षण्महारथाः। शरवर्सैरकरुणा बालमेकमवाकिरन्। स छिन्नधन्वा विरथः स्वं धर्ममनुपालयन्। खड्गचर्मधरः श्रीमानुत्पपात विहायसा। मार्गैः स कौशिकाद्यैश्च लाघस्वेन बलेन च। आर्जुनिर्व्व्यचरद्व्योम्नि भृशं वै पक्षिराडिव। मय्येव निपतत्येष सासिरित्यूर्द्ध्वट्टष्टयः। विव्यधुस्तं महेष्वासाः समरे छिद्रदर्शिनः। तस्य द्रोणोऽच्छिनन्मुष्टौ खड्गं मणिमयत्सरुम्। क्षुरप्रेण महातेजास्त्वरमाणः सपत्नजित्। राधेयो निशितैर्व्वाणैर्व्यधमच्चर्म चीत्तमम्। व्यसिचर्मेषुपूर्णाङ्गः सोऽन्तरीक्षात् पुनः क्षितिम्। आस्थितश्चक्रमुद्यम्य द्रोणं क्रुद्धोऽभ्यधावत” इति “विचेता न्यपतद्भूमौ सौभद्रः परबोरहा। एवं विनिहतो राजन् एको बहुभिराहवे” भा० द्रो० प०।।
अभिमर = पु० आभिमुख्येन म्रियतेऽत्र अभि + मृ–आधारे अप्। १ युद्धे। करणे अप्। २ भये, अभिम्रियते यस्मात् अपादाने अप्। ३ मारणव्यापारे बधे ४ बन्धने च अभिमुखीभूय म्रियते कर्त्तरि अच्। ५ स्वसैन्ये ६ धनाशया प्राणनिरपेक्षतया हस्तिनं व्याघ्रं वाऽभियोद्धुमुद्यते च।
अभिमर्द्द = पु० अभि + मृद–भावे घञ्। १ चूर्णीकरणे २ निष्पीडने च। आधारे घञ्। ३ युद्धे, ४ मद्ये च। कर्त्तरि अच्। ५ मर्द्दनकर्त्तरि त्रि०।
अभिमर्द्दन = न० अभि + मृद–भावे ल्युट्। १ आरम्भकषंयोगनाशनेम चूर्णीकरणे २ निष्पीडने च
अभिमर्श(र्ष) = पु० अभि + मृश(ष) भावे घञ्। १ स्पर्शे धर्षणे च “पराभिमर्शोन तवास्ति कः करमिति” कुमा०। “कृताभिमर्शा(र्षा)मनुमन्यमानः सुतां त्वया नाम मुनिर्विमान्य” शकु०। “परदाराभिमर्शे(र्षे)षु प्रघृत्तान् नॄन् महीपतिः” मनुः।
अभिमर्श(र्ष)क = त्रि० अभि + मृश(ष) ण्वुल्। १ स्पर्शकर्त्तरि २ धर्षणकर्त्तरिच “न दुष्टः कश्चिदप्यासीत् परदाराभिमर्शकः” रामा०।
अभिमर्शन(र्षण्) = न० अभि + मृश(ष)–भावे ल्युट्। १ स्पर्शे “नीवीस्तनप्रावरणसक्धिकेशाभिमर्शनम् (र्षणम्)” या०। “यः पुनः परनारीपरिधानग्रन्थिप्रदेशकुचप्रावरणजघनमूर्द्धकचादिस्पर्शनं सामिलाष इवाचरति” मिता०। “सदोऽभिमर्शनम्(र्षणम्) कात्या० ९, ८, १९, “तूष्णीं पिन्वनादीनां करणाभिमर्शन(र्षण)श्लक्षणधूपनप्रदहनोद्धरणावसेचनानि” कात्या० २६, १, २७ धर्षण्णे च “परदाराभिम(र्श)र्षणम्” स्मृतिः।
अभिमाति = त्रि० अभि–मेङ् कर्त्तरि क्तिन् न इत्त्वम्। घातके। “विष्णोः क्रमोऽस्यभिमातिहा” यजु० १२, ५, “अभिमातिः र्घातकः” वेददी०। २ शत्रौ पु० हेम०। “अग्ने! सहस्व पृतना, अभिमातीरपास्य” य० ९, ३७, अभिमातिः शत्रुरुच्यते स्त्रीत्वमार्षम् अभिमातीन् शत्रून्” वेददी०।
अभिमातिन् = पु० अभिमातमनेन अभि + मेङ–भावे क्त वेदे पृ० न इत्त्वम् इष्टा० इन्। शत्रौ। “बाधते विश्वमभिमातिनम्” ऋ० १, ८५, ३ “अभिमातिनम् शत्रुम्” भा०।
अभिमातिषाह् = त्रि० अभिमातिं रिपुं सहते सह–ण्विवेदे षत्वम्। रिपुजयिनि “तद्वीरासो अभिमातिषाहः ऋ० ६, ७, ३, “अभिमातिषाह शत्रूणामभिभवितारः” भा०
अभिमातिषाह = त्रि० अभिमातिं रिपुं सहते सह–अण् उप० स० वेदे षत्वम्। रिपुजयिनि। “अभिमातिषाहोगवेषणः सहमान उद्भित्” अथ० ५, २०, ११।
अभिमान = पु० अभि + मन–घञ्। १ आत्मन्युत्ककर्षारोपे, २ मिथ्यागर्ष्वे–बलादिदर्पे, ३ प्रणये, ४ हिंसायाम्। ५ गर्वमात्रे “संकल्पयोनेरभिमानभूतम्” कुमा० ६ स्वरूपज्ञाने। “अनात्तस्य चाभिमानसामथ्यात्” कात्या० ९, ५, १२ “अनात्तस्य अनात्तरसस्य सरसस्यैव सोमस्य सोमाभिमानसामर्थ्यात् सोमबुद्धिसामर्थ्यादिति सोमोयमिति बुद्धिरनात्तरसे अनभिषुते एव सोमे नाभिषुते” कर्क०। ७ मिथ्याज्ञाने “अभिमानैर्न मानोमे जातिदोषेण वै महान्” भा० शा० प०। उत्साहादिसमुद्बोधः साधारण्याभिमानतः” सा० द०। मिथ्याज्ञानञ्च तदभावति तत्प्रकारकं ज्ञानं यथा देहे आत्मत्वबुद्धिः आत्मनि च असतोऽप्युत्कर्षस्य ज्ञानम्। शुक्तिकायां रजतज्ञानम् मूर्खस्य पाण्डित्याभिमान इत्यादि। अभिमानश्चात्मघर्म इति वैशेषिकादयः। अन्तःकरणधर्म्म इति पातञ्जलादयो वेदान्तिनश्च। तत्र विपर्य्यासज्ञानमविद्या सा च बुद्धिधर्मः गर्वात्मकज्ञानम् अहङ्कारस्य वृत्तिभेदः। अहङ्कारश्चाभिमानवृत्तिकमन्तःकरणद्रव्यम्” सां० प्र० भा०। अभिमानोऽहङ्कारः सा० सू० “अभिमामोऽहङ्कारस्तस्मात् द्विविधः प्रवर्त्तते सर्गः” सा० का० अभिमानोऽहङ्कारः यत् खल्वालोचितं, मतञ्च तत्राहमधिकृतः शक्तः खल्वहमत्र, मदर्था एवामी विषयाः, मत्तोनान्योऽत्राधिकृतः कश्चिदस्त्यतोऽहमस्मीति योऽमिमानः सोऽसाघारणव्यापारत्वादहङ्कारः तमुपजीव्य हि बुद्धिरध्यवस्यति कर्त्तव्यमेतन्मयेति” त० कौ०। अन्तःकरणञ्च वृत्तिभेदात् त्रिविधमिति साङ्ख्यादयः” “मनोबुद्धिरहङ्कारश्चित्तं करणमान्तरम्। संशयो निश्चयोगर्वः स्मरणम् विषया इमे” इति चतुर्विधवृत्तिमत्त्वेन चदुर्विधं वेदान्तिनः स्वीचक्रुः। “न हि धनिनो गृहस्थस्य धनाभिमानिनो धनापहारनिमित्तं दुःखं दृष्टमिति तस्यैव प्रव्रजितस्य धनाभिमानरहितस्य तदेव धनापहारनिमित्तं दुःखं भवति। न हि कुण्डलिनः कुण्डलित्वाभिमाननिमित्तं सुखं दृष्टमिति तस्यैव कुण्डलवियुक्तस्य कुण्डलित्वाभिमानहीनस्य तदेव कुण्डलित्वनिमित्त सुखं भवति” शा० भा०। अभितोमानः। ८ शृङ्गाररसावस्थाभेदे। “विप्रलम्भोऽथ सम्भोग इत्येष द्विविधोमतः स च पूर्ब्बरागमानप्रवासात्मकश्चतुर्द्धा स्यात्। मानः कोपः स तु द्वेधा प्रणयेर्ष्यासमुद्भवः द्वयोः प्रणयमानः स्यात् प्रमोदे सुमहत्यपि” सा० द० अधिकं मानशब्दे। ९ वैरर्नियातने, “अभिमानधनस्यगत्वरैः” किरा०। अभिमानेन निर्वृत्तः ठक्। आभिभानिक अभिमानसाध्ये त्रि०।
अभिमानित = त्रि० अभिमानोगर्वोजातोऽस्य इतच्। जातगर्व्वे १ जाताभिमाने अभि + मन + णिच्–आधारे क्त। २ अभिमानसाधने मैथुने सुरते न०।
अभिमानिन् = त्रि० अभि + मन–णिनि स्त्रियां ङीप्। १ गर्वयुक्ते २ प्रणयकोपादियुक्ते च सोत्यस्य मनोः ३ पुत्रभेदे पु०। “तरङ्गभीरुर्वप्रश्च तरस्वानुग्र एव च अभिमानी प्रवीणश्च जिष्णुः संक्रन्दनस्तथा। तेजस्वी सबलश्चैव सौत्यस्यैते मनोः सुताः, ह० वं०। ४ मिथ्याज्ञानयुक्ते त्रि०। “अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम्” शा० सू०। “यतोभिमानिव्यपदेश एषः। मृदाद्यभिमानिन्योवागाद्यभिमानिन्यश्चेतना देवता वदनसंवदनादिषु चेतनोचितेषु व्यवहारेषु व्यपदिश्यन्ते” शा० भा०।
अभिमानुक = त्रि० अभि + मन–बा० उकञ्। अभिमानशीले अभिमानश्च प्रागुक्तः बाधितु शक्ते च। “अनक्ता एवस्युरभिमानुकोरुद्रः पशून्त्स्यात् यदञ्ज्यात्” शत० ब्रा०। “अभिमन्तुंबाधितुं शक्तः स्यात्” भा०।
अभिमाय = त्रि० अभिगतोमायामविद्याम् अत्या० स०। इति कर्त्तव्यविमूढे अज्ञानेनैव लोकानां कर्त्तव्याकर्त्तव्येषु मोहः इति तद्गतत्वान्मूढत्वम्।
अभिमि(मे)ह्य = त्रि० अभि + मिह–बा० वेदे क्यप् लोके ण्यत्। यस्याभिमुखं मेहनं मलमूत्रत्यागः क्रियते तस्मिन् “यत्र मेक्ष्यन् भवति तत् कृष्णविषाणाया लोष्टं वा किञ्चिद्वोपहन्तीयं ते यज्ञिया तनूरिति इयं वै पृथिवी देवय जनी सा दीक्षितेन नाभिमिह्या” शत० ब्रा०।
अभिमुख = त्रि० अभिगतोमुखम् अत्या० स०। १ सम्मुस्यतां गते “प्रसादाभिमुखो ब्रह्मा प्रत्युवाच दिवौकसः” कुमा०। “वानराभिमुखोऽगच्छद्रणेरणविशारदः” रामा०। “निद्रा चिरेण नयनाभिमुखीबभूव”। मुखशब्दस्य स्वाङ्गपरत्वे स्त्रियां वा ङीप्। अभिमुखीप्रतिमा अस्वाङ्गपरत्वे टावेव अभिमुखा शाला। अभिगतं मुखं यस्य। तत्तत्कर्म्मकरणाय २ प्रेरितमुखे उद्यते। “प्रातः प्रयाणाभिमुखा य तस्मै” “पुरः प्रवेशाभिमुखो बभूव” इति च रघुः। “युयोज पाकाभिमुखैः भर्त्तुर्विज्ञापनाफलैः” कु०। मुख मभिलक्षीकृत्य अव्य०। ३ आभिमुख्ये अव्य०। “कर्ण्णं ददात्यभिमुखं मयि भाषमाणे” अमरुशतकम्।
अभिमुखीकरण = न० न अमिमुखः अभिमुखः क्रियते अनेन अभिमुख + च्वि–कृ–करणे ल्युट्। व्याकरणोक्ते सम्बोघने। कृते हि सम्बोधनपदाद्युच्चारणे श्रोता अभिमुखी भवति इति तस्य तथात्वम्। “सिद्धस्याभिमुखीभावमात्रं सम्बोधनं विदुः। प्राप्ताभिमुख्यः पुरुषः क्रियासु विनियुज्यते” इति हर्य्युक्तदिशा अभिमतक्रियाप्रवर्त्तनाविषयबोधनस्यैव सम्बोधनपदार्थत्वात् प्रवर्त्तयितव्यस्य तत्राभिमुखीभावस्यावश्यकत्वाच्च तथात्वम्।
अभिमुखीभाव = पु० अनभिमुखस्य अभिमुखतया भावः। १ आभिमुख्ये २ कार्य्यानुकूलतायाम् ३ तत्तत्क्रियोद्यमे च।
अभिमृष्ट = त्रि० अभि + मृश–मृष–वा क्त। १ स्मृष्टे २ धर्षिते ३ मिलिते ४ संसृष्टे च। मृज–क्त। कृतमार्जने त्रि०।
अभिमेथक = त्रि० अभि + मिथ–ण्वुल्। सर्वप्राप्तिवाधने वाक्यभेदे। स्त्रियां तु टापि अत इत्त्वम्। “सर्वाप्तिर्वा एषा वाचः वदभिमेथिका सर्व्वेकामाः अश्चमेधे सर्बया वाचा सर्वान् कामानाप्नवाम” शत० ब्रा०।
अभिम्लात = त्रि० अभि + म्ला–तन्। सर्व्वतोम्लाने। न० त०। अनभिम्लातः तस्यापत्यम्। शिवा० अण्। आनभिम्लातः अनभिम्नात इत्यपि नमध्यपाठः।
अभियाचन = न० अभि + याच + ल्युट्। अभिमुणप्रार्थने।
अभियाति = पु० अभिमुखं युद्धार्थं याति या–क्तिच्। १ रिपौ भावे क्तिन्। २ युद्धार्थमभिगमने स्त्री।
अभियातिन् = पु० अभियातमनेन अभि + या–भावे क्त इष्टा० इनि। शत्रौ।
अभियातृ = पु० अभिमुखं याति युद्धार्थम् अभि + या–तृच्। १ शत्रौ, २ अभिमुखगन्तृमात्रे त्रि०। स्त्रियां ङीप्।
अभियायिन् = त्रि० अभिमुखं याति या–णिनि। अभिमुखनन्तरि। “रामाभियायिनां तेषां तदेवाभूदमङ्गलम्” रघुः।
अभियुक्त = त्रि० अभि + युज–क्त। १ परैः रुद्धे, २ आसक्ते व्यवहारविषये ३ प्रतिवादिनि च। “अभियुक्तोऽभियोगस्य यदि कुर्य्यादपह्नवम्” नार०। “अभियुक्तन्तु नान्येन नोक्तं विप्रकृतं नयेदिति” या०। ४ पराक्रान्ते “नागाभियुक्त इव युक्तमहो महेभः” माघः। ५ आप्ते वृद्धतमे।
अभियुग्व(ज्व)न् = त्रि० अभि + युज–ङ्वनिपं वेदे पृ० कुत्वम। अभियोक्तरि “स रथेन रथीतमोऽस्माकेनामियुग्वना” ऋ० ६, ४५ १५ लोके तु अभियुज्वा। स्त्रियां ङीप् वनीरश्च।
अभियुज् = त्रि० अभिमुखं युनक्ति अभि + युज–किप्। अभि योक्तरि “आभिर्विश्वा अभियुजो विषूचीः” ऋ० ६, २५, २।
अभियोक्तव्य = त्रि० अभि + युज–तव्य। निषेध्ये “न स राज्ञाभियोक्तव्यः स्वकं संसाधयन् धनम्” मनुः। व्यवहारे यं प्रति अभियोगः कर्त्तुं शक्यते २ तस्मिन् प्रतिवादिनि अभिमुखं ३ योजनीये च।
अभियोक्तृ = त्रि० अभि + युज–तृच्। १ व्यवहारे–अपराधयोजनकर्त्तरि वादिनि, स्त्रियां ङीप् “अभियोक्ता दिशे द्देश्यं करणं बान्यदुद्देशेत्”। “अभियोक्ता न चेत् ब्रूयाद्बध्योदण्ड्यश्च धर्म्मतः” इति च मनुः २ युद्धार्थमाक्रामिणि च।
अभियोग = पु० अभि + युज–घञ्। अन्यकृतस्य निजधर्षणस्य नृपाय १ विज्ञापने, (नालिश) अभियोगी द्विविधः “अभियोगस्तु विज्ञेयः शङ्कातत्त्वाभियोगतः। शङ्काऽसतान्तु संसर्गात् तत्त्वं होढाभिदर्शनात्” नारदोक्तेः। “अभियोगमनिस्तीर्य्य नैनं प्रत्यभियोजयेत्” या० ३ युद्धार्थमाक्रमे, ४ शपथे, ५ उद्योगे, ६ आग्रहे “सन्तः स्वयं परहितेषु कृताभि योगाः नीति० ७ अपचिकीर्षयाक्रमणे, “सप्रापदप्राप्तपराभियोगम्” कुमा० ८ अमिनिवेशे “नयाभियोगं मनसः प्रसादं समापयस्वात्मगुणेन कामम्” रामा० ९ अपचिकीर्षयानिरोधे। “क्षुभितं वनगोचराभियोगादिति” किरा०।
अभियोगिन् = त्रि० अभि + युज–घिनुण्। १ अभियोगकर्त्तरि वादिनि “मिथ्याभियोगी दण्ड्यःस्यात् विवादात् द्विगुणं दमम्” या०। २ आक्रमकर्त्तरि, ३ आग्रहयुक्ते, ४ अभिनिविष्टे, ५ योजनकर्त्तरि च।
अभियोजन = न० भृशं योजनम्। योजितस्य दाढार्थ्यं पुनर्योजने “अभियोजनं नाम युक्तस्य पुनर्योजनमिति” माध०।
अभिरक्षण = न० अभितो रक्षणम्। मन्त्रादिना सर्व्वतः श्वेत सर्षपादिविक्षेपैः यातुधानादिभ्यो १ रक्षणे २ सर्द्वतो रक्षणे चाभावे अ। अभिरक्षाप्यत्र स्त्री। “प्रशान्तबाधं दिशतोऽभिरक्षया” किरा०।
अभिरक्षित = त्रि० अभितोरक्षितः। सर्वतोरक्षिते।
अभिरक्षितृ = त्रि० अभितोरक्षति तृच् स्त्रियां ङीप्। सर्वतो रक्षके “वर्ण्णानामाश्रमाणाञ्चराजा सृष्टोऽभिरक्षिता” मनुः
अभिरत = त्रि० अभिमुस्वतया भृशं वा रतः। १ अत्यान्तासक्ते २ अभिमुखतया रते च।
अभिरति = स्त्री अभितो रतिः प्रा० स०। आसक्तौ “न मृगयाभिरतिर्नदुरोदरम्” रघुः।
अभिरम्य = त्रि० अभिरमते भृशं रमतेऽत्र आघारे यत्। मनोरमे।
अभिराज् = त्रि० अभितो राजते अभि + राज + क्विप्। १ अधिकदीप्तिशीले २ अधीश्वरे च।
अभिराद्ध = त्रि० अभि + राध–क्त। सेविते।
अभिराम = पु० अभिरम्यतेऽस्मिन् रम + आधारे घञ्। १ सुन्दरे २ प्रिये, ३ मनोहरे च। “श्रोत्राभिरामाः शृण्वन्तौ रथनेमिस्वनोन्मुखैः” “श्रोत्राभिरामध्वनिना रथेन “यस्यात्मगेहे नयनाभिरामः” इति च रघुः ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्वन्दने दत्तदृष्टिः शकु०। “राम इत्यभिरामेण वपुषा तस्य नोदितः” रघुः।
अभिरुचि = पु० भृशा अत्यन्ता रुचिः प्रा० स०। १ अत्यन्तरुचौ
अभिरूप = त्रि० अभिरूपयति सर्वं स्वात्मकं करोति चु० रूपअच्। १ शिवे, २ विष्णौ च। अभिरूपयति निरूपयति। ३ पण्डिते। उत्कृष्टं रूपं यस्य। ४ कन्दर्पे, ५ चन्द्रे च। ६ मनोहरे त्रि०। “उत्कृष्टायाभिरूपाय वराय सदृशाय च” मनुः। “अभिरूपगुणभूयिष्ठा परिषत्” शकु० ७ अनुरूपे त्रि० “काममनभिरूप्रमस्या वयसो वल्कलम्” शकु०। अभिरूपस्य भावः मनोज्ञा० वुञ् आभिरूपकम् ष्यञ् आभिरूप्यञ्च सौन्दर्य्यादौ न०। “अर्चकस्य तपोयोगादर्चनस्यातिशायनात्। आभिरूप्याच्च विम्बानां देवः सान्निध्यमृच्छति” ति० त० पु०।
अभिलक्ष्य = त्रि० अभिलक्ष्यते उद्दिश्यते अभि + लक्ष ण्यत्। १ उद्देश्ये। लक्ष्यस्य शरव्यस्याभिमुख्यम् अव्ययी०। २ शरव्याभिमुख्ये अव्य०। “शब्दं प्रतिगजप्रेप्सुरभिलक्ष्यमपातयम्” रघुः। ल्यप्। ३ लक्ष्यीकृत्येत्यर्थे अव्य०।
अभिलङ्घन = न० अभि + लघि–भावे ल्युट्। उल्लङ्घने। “त्रयाणामेव भूतानां सागरस्याभिलङ्घने” रामा०।
अभिलषणीय = त्रि० अभि + लष–कर्म्मणि अनीयर्। काम्ये। एष्टव्ये। तव्य। अभिलषितव्योऽप्यत्र त्रि०।
अभिलषित = त्रि० अभि + लष–कर्म्मणि क्त। १ इष्टे अभिलाषविषये। भावे क्त। २ अभिलाषे इच्छायाम् न०।
अभिलाप = पु० अभिलप्यते मनःसंकल्पोऽनेन। १ मनःसंकल्पावेदके अहमिदं करिष्ये इत्यादिरूपे वाक्ये “काम्ये हि कामाभिलापसहितक्रुशजलतिलत्यागरूपः सङ्कल्पः कार्य्य इति प्रा० त० प्रक्रमाधिकरणम्। २ आत्मीयज्ञानाकारोल्लेखिवाक्ये च यथा भूतलं घटाभाववदिति ज्ञानावेदकं घटोनास्तीति वाक्यं यथा च अयं घट इति ज्ञानोत्तरमनुव्यवसायात्मकज्ञानस्यावेदकं घटमहं जानामीति वाक्यम् “न निर्ष्विपकं ज्ञानं तस्य ग्राहकमिष्यते तथाऽभिलाप- संसर्गयोग्यत्वविरहान्नच सविकल्पकज्ञानवेद्यानां हि वचनप्रयोगयोग्यता न तु रसस्येति” सा० द०। कथने च “तदभावाभिलापाच्च” शा० सू०।
अभिलाव = पु० अभि + लू–घञ्। छेदने।
अभिलाष(स) = पु० अभि + लष(स)–घञ्। १ इच्छायां, २ लोभे च। अभेरिच्छाद्योतकत्वात् तदुपसृष्टलसेरिच्छार्थत्वम्। “अतोऽभिलाषे प्रथमं तथाविधे” इति रघुः मानुषामनुजव्याघ्र! साभिलाषाः सुतान् प्रति” देवीमा०। “न खलु सत्यमेव शकुन्तलायां ममाभिलाषः” शकु०।
अभिलाषक = त्रि० अभि + लष–ण्वुल्। १ अभिलाषयुक्ते।
अभिलाषिन् = त्रि० अभि + लष–णिनि स्त्रियां ङीप्। अभिलाषशीले “जलाभिलाषी जलमाददानाम्” “अगच्छदंशेन गुणाभिलाषिणी” इति च रघुः “असंशपं क्षत्रपरिग्रहक्षमा यदार्य्यमस्यामभिलाषि मे मनः” शकु०।
अभिलाषुक = त्रि० अभि + लष–उकञ्। अभिलाषशीले, “जयमत्र भवान्नूनमरातिष्वभिलाषुकः” किरा०।
अभिवदन = म० अभिरानुकूल्ये अनुकूलं वदनं कथनम्। १ आनुकूल्यार्थकथने अभिवादने। वदनस्य मुखस्याभिमुख्यम् अव्ययी०। २ मुखस्याभिमुख्ये अव्य०।
अभिवन्दन = न० अभितः सर्वतोऽभिमुखे वा वन्दनम्। १ सर्वतोनतिकरणे २ अभिमुखप्रणामे च। “उभयोरेवशिरसा चक्रे पादाभिवन्दनम्” रामा०।
अभिवयस् = त्रि० अभिमतं श्रेष्ठं वयोऽस्य प्रा० ब०। प्रकृष्टवयस्के “तीव्रस्याभिवयसो अस्य पाहि” ऋ० १०, १६०, १।
अभिवर्त्तिन् = त्रि० आभिमुख्येन वर्त्तते अभि + वृत–णिनि स्त्रियां ङीप्। १ अभिमुखे वर्त्तमाने “कल्पन्तां च रणार्थाय मृत्युकालाभिवर्त्तिनः” रामा०।
अभिवर्षक = त्रि० अभितोवर्षकः। १ सर्वतोवर्षणकर्त्तरि।
अभिवर्षण = न० अभितोवर्षणम्। सर्वतोवर्षणे।
अभिवर्षिन् = अभितोर्वर्षति अभि + वृष–णिनि स्त्रियां ङीप्। सर्वतोवर्षके।
अभिवात् = त्रि० आभिमुख्येन वाति गच्छति वा–शतृ स्त्रियां ङीप्। १ अनुचरे, २ “अभिवानभिभूत्यै रूपम्” शत० ब्रा०।
अभिवाद = पु० अभि + चु० वद–भावे अच्। १ अभितः प्रणामे“प्रत्युत्थानाभिवादाभ्यां पुनस्तान् प्रतिपद्यते” इति “नाममधेयस्य ये केविदभिवादं न जानते” इति च मनुः
अभिवादक = त्रि० अभि + चु० वद–ण्वुल्। १ आभिमुख्येन नतिकारके। “आयुष्मान् भव सौम्येति वाच्योविप्रोऽभिवादकः (ने) मनुः।
अभिवादन = न० अभिमुखीकरणाय वादनं वदनम् चु०–वदल्युट्, अभिमुखं वाद्यते आशीरनेन वद–णिच्–ल्युट् वा। १ नामग्रहणपूर्ब्बकनतौ २ पादग्रहणेन वाचा वा नतौ। तत् प्रकारो यथा “ऊर्द्ध्वं प्राणाह्युत्क्रामन्ति यूनः स्थविर आयति। प्रत्युत्थानाभिवादाभ्यां पुनस्तान् प्रतिपद्यते।। अभिवादनशीलस्य नित्यं वृद्धोपसेविनः। चत्वारि संप्रवर्द्धन्ते आयुर्विद्या यशो बलम्।। अभिवादात् परं विप्रो ज्यायांसमभिवादयन्। असौ नामाहमस्मीति स्वं नाम परिकीर्त्तयेत्।। नामधेयस्य ये केचिदभिवादं न जानते। तान् प्राज्ञोऽहमिति ब्रूयात् स्त्रियः सर्वास्तथैवच।। भोःशब्दं कीर्त्तयेदन्ते स्वस्य नाम्नोऽभिवादने। नाम्नां स्वरूपभावोहि भोमाव ऋषिभिः स्मृतः।। आयुष्मान् भव सौम्येति वाच्यो विप्रोऽभिवादकः (ने)। अकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्ब्बाक्षरप्लुतः।। यो न वेत्त्यभिवादस्य विप्रः प्रत्यभिवादनम्।। नाभिवाद्यः स विदुषा यथा शूद्रस्तथैव सः।। ब्राह्मणं कुशलं पृच्छेत् क्षत्त्रबन्धुमनामयम्। वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव च।। अवाच्यो दीक्षितो नाम्ना यवीयानपि यो भवेत्। भोभवत्पूर्ब्बकं त्वेनमभिभाषेत धर्मवित्।। परपत्नी तु या स्त्री स्यादसम्बन्धा च योनितः। तां ब्रूयाद्भवतीत्येवं सुभगे! भगिनीति च।। मातुलांश्च पितृव्यांश्च श्वशुरानृत्विजो गुरून्। असावहमिति ब्रूयात् प्रत्युत्थाय यवीयसः।। मातृष्वसा मातुलानी श्वश्रूरथ पितृष्वसा। संपूज्या गुरुपत्नीवत् समास्ता गुरुभार्य्यया।। भ्रातुर्भार्य्योपसंग्राह्या सवर्णाहन्यहन्यपि। विप्रोष्य तूपसंग्राह्या ज्ञातिसम्बन्धियोषितः।। पितुर्भगिन्यां मातुश्च ज्यायस्याञ्च स्वसर्य्यपि मातृवद्वृत्तिमातिष्ठेत् माता ताभ्यां गरीयसी।। दशाब्दाख्यं पौरसख्यं पञ्चाब्दाख्यं कलाभृताम्। त्र्यब्दपूर्ब्बं श्रोत्रियाणां स्वल्पेनापि स्वयोनिषु।। ब्राह्मणं दशवर्षन्तु शतवर्षन्तु भूमिपम्। पितापुत्त्रौ विजानीयाद्ब्राह्मणस्तु तयोः पिता।। वित्तं बन्धुर्वयः कर्म विद्या भवति पञ्चमी। एतानि मान्यस्थानानि गरीयो यद्यदुत्तरम्।। पञ्चानां त्रिषु वर्णेषु भूयांसि गुणवन्ति च। यत्र स्युः सोऽत्र मानार्हः शूद्रोऽपि दशमीं गतः।। चक्रिणो दशमीस्थस्य रोगिणो भारिणः स्त्रियाः। स्नातकस्य च राज्ञश्च पन्था देयो वरस्य च।। तेषान्तु समवेतानां मान्यौ स्नातकपार्थिवौ। राजस्नातकयोश्चैव स्नातको नृपमानभाक्” इति मनुः “राजर्त्विक्श्रीत्रियाधर्मप्रतिषेध्युपाध्यायपितृव्य मातामहमातुलश्वशुरज्येष्ठभ्रातृसम्बन्धिनश्चाचार्य्यवत्। पत्न्य एतेषां सर्वर्लाः। मातृष्वसा पितृष्वसा ज्येष्ठा स्वसा च।। श्वशुरपितृव्यमातुलर्त्विजां कनीयसां प्रत्युत्थानमेवाभिवादनम्। हीनवर्ण्णानां गुरुपत्नीनां दूरादभिवादनं न पादोपसंस्पर्शनम्। गुरुपत्नीनां गात्रोत्सादनाञ्जनकेशसंयभमपादप्रक्षालनं न कुर्य्यात्” विष्णुः। “पादोपसंग्रहणंगुरुसमवायेऽन्वहम्। अभिगम्य तु विप्रोष्य मातापितृतद्बन्धूनां पूर्व्वजानां विद्यागुरूणां तत्तद्गुरूणाञ्च सन्निपाते परस्य। नाम प्रोच्या हमयमित्यभिवादोऽज्ञसमवाये स्त्रीपुंयोगेऽमिवादतोऽनियममेके न विप्रोष्य स्त्रीणाममातृपितृव्यभार्य्याभगिनीनां, नोपसंग्रहणं भ्रातृभार्य्याणां श्वश्र्वाश्च। ऋत्विक्श्वशुरपितृव्यमातुलानान्तु यवीयसां प्रत्युत्थानमनभिवाद्यातपान्थः पूर्ब्बः पौरोऽशीतिकावरः शूद्रोऽप्यपत्यसमेनावरोऽप्यार्य्यः शूद्रेण नाम चास्य वर्जयेद्राज्ञश्चाजपः प्रेष्योभोभवन्निति वयस्यः समानेऽहनि जातोदशवर्षवृद्धः पौरः पञ्चभिः कलाभरः स्त्रीत्रियश्चारणस्त्रिभिः राजन्योर्वश्यः कर्मविद्याहीनोदीक्षितस्य प्राक्क्रयात्। वित्तबन्धुकर्मजातिविद्यावयांसि मान्यानि परवसीयांसि श्रुतन्तु सर्वेब्योगरीयस्तन्मूलत्वाद्धर्मस्य श्रुतः” गौत०। अनभिवाद्याश्च “समिद्वार्युदकुम्भ पुष्पान्नहस्तोमाभिवादयेद्यच्चाध्येवंयुक्तमिति” बौधायनः। “जपयज्ञजलस्यञ्च समित्पुष्पकुशानलान् दन्तकाष्ठञ्च भक्ष्यञ्च वहन्तं नाभिवादयेदिति” लघुहारीतः। अन्यत्रापि। “समित्पुष्पकुशाग्न्यम्बु–मृदन्नाक्षतपाणिकः। जपं होमञ्च कुर्वाणोनाभिवाद्यो द्विजो भवेदिति” च।
अभिवाद्य = त्रि० अभिवादयितुमर्हः यत्। १ अभिबादनार्हे अभिवाद्याश्चाभिवादनशब्दे उक्ताः। “गुरुपत्नी तु युवतिनांभिवाद्येह पादयोः” मनुः। ल्युप्। २ अभिप्रणम्येत्यर्थे अव्य०।
अभिवान्य = त्रि० अभि + वन–संभक्तौ कर्म्मणि ण्यत्। संभजनीये। “अभिवान्यवत्सायाः प्तजुहुयात्” श्रुतिः।
अभिवासस् = अव्य० वासस उपरि अव्ययी०। परिहितवस्त्रस्योपरिभाने” स वा अभिवासः संनह्यति” शत० ब्रा०। “परिहितस्य वस्त्रस्य उपरि” भा०।
अभिवाह्य = अभि + वह–ण्यत्। १ अभिती वहनीये। भावे ण्यत्। २ वहने न० “हव्यकव्याभिवाह्याय सर्वस्यास्य च गुप्तये” इति अनुः।
अभिविधि = पु० अभितो विधिर्व्याप्तिः। १ व्याप्तौ, मय्यादायां हि अवघिभूतं विहाय तत्तत्कार्य्यान्वयः अभिविधौ तु अवघि सहिते कार्य्यान्वय इति तस्य व्यापकता अतएवोक्तम् “मर्य्यादाभिविधिसन्देहे कार्य्यान्वितत्वादभिविधेर्ग्रणमित्यभि युक्तैः। “आङ् मर्य्यादाभिविध्योः” पा०। “अभिविधौ भाव इनुण्” पा० “मर्य्यादायामभिविधौ क्रियायोगेषदर्थयोः। य आकारः स ङित् प्रोक्त” मु० बो०।
अभिविमान = पु० परमात्मनि, “यस्त्वेनं प्रादेशमात्रमभिविमानं वैश्वानरमुपास्ते” इति छा० उ०। एतस्य निरुक्तिः शा० भाष्ये दर्शिता। प्रत्यगात्मतया सर्वैः प्राणिभिरभिविमीयत इति अभिविमानः। अभिगतो वाऽयं प्रत्यगात्मत्वात्, विमानश्च मानवियोगादित्यर्भिविमानः। अभिविमीते वा सर्वं जगत्कारणत्वादित्यभिविमानः” इति।
अभिवृत्ति = स्त्री अभि + वृत्–क्तिन्। अभिगमने “स्वर्गस्य नो तस्याभिवृत्त्यै” ता० ब्रा० “अभिवृत्त्यै अभिगमनाय” भा०
अभिव्यक्त = त्रि० अभि + वि + अन्ज–कर्मणि क्त। १ अभिव्यक्तियुक्ते २ सांख्यादिम–सिद्धार्विर्भावयुक्ते “तत्र दैवमभिव्यक्तं पौरुषम् पौर्ब्बदेहिकम् पु० अभिव्यक्तमाविर्भूतं फलदानोन्मुखम्” रघु०
अभिव्यक्ति = स्त्री अभि + वि–अन्ज–क्तिन्। १ प्रकाशे सूक्ष्मरूपेण स्थितस्य (“कारणात्मना स्थितस्य) कारणस्य २ कार्य्यरूपेणाविर्भावे। साङ्ख्यपातञ्जलादिमते हि उत्पत्तेः प्राक् कार्य्यं सत् कारणाव्यापारेण व्यर्ज्यते यथोक्तम्। सांख्यसूत्रे। “त्रिविधविरोधापत्तेश्च”। “अथ सर्बं कार्य्यं त्रिविधं सर्ववादिसिद्धमतीतमनागतं वर्त्तमानमिति। तत्र यदि कार्य्यं सदा सन्नेष्यते तदा त्रिविधत्वानुपपत्तिः। अतीतादिकाले घटाद्यभावेन घटादेरतोतादिधर्म्मकत्वानुपपत्तेः सदसतोः सम्बन्धानुपपत्तेः। किञ्च प्रतियोगित्वस्य प्रतियोगिरूपत्वे तद्दोषतादवस्थ्यात्। अभावमात्रस्वरूपत्वे पटाद्यभावो घटाद्यभावः स्यादभावत्वाविशेषात्। अभावेष्वपि स्वरूपतो विशेषाङ्गीकारे चाभावत्वस्य परिभाषामात्रत्वप्रसङ्गात्। अथ प्रतियोग्येवाभावविशेषक इति चेन्न असतः प्रतियोगिनः प्रागभावादिषु विशेषकत्वा सम्भवादिति। तस्मान्नित्यस्यैव कार्य्यस्यातीतानागतवर्त्तमानावस्थाभेदा एव वक्तव्याः। घटोऽतीतो घटो वर्त्तमानो घटो भविष्यन्निति प्रत्ययानां तुल्यरूपतौचित्यात्। न त्वेकस्य भावविषयत्वमन्ययोश्चाभावविषयत्वमिति। ते एवातीतानागतत्वे अवस्थे ध्वंसप्रागभावव्यवहारं जनयतस्तदतिरिक्ताभावद्वये प्रमाणाभावादिति एवमत्यन्ताभावान्योन्याभावापप्यधिकरणस्वरूपावेव। न चैवं प्रतियोगिसत्ताकालेऽप्यधिकरणस्वरूपानपायादत्यन्ताभावप्रत्ययप्रसङ्ग इति वाच्यम् परैरपि प्रतियोगिमति देशे तदत्यन्ताभावा ङ्गीकारात्। प्रतियोगिसम्बन्धस्यातीतानागत्रावस्थयोरेव सामयिकात्यन्तामावत्वसम्भवाच्च। तस्मान्नास्मत्सिद्धान्तेऽभावोऽतिरिक्तः किञ्च घटो ध्वस्तो घटो भावी घटोऽत्र नास्तोत्यादिप्रत्ययनियामकतया किञ्चिद्वस्त्वाकाङ्क्षायां तद्भावरूपमेव कल्प्यते लाघवात्। अभावस्यादृष्टस्य कल्पने गौरवादिति” प्र० भा०।। “नासदुत्पादो नृशृङ्गवत्” सू०।। नरशृङ्गतुल्यस्यासत उत्पादोऽपि न सम्भवतीत्यर्थः।। “उपादानमियमात्” सू०।। मृद्येव घट उत्पद्यते तन्तुष्वेव पट इत्येवं कार्य्याणामुपादानकारणं प्रति नियमोऽस्ति। स न सम्भवति उत्पत्तेः प्राक् कार्य्यासत्तायां हि न कोऽपि कारणे विशेषोऽस्ति येन कञ्चिदेवासन्तं जनयेन्नेतरमिति। विशेषाङ्गीकारे च भावत्वापत्तेर्गतमसत्तया। स एव च विशेषोऽस्माभिः कार्य्यस्यानागतावस्थेत्युच्यत इति। एतेन यद्वैशेषिकाः प्रागभावमेव कार्योत्पत्तिनियामकं कल्पयन्ति तदप्यपास्तम्। अभावकल्पनापेक्षया भावकल्प्यने लाघवात्। भावानां दृष्टचादन्यानपेक्षत्वाच्च। किञ्चाभावेषु स्वतो विशेषे भावत्वापत्तिः। प्रतियोगिविशेषश्च प्रतियोग्यसत्ताकाले नास्ति। अतोऽभावानामविशिष्टतया न कार्य्योत्पत्तौ नियामकत्वं युक्तमिति।। “शक्तस्य शक्यकरणात्” सू०।। कार्य्यशक्तिमत्त्वमेवोपादानकारणत्वम् अन्यस्य दुर्वचत्वात् लाघवाच्च। सा शक्तिः कार्य्यस्यानागतावस्थैवेत्यतः शक्तस्य शक्यकार्य्यकरणान्नासत उत्पाद इत्यर्थः।। “कारणभावाच्च” सू० उत्पत्तेः प्रागपि कार्यस्य कारणाभेदः श्रूयते तस्माच्च सत्कार्यसिद्ध्या नासदुत्पाद इत्यर्थः। कार्यस्यासत्त्वे हि सदसतोरभेदानुपपत्तिरिति। उत्पत्तेः प्राक् कार्य्याणां कारणाभेदे च श्रुतयः। “तद्धेदं तर्ह्यव्याकृतमासीत्। सदेव सौम्येदमग्र आसीत्। आत्मैवेदंमग्र आसीत्। आप एवेदमग्र आसुरित्याद्याः।। “न भावे भावयोगश्चेत्” सू०।। मन्वेवं कार्यस्य नित्यत्वे सति भावरूपे कार्ये भावयोग उत्पत्तिवोगो न सम्भवति असतः सत्त्व एवोत्पत्तिव्यवहारादिति चेदित्यर्थः।। “नाभिव्यक्तिनिबन्धनौ व्यवहाराव्यवहारो” सू०।। कार्योत्पत्तेर्व्यवहाराव्यवहारौ कार्य्याभिव्यक्तिनिमित्तकौ। अभिव्यक्तित उत्पत्तिव्यवहारोऽभिव्यक्त्यमावाच्चोत्पत्तिव्यवहाराभावः न त्यसतः सत्तयेत्यर्थः। अभिव्यक्तिश्च न ज्ञानं किन्तु वर्त्तमानावस्था। कारणव्यापारोऽपि कार्यस्य वर्त्तमानलक्षणपरिणाममेव जनयति। सतश्च कार्यस्य कारणव्यापारादभिव्यक्तिमात्रं लोकेऽपि दृश्यते। यथा शिलामध्यस्थप्रतिमाया लैङ्गिकव्यापारेणाभिव्यक्तिमात्रं तिलस्थतैलस्य च निष्पीडनेन, धान्यस्थतण्डु- लस्य चावघातेनेति। तदुक्तं वाशिष्ठे। “सुसूक्ष्मावस्थया चक्रपद्मरेखाः शिलोदरे। यथा स्थिताश्चितेरन्तस्तथेयं जगदावली”।। एतेषामिवास्माकमप्यनागतावस्थायाः प्रागभावाख्याया अभिव्यक्तिहेतुत्वाच्चेति। नन्वतीतमप्यस्तीत्यत्र किंप्रमाणं? न ह्यनागतसत्तायामिव श्रुत्यादयोऽतीतसत्तायामपि स्फुटमुपलभ्यन्त इति। मैवम्। योगिप्रत्यक्षत्वान्यथानुपपत्त्यानागतातीतयोरुभयोरेव सत्त्वसिद्धेः प्रत्यक्षसामान्ये विषयस्य हेतुत्वात्। अन्यथा वर्त्तमानस्यापि प्रत्यक्षेणासिद्ध्यापत्तेः तस्माद्धियामौत्सर्गिकप्रामाण्येनासति बाधके योगिप्रत्यक्षेणातीतमप्यस्तीति सिद्ध्यति योगिनामतीतानागतप्रत्यक्षे च श्रुतिस्मृतीतिहासादिकं प्रमाणं योगवार्त्तिके प्रपञ्चितमिति। नन्वभिव्यक्तिरपि पूर्ब्बं सती वाऽसती वा। आद्ये कारणव्यापारात् प्रागपि कार्यस्यामिव्यक्त्या स्वकार्यजनकत्वापत्तिः कारणव्यापारश्च विफलः। अन्त्ये चाभिव्यक्तावेव सत्कार्यसिद्धान्तक्षतिः असत्या एवाभिव्यक्तेरभिव्यक्त्यङ्गीकारादिति अत्रोच्यते। कारणव्यपारात् प्राक् सर्वकार्य्याणां सदासत्त्वाभ्युपगमेनोक्तविकल्पानवकाशाद्वटवत् तदभिव्यक्तेरपि वर्त्तमानावस्थया प्रागसत्त्वेन तदसत्तानिवृत्त्यर्थं कारणव्यापारापेक्षणात्। अनागतावस्थया च सत्कार्यसिद्धान्तस्याक्षतेः। नन्वेकदा सदसत्त्वयोर्विरोध इति चेत्। प्रकारभेदस्योक्तत्वात्। नन्वेवमपि प्रागभावामङ्गीकारेण प्रागसत्त्वमेब कार्य्याणां दुर्वचमिति। मैवम्। अवस्थानामेव परस्पराभावरूपत्वादिति।। ननु सत्कार्यसिद्धान्तरक्षार्थमभिव्यक्तेरप्यभिव्यक्तिरेष्टव्येत्यत आह। “पारम्पर्यतोऽन्वेषणा वीजाङ्कुरवत्” सू०।। पारम्पर्यतः परम्परारूपेणेवाभिव्यक्तेरनुधावनं कर्त्तव्यम् वीजाङ्कुरवत् प्रामाणिकत्वेन चास्या अदोषत्वादित्यर्थः। वीजाङ्कुराभ्यां चात्रायमेव विशेषो यद्वीजाङ्कुरस्थले क्रमिकपरम्परयानवस्था, आभिव्यक्तौ चैककालीनपरम्परयेति। प्रामाणिकृत्वन्तु तुल्यमेवेति। सर्वकार्य्याणां स्वरूपतो नित्यत्वमवस्थाभिर्विनाशित्वं चेति पातञ्जलभाष्ये वदद्भिर्व्यासदेवैरपीयमनवस्था प्रामाणिकत्वेन स्वीकृतेति। “उत्पत्तिवद्वाहदोषः” सू०।। यथा घटोत्पत्तेरुत्पत्तिः स्वरूपमेव वैशेषिकादिभिरसदुत्पादवादिभिरिष्यते लाघवात् तथैवास्माभिर्घटाभिव्यक्तेरप्यभिव्यक्तिः स्वरूपमेवैष्टव्या लाघवात्। अत उत्पत्ताविवाभिव्यक्तावपि नानवस्थादोष इत्यर्थः। अथैवमभिव्यक्तेरभिव्यक्त्यनङ्गीकारे कारणव्यापारात् प्राक् तस्याः सत्त्वानुपपत्त्या सत्कार्यवादक्षतिरिति चेन्न। अस्मिन् पक्षे सत एवाभिव्यक्तिरित्येव सत्कार्यसिद्धान्त इत्याशयात्। अभिव्यक्तेश्चाभिव्यक्त्यभावेन तस्याः प्रागसत्त्वेऽपि नासत्कार्यवादत्वापत्तिः। नन्वेवं महदादीनामेव प्रागसत्त्वमिष्यतां किमभिव्यक्त्याख्यावस्थाकल्पनेनेति चेन्न। तद्धेदं तर्ह्यव्याकृतमासीदित्यादि श्रुतिभिरव्यक्तावस्थायाः सतामेव कार्य्याणां सिद्धेः तथाप्यभिव्यक्तेः प्रागभावादिस्वीकारापत्तिरिति चेन्न। तिसृणामनागताद्यवस्थानामन्योऽन्यस्याभावरूपतयोक्तत्वात् तादृशाभावनिवृत्तय एव च कारणव्यापारसाफल्यादिसम्भवात्। अयमेव हि सत्कार्यवादिनामसत्कार्यवादिभ्यो विशेषो यत् तैरुच्यमानौ प्रागभावध्वंसौ सत्कार्यवादिभिः कार्यस्यानागतातीतावस्थे भावरूपे प्रोच्येते। वर्त्तमानताख्या चाभिव्यक्त्यवस्था घटाद्व्यतिरिक्तेति धटादेरवस्थात्रयवत्त्वानुभवादिति। अन्यत् तु सर्वं समानम्। अतो नास्त्यस्मास्वधिकशङ्कावकाश इति सां० प्र० भा०। “अतः सिद्धं प्राक् कार्य्योत्पत्तेः कारणसद्भावः। कार्य्यस्य चाभिव्यक्तिलिङ्गत्वात् अभिव्यक्तेः कार्य्यस्य च सद्भावः प्रागुत्पत्तेः सिद्धः। कथम्? अभिव्यक्तिलिङ्गत्वात्। अभिव्यक्तिर्लिङ्गमस्येत्यभिव्यक्तिश्च साक्षाद्विज्ञानालम्बनत्वप्राप्तिः। यद्धि लोके प्रावृतं तमआदिना घटादि वस्तु तदालोकादिना प्रावरणतिरस्कारेण विज्ञान विषयत्वं प्राप्नुवत् प्राक् सद्भावं न व्यभिचरति। तथेदमपि जगत् प्रागुत्पत्तेरित्यवगच्छामः न हि अविद्यमानो घट उदितेऽप्यादित्य उपलभ्यते” वृ० भा०। ३ अन्यथा स्थितस्य अन्यरूपेण प्रकाशे “अभिर्व्यक्तेरित्याश्मरथ्यः” शा० सू०। अतिमात्रस्यापि परमेश्वरस्य प्रादेशमात्रत्वमभिव्यक्तिनिमित्तं स्यात् अभिव्यज्यते किल प्रादेशपरिमाणः परमेश्वर उपासकानां कृते, प्रदेशेषु वा हृदयादिषु प्राणविढ्यास्थानेषु विशेषेणाभिव्यज्यते ततः परमेश्वरेऽपि प्रादेशमात्रश्रुतिरभिव्यक्तेरुपपद्यत इत्याश्मरथ्य आचार्य्योमन्यते” इति भा०।
अभिव्यञ्जक = त्रि० अभिव्यञ्जयति प्रकाशयति अभि + वि + अन्ज–णिच्–ण्वुल्। प्रकाशके आलङ्कारिकप्रसिद्धव्यञ्जनया वृत्त्या प्रकाशके च गुणाभिव्यञ्जकौ शब्दार्थो “गुणाभिव्यञ्जकशब्दार्थवत्त्वस्यापि रसाभिव्यञ्जकत्वेन उपचारत” इति च सा० द०।
अभिव्यापक = त्रि० अभि + वि + आप–ण्वुल्। अभितोव्यापके सर्वावयवावच्छेदेन व्यापकेयथा वृक्षादेराकाशसंयोगः, कपि संयोगादिस्तु नैवं तस्य स्वाधिकुरणे वृक्ष एव मूलावच्छेदेना- संत्त्वात्। वैयाकरणोक्ते सर्ब्बथा व्यापकतावति आधारभेदे “औपश्लेषिको वैषयिकोऽभिव्यापकश्चेत्याधारस्त्रिधा” सि० कौ०। यथा सर्ब्बस्मिन् ब्रह्मास्ति”।
अभिव्याप्ति = स्त्री अभि + वि + आप–भावे क्तिन्। १ अभितोव्याप्तौ सवांवयवावच्छेदेन व्याप्तौ। व्याप्तिशब्दे विस्तरः।
अभिव्याप्य = त्रि० अभि + वि + आप–कर्मणि ण्यत्। १ सर्वावयवच्छेदेन १ व्याप्ये। ल्यप्। २ सर्वतो व्याप्येत्यर्थे अव्य०। “अभिव्याप्याकर्षणमपवर्ग” इति सुश्रु०।
अभिव्याहार = पु० अभि + वि + आ + हृ–घञ्। १ प्रशस्तोक्तौ २ अभितः कथने व्याङुपसर्गयुक्तस्य हरतेः कथनार्थत्वादभियोगात्तस्यैव सम्यक्त्वार्थता। अतएव “ऋचं वा यजुर्वा साम वाऽभिव्याहरतीति” शत० ब्रा० “नाभिव्याहरयेत् ब्रह्म स्वधानिनयनादृते” मनौ च तथार्थे एव अभिव्याहरतेः प्रयोगः। समुपसर्गयोगे तु साहित्येऽस्य रूढिः।
अभिव्लङ्ग = पु० अभि + व्लगि–गतौ घञ्। अभिगमने यासां तिस्रः पञ्चाशतोभिव्लङ्गैरपायव” ऋ० १, ११३, ४। अभिव्लङ्गैरभिगमनैः व्लङ्गतिर्गतिकर्मेति” भा०।
अभिशंसन = न० आभिमुख्येन शंसनमाक्रोशवचनं वारोप्यापवादश्च। समक्षमाकोशरूपे पारुष्यकथने १ अयं चौर” इत्यादिना २ मिथ्यापवादे च “शतं ब्राह्मणमाक्रुश्ये” त्युपक्रम्य “पञ्चाशद्ब्राह्मणो दण्ड्यः क्षत्रियस्याभिशंसने इति वाक्पारुष्ये “अभिशंसनप्रयेगात्तयोस्तुल्यार्थत्वम् “स्वभार्य्यान्तु यदा क्रोधादगम्येति नरो वदेत्” या० व्याख्यायां स्वभार्य्याभिशंसनमिति विज्ञानेश्वरेणोक्तम्। ३ आभिमुख्येन कथनमात्रे च “शतं स्त्रीदूषणे दद्यात् द्वे तु मिथ्याभिशंसने” इति याज्ञ०।
अभिशंसिन् = त्रि० अभि + शन्स–णिनि। १ समक्षमाक्रोशके २ अपवादवाक्यप्रयोक्तरि च “मिथ्याभिशंसिनो दोषो द्विगुणोऽनृतवादिन” इति या०।
अभिशङ्का = स्त्री अभि + शङ्क–भावे अ। १ सर्वथा शङ्कने २ संशये ३ भ्रमे च। “उपेयुषी कल्पलताभिशङ्कया” किरा० “कल्पलताभिशङ्कया कल्पलताभ्रमेण” मल्लि०। संशयस्य स्थाणुर्वानरोवेति उभयकोटिज्ञानरूपत्वेऽपि तदीयायथार्थकोटिविषयत्वेन भ्रमस्य तदीयैकतरकोटिविषयकत्वात् तथात्वम्। अयञ्च मिथ्याभूतकोटिमेवावगाहते इति विशेषः। कर्त्तरि अच्। २ सर्वतः शङ्किते त्रि०।
अभिशङ्कित = त्रि० स्पभि + शङ्क–क्त। १ सन्दिग्धे २ भ्रान्ते च।
अभिशप्त = त्रि० अभि + शप–क्त। इदं तेऽनिष्टं भूयादित्येवं रूपस्य गुरुविप्राद्यभिशापस्य उद्देश्ये। “न नाम ग्रहणं कुर्य्यात् जनकस्य गुरोस्तथा। भार्य्याया अभिशप्तस्य कृपणस्य विशे षत” इति षुरा०।
अभिशब्दित = त्रि० आभिमुख्येन शब्दितः। १ समक्षमाहूते २ समक्षकथिते च।
अभिशस् = त्रि० अभि + शन्स–क्विप्। अभिशंसनकर्त्तरि “यदाशंसा निःशसाभिशसा” ऋ० १०, १६४, ३।
अभिशस्त = त्रि० अभि + शन्स–क्त। अयं परस्त्रियं गच्छतीत्यादिना मिथ्यावाक्येन मैथुनविषयकदोषारोपो यस्मिन् जने कृतः तस्मिन्। “अभिशस्तो मृषा कृच्छ्रं चरेदाग्नेय मेव वा” या०। “नियम्य प्रयतोवाचमभिशस्तांस्तु वर्ज्जयेत्” स्मृतिः। अभि + शस–बधे क्त। ३ हिंसिते २ आक्रान्ते च त्रि०। “आतुरामभिशस्तां वा चौरव्याघ्रादिभिर्भयैः” मनुः। “अभिशस्तामाक्रान्तामिति” प्रा० त० रघु०। उभयतः भावे–क्त ४ आकोशे, ५ अपवादकथने ६ हिंसने ७ अभिशापे च न०। “एवञ्चैव नरश्रेष्ठः रक्ष्या एव द्विजातयः। शापराधानपि हि तान् विषयान्ते समुत्सृजेत् अभिशस्तमपि ह्येषां कृपायोत विशाम्पते” ! भा० शा० प०।
अभिशस्तक = त्रि० अभिशस्ते अभिशापे भवः कन्। वैद्यकोक्ते अभिशापजज्वरादौ “वृत्ता ये देवद्रोहाभिशस्तका अथर्वकृता उपसर्गकृताश्च” सुश्रुतः।
अभिशस्ति = स्त्री अभि + शन्स–क्तिन्। १ अभिशापे “उरुष्या णो अभिशस्तेः सोमः” ऋ० १, ९१, १५। अभिशस्तेरभिशापरूपान्निन्दनात्” भा०। २ अपवादे “इमां मिथ्याभिशस्तिञ्च कृष्णस्य समुदाहृत्ताम्” ह० वं०। अभि + शस बधे भावे क्तिन्। ३ हिंसायां “तितिक्षन्ते अभिशस्तिं जनानाम्” ऋ० ३, ३०, १। “अभिशस्तिं हिंसाम्” भा०। शस्यते हिंस्यतेऽनेन करणे क्तिन्। ४ हिंसाहेतौ, “पुरा तस्या अभिशस्तेरधीहि” ऋ० १, ७१, १० “अभिशस्तेः हिंसाहेतोः” भा०। आभिमुख्येन शस्तिर्य्याचनम्। ५ प्रार्थनायाम्।
अभिशस्त्य = त्रि० अभिशस्तिमर्हति यत्। १ हिंसार्हे २ आक्रोशार्हे च
अभि(भी)शाप = पु० अभि + शप–घञ् वा दीर्घः। १ मिथ्यापवादकथने २ आरोपितदोषकथने ३ अनिष्टं ते भूयादित्याक्रोशे च “वेद मिथ्याभिशापास्तं न स्पृशन्ति कदाचन” ह० वं०।
अभिशिरोग्र = त्रि० शिरसोभिमुखमग्रं यस्य। १ ऊर्द्ध मूलाघोग्रे “ओषधे। त्रायस्वैनमिति सप्त दर्भपिञ्जलीर्दक्षिणस्यां कपुष्णिकायामभिशिरोग्रा उपदनिघाति” गो०। अभिशिरोग्राः ऊर्द्धमूलाधोग्राः सं० त० रघुनन्दनः।
अभिशोक = पु० अभिलक्ष्य शोकः। कञ्चिदभिलक्षीकृत्य कृते शोके। शुच–ल्युट्। अभिशोचनमप्यत्र न०।
अभिश्रा(श्र)व = पु० अभि + श्रु–अप् वेदे घञ्। अभितः श्रवणे “ऋतं दिवे तदवोचं पृथिव्यामभिश्रावाय” श्रुतिः।
अभिश्वैत्य = त्रि० अभितः श्वैत्यं शुद्धचारित्र्यादस्य। शुद्धचरिते “अदक्षिणमयज्ज्वानमभिश्वैत्येति व्याहरन्” भा० द्रो० प०
अभिषङ्ग = पु० अभि + सन्ज–घञ्। १ पराभवे, २ अक्रोशे, ३ शपथे, ४ व्यसने च “अमिषङ्गजडं विजज्ञिवानिति” रघुः “तीब्राभिषङ्गप्रभवेण वृत्तिम्” कुमा० “जातामिषङ्गो नृपतिर्निषङ्गात्” “ततोऽभिषङ्गानिलविप्रविद्धा” “विनोदयिष्यन्ति नवाभिषङ्गाम्” इति च रघुः “नवाभिषङ्गां नूतनदुःखामिति” मल्लि०। ५ आसक्तौ “मुहुरिति वनविभ्रमाभिषङ्गात्” माघः ६ भूताद्यावेशे अभिघाताभिषङ्गाभ्यामभिचाराभिशापतः” माधवनिदानम्।
अभिषव = पु० अभि + सू–अप्। १ यज्ञाङ्गस्नाने, २ निष्पीडने, ३ सुरोत्पादनादिव्यापारे, ४ सोमलतापाने, ५ तत्कण्डने च “अद्र्यादानप्रभृति त्रिपर्य्यायानभिषवान् करोति” कात्या० १०, १, ४। “निर्यात्य राजानमभिषुण्वन्ति व्याख्यातोऽभिषव” इति कर्क०। “आप्यायनाभिषवाश्वदाभ्येषु च” कात्या० ७, ६, २८। सर्वजित् महाव्रतः संवत्सरदीक्षः सप्ताहाभिषवस्तिस्र उपसदः कात्या० “संवत्सरादूर्द्धं सप्ताहेऽतीतेऽभिषवः सूत्या” कर्क०। ६ स्नाने। “जपोपवासाभिषवैर्मुनीनाम्” किरा०। करणे अप्। ७ अङ्गुल्यामिति निरु० सोमकण्डनसाधनत्वात् तथात्वम्। आधारे अप्। ८ यज्ञे।
अभिषवण = न० अभि + सु–ल्युट्। अभिषवशब्दार्थे स्नानमात्रे “शिरसा हरिन्मणिनिभः स वहन् कृतजन्मनोऽभिषवणेन जटाः” किरा० करणे ल्युट् स्त्रियां ङीप्। अभिषवसाधने “शूर्पं पवित्रं तुषा ऋजीषाभिषवनीरापः” अथ०।
अभिषह्य = त्रि० अभितः सह्यः। १ सोढुं शक्ये। ल्यप्। २ प्रसह्येत्यर्थे अव्य० “अभिषह्य तु वः कन्यां कुर्य्याद्दर्पेण मानवः”। मनुः।
अभिषाच् = त्रि० अभि + सच–ण्वि–खार्थे णिच्–क्विप् वा। १ आभिमुख्येन सम्बन्धुं समर्थे २ अभिभावुके च “वसो अभिषाचऋष्वान्” ऋ० ६, ६३, ९।
अभि(भी)षाह् = त्रि० अभि + सह–ण्वि णिच्–क्विप् वा षत्वम् वा दीर्घः। १ शत्रुजयिनि २ सहनशीले च।
अभिषिक्त = त्रि० अभि + सिच–क्त। १ कृताभिषेके राजादौ “कन्दपं परिवीक्ष्य नूतनमनोराज्याभिषिक्तम्” सा० द०। “दीक्षितेष्वभिषिक्तेषु ब्रततीर्थपरेषु च” परा०। “सेनापत्येन देवानामभिषिक्तो गुहस्तदा” भा० व० प० २ स्नाते च। अभिषिक्तेन निर्वृत्तम् सङ्कला० अण्। आभिषिक्तः अभिषिक्तनिर्वृत्ते कूपे पुं०।
अभिषुत = त्रि० अभि + सु–क्त। १ निष्पीडिते २ कृताभिषवे सोमादौ च ३ काञ्जिके न०।
अभिषेक = पु० अभि + सिच–घञ्। १ विधिना शान्त्यर्थं, सेचने, २ अधिकारप्राप्त्यर्थं स्नाने, यथा “अथाभिषेकं रघुवंशकेतोः” रघुः। मन्त्रादिना शिरसि जलप्रक्षेपमात्रेण ३ मार्जने। ४ स्नानमात्रे च। “कृताभिषेकां हुतजातवेदसम्” कुमा०। “निष्यन्दिनीरनिकरेण कृताभिषेकाः” माघः “तत्राभिषेकं कुर्वाणो गोसहस्रफलं लभेत्”। “तत्राभिषेकं कुर्ब्बीत पितृदेवार्चने” रतः “तत्राभिषेकं कुर्ब्बीत नागतीर्थे नराधिप। भा० व० प०। ५ कर्म्मान्ते शान्त्यर्थं स्नाने च। “सुरास्त्वामभिषिञ्चन्तु इत्यादिमन्त्रैर्स्नाने तच्च मत्कृततुलादानादिपड्वतौ २०६ पृष्ठे दृश्यम्। ६ प्रतिष्ठादौ देवादेः स्नपने च। करणे घञ्। ७ जले।
अभिषेक्तृ = त्रि० अभि + सिच–तृच्। अभिषेक्तरिस्त्रियां ङीप्।
अभिषेक्य = त्रि० अभिषेक्तुमर्हति अभि + सिच–ण्यत् कुत्वम्। अभिषेकयोग्ये “अभिषेक्याभविष्यत समाप्लुवन्त इत्याह राजपुत्रान्” कात्या० २०, २, १७ “यूयमश्वरक्षां समाप्लुवन्तः पट्टाभिषेकयोग्या भविष्यथ” कर्क०।
अभिषेचन = न० अभि + सिच–भावे ल्युट्। अभिषेकशब्दार्थे अभिषेचने हितम् ठञ्। आभिषेचनिकम्। अभिषेक द्रव्यमन्त्रादौ त्रि०। करणे ल्युट्। अभिषेकद्रव्ये न०।
अभिषेचनीय = त्रि० अभि + सिच–कर्म्मणि अनीयर्। अभिअभिषेकार्हे “ये वा एतस्योदृचं गमिष्यन्ति राष्ट्रं ते भविष्यति राजानो अभिषेचनीयाः” शत० ब्रा०। साध्वर्थेछ। २ अभिषेकद्रव्ये त्रि० “पुरोडाशस्विष्टिकृतोऽभिषेचनीयवत्” कात्या० १८, ६, १५, “राजसूयस्यान्तर्गताभिषेचनीय सोमस्येव” कर्क० “अभिषेचनीयेष्ट्या” शत० ब्रा०।
अभिषेणन = न० सह इनेन सेना तयाभिमुखं याति शत्रोः अभि + सेना + णिच्–ल्युट् षत्वम्। युद्धार्थं शत्रोरभिमुखं सेनया सह जिगीषोर्गमने।
अभिष्टन = पु० अभि + स्तन अप् षत्वम्। सिंहनादे “अभिष्टने ते अद्रिवो यत् स्था” ऋ० १, ८०१४, “अभिष्टने मिंहनादे” भा०।
अभि(भी)ष्टि = त्रि० अभि + यज–इष वाक्तिन् वेदे पृ० एका०। १ “अभियष्टव्ये “महा~ अभिष्टिरोजसा य० ३३, २५, अभीज्यते इत्यभियष्टव्यः वे० दी०। २ अभिलाषे,। आसादभिष्टिकृदवसे यासदुग्रः” य० २०, ४८ अभिष्टिमभिलाषं करोतीत्यभिष्टिकृत् मनोरथप्रदः” इति वेददी०।
अभिष्टुत = त्रि० अभि + स्तु–क्त। १ वर्णिते, २ स्तुते, च।
अभि (स्य)ष्यन्द = पु० अभि + स्यन्द–भावे घञ् अप्राणि कर्त्तरि वा षत्वम्। १ अतिवृत्तौ २ स्रवणे ३ जलादिक्षरणे च। कर्त्तरि घञ्। ४ अधिके। “खर्गाभिष्यन्दव मनमिति” कुमा०। “भूतपूर्ब्बमभूतपूर्ब्बं वा जनपदं परदेशापवाहनेन स्वदेशाभिष्यन्दवमनेन वा निवेशयेदिति” कौटि०। आधारे घञ्। ५ नेत्ररोगहेतौ। “प्रावेण सर्ब्बे नयनामयास्ते भवन्त्यभिष्यन्दनिमित्तमूलाः”। तस्मादंभिष्यन्दमुदीर्यामाणमुपाचदेदाशु हिताय धीमान्’ सुश्रु०। उष्णाभितप्तस्य जलप्रवेशाद्दूरेक्षणात् स्वप्नविपर्य्ययाच्च। स्वेदाद्रजोधूमनिषेवणाच्च छर्द्देर्विघाताद्वमनातियोगात् द्रवात्तथान्नान्निशि सेविताच्च विण्मूत्रवातक्रमनिग्रहाच्च प्रसक्तसंरोदनशोककोपाच्छिरोभिघातादतिमद्यपानात्। तथा ऋतूनाञ्च विपर्य्ययेण क्लेशाभिघातादतिमैथुनाच्च। वाष्पग्रहात् सूक्ष्मनिरीक्षणाच्च नेत्रे विकारान् जनयन्ति दोषाः। स च चतुर्विधः यथा। वातात् पित्तात् कफाद्रक्तादभिष्यन्दश्चतुर्विधः। प्रायेण जायते घोरः सर्व नेत्रामयाकरः। सुश्रु०।
अभिष्यन्दनगर = न० अभिष्यन्देन प्रधाननगरातिवृद्ध्या तदतिवाहेन कृतं नगरम्। शाखानगरे अमिष्यन्दरमणमित्यपि पाठः। रलणं रतिस्नानं ६ त०। तत्रार्थे।
अभिष्य(स्य)न्दिन् = त्रि० अभिष्यन्दते अभि + स्यन्द–णिनि अप्राणिकर्त्तरि वा सत्वम् १ सर्व्वतः स्रुते। “पयोऽभिष्यन्दि गुर्व्वामं प्रायशः परिकीर्त्तितम्” सुश्रु०।
अभिष्वङ्ग = पु० अभि + स्वन्ज–घञ्। १ उत्कटरागे २ अनात्मन्यहंबुद्धौ च “असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु” गीता
अभिसंरब्ध = त्रि० अभि + सम् + रभ–क्त। १ क्रुद्धे।
अभिसंवृत्ति = स्त्री अभि + सम् + वृत–क्तिन्। १ व्यवहारे २ अभिनिष्पन्ने च
अभिसंश्रय = च० अभितः संश्रयः। १ सर्वत आश्रये “यदि कुर्य्यात् भवानेवं विलेऽस्सिन्नभिसंश्रयम्” रामा०।
अभिसंसार = अव्य० संसारस्याभिमुख्यम् अव्ययी०। संसाराभिमुख्ये। अभि + सम् + सृ–बीप्सायां णमुल्। अभिनावोप्साद्योतनात् न द्वित्वम्। अभिसंसारम् अभिगम्याभिगम्येत्यर्थे। “महानागमिवाभिसंसारं दिदृक्षितारः” श० ब्रा०
अभिसंहित = त्रि० अभि + सम् + धा–कर्मणि कर्त्तरि वा क्त। १ फलोद्देशेन कृते २ अभिसन्धिविषयभूते ३ अभिसन्धिकर्त्तरि च “विमुक्तिदायेऽनभिसंहितेषु” रुचिस्तवः।
अभिसन्ताप = पु० अभिसन्ताप्यतेऽनेन अभि + सम् + तप–णिच्करणे अच्। १ अभिशापे। तप–भावे घञ्। २ अभितः सन्तापे। तप–आधारे। घञ्। ३ युद्धे।
अभिसन्धक = त्रि० अभि + सम् + धा–क–स्वार्थे कन्। १ परगुणासहनेन आक्षेपके, “वैडालव्रातकोज्ञेयोहिंस्रः सर्वाभिसन्धकः मनुः”। “अभिसन्धकः परगुणासहनेन सर्वाक्षेपक इति” कूल्लू०।
अभिसन्धा = स्त्री अभि + सम् + धा–भावे अङ्। १ अभिसन्धौ २ फलोद्देशे ३ वञ्चने च।
अभिसन्धान = न० अभि + सम् + धा–ल्युट्। १ परवञ्चने। “पराभिसन्धानपरं यद्यप्यस्य विचेष्टितम्” रघुः। “पराभिमन्धानपरामन्त्रिणः” काद० २ फलोद्देशे ३ अभिसन्धौ च। “फलाभिसन्धानपरा न योगिनः” पुरा०।
अभिसन्धाय = पु० अभि + सम् + धा–भावे घञ्। १ अभिसन्धौ फलाद्युदुशे। ल्यप्। ३ फलाद्युद्दिश्येत्यर्थे अव्य०। “अभिसन्धाय तु फल दम्भार्थमपि चैव यत्” गीता।
अभिसन्धि = पु० अभि + सम् + वा–भावे कि। १ फलाद्युदेशे। “स्वर्गाभिसन्धि मकृतं वञ्चनामिव मेनिरे” कुमा०। “स्वधाभुजः काम्यफलाभिसन्धौ” रुचिस्तवः।
अभिसन्धित = त्रि० अभिसन्धा जाताऽस्य तार० इतव्। १ जाताभिसन्धौ अभिसन्धिविषये।
अभिसम्पत्ति = त्रि० अभि + सम् + पद–क्तिन्। १ अभितः सम्पत्तौ अन्यरूपस्यान्यथाभवने, “चित्यस्याहवनीयाभिसम्पत्तेः” कात्या० १८, ६, ३५। “आहवनीय एव चित्याभिसम्पत्ति श्रवणात् “यो वाव चितोऽग्निर्निघोयते तामेवेष्टकामेष सर्वोऽग्निरभिसम्पद्यत” इतिश्रुतिः एकवारं चित्यस्योपरि निधानेनाहवनीयाग्नेरेव सर्व्वदा चित्यात्मकतासम्पन्ना” कर्क०।
अभिसम्पद् = स्त्री अधिका सम्पद् प्रा० स०। १ अधिकसम्पत्तौ। अभिलक्ष्य संख्यां सम्पद्। तत्तत्संख्यादिसाम्येन सम्पन्नतायाम् “तान्युभयान्येकविंशतिः सम्पद्यन्ते द्वादश मासाः पञ्चर्त्तवस्त्रय इमे लोका असावादित्य एकविंशः एतामभिसम्पदम्” शत० ब्रा०। “यैषा सख्यासम्पत्तिस्तामभिलक्ष्य भवति” भा०। सम्पदमभिलक्ष्य अव्ययी० टच् समा०। अमिसम्पदम् सम्पदमभिलक्ष्यीकृत्येत्यर्थे अव्य०।
अभिसम्पात = पु० अभि + सम् + पत–आधारे घञ्। १ युद्धे। भावे घञ्। २ पतने। करणे घञ्। ३ अभिशापे लोकप्रसिद्धिः।
अभिसम्बन्ध = पु० अभि + सम् + बन्ध–घञ्। १ अभितः सम्बन्धे “द्रव्याणां कर्म्मसंयोगे गुणात्वनाभिसम्बन्धः” “फलार्थित्वा तु स्वामित्वे नाभि” जै० सू० “वैजिकादभिसम्बन्धादनरुन्ध्यादघं त्र्यहम्” मनुः २ वाक्यादौ आकाङ्क्षितपदान्वये च पदानामन्वयश्च पदार्थायन्वयोग्यत्वएव।
अभिसर = त्रि० अभितःसरति सृ + ट स्त्रियां ङीप्। १ सहाये २ अनुचरे। “तथैवाभिसरास्तेषां त्यक्तात्मानो जये धृताः” भा० उ० प०। “अथ साभिसरं शरैस्तरस्वी” माघः।
अभिसरण = न० अभि + सृ–ल्युट्। १ अभिगमने २ नायकयोरेकतरेण रागेण सङ्केतस्थानगमने च।
अभिसर्ज्जन = न० अभि + सृज–भावे घञ्। १ दाने २ बधे ३ उत्सृष्टे च
अभिसाय = अव्य० आभिमुख्ये अव्ययो०। सायाह्नाभिमुख्ये। “श्रितोदयाद्रेरभिसायमुच्चकैरचूचुरच्चन्द्रमसोऽभिरामताम्” माघः।
अभिसार = पु० अभि + सृ–आधारादौ घञ्। १ युद्धे, २ साहाय्ये, ३ साघने ४ स्त्रियाः पुंसो वा संभोगार्थं निर्ज्जनसङ्केतस्थानशमने च। “आरब्धे रभसान्मया प्रियसखि! क्रीडाभिसारोत्सवे”। अभिसारप्रकारश्च। “स्वेषु गात्रेषु संलीना मूकीकृतविभूषणा”। अवगुण्ठनसंवीता कुलजाऽभिसरेद्यदि। विचित्रोज्ज्वलवेशा तु वलन्नूपुरनिस्वना प्रमोदस्मेरवदना स्याद्वेश्याऽभिसरेद्यदि। मदस्खलितसंलापा विभ्रमीत्पुल्ललोचना। आविद्धगतिसञ्चारा स्वात् प्रेष्याऽभिसरेद्यदि।। क्षेत्र वाटी भग्नदेवालयो दूतीगृहं वनम्। मालयञ्ज श्मशानञ्च नद्यादीनां तटी तथा एवं कृताभिसाराणां पुश्चलीनां विनोदने, स्थानान्यष्टौ तथा ध्वान्तच्छन्नेषु क्वचिदाश्रये” इति सा० द०। कर्त्तरि घञ् अनुचरेपु० “अभिसारेण सर्वेण ततोयुद्धमवर्त्तत” भा० ब० प०।
अभिसारिका = स्त्री अभिसरति अभिसारयति वा कान्तं सङ्केतस्थान अभि + सृ–णिच्–बा ण्वुल्। १ “अभिसारयते कान्त या मन्मथवशंवदा। स्वय वाभिसरत्येषा धीरैरुक्ताभि सारिका” सा० द० उक्ते नायिकाभेदे “अनभिज्ञास्तमिस्राणां दुर्द्दिनेष्वभिसारिकाः” कुमा० “यः सञ्चरोऽभूदभिसारिकास्राम्” रघुः।
अभिसारिन् = त्रि० अभिसरति णिनि। १ आभिमुख्येन गन्तरि २ अनुचरे च स्त्रियां ङीप्। “षष्ठ त्रिष्टुपे त्रैष्टुभपदा द्वौ तु जागतौ यस्याः सा जागते जगती, त्रैष्टुभे त्रिष्टुप्। वैराजौ जागतौ चाभिसारिणी” अनु० क्र० उक्ते वैदिकच्छन्दोभेदे स्त्री यम्याः वैराजौ द्वौ पादौ द्वौ च पादौ जागतौ साऽभिसारिणीति तदर्थः।
अभिसृष्ट = पु० अभि + सृज–क्त। १ दत्ते, २ उत्सृष्टे, ३ त्यक्ते च
अभिस्वर् = न० स्वृ–भावे–विच् स्वः अभितः स्वः स्वरणं शब्दो बा यस्य। अभितः स्वरयुक्तेस्तोत्रभेदे “अभिस्वरा निषदा गा अवस्यवः” ऋ० २, २१, ५ अभितः स्वः स्वरः शब्दनं वा यस्य तेन स्तोत्रेण” भा०। “स्तोत्रं नेमिं नमन्ति चक्षसा मेषं विप्रा अभिस्वरा” ऋ० ८, ९७, १२ “अभिस्वरा अभिस्वरणेन स्तोत्रेण” भा०।
अभिस्वर = पु० अभि + स्वृ–अप्। आभिमुख्येन प्रेरणे “स्थातरथस्य हर्योरभिरभिस्वरे” श्रुतिः।
***