अभङ्ग = पु० न० त०। १ भङ्गाभावे २ पलायनाभावे च न० ब०। “भङ्गरहिते त्रि०। ३ अभङ्गाख्ये “पुनस्त्रिधा सभङ्गोऽथाभङ्गस्तदुभयात्मक” इति सा० द० उक्ते श्लेषे शब्दालङ्कारभेदे पु०। यथा “पायात् स स्वयमन्धकक्षयकरस्त्वां सर्बदोमाधवः”। अन्धकेत्यत्राभङ्गः श्लेषः।

अभङ्गुर = त्रि० न भङ्गुरः। भङ्गुरभिन्ने स्थिरे “अभङ्गुरतनुत्विषां बलयिता शतैर्विद्युताम्” रसगङ्गाधरः।

अभद्र = न० विरोधे न० त०। सुखभिन्ने दुःखे १ न० ब०। २ मङ्गलभिन्ने अमङ्गले च ३ तत्साधने ४ तदाश्रये च त्रि०।

अभय = न० अभावे न० त०। १ भयाभावे। “प्रदद्यात् परिहारांश्च ख्यापयेदभयानि च” मनुः। “अभयं वै जनक्र! प्राप्तोऽसीति” श्रुतिः। “प्रवृत्तिं च निवृत्तिञ्च कार्य्याकार्य्ये भयाभये” गीता ६ त०। २ भयशून्ये त्रि०। न भयमस्मात् ५ ब०। ३ परमात्मनि, ४ तज्ज्ञाने च। ५ हरितक्याम् ६ दुर्गामूर्त्तिभेदे च स्त्री ७ वीरणमूले उशीरे न० ८ सर्वपरिग्रहशून्ये, शास्त्रोपदिष्टेर्थेऽसन्देहेनानुष्ठातरि ९ आत्मनिष्ठे पु०। “उच्चमूलत्रिकोणेषुवर्त्तेते गुरुभार्गवौ। अभयाभिधयोगोऽयं भयङ्करविनाशन” इति “यत्रैकादशगश्चन्द्रोभानुर्वा प्रथलः शुभः। अभयोनाम योगोऽयमरिभूत विनाशकृदिति” च ज्योतिषोक्ते १० यात्रिकयोगभेदे पु०। न भयं यस्मात् ५ त०। माभैषीरित्युक्त्वा ११ उत्तोलित दक्षिणहस्तप्रसारभेदे “अभयं वरदं चैव दक्षिणे दधतीक्रमात्” श्यामाध्यानम्। १२ त्राणे च न०।

अभयकृत् = क्ति० अभयं त्राणं करोति कृ–क्विप् ६ त०। १ त्राणकर्त्तरि। न भयकृत् विरोधे न० त०। भयङ्करभिन्ने २ सौम्ये। अभयकारकादयोऽप्युक्तार्थे।

अभयङ्कर = त्रि० न भयङ्करः विरोधे न० त०। भयङ्करभिन्ने सौम्ये।

अभयङ्कृत् = स्त्री द्विव० अभयं कुरुतः क्विप् वेदे पृ० मुम्। द्यावापृथिव्योः द्यावापृथिव्यावित्युपक्रम्य “ऊरू गव्यूती अभयङ्कृताविति “उरू गव्यूती ते अभये स्तामित्यतदाह” शत० ब्रा०।

अभयजात = पु० अभयाय जातः। गर्गादिगणमध्ये मुनिभेदे तस्यापत्यं यञ्। आभयजात्यः तदपत्ये पुंस्त्री० स्त्रियां ङीप् यलोपश्च आभयजाती। पुंसि बहुषु लुक्। अभयजाताः। यूनि आभयजातायनः।

अभयडिण्डिम = पु० अभयाय स्वयोधभयाभावाय डिण्डिमः स्वमैन्यप्रोत्साहनार्थं वादनीये रणढक्कादौ वाद्यभेदे।

अभयद = त्रि० अभयं भयाभावं ददाति तदर्थं वचनं प्रयुज्यरक्षति दा–क ६ त०। मा भैषीरित्यादिवचनमुक्त्वा भीत२ त्राणकर्त्तरि “त्रातुमलभयदार्हति” किरा० अभयप्रदयोऽप्यत्र। “यानशय्याप्रदोभार्य्यामैश्वर्य्यमभयप्रदः २ विष्णुः।

अभयदक्षिणा = स्त्री अभये त्राणे त्रातेन देया दक्षिणा। त्रातेन रक्षितरि देयदक्षिणायाम्। “मधूदकं फलं मूलमेधांस्यभयदक्षिणा अभ्युद्यतानि ग्राह्याणि” का० ख० “सर्वतः प्रतिगृह्णीयान्मध्वथाभयदक्षिणाम्” मनुः। अभयं दक्षिणेव देयत्वात्। अभयरूपदेये “रात्रौ दानं न शंसन्ति विना चाभयदक्षिणाम्” मत्स्य पु०। अभयदक्षिणामभयदानम् रघु०।

अभयमुद्रा = स्त्री अभयार्था मुद्रा। १ तन्त्रोक्ते मुद्राभेदे मुद्राशब्दे विवरणम्।

अभयवाच् = स्त्री अभयार्था वाक्। १ अभयदानार्थे मा भैषीरित्यादिवाक्ये।

अभयाद्य = पु० अभया हरितकी आद्या यस्य। १ वैद्यकोक्ते मोदकभेदे। स च “अभया पिप्पलीमूलं मरिचं नागरं तथा।। त्वक्पत्रपिप्पलीमुस्तविडङ्गामलकानि च। कर्षः प्रत्येकमेषान्तु दन्त्याः कर्षत्रयन्तथा।। षट्कर्षाश्च सितायास्तु द्विपलं त्रिवृतो भवेत्। सर्वं सुचूर्ण्णितं कृत्वा मधुना मोदकं कृतम्।। खादेत् प्रतिदिनञ्चैकं शीतञ्चानुपिबेज्जलम्। तावद्विरिच्यते जन्तुर्य्यावदुष्णं न सेवते।। अभयाद्योमोदकोऽयम्” चक्रदत्तोक्तः।

अभव = पु० भव उत्पत्तिः अभावे न० त०। १ भवाभावे जन्माभावे “मत्त एव भवाभवौ” गीता। २ विनाशे “भवाय सर्वभूतानामभवाय च रक्षसाम्” रामा०। ७ ब०। ३ मोक्षे “प्राप्तुमभवमभिवाञ्छसि वा” किरा० शिवभिन्ने पु०

अभव्य = न० न भव्यम् अप्राशस्त्ये न० त०। १ अमङ्गले, २ दुष्टभाग्ये च न० ब०। ३ दुर्भाग्यवति त्रि०। “उपनतमवधीरयन्त्यभव्याः” किरा०।

अभाग = पु० न भागः अभावे न० त०। १ भागाभावे। भागश्च एकदेशः दायादग्राह्यघनाद्यञ्च ७ ब०। तच्छूत्ये पूर्ण्णे र्निटाये च त्रि०। “यो ज्येष्ठोविनिकुर्व्वीत लोभाद्भ्रातॄन् यवीयसः। सोऽज्येष्ठः स्यादभागश्च नियन्तव्यश्च राजमिः” मनुः “यं भागिनं निर्भजन्त्यथ यमभागं निर्भजन्ति” शत० ब्रा०।

अभागिन् = त्रि० न भागी स्त्रियां ङीप्। १ अधिकारानर्हे क्लीवपतितादो। २ भागोभाग्यम्। तच्छून्ये च। “यमात्मानं नविद्युरभागिन” इति कट उ०।

अभाग्य = न० अप्राशस्त्ये न० त०। १ दुष्टमाग्ये। न० ब०। २ दुष्टभाग्यवति त्रि०।

अभाजन = न० न० त०। अनाधारे “दीधीवेवीसमः कश्चिद् गुणवृद्ध्योरभाजनम्” का० प्र०।

अभार्य्य = पु० नास्ति भार्य्या तत्सम्बन्धो वा यस्य। १ भार्य्याहीने २ शास्त्रनिषिद्धभार्य्यासम्बन्धे नैष्ठिकब्रह्मचारिप्रभृतौ च। “अतिवृद्धानभार्य्यांश्च कृषिसक्तान्” नृपस्य च उ० त० छा० प०। “अभार्य्यान् शास्त्रनिषिद्धपार्य्यासम्बन्धान्” रघु०

अभाव = पु० न भावः। भावभिन्ने सत्त्वेन प्रतीत्यनर्हेवैशेषिकोक्ते सप्तमपदार्थे भावभिन्नत्वमभावत्वमिति बहवः। भावभेदाअयरूपत्वस्य तल्लक्षणस्य अभावविशेषघटितत्वेन अन्योन्याश्रयदोषग्रस्ततया अभावत्वमखण्डोपाधिरिति नव्याः। अभावश्च भावाभावसाधारणाश्रयः घटाभावस्य पटे पटाभावदो च सत्त्वात् स च भावातिरिक्तः कश्चित् पदार्थ इत्याधुनिका वैशेषिका नैयायिकाश्च उररीचक्रुः। सूत्रकृता तु “द्रव्यगुणकर्मसामान्यविशेषसमवायानां पदार्थानां साधर्म्मवेधर्म्म्याभ्यां तत्त्वज्ञानान्निश्रेयसम्” इति षडेव पदार्थाः कण्ठत उक्ताः। अत एव “न वयं षट्पदार्थवादिनः” इति सांख्यसूत्रे षट्पदार्थीस्वीकारस्तेषां सूचितः। आधुनिकास्तु घटोनास्तीत्यादिप्रतीत्यन्यथानुपपत्त्या पदार्था न्तरम्भावं कल्पयन्ति। प्राभाकरास्तु अभावस्याधिकरणस्व रूपत्वसङ्गीचक्रुः। तेषामयमाशयः “मानाधीना मेयसिद्धिरित्युक्तेः अभावस्यातिरिक्तस्य सिद्धौ प्रमाणं वक्तव्यम् न तावत् प्रत्यक्षम्, अभावस्य रूपाद्यभावेन इन्द्रियसन्निकर्षाभावात् तदयोग्यत्वात् न च इन्द्रियसंयुक्तविशेषणता तत्सन्निकर्षः भूतलादौ चक्षुरादिसन्निकर्षसत्त्वेऽपि तत् स्वरूपविशेषणताया अव्यावर्त्तकत्वात् अन्यथा घटाभाव प्रत्यक्षकाले षटाद्यमावप्रत्यक्षस्य दुर्वारत्वात् भूतलादिस्वरूपस्यानुगमात् तुल्यै सन्निकर्षरूपे विशैषणता सम्बन्धे विमिगमनाभावेन नियामकत्वाभावात्। अथ ज्ञानलक्षणया यस्य ज्ञानं तस्यैवाभावस्य प्रत्यक्षमिति कल्पनादस्ति नियम इति चेत् ज्ञानलक्षणया घटादेरुपनये तद्विशिष्टबुद्धेरेवोदयप्रसङ्गात् विशिष्टबुद्धौ विशेषणज्ञानस्यहेतुत्वेन तज्ज्ञानसामग्र्याः समवधानात् अथ अभावज्ञानसामग्र्याः प्रतिबन्धकत्वेन न तद्बोघ इति चेत् अभावबोधसामग्र्याः अनियतत्वेन तस्या अप्रतिबन्धकत्वात् इन्द्रियसन्निकृष्टविशेषणतात्मकस्य स्वरूपसम्बन्धस्य भूतलादिस्वरूपत्वानतिवृत्तेः भूतलादिस्वरूपस्य कदाचिदप्यनपायेन प्रतिबन्धकत्वायोगात् अन्यथा भूतलादौ कदापि घटादेर्ज्ञानलक्षणया विशिष्टज्ञानस्यानुत्पत्त्यापत्तेः “अभावबुद्धिश्च विशिष्टवैशिष्ट्यावगाहिबोधमर्य्यादां नातिशेते” इति दीधितिकृदुक्तेरादौ प्रतियोगिज्ञानस्यापेक्षितत्वेन अभावांशे प्रतियोगिज्ञानवत् धर्म्म्यंशे तद्भानस्य दुष्परिहारत्वात्। एतेन योग्यानुपल्ब्धेस्तत्र हेतुत्वकल्पनेऽपि न निस्तारः। घटादीनामिव पटादेरपि योग्यतया तदुपलब्धेरभावस्य सत्त्वेन सर्वेषां योग्यानामभावप्रत्यक्षप्रसङ्गात्। नाप्यनुमानं तत्र प्रमाणं, तत्र व्याप्तिलिङ्गादेरभावात्। तस्यैवाज्ञाने तद्व्याप्यताग्रहासम्भवाच्च किञ्चातिरिक्ताभाववादिभिः भूतले “घटोनास्तीति प्रतीतिः सविषया प्रतीतित्वात् यत्तज्ज्ञानं तत्तत् सविषयकं यथा घटादिज्ञानमित्यनुमानप्रयोगः स्वीकार्य्यः। तत्र तदनुमानेन सविषयकत्वसिद्धावपि अधिकरणस्वरूपेणैव तद्विषयकत्वसम्भवेन उद्देश्यासिद्धेः नापि लक्षणात्तत्सिद्धिः अभावस्य निर्वक्तुमशक्यतया तल्लक्षणस्यैवाभावात्। तथा हि अभावशब्दस्य व्युत्पाद्यमानस्य भावभिन्नत्ववाचितया भावभिन्नत्वमभावस्य लक्षण बाच्यं तच्च भेदरूपाभावज्ञानसापेक्षत्वेनान्योन्याश्रयदोषकवलितत्वेन दुर्ज्ञेयम्। किञ्च भावभिन्नत्वस्य अभावलक्षणत्वे भावरूपविशेषणज्ञानशून्यकाले घटोनास्तीति प्रत्ययानुपपत्तिः विशिष्टवुद्धेर्विशेषणज्ञानाधीनत्वात्, अभावो न भाव इति वाक्यात् शाब्दबोधानुपपत्तिश्च उद्देश्यतावच्छेदकविधेययोरैक्ये घटोघटः इत्यादाविव शाब्दबोधाभावस्य सर्वसम्मतत्वात्। एतेन अभावत्वम् समवाय सामनाधिकरण्यान्यतरसम्बन्धावच्छिन्नप्रतियोगिताकसत्त्वाभाववत्त्वमित्युक्तावपि न निस्तारः तथात्वे अभावो न भाव इति शाब्दबोधोपपत्तावपि तदज्ञानकाले घटोनास्तीति प्रत्ययस्यानुपपत्तेरन्योन्याश्रयदोषस्य दुष्परिहरत्वाच्च। घटाभावाभावादेर्घटरूपतयाऽङ्गीकारेण तत्र समवायेन सत्तावत्त्वेन निरुक्ताभावबत्त्वाभावात् घटाभावाभावोऽभाव इति बुद्धेरनुत्पत्त्यापत्तेश्च। अथ अभाववत् अभावत्वमप्यतिरिक्तः पदार्यः तर्थाचाभावत्वं न भावभिन्नत्वादि किन्तु स्वरूप- सम्बन्धविशेषः अखण्डोपाघिर्वेति मतम् तत्रेदमुच्यते कोऽयंस्वरूपसम्बन्धः? किं स्वरूपमेव संबन्धः? स्वरूपस्य वा सम्बन्धः? तत्राद्ये यदि अधिकरणस्वरूपस्यैव सम्बन्धत्वम् आयातं तर्हि अभाबस्याधिकरणस्वरूपत्वेन, स्वरूप स्यैवाभावाधिकरणसम्बन्धत्वेन भवताऽपि स्वीकारात्। अन्त्ये कस्य स्वरूपस्य सम्बन्धः? यदि अधिकरणस्य तदा जितं प्राभाकरैः अन्यस्य तथाबिधत्वेऽपसिद्धान्तापत्तेः भूतले तदाधारतानुपपत्तेश्च। अखण्डोपाधरपि अभाववत् प्रमाणसापेक्षतया तद्दोषतादवस्थ्यम् प्रमाणाधीनतयैव पदार्थस्य सिद्धेः सर्व्वसम्मतत्वात् असति प्रमाणे कथं तत्सिद्धिः?। किञ्च अखण्डोपाधित्वग्य भवन्मते कारणतादावपि सत्त्वेनाभावेतरभेदासाधकतया तल्लक्षणत्वायोगः भिन्नभिन्नास्वण्डोपाधिस्वीकारे च तस्यापि लक्षणसापेक्षतया तस्य च निर्वक्तुमशक्यतया न तस्याभावलक्षणत्वम्। न च नञ्पदशक्यतावच्छेदकतया तत्सिद्धिः तथाहि अभावस्य अधिकरणस्वरूपत्वे स्वरूपसंबन्धविशेषस्यैव नञ्पदशक्यतावच्छेदकत्वं वाच्यं तदपेक्षया अभावत्वरूपाखण्डोपाधेरेव तथात्वकल्पने लाघवम् इति वाच्यम् कम्बुग्रीवादिमानित्यादौ गुरुधर्म्मेऽपि शक्यतावच्छदकत्वस्वीकारात् अन्यथा घटः कम्बुग्रीवादिमानित्यादि वाक्यात् शाब्दबोधानुपपत्तिः। उपेयते च सर्वैः गुरुधर्म्मेऽपि शक्यतावच्छेदकत्वम्। अथ शब्दएव अभावे प्रामाणमिति चेत् शब्दवेद्यस्य ब ध्यापुत्रादेरपि, अतिरिक्ततया कल्पनापत्तेः अथाप्तशब्दएव प्रमाणमिति चेन्न अभावस्य पदार्थान्तरत्वे आप्तवाक्याभावात् भवतां सूत्रकृताऽपि अभावस्य षट्पदार्थातिरिक्ततया क्वाप्यनुक्तेः अभावशब्दमात्रप्रयोगेऽपि तस्याधिकरणस्वरूपत्वेनोपक्षीणत्वात्। एवमतिरिक्ताभावकल्पनपक्षे निरस्तेऽपि स्वपक्षदोषोद्धारमित्थं चक्रुः। अभावस्याधारस्वरूपत्वे भूतले घटोनास्तीत्यादावधिकरणताप्रतीतिः कथं संगच्छतामिति चेत् परेषामिव अत्यन्ताभावस्य नित्यत्वेऽपि घटसत्त्वे घटाभावबुद्धेरनुत्पादे तत्तत्कालीन भूतलादिसम्बन्धस्य नियामकतावत् तत्तत्कालीनभूतलस्वरूपस्यैव अभावपदार्थतया तथाप्रतीतिसम्भवात् तत्तत्कालीनभूतलस्वरूपस्य घटाद्यनवेच्छद्यकालसम्बन्धरूपतया तस्य च भूतले स्वरूपमित्यादिवदाधारताऽक्षतेः। एतेनानन्तसम्बन्धस्वरूपकल्पनापेक्षया एकाभावकल्पने लाघवमित्यपास्तं कॢप्ततया कालस्य तत्सम्बन्धस्य च सर्ववादिसम्मततया अधिकस्याकल्पनात्। भवतामभाव इव तत्रैव सम्बन्धे घटादेः प्रतियोगितयान्वयः कल्प्यते अतो नाधिककल्पना। घटो न पट इत्यादौ पटनिष्ठमेय तत्तत्कालीनतादात्म्यं भेदशब्दार्थस्तत्रैव पटतादात्म्यानुपहिकस्य तादात्म्यस्याधिकरणे घटादिस्वरूपे भेदे तादृशसम्बन्धे वा पटादेः प्रतियोगितयान्वये सर्वसामञ्ज स्यम्। अतएव “न सोऽस्ति प्रत्ययोलोके यत्र कालो न भासते” इत्युक्तेः सर्वत्रबुद्धौ कालावभास इत्यभिपुक्तोक्तिः। भक्तामभावभेदबुद्ध्योर्यधा नियमः मन्मतेऽषि तथा। वाय्वादौ रूपाद्यभावचाक्षुषत्वाद्यनुपपत्तिरिष्टैव त च तत्र दृढतरं किञ्चित् प्रमाणमस्तियैन तत्स्वीकारावश्यकतेति”। अभावभेदबुद्ध्योर्नियमाश्च नञशब्दे प्रदर्शयिष्यन्ते। भोऽयमभावः बौद्धः शून्यतया आकाशतया निरावरणतया निरुपाख्यतया च व्यवह्रियते तच्च तन्मतावसरे वक्ष्यते। “अभावो वा तदर्थोऽस्तु भाष्यस्य हि तदाशय” इति हरिः। “नाभावौपलब्धेः शां० सू०। “नासतोविद्यते भावो नाभावोविद्यते सतः” इति गीता। यथा च अभावान्न भावोत्पत्तिस्तथा उत्पत्तिशब्दे वक्ष्यते। न्यायादिमते स चाभावः द्विविधः संसर्गाभावः अन्योन्याभावश्चेति भेदात् संसर्गवावश्च ध्वंसप्रागभावात्यन्याभावभेदात् त्रिविधः। “अभावश्च द्विधा संसर्गान्योन्थाभावभेदतः। प्रागभावस्तथा ष्वं सोऽप्यत्यन्ताभावएव च। एवं त्रैविध्यमापन्नः संसर्गाभाव इष्यते” इति भाषा०। प्रागभावश्च उत्पत्तेः प्राक् कारणस्य सूक्ष्मावस्था, उतपत्तिराविर्भावः, ध्वंसस्तिरोभाव इति सांख्यादयः। २ मरणे, मरणञ्च स्वादृष्टारब्धशरोरेणसह जीवस्य विभागः, पूर्ब्बसंयोगनागो बा, प्राणवायोरुत्क्रमणं वा बोध्यम्। भावः आलङ्कारिकोक्तरत्यादिस्थायिभावः ३ तच्छून्ये त्रि०। आन्तरः भावः स्नेहापरपर्य्यायः अनुरागः। ४ तद्धीने त्रि०। सचानुरागः देवविषयो भक्तिः पुत्रादिविषयः स्नेहः, पत्यादिविषयः प्रेमेति भेदः। मीमांसकाद्युक्ते अभावग्राहके ६ योग्यानुपलब्धि रूपे प्रमाणे ७ असत्त्वे, अविद्यमानत्वे च। वास्ति भावः सत्त्वं यस्य। ८ मिथ्याभूते त्रि०।

अभावनीय = ति० न० त०। १ चिन्तयितुमशक्ये २ उत्पादयितुमशक्ये च।

अभावसम्पत्ति = स्त्री अभावस्य मिथ्याभूतस्य सम्पत्तिः। १ मिथ्याभूतपदार्थज्ञाने अध्यासे यथा शुक्तिकायां रजतज्ञानं तत्र च यथा मिथ्याभूतस्यैव ज्ञानं तथोक्तमध्यासशब्दे।

अभाषण = न० अभावे न० त०। भाषणाभावे मौनभावे।

अभि = अव्य० न भाति भा–बा० कि। १ कञ्चित्प्रकारं प्राप्तस्य द्योतने, २ आभिमुख्ये, ३ अभिलाषे, ४ बीप्सायाम्, ५ लक्षणे, ६ समन्तादर्थे। ७ धर्षणे दुर्गा०। “अभि पूजाभृशार्थेच्छासौम्याभिमुख्यसौरूप्यवचनाहारस्वाध्यायेषु” गणरत्नोक्ते ८ पूजादौ च तत्र पूजायाम् अभिवन्दते अभिवादयते। भृशार्थे अभियुक्तः अभिनिवेशः। इच्छायाम् अभिलासः अभिकः। सौम्यं माधुर्य्यम् तत्र अभिजातः “प्रजल्पितायामभिजातवाचि” कुमा०। आभिमुख्ये अभिमुखम् अभ्यग्नि शलभाः पतन्ति “अभिचैद्यं प्रतिष्ठासुः” माघः सौरूप्ये अभिरूपम्। वचने, अभिधानम् “साक्षात् सङ्केतितं योऽर्थमभिधत्ते स वाचक” इति काव्य० प्र०। आहारे अभ्यवहारः। स्वाध्याये अभ्यस्यति “वेदाभ्यासे सदारतः” स्मृतिः। स्वाध्याय इत्युपलक्षणम् अन्यस्यापि पौनःपुन्यमात्रेऽस्य प्रवृत्तिः “अभ्यस्यन्ति तटाघातं निर्जितैरावतागजा” कु०। एतस्य च तत्तर्थद्योतकतामात्रं समभिव्यवहृतशब्दस्यैव तत्तदर्थे लक्षणेति सिद्धान्तः अस्य क्रियायोगे उपसर्गता “बोप्सेत्थम्भावचिह्नेषु तु कर्भप्रवचनीयता। वृक्षंवृक्षमभि सिञ्चति। हरिमभि वर्त्तते। भक्तोहरिमभि, अग्निमभि शलभाः पतन्तिइत्यादुदाहार्य्यमृ शब्दपरत्वेपु० “अभिरभागे” पा०।

अभिक = त्रि० अभिकामयते अभि + कन्। १ अनुकाभिकाभीकाः कमितेति” पा० नि०। कामुके ‘सोऽधिकारमभिकः कुलोचितं काश्चन स्वयमवर्त्तयत् समाः” रघुः।

अभिकाङ्क्षा = स्त्री अभि + काङ्क्ष–भावे अ। अभिलापे “शीताभिकाङ्क्षा मुखतिक्तता च” सुश्रु०।

अभिकाङ्क्षित = त्रि० अभि + काङ्क्ष–कर्मणि क्त। अभिलषिते।

अभिकाङ्क्षिन् = त्रि० अभि + काङ्क्ष–णिनि। अभिलाषवतिस्त्रियां ङीप्।

अभिकाम = त्रि० अभिकामयते अभि + कम–णिङ्–अच्। १ कामयमाने “याचे त्वामभिकामाहं तस्मात् कुरु मम प्रियम्” भा० आ० प०। मावे घञ्। अभिलाषे पु० “मनमाप्यभिकामस्य कुरुक्षेत्रं युधिष्ठिर! भा० ब० प० अभिकामादागतः ठञ् आभिकामिकः अभिलाषात् प्राप्ते त्रि० स्त्रियां ङीप्। “गुणैश्चानुपमैर्युक्तः समस्तैराभिकामिकैः” भा० शा० प०।

अभिक्रम = पु० अभि + क्रम–भावे घञ् अवृद्धिः। १ आरम्भे, २ आरोहणे ३ यद्धाय, शत्रुसंम्मुखयाने च। कर्मणि घञ्। ४ आरब्धे “नेहाभिक्रमनाशोऽस्ति प्रत्ययवायो न विद्यते” गीता। आधार घञ्। ५ युद्धे।

अभिकृत्वन् = त्रि० अभि + कृ–ङवनिप् स्त्रियां ङीप् वनो रश्च। आभिमुख्येन कारिणि। “अपेयं रात्र्य च्छत्वपोछन्त्वभिकृत्वरोः अथ० २, ८, २।

अभिकॢप्त = त्रि० अभि + कृप–क्त रोलः। १ सम्पन्ने २ नियते ३ अभिप्रकाशिते च “हृदा मनीषा मनसाभिकॢप्ताय एतद्विदुः” कठ उप०।

अभिक्रतु = पु० आभिमुख्येन क्रतुर्युद्धकर्म यस्य। बलवति। “अथाभवद्दमिताभिक्रतूनाम्” ऋ० ३, ३४, १०। “अभिक्रतृनाम् बलीयसाम्” भा०।

अभिक्रान्ति = स्त्री अभि + क्रम–क्तिन्। १ अभिक्रमे २ उपक्रमे “यज्ञस्याभिक्रान्तिरनपक्रमाय” श्रुतिः।

अभिक्रान्तिन् = त्रि० अभिक्रान्तमनेन इष्टादि० इनि। उपक्रमकर्त्तरि “य एषामध्ययने अभिक्रान्तितमः” श्रुतिः।

अभिक्रामम् = अव्य० अभि + क्रस–वीप्साभीक्ष्ण्ययोः णमुल्। आक्रम्य, आरभ्य, आभिमुख्येन गत्वेत्यर्थे। पूर्ब्बं पूर्ब्बमेवाभिक्रामम्” कात्या० ३, २, २१।

अभिक्रोश = पु० अभि + क्रुश–भावे घञ्। १ आक्रोशे २ निन्दायाम्।

अभिक्रोशक = त्रि० अभि + क्रुश–ण्वुल्। १ निन्दके २ अपवादके च

अभिक्षत्तृ = त्रि० अभि + क्षद–तृच् स्त्रियां ङीप्। हिंसके “अभिक्षत्तुस्त्वावतो वरूताः” ऋ० ७। २१। ८। “अभिक्षत्तुरभिहिंसकस्य” भा०।

अभिक्षद = त्रि० अभि + क्षद–हिंसायाम् अच्। हिंसके। “अभिक्षदामर्य्यमाणम्” ऋ० ६, ५०, १। अभिक्षदां हिंसकं छान्दसत्वात् आत्त्वम्।

अभिख्या = स्त्री अभि + ख्या–अङ्। १ अभिधाने, २ शोभायां “काप्यभिख्या तयोरासीत् व्रजतोः शुद्धवेशयोः रघुः। ३ कीर्त्तौ ४ अभितः ख्यातौ, ५ माहात्म्ये “अन्धा अपश्यानदभन्नभिख्याम्” ऋ० १, १४८, ५ “अभिख्यामभितः ख्यातिं माहात्म्यं वा” भा०। कर्त्तरि क्विप्। ६ अंभितो गन्तरि” ७ प्रसिद्धे च “अभिख्या भासा वृहता शुशुक्कनिः” ऋ० ८, २३, ५ “अभिख्या अभिमुखं गच्छन्त्याऽभितः प्रसिद्धया वा भासा” भा० धातोरातोलोपात् रूपम्। ८ प्रज्ञायां निरु०।

अभिख्यातृ = त्रि० अभि + ख्या–तृच् स्त्रियां ङीप्। १ कथके अभिगन्तरि ३ अभिद्रष्टरि च। “आपिरभिख्यनतामर्डिता सोम्यानाम्” ऋ० ४ १७, १७ “अभिख्याताभिद्रष्टा” भा०।

अभिगत = त्रि० अभि + गम–क्त। १ आनुकूल्येन प्राप्ते २ सेविते ३ आभिमुख्येन गते च।

अभिगन्तव्य = त्रि० अभि + गम–तव्य। अभिगम्ये सेव्ये च “सन्तः सदाभिगन्तव्या यदि वोपदिशन्ति ते” वशि०।

अभिगन्तृ = त्रि० अभि + गम–तृच् स्त्रियां ङीप्। युद्धार्थम् आभिमुख्येन १ गन्तरि २ आनुकूल्येन गन्तरि च। “क्षत्रं वरुणोऽभिगन्तैब ब्रह्म” शत० बा०।

अभिगम = पु० अभि + आभिमुख्ये आनुकूल्येवा गम–घञ्। आभि मुख्येन गमने “तवार्हतो नाभिगमेन तृप्तम्” रघुः आनुकूल्येन २ गमने “स्वरुच्या क्रियमाणे तु यत्रावश्यक्रिया क्वचित्। नोद्यते नियमः सोऽत्र ऋतावभिगमो यथेति” मीमांसा। भावे ल्युट। अभिगमनं तत्रैव न०। “ज्येष्ठाभिगमनात् पूर्ब्बं तेनाप्यनभिनन्दिता” रघुः। “पापकृन्मुच्यते पापात्तीर्थाभिगमनेन च” स्मृतिः।

अभिगम्य = त्रि० अभिगन्तुं शक्यते सौम्याकारत्वात्। आभिमुख्येन गन्तुं शक्ये “अद्यप्रभृति भूतानामभिगम्योऽस्मि शुद्धये” कुमा०। “सोऽभिगम्यश्च पूज्यश्च कर्त्तव्यश्च प्रदक्षिणम् रामा०। “अधृष्यश्चाभिगम्यश्च यादोरत्नैरिवार्णवः” रघुः। अभि + गम–ल्यप्। आभिमुख्येन गत्वेत्यर्थे अव्य० “मनुमेकाग्रमासीनमभिगम्य महर्षयः” इति मनुः।

अभिगर = पु० अभि + गॄ–स्तुतौ अप्। १ अभितः स्तवे। “अनुष्टुप् तेऽभिगरम्” इति यजु० ८, ४७।

अभिगामिन् = त्रि० अभिगच्छति अभि + गम–णिनि अभिगन्तरि। “ऋतुकालाभिगामी स्यात् स्वदारनिरतः सदा” मनुः। “राजपत्न्यभिगामी च दग्धव्यास्ते कटाग्निना” या०

अभिगीत = त्रि० आनुकूल्येन गीतः। १ आनुकूल्यार्थं स्तुते २ अभितोगीते च।

अभिगुप्ति = स्त्री अभि + गुप्–क्तिन्। १ अभिरक्षणे “तद्व्रजमेवेताभिगुस्या आसादयति” श० ब्रा०।

अभिगूर्त्त(र्ण्ण) = त्रि० अभि + गुर–क्त वेदे नत्वाभावः। १ उक्ते “इष्टं वीतमभिगूर्त्तम्” यजु० २५, ३७, “अभिगूर्त्तं ये यजासहे इत्यभिगूर्त्त्योक्तम्” वे० दी० लोके तु अभिगूर्ण्णैत्येव अभ्युद्यते त्रि०।

अभिगूर्त्ति = स्त्री अभि + सातत्ये गुर–क्तिन्। सततसङ्कल्पे “तेषामभिगूर्त्तिर्न इन्वतु” ऋ० १, १६२, ६। “अभिगूर्त्तिः सङ्कल्पः सर्ब्बथा करणीयमिति बुद्धिः” भा० २ अभित उद्यमे च “उतोतेषामभिगूर्त्तिर्न इन्वतु” ऋ० १, १६२, १२, “अभिगूर्त्तिः” उद्यमः भा०।

अभिगृहीतपाणि = त्रि० आनुकूल्यार्थं गृहीतः पाणिर्येन। आनुकूल्यार्थं कृताञ्जलौ।

अभिगेष्ण = त्रि० अभि + गै–इष्ण। अभितो गायके “यदेलवा अभिगेष्णाश्चरन्ति” श्रुतिः।

अभिगोप्तृ = त्रि० अभितो गोपायति अभि + गुप–तृच् स्त्रियां ङीप्। अभिरक्षके।

अभिग्रस्त = त्रि० अभि + ग्रस–क्त। १ आक्रान्ते २ कवलीकृते च

अभिग्रह = पु० अभि + ग्रह–अप्। (लुट) इति ख्याते प्रकाश हरणे, २ अभियोगे, ३ आभिमुख्येनोद्यमे, ४ गौरवे ५ युद्धे च। ल्युटि अभिग्रहणमप्यत्र न०।

अभिघर्षण = न० अभि + घृष–भावे ल्युट्। परस्परसंयोगेन १ घर्षणे, २ मर्द्दने च।

अभिघात = पु० अभि + हन–भावे घञ्। १ निःशेषहनने समूलनाशने “दुःखत्रयाभिघाताज्जिज्ञासा तदभिघातके हेतौ” सां० का०। २ ताडने। “तडाभिघातादिव लग्नपङ्के” कुमा०। अभिहन्यतेऽस्मै फलाय उद्दिश्यार्थे बा० घञ्। द्रव्यान्तरक्रियया उत्पादितद्रव्यान्तरसंयोगे, वैशेषिकोक्ते शब्दहेतौ, संयोगिनोर्मिथोविभागजनकक्रियाहेतौ च ३ संयोगभेदे। यथोक्तं “नोदनाभिघातात् संयुक्तसंयोगाच्च पृथिव्यां कर्म्मेति वै० सू०। “यः संयोगः शब्दनिमित्तकारणं, यज्जनितं कर्म्म संयोगिनोः परस्परविभागहेतुश्च भवति स संयोगविशेषोऽभिघातः नोदनं तु तद्विलक्षणः संयोगः। ताभ्यामप्रि प्रत्येकं कर्म्म जन्यते पङ्काख्यायां पृथिव्यां चरणेन नोदनात् चरणाभिघाताच्च कर्म्म जायते तत्र पङ्कः समवायिकारणम् नोदनाभिघातौ यथा यथमसवायिकारणम् गुरुत्ववेगप्रयत्ना निमित्तकारणानि संयुक्तसंयोगात् नोदनाभिघाताद्वा पङ्के कर्म पङ्कस्थिते घटा दावपि, तत्समकालमेव कर्मदर्शनादिति” श० उपम्करः। “आत्मसंयोगप्रयत्नाभ्यां हस्ते कर्म, तथा हस्तसंयोगाच्च मुषले, अभिघातजे मुषले कर्म्मणि व्यतिरेकादकारणं हस्तसंयोगः” बै० सू० तथात्मसंयोगात् हस्तकर्मणि, अभिघातान्मुषलसंयोगाच्च हस्ते कर्म “आत्मजन्या भवेदिच्छा इच्छाजन्या भवेत् कृतिः कृतिजन्या भवेच्चेष्टा चेष्टाजन्या भवेत् क्रिये” त्युक्तिममुसृत्याह आत्ससंयोगप्रयत्नाभ्यां हस्तेसमवाथिकारणे कर्म, तस्य च कर्मणः प्रयत्नवदात्मसंयोगोऽसमवायि कारणं प्रयत्नस्तु निमित्तकारणम् प्रयत्नवदात्मसंयोगासमवायि कारणिका च क्रियैव चेष्टा। तथा उत्क्षेपबद्धस्तसंयोगात् मुषले उत्क्षेपणं कर्म जायते। तथाच प्रयत्नवदात्मसंयुक्तेन हस्तेन यो मुषलस्य संयोगः स तत्रासमायिकारणम् मुषलं समवायिकारणमिति। उदूखलाभिहतस्य मुषलस्य कर्मयदुत्पपतनं जायते तत्र कारणमाह। मुषलादौ उत्पतन कर्मणि अभिघात एव हेतुः, न तु हस्तसंयोगः तस्य तं प्रति कारणत्वेनान्ययासिद्धत्वात् तद्व्यतिरेकेऽपि अभिघात- मात्रेण अभिहतप्रधानगुरुद्रव्य संयोगेनैव उत्पतनदर्शनात् यथा भूम्यादौ हस्तेन वेगक्षिप्तलोष्टादेर्हस्तयोगं विनाऽपि उत्पत्ति र्दृश्यतेऽत उत्पतने अभिघात एव असमनायिकारणम् “अभिघातात् मुषले संयोगाद्धस्ते कर्म” वै० सू० अभिघातात् अभिघातजनितसंस्कारजनितात् हस्तमुषलसंयोगात् हस्ते उत्पतनं कर्म तत्र मुषलसंयोगोऽसमायिकारणम्। तीव्रवेगप्रयुक्तक्रियाजनितः संयोगः शब्दहेतुः। “तृतीयः स्यात् कर्म्मजोऽपि द्विधैव परिकीर्त्तितः अभिघातोनोदनञ्च शब्दहेतुरिहादिमः। शब्दाहेतुर्द्वितीयः स्यादिति” “शब्दोध्वनिश्च वर्ण्णश्च मृदङ्गादिभवोध्वनिः। “कण्ठसंयोगादिजन्यावर्ण्णास्ते कादयोमता” इति च भाषा० अतएवोक्तम् “कण्ठताल्वाद्यभिघातजन्यः शब्दः” इति वृद्धैः। शिक्षायामप्युक्तम् “आत्मा बुद्ध्या समेत्यार्थान् मनोयुङ्क्ते विवक्षया। मनः कामाग्निमाहन्ति स प्रेरयति मारुतम्। सो दीर्ण्णो मूर्द्ध्न्यभिहतो वक्त्रमापद्य मारुतः वर्ण्णान् जनयते” इति। स उदीर्णः सन्धिः पादपूरणार्थः। मृदङ्गादौ तीव्रवेगेन काष्ठादिताडनसंयोगे शब्दोजन्यते इति लौके प्रसिद्धिः। वृक्षादौ प्रवलतरवायुसंयोगाच्चशब्दो ध्वन्यात्मक एव। मृदुवेगेन क्रियया संयोगे नोदनरूपे न शब्दः इति तस्यं शब्दाहेतुत्वमुक्तम् अधिकं नोदनशब्दे वक्ष्यते। “अभिघातोऽस्त्यस्य अर्श० अच्। अभिघातयुक्ते त्रि० “अभिघातं स्यात् पूर्ब्बं वेदद्वित्र्यदिवर्णायेत्। नववर्गाणां नवतो धरणीचन्द्रद्विरामाद्या” इति केरलोक्ते वर्णभेदे, न० शब्दकल्पद्रुमः।

अभिघातक = त्रि० अभि + हन–ण्वुल्। १ शत्रौ रिपौ २ अभिघातसंयोगकारके ३ समूलनाशके च। “तदभिघातके हेतौ” सां० का०।

अभिघाति = पु० अभिघातयति अभि–हन–स्वार्थे णिच्–इन्। रिपौ।

अभिघातिन् = त्रि० अभि + हन–णिनि स्त्रियां ङीप्। १ शत्रौ २ नाशके ३ अभिघातसंयोगकारके च।

अभिघार = पु० अभिघार्य्यते समन्तादग्नौ सिच्यते अभि + घृक्षरणे णिच्–भावे घञ्। अग्नौ समन्तात् घृतादेः १ सेचने २ घृतादिसंस्कारभेदे च। “कृदभिहितोभावो द्रव्यवत् प्रकाशते” इत्युक्तेः अभिघार्य्यमाणे ३ घृतादौ च निरु०।

अभिघारण = न० अभितोघारणम् जलादिभिः विधिना मेचनम्। अभि + घृ–णिच्–भावे ल्युट्। घतादेः संस्कारभेदे “एत्य जुह्वाभिघारणम् ध्रुवाया हविप उपभृतश्च” कात्या० ३, ३, ९, “पञ्चप्रयाजहोमानन्तरं यजतिरस्थानादेत्य वेदेः पश्चादागत्य उपविश्य जुहूस्थेनैव प्रयाजशेषेण ध्रुवाया ध्रौवस्याज्यस्य हविषः आज्यस्थाल्याज्यपुरोडाशयोश्च उपभृतः उपभृत्संस्थस्याज्यस्य अध्वर्युरभिघारणं करोति उपयोगक्रमेण अयञ्च हविः संस्कारः प्रयाजशेषप्रतिपत्तिः हवींषीति द्वितीयाश्रुतेःहविषः संस्कार्य्यत्वावगमात् अतः सन्निहितानि सर्व्वाणि हवींषि शेषेणाभिघारणीयानि” कर्क०

अभिचक्षण = अभि–चक्ष–ल्यु। १ सर्व्वतोविचक्षणे कर्मकुशले “वेदाहं तस्य भेषजं शीपुद्रुरभिचक्षणम्” अथ० ६, १२७, २, विषूचीर्य्यावतीराशा अभिचक्षणादिवः अथ० ९, २, २१।

अभिचर = त्रि० अभितः आभिमुख्येनानुकूल्यार्थं चरति चर–ट। १ भृत्ये २ अभितो गते च स्त्रियां ङीप्।

अभिचरण = न० अभि + चर–ल्युट्। १ शत्रघाताय विहितश्येनयागादौ।

अभिचरणीय = त्रि० अभिचरणमर्हति छ। १ अभिचाराहे वैरिणि “तं त्वष्टा हतपुत्रोऽभ्यचरत् सोऽभिचरणीयमपेन्द्रम् सोममाहरत्” शत० ब्रा०।

अभिचार = पु० अभि–आभिमुख्येन कृत्याजननार्थं चारः अभि + चर–भावे घञ्। १ शत्रुबघोत्पादककृत्याजनके मूलकर्मणि “श्येनेनाभिचरन् यजेतेति” विहिते श्येनयागादौ। “अमिचारेषु संर्व्वेषु कर्त्तव्यो द्विशतोदमः” “अभिचारमहीनञ्च त्रिभिः कृच्छ्रैर्व्यपोहति” इति च मनुः “अभिचारक्रियाक्रूरैकप्रकृतयः पुरोधसः” काद०। अभिचाराय हितं स प्रयोजनमस्य बा ठञ्। आभिचारिकः। १ तत्रहितकर्म्मादौ २ तत्रत्यमन्त्रादौ च त्रि० स्त्रियां ङीप्।

अभिचारकल्प = पु० अभिचारसाधनं कल्पोरहस्यज्ञापकग्रन्थः। १ अथर्ववेदान्तर्गते ग्रन्थभेदे अथर्ववेदशब्दे विवरणम्।

अभिचारिन् = त्रि० अभिचरति अभि + चर–णिनि स्त्रियां ङीप्। १ अभिचारकर्त्तरि “ये त्वा कृत्वा लेभिरे विदूला अभिचारिणः” अथ० १०, १, ९।

अभिच्छाय = त्रि० अभिगतश्छायाम् अत्या० स०, अभिमुखीभूता छाया यस्य वा। १ छायाप्राप्ते २ छायामिमुखप्राप्ते च। छायाया अभिमुखम् अव्ययी०। ३ छायाभिमुख्ये अव्य०। “यो माभिच्छायमत्येषि मां चाग्निं चान्तरा” अथ० १३, १, ५७।

अभिजन = पु० अभिजायतेऽस्मिन् जन + आधारे–घञ् अवृद्धिः। १ कुले, “म परिचयं रक्षति नाभिजनमीक्षते” काद०। “वयसः कर्मणोऽर्थस्य श्रुतस्याभिजनस्य च वेशवाग्बुद्धिसारूप्यमाचरन् विचरेदिह” मनुः। २ जन्मभूमौ, अभिमतः पित्रादीनां जनोजन्मस्थानम्। ३ पित्रादिभिरध्युषिते स्थाने “अभिजनश्च” पा० “अभिजनीनाम यत्र पूर्ब्बैरुषितम्” भाष्यम्। अभिमतोजनः श्रेष्ठत्वात् प्रा० स०। ४ कलश्रेष्ठे अभि + जन–भावे घञ्। उत्कृष्टस्थानजतया ५ अभिमतोत्पत्तौ “श्रैष्ठ्येनाभिजनेनेदं सर्वं वै ब्राह्मणोऽर्हति” मनुः ब्रह्ममुखोद्भवत्वेनाभिजनेन श्रेष्ठतया” कुल्लू०। अभिजायते सत्पुरुषोभवति येन करणे घञ्। ६ कार्त्तौ “यावत् कीर्त्तिर्हि लोकेषु तावत् पुरुष उच्यते” इत्युक्तेः कीर्त्त्यैव सफलजन्मत्वात्तस्यास्तथात्वम्। अभिजनादागतः अण्। आभिजनः वंशसंबन्धादागते, त्रि० “तां पार्व्वतीत्याभिजनेन नान्ना” कु०।

अभिजात = त्रि० अभिमतं प्रशस्तं जातं जन्म यस्य। १ कुलीने, “जात्यस्तेनाभिजातेन शूरः शौर्य्यवता कुशः” “भिन्नानस्त्रैर्मोहभाजोऽभिजातान्” च रघुः। २ पण्डिते, ३ श्रेष्ठे “न म्नेच्छितव्यं यज्ञादौ स्त्रीषु नाप्राकृतं वदेत्। सङ्कीर्ण्णं नाभिजातेषु नाप्रबुद्धेषु संस्कृतम्” वृद्धाः। ४ मनोहरे। “प्रजल्पितायामभिजातवाचि” कु०। अभिजातस्य भावः ष्मञ। आभिजात्यं कौलीन्येन०।

अभिजाति = स्त्री प्रशस्ता जातिः जननं प्रा० स०। प्रशस्तवंशजनने।

अभिजित् = त्रि० अभिमुखीभूय जयति शत्रून् अभि + जि–क्विप्। १ अभिमुखीभूय शत्रुजयिनि। अभितो जयत्यनेन करणे क्विप्। २ सर्वतोजयसाधने “अभिजिता तेजसा तेजोजिन्व” य० १५, ७, “सर्ब्बजयहेतुना तेजसा अन्नेन” वेददी०। “अभिजिदसि युक्तग्रावेन्द्राय” ता० ब्रा० “अभिजित् सर्वजयहेतुरसि” भा०। अभिजयति ऊर्द्धाधःस्थित्या अपराणि नक्षत्राणि कर्त्तरि क्विप्। “अभिजिन्नाम नक्ष्कत्रमुपरिष्टेदाषाढानामधस्ताच्छ्रोणायाः” श्रुत्युक्ते ३ नक्षत्रभेदे इतरनक्षत्राणां स्वकक्षामात्रस्थितेस्तस्य च ऊर्द्ध्वाधःस्थित्या इतरनक्षजयित्वात् तथात्वम्। अतएव भागवते “नक्षत्राणि मेरुं दक्षिणेनैव कालायने ईश्वरयोजितानि सहाभि जिताऽष्टाविंशति” रित्युक्तम्। नक्षत्रचक्रस्य अश्विन्यादिसप्तविंशतिनक्षत्रात्मकतया ज्योतिषे प्रसिद्धत्वेऽपि श्रुत्युक्तेराषाढोपरिश्रवणाधःस्थाने अभिजिन्नामकं नक्षत्रचक्रानन्तर्गतमपि कर्म्मविशेषे फलविशेषार्थं ज्योतिषादौ स्वीकृतम् यथा” सप्त सप्त विलिखेत्तु रेखिकास्तिर्य्यगूर्द्ध्वमथ कृत्तिकादिकम्। लेखयेदभिजिता समन्वितं चैकरेखकगखगेन बिध्यते। वैश्वस्य चतुर्थांशे श्रवणादौ लिप्ति काचतुष्के च। अभिजित् तत्स्थे खेटे विज्ञेया रोहिणी बिद्धा। ग्रहश्चेदेकरेखास्थो वेधः सप्तशलाकक” इति दीपिका ततश्च आषाढोपरिश्रवणाधोभागे तस्य स्थितावापि ऊनविंशकलात्मकत्वं कर्म्मविशेषार्थं कल्पितम् तत्र ग्रहस्थित्या सप्तशलाकादिवेधवशात् विवाहादौ वर्ज्यता अनिष्टफलदायकत्वात्। श्रुतौ स्थानविशेषोक्तिस्तु तस्य स्थिति स्थानज्ञापनार्था अतएव सूर्य्यसिद्धान्ते “आप्यस्यैवाभिजित् प्रान्ते वैश्वान्ते श्रवणस्थितिरित्युक्तं व्याख्यातञ्चैतत् रङ्गनाथेन आप्यस्य पूर्ब्बाषाढाया अवसाने, धनूराशौ विंशतिकलोनसप्तविंशतिभागे २६, ४० अभिजिद्योगतारा” इति एवञ्च दीपिकोक्ता ऊनविंशतिकलात्मकता कर्मविशेषार्था अतएव अष्टाविंशतिनक्षत्राभिप्रायेणैव वृहत्संहितायामष्टाविसंशतिर्नक्षत्राधीश्वरा उक्ताः “अश्वियसदहनकमलजशशिशूलमृददितिजीवफणिपितरः। यौन्यर्यमदिनकृत्त्वष्टृपवनशक्राग्निमित्राश्च।। शक्रो निरृतिस्तोयं विश्वे ब्रह्मा हरिर्वसुर्वरुणः। अजपादोऽहिर्बुध्नः पूषा चेतीश्वरा भानाम्”।। तथा चाभिजितोब्रह्माधीश्वरः। अभिजयति इतरश्राद्धकालान् पाशस्त्येन, आभिमुख्येन पश्चिमावस्थितां छायां जयति प्राग्वर्त्तिनीं करोति वा क्विप्। पश्चिमवर्त्तिच्छायायाः पूर्ब्बवर्त्तित्वसम्पादके पञ्चदशघाविभक्तदिनस्याष्टमे कुतपाह्वये श्राद्धप्रशस्ते ३ मुहूर्त्ते। “अपराह्णे तु संप्राप्ते अमिजिद्रोहिणोदये। यदत्र दीयते जन्तोस्तदक्षयमुदाहृतमिति” मत्० पु० उक्तेस्तस्येतरापेक्षयाऽक्षयफलदातृत्वात्तथात्वम्। “कुतपप्रथमभागे एकोद्दिष्टमुपक्रमेत् आवर्त्तनसमीपे वा” स्मृतेः “आरभ्य कुतपे श्राद्धं कुर्य्यादारोहिणं बुधः” इत्युक्तेश्च तन्मूहूर्त्तस्यारम्भकालतया प्रशस्तत्वाच्च तथात्वम्। अभिजयति शत्रून् गमनेनात्र आधारे” क्विप्। “मध्यं व्योमप्रयाते स्फुरदनलनिभे केशरे चार्कविम्बे छाया साध्वीव कान्ता प्रचलति पुरुषे यत्र तत्पादलग्ना। तावत् सौरेर्न दृष्टिः कुजकृतमशुभं नैव ऋक्षस्य योगः लक्ष्मीमारोग्यसम्पत्क्षितिमथ युवतीं तत्र गन्ता लभेत” इति ज्योतिषोक्ते ४ यात्रालग्नभेदे च। यद्यपि “सर्वस्मिन् विधुपापयुक्तनुलवावर्द्धे निशाह्नोर्घटीत्र्यशं वै” इत्यादिना दिनार्द्धपूर्ब्बापरस्थघटीत्र्यंसात्मक–२० पलस्य सर्वत्र वर्ज्यता तथापि यात्रायां विशिष्याभिधानात्तदपवादः। “ततः प्रभाते विमले मुहूर्त्तेऽभिजिति प्रभुः” रामा०। अग्निष्टोमयागाङ्गे गवामयनिके ५ यागभेदे अभिजिदग्निष्टोम” इति कात्या०। अग्निष्टोमग्रहणादभि- जिदन्तरं तत्संज्ञकं गवामयनिकमेतत् कर्क०। संवत्सरसाध्येगवामयने ३ षष्ठमासीयपञ्चविंशतितमदिने यथोक्तम् ता० भाष्ये “तत्र षष्ठे मास्यादौ त्रयोऽभिप्लवाः षडहाः कार्य्याः तत एकः पृष्ठ्यः षडहः ततोऽभिजिदेकमहः” इति। अभिजिन्मुहूर्त्तस्य च किञ्चिदूनदिनार्द्धप्रवत्तेः तत्साम्यात् पञ्चविंशतिदिनाधिकपञ्चममासस्य किञ्चिदूनदैवदिवसार्द्धतुल्यतयास्याभिजिच्छब्दवाच्यता ६ तद्दिन्नकर्त्तव्ये ७ अतिरात्रयागादौ च उपचारात् अतएव ताण्ड्यभाष्ये “षष्ठे मासि त्रीनभिप्लवान् एकं पृष्ठ्यञ्च कृत्वाऽभिजिदनुष्ठेयः” इत्युक्तम् विवरणं गवामयनशब्दे दृश्यम्। “अभिजिदतिरात्र” इति शत० ब्रा०। “अतिरात्रसंस्थः अभिजिन्नामके दिने कार्य्य” इति भा०।

अभिजित = पु० अमिजीयादन्यान् संज्ञायामाशोर्व्वादे देवरातादिवत् क्तच्। अर्द्धरात्रसम्बन्धिनि मुहूर्त्ते “अहं त्वभिजिते योगे निशाया यौवने स्थिते। अर्द्ध्वरात्रे करिष्यामि गर्भमोक्षं यथासुखम्”। मुहूर्त्तेऽभिजिते प्राप्ते सार्द्ध्वरात्रे विभूषिते देवक्यजनयद्विष्णुं यशोदा तान्तु कन्यकाम् विष्णु पुं०।

अभिजिति = स्त्री अभि + जि–भावे क्तिन्। अभिजये “एषां लोकानामभिजित्यै” शत० ब्रा०।

अभिज्ञ = त्रि० अमिजानाति अभि + ज्ञा–क। १ निपुणे, २ पण्डिते ३ ज्ञातरि चेतने “अन्वयादितरतश्चार्थेष्वभिज्ञः स्वराट्” भाग०। अभिज्ञाश्छेदपातानां क्रियन्ते नन्दनद्रुमाः कुमा० “शङ्खस्वनाभिज्ञतया निवृत्ताः” रघुः।

अभिज्ञा = स्त्री अभि–ज्ञा–अङ्। १ प्रथममुत्पन्ने ज्ञाने। २ संस्कारसहकृते इन्द्रियसन्निकर्षजन्ये प्रत्य्भिज्ञारूपे ज्ञाने च।

अभिज्ञात = त्रि० अभिज्ञायतेस्म अभि + ज्ञा–कर्म्मणि क्त। कालान्तरे पुनःर्दृष्ट्या जातेन सोयमित्याकारकज्ञानेन विषयीकृते पूर्ब्बदृष्टे पदार्थे।

अभिज्ञान = न० अभिज्ञायतेऽनेन अभि + ज्ञा–करणे ल्युट्। सोऽयमिति ज्ञानसाधने १ चिह्ने। “चिह्नभूतं त्वभिज्ञानं त्वमङ्गे कर्त्तुमर्हसि” “उपपन्नैरभिज्ञानैर्दूतं तमवगच्छत” इति च रामा०। भावे ल्युट्। तदिदमित्याकारके २ ज्ञाने च। तच्च संस्कारसहकृतं पुरोवर्त्तिनि इन्द्रियसन्निकर्षजन्यं प्रत्यक्षविलक्षणं स्मृतिविलक्षणञ्च ज्ञानम्। “तदभिज्ञान हेतोर्हि दत्तं तेन महात्मना” रामा०।

अभिज्ञानशकुन्तला = स्त्री अभिज्ञायते कर्म्मणि ल्युट् तथा भूतां शकुन्तलामधिकृत्य कृताख्यायिका “तदधिकृत्य कृते ग्रन्थे” पा० अण् आख्यायिकायां तस्य वा लुपि व्यक्तिवचनतेति स्त्रीत्वम्। कालिदासकृतौ दुष्यन्तेम गान्धर्वविधिना कृतोपयमां कण्वकन्यां शकुन्तुलामधिकृत्य कृते नाटकभेदे तस्याश्च दुर्वासःशापात् प्रथमं दुष्मन्तेनानभिज्ञानात् पश्चाच्च स्वदत्ताङ्गुरीयकरूपाभिज्ञानदर्शनेन प्रत्यभिज्ञातत्वात् तामधिकृत्याख्यायिकारूपत्वान्नाटकस्य तथात्वम्। “कालिदासस्य सर्वस्वमभिज्ञानशकुन्तला” लुबभावे आभिज्ञानशकुन्तलम् न०। “नवेनाभिज्ञानशकुन्तलेनेति” शकु०।

अभिज्ञु = त्रि अभिगते आभिमुख्येन स्थापिते जानुनी येन वेदे बा० ज्ञु १ आभिमुख्येनावस्थापितजानुयुक्ते। “संजानाना उपसीदन्नभिज्ञु” ऋ० १, ७२, ५।

अभितराम् = अव्य० अभि + प्रकर्षे–तरप् आमु। १ आभिमुख्यातिशये २ शनैःशनैरामिमुख्ये च “अभितरामु वै जयन् क्रामति तस्मादभितरामभितरामेव क्रामेत्” शत० ब्रा०। “अभितराम् उ वै शत्रोरत्यन्तमभिमुरवं खलु, अग्नावपिईषदीषत् पुरस्तादाक्रामेदिति” भा०।

अभितस् = अव्य० अभि + तसिल्। सामीष्ये, आभिमुख्ये, उभयतोऽर्थे, शीघ्रतायाञ्च। एतद्योशे द्वितीया “अभिसर्वतसोःकार्य्या धिक्युपर्य्यादिषु त्रिषु। द्वितीयाम्रेडितान्तेषु तथान्यत्रापि दृश्यते” इत्युक्तेः। “अङ्गान्ययाक्षीदभितः प्रधानमिति” भट्विः “अभितस्तं पृथासूनुः स्नेहेन परितस्तरे” किरा० “कामक्रोध वियुक्तानां यतीनां यतचेतसाम्। अभितोब्रह्मनिर्वाणमिति” गीता ३ साकल्ये च। “पर्य्यभिभ्याञ्च” पा० “सर्वोभयार्थाभ्यामेव बा० उक्तेः सर्व्वोभयार्थयोरेवास्य साधुता।

अभिताप = पु० अभि + तप–घञ्। भृश सन्तापे।

अभिताम्र = पु० भृशं ताम्रं प्रा० स०। १ अत्यन्तताम्र वर्ण्णे २ तद्वति त्रि० “रामस्तमभिताम्राक्षं वृक्षशाखाबलम्बिनम्” रघुः।

अभितोमुख = त्रि० अभितः मुखमस्य। १ सर्वदिम्मुखे।

अभिदर्शन = न० आभिमुख्येन दर्शनम् अभि + दृश–भावे ल्युट्। आभिमुख्येन दर्शने, “ग्रामघाते हिताभङ्गे, परेषामभिदर्शने” ममुः।

अभिद्रा = स्त्री अभि + द्रा–अङ्। १ पलायने, २ अभिध्यायाम् स्मृतौ च।

अभिदि(धि)प्सु = त्रि० अभि + दम्भ–सन् उ वेदे नदस्य धः। १ अभिभवनेच्छावति “विश्वा इदर्य्यो अभिदिप्स्वः” इति ऋ० २, २३, १३। “अभिदिप्सः अभिभवनेच्छावती छान्दसम्” भा०

अभिद्रवण = न० अभि + द्रु–ल्युठ्। १ वेगेन गमने। अप्। अभिद्रवोप्युक्तार्थे पु०।

अभिद्रुह् = त्रि० अभिद्रुह्यति अभि + द्रुह् क्विप्। १ अपकारके

अभिद्रोह = पु० अभि + द्रुह–घञ्। १ आक्रोशे २ अनिष्टचिन्तने, ३ अपकारे च। “नामजातिग्रहं तेषानभिद्रीहेण कुर्वतः”। मनुः “भूतेन्द्रियानभिद्रोहो धर्मोहि परमोमतः” का० ख०

अभिधर्षण = न० आभिमुख्येन धर्षणम्। १ निष्पीडने २ आस्फालने ३ भूतादेरावेशे च। कर्त्तरि ल्यु। ४ राक्षसे पु०।

अभिधा = स्त्री अभि + घाञ्–भावे अङ्। १ कथने, २ शब्दनिष्ठे अर्थबोधजनकताशक्तिभेदे च। अभिधीयतेऽनेनेति करणे अङ्। ३ वाचकशब्दे भट्टमते फलजनकव्यापाररूपायां शब्दनिष्ठायां ४ भावनायाञ्च। अभिधा च सङ्केतितार्थस्य बोधिका शब्दनिष्ठा शक्तिरिति आलङ्कारिका “वाच्योऽर्थोऽभिधया बोध्यो लक्ष्यो लक्षणया मतः।। व्यङ्ग्योव्यञ्जनया ताः स्युस्तिस्रः शब्दस्य शक्तयः” ता अभिधाद्याः। “तत्र सङ्केतितार्थस्य बोधनादग्रिमाऽभिधा” सा० द०। भाट्टास्तु प्रवृत्तिजनने विधिव्यापारीभूता विधि समवेता भावनापरनामाऽतिरिक्तपदार्थविशेषोऽभिधा तस्या एव ज्ञानं प्रवर्त्तकं तत्रैव च भावनात्वरूपेण विधिशक्तिः सा च जन्यत्वसम्बन्धेन एकपदोपात्तत्वप्रत्यासत्त्या वा आख्यातसामान्यशक्तिबललभ्या कृतिरूपव्यापारविधेरर्थान्तरे विशेषणतयाऽन्वेति प्रकृत्यर्थोऽपि विषयितया व्यापारे विशेषणं तया च यागविषयकभावनाजन्यव्यपारवान् पुरुष इत्यन्वयबोधः नचैतादृशबुद्धावपि प्रयोजनाज्ञाने कुतः प्रवृत्तिः प्रयोजनस्याहेतुत्वे विश्वजिदादौ फलकल्पनानुपपत्तेरिति वाच्यम् यागविषयकव्यापारेऽभिधाजन्यत्वस्यान्वये व्यापारनिष्ठेष्टसाधनत्वस्यान्वयप्रयोजकरूपतया योग्यतात्वेन योग्यताबलादेव व्यापारे तद्भानात्। यद्वा विधित एव स्वर्गादिसाधनत्वग्रहस्तच्च प्रवृत्तिरूपव्यापारे आख्यातार्थेऽन्वेति प्रवृत्ताविष्टसाधनताज्ञानमेव प्रवर्त्तकम्। न चैवं न्यायमताविशेषः इष्टसाधनत्वेन विध्यर्थत्वस्वीकारादिति वाच्यं क्रियागतं साघनत्वं न विध्यर्थः अपि तु प्रवृत्तिगतमिति विशेषात् अभिधाभ्युपमानभ्युपगमाभ्यामपि विशेषसम्भवाच्च न चैवं तादृशाभिधायां मानाभाव इति वाच्यं विधिः प्रवृत्तिजनकधर्म्मसमवायिकारणं तज्जनकद्रव्यत्वादात्मवदित्यनुमानादेव तत्सिद्धेः भट्टमते शब्दस्य द्रव्यत्वान्नासिद्धिः। न च प्रवृत्तिजनकशरीरे व्यभिचारः, तस्य शरीर प्राणसंयोगोपादानत्वात् न च विधिर्न प्रवृत्तौ कारणं प्रवृत्तिसामान्ये व्यभिचारात् इति वाच्यं वैघजन्यप्रवृत्तौ तद्धेतुत्वात् ज्ञानवत् प्रवृत्तावपि वैलक्षण्यसम्भवाच्च तच्च जातिरूपमखण्डोपाधिरूपं स्वरूपं वेत्यन्यदेतत्। नन्वस्त्वभिधा तथापि तद्धीर्न प्रवृत्तिहेतुः प्रवृत्तिसामान्ये तस्य व्यभिचारात् प्रत्यक्षादिना इष्टसाधनत्वग्रहेऽपि प्रवृत्तेः, नापि, यागादिविषयिकायां, यागकृतिः स्वर्गसाधनमित्याप्तवाक्यादितोपि प्रवृत्तेः। नापि बिधिजन्यायां, तज्जन्यताबच्छेदकस्यैब दुष्परिचयात्। नापि जातिबिशेषबिशिष्टायां, गुणगतजात्यनभ्युपगमात् इति चेन्न विधिजन्यतावच्छेदकाखण्डोपाध्यबच्छेदेनैब तद्धेतुत्वात् न च भावनादिपदादपि तादृशप्रवृत्त्यापत्तिरिति बाच्यं बिधिजन्यभावनाज्ञानस्यैव विलक्षणशक्तिमत्त्वेन तादृशप्रवृत्तिविशेषे हेतुत्वादित्याहुः। तामेतामभिधारूपभावनां प्रभाकरान मन्यन्ते। एवं हि तस्यानिरासस्तैः कृतः” अभिधासंकल्प्याऽपूर्ब्बभावनाज्ञानं न प्रवर्त्तकं तस्मिन् सत्यप्यप्रवृत्तेः असत्यपि प्रवृत्तेश्च किन्तु कार्य्यत्वज्ञानमेव प्रवर्त्तकमिति तथा हि ज्ञानस्य कृतौ जनयितव्याया चिकीर्षातिरिक्तं न कर्त्तव्यमस्ति यत्सत्त्वे कृतिविलम्बोहेत्वन्तराभावात्। चिकीर्षा च कृतिसाध्यत्वप्रकारिका कृतिसाध्यक्रियाविषयकेच्छा पाकं कृत्या साधयामीति तदनुभवात् सा च स्वकृतिसाध्यज्ञानसाध्या इच्छायाः स्वप्रकारकधीसाध्यत्वनियमात्” इति। यथा चास्यैव प्रवर्त्तकत्वं तथा विधि शब्दे वक्ष्यते। सा चाभिधाशक्तिः कुत्रार्थे कस्येति व्याकरणादितोज्ञायते तदुक्तमभियुक्तैः “शक्तिग्रहं व्याकरणोपमानात् कोषाप्तवाक्यात् व्यवहारतश्च। वाक्यस्य शेषाद्विवृतेर्वदन्ति सान्निध्यतः सिद्धपदस्य वृद्धा” इति व्याख्यायेदमुदाहृतमस्माभिः शब्दार्थरत्ने। यथा “तत्र सर्वेषां शब्द नां प्रथमतो व्यवहारादेव प्रायशः शक्तिग्रहः। तथा हि केनचित् वृद्धेन व्युत्पन्नं पुरुषं प्रति गामानयेत्युपदिष्टे तत् शृण्वन् व्युत्पन्नो गवानयने प्रवर्त्तते। तच्चेष्टादर्मनेन तत्प्रवृत्तिमनुमाय व्युत्पित्सुर्बालो व्युत्पन्नपुरुषीयप्रवृत्त्यन्यथानुपपत्त्या तद्धेतुभूतकर्त्तव्यतादिज्ञानादिकं तत्रानुमिनुतेऽनुमिनुते चापरकारणानुपस्थितेः श्रुतस्यैव समुदितवाक्यस्य तद्धीजनकत्वम्। ततश्च वाक्यस्य तद्धीजनकत्वेन तत्सम्बन्धित्वमवसीयते इत्यतो व्यवहारस्यैव शक्तिग्राहकत्वमित्येवमवसीयते शास्त्रकारः। पश्चाच्च पदानामन्वयव्यतिरेकाध्यां प्रत्येकपदशक्तिग्रहः तथा हि पुनश्च गां बधान घटमानयेत्यादिवाक्यश्रर्वणे नियोज्यस्य पूर्ब्बापेक्षया विशेषकार्य्यप्रवृत्तिदर्शनेन गवादिपदश्रवणसत्त्वे तत्कार्य्यकरणं तदभावे च तत्कार्य्या- करणमित्यन्वयव्य तिरेकाभ्यां तत्तत्पदानां विशेषार्थवाचकत्वावधारणमिति द्रष्टव्यम्। व्याकरणमपि तथा, तद्धि कर्मणि द्वितीयेत्यादिना द्वितीयादीनामर्थविशेषे प्रयोगनियमाय प्रवृत्तं द्वितीयादीनामर्थमप्यबगमयति तथा हि कर्म्मण्येब द्वितीया शक्ता न करणादौ, कर्मणि द्वितीयैव शक्ता न तृतीयेत्येवं द्विविधनियमपरतया प्रवृत्तं शास्त्रं निममतदतिक्रमयोः पुण्यापुण्यफले दर्शयत् तत्तच्छब्दानां तत्तदर्थेष्वेव साधुतोक्त्या शक्तिमवगमयति। तदुक्तं भाष्यकारैः “सुपां कर्मादयोऽप्यर्थाः संख्या चैव तथा तिङाम्। प्रसिद्धानियमस्तत्र नियमः प्रकृतेषु चेति”। उपमानमपि शक्तिग्राहकम्। यथा गोसदृशो गवय इत्युपदेशवाक्यं श्रुतवतोग्रामस्थपुरुषस्य वनगमनादनन्तरं गोसदृशपिण्डदर्शनेउपदिष्टं वाक्यं स्मरतश्च ईदृक् पिण्डो गवयपदवाच्य इति भवति मतिरित्युपमानरूपोपदेशवाक्यस्य गवयपदशक्तिग्राहकत्वम्। तत्र च व्याकरणादीनामप्रवृत्तेः प्रकृतिप्रत्ययाधीनोपस्थिटतविषये एव व्याकरणस्य, रूढिविषये च कोषस्योपयोगात्तदभावाच्च तस्यैव तत्र तथात्वम्। कोषोऽपि अनपेक्ष्यैव प्रकृतिप्रत्ययादिविभागं केषाञ्चित् पदजातानां रूढिज्ञानाय प्रवर्त्तमानो मण्डपघटादिशब्दानां शक्तिमवगमयति। आप्तवाक्यमपि तथा, व्याकरणादिशक्तिधीहेत्वज्ञानेऽपि यथार्थज्ञानवतामुपदेशेन तत्तच्छब्दानां तत्तदर्थेषु शक्तिग्रहः। व्यवहारतस्तु दर्शितः। वाक्यशेषोऽपि तद्ग्रहे हेतुः यथा स्वर्गकामोयजतेत्यादौ श्रुतस्वर्गपदस्य अर्थविशेषमजानतामधिकारिणां तच्छक्तिबोधनाय प्रवृत्तेन “यन्न दुःखेन संभिन्नं न च ग्रस्तमनन्तरम्। अभिलाषोपनीतं च तत्सुखं स्वःपदास्पदमिति” वाक्यशेषब्राह्मणेन दुःखासंभिन्नत्वादिमति सुखविशेषे एव स्वर्गपदस्य शक्तिग्रहः। व्याख्यानरूपा टीकादिपदाभिधेया विवृतिरपि तत्तच्छब्दनां तत्तदर्थेषु शक्तिं ग्राहयति यथा पचतिपदस्य पाकं करोतीति व्याख्या पाककर्त्तर्य्येवमन्यत्रापि। प्रसिद्धपदसामानाधिकरण्यमपि तद्ग्रहे हेतुः। पिकादिशब्दार्थमविदुषामुपदेशाय प्रवृत्तेन सहकारतरौ मधुरं रौति पिक इति वाक्येन प्रत्येकशक्त्या ज्ञातशक्तिकपदोपस्थापितार्थे मधुरशब्दकारके पिकशब्दस्य शक्तिग्रहः। एवं कोषादावपि “सत्कृत्यालङ्कृतां कन्यां यो ददाति स कूकुद” इत्यादौ प्रसिद्धपदोपस्थापितार्थे सत्कार पूर्ब्बकालङ्कृतकन्यादातरि कूकुदपदस्य शक्तिग्रहः। अत्र च प्रसिद्धपदसान्निध्यं नाम अर्थविशेषे निश्चितशक्तिकपदसामानाधिकरण्यम् सामानधिकरण्यञ्च स्वबोध्यार्थेऽभेदेनान्वयबोधजनकत्वम्। वैयाकरणमते चाख्यातप्रथमान्तार्थयोरप्यभेदेनान्वयस्वीकारः। अतोमधुरं रौति, कन्यां ददातीत्यादावाख्यातान्तस्य प्रथमान्तसामानाधिकरण्यं सुलभमेव। अतएव च भाष्ये “लटः शतृशानचावप्रथमासमांनाधिकरणे” इति सूत्रे अप्रथमासमानाधिकरणे इति निर्द्देशादन्यत्र लटः प्रथमान्तसामानाधिकरण्यमुपपादितमुपपादितञ्च “आदेशे सामानाधिकरण्यं दृष्ट्वाऽनुमानाद्गन्तव्यं स्थानिनः सामानाधिकरण्यमित्यादिना” लटः स्थानिलकारसामान्यस्य प्रथमान्तसमाधिकरण्यम्। एतेन ददानः कूकुदः स्मृत इत्यादि पाठकल्पनमपि परेषामनादेयमेवेति”।

अभिधान = न० अभि + धा–भावेल्युट्। १ कथने। करणे ल्युट् १ नामनि, २ शब्दार्थप्रतिपादके निघण्टुकोषादिनामके ग्रन्थे च। तथा च शब्दादानामर्थविशेषे शक्तिग्राहकं कोषादिकमेव अभिधानशब्दवाच्यम् तच्चामरादिनांना कोषादिकम्। तत्र च प्रायेण एकार्थवाचकानां पर्य्याय शब्दानां क्वचिच्च नानार्थानामपि शब्दानां संघ उपदिष्टः तेषां शक्तिग्राहकत्वञ्च अभिधाशब्दे दर्शितम्।

अभिधानो = स्त्री आभिधीयते आभिमुख्येन धीयते बन्धेनानया अभि + धा–करणे ल्युट्। १ रज्वौ तया हि बन्धनेन बध्यमाभिमुख्येन स्थाप्यते। “इसामगृभ्न्रशनामृतस्य इत्यश्वाभिधानीमादत्ते” इति तै० ब्रा०। “अभिधानीं रशनामिति” भा० “तस्या इन्द्रोवत्स आसीद्गायत्र्यभिधान्यभ्रमूधः” अथ० ८, १०, १२। “भूमौञ्जीभिरभिधानीभिर्हिता भवन्ति” कात्या० ३, ४।

अभिधामूला = स्त्री अभिधा मूलं यस्याः। आलङ्कारिकोक्तेव्यञ्जनाभेदे। अभिधाश्रयाप्यत्र अभिधालक्षणामूला शब्दस्य व्यञ्जना द्विधा अनेकार्थस्य शब्दस्य संयोगाद्यैर्नियन्त्रिते एकत्रार्थेऽन्यधीहेतुर्व्यञ्जना साभिधाश्रया” आद्यशब्दाद्विप्रयोषादयः”। उक्तं हि “संयोगो विप्र योगश्च साहचर्य्यं विरोधिता। अर्थः प्रकरणं लिङ्गं शब्दस्थान्यस्य सन्निधिः। सामर्थ्यमौचिती देशः कालोव्यक्तिः खरादयः। शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः” इति यथा सशङ्खचक्रो हरिः” इत्यत्र शङ्खचक्रसंयोगेन हरिशब्दोविष्णुमेवाभिघात्ते। अशङ्खचक्रो हरिः इति वियोगेन तमेव। भीमार्ज्जुनौ इति अर्ज्जुनः पार्थः। कर्णार्ज्जुनौ इति कर्ण्णः सूतपुत्रः। स्थाणुं वन्दे इति स्थाणुः शिवः सर्वं जानाति देवः इति देवोभवान्। कुपितोमकरध्वजः इति मकरध्वजः कामः। देवः पुरारिः इति पुरारिः शिवः। मधुना मत्तः पिकः इति मधुर्वसन्तः। पातु वोदयितामुखमिति साम्मुख्यम्। विभाति गगने चन्द्रः इति चन्द्रः शशी। निशि चित्रभानुः इति चित्रभानुर्वह्निः। भाति रथाङ्गम् इति नपुंसकव्यक्त्या रथाङ्गं चक्रम्। स्वरस्तु वेदे एव विशेषप्रतीतिकृत् न काव्यादौ तस्य विषयोऽतोनोदाहृत इति, यथा। दुर्गालङ्घितविग्रहो मनसिजं सम्मीलयंस्तेजसा प्रोद्यद्राजकलो गृहीतगरिमा विश्वग्वृतो भोगिभिः। नक्षत्रेशकृतेक्षणो गिरिगुरौ गाढां रुचिं धारयन् गामाक्रम्य विभूतिविमूषिततनू राजत्युमाल्लभः। अत्र प्रकरणेनाभिधया उभावल्लभशब्दस्योमानाम्नी महादेवी तद्बल्लभभानुदेवनृपतिरूपेऽर्थे नियन्त्रिते व्यञ्जनयैव गौरोवल्लभरूपोऽर्थो बोध्यते” सा० द०।

अभिधायक = त्रि० अभि + धा–ण्वुल्। वाचकशब्दे “लिङ्गान्तरा नभिधायकत्वं नित्यस्त्रीत्वमिति का० वृत्तिः २ तत्तच्छब्दोच्चारके च।

अभिधायिन् = त्रि० अभिधत्तेकययति अभि + धा–णिनि स्त्रियां ङीप्। १ कयके २ शब्दप्रयोक्तरि। “त्वं मुग्धाक्षि! विनैव कञ्चुलिकया धत्से मनोहरिणीं लक्ष्मीमित्यभिघायिनि प्रिय तमे तद्वीटिकां संस्पॄशीति “अमरुशतकम् वाचकशब्दे च “प्रत्यक्षादिप्रमासिद्ध विरुद्धार्थाभिधायिनः वेदान्ता यदिशास्त्राणि बौद्धैः किमपराध्यते इति।

अभिधावक = त्रि० आभिमुख्येन धावति अभि + धाव–ण्वुल्। आभिमुख्येन वेगेन गन्तरि।

अभिधित्सा = स्त्री अभिधातुमिच्छा अभि + धा–सन–अ। कथयितुमिच्छायां विवक्षायाम्

अभिधृष्णु = त्रि० अभि + धृष–क्नु। अत्यन्तधर्षके। “तस्माद्ब्रह्मणः पशूनभिधृष्णुतम” शत० ब्रा०।

अभिधेय = त्रि० अभिधीयते अभिधावृत्त्या बोध्यते अभि + धा–कर्मणियत्। वाच्यार्थे सङ्क्षेतवति शब्दार्थे। आविष्करातिशयोभिधेयवत् प्रतीयते” सा० द० “अभिधेया विनाभूतप्रतीतिर्लक्षणीच्यते का० प्र० ग्रन्थप्रतिपाद्ये च” “इतिप्रयोजनाभिधेयसम्बन्धा” इति मुग्धबोधम् “एतेनाभिधेयञ्च दर्शितम् सा० द०।

अभिध्या = स्त्री अभि + ध्यै–अङ्। १ परधनस्याजिहीर्षायां, २ जिघृक्षायां, ३ विषयप्रार्थनायां ४ चिन्तने, च। अभिध्यायतेश्चिन्तनार्थंत्वात् तथात्वम् “सोऽभिध्याय शरीरात् स्वात् सिसृक्षुर्विविधाः प्रजा इति” मनुना आलोचने अभिध्यायतेः प्रयोगात् तस्यास्तथार्थत्वम्। “अभिध्योपदेशाच्च” शा० सू०।

अभिध्यातव्य = त्रि० अभि + ध्या–तव्य। सततचीन्तनीये। “यः पुनरेतं त्रिमात्रेणौमित्यक्षरेण पर पुरुषमभिध्यायीतेति” श्रुत्या “परमेव ब्रह्माभिध्यातव्यमित्युपदिश्यते” शा० भा०।

अभिध्यान = न० अधि + ध्यै–भावे ल्युट्। १ अभिध्याशब्दार्थे २ अभितोध्याने च तच्च भिन्नजातीयप्रत्ययानन्तरितोऽविच्छिन्न एकमात्रविषयप्रत्ययसन्तानः। “तदभिध्यानादेवतल्लिङ्गात्” शां० सू०।

अभिनद्ध = त्रि० अभितो नद्धः बद्धः अभि + नह–क्त। सर्वतो बद्धे “यथा सौम्य। पुरुषमभिनद्धाक्षमिति” छा० उ० “अभिनद्धाक्षं बद्धाक्षम्” भा० “परिरम्भरुचिं ततिर्जलानामभिनद्धा रसमानसारसेन” माघः।

अभिनन्द = पु० अभि + नन्द–घञ्। १ सन्तोषे, २ प्रतिपाद्यगुणकथनादिनाऽऽनन्दे ३ प्रशंसायाम् ४ अल्पसुखे च “योनिरर्चिर्यदन्तः करोति तेऽङ्गारा अभिनन्दाः विस्फुलिङ्गाः छा० उ० “अभिनन्दाः सुखलवाः” भा०। अभिनन्दयति। अभि + नन्द–णिच्–अच्। ५ सन्तोषके ६ प्रोत्साहनेन प्रवर्त्तके च त्रि०। अभितो नन्दत्यत्र आधारे घञ। अज्ञस्य स्वकलत्रादि गुणप्रशंसनप्रवर्त्तक भ्रान्तिभेदे। तत्र हि स सुखायते। अभितोनन्दः। आ ७ नन्दमये परमात्मनि इति वेदान्तिमते। नैयायिकादिमते तु अभितोनन्दः दुःखाभावो यत्र ७ ब०। परमात्मनि, सर्वदुःखशून्यत्वात्तस्य तथात्वम्। भारादिदुःखापनयेऽपि भारादिवाहकानाम् अहं सुखी संवृत्तः इति प्रतींते र्दुःस्वाभावेऽपि सुखत्वोपचारदर्शनात् ईश्वरस्य सदा दुःखाभावाच्च तथात्वम्।

अभिनन्दन = न० अभि + नन्द–भावे ल्युट्। १ सन्तोषे। णिच्–ल्युट्। सन्तोषार्थं २ प्रशंसने। कर्त्तरि ल्यु। ३ सन्तोषके प्रोत्साहनार्थं ४ प्रवर्त्तके ५ प्रशंसके च त्रि०। ६ बुद्धभेदे पु०।

अभिनन्दनीय = त्रि० अभिनन्द्यते प्रशस्यत आभ + नन्द–णिच् कर्मणि अनीयर्। १ प्रशंसनीये २ प्रोत्साहनेन प्रवर्त्तनीये च।

अभिनन्दित = त्रि० अभि + नन्द–णिच्–क्त। १ प्रशंसिते २ अनुमोदनेन प्रोत्साहिते च।

अभिनन्दिन् = त्रि० अभिनन्दति णिनि। १ सन्तोषिणि। अभिनन्दयति णिनि। २ अनुमोदनेन प्रोत्साहके। स्त्रि यामुभयत्र ङीप्।

अभिनन्द्य = त्रि० अभिनन्द्यतेप्रशस्यते अभि + नन्द–णिच्–यत्। १ प्रशंसनीये “जनस्य साकेतनिवासिनस्तौ द्वावप्यभूतामभि नन्द्यसत्त्वौ” रघुः अभि + नन्द–णिच् ल्यप्। प्रशस्येत्यर्थे अनुमोदनेन प्रोत्साहय्येत्यर्थे अव्य०।

अभिनम्र = त्रि० अभिमुखं नम्रः प्रा० स०। आभिमुख्येन नम्रे नते “इमां तटाघातलताञ्च तन्वीं स्तनाभिरामस्तवकाभिनम्राम्” रघुः।

अभिनय = पु० अभि–नी–करणे अच्। १ हृद्गतभावव्यञ्जके शरीरचेष्टादौ। भावे अच्। २ अभिनेयपदार्थस्य शरीरचेष्टाभाषणादिभिरनुकरणे “भवेदभिनयोऽवस्यानुकारः स चतुविधः। आङ्गिकोवाचिकश्चैवमाहार्यः सात्त्विकस्तथेति” नटै रङ्गादिभिः रामयुधिष्ठिरादीनामवस्थानुकरोऽभिनयः सा० द०। नर्त्तकीरभिनयातिलङ्घिनीति” रघुः। नानाभिनयसम्बन्धान् भावयन्ति रसान् यतः” सा० द० तदभिनयमिवावलिर्वनानामतनुत नूतनपल्लवाङ्गुलीभिः माघः। “अङ्गैरालम्बयेद्गीतं हस्तेनार्थं प्रकाशयेदित्युक्तदिशा व्यञ्जकचेष्टामतनुतेत्यर्थः। “शौरिरित्यभिनयादिवोच्चकैः” माघः। अभिनयति बोधयत्यर्थमत्र आधारे अच्। शरीरचे“ष्टादिभिर्दृश्यपदार्थज्ञापके ३ रूपकादौ दृश्यकाव्ये।

अभिनव = पु० अभि + नु–भावे अप्। आनुकूल्यार्थस्तवे। अभि नतः प्रशस्तः नवः प्रा० स०। प्रथमोद्भूते नवीने त्रि०। “रथाङ्गभर्त्त्रेऽभिनवं वराय” माघः। “अभिनवा इव पत्रविशेगकाः” रघुः।

अभिनवतामरस = न० “अभिनवतामरसं ननजाद्य” इति वृत्त० उक्तेद्वादशाक्षरपादके १ वृत्तभेदे। २ नूतनपद्मे च।

अभिनवोद्भिद्(द) = पु० अभिनवमुद्भिद्य जायते उद् + भिद्क्विप् क वा। अङ्कुरे।

अभिनहन = न० अभि + नह–भावे ल्युट्। १ अभितो बन्धनेदृढबन्धने च।

अभिनिधन = त्रि० अभिगतं निधनम् अत्या० स०। १ नाशाभिमुखतां प्राप्ते नाशोन्मुखे। निधनस्य समाप्तेर्वाभिमुख्यम् अव्ययी०। २ नाशावसनयोराभिमुख्ये अव्य० तत्र पाठ्ये ३ सामभेदे च०९६४ “आभीकमभिनिधनमामीष्णवानि” कात्या० २५, १४, १५, “आभीकाद्यानि सामानीति” कर्क०।

अभिनिधान = अभि + धा–भावे ल्युट्। १ आभिमुख्येन स्थापने। “संस्पृश्यं पुरूरवा इत्यभिनिधानतया” कात्या० ५, १, ३१।

अभिनिर्मुक्त = पु० अभितः सर्व्वतः सायन्तनकर्म्मणा निर्मुक्तः। १ सूर्य्यास्तकाले निद्रावशात् त्यक्ततत्कालकर्त्तव्यकर्म्मणि। “सूर्य्येण ह्यमिनिर्मुक्तः शयानोऽभ्युदितश्च यः प्रायश्चित्त- मकुर्वाणोयुक्तः स्यान्महतैनसा मनुः एतद्वचनस्य ब्रह्मचारिप्रकरणत्वात् ब्रह्मचारिण्येवम्भूतेऽस्य रूढिः।

अभिनिर्य्याण = न० अभिलक्ष्य रिपून् निर्य्याणम् युद्धार्थं निष्क्रमः। रिपुजिगीषया सैन्यैः सह निष्क्रमणे।

अभिनिर्वृत्त = त्रि० अभि + निर् + वृत–क्त। १ निष्पन्ने।

अभिनिर्वृत्ति = स्त्री० अभि + निर् + वृत–क्तिन्। १ निष्पत्तौ।

अभिनिवर्त्त = पु० अभि + नि + वृत–भावे घञ्। १ अभितोनिवृत्तौ। णमुल्। अभिनिघर्त्तम्। पुनः पुमर्निवृत्येत्यर्थ्ये अव्य०। “पुनरभिनिवर्त्तमृत्विजोभक्षयन्ति तस्मादृतवश्च मासश्चान्योन्यमभिनिवर्त्तन्ते” शत० ब्रा०।

अभिनिविष्ट = त्रि० अभि + नि + विश–कर्त्तरि क्त। १ अभिनिवेशयुक्ते २ चिन्तयाव्यग्रे ३ चिन्तनाय प्रवृत्ते च “निन्दाक्षेपापमानादेरमर्षोऽभिनिविष्टता” सा० द०।

अभिनिवेश = पु० अभितोनिवेशः घञ्। अवश्यमिदं कर्त्तव्यमित्याग्रहसमन्विते मनःसंयोगभेदे योगशास्त्रप्रसिद्धे मरणमीतिजनके अज्ञानविशेषे, अनित्यैरपि देहादिभिर्वियोगो मा भूदिति मरणनिवारणार्थे आग्रहे च। योगशास्त्रे हि अविद्याऽस्मितारागद्वेषाभिनिवेशाः पञ्च क्लेशाः दर्शिताः क्लिश्यन्ति कर्मतत्फलप्रवर्त्तकाः सन्तः पुरुषं दुःखाकुर्व्वन्ति क्लेशाः पञ्च। उत्तरेषामविद्याप्रसवत्वमपि तत्रोक्तम्! “अविद्याक्षेत्रत्वमुत्तरेषामप्रसुत्या तनुविच्छिन्नोदाराणाम्” पा० सू० उत्तरेषामस्मितादीनामविद्या क्षेत्रंप्रसवभूमिः तेषाञ्च अप्रसुत्या विवेकख्यात्यभावेनादग्धतया शक्तिरूपेणावस्थानात् अतएव ते पुनरुद्भवन्ति ते च क्रियायोगिनां तनवः, विषयसङ्गिनां विच्छिन्ना उदाराश्च भवन्ति। यथा यत्र रागस्तत्र क्रोधो विच्छिन्नः सुरतां राग उदारः। एवं यत्र क्रोष उदारस्तत्र रागोविच्छिन्न एवं रागादयः विच्छिन्नोदाराभूत्वा पुरुषपशुं क्लेशयन्ति एवं च क्लेशा अविद्यामूलाः अविद्यायाः पुरुषविवेकख्यात्यानिवृत्तौ निवर्त्तन्ते। एवं सामान्यतः क्लेशानुक्त्वाऽभिनिवेश उक्तः “स्वरसवाही विदुषोरूढोऽभिनिवेशः” इति। विदुषोमूर्खस्य वा जन्तुमात्रस्य यो मरणत्रासः मोऽभिनिवेशः यथा मूर्खस्य अहं सदा भूयासं न मृषीयेति रूढः त्रासस्तया विदुषोऽपि दृश्यते यतः स्वरसवाही सः, पूर्ब्बजन्मसु असकृन्मरणदुःखानुभवजन्यवासनासंघः स्वरसः तेन वहति प्रवहतीति स्वरसवाही। ते चाविद्यादयः पञ्च क्रमेण तमोमोहमहामहतामिस्रान्धतामिस्रसंज्ञाः। सांख्यकारिकायाम् पञ्च विपर्य्ययभेदानुपक्रम्य। “भेदस्तमसोऽष्टविधो- मोहस्य च दशविधोमहामोहः। तामिस्रीऽष्टादशधा तथा भवत्यन्धतामिस्रः”।। अन्धतामिस्रः अभिनिवेशस्त्रासः तथेत्यनेनाष्टादशधेत्यनुषज्यते। देवाः खल्वणिमादिकमष्टविधमैश्वर्य्यमासाद्य दश शब्दादीन् भुञ्जानाः शब्दादयोभोग्यास्तदुपायाश्चाणिमादयोऽस्माकमसुरादिभिर्मा स्म उपधानिषतेपि बिभ्यति। तदिदं भयमभिनिवेशोऽन्धतामिस्रोऽष्टादशविषयित्वात् अष्टादशधेति” सा० कौ०। २ आसक्तौ च “अथानुरूपाभिनिवेशतोषिणा” कुमा०।

अभिनिवेशिन् = त्रि० अभि + नि + विश–णिनि स्त्रियां ङीप्। १ आग्रहवति २ अनुरागवति च।

अभिनिष्कारिन् = त्रि० अभि + निस् + कृ–णिनि स्त्रियां ङीप्। अभितोनिःशेषेण कारिणि “कृताकृतो वल्मिनोऽभिनिष्कारिणः प्रजाम्” अथ० १०, १, ३१।

अभिनिष्क्रम = पु० अभि + निस् + क्रम–घञ्। आभिमुख्येन निर्गतौ ल्युट्। अभिनिषक्रमणमप्यत्र न०।

अभिनिष्क्रान्त = त्रि० अभि + निस् + क्रम–कर्त्तरि क्त। अभिनिर्गते।

अभिनिष्टान = पु० अभि + स्तन–घञ् शब्दसंज्ञाया षत्वम्। १ विसर्जनीये। “नाम चास्मै दद्युर्घोषवदाद्यन्तस्थम्भिनिष्टानान्तम्” गृह्यसूत्रम्। २ अक्षरमात्रे च शब्दमात्रे तु न षत्वम्। अभिनिस्तान इत्येव।

अभिनिष्पतन = न० अभि + निस् + पत–ल्युट्। आभिमुख्येन निर्गमे।

अभिनिष्पत्ति = स्त्री अभि + निस् + पद–क्तिन्। १ सम्पत्तौ सिद्धौ यस्य यथारूपमुचितं तथारूपेण तस्य भवने २ उत्पत्तौ च।

अभिनिष्पन्न = त्रि० अभि + निस्–पद–क्त। १ सम्पन्ने २ सिद्धे च।

अभिनीत = त्रि० अभिनीयते स्म अभि–नी क्त। न्याय्ये, १ युक्ते “अभिनीततरं वाक्यमित्युवाच युधिष्ठिरः” भा० शा० प०। २ भूषिते ३ अतिसंस्कृते ४ पूजिते ५ क्रोधने, यस्याभिनयः रूपाद्यपुकरणं चेष्टादिभिः कृतस्तस्मिन् ६ आभिमुख्येन ७ प्रापिते च “मितार्थमभिनीतस्त्वम्” रामा०।

अभिनीति = स्त्री आनुकूल्यार्था युक्तिः। १ प्रियवाक्यादियुक्तयुक्तौ। “सान्त्वपूर्ब्बमंभिनीतिहेतुकम्” किरा०। २ अभितः प्रापणे च रूपादेर्देहादिना ३ अनुकरणे च। नीतेरामिमुख्यम् अव्ययी०। ४ नीत्याभिमुख्ये अव्य०।

अभिनेतव्य = त्रि० अभि + नी–कर्म्मणि तव्य। देहचेष्टादिना १ अनुकार्य्ये आभिमुख्येन २ प्रापणीये च। भावे तव्य। आवश्यकाभिनये न०।

अभिनेतृ = त्रि० अभि + नी–तृच् स्त्रियां ङीप्। नाटके देहादेरनुकरणकर्त्तरि नटादौ।

अभिनेय = त्रि० अभि + नी–कर्म्मणि यत्। १ देहादिचेष्टादिना १ अनुकार्य्ये अभिमुखं २ प्रापणीये च।

अभिन्न = त्रि० न भिन्नः। १ एकरूपताप्राप्ते २ अविदलिते ३ अविदारिते च “भूयोभूयोरयिमिदस्य वर्द्धयन्नभिन्ने खिल्ये” ऋ० ६, २८, २ “अभिन्ने शत्रुभिरभेद्ये” भा०। “न भिन्नां कृष्णामुप्रदध्यात् आर्च्छति वा एषा या भिद्यते” इत्युपक्रम्य “नाभिन्नां परास्येदिति” शत० ब्रा०। ४ अभग्ने दृढे, “अभिन्नेन चरेत्” कात्या० २६, ७, ४८ “अभग्नेन दृढेन” कर्क०

अभिन्नपुट = पु० अभिन्नं न विदलितं पुटं यस्य। नवपल्लवे “दूर्व्वायवाङ्कुरप्लक्षत्वगभिन्नपुटोत्तरान्” रघुः।

अभिन्यास = पु० अभिन्यस्यते अन्तःस्थ ऊष्मा वहिष्करणेन अभि + नि–अस–करणे घञ्। ज्वरमुपक्रम्य, “श्वसन् निपतितः शेते प्रलापोपद्रवायुतः। तमभिन्यासमित्याहुर्हतौजसमथापरे” सुश्रुतोक्ते ज्वरभेदे “निद्राल्पं तमभिन्यासं क्षीणमेनं हतौजसमिति” सुश्रुतः।

***