अपैशुन = न० अभावे न० त०। १ पैशुन्याभावे न० ब०। २ पैश्रुन्यशून्ये त्रि० अपैशुन्यमप्युक्तार्थे न० तद्वति त्रि०
अपोगण्ड = त्रि० अपसि कर्म्मणि गण्डः त्याज्यः। विकलाङ्गे “विकलाङ्गं हि सर्वत्र धर्म्मकार्य्येषु वर्ज्जयेदिति” स्मृत्तेः स हि वैधकर्म्मसु त्याज्यः। २ अतिभीरौ सोऽपि हि कर्ममात्रे त्याज्यः। अपसि अगण्डः अवीर इति वा तस्य कर्मणि अवीरत्वात्तथात्वम्। अपोजलमिव भङ्गियुक्तत्वात् गण्ड एकदेशोऽस्य। ३ त्रिबलियुते मध्यभागे बलीनामेव तस्य तरङ्गाकारत्वात् तथात्वम्। अपसि कर्मणि त्याज्यः गण्डः अपटुत्वात् पोगण्डः शिशुः न० त०। पोगण्डः पञ्चमादब्दादर्वाक् च दशमाब्दतैत्युक्ते पञ्चाब्दे बाले। पोगण्डभिन्नशिशोरेव तथात्वात्। “बाल आषोडशात् वर्षात् पोगण्दश्चेति शब्दयत” इति नारदोक्तपोगण्डभिन्ने ५ षोडशवर्षातीतवयस्के च “अजडश्चेदपोगण्डो विषये चास्य भुज्यते भग्नं तद्व्यवहारेण भोक्ता तद्द्रव्यमर्हति” कात्या०।
अपोढ = त्रि० अप–वह–क्त। १ निरस्तेत्यक्ते २ “कल्पनापोढमभ्रान्तं प्रत्यक्षं निर्विकल्पकम्” स० द०।
अपोदक = त्रि० अपगतमुदकं सुश्लिष्टत्वात् यस्य। १ अप्रविष्टोदके “तमूहथुर्नौभिरात्मन्वतीभिरन्तरिक्षप्रुद्भिरपोदकाभिः ऋ० १, ११६, ३। अपनद्धं फलेषूदकं यस्याः उक्तपुंस्कत्वात् स्त्रियामत इत्त्वं वा। इत्त्वपक्षेऽपोदिकापि (पुइ) पूतिकायाम् तत्फलेषु उदकवत्त्वात्तथात्वम्। अपकृष्टमुदकं यस्मात् ५ ब०। जलापकर्षहेतौ विषादौ “यत्र अपोदकं विधं तत्त एतास्वग्रभवम् अथ० ५, १३, १
अपोनप्त्रि(प्त्री)य = त्रि० अपोनपात् देवताऽस्य घ–छ वा नि०। अपोनपाद्देवताके हविरादौ।
अपोमय = त्रि० अपः जलं तदात्मकं तद्विकारत्वात् अपस् + मयट्। जलमये।
अपोह = पु० अप + उह गत्यादौ बा० भावे क। १ त्यागे २ अतद्व्यावृत्तौ तद्भिन्नस्य व्यावृत्तेरपि त्यागविशेषरूपत्वात्तथात्वम्। “तद्वानपोहो वा शब्दार्थ” इति काव्यप्र० “अपोहः अतद्व्यावृत्तिरिति” महेश्वरः। ऊहस्तर्कः अपः विपरीत्ये प्रा० स०। अपरतर्कनिरासाय कृते विपरीततर्के स च “सुश्रूषा श्रवणं चैव ग्रहणं धारणा तथा। ऊहोऽपोहोऽर्थविज्ञानं तत्त्वज्ञानञ्च धीगुणा इति हेमचन्द्रोक्तः बुद्धिगुणभेदः। “स्वयमूहापोहासमर्थ” इति पा० भा०। भावे ल्युट्। अपोहनमप्यत्र न०। “मत्तः स्मृतिर्ज्ञाममपोहनञ्चेति” गीता।
अपोहनीय = त्रि० अप–ऊह–अनीयर्। अपरकृततर्कनिरसनेन तर्कणीये, “ऋत्विगपोहनीयास्त्रयः” कात्या० २२, ६ २१।
अपोह्य = त्रि० अप–उह गत्यादौ कर्म्मणि ण्यत्। अपगमनीये “त्याज्ये एतैर्व्रतैरपोह्यं स्यादेनोहिंसासमुद्भवम्” मनुः अप + वह–ल्यप्। दूरीकृत्येत्यर्थे अव्य०।
अपौरुष = त्रि० नास्ति पौरुषमस्य। विक्रमशून्ये। अमावे न० त०। पौरुषाभावे न०।
अप्चर = त्रि० अप्सु चरति चर–ट। १ जलचरे जन्तौ स्त्रियां ङीप् “त्रीण्याद्यान्याश्रितास्तेषां मृगगर्त्ताश्रयाप्चराः” इति मनुः त्रीणि दुर्गाणि।
अप्तु = न० आप्यते भीगाय जीवेन आप–तुन् ह्रस्वश्च। १ शरीरे २ सूक्ष्मरूपसोमे च। “अथाप्तवे द्वितीये यामाहुतिं जुहोति शत० ब्रा० ३, ६, ३८, अप्तुः सूक्ष्मरूपः सोमः भा०।
अप्तुर् = पु० अद्भ्यः जलदानाय तुतोर्त्ति तुर–वेगे क्विप्। जल- दायके इन्द्रेतस्य मेघनायकत्वेन तत्प्रेरकतया जलदातृत्वात्तथात्वम् “यज्ञेन गातुमप्तुरो विविद्रिरे ऋ० २, २१, ५, “अप्तुरः अपां प्रेरकादिन्द्रात्” भा०। २ तद्दायकेऽनलादौ च तत्राग्न्यादेः “अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते आदित्याज्जायते वृष्टिरिति” मनूक्तेः जलप्रेरकत्वम्।
अप्तुर्य्य = न० अप्तुरो भावः बा० वेदे यत्। “जलप्रेरकत्वे लोके तु ष्यञ् आप्तुर्य्यमित्येव। “इन्द्राग्न्यी! तविषाणि वां सधस्थानि पयांसि च युनोरप्तुर्य्यं हितम् १२, ८, अप्तुर्य्यं वृष्टिप्रेरकत्वम् भा० युवोर्युवयोरिन्द्राग्न्योः
अप्तोर्याम = पु० अप्तोर्देहस्य यापकत्वाद्याम इव अलु० स०। अग्निष्टोमाङ्गयागभेदे “यावज्जीवमग्निहोत्रं जुहोतीति” श्रुत्या अग्निष्टोमस्य देहव्यापककालकत्वात्तथात्वम्। “सोऽप्तोर्यामेण यजेत” कात्या० ९, ११, १०, “षडुत्तरे अत्यग्निष्टोम उक्थ्यः षोडशी वाजपेयोऽतिरात्रोऽप्तोर्यामः कात्या० १०, ९, २६,।
अप्त्य = त्रि० अप्तुनि देहे भवः यत् वेदे टिलोपः। १ अपत्ये निरु० २ देहकर्म्मणि स्थिते च “पूर्ब्बे अर्द्धेरजसो अप्त्यस्य” ऋ० १, १२४, ५ “अप्त्यस्य कर्मणि स्थितस्येति” भा०
अप्नःस्थ = त्रि० अप्नसि कर्मणि तिष्ठति अधिकृतत्वात् स्था–क ७ त०। १ कर्मण्यधिकृते “संयावप्नःस्थो अपसेव” ऋ० ६, ६७, ३। “अप्नःस्थः कर्मण्यधिकृतः” भा०।
अप्नराज = पु० अप्नसां कर्म्मणां राजा प्रेरकत्वात् टच् समा० वेदे पृ० सलोपः। कर्म्मप्रेरके। “युवं ह्यमराजावसीदतम् ऋ० १०१३२७।
अप्नवान = पु० अप्नसा कर्म्मणा वानं गतिः सद्गतिरस्य। भृगुवंश्ये, ऋषिभेदे, “यमप्नवानो भृगवो विरुरुचुः ऋ० ४, ७, १, अप्नवानः भृगुसम्बन्धी कश्चिदृषिः, भा०। “और्व्यभृगुवदप्नवानवदाहुवे अग्निं समुद्रसम्” ऋ० ८, १०२, ४, अस्यैव वत्सादिगोत्रप्रवरत्वम् “वत्सानां भार्गवच्यवनाप्नवानौर्व्यजामदग्न्याः” इति “भार्गवौर्वजामद्ग्न्याः” इति वा “भार्गवच्यवनाप्नुवानाः” इति वा “वेदानां पञ्च, भार्गवच्यवनाप्नवानौर्ववेदाः” इति गोत्रप्रवरा०। वङ्गानामाप्नुवतः प्रवरत्वकल्पनं प्रवराध्यायविरुद्धत्वाद्धेयम्। अप्नसे आदानकर्मणे वानमस्य पृ० सलोपः। बाहौ निरु०।
अप्नस् = त्रि० आप–असुन् नुट् ह्रस्वश्च। १ कर्म्मणि मिरु०। “क्रियातो विभागः विभागात् पूर्ब्बदेशसंयोगनाशस्तत उचरदेशसंयोग” इत्युक्तेः संयोगहेतुत्वात्तथात्वम् “तद्देवेषु चकृषे भद्रमप्नः ऋ० १, ११३, ९। “अप्नः कर्म” भा०। वा० अकर्म्माख्यायामपि असुन् नुट् ह्रस्वश्च। २ प्राप्तव्ये, “यच्चित्रमप्न उषसो वहन्त” ऋ० १, ११३, २०। “अप्रः प्राप्तव्यम्” भा०।
अप्नस्वत् = त्रि० अप्नस् + अस्त्यर्थे मतुप् मस्य वः स्त्रियां ङीप्। कर्मयुक्ते। “अप्नस्वतीषुर्व्वरास्विति” ऋ० १, १२७, ६। “अप्नस्वतीषु खननादिकर्म्मोप्रेतासु” भा०।
अप्पति = पु० अपां पतिः ६ त०। १ वरुणे २ सुमुद्रे च। “इन्द्रान्तकाप्पतीन्दुभ्यः सानुगेभ्यो बलिं हरेत्” इति वित्ताप्पत्योर्यमस्य च” इति च मनुः।
अप्पित्त = न० अपां पित्तमिव हेतुत्वात्। १ अग्नौ “अग्नेराप” इति श्रुतौ अग्नेर्जलहेतुत्वोक्तेस्तथात्वम्।
अप्य = त्रि० अपामिदम् तत्र साधु संस्कृतं वा यत्। १ जलसंस्कृते “अग्रेगो राजाप्यस्तमिष्यते” ऋ० ९, ८६, ४५। “अप्यः अप्सु संस्कृतः” भा० जलसम्बन्धिनि “त्वयाहितमप्यमप्सु भागम्” ऋ० २, ३८, ७। “अप्यमपां सम्बन्धिनम्” भा०। ३ कर्मणि साधौ “स ई~ मृगो अप्योवनर्गुरुप” ऋ० १, १४५, ५। “अप्यः कर्मणि साधुः” भा० अप्तुं योग्यं वेदे यत् ह्रस्वश्च। ४ प्राप्तुं योग्ये “योनिमप्यमनिशितम्” ऋ० २, ३८, ८। “अप्यम् आप्तुं योग्यम्” भा०।
अप्यय = पु० अप + इण–भावे अच्। १ “अपगमने २ नाशे ३ विलये च “स्वाप्ययादिति शा० सू० भवाप्यायौ हि भूतानां श्रुतौ विस्तरशोमया” गीता। अपैत्यस्मात् अपादाने अच्। पक्षपुच्छसन्धिषु “पक्षपुच्छानि पराग्भिरप्ययेषु” कात्या० १७, ६, ७, “अप्ययेषु पक्षपुच्छाग्रसन्धिषु” वेददी०।
अप्रकट = त्रि० न प्रकाशः विरोधे न० त०। प्रकाशितमिन्ने गुप्ते। “प्रकटाऽपकटा चेति लीला सेयं हरेर्द्विधा प० पु०
अप्रकम्प = पु० न प्रकम्पः अभावे न० त०। १ चलनाभावे न० ब०। २ चलनहीने त्रि० “अप्रकम्पोदुराधर्ष” इति पुरा०।
अप्रकर्ष = पु० न प्रकर्षः विरोधे न० त०। १ अपकर्षे न० ब०। २ प्रकर्षशून्ये त्रि०।
अप्रकाण्ड = पु० न प्रकृष्टः काण्डः स्कन्धोऽस्य। १ स्कन्धशून्ये झिण्टीप्रभृतिवृक्षे। न० त०। २ प्रकाण्डभिन्ने स्वल्पे त्रि०
अप्रकाश = पु० न प्रकाशः अभावे न० त०। प्रकाशाभावे गोपने “अप्रकाशक्रये क्रेतुः स्वामिनश्चाप्यरक्षणादिति” प्रा० त० ना०। न० ब०। “प्रकाशशून्ये त्रि० “प्रकाशांश्चाप्रकाशांश्च तस्करान् द्विविधान् विदुः” मनुः। अप्रकाशचौराश्च अपहर्त्तृशब्दे मनूक्ताः १५४ पृष्ठे दृश्याः। “प्रकाशश्चाप्रकाशश्च लोकालोक इवाचल” इति रघुः।
अप्रकाश्य = त्रि० प्र + काश–णिच् अर्हार्थे कर्म्मणि यत्। १ प्रकाशयितुमनर्हे गोप्ये “अप्रकाश्यमिदं गुह्यं न देयं यस्य कस्यचित्” तन्त्रम्। २ विशेषतो गोप्ये जन्मर्क्षादिनवके च तच्च। “जन्मर्क्षं मैथुनं मन्त्रो गृहच्छिद्रञ्च वञ्चनम्। आयुर्धनापमानं स्त्री न प्रकाश्यानि सर्वथा” का० ख०।
अप्रकृत = त्रि० न प्रकृतः प्रक्रान्तः यथार्थो वा। १ अप्रक्रान्ते २ अयथार्थे च। प्रकृतिः स्वभावोऽस्त्यस्य अर्श० आ० अच् न० त०। भयादिना ३ स्वभावहीने। “तामसं यच्चाप्रकृतो ददातीति शु० त० हारी० “अप्रकृतो भयादिमान्” रघुनन्दनः।
अप्रकृति = स्त्री न प्रकृतिः। प्रकृतिभिन्ने कार्य्यकारणभिन्ने सांख्यप्रसिद्धे पुरुषे “न प्रकृतिर्न विकृतिः पुरुष” इति सां० का० उक्तेस्तस्य प्रकृतिभिन्नत्वात्तथात्वम् २ व्याकरणोक्ते प्रत्ययनिमित्तरूपप्रकृतिभिन्ने प्रत्ययादिशब्दे, मीमांसकोक्तायां ३ प्रकृतिभिन्नायां विकृतौ च। प्रकृतिः स्वभावः न० ब०। ४ तच्छून्ये त्रि० वा कप्। अप्रकृतिकोऽप्यत्र।
अप्रकृतिस्थ = त्रि० प्रकृतौ स्वभावे न तिष्ठति रोगभयादिना ततश्चलति स्था–क ७ त० न० त०। रोगभयादिना स्वभावाच्चलिते।
अप्रकृष्ट = त्रि० न प्रकृष्टः विरोधे न० त०। निकृष्टे अपकर्षयुक्ते
अप्रकॢप्त = त्रि० प्र + कृप्–क्त न० त०। कॢप्तभिन्ने यदुचितं तद्भिन्ने “ऋत्विजां वैकोऽप्रकॢप्तत्वाच्छामित्रे कात्या० ६, ७, २
अप्रक्षित = त्रि० प्र + क्षि–भावे क्त “अण्यदर्थे” पा० उक्तेः भावकर्मणोश्च ण्यदर्थतया तद्भिन्ने दीर्घविधानात् भावस्य च ण्यदर्थतया न दीर्घः तेन न नत्वम् नास्ति प्रक्षितं प्रक्षयो यस्य। प्रक्षयरहिते “अप्रक्षितं वसु बिभर्षि” ऋ० १, ५५, ८।
अप्रखर = त्रि० न प्रखरः विरोधे न० त०। १ तीक्ष्णत्वविरोधि मृदुत्ववति।
अप्रगुण = त्रि० न प्रकृष्टो गुण उपकरणं कार्य्यसामर्थ्यं वा यस्य। १ व्याकुले न० त०। २ अनुगुणभिन्ने च।
अप्रचेतस् = न० न प्रचेतति प्र + चित–असुन् न० त०। अज्ञाने “कथाविधात्यप्रचेताः” ऋ० १, १२०, १।
अप्रज = पु० न प्रजायते आत्मजरूपेण प्र + जन–ड न० त०। पुत्रादिजननाभावेन अजःते १ बन्ध्ये “आत्मा वै जायते पुत्र” इति श्रुतेः पुत्रजनने आत्मजननात् तच्छून्यस्य तथात्वम्। “भ्रातृणामप्रजः कश्चित् म्रियेत प्रव्रजेत वेति” स्मृतिः “अप्रजस्त्रीधनं भर्त्तुर्ब्राह्मादिषु चतुर्ष्वपीति” या०। २ पुत्ररहितायां स्त्रियां स्त्री “अप्रजायामतीतायां बान्धवा- स्तदवाप्नुयुः” इति स्मृतिः “संवत्सरद्वयं तन्तु गान्धारीगर्भमाहितम्। अप्रजा धारयामास ततस्तां दुःखमाविशत्” भा० आ० प०।
अप्रजस् = पुंस्त्री न प्रजा सन्ततिः यस्य असिच् समा०। प्रजाशून्ये। “अतीतायामप्रजसि तद्धनं भर्त्तृगामि च” स्मृतिः। “अस्वं त्वाप्रजसं कृणोमि” अथ० ७, ३५, ३।
अप्रजाता = स्त्री न प्रजाता कदापि न प्रसूता। १ अधृतगर्भायां बन्ध्यायां स्त्रियाम् “दासीनामप्रजातानां शुभानां स्वर्ण्णवर्चसाम्। शतमस्मै प्रदास्यामि” भा० उ० प० १५ अ०।
अप्रणीत = त्रि० न प्रणीतः वेदविधिना संस्कृतः। १ वैधसंस्ककारशून्ये अनलादौ २ अकृते च।
अप्रतर्क्य = त्रि० न प्रतर्क्यः तर्कयितुमशक्यः। लिङ्गाद्यभावेन अनुमानेन ज्ञातुमशक्ये। “अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः” मनुः।
अप्रता = त्रि० प्र + ताय–क्विप् नास्ति प्रताः यस्मात् ५ त०। १ अतिविस्तीर्ण्णे “न सोमी अप्रता पपे” ऋ० ८, ३२, १६, “अप्रता विस्तोर्ण्णधनेनेति” भा० धातोरातोलोपात् रूपम्
अप्रति = त्रि० नास्ति प्रति प्रतिरूपः प्रतिद्बन्द्वी वा यस्य। १ अत्युत्कृष्टे “सो अप्रतीनि मनवे पुरूणीन्द्रः” ऋ० २, १९ ४, “अप्रतीनि उत्कृष्टानि” भा० २ प्रतिद्वन्द्विरहिते “यः एकः इदप्रतिर्मन्यमानः ऋ० ५, ३२, ३। “अप्रतिः प्रतिद्वन्द्विरहितः” भा०। ३ अप्रतिरूपे अनुपमे च
अप्रतिकर = त्रि० प्रति वैपरीत्ये कृ–कर्त्तरि अच् न प्रतिकरः। १ विपरीतकारिणि विश्वस्ते, जटा० प्रति + कॄ–भावे अप् प्रतिकरः प्रतिक्षेपः अभावे न० त०। २ प्रतिक्षेपाभावे पु० न० ब० ३ प्रतिक्षेपशून्ये त्रि०।
अप्रति(ती)कार = पु० प्रति + कृ–घञ् वा दीर्घः अभावे न० त० १ प्रतीकाराभावे। न० ब०। २ प्रतीकारहीने ३ प्रतिकर्त्तुम शक्ये च त्रि०। अभावे अभ्ययी०। ४ प्रतीकाराभावे अव्य०।
अप्रतिकर्म्मन् = त्रि० नास्ति प्रतिकर्म प्रतीकारो यस्य। १ प्रतिकर्त्तुमशक्ये। नास्ति प्रति प्रतिरूपं तुल्यं यस्य तादृशं कर्म यस्य। २ अतुल्यकर्मके त्रि० स्त्रियां डाप् वा।
अप्रतिक्रिया = स्त्री प्रतिक्रिया प्रतीकारः अभावे न० त०। १ प्रतीकाराभावे। न० ब०। २ प्रतीकारशून्ये ३ प्रतिकर्त्तुमशक्ये च त्रि०।
अप्रतिग्राह्य = त्रि० न प्रतिग्रहीतुं योग्यं स्मृतौ निषेधात्। प्रतिग्रहीतुमयोग्ये स्मृतौ निषिद्धप्रतिग्रहतया उल्लिखिते हिरण्यादौ द्रव्ये, शूद्रादिधनादौ च प्रतिग्रहश्चादृष्टार्थ- त्यक्तद्रव्याङ्गीकारः। तत्र द्रव्यविशेषे, अपादानविशेषे, कालादिविशेषे च प्रायश्चित्तोत्कीर्त्तनेन पापजनकत्वात् क्वचित् वस्तुकृता क्वचित् कालादिनिमित्तकृता चाप्रतिग्राह्यता “प्रतिगृह्याप्रतिग्राह्यं भुक्त्वा चान्नं विगर्हितम्” मनुः तानि च प्रायश्चित्तविवेके दर्शितानि तत्रादौ प्रतिग्रहे अपादाननियमः “यथा “राजतो धनमन्विच्छेत् संसीदन् स्नातकः क्षुधा। याज्यान्तेवासिनो वापि नत्वन्यत इति स्थितिः” मनुः। राजशब्दोऽत्र न्यायवर्त्तिक्षत्रिय नृपतिपरः “न राज्ञः प्रतिगृह्णीयादराजन्यप्रसूतितः” इति “यो राज्ञः प्रतिगृह्णीयाल्लुब्धस्योच्छास्त्रवर्त्तिनः स पर्य्यायेण यातीमान्नरकानेकविंशतिमिति” मनुनान्यराजतस्तंन्निषेधात् देवलेन विशिष्टादेव राज्ञः प्रतिग्रहविधानाच्च “धर्मज्ञस्य कृतज्ञस्य रक्षार्थं शासतोऽशुचीन् मेध्यमेव धनं प्राहुस्तीक्ष्णस्यापि महीपतेः” इति “द्विजातिभ्यो धनं लिप्सेत् प्रशस्तेभ्यो द्विजोत्तमः। अपि वा क्षत्त्रियात् वैश्यात् न तु शूद्रात् कदाचनेति” व्यासः निन्दितप्रतिग्रहश्च अपात्रीकरणम् “निन्दितेभ्योधनादानं बाणिज्यं शूद्रसेवनमु। अपात्रीकरणं ज्ञेयमिति” मनूक्तेः चाण्डालादिप्रतिग्रहस्तु पातित्यहेतुः “चण्डालान्त्यस्त्रियोगत्वा भुक्त्वा च प्रतिगृह्य च। पतत्यज्ञानतोविप्रोज्ञानात् साम्यं तु गच्छति” मनूक्तेः तेन प्रायश्चित्ताधिक्यम् रजकादीनुक्त्वा “भुक्त्वा चैषां स्त्रियोगत्वा पीत्वापः प्रतिगृह्य च। कृच्छ्रमब्दं चरेज् ज्ञानादिति” मनूक्तेः “पतितानां गृहं गत्वा भुक्त्वा च प्रतिगृह्य च। मासोपवासं कुर्व्वीत चान्द्रायणमथापि वा” वृह० “शौकरिकव्याधनिषादरजकवरुडचर्मकारां न भोज्यान्ना अप्रतिग्राह्यास्तदन्नाशनप्रतिग्रहयोश्चान्द्रायणं चरेत्” सुम० “रजकश्चर्मकारश्च नटोवरुड एव च कैवर्त्तमेदभिल्लाश्च सप्तैते ह्यन्त्यजाः स्मृताः एतेषाञ्च स्त्रियोगत्वा भुक्त्वा च प्रतिगृह्य च। पतत्यज्ञानतोविप्रोज्ञानात् साम्यं तु गच्छति” यमः अत्रापवादः “शय्यां गृहं कुशान् गन्धान् पत्रं पुष्पं फलं दधि। धानामत्स्यान् पयोमांसं शाकञ्चैव न निर्ण्णुदेदिति” मनुः न निर्णुदेत् न त्यजेत् “अभोज्यान्नानामपि पुष्पफलशाक तृणकाष्ठधान्यानि क्षेत्रस्थान्यम्बु तडागस्थं, गोष्ठस्थं च पय आदाय न दोष” इति सुमन्तुः तेषाञ्च उपढौकितानामेवादाने न दोष इति प्रा० वि०। “अयाचिताहृतं ग्राह्यमपि दुष्कृतकर्मणः। अन्यत्र कुलटाषण्ढपतितेभ्यो द्विष- स्तथेति” या० स्मृत्येकवाक्यत्वात्। व्यक्तमुक्तम् “गन्धपुष्पकुशान् शय्यां शाकं मांसं पयोदधि। मणिमत्स्यौ गृहं धान्यं ग्राह्यमेतदुपस्थितम् + मधूदकं फलं मूलमेधांस्य भयदक्षिणा अभ्युद्यतानि ग्राह्याणि” का० ख०। तेनैषामेवायाचिताहृतानां ग्राह्यता नान्येषाम्। एवञ्च चण्डालादितोऽपि शय्यादिभिन्नानामुपढौकितानामपि अप्रतिग्राह्यता। शूद्रादिप्रतिग्रहनिषेधस्तु अनापद्येव, आपदि तु तस्य कर्त्तव्यता “याजनाध्यापने नित्यं क्रियेते संस्कृताःत्मनाम्। प्रतिग्रहस्तु क्रियते शूद्रादप्यन्तजन्मन” इति “अवृत्तिकर्षितः सोदन्निमं घर्म्मं समाचरेत् सर्वतः प्रतिगृह्णीयात् ब्राह्मणस्त्वनयं गतः” इति मनुना तस्याभ्यनुज्ञानात्। तत्र स्तेनात् द्रव्यं कथञ्चिदपि न प्रतिग्राह्यम् “योऽदत्तादायिनोहस्तात् लिप्सेत ब्राह्मणोधनम् याजनाध्यापनेनापि यथा स्तेनस्तथैव सः” था० उक्तेः आपदि शूद्रधनस्य ग्राह्यत्वेऽपि यज्ञार्थतया नग्राह्यता “न यज्ञार्थं धनं शूद्राद्विप्रोलिप्सेत कर्हिदिति” मनुनाकर्हिविदत्यनेन आपद्यपि तस्य निषेधात् “ये शूद्रादघिगम्यार्थमग्निहोत्रमुपासते ऋत्विजस्ते हि शूद्राणां ब्रह्मवादिषु गर्हिता” इति मनूक्तेश्च। तत्र द्रव्यविशेषे प्रतिग्रहनिषेधः। “मृतशय्याहयग्राही न पुनर्मानर्वोभवेदिति” पुरा०। “शस्त्रं विस्तं सुरा चाप्रतिग्राह्या ब्राह्मणानामन्येषाञ्च” वशि०। विस्तंसुवर्ण्णम्” “मद्यमदेयमपेयमनिप्राह्यमिति” ति० त० उश०। “मणिवासोगवादीनां प्रतिग्रहे सावित्र्यष्टोत्तरं जपेत् पञ्चरात्रं, मध्यमे द्वादशरात्रं पयोब्रतः शतसहस्वमसत्प्रतिग्रहे” हारी० “हिरण्यं भूमिमन्नं गामश्वं वासस्तिलान् घृतम्। अपिद्वान् प्रतिगृह्णानो भस्मीभवति दारुवत्” मनुः। अविद्वानित्युक्तेः विदुषो न दोषाय। “किं करिष्यत्यसौ मूढोगृह्णन्नुभयतोमुखीम्। सहस्रं वारुणाः पाशाः क्षुरधारासमन्विताः पूर्ण्णे वर्षसहस्रे तु पाश एकः प्रमुच्यते। एतामवस्थां प्राप्नौति गृह्णन्नुभवतोमुखीमिति म० पु०। एतस्व विद्वदविद्वद्विषये निषिद्धता कृष्णाजिनादीनां तु अग्राह्यशब्दे ६७ पृष्ठे उक्ता। देशकालाविशेषे च प्रतिग्राह्य णामप्य प्रतिग्राह्यता “न तीर्थे प्रतिगृह्णीयात् पुण्येव्वायतनेषु च। निमित्तेषु च सर्व्वेषु अप्रमत्तोद्भवेद्विजः “तीरे प्रतिग्रहस्त्याज्यस्त्याज्यो घर्म्मस्य विक्रय” इतिप्रा० त० पु०। “पाणीयं पायसं भैक्षं घृतं लवणमेव च। हस्तदत्तं न गृहणीयात् तुल्यं गोमांसभक्षणैः” इति का० ख०। “नत्वेकं पुत्रं दद्यात् प्रतिगृह्णीयाद्वा स हि सन्यानाय पूर्व्वेषा” मित्यनेन ज्येष्टपुत्रदानप्रतिग्रहयोर्निषेधेन तस्याप्यप्रतिग्राह्यता। तथा “न स्त्री पुत्रं दद्यात् प्रतिगृह्णीयाद्वाअन्यर्त्रानुंज्ञानात् भर्त्तुरिति” स्मृतेः भर्त्रनुज्ञामन्तरेण स्त्रियाः पुत्रस्याप्रतिग्राह्यता। परितोषार्थ विसृष्टग्रहणे तु न दोषः। न प्रतिग्राह्यं यस्मात् ५ त०। प्रतिग्राह्यद्रव्यादानान वधौ शौकरिकादौ चण्डालादौ च पु०। “न भोज्यान्ना अप्रतिग्राह्या” इति प्रागुक्तसुमन्तुवाक्यम्। “प्रायश्चित्तद्रव्यग्रहणे दोष” इति प्रा० वि०।
अप्रतिघ = त्रि० नास्ति प्रतिघः प्रतिघातकोऽस्य। १ प्रतिघातक शून्ये अप्रतिवद्धे” यस्तु दुःखसमायुक्तमप्रीतिकरमात्मनः। तद्रजोऽप्रतिघं विद्यात् सततं हारि देहिनामिति” मनुः।
अप्रतिद्वन्द्व = त्रि० प्रतिगतः द्वन्द्वं विरोधं स्पर्द्धां वा अत्या० स० न० त०। १ प्रतिस्पर्द्धाशून्ये “त्वामपतिमकर्म्माणमप्रतिद्वन्द्वमाहवे” रामा०। प्रतिद्वन्द्वः सहचरः। २ तच्छून्ये च “सोऽहं वनमिदं प्राप्तोनिर्जनं लक्षणान्वितः। सीतया चाप्रतिद्वन्द्व” इति रामा०।
अप्रतिपक्ष = त्रि० नास्ति प्रतिपक्षः विपक्षः सदृशो वा यस्य। १ विपक्षहीने २ असदृशे च।
अप्रतिपत्ति = स्त्री प्रतिपत्तिः कर्त्तव्यतानिश्चयः अभावे न० त०। इतिकर्तव्यतानिश्चयाभावे “अप्रतिपत्तिविह्वलानि चेन्द्रियाणि” काद०। २ निश्चयाभावे ३ अस्वीकारे ४ अग्रहणे ५ स्थूर्त्त्यभावे “उत्तरस्याप्रतिपत्तिरप्रतिभेति” गौ० सू०। न० ब०। ६ तच्छुन्ये त्रि०।
अप्रतिपद् = त्रि० प्रतिपद्यते जानाति प्रति + पद–क्विप् न० त०। विकले “सर्वदेवेभ्यो प्रतिपदम्” य० ३०, ८। “अप्रतिपदं विकलमिति” वेददी०।
अप्रतिपन्न = त्रि० न० त०। १ अज्ञाते २ अनङ्गीकृते च।
अप्रतिबद्ध = त्रि० न प्रतिबद्धः निरुद्धः न० त०। अनिरुद्धे उद्दामे।
अप्रतिबल = त्रि० नास्ति प्रतिबलः प्रतिपक्षो यस्य। १ अतिप्रबले २ विपक्षहीने च।
अप्रतिभ = त्रि० नास्ति प्रतिभा यस्य। १ प्रतिभाशून्ये २ अप्रगल्भे ३ स्फूर्त्तिशून्ये ४ प्रत्युत्पत्तिमतिशून्ये ५ अधृष्टे ६ लज्जिते च।
अप्रतिभा = स्त्री अभावे न० त०। वादिप्रतिवादिनोर्वादे प्रवृत्ते वादिनोद्भावितदोषोद्धारणोपायज्ञानेऽपि तत्कालं प्रतिवादिनः १ स्फूर्त्त्यभावरूपे निग्रहस्थानभेदे “उत्तरस्या पतिपत्तिरप्रतिभेति” गौ० सू०। २ प्रगल्भताभावे च।
अप्रतिम = त्रि० नास्ति प्रतिमा उपमा यस्य। अतुल्ये “अनुपमे“त्वामप्रतिमकर्माणमप्रतिद्वन्द्वमाहवे” इति रामायणम्।
अप्रतियोगिन् = त्रि० नास्ति प्रतियोगी तुल्यरूपः यस्य। स्त्रियां ङीप्। १ अनुपमे। प्रतियोगी अभावसंबन्धी न० त०। २ अभावसम्बन्धिभिन्ने। “अथ वा हेतुमन्निष्ठविरहाप्रतियोगिना साध्येन हेतोरेकाविकरण्यं व्याप्ति रुच्यते” भाषा०। यस्याभावः स एव प्रतियोगीति वृद्धाः।
अप्रतिरथ = पु० नास्ति प्रतिरथः प्रतियोद्धा यस्य। १ प्रतियोधशून्ये। नास्ति प्रतिरथः तुल्यः मङ्गलार्थत्वेनास्य। २ यात्रा मङ्गलार्थे सामभेदे। “एष सोऽप्रतिरथोऽथ यः स वृहस्पतिरिति” “ब्रह्मा दक्षिणतोऽप्रतिरथं जपति” इति च शत० ब्रा०
अप्रतिरव = त्रि० न प्रतिकूलो रवः प्रतिरवः स नास्ति यत्न। समेदं द्रव्यं त्वया न भोक्तव्यमित्यादि प्रतिषेघकवचनशून्ये भोगे। “अप्रतिरवं विंशतिवर्षोपभोगनिमित्ता हानिर्भवति” मिता०।
अप्रतिरूप = त्रि० नास्ति प्रतिरूपस्तुल्यरूपो यस्य। असदृशे।
अप्रतिरूपकथा = स्त्री नास्ति प्रतिरूपा प्रत्युत्तरीभूता कथा यस्याः। उत्तरवाक्यरहितायां वाचि।
अप्रतिवीर्य्य = त्रि० न प्रतिरुद्धं वीर्य्यं यस्य। अन्यैरनिरोध्यपराक्रमे।
अप्रतिषिद्ध = त्रि० न प्रतिषिद्धम्। अनिषिद्धे “अप्रतिषिद्धमनुमतं भवतीति” न्यायः सौवर्ण्णराजतौम्बरखड्गमणिमयपात्राणामन्यतमेषु अप्रतिषिद्धषु वेति” श्रा० त० गोभिलः “अप्रतिषिद्धानि कदलीवृक्षत्वगादीनि” रघु०।
अप्रतिष्कुत = त्रि० प्रति + स्कु–क्त न० त० वेदे षत्वम्। १ अप्रतिशब्दिते “स वीरो अप्रतिष्कुतः” ऋ० ७, ३२, ६, “अप्रतिगतोऽप्रतिशब्दितो वा” भा० २ अप्रतिगते च।
अप्रतिष्ठ = न० नास्ति प्रतिष्ठा यस्य। १ अन्याधारशून्ये स्वधामप्रतिष्ठिते ब्रह्मणि। “स भगवः! कस्मिन् प्रतिष्ठितः स्वेमहिम्नीति” श्रुतेस्थस्यान्याधारशून्यत्वात्तथात्वम्। २ अनाश्रये ३ निष्फले। “सोमविक्रयिणे विष्ठा भिषजे पूयशोणितम्। नष्टं देबलके दत्तमप्रतिष्ठं तु वार्द्धुषौ” मनुः ४ प्रशंसाशून्ये च त्रि०। अभावे न० त०। ५ प्रशंसाभावे स्त्री। अप्रतिष्ठितमप्यत्र। स च विष्णौ पु०। “अपांनिधिरधिष्ठानमप्रमत्तोऽप्रतिष्ठित” इति विष्णु सह०।
अप्रतिसंख्य = त्रि० न प्रतीता संख्या यस्य उत्तरपदलोपः। अयमेकः अयमेक इत्याकारापेक्षाबुद्ध्यभावेन १ प्रत्येकसंख्याग्रहणाभावादनुपलब्धसंख्याके वस्तुनि। प्रतिसंख्या वुद्धिविशेषः। अभावे न० त०। २ विशेषबुद्ध्यभावे स्त्री।
अप्रतिसंख्यानिरोध = पु० न प्रतिसंख्यया बुद्ध्या निरोधः। १ बौद्धविशेषकल्पिते अबुद्धिपूर्ब्बके भावविनाशे। तद्विशेषः बौद्धशब्दे वक्ष्वते। सोऽयम् प्रतिसंख्यानिरोधः “प्रतिसंख्याऽप्रतिसंख्यानिरोधाप्राप्तिरविच्छेदात्” शा० सू० प्रत्याख्यातः। “अपि च वैनाशिकाः कल्पयन्ति बुद्धिबोध्यं त्रयादन्यत् संस्कृतं क्षणिकञ्चेति” तदपि त्रयं प्रतिसंख्याऽप्रतिसंख्यानिरोधावाकाशञ्चेत्याचक्षते। त्रयमपिचैतदवस्तु अभावमात्रं निरुपाख्यमिति मन्यन्ते बुद्धिपूर्ब्बकः किल विनाशोभावानां प्रतिसंख्यानिरोधोनाम भाष्यते तद्विपरीतोऽप्रतिसंख्यानिरोधः आवरणाभावमात्रमाकाशमिति प्रतिसंख्याऽप्रतिसंख्यानिरोधयोरप्राप्तिरसम्भ इत्यर्थः। कस्मात्? अविच्छेदात् तौ हि प्रतिसंख्याऽप्रतिसंख्यानिरोधौ सन्तानगोचरौ वा स्याताम् भावगोचरौ वा। न तावत् सन्तानगोचरौ सम्भवतः, सर्व्वेष्वपि सन्तानेषु (ज्ञानप्रवाहेषु) सन्तानिनामविच्छिन्नफलहेतुभावेन सन्तान विच्छेदस्यासम्भवात् नापि भावगोचरौ, नहि निराश्रयो निरुपाख्योविनाशः सम्भवति सर्व्वास्ववस्थासु प्रत्यभिज्ञाबलेनअन्वयाविच्छेददर्शनात् अदृष्टप्रत्यभिज्ञास्ववस्थासु क्वचिद्दृष्टे नान्वयाविच्छेदेन अन्यत्रापि तदनुमानात्। तस्मात् परकल्पितस्य निरोधद्वयस्यानुपपत्तिरिति” शङ्करभाष्यम्।
अप्रतिश्रुत = त्रि० न० त०। अनङ्गीकृते दातव्यत्वेनास्वीकृते।
अप्रतिहत = त्रि० न प्रतिहतोऽभिभूतः प्रतिरुद्धो वा न० त०। अन्यैरनभिभूते २ अप्रतिरुद्धे च।
अप्रतीक = त्रि० नास्ति प्रतीकमेकदेशो यस्य। १ सम्पूर्ण्णे २ निरवयवे ब्रह्मणि न०।
अप्रतीक्षा = स्त्री न प्रतीक्षा अपेक्षया कालयापनम् अभावे न० त०। १ प्रतीक्षाभावे कार्य्यजननाय इतरापेक्षंया कालयापनाभावे २ इतरानपेक्षया त्वरितकरणे। न० ब०। ३ प्रतीक्षाशून्ये “अथाप्रतीक्षं पुनरायन्ति” शत० ब्रा०।
अप्रतीत = त्रि० प्रति + इण–क्त प्रतीतः परिज्ञातः प्रतिगतश्च न० त०। १ प्रतिगतभिन्ने “सहस्रसां वाजिनमप्रतीतम् ऋ० १, ११७, ९,। “अप्रतीतं शत्रुभिरप्रतिगतम्” भा० “मरुत्वतो अप्रतीतस्य” ऋ०। ५, ४२, ६, “अप्रतीतस्या” प्रतिगतस्य भा० २ अपरिज्ञाते “देवेभिर्विश्वतो अप्रतीतः” ऋ० ३, ४६, ३, “अप्रतीतः एतावदस्य सामर्थ्यमित्यपरिच्छिद्यमानः” भा० ३ अपलायिते च।
अप्रतीति = न० अभावे न० त०। ज्ञानाभावे “न स्थोटः प्रतीत्यप्रतीतिभ्याम्” सां० सू०।
अप्रतीत्त = ति० प्रति + दा–क्त प्रतीत्तं प्रतिदत्तं न० त०। प्रतिदत्तभिन्ने “अपमित्यमप्रतीत्तं यदस्मि यमस्य, येन बलिना चरामि” इति अथर्ववेदः ६, ११७, १,
अप्रतीप = त्रि० विरोधे न० त०। प्रतीपभिन्ने अनुकूले।
अप्रत्यय = पु० न प्रत्ययः विश्वासोज्ञानं वा अभावे न० त०। १ विश्वासाभावे “दोषाणां सन्निधानं कपटशतमयं क्षेत्रमप्रत्ययानामिति” सिह्लनः न० ब०। २ विश्वासशून्ये। “बलवदपि शिक्षितामात्मन्यप्रत्ययं चेतः” शकु०। ३ ज्ञानाभावे पु०। न० ब०। ४ ज्ञानशून्ये त्रि०। प्रत्ययःप्रकृतिनिमित्तकः अर्थबोधकः सुबादिशब्दभेदः न० त०। ५ सुबादिशब्दभिन्ने सार्थके प्रकृतिरूपे शब्दे “अर्थवदधातुरप्रत्ययः प्रातिपदिकमिति” पा०।
अप्रत्याख्येय = त्रि० न० त०। अपरिहार्य्ये त्यक्तुमशक्ये।
अप्रधान = न० न प्रधानम्। १ प्रधानभिन्ने मुख्यभिन्ने गौणे। “प्रधानकर्म्मण्याख्यये लादीनाहुर्द्विकर्म्मणाम् अप्रधाने दुहादीनां ण्यन्ते कर्त्तुश्च कर्म्मणः” हरिः कर्म्मणोऽप्रधानत्वञ्च अप्रधानक्रियाफलाश्रयत्वम्। “प्राधान्यं हि विधेर्यत्र प्रतिषेधेऽप्रधानतेति” भाट्टाः २ अनुत्कृष्टे अस्य त्रिलिङ्गत्वमपीष्यते। “अप्रधानः प्रधानः स्यात् सेवते यदि पार्थिवम्। प्रधानीऽप्यप्रधानः स्याद्यदि सेवाविवर्जितः” नीति०। ३ प्रधानकर्म्माङ्गे न० “अप्रधानकालं सकृदसन्निपातात्” कात्या० १, ७, १५, अयमर्थः। “वसन्ते ब्राह्मणोऽग्नीनादघीतेत्यनारभ्याधीतमप्याधानमग्निहोत्रादीनामङ्गमिति कृत्वा चिन्त्यते किमङ्गं सत् आधानं प्रतिकर्म प्रतिप्रयोगं च भेदेन कर्त्तव्यम् उत सर्व्वप्रयोगाणां साधारणं सकृदिति। तत्र कर्म्माङ्गत्वे प्रयाजाद्यङ्गवत् प्रतिकर्मभेदेन कर्त्तव्यम् न च वहिःकालत्वेनागृह्यमाणविशेषता, यद्यस्यानन्तरं क्रियते तत्तदर्थमित्यानन्तर्य्येण विशेषग्रहणात्। तस्मात् प्रतिकर्मभेदेनाधानप्राप्ताविदमुच्यते अप्रधानकालं यदङ्गमाधानसदृशम् तत्सकृदेव कर्त्तव्यम् न भेदेन कर्मण आदौ। कुतः? असंनिपातात् न चैतत् कस्यचित् कर्मणः प्रक्रमे कर्ममध्ये वा संनिपतितम् येन विशेषग्रहणं स्यात् किन्तु यदेव किञ्चिदग्निकार्य्यं निमित्तवशात्कामवशाद्वा यथाकामं प्राप्तम् तदर्थमाधास्येऽग्नीनिति, न तु कञ्चिदेव कर्मविशेषमभिसंधायाधानम् एवमनभिसंहित्कर्मविशेषेण सर्योद्देशेनाधाने कृते यद्यपि कारणवशात् किञ्चित् कर्म प्रथममापतति तथापि न तादर्थ्यमेव भवति प्रथमावस्थायामेव सर्वाथत्वावधारणात् तस्मात् अप्रधामकालीनत्वात् मकृदेव कार्य्यामिति” कात्या० व्या०।
अप्रधृष्य = त्रि० न प्रधर्षितुं शक्यः। १ अतिक्रान्तुमशक्ये २ धर्षितुमशक्ये च। “यदाश्रौषं भीष्ममत्यन्तशूरं हतं पार्थेनाहवेष्वप्रधृष्यम्” भा० आ० प०।
अप्रपन्न = त्रि० न० त०। १ प्राप्तभिन्ने, २ अनागते, ३ अज्ञाते च
अप्रबल = त्रि० न प्रबलः। प्रबलभिन्ने हीनबले।
अप्रभाव = पु० न प्रभावः अभावे न० त०। १ प्रभावाभावे न० ब०। २ प्रभावशून्ये त्रि०।
अप्रभूत = त्रि० न प्रभूतः न० त०। प्रचुरभिन्ने स्वल्पे।
अप्रमत्त = त्रि० प्र + मद–क्त प्रमादवान् विरोधे न० त०। सावधाने “निमित्तेषु च सर्व्वेषु अप्रमत्तोभवेन्नर” इति स्मृतिः। “यतात्मनोऽप्रमत्तस्य द्वादशाहमभोजनम्” “युक्तश्चैवाप्रमत्तश्च परिरक्षेदिमाः प्रजाः” इति च मनुः २ विष्णौ पु० “अपां निधिरध्रिष्ठानमप्रत्तोऽप्रतिष्ठितः” विष्णुसह० “अप्रमत्तोऽधिकारिभ्यः कर्म्मानुरूपं फलं यच्छन्नप्रमत्तः” इति भा०। २ मद्यादिना प्रमत्तभिन्ने त्रि०।
अप्रमय = पु० न प्रमीयते प्र + मि–अच् वेदे नात्त्वम्। अप्रमेये “मनसैवानुद्रष्टव्यमेतदप्रमयं ध्रुवम्” शत० व्रा० “अप्रमयमप्रमेयम्” भा०।
अप्रमाण = न० न प्रमाणं विरोधे न०। प्रमाज्ञानभिन्नभ्रमादिजनके वाक्यादौ। तानि च “वेदाः प्रमाणं स्मृतयः प्रमाणं धर्मार्थयुक्तं वचनं प्रमाणम्। यस्य प्रमाणं न भवेत् प्रमाणं कस्तस्य कुर्य्याद्वचनं प्रमाणमिति” स्मृत्युक्तवेदादिप्रमाण भिन्नानि चार्वाकादिवचनानि “नद्यां शिलाः तरन्तोत्यादीनि प्रमाणान्तरविरुद्धार्थकानि वचनानि” च। एवं पित्तादि दुष्टानि इन्द्रियाणि आभासकलितानि लिङ्गानि च। “प्रमाणत्वाप्रमाणत्वे” इत्यादि मीमांसा।
अप्रमाद = पु० न प्रमादः अभावार्थे न० त०। १ प्रमादाभावे “अप्रमादेन गन्तव्यं कान्तारेषु नदीषु च” इति “अप्रमादश्च कर्त्तव्यः सर्व्वभूतेषु नित्यशः” इति च रामा०। न० ब० २ प्रमादशून्ये त्रि० “माता च मम कौशल्या। कुशलं चाभिवादयन्। अप्रमादं च वक्तव्यमिति” रामा० “प्रमादश्च कर्त्तव्येषु अकर्त्तव्यत्वभ्रमेण ततोनिवृत्तिः। अकर्त्तव्येषु च कर्त्तव्यत्वभ्रमेण तत्र प्रवृत्तिरिति” मञ्जूषादयः।
अप्रमादिन् = त्रि० न प्रमाद्यति प्र + मद–णिनि न० त०। प्रमादहीने स्त्रियां ङीप्।
अप्रमायुक = त्रि० प्र + मि + उण् आत्त्वे युच् स्वार्थे कन् न० त०। अपरिच्छेदके। “कृणोत्वप्रमायुकं रथयुतिमनागसम्” अथ० १९, ४४, ३।
अप्रमित = त्रि० न प्रमितः न० त०। १ अपरिमिते २ अनुपलब्धे च।
अप्रमीय = त्रि० प्र + मा–बा० कर्मणि श० न० त०। अप्रमेये। “गजवाजिमुख्याः वाऽप्रमीयाः प्रमीयन्ते” श्रुतिः।
अप्रमूर = त्रि० प्र + मूर्च्छा–क्विप् प्रमूः मूर्च्छा अस्त्यर्थे कुञ्जादि० र न० त०। १ मूर्च्छायुक्तभिन्ने अमूर्च्छिते। “ते हि वस्वो वसवानास्ते अप्रमूरा महोभिः ऋ० १, ९०, २, “अप्रमूराः अमूर्च्छिताः” भा०।
अप्रमृष्ट = त्रि० प्र + मृष–क्त न० त०। १ असोढे अक्षान्ते। प्र + मृज–क्त न० त०। २ अघृष्टे ३ अप्रोञ्छेते प्र + मृश –क्त न० त०। ४ अज्ञाते च।
अप्रमृष्य = त्रि० न प्रमृष्यः प्र + मृष–क्यप् न० त०। १ वाधितुमशक्ये। “सुदामं तद्रेक्णो अप्रमृष्यम्” ऋ० ६, २०, ७। “अप्रमृष्यं केनाप्यबाध्यम्” भा०।
अप्रमेय = त्रि० प्रमातुं ज्ञातुं परिच्छेत्तुं वा योग्यं न० त० १ अपरिच्छेद्ये २ बहुसंख्यकवीर्य्यवति ३ इदमित्थमिति निश्चेतुमशक्ये “त्वमेकोह्यस्य सर्व्वस्य विधानस्य स्वयम्भुवः। अचिन्त्यस्याप्रमेयस्य कार्य्यतत्त्वार्थवित्प्रभुः” मनुः “स्वयंभुवोऽपौरुषस्य विधानस्य वेदस्य” कुल्लू०। “अशकञ्चाप्रमेयञ्च वेदशास्त्रभिति स्थितिः” मनुः। ४ ब्रह्मणि न० केनापि प्रमाणेन तस्य प्रमातुमशक्यत्वात्। वेदान्तिमते हि प्रमाणानि षट् प्रत्यक्षानुमानशब्दोपमानार्थापत्तियोग्यानुपलब्धिभेदात् तत्र परब्रह्मणः न प्रत्यक्षप्रमाणचक्षुरादिगम्यता रूपाद्यभावात् “अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यदिति” श्रुतौ तस्य रूपाद्यभावस्योक्तेः। नापि अनुमानगम्यता व्याप्तिलिङ्गाद्यभावात् “असङ्गोऽयं पुरुष” इति श्रुत्या तस्य सर्वसङ्गशून्यतोक्तेः नाप्युपमानगम्यता निर्द्धर्म्मकत्वेन, तद्भिन्नत्वे सति तद्गतभूयोधर्म्मवत्त्वलक्षणस्य सादृश्यस्य तत्राभावात्। न वार्थापत्तिगम्यत्वम् किञ्चिद्वस्तु विना अनुपपद्यमानस्यैवार्थस्यार्थापत्तिप्रमाणवेद्यवया तद्भिन्नवस्त्वभावेन तत्र तदसम्भवात्। न्यायमते च अर्थापत्तेर्व्यतिरेकव्याप्तिहेतुकानुमानेष्वन्तर्भावेण तल्लिङ्गस्य तत्राभावात्। योग्यानुलब्धेश्चाभावमात्रप्रमाणत्वांत् परब्रह्मणश्च सदात्मकत्वेनाभाव रूपत्वाभावात्। नापि शब्दप्रमाणवेद्यत्वम् तत्र शाब्दबोधोपायशक्त्यादेरभावात् अतएव “यद्वाचा न मनुते येन वागभ्युद्यते तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते” इति श्रुत्याऽस्य वाग्विषयत्वं निराकृतम्। न च लक्षणया तद्वोधः, शक्यसम्बन्धरूपलक्षणायाः निस्मम्बन्धे तस्मिन्न- प्रवृत्तेः। अतएव “ब्रह्मन्! ब्रह्मण्यनिर्देश्ये निर्गुणे गुणवृत्तयः। कर्थ चरन्ति? श्रुतयः साक्षात् सदसतः परे” इति भागवते गुणवृत्तिश्रुतिगोचरताशून्यत्वमस्योक्तम्। न च प्रमाणागोचरत्वे तस्य कथं सिद्धिः? कथं वा “तन्त्वौपनिषदं पुरुषं वेदेति” श्रुतौ “शास्त्रयोनित्वादिति” शा० सूत्रे च तस्य उपनिषद्वेद्यत्वमुक्तं संगच्छताम्? शास्त्रजनितबुद्ध्यैव तस्य विषयीकरणात् तथात्वसङ्गतेः। तथा च शास्त्रजन्यान्तःकरणविषयत्वमेव तस्य न तु तदवच्छिन्नचैतन्यविषयतापि यथोक्तं “फलव्याप्यत्वमेवास्य शास्त्रकृद्भिर्निराकृतम् ब्रह्मण्यज्ञाननाशाय वृत्तिव्याप्तिरपेक्षितेति” फलति प्रतिविम्बति बुद्धिवृत्तौ फलं चिदाभासस्तद्व्याप्यत्वं तद्विषयत्वं तेन यथा घटपटादीनां तदाकारबुद्धिवृत्ति प्रतिफलितेन चिदाभासेनैव प्रकाश्यता, न तथा, ब्रह्मणः स्वप्रकाशतया तस्य इतराप्रकाश्यत्वात् किन्तु स्पयं प्रकाश्यता न तु तत्रान्यापेक्षास्ति। परन्तु स्वाज्ञाननाशायैव बुद्धिवृत्तेरपेक्षामात्रं सा च शब्द जनितेति उपनिषद्वेद्यता इत्थमुभयश्रुतिसामञ्जस्यम्। वाचस्पतिमते तु शब्दादपि अखण्डाकारा काचित् दशमस्त्वमसीत्यादिवत् मनोवृत्तिरुदेति तद्विषयत्वादस्य शास्त्रवेद्यता। “मनसैवानुद्रष्टव्यमिति” श्रुतेस्तस्य मनोमात्रवेद्यत्वेऽपि “तत्त्वमस्यादिवाक्योत्थं ज्ञानं मोक्षस्य साधनमिति” शास्त्रात् मनःसस्कारे च शास्त्रापेक्षणात् शास्त्रवृत्तिवेद्यता। न च मनोवृत्तिवेद्यत्वेऽप्रमेयत्वहानिः। असंस्कृतमनोविषयत्वाभावेनैव तथात्वात् “अवाङ्मनसगोचरमिति” वाक्यस्यापि तत्रैव तात्पर्य्यात्। मनोविषयत्वोक्तिरपि अज्ञाननाशार्थमनोवृत्तिमात्रवेद्यताभिप्रायेण, तदवच्छिन्नचिदाभासविषयत्वाभावाच्चाप्रमेयता “यन्मनसा न मनुते येन मनोऽनुमन्यते” इति श्रुतेस्तथार्थत्वात्। जगत्कर्त्तृत्वेन ईश्वरस्यानुमानेऽपि कूटस्थस्य तदनुमानगम्यत्वाभावात् ईश्वरस्यैव श्रुतिप्रमाणकत्वेन उपनिषद्वेद्यतोक्तिः। तदुत्तरं मननादिना श्रुतिवाक्यतात्पर्य्यावधारणेनाखण्डब्रह्माकारा चित्तवृत्तिरुदेति इति न काचिदनुपपत्तिः। नैयायिकादिमते तु तद्गुणगणस्य परिमातुमशक्यत्वात् दुष्टाशगावेद्यत्वाच्च अप्रमेयत्वमिति। प्र + मि + क्षेपे यत् न० त०। अपरिक्षेप्ये “यदाश्रौषं वासुदेवार्ज्जुनौ तो तथा धनुर्गाण्डिवमप्रमेयम्” भा० आ० प०।
अप्रयत्न = पु० प्रकृष्टो यत्नः प्रयत्नः प्रयासः अभावे न० त०। १ प्रयत्नाभावे प्रयासाभावे। न० ब०। २ प्रयासशून्ये त्रि०। “अप्रयत्नः सुखार्थेषु ब्रह्मचारी धराशय” मनुः।
अप्रयुत = त्रि० प्र + यु–मिश्रणे अमिश्रणे च क्त न० त०। १ अपृथग्भूततया युते २ पृथग्भूततया, युते च।
अप्रयुत्वन् = त्रि० प्र + यु–पृथग्भावे ड्निप् न० त०। अपृथग्भूते “पर्त्तृभिष्ट्वमदब्धैरप्रयुत्वभिः” ऋ० ६, ४८, १०, “अप्रयुत्वभिरपृथग्भूतैः” भा०।
अप्रलम्ब = न० प्र + लम्ब–घञ् अभावे न० त०। १ विलम्बा भावे शोघ्रे २ तद्वति त्रि० हलायुधः।
अप्रवर्त्तिन् = त्रि० न प्रवर्त्तितुं शीलमस्य ताच्छील्ये इनि। १ प्रवृत्तिशीलशून्ये २ सन्तते ३ विच्छेदरहिते स्त्रियां ङीप् ४ अनुच्छित्तौ “मैतदस्मिन् संवदिष्ठाः अप्रवर्त्तीति” वृ० उ०। “अथं वाव स योऽयमन्तर्हृदयाकाशस्तदेतत् पूर्णमप्रवर्त्ति अप्रवर्त्तिनीं श्रियं लभते य एवं वेद” इति छा० उ०। “अप्रवर्त्ति अनुच्छित्तिधर्म्मकमिति” भा०।
अप्रवीत = त्रि० प्र + वी–प्रजननादिषु क्त न० त० १ अजाते। गर्भधारणेन गतसारभिन्नायां २ अकामितायां च स्त्रियां स्त्री। “दक्षिणेन द्वारं सोमक्रयणी तिष्ठत्यलक्षिता व्यङ्गाऽप्रवीतेति” कात्या० ७, ६, १४, “अप्रवीता वीगतिजननकान्त्यादिषु अत्र प्रजननार्थः प्रशब्दात् वाक्यशेषाच्च प्रजाता हि गतसारा भवति नोपभोगमात्रेण। तस्मादप्रवीताऽप्रजातेति हरिस्वासी। अकामितेति कर्कभा० ४ अयातयामायां स्त्रियाम् “सा स्यादप्रवीता वाग्वा एषा निदानेन यत् सहस्री अजातयाम्नी वा इयं वागयातयाम्नी अप्रवीता, तस्मादप्रवीता स्यादिति” शत० ब्रा० ५ अनुपगते त्रि० “यदप्रवीता दधते ह गर्भम्” ऋ० ४, ७, ९, “अप्रवीता अनुपगता” भा०।
अप्रवृत्त = त्रि० न प्रवृत्तः विरोधे न० त०। प्रवृत्तिमद्भिन्ने निवृत्ते।
अप्रवेद = त्रि० नास्ति प्रवेदः लाभोयस्य। १ दुर्लभे। “अत्रस्नू अप्रवेदे इति माह कस्माच्च नत्रस्नू प्रत्रासीर्मोत इदं पुष्टं कश्चन प्रविदतेत्येवैतदाह” शत० ब्रा० “नास्ति प्रवेदः प्रलाभः ययोः दुर्लभे” इति भा०।
अप्रशस्त = त्रि० न प्रशस्तम् विरोधे न० त०। १ प्रशस्तभिन्ने अपकृष्टे २ दुष्टे “अप्रशस्तञ्च कृत्वाप्सु मासमासीत भैक्षभुक” मनुः। ३ निन्दिते च “अप्रशस्त निशि स्नानं राहोरन्यत्र दर्शनादिति” परा०। ४ क्षीणे “पान्ति मित्रावरुणाववद्याच्चयत ईमर्यमोअप्रशस्तान्” ऋ० १, १६७, ८, “अप्रशस्तान् क्षीणान्” भा०। यावत्पदार्थस्य यत्न उचितत्वम् ततोन्यूनत्वे अस्य प्रवृत्तिः।
अप्रसक्त = त्रि० न प्रसक्तः अभिनिवेशयुक्तः संबद्धो वा। १ अभिनिवेशशून्ये, आग्रहरहिते २ प्रसङ्गरहिते च अपसक्तनिषेधानुपत्तेरिति मीमांसा। ३ असंबद्धे।
अप्रसक्ति = स्त्री अभावे न० त०। प्रसङ्गाभावे न० ब०। प्रसङ्गशून्ये त्रि० प्रसक्तिराग्रहः प्राप्तिश्च।
अप्रसङ्ग = पु० अभावे न० त०। १ सम्बन्धाभावे। न० ब०। २ सम्बन्धशून्ये त्रि०। प्रसङ्गः उत्तराभिधाने सङ्गतिभेदः अभावे न० त०। ३ सङ्गत्यभावे। न० ब०। ४ तच्छून्ये त्रि० “अप्रसङ्गाभिधाने च श्रोतुः श्रद्धा न जायते” वृद्धाः।
अप्रसन्न = त्रि० न० त०। १ प्रसादशून्ये २ अस्वच्छे ३ चित्तप्रसादशून्ये ४ स्फूर्त्तिहीने ५ असन्तुष्टे च।
अप्रसाद्य = त्रि० न प्रसादयितुं योग्यम्। १ प्रसादयितुम योग्ये तीव्रकोपयुते।
अप्रसाह = पु० न प्रसह्यतेऽभिभूयते प्र + सह–कर्म्मणि घञ्। १ अनिष्टादिना अनभिभूयमाने “पश्चादग्नेः संविशति चर्मणि स्थण्डिले वा वाचंयमोऽप्रसाहः” छा० उ०। “न प्रसह्यते नाभिभूयते स्त्र्याद्यनिष्टस्वप्तदर्शनेन” भा०।
अप्रसिद्ध = त्रि० न० त०। १ अनिष्पन्ने २ अविख्याते च “अप्य प्रसिद्धं यशसे हि पुंसामिति” कुमा०।
अप्रसृत = त्रि० म प्रसृतः। १ विस्तारशून्ये प्रसरशून्ये।
अप्रस्तुत = त्रि० न प्रस्तुतः। १ अनिष्पन्ने २ कार्य्यसाधनायानुद्युक्ते ३ अप्रक्रान्ते ४ असंस्तुते च।
अप्रस्तुतप्रशंसा = स्त्री सा० द० उक्ते अर्यालङ्कारभेदे तल्लक्षणादि “कचिद्विशेषः सामान्यात् १, सामान्यं वा विशेषतः २। कार्य्यान्निमित्तं ३ कार्य्यञ्च ४ हेतेरथ समात् समम् ५।। अप्रस्तुतात् प्रस्तुतञ्चेद्गम्यते पञ्चधा ततः। अप्रस्तुतप्रशंसा स्यात्”। “पादाहतं यदुत्थाय मूर्द्धानमधिरोहति। स्वस्थादेवापमानेऽपि देहिनस्तद्बरं रजः”।। अत्रास्मदपेक्षया रजोऽपि वरमिति विशेषे प्रस्तुते सामान्यमभिहितम्। “स्रगियं यदि जीवितापहा हृदये किं निहिता न हन्ति र्माम्?। विषमप्यमृतं क्वचिद्भवेदमृतं वा विषमीश्वरेच्छया”।। अत्रेश्वरेच्छया क्वचिदहितकारिणोऽपि हितकारित्वं, हितकारिणोऽप्यहितकारित्वमिति सामान्ये प्रस्तुते विशेषोऽभिहितः। एवञ्चात्राप्रस्तुतप्रशंसामूलोऽर्थान्तरन्यासः। दृष्टान्ते प्रसिद्धमेव वस्तु प्रतिविग्वत्वेनोपादीयते। इह नु विषामृतयोरमृतविषीभावस्याप्रसिद्धेर्न तस्य सद्भावः।। “इन्दुलिप्त इवाञ्जनेन, जडिता दृष्टिर्मृगीणामिव, प्रम्लानारुणिमेव विद्रुमदलं श्यामेव हेमप्रभा। कार्कर्श्यं कलया च कोकिलबधूकण्ठेष्विव प्रस्तुतं सीतायाः पुरतश्च हन्त शखिनां वर्हा सगर्हेव मनु।।” अत्र संभाव्यमानेभ्य इन्द्वादिगताञ्जनलिप्तत्वादिभ्यः कार्य्येभ्यो वदनादिगतसौन्दर्य्यविशेषरूपं प्रस्तुतं कारणं प्रतीयते। “गच्छामीति मयोक्तया मृगदृशा निःश्वासमुद्रेकिणं त्यक्त्वा तिर्य्यगवेक्ष्य वाष्पकलुषेणैकेन मां चक्षुषा। अद्य प्रेम मदंर्पतं प्रियसखीवृन्दे त्वया बध्यतामित्थं स्नेहविवर्द्धितो मृगशिशुः सोत्प्रासमाभाषितः।।” अत्र कस्यचिदगमनरूपे कार्य्ये कारणमभिहितम्। तुल्येऽप्रस्तुते तुल्याभिधाने च द्विधा श्लेषमूला सादृश्यमात्रमूला च। श्लेशमूलापि समासोक्तिवद्विशेषणमात्रश्लेषे, श्लेषवद्विशेष्पस्यापि श्लेषे भवतीति द्विधा। क्रमेण यथा।। “सहकारः सदामीदो वसन्तश्रीसमन्वितः। समुज्ज्वलरुचिः श्रीमान् प्रभूतोत्कलिकाकुलः”।। अत्र विशेषणमात्रश्लेषवशादप्रस्तुतात् सहकारात् कस्यचित् प्रस्तुतस्य नायकस्य प्रतीतिः “पुंस्त्वादपि प्रविचलेद्यदि यद्यधोऽपि यायाद्यदि प्रणयनेन महानपि स्यात्। अभ्युद्धरेत्तदपि विश्वसितीदृशीत्थं केनापि दिक् प्रकटिता पुरुषोत्तमेम”।। अत्र पुरुषोत्तमपदेन विशेष्येणापि श्लिष्टेन प्रचुरप्रसिद्ध्या प्रथमं विष्णुरेव बोध्यते। तेन वर्ण्णनीयः कश्चित्पुरुषः प्रतीयते। सादृश्यमात्रमूला यथा। “एकः कपोतपोतः शतशः श्येनाः क्षुधाभिधावन्ति। अम्बरमावृतिशून्यं हरि हरि शरणं विधेः करुणा”।। अत्र कपोतादप्रस्तुतात् कश्चित् प्रस्तुतः प्रतीयते। इयं क्वचित् वैधर्म्म्येणापि भवति। यथा “धन्याः खलु वने वाताः कह्लारस्पर्शशीतलाः। राममिन्दीवरश्यामम् ये स्पृशन्त्यनिवारिताः”।। अत्र वाता “धम्या अहमधन्या इति वैधर्म्म्येण प्रस्तुता प्रतीयते। वाच्यस्य सम्भवासम्भवोभयरूपतया त्रिप्रकारेयम्। तत्र सम्भवे उक्तोदाहरणान्येव। असम्भवे यथा। “कोकिलोऽहं भवान् काकः समानः क लिमावयोः। अन्तरं कथयिष्यन्ति काकलीको विदाः पुनः”।। अत्र काककोकिलयोर्वाकोवाक्यम् प्रस्तुताध्यारोपणं विनाऽसम्भवि। उभयरूपत्वे यथा। “अन्तश्छिद्राणि भूयांसि कण्टका बहवो बहिः। कथं कमलनालस्य मा भूवन् भङ्गुरा गुणाः”।। अत्र प्रस्तुतस्य कस्यचिदध्यारोपणम् विना कमलनालान्तञ्छिद्राणाम् गुणभङ्गुरीकरणे हेतुत्वमसम्भवि अन्वेषान्तु सम्भवीत्युभयरूपत्वम्।
अप्रहत = त्रि० न प्रहन्यते स्म प्र + हन–क्त न० त०। अक्षुण्णे (खिल) इति ख्याते अकृष्टमूम्यादौ। “ईषद्धौतं नवं श्वेतं सदशं यत्रधारितम् निर्ण्णेजकाक्षालितञ्चाप्रहतं वासौच्यते” इति विधा० पा० उक्ते वासोभेदे अहतमिति पाठान्तरम्।
अप्रहन् = त्रि० न प्रहन्ति प्र + हन्–क्विप् न० त० स्त्रियां ङीप्। “कार्य्यानाशके तदनुग्राहके “त्वमेको अप्रहर्णगृणीषे शवसाम्पतिम्” ऋ० ६, ४४, ४। “अप्रहणमनुग्राहकमिति” भा०।
अप्राकृत = त्रि० प्रकृतेरागतम् अण् प्राकृतम् न० त०। १ प्रकृतिकार्य्यभिन्ने ईश्वरलीलादौ। प्रकृतेः स्वभावस्य अयम् अण् न० त०। २ स्वभावसम्बन्धिभिन्ने असामान्ये मनुष्यादौ च।
अप्राग्र्य = त्रि० न प्राग्र्यः प्रधानः विरोधे न० त०। श्रेष्ठभिन्ने अधमे।
अप्राण = त्रि० नास्ति देहादुक्रान्तत्वात् प्राणो यस्य। १ मृते शवे। सर्वथा प्राणशून्ये २ ईश्वरे पु० अप्राणोह्यमनो बुद्धिरिति” श्रुतिः।
अप्राप्त = त्रि० न प्राप्तः प्रमाणान्तरावगतः। १ प्रमाणान्तरानवगते “अप्राप्तप्रापकोविधिरिति” “अप्राप्ते तु विधीयन्ते बहवोऽप्येकयत्नतः” इति च मीमांसा। २ अनागते च।
अप्राप्तकाल = त्रि० न प्राप्तः कालोऽस्य। अप्राप्तसमये। “अवयवविपर्य्यासवचनमप्राप्तकालमिति” गौ० सू० उक्ते २ सभाक्षोभव्यामोहादिना व्यत्यस्ताभिधानरूपे वादिदीषभेदे च। प्रतिज्ञाहेतूदाहरणादीनां यथाक्रमं विन्यासे हि वादसमयः। तेषां व्युत्क्रमकघने वादिनो निग्रहः।
अप्राप्तप्रापक = पु० अप्राप्तं प्रापयति बोधयति प्र + आपणिच्–ण्वुल् ६ त०। प्रमाणान्तरेणानवगतस्य यागादीनामिष्टसाधनत्वस्य कृतिसाध्यत्वस्य वा बोधके लिङादौ शब्दे। तथा च प्राथमिकप्रवृत्तिजनकप्रतीतिजनकत्वं तत्त्वम् भवति च स्वर्गकामोयजेतेत्यादौ लिङयुक्तं वाक्यं, यागे इष्टसाधनताम् कृतिसाध्यतां वा बोधयत् प्रेरकत्वात्तथा। अप्राप्ता दम्यावस्था यस्य ततः स्वार्थे कन् देवकवत् उत्तरपदलोपः। २ अप्राप्तदम्यावस्थे वत्से “पादश्चाप्राप्तके देयः” स्मृतिः “अप्राप्तके अप्राप्तदम्यावस्थे” इति रघु०।
अप्राप्तव्यवहार = त्रि० न प्राप्तः व्यवहारयोग्यः कालोऽस्य। “अप्राप्तव्यवहारोऽसौ यावत् षोडशबर्षक” इति दक्षोक्ते अपूर्ण्णषोडशवर्षवयस्के बाले “गर्भस्थैः सदृशोज्ञेय आष्टमात् वत्सराच्छि शुः। बाल आ षोडशादर्वाक् पौगण्डश्च निगद्यते। परतोव्यावहारज्ञः स्वतन्त्रः पितरावृते इति” नारदः। “अप्राप्तव्यवहाराणां धनं व्ययविवर्जितम्। न्यसेयुर्बन्धुमित्रेषु प्रोषितानां तथैव च” कात्या० स्मृतिः।
अप्राप्ता = स्त्री न प्राप्तः विवाहप्रशस्तकालोऽस्याः पृ० उत्तरपद लोपः। अप्राप्तविवाहप्रशस्तकालायां कुमार्य्याम। “उत्कृष्टायाभिरूपाय वराय सदृशाय च। अप्राप्तामपि तां कन्यां तस्मै दद्याद्यथाविधि” मनुः “अप्राप्ताम् अप्राप्त विवाहप्रशस्तकालाम्” उ० त० रघुनन्दनः।
अप्राप्ति = स्त्री अभावे न० त०। १ लाभाभावे “तदप्राप्तिमहादुःखविलीनाशेषपातका” का० प्र० २ प्रमाणान्तरतोज्ञानाभावे “विघिरत्यन्तमप्राप्तौ नियमः पाक्षिके सतीति” मीमां० ३ असम्भवे “प्रतिसंख्याप्रतिसंख्यानिरीधाप्राप्तिरिति” शा० सू०। “अप्राप्तिरसम्भव” इति भा०। ४ अनुपपत्तौ च “समुदायहेतुकेऽपि तदप्राप्तिः” शा० सू०। समुदायाप्राप्तिः समुदयभावानुपपत्तिः भा०। न० ब०। ५ लाभशून्ये त्रि०।
अप्रामाणिक = त्रि० प्रमाणेन सिद्धः, प्रमाणं वेद वा ठञ् न० त०। १ प्रमाणासिद्धे २ प्रमाणानभिज्ञे च स्त्रियां ङीप्। “अप्रमाणिकीयमनवस्थेति” सां० भा०।
अप्रामाण्य = न० अभावे न० त०। १ यथार्थबोधकत्वाभावे “अप्रामाण्यं कथयति सदा नन्दसूनोर्वियोगः” पदा० अप्रामाण्यहेतुकानुष्ठानाभावे च “अननुष्ठानलक्षणमप्रामाण्यम्” सां० सू०।
अप्रामि = त्रि० प्रकर्षेण अम्यते हिंस्यतेऽसौ प्र + अम–णिच्कर्म्मणि इन् न० त०। अहिंसिते, “अप्रामिसत्योमघवन्”। ऋ० ८, ६०, ४, “अप्रामिसत्यः अहिंसितसत्यः” भा०।
अप्रायु = त्रि० प्र + इण–उण् न० त०। अगन्तरि, “असन्नप्रायुवोरक्षीतारो दिवेदिवे” ऋ० १, ८९, १, “अप्रायुवः अप्रायवः अगच्छन्तः वेदे तन्वादित्वादुवङ्” भा०।
अप्रायुस् = त्रि० न प्रकृष्टं००२०प्रगतं वाऽऽयुर्यस्य। १ प्रकृष्टायुर्भिन्ने २ गतायुर्भिन्ने च। “नक्तयः सुदर्शतरोदिवातरादप्रायुषः ऋ० १, १२७, ५।
अप्रिय = न० विरोधे न० त०। प्रियभिन्ने इष्टभिन्ने स्वभातोद्विष्टे दुःखे “न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति” श्रुतिः “तस्माद्यम इव स्वामी स्वयं हित्वा प्रियाप्रिये” इति मनुः। २ तत्साधने वचनादौ त्रि० “सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यमप्रियम्” “पाणिग्राहस्य साध्वी स्त्री नाचरेत् किञ्चिदप्रियम्” इति च मनुः। (सिङि) शृङ्गीमत्स्ये स्त्री शब्द र०। प्रियहेतुत्वाभावात्तस्यास्तथात्वम्।
अप्रियंवद = त्रि० विरोधे न० त०। कटुवाक्यवादिनि उद्वेजकवाक्यप्रयोक्तरि
अप्रियवादिन् = त्रि० अप्रियं वदति वद–णिनि ६ त० स्त्रियां ङीप्।। कटुवाक्यवादिनि उद्वेजकवाक्यकथके “माता यस्य गृहे नास्ति भार्य्या चाप्रियवादिनीति” चाणक्यः।
अप्रीति = स्त्री अभावे न० त०। १ सन्तोषाभावे, २ दुखे, “प्रीत्यप्रीतिविषादाः प्रकाशप्रवृत्तिनियमार्थाः” इति सां० का०। “प्रीतिः सुखं प्रीत्यात्मकः सत्त्वगुणः, अप्रीतिर्दुखमप्रीत्यात्मकोरजोगुणः” इति सां० त० कौ०।
अप्रेतराक्षसी = स्त्री न प्रेता प्राप्ता राक्षसीम् अत्या० स० न० त०। तुलस्याम्, अपेतराक्षसीशब्दे २५४ पृष्ठे विस्तरः।
अप्रेमन् = पु० न प्रेम विरोधे न० त०। स्नेहविरोधिनि द्वेषे।
अप्रौढ = त्रि० न प्रौढः न० त०। १ अप्रवृद्धे २ अपटौ च।
अप्व = त्रि० आप–बा० व पृ० ह्रस्वः। प्राप्ये “अमीषां चित्तं प्रतिलोभयन्ती गृहाण्यङ्गान्यप्वेपरेहि” ऋ० १०, १०३, १२, “हरिमाणं तेऽङ्गेभ्योऽप्वामन्तरोदरात्” अथ० ९, ८, ९
अप्स = त्रि० अपः सनोति सन–ड। १ अपां विशेषगुणीभूते रसे “पृथिव्याः पुरीषमप्सोनाम” य० १४, ४। “अप्सोनामापां सारभूतो रस” इति वेददी०। आप इव निर्मलतया सन्यते संबध्यते सन–बा० ड। २ रूपे निरु०।
अप्सरःपति = पु० ६ त०। १ इन्द्रे अप्सरापतिरप्यत्र।
अप्सरम् = स्त्री ब० व० अद्भ्यः सरन्ति उद्गच्छन्ति सृ–अमुन्। समुद्रान्निस्सृतायां स्वर्वेश्यायाम् “अप्सुनिर्मथनादेव रसात्तस्माद्वरस्त्रियः। उत्पेतुर्मनुजश्रेष्ठ। तस्मादप्सरसोऽभवन्” इत्युक्तेस्तासां तथात्वम्। “एकाप्सरःप्रार्थितयोर्विवादः” रघुः “आराधितोऽद्धा मनुरप्सरोभिश्चक्रे प्रजाः स्वाः सनिमेषचिह्नाः” इति माघः। तासां च नाट्यकर्म्म वृत्तिः। ताश्च प्रधानतया द्वादश वह्निपुराणे दर्शिताः “उर्व्वशी मेनका रम्भा मिश्रकेशी ह्यलम्बुषा विश्वाची च घृताची च पञ्चचूडा तिलोत्तमा भानुवत्यबला रम्या द्वादशाप्सरसः शुभाः” इति गणभेदनामाध्याये। अत्र शुभा इति विशेषणात् अन्या अपि। ताश्च “उर्वशी मेनका रम्भा घृताची पुञ्जिकास्थला सुकेशी मञ्जुघोषा च महारङ्गवतीति च” इति मा० पु० “अदितिर्दितिर्दनुः काला दनायुः सिंहिका तथा। क्रोधा प्रधा च विश्वा च विनता कपिला मुनिः। कद्रुश्च मनुजव्याघ्र। दक्षकन्यास्त्रयोदश” इति कश्यपपत्नीरभिधाय। “इत्येते देवगन्धर्व्वाः प्राधेयाः परिकीर्त्तिताः” इति गन्धर्ववंशमभिधाय च “इमं त्वप्सरसां वंशं विदितं पुण्यलक्षणम् प्रधाऽसूत महाभागादेव देवर्षितः पुरा। अलम्बुषा मिश्रकेशो विद्युत्पर्णा तिलोत्तमा। अरुणा रक्षिता चैव रम्भा तद्वन्मनोरमा। केशिनी च सुबाहुश्च सुरता सुरसा तथा। सुप्रिया चातिबाहुश्च” इत्युक्तम् भा० आ० प०। एतासाञ्च चतुर्द्दशोत्पत्ति स्थानानि क दम्बर्य्यां वर्ण्णितानि “यथा विबुधसद्मन्यपसरसो नाम कन्यकाः सन्तीति तासां चतुर्दश कुलानि एकं भगवतः कमलयोनेर्मनसः समुत्पन्नम्, अन्यद्वेदेभ्यः सम्भूतम्, अन्यदग्नेरुद्भूतम् अन्यत् पवनात् प्रसूतम्, अन्यदमृतान्मथ्यमानादुथितम्, अन्यज्जलाज्जातम्, अन्यदर्ककिरणेभ्यो निर्गतम्, अन्यत् सोमरश्मिभ्यो निष्पतितम्, अन्यद्भूमेरुद्भूतम्, अन्यत् सौदामनीभ्यः प्रवृत्तम्, अन्यन्मृत्युना निर्मितम्, अपरं मकरकेतुना समुत्पादितम्, अन्यत्तु दक्षस्य प्रजापतेरतिप्रभूतानां सुतानां मध्ये द्वौ सुते मुनिररिष्टा च बभूवतुः, ताभ्यां गन्धर्वैः सह कुलद्वयं जातम् एवमेतान्येकत्र चतुर्दश कुलानि” एतन्मूलं तु विस्तरभयान्नोक्तम्। २ दिशि ३ उपदिशि च तयोर्जलहेतुत्वात्तथात्वम् “पुञ्जिकास्थला च क्रतुश्चाप्सरसाविति” य० १५, १५, “पुञ्जिकास्थला क्रतुस्थला चाप्सरसौ दिगुपदिग्रूपे परिचारिके” इति वेददी०। “अप्सरसाविति दिक् च उपदिक् स्माह” श्रुतेस्तथात्वम्। “मेनका वै अप्सरारूपिणीति” भाष्यप्रयोगात् अप्सरसाविति श्रुति निर्देशाच्च नित्यबहुवचनान्ततेद्युत्सर्गः क्वचिदेकवचनान्तताऽपि
अप्सरस्तीर्थ = त्रि० ६ त०। १ तीर्थभेदे।
अप्सरा = स्त्री अप्सं रूपमस्त्यस्याः प्राशस्त्ये कुञ्जा० र। दिव्यरूपवत्यां स्वर्वेश्यायाम् “उद्भिन्दतीं संजयन्तीमप्सराम्” अ० ४, ३८, १।
अप्सरायमाणा = स्त्री अप्सरस इवाचरति देहसौन्दर्य्यादिना अप्सरस + क्यङ्–सलोपः कर्त्तरि शानच्। अप्सरस्तुल्य सौन्दर्य्यवत्यां स्त्रियाम्।
अप्सव = त्रि० अप्सं जलरसं वाति हिनस्ति वा–क ६ त०। जलरसशून्ये समुद्रे तस्य लवणजलत्वात्तथात्वम्। “ये अप्सवमर्ण्णवं चित्रराधसस्तेनो रासन्ताम्” ऋ० १०, ६५, ३।
अप्सव्य = पु० अप्सुभवः “अपोयोनियन्मतुपः” वार्त्ति० सप्तम्या अलुक्, यच्च। जलभवे।
अप्सस् = त्रि० अप्सु अप्साधने तेजसि सस्ति स्वपिति ससक्विप् ७ त०। १ रूपे तस्य तेजोहेतुत्वात् तथात्वम् २ रूपवति च। “शीर्ष्णा शिरोऽप्ससाप्सो अर्दयन्नं शून् बभस्ति हरितेभिरप्सभिः” अ० ६, ४९, २, “जायेव पत्य उशती सुवासा उषा हस्रेव निरिणीते अप्सः” ऋ० १, १२४, ७।
अप्सा = त्रि० अपोजलानि सनति ददाति सन–विट्। जलटातरि “आषाढं युत्सु पृतनासु पप्रिं स्वर्षामप्सामिति” ऋ० १, ९१, २१, “अप्सां जलानां दातारम्” भा०। “पवस्व देवमादनो विचर्षणिरप्साः” ऋ० ९, ८४।
अप्सु = त्रि० नास्ति प्सु रूपम् (निरुक्तोक्तम्) यस्य। रूपरहिते “मा त्वा वयं सहसावन्नवीरा माप्सवः परि” ऋ० ७, ४, ६, अप्सवः रूपरहिताः” भा०। अप्राशस्त्ये न० ब०। अप्रशस्तरूपे असुरे, “अप्सुजितः” अप्सुजिच्छब्दे दृश्यम्।
अप्सुक्षित् = त्रि० अप्सु जलाधारे अन्तरिक्षे क्षियति निवसति–क्षि–क्विप् अलुक्स०। अन्तरिक्षवासिनि देवादौ “ये देवासो दिव्येकादश स्थ पृथिव्यामेकादश स्थ अप्सुक्षितो महिनैकादश ऋ० १, १३९, ११, य० १८, ९, च “तद्धेतुत्वात् तात्स्थ्यम् अप्सु अन्तरिक्षे क्षियन्ति निवसन्तीति” भा०।
अप्सुचर = त्रि० अप्सु चरतीति चर–ट अलुकूसमा० स्त्रियां ङीप्। जलचरे।
अप्सुज = त्रि० अप्सुजले तद्धेतौ अन्तरिक्षे वा जायते जन–ड अलुक्स०। १ जलजाते २ अन्तरिक्षजाते “यदग्ने! दिविजा अप्स्वप्सुजाः” इति ऋ० ८, ४३, २८, “अप्सुजा अन्तरिक्षजाता” इति भा०।
अप्सुजा = पु० अप्सु–जायते जन + विट् अलुक्स०। अश्वे “अमृताबाष्पतो वह्नेर्वेदेभ्योऽण्डाच्च गर्भतः। साम्नोहयानामुत्पत्तिः सप्तधा परिकीर्त्तिता” इत्युक्तेस्तस्य बाष्पजातत्वात्तथात्वम् “संशितो अप्स्वप्सुजा ब्रह्मा सोम पुरोगवः” य० २३, १४, “अप्सुजा अश्व” इति वेददी०। २ वेतसे तस्य जलसमीपजातत्वात् तथात्वम् “अप्सुयोर्निर्वा अश्वोऽप्सुजा वेतस” इति शत० ब्रा०। ३ जलजातमात्रे त्रि०।
अप्सुजित् = त्रि० अप्सून् असुरान् जयति जि–क्विप् अलुक्समा०। अन्तरिक्षस्थासुरजेतरि “सुपारः शुश्रवस्तमः समप्सुजितः” ऋ० ८, १३, २, “अप्सुजितः अन्तरिक्षवर्त्तमानानामसुराणां जेतारः” भा०।
अप्सुमत् = त्रि० अप्सु आपः जलानि सन्त्यस्य “अपोयोनियन्मतुपः” वार्ति० सप्तम्या मतुप् अलुक्स० च। १ जलसंपृक्ते आधारज्यभागे। “अप्सुमन्तावाधाराज्यभागाविति” सि० कौ०। २ यथेष्टं ऊललब्धरि च “न हाप्सु प्रैत्यप्सुमान् भवति, छा० उप०। मरुस्थलीष्वपि यथेष्टोदकवान् भवतीति” आनन्दगिरिः।
अप्सुयोग = पु० ७ त० अलुक्समा०। जलेषु योगे। “जिष्णवे योगायाप्सुयोगैर्वोयुनज्मि” अथ० १०, ७, ५।
अप्सुयोनि = त्रि० अप्सु योनिरुत्पत्तिरस्य अलुकुसमा०। १ जलभवे २ अश्वे पु० “अप्सुयोनिर्वाऽश्वः” इति शत० ब्रा०। जलजत्वमश्वस्य अप्सुजाशब्दे उक्तम्।
अप्सुषद् = त्रि० अप्सु जले कारणत्वेन सीदति सद–क्विप् वेदे षत्वम्। जलस्थे अग्नौ “चन्द्रमग्निं चन्द्ररथं हरिव्रतं वैश्वानरमप्सुषदम्” ऋ० ६, ३, ५।
अप्सुषोम = पु० अप्सु अद्भिः सोम इव पवित्रत्वात् “सुपां सु” पा० व्यत्ययेन सप्तमी अलुक्समा० वेदे षत्वम्। जलपूर्णे चमसः भेदे “अप्सुषोमानाम चमसाश्चात्वालदेशे अद्भिः पूर्णा” इति ता० ब्रा० द्राह्यायणसूत्रम्। “पूर्णपात्रान् समवमृशन्ति यानेकेऽप्सु षोमा इत्याचक्षते” शत० ब्रा०।
अप्सुसंशित = पु० अद्भ्यः संशितः वि० व्य० अलुक्समा० जलनिमित्तभूते विष्णुक्रमेऽन्तरीक्षे “विष्णोः क्रमोऽसि सपत्नमप्सुसंशितो वरुणतेजाः” अथ० १०, ५, ३३,।
***