अपात्त = त्रि० अप + आ + दा–क्त। १ प्राप्ते। “सहोवाच विज्ञायते नास्ति हिरण्यस्यापात्तमिति” वृ० उ०। “अपात्तं प्राप्तमिति” भा०।
अपात्र = न० पात्रंश्राद्धमोजनदानादियोग्यं न० त०। १ विद्यादिहीनेऽनाचारे, २ दानादियोग्यताहीने कुपात्रे, नटादौ च। दानादिपात्रञ्च पात्रशब्दे दर्शयिष्यते। “अदेशकाले यद्दानमपात्रेभ्यश्च दीयते। असत्कृतमवज्ञातं तत्तामसमुदाहृतमिति” गीता “अपात्रेषु च यद्दत्तं तत् सर्वं विफलं भवे दिति” स्मृतिः “अपात्रे पात्रमित्युक्ते कार्य्ये वा धर्म्मसंहिते” इति मिताक्षरायां नारदः।
अपात्रीकरण = न० अपात्रं श्राद्धभोजनाद्ययोग्यं क्रियतेऽनेन। १ निन्दितप्रतिग्रहादिजनिते “निन्दितेभ्यो धनादानं बाणिज्यं शूद्रसेवनम्। अपात्रीकरणंज्ञेयमसत्यस्य च भाषण” मिति मनूक्ते पापभेदे २ तद्धेतुभूते निन्दितधनादानादौ च।
अपाद = त्रि० नास्ति पादोऽस्य अन्त्यलोपः समा०। १ पादशून्ये “अपादपाणिर्जवनोग्रहीतेति” श्रुतिः।
अपादान = न० अपगमाय आदीयतेऽवधित्वेन अप + आ + दाल्युट्। “ध्रुवमपायेऽपादानमिति” १ व्याकरणपरिभाषि कारकभेदे। यथोक्तं हरिणा “अपाये थदुदासीनं चलं वा यदि वाऽचलम्। ध्रुवमेवातदावेशात्तदपादानमुच्यते” पत तोध्रुव एवाश्चो यस्मादश्वात् पततत्यसौ। तस्याप्यश्वस्य प्रतने कुड्यादि ध्रुवमुच्यते। मेषान्तरक्रियापेक्षमवधित्वंपृथक्पृथक्। मेषयोः स्वक्रियापेक्षं कर्तॄत्वञ्च पृथक् पृथक्” इति तच्चापादानं त्रिविधम्। “निर्द्दिष्टविषयं किञ्चिदुपात्तविषयं तथा। अपेक्षितक्रियञ्चेति त्रिधापादानमिष्यते” इति हर्य्युक्तेः। निर्द्दिष्टः श्रूयमाणो विषयो यस्य तत्, स्वापेक्षितश्रूयमाणक्रियमित्यर्थः यथा वृक्षात् पत्रं पततीत्यादौ, अपादानविषयीभूतं पतनं हि तत्रश्रूयमाणम्। द्वितीयम् उपात्तः गृहीतः धात्वन्तरार्थघटकीभूत इति यावत् विषयो यस्येति व्युत्पत्त्या स्वविषयक्रियाघटितश्रूयमाणक्रियान्तरमित्यर्थः यथा मेघात् विद्योतते विद्युदित्यादौ निःसरणपूर्ब्बकविद्योतनार्थविद्योततियोगे मेघादेस्तदेकदेशे निःसरणेऽपादानत्वम्। अपेक्षितक्रियं तृयीयं यया कुतो भवानिति प्रश्नवाक्ये, पाटलिपुत्रादित्युत्तरवाक्ये च कुत इति पाटलिपुत्रादित्यनयोरपेक्षितगत्यादिक्रियापेक्षत्वात् अपेक्षितक्रियापादानत्वम्। “अपादाने पञ्चमीति पा०।
अपान = पु० अपानयति अपसारयति मूत्रादि अप + आ + नीड अपसारयति अधोऽनिति गच्छति वा अप + अन–अच् वा १ मूत्रादेरधो नयनशीले, गुह्यदेशस्थे, “अधोनयनत्यपानस्तु आहारञ्च नृणा पुन” तित्युक्तलक्षणे “मूत्रशुक्रवहोवायुरपान इति कीर्त्त्यते” इत्युक्तलक्षणे च वायौ। “प्राणोऽपानव्यानसमान इत्येतेत् सर्वं प्राण” इति वृ० “अपनयनात् मूत्रपुरीषादेरपानोऽधोवृत्तिर्वावुः नाभिस्थान” इति मा० “अथ योऽस्य प्रत्यङ्शुषिः सोऽपान” इति छा० उ०। “अथ योऽस्य प्रत्यङ्शुषिः पश्चिमदिक्थो वायुविशेवः स मूत्रपुरीषाद्यन्नथोऽनितीत्यपान” इति भा० “यद्वै प्राणिति स प्राणः यदपानिति सोऽपान इति” छा० उ०। “यद्वै पुरुषः प्राणिति मुखनासिकाभ्यां वायुं वहिर्निस्सारयति स प्राणाख्यो वायुर्वायुवृत्तिविशेषः यदपानित्यपश्यमिति ताभ्यामेव मुखनासिकाभ्याम् अन्तराकर्षति वायुः सोऽपानोऽपानाख्या वृत्तिरिति” भा०। पदार्थादर्शे तु पूर्ब्बोक्तैव निरुक्तिर्दर्शिता यथा अपानयत्यपानोऽयमाहारं च मलार्पितम्। “शुक्रं मूत्रं तथोत्सर्गमपानस्तेन मारुतः। इन्द्रगोपप्रभाकाशः सन्ध्याजलदसन्निभः।। स च मेढ्रे च पायौ च ऊरुवङ्क्षण जानुषु। जङ्घोदरे कृकाट्याञ्च नाभिमूले च तिष्ठती” ति योगार्णवः। “प्राणापानान्तरे देवी वाग्वै नित्यं प्रतिष्ठतीति” महा० भा० “प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणा” विति गीता। अप + अन–भावे घञ्। २ अपानक्रियायाम् वहिर्गतायाः ३ प्राणवृत्तेरन्तः प्रवेशने पु० “प्रजाभ्योऽपानायेति” ता० ब्रा०। “अपानः वहिर्गतायाः प्राणवृत्तेरन्तःप्रवेशनमपाननं तेन हि वायुः शरीरे नीयते अपानेन, यतः “प्राणो न पराभवतीति” श्रुत्यन्तरमिति” ता० भा०। आधारे घञ् ४ गुह्यस्थाने पु०।
अपानन = न० अप + अन–भावे ल्युट्। १ अपश्वसने, मुखनासिकाभ्यां वहिर्निस्सारिप्राणवायोस्ताभ्यामेव मार्गाभ्यामन्तराकर्षणे २ सूत्रपुरीषादेरधोनयने च अपानशब्दे ता० ब्रा० उदा०
अपान्तरतमस् = पु० अपगतमान्तरं तमो यस्य। १ वेदार्थप्रकाशके देवसुतभेदे। “अपान्तरतमा नाम जातो देवस्य वै सुतः। कृताश्च तेन वेदार्थास्तेन सत्येन मोक्षयेति” हरिव० २६३ अ०
अपाप = त्रि० नास्ति पापं पापकारणं वा यस्य। १ पापजनकाचारशून्ये” २ निष्पापे च “इयं दाशरथे! सीता सुव्रता ब्रह्मचारिणी। अपापा हि त्वया त्यक्तेति” रामा०।
अपामार्ग = पु० अपमृज्यते व्याधिरनेन मृज्–करणे घञ् कुत्वदीर्घौ। (आपाङ्) इति १ ख्याते वृक्षे! “अपामार्ग! त्वया वयं सर्व्वं तदपमृज्महे” अथ० ४, १८, ७। “अर्पामार्ग ओषधीनां सर्व्वासामेक इद्वशीति” अथ० ४, १७, ९, ७।
अपामार्गक्षारतैल = न० “कर्णनादे कर्णक्ष्वेडे कटुतैलेन पूरणम् नादवाधिर्य्ययोः कुर्य्यात् कर्णशूलोक्तमौ षधम् अपामार्गक्षारजलैः कृतकल्केन साधितम् तिलजमपहरति कर्ण्णनादं बाधिर्य्यञ्जापि पूरणत” इति चक्रदत्तोक्ते १ तैलभेदे।
अपामार्गतैल = न० “क्षयजे क्षुयमासाद्य कर्त्तव्यो वृंहणो विधिः। पाने नस्ये च सार्मः स्याद्वातघ्नैर्मधुरैः शुभम्। कृमिजे व्योषनक्ताह्वशिग्रुवीजैश्च नायनम्। अजामूत्रयुतं नस्यं कृमिजे कृमिजित् परम्। अपामार्गफलव्योषनिशाक्षारकरामठैः। सविडङ्गं शृतं मूत्रे तैलं नस्यं कृमिं जयेदिति” चक्रदतोक्ते १ कृमिघ्नतैलभेदे।
अपाय = पु० अप + इण्–अच्। १ विश्लेषजनकक्रियायाम् “ध्रुवमपायेऽपादानमिति” पा०। “अपाये विश्लेषजनकक्रियायामिति” सि० कौ०। “अपाये यदुदासीनमिति” हरि०। २ नाशे ३ अपगमने च।
अपायिन् = त्रि० अप + इण–णिनि। १ अपाययुक्ते २ वियोगिनि २ नश्वरे च “मात्रास्पर्शास्तु कौन्तेय! शीतोष्णमुखदुःखदाः आगमापायिनोऽनित्यःस्तांस्तितिक्षस्व भारतेति” गीता। “अनप्रायिनि संश्रयद्रुमे गजभग्ना पतनाय वल्लरीति” कु०।
अपार = त्रि० नास्ति पारं यस्य। १ पारशूत्ये २ दुःखेनोत्तार्य्ये ३ दीर्घमर्य्यादे। “महीमपारां सदने सदस्यति” ऋ० ३, ३०, ९ ४ अगाधे “अन्तरपार ऊर्वे अनृतं दहनोः ऋ० ३, १, १४। “अपारे अगाध” इति भा०। ५ दूरपारे “रजसी अपारे ऋ० १, ४२, ४६। “इमे चिदिन्द्र । रोदसी अपारे इति ऋ० ३, ३०५। “अपारे दूरपारे” इति भा०। ६ सीमारहिते “मही अपारे रजसी” ऋ० ९, ६८, ३। “अपारे सोमारहिते” इति भा०। ७ अधिके “अपारो वो महिमा वृद्धशरण” इति ऋ० ५, ८७, ६। “अपारः अधिक” इति भा०। “अपारे पारमिच्छन्तः संसारार्णवरोधसीति” महाभा०। “तदपार, मसंख्येयं वानराणां महद्बलम्” रामा०। ८ अनुत्तार्य्ये “रावणश्च महाशत्रुरपारः प्रतिभाति मे इति” रामा०। तस्याः पारमपारञ्च व्रजन्ति विजयैषिण इति” भा० क० प० १९ अ०। ९ नद्यादेरर्वाक्पारे न०। १० पृथिव्यां स्त्री निरु०।
अपार्ण = न० अप + अर्द्द–क्तनि० न। १ अभ्यर्णे समीपे निरु०। २ समीपवर्त्तिनि त्रि०।
अपार्थ = त्रि० अपगतीऽर्थो यस्य। १ निरर्थके २ व्यर्थे ३ निष्प्रयेजते “सर्व्वमेतदपार्थंते क्षिप्रं तौ संप्रसादयेति” वनप० २१४ अ०। ४ अभिधेयशून्ये, “अपार्थंबहु सङ्कीर्णं भाषते” इति सुश्रुतम्। वा कप्। अपार्थकोऽप्यत्र। अतो यदन्यद्विब्रूयुर्धर्म्मार्यंतदपार्थकमिति” मनुः। तच्च योग्यतासत्त्याकाङ्क्षाशून्यं वाक्यंयथोक्तं गौतमेन “पौर्वापर्य्यायोगादप्रतिबन्धार्थमपार्थकमिति” “पौर्वापर्य्यं कार्य्यकारणभावस्तस्याऽयोगादसम्भवात् शाब्दबोधजनकाकाङ्क्षाज्ञानाद्यसम्भवात् अप्रतिबन्धः असम्बद्धोऽर्थः प्रयोजनं शाब्दबोधरूपं यत्र। तथाचाभिमतबाक्यार्थबोधानुकूलाकाङ्क्षादिशून्यबोधजनकत्वं तत्त्वमिति तदर्थः।
अपाल = त्रि० नास्ति पालः पालको यस्य। १ पालकशून्ये प- श्वादौ। २ ब्रह्मवादिन्यामत्रिसुतायां स्त्री। “अपालामिन्द्र! शिष्यः पूह्यकृणोरिति” ऋ० ८, ९, १७। अपालामेतन्नामिकामत्रिमुतां ब्रह्मवादिनीमिति” भा०।
अपालम्ब = पु० अपकृष्यालम्बते अप + आ–लम्ब घञ्। १ शकटपश्चाद्भागे “ततःपश्चात् परिक्रम्य अपालम्वमभिपद्याहेति” शत० ब्रा० ३, ३, ४, १२, “अपालम्बं शकटस्य पश्चाद्भागमिति” भा०।
अपावर्त्तन = न० अप + आ + वृत–ल्युट्। १ उल्लुण्ठने भूम्यादौ पतित्वा लुण्ठने, २ अपाकरणे च।
अपावृत = त्रि० अप + आ + वृ–क्त। १ अनावृते २ उद्वाटिते ३ अपसारितावरणे च “यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम्। सुखिनः क्षत्रियाः पार्थ! लभन्ते युद्धमीदृशमिति” गीता। “अहो अपावृतं द्वारमापदामयमेष मे” रामा० ४ आवृते, ५ पिहिते स्वतन्त्रे च इति मेदिनिः।
अपावृति = स्त्री अप + आ + वृ–क्तिन्। १ आवरणनिवारणे उद्घाटने २ आवरणापसारणे च। “स ऊ स्वे रेजयत्यपावृतिमिति” ऋ०।
अपावृत्त = त्रि० अप + आ + वृत–क्त। १ अन्तरिते २ परावृत्ते, ३ निवृत्ते च “प्रतिग्रहादपावृत्तः सन्तुष्टो येन केनचिदिति” महा० भा० “कयंद्रक्ष्याम्यपावृत्तां परैरिव हतां चमूमिति” रामा०।
अपावृत्ति = स्त्री अप + आ + वृत–क्तिन्। १ उद्वर्त्तने २ नि वृत्तौ च।
अपाश्रय = पु० अप + आ + श्रि–अच्। १ मध्ये “पर्य्यङ्कस्यापाश्रये” इति काद०। २ अङ्गणावरणे चन्द्रातपादौ हेम० अपगत आश्रयो यस्य। ३ आश्रयविहीने त्रि०।
अपाष्ठ = त्रि० अप + आ + स्था–क अम्बा० षत्वम्। १ अपास्थिते “शल्याद्विषं निरवचं प्राञ्जनादुत पर्ण्णधेः। अपाष्ठाच्छुङ्गादिति” अथ० ४, ६, ५।
अपासङ्ग = पु० अप + आ + सन्ज–घञ् कुत्वम्। १ तूणे इषुधौ।
अपासन = न० अप + अस–ल्युट्। १ मारणे बधे २ अपक्षेपणे, ३ दूरीकरणे च।
अपासित = त्रि०। अप + अस + णिच्–क्त। १ अपसारिते।
अपासृत = त्रि० अप + आ + सृ–क्त। १ दूरीभूते २ पलायिते।
अपास्त = त्रि० अप + अस + क्त। १ क्षिप्ते २ निरस्ते ३ दूरीकृते ४ अपसारिते च “समुच्छ्वलितविभ्रमा गतिरपास्तसंस्था मतिरिति” माल० “निरस्तगाम्भीर्य्यमपास्तपुष्पकमिति” माघः।
अपास्य = अव्य० अप + अस–ल्यप्। १ निरस्येत्यर्थे। “किमित्यपास्याभरुणानि यौवने” इति कुमा०।
अपि = अव्य० न पियति गच्छति। पि गतौ क्विप् न तुक। अशक्यकरणायोद्यमरूपायां, १ शक्त्युत्कर्षमाविष्कर्तुमत्युक्तिरूपायाञ्च सम्भावनायां, २ सन्देहे, ३ निन्दायां, ४ प्रश्ने, ५ समुच्चये, ६ अल्पपदार्थे, ७ कामचारानुज्ञायाम्, ८ अवधारणे, ९ पुनरर्थे च। क्रियायोगेऽस्य उपसर्गसंज्ञा “अपिः पदार्थसम्भावनान्ववसर्गगर्हासमुच्चयेषु इति” पा० उक्तार्थेषु कर्म्मप्रवचनीयसंज्ञा तदर्थेषु न तु उपसर्गत्वम् तेन न षत्वादि तत्र “पदार्थे सर्पिषोऽपि स्यात्। अनुपसर्गत्वान्न षः। सम्भावनायां लिङ् तस्या एव विषयभूते भवने कर्त्तृदौर्लभ्यप्रयुक्तन्दौर्लभ्यं द्योतयन्नपिशब्दः स्यादित्यनेन सम्बध्यते सर्पिष इति षष्ठी तु अपिशब्दबलेन गम्यमानस्य विन्दीरवयवावयविभावसम्बन्धे। इयमेवापिशब्दस्य पदार्थद्योतकता नाम। द्वितीया तु नेह प्रवर्त्तते सर्पिषो विन्दुना योगो न त्वपिनेत्युक्तत्वात्” सि० कौ० सम्भावने अपि स्तुयाद्विष्णुम् सम्भावनं शक्त्युत्कर्षमाविष्कर्तुभत्युक्तिः। अन्ववसर्गः कामचारानुज्ञा अपि स्तुहि। गर्हायाम् धिग्देवदत्तमपि स्तुयाद्वृषलम्। समुच्चये अपि सिञ्च अपि स्तुहि। गणरत्ने तु “सम्भवगर्हाशीर्मृतिभूषाससुच्चयेष्वित्युक्तं तेन तेऽपि अपिशब्दार्थाः तत्र १० सम्भवे योजनमस्ति, गर्हायाम् अपि पापिन्! ११ आशीर्वादे भद्रमपि, १२ मृतौ मरणमपि, १३ भूषायाम् अपि नह्यति हारम्, समुच्चये तदपीत्युदाहृतञ्च। समुच्चये “अप्यप्रसिद्धं यशसे हि पुंसामाते” कुमा०। प्रश्ने “अपि प्रसन्नेन महर्षिणा त्वमिति” रघुः अस्य क्रियायोगभेदे अकारलोपो वा “वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयो” रित्युक्तेः। अपिधानं पिधानं अपिनद्धः पिनद्ध इति “वितत्य शार्ङ्गं कवचं पिनह्येति” भट्टिः।
अपिकक्ष = अव्य० कक्षे विभक्त्यर्थे अव्ययी०। १ कक्षप्रदेशे इत्यर्थे “ग्रीवायां बद्धो अपिकक्ष आसनि” ऋ० ४, ४०, ४।
अपिकक्ष्य = त्रि० अपिकक्षं सन्धानम् यत्। १ कक्षप्रदेशेन संधानभूते प्रवर्ग्यविद्यारूपे रहस्ये। “त्वाष्ट्रं यद्दस्रावरेऽपिकक्ष्ये वाम्” ऋ० १, ११७ २२। “अपिकक्ष्यं छिन्नस्य यज्ञशिरसः कक्षप्रदेशेन संधानभूतं प्रवर्ग्यविद्याख्यं रहस्यमिति” भा०।
अपिकर्ण = न० अपिगतः कर्णम् अत्या० स०। १ समीपे। २ तद्वर्त्तिनि त्रि०। “नु ते अपिकर्ण्ण आघृणे ऋ० ६, ४८, १६, “अपिकर्ण्णे कर्ण्णसमीपगते समीपे स्थितः इति भा०।
अपिगीर्ण = त्रि० अपि + गॄ–क्त। १ कथिते २ वर्ण्णिते ३ स्तुते च।
अपिगृ(ग्रा)ह्य = त्रि० अपि + ग्रह–वेदे–क्यप् लोके ण्यत्। १ प्रतिग्राह्ये।
अपिच = अव्य० द्व०। १ किञ्चेत्यर्थे पदद्वयमिति बहवः।
अपिच्छिल = त्रि० न० त०। १ पिच्छिलविरोधिनि गाढे २ अपङ्किले च। “प्रमेहिणो यदा मूत्रमनाविलमपिच्छिलमिति” निदा०।
अपिज = त्रि० अपि अप्सु जायते जन–ड अलुक्समा० वेदे अप्शब्दस्यैकत्वम्। १ ज्यैष्ठेमासि तस्य जलक्रीडारतिसाधनत्वात्तथात्वम्। “प्रसवाय स्वाहापिजाय स्वाहे ति” यजु० १८, २८। “अप्सु जायते इत्यपिजः जलक्रीडारतत्वाजज्यैष्ठे इति” वेददीपः।
अपित् = स्त्री आप इतोगता यस्याः वेदे न जश्। १ जलरहितायां नद्याम् “अपितः पिन्वतं धिय” ऋ० ७, ८२, ३ “अपितोजलरहिता नदीरिति” भा० “अस्य मदे जरितमिन्द्रोजिन्वदजुवोऽपिन्वदपित” इति तद्धृता श्रुतिः।
अपितु = अव्य० अपि + तु + द्व०। १ यद्यर्थे त्रिका०। २ किन्तु इत्यर्थे भूरिप्रयोगः।
अपित्व = न० अपित्वरतेऽस्मै अपि + त्वर–बा० ड। १ भागे भागिनो हि विभक्तधनाद्यादानाय त्वरन्ते इति तस्य तथात्वम्। “तस्यामपित्वमीषा ते” इति शत० ब्रा०।
अपित्विन् = त्रि० अपित्वं भागोऽस्यास्ति इनि स्त्रियां ङीप्। १ भागवति सभागे। “तस्मिन् देवता अपित्विन्योमन्यन्ते” इति शत० ब्रा०।
अपिधान = न० अपि + धा–ल्युट्। १ आच्छादने। करणे ल्युट्। २ तत्साघने त्रि०। “अमृतापिधानमसि स्वाहेति” भोजनान्त जलपानमन्त्रः “राध्यमानस्यौदनस्य द्यौरपिधानमिति” अथ० ११, ३, १। साधने आच्छादनत्वोपचारात् सामानाधिकरण्यम्। अपेरतो वा लोपे पिधानमप्यत्र “पृथिवी ते पात्रं द्यौः पिधानमिति” श्राद्धमन्त्रः “तस्य तद्द्वारं यदमावास्या चन्द्रमा एवद्वारपिधानः” शत० ब्रा०।
अपिधि = पु० अपिधीयते तृप्तिपर्य्यन्तं दीयते अपि + धा–कि। १ तृप्तिपर्यन्तदत्ते। “प्रिया~ अपिधी~ वनिषीष्ट” ऋ० १, १२७, ७, “अपधीन् तृप्तिपर्य्यन्तं दत्तानिति” भा०।
अपिनद्ध = त्रि० अपि + नह–क्त। १ परिहिते, अतोवालोपे पिनद्धश्च तत्रार्थे।
अपिप्राण = त्रि० अपि + प्र + अन–अच् स्त्रियां गौ० ङीष्। १ सर्व्वदा चेष्टमाने “यजत्रा अपिप्राणी च सदनी च भूया” इति ऋ०। १, १८६, ११। “अपिप्राणी सर्व्वदा चेष्टयित्रीति” भा०।
अपिव्रत = त्रि० अपिः संसर्गेसंसृष्टं व्रतं, कर्म्म, भोजनं वापरय। १ दायाद्येनाविभक्ते २ संसृष्टधने ३ गोत्रजे ४ संसृष्टभोजने च। “अपिव्रताश्चान्वारभन्ते यजमानमिति” का० ८, ६, ३६। “अपिव्रतास्त उच्यन्ते येषां यजमानव्रते अपित्वमस्ति दयाद्येनाविभक्ता इति” पितृभूतिः “अपिव्रता गोत्रजा इति कर्कभा० “अपिः संसर्गेसंसृष्टं व्रतं कर्म्मयेषामिति अपिव्रता अविभक्ता दायादाः तेह्येकेनापि कृष्यादि कर्म्म कृतं सर्व उपजीवन्तीति हरिस्वामी, “व्रतं भोजनं यजमानेन सह प्राप्तभोजनाः बन्धुवर्गाः” इति माधवः।
अपिशर्व्वर = त्रि० अपिः प्रादुर्भावे अव्ययी० बा० अच् समा०। १ शर्व्वरीमुखसमये प्रदोषकाले, “समिद्धमपिशर्वरे” इति ऋ० ३, ९, ७,। “अपिशर्वरे शर्वरीमुखे” इति भा०।
अपिशल = पु० अपिशलते अपि + शल–अच्। १ मुनिभेदे तस्यापत्यम् इञ्। आपिशलिः। शाब्दिकभेदे। “इन्द्रश्चन्द्रः काशकृत्स्नापिशली शाकटायनः। पाणिन्यमरजैनेन्द्राजयन्त्यष्टादिशाब्दिका” क० क० “सुप्यापिशलेः” इति पा०।
अपिहित = त्रि० अपि + धा–क्त। १ आवृते “तुच्छेनाभुरपिहित” इति श्रुतिः। अतोलोपे पिहितोऽप्यत्र “भुजङ्गपिहितद्वारमिति” रघुः।
अपीच्य = त्रि० अपिच्यवते सौन्दर्य्याद्धीयते अपि + च्यु–ड अतोलोप उपसर्गदीर्घः न० त०। १ अतिसुन्दरे “अपीच्यदर्शनं सौम्यं सर्वलोकनमस्कृतमिति” वृह० “अपीच्यवेशं द्विभुजं सौम्याकारं सुदर्शनमिति” यममूर्त्तिलक्षणम्, अपि + अन्च–क्विप् अप्यङ् तत्र साधु यत् अञ्चतेरतोलोपे पूर्ब्ब दीर्घः। २ अन्तर्हिते। “यदाविर्यदपीच्यं देवासो अस्ति दुष्कृतमिति” ऋ० ८, ४७, १३, अपीच्यमन्तर्हितम् भा० ३ गुह्ये “मर्त्तानां मनुष्याणामपीच्यम्” ऋ० ८, ३९, ६, “अपीच्यं गुह्यमिति” भा०।
अपिजू = त्रि० अपि + जव–क्विप्–ऊठ्। १ प्रेरके। “उषसानक्ता जगतामपीजुवा” ऋ० २, ३१, ५। “अपिजुवा प्रेरयित्र्य” इति वेदे उवङ् मा०।
अपीत = त्रि० अपि + इण–क्त। १ विलयप्राप्ते विलीने, “साम्य। तदा सम्पन्नोभवति स्वमपीतो भवति तस्मादेनं स्वपितीत्याचक्षते स्वंह्यपीतोभवतीति” शा० भा० धृता श्रुतिः। भावे क्त। १ विलये २ अपगमने न०। पीतवर्ण्णभिन्ने पु० तद्वति त्रि०। पीतं पानकर्म्म ३ तद्भिन्ने त्रि०।
अपीति = स्त्री अपि + इण–क्तिन्। १ विलये २ अपगमे ३ प्रलये च। “अपीतौतद्वत्प्रसङ्गादसमञ्जमम” शा० सू०। आधारे क्तिन्। ४ संग्रामे। “पुरा यत् सूरस्तमसो अ- पीतेस्तमद्रिवः” इति ऋ० १, १२१, १०। “अपीतेः संग्रामादिति” भा०।
अपीनस = पु० अपीनाय अपीनत्वाय सीयते कल्पते सो कर्म्मकर्त्तरि क। १ पीनसरोगे तद्विवरणं पीनसशब्दे।
अपुंस् = पु० न पुमान् न० त०। १ नपुंसके क्लीवे। “पुमान् पुंसोऽधिके शुक्रे स्त्री भवत्यधिके स्त्रियाः। समेऽपुमान् पुंस्त्रियौ वा क्षीणेऽल्पे च विपर्य्यय इति” मनुः।
अपुंस्का = स्त्री नास्ति पुमान् यस्याः उरःप्रभृतित्वात् कप्। १ पतिशून्यस्त्रियाम्। ‘नापुंस्कासीति मे मतिरिति’ भट्टिः।
अपुच्छा = स्त्री नास्ति पुच्छमग्रं यस्याः। १ शिखरहीने शिंशपावृक्षे। २ पुच्छहीने त्रि०।
अपुण्य = न० न पुण्यं विरोधे न० त०। १ पापे। न० ब०। २ पुण्यशून्ये त्रि०।
अपुण्यकृत् = त्रि० पुण्यं न करोति अपुण्यं पापं वा करोति। ताच्छीन्ये क्विप् १ पुण्याकर्त्तरि २ पापकारिणि च। “क्षत्त्रियश्चैव वृत्तस्थोवैश्यः शूद्रस्तयैव च। यः पिबेत् कपिलाक्षीरं न ततोन्योस्त्यपुण्यकृत्” आप० स्मृतिः।
अपुत्र = पुंस्त्री नास्ति पुत्रोयस्य। १ अजातपुत्रे २ मृतपुत्रे च। “अपुत्रेणैव कर्त्तव्यः पुत्रप्रतिनिधिः सदेति” स्मृतिः “नापुत्रस्य लोकोऽस्ति” श्रुतिः। “अपुत्रा शयनं भर्त्तुः पालयन्ती व्रते स्थितेति” वृहन्मनुः। “अपुत्रस्यैव या कन्या सैवपिण्डप्रदा भवेदिति” स्मृतिः पुत्रपदञ्च पुत्रपौत्रप्रपौत्रपरमिति दायभागादयः वा कप्। अपुत्रकोऽप्युक्तार्थे।
अपुनर् = अव्य० न पुनः न० त०। पुनर्वारभिन्ने सकृदर्थे “अनानुकृत्यमपुनश्चकार” ऋ० १०, ६८, १०।
अपुनरावृत्ति = स्त्री न पुनः आवृत्तिः संसारगतिर्यतः ५ ब०। निर्वाणमुक्तौ “न स पुनरावर्त्तते” इति श्रुतेस्तयात्वम्। ६ ब०। पुनर्गमनशून्ये त्रि०। अर्थाभावे अव्ययी०। पुनरावृत्त्यभावे अव्य०।
अपुनर्भव = पु० न पुनर्भवति संसारं भजतेऽस्मिन् भू–आधारे अप्। १ मोक्षे। करणे अप् न० त०। २ पुनर्भवाभाव हेतौ तत्त्वज्ञाने अभावार्थे न० त०। पुनरुत्पत्त्यभावे पु० ३ प्रशमने निवारणे, “रोगाणामपुनर्भवे। ज्ञानं चतुर्विधं यस्येति” वैद्यकम्। नास्ति पुनर्भवः पुनरुत्पत्तिरस्य ४ पुनर्जन्मशून्ये तत्त्वज्ञानवति मुक्ते।
अपुराण = त्रि० विरोधे न० त०। १ पुराणभिन्ने नवीने।
अपुष्ट = त्रि० पुष–कर्म्मणि क्त न० त०। १ अकृतपोषणे यस्य पुष्टिर्न कृता तस्मिन्।
अपुष्टता = स्त्री अपुष्टस्य भावः तल्। अपुष्टदुष्क्रमग्राम्यव्याहता- श्लीलकष्टता” इत्यादिना सा० द० उक्ते काव्ये प्रकृतार्थापोषणाकारित्वरूपे अर्थदोषभेदे। यथा “विलोक्य वितते व्योम्नि विधुं मुञ्च रुषं प्रिये!” इत्यत्र विततशब्दो मानत्यागं प्रति न किञ्चिदुपकुरुते इति तस्य तत्पोषानुपकारित्वात्तथात्वम् अपुटस्य भावः त्व। अपुष्टत्वमप्यत्र न०। “अपुष्टत्वं मुख्यानुपकारित्वमिति” सा० द०।
अपुष्प = अव्य० पुष्पस्याभावः अव्ययी०। पुष्पाभावे। “तैरपुष्पात् वनस्पति” रित्यमरः अपुष्पादित्यत्र पञ्चम्या नाम्भावः।
अपुष्पफलद = पु० अपुष्पं पुष्पाभावेऽपि फलं ददाति दा–क। १ पुष्पं विना फलदे पनसे तथाभूते उदुम्बरादौ च। उपचारात् २ अहेतुकफलदातरि कर्त्तरि त्रि०।
अपूजा = स्त्री अभावादो न० त०। १ पूजाभावे २ आदराभावे ३ सम्मानाभावे ४ कुत्सितपूजायाम् ५ अविधानेनार्चने च।
अपूजित = त्रि० न० त०। १ पूजितभिन्ने २ अनादृते ३ अवज्ञाते च
अपूत = त्रि० न० त०। १ पवित्रभिन्ने २ अशुचौ “अपूतो वा एषोऽमेव्यो यदश्वः” इति शत० ब्रा० “यश्चापूत इव मन्येत” कात्या० २२, ४, २९। ३ संस्कारहीने व्रात्ये च “एतैरपूतैर्विधिवदापद्यपि च कर्हिचिदिति” मनुः।
अपूप = पु० न पूयते विशीर्य्यति पू–प न० त०। १ गोधूमादिचूर्ण्णपिष्टके १ पुरोडाशे हविर्भेदे “अपूपं देव घृतवन्तमग्ने” ऋ० १०, ४५, ९। “अपूपं पुरोडाशमिति” भा०। “वृथाकृशरसंयावं पायसापूपमेव चेति” मनुः। प्राचुर्य्ये मयट्। अपूपमयं पर्व अपूपमयो यज्ञः। अपूपाय हितम् “विभाषा हविरपूपादिभ्यः” पा० यत्। अपूप्यम् “छ च” पा० अपूपीयं च पिष्टकहिते यवगोधूमचूर्ण्णादौ। तत् पण्यमस्य ठक्। आपूपिकः। अपूपविक्रेतरि त्रि०।
अपूपादि = पु० ६ ब०। पाणिन्युक्ते हितार्थे छयतोः प्रकृति भूते शब्दसमूहे। स च गणः “अपूप तण्डुल, अभ्यूष, अभ्योष, अबोष, अत्येष, पृथुक, ओदन, सूप, पूप, किण्व, प्रदीप, मुसल, कटक, कर्ण्णवेष्टक।
अपूपाष्टका = स्त्री अपूपसाधनाष्टका। पौष्या ऊर्द्ध्वं १ कृष्णाष्टम्यां २ तत्र विहिते श्राद्धे च।
अपूरणी = स्त्री न पूर्य्यते सर्वतः कण्टकावृततया दुरारोहत्वात् पूर–कर्म्मणि ल्युट् ङीप् न० त०। शाल्मलिवृक्षे। करणे ल्युट्। संख्यापूरणसाधनार्थकप्रत्ययमिन्ने च।
अपूर्ण = त्रि० न पूर्ण्णम्। ऊने। “अपृर्ण्णमेकेन शतक्रतूपमः शतं क्रतूनामिति” रघुः। भावे क्त। पूरणाभावे “सारतण्डुलमपूर्ण्णं श्रपयित्वेति” का० ४, १, ५, ७, अपूर्ण्णं यथा शृतेन चरुणा स्थाल्याः पूरणं न भवतीति तथा श्रपयित्वेति” तद्घ्या०।
अपूर्णकाल = त्रि० न पूर्णः कालोयस्य। यस्य यत्काले पूरणं युक्तं तत्कालाप्राप्ते।
अपूर्व्व = त्रि० न पूर्ब्बं दृष्टम्। १ अविदिते २ आश्चर्य्ये “अधनुषि शरजालं मर्मभेदानुकारि त्रितयमिदमपूर्ब्बं दृष्टमन्तःपुरे ते” इति “अपूर्ब्बो दृश्यते वह्निः कामिन्याः स्तनमण्डले। दूरतोदहतीवाङ्गं हृदि लग्नस्तु शीतल” इति च उद्भटः। पूर्ब्बः पूर्ब्बवर्त्ती न० ब०। ३ हेतुशून्ये त्रि०। न० त०। ४ पूर्ब्बकालादिभिन्ने त्रि०। पूर्ब्बशब्दस्य दिग्देशकालवाचित्वे सर्वनामतया ततो नञ्तत्पुरुषेऽपि अस्य सर्वनामता तेन तत्कार्य्यम् अपूर्ब्बे अपूर्बर्स्मै ङिङस्योस्तु वा वृत्तौ पुंवद्भावश्च “कौमारापूर्ब्बवचने” इति पा० ५ परब्रह्मणि पु०। “तदेतद् ब्रह्मापूर्ब्बमनपरमनन्तरमपारमवाह्यमिति” शत० ब्रा०। ६ प्रमाणान्तराप्राप्ते “उपक्रमोपसंहारावभ्यासोऽपूर्ब्बता फलमिति” वेदा० सा० ७ वैधनिषिद्धक्रियाजन्ययोः कालान्तरभाविनोः सुखदुःखयोर्हेतुभूतयोः पुण्यपापयोः न०। अदृष्टसिद्धिवत् अपूर्ब्बसिद्धिरुन्नेया। सा च ११७ पृष्ठे दृश्या। स्वर्गकामोयजेतत्यादौ लिङा हि यागादौ इष्टसाधनत्वं बोध्यते इति नैयायिकाः कार्य्यत्वेनापूर्ब्बं बोध्यते इति प्राभाकरामन्यन्ते। तत्रोभयमतेऽपि, आशुविनाशिनः कालान्तरभाविफलजनकत्वे फलसमयपर्य्यन्तस्थायिव्यापारजनकत्वं प्रयोजकमिति तथा हि अव्यवहितपूर्ब्बस्थायिन एव कारणत्वेन यागस्य कालान्तरभाविस्वर्गस्य च मध्ये व्यापाररूपमपूर्ब्बं प्रकल्प्यते साक्षादसाधनस्य यागस्य स्वर्गसाधनता व्यापारमन्तरेणानुपद्यमाना स्वर्गनिर्वाहकं व्यापारमपूर्ब्बं कल्पयतीति। तच्चापूर्ब्बं किंनिष्ठं कथं वा तस्यैव व्यापारत्वमित्याशङ्क्य शब्दचिन्तामणौ निर्ण्णीतं यथा “तथापि ध्वंस एव व्यापारोऽस्तु तव सहभावनिरूपकस्यापि कारणत्वात् तस्यानन्तत्वेऽपि स्वभावात् सावधेः फलजनकत्वम्। यत्र ध्वंसोहेतुस्तत्र तत्प्रागभावोऽपीति चेत् न दुग्धध्वंसजन्यदध्नि, मिथ्याधीध्वंससाध्यमुक्तौ च व्यभिचारात्। प्रतिबन्धकाभावत्वेन हेतुत्वे, तथाभायाच्च ध्वंसेनानुपपत्तिः कथं तेनैव समाधातव्येति चेन्न ध्वंसे सति तद्व्यापारत्वज्ञानं विनानुपपत्तेस्तद्व्यापारत्वकल्पनया शान्तेरिति मैवं प्रतियोगिध्वंसयोरेकत्राजनकत्वात् न हि नियमतोध्वंसे सति यद्भवति तत्तत्र कारणम् न च संसर्गाभावत्वेन हेतुत्वे तथेति वाच्यं व्यभिचाराभावेन तस्यापि प्रयोजकत्वात्। अथ शब्दाद्यागकारणता, व्यापारं विना तदनुपपत्तेः न च तज्जन्यध्वंसस्य कारणत्वकल्पनमित्युभयमपि जनकम् अन्यत्र तु मानाभावान्न तथेति वाच्यं यागध्वंसस्य यागजन्यस्वर्गं प्रति जनकत्वस्य प्रमाणान्तरविरोधेनार्थापत्त्यकल्पनात्। अस्तु देवताप्रीतिरेव व्यापार इति चेन्न यागस्य देवताप्रीतिहेतुत्वे मानाभावात् गङ्गास्नानादौ देवताविरहेण तदभावात्। न च तत्रापि तत्प्रीतिः, तस्य तत्प्रीतिहेतुत्वे मानाभावात् लाघवेन कर्तृगतव्यापारकल्पनाच्च ननु नायं नियमः, पुत्रगतश्राद्धादिना पितरि, पितॄगतजातेट्या पुत्रे चादृष्टोत्पत्तेश्च अथ तत्रापि कर्त्तर्य्येवादृष्टं, विहितक्रियाया यागस्येव कर्त्तृगतादृष्ट जनकत्वात्। न च मुक्ते पुत्रे तददृष्टनाशात् पितरिस्वर्गःस्यादिति वाच्यम् अदृष्टस्य फलनाश्यतया पितरि स्वर्गाभावेनादृष्टानाशात् स्वपृत्तियागजन्यादृष्टस्य मुक्तिविरोधित्वात् न तु पितृगतमदृष्टं जन्यते मुक्ते पितरि दोषाभावेन योगिनामिव विहितक्रियायाः, पित्रदृष्टजनकचात् तथात्वे च साङ्गमपि श्राद्धादिकं निःफलं स्यादिति तद्विधेरप्रामाण्यापत्ति पुत्रगतादृष्टेन च मुक्तपितरि सुखोत्पत्तौ न विरोधः योगिनामिव सुखोत्पत्तौ दोषस्याहेतुत्वात् अथ पितृसुखं पितृपुण्यजन्यमिति पितरि न पुण्यं तेन विना तदभावात्, न, पुत्रे तत्फलप्रसङ्गात्। पितृस्वर्गकामनाजन्यक्रिया पितृपुण्यहेतुरिति पुत्रक्रियापि तज्जनिकेति चेत् एवं पितृक्रियापितृपुण्यजनिकेति न तं विना पितरि पुण्यं, पुत्रक्रिया च पुत्रपुण्यजनिकेति पुत्रेपुण्यं, पितृस्वर्गकामनाजन्यपुण्यत्वेन पितृस्वर्गहेतुरस्तु तत्पुण्यं पितृवृत्ति तत्सुखहेतुत्वात् न च पुत्रवृत्ति, तत्सुखाहेतुत्वादिति न, तत्पुण्यं न पितृवृत्ति तत्कृत्यजन्यपुण्यत्वात् पुत्रवृत्ति वा तत्कृतिजन्य पुण्यत्वात् तत्कृतपुण्यवत् तस्मात् पितृस्वर्गकामनाजन्य पुण्यस्वेन पितृस्वर्गहेतुतेति पुत्रएव तत्पुण्यमिति, मैवं स्वर्गोपपादकं ह्यपूर्ब्बं स्वर्गाश्रये कल्पते प्रधवोपस्थितिकत्वेन लाघवात् कल्पनायाः साक्षादुपपादकविषयत्वाच्च। न च स्वर्गहेतुकामनाश्रये, स्वर्गकामनाजन्यब्रियाकर्त्तरि वा, विलम्बोपस्थितिकत्वात् गौरवात् परम्परया स्वर्गोपपादकवाच्च वदि च पुत्रकृतपुण्येन मुक्तस्य शरीराद्युत्पत्तिः सुखं वा श्यात्, तदा साक्षिविषयाऽसत्याभिधानादि पुत्रक्रिंयाजन्यपापेन “स विष्ठायां कृमिर्भूत्वा पितृभिः सह पच्येत” इत्यादिबोधितं नरकभागितादि मुक्तस्य पितुः स्यात् तथा च पुत्रकृततथाविधशङ्कया न कश्चिन्मोक्षार्थी व्रह्मचर्य्यादिदुःखेनात्मानमवसादयेत् “दुःखेनात्यन्तविमुक्तश्चरतीति” “न स पुनरावर्त्तत” इति श्रुतिविरोधश्च तथा च मुक्तस्य सुखदुःख शरीरादिकञ्च भवतीत्यपदर्शनम्। मुक्ते च पितरि श्राद्धादिना दोषाभावादेव नादृष्टमुत्पद्यते न चैवं साङ्गश्राद्धस्यापि नित्यफलत्वम् अदृष्टोत्पत्तौ स्वरूपसतो दोषस्याङ्गस्य वैगुण्यात्, यथा विव्नहेतुदुरितशून्ये न कृतं मङ्गलं न पापध्वंसं जनयति स्वरूपसतः पापस्याङ्गस्याभावादिति एवञ्च यागस्यापि व्यधिकरणव्यापारोभविष्यतीति।। उच्यते विहितक्रियया कर्त्तृगतव्यापारद्वारा कालान्तरे फलं जन्यत इत्युत्सर्गः स च बलवता बाधकेनापोद्यते प्रकृते च बाधकं नास्ति यथा शास्त्रदेशितं फलमनुष्ठातरीत्युत्सर्गः सुतकृतगयाश्राद्धस्य पितृस्वर्गं प्रति, पितृकृतजातेदेः पुत्रपूतत्वादिकं प्रति हेतुत्वस्य शास्त्रेण बेधनात् नन्वयंनियमएव पितृयज्ञजानेष्ट्यादौ परम्परासम्बन्धेन कर्त्तृगतमेव फलं, न हि यस्य कस्यापि पितरिपुत्रे वा फलं किन्तु स्वपितृपुत्रयोः तथा च स्वपितृगतत्वं स्वर्गभागि पितृकत्वं परम्परासम्बन्धः फलेन पुत्रस्य, एवं पूतत्वादिकं पितृगतमेव। न च फलस्य कर्त्तृगतत्वं साक्षात्सम्बन्धेनै वेति वाच्यं ग्रामपशुभूमिहिरण्यादीनां परम्परया कर्तृगतत्वमिति व्यभिचारात् न हि ग्रामादयः कर्त्तरि साक्षात्संबद्धाः। एवं फलस्य साक्षात्कर्त्तृगामित्वबोधने शास्त्रस्योत्सर्गो न तु फलस्य कर्त्तृगामिताबोधने यत्तु स्वर्गभागिपितृकत्वं न फलं तत्कामनाया अधिकारिविशेषणत्वाभावात् ‘पितृस्वर्गकाम’ इत्यादि श्रुतेः स्वतश्च तथा कामनया प्रवृत्तौ फलकामनाविरहेण प्रयोगेऽङ्गवैगुण्टात् फलाभावप्रसङ्गः। किञ्च स्वर्गभागिपितृकत्वं विशिष्टं तत्र विशेष्यं तत्पितृकत्वं न काम्यम् न वा फलं, सिद्धत्वात् तदसाध्यत्वाच्च, किन्तु विशेषणं पितृगतः स्वर्ग इति सएव फलमिति” तन्न न हि स्वर्गभागिपितृकत्वं फलम् अपि तु स्वर्गेण समं पुत्रस्य परम्परासम्बन्धरूपं तदुक्तमिति। उच्यते परम्परासम्बन्धेन यदि पुत्रगतत्वं पितृस्वर्गस्य, तदा संयुक्तसमवायेन तत्पुत्रधनस्यापि फलावं स्यात्। सम्बन्थः शास्त्रेण बोध्यत इति चेत् तदा स्वर्गमागिपितृकत्यमपि न तथा, शास्त्रेण बोधितत्वाभावात् ग्रामादिपिशुत्तिरण्यादीनाञ्च सिद्धत्वेन न काम्यत्यं किन्तु तद्विषयकं खत्वं काम्यं फलमपि कार्म्य तदेव, तच्च साक्षात्कर्तृगतमिति कर्त्तगतत्वेन फलस्य साक्षात्सम्बन्धोऽपि नियत एव तत्स्वत्वेन फले कामनात्। तस्मात् यथागममेव शास्त्रदेशितं फलम् अतएव कामनाविषयः स्वगत एव स्वर्गः फलं यागादेः, स्वर्गपूतचादेश्च पितृपुत्रगतत्वेन काम्यत्वमिति श्राद्धजातेष्ट्यादेः पितृपुत्रगतमेव फलम् एवञ्च मातापित्रांदिगतस्वर्गकामनया पुत्रादिना कृतं पुष्करिणीमहादानादिकं पित्रादिस्वर्गजनकमेव कामनाविषयस्वर्गसाधनत्वेन तेषां श्रुतत्वात् न हि स्वगतस्वर्गकामस्य कर्त्तव्यतां पुष्करिण्यादेर्विधिर्बोधयति किन्तु स्वर्गकामस्य स्वर्गः स्वगतः परगतो वेति स्वर्गकामत्वमविशिष्टम्। यजेतेत्यात्मनेपदमपि कर्त्रभिप्रेतक्रियाफलमात्रजनकत्वे। न च स्वर्गकामोयजेतेत्यादौ स्वगतस्वर्गकामनाया अन्तरङ्गत्वादौत्सर्गिकत्वाच्च स्वर्गकामत्वेन स्वगतस्वर्गकाम एवीच्यते। सामान्ये बाधकं विना विशेषपरत्वे मानाभावात्। केचित्तु सम्यग्गृहस्थाश्रमपरिपालनस्य ब्रह्मलोकावाप्तिः फलं श्रूयते इति जातेष्टिपितृयज्ञयोरपि गृहस्थकर्म्मत्वेन तदेव फलमिति फलस्य कर्त्तृगामित्वेनियमएव प्रातिस्विकफलाभिप्रायेणोत्सर्गः इत्याहुः ननु यावन्नित्यपरिपालनस्य तत् फलं न तु काम्यश्राद्धादेः काम्यान्तर्भावे मानाभावात् यावत्काम्यानुष्ठानाशक्तेश्च, यावच्छक्यानुष्ठानस्यापि नान्तर्भावः कामनाविरहादिनाप्यकरणात् यावन्नित्यानुष्ठाने तत्फलाभावप्रसङ्गान्नित्यस्यैवावश्यकत्वेनोपस्थित्यान्वयाच्च। अपि च तैः कर्म्मभिः प्रत्येकमुत्पत्त्यपूर्ब्बंतैश्च परमापूर्ब्बं जन्यत इति” न गौरवा त्मानाभावाच्च कित्त्वन्तिमक्रियया परिपालनरूपक्रियान्तरेण वेति न सर्व्वं कर्म्म ब्रह्मलोकावाप्तिफलकमिति” मैवं भगबदुद्देशेन कृतस्य नित्यस्य यस्य कस्यापि पालनात् ब्रह्मलोकप्राप्तिः फलं श्रूयत इति जातेष्टिपितृयज्ञयोरपि तथा कृतयोस्तदेव फलं तथा च श्रीभगवद्गीता “यज्ञायाचरतः कर्म्म कर्म्मग्रन्थिर्निलीयते यज्ञार्थात् कर्म्मणोऽन्यत्र लोकोऽयं कर्म्मबन्धन” इति तच्च कर्म्म यज्ञार्थतया प्रत्येकमेव तत्फलसमर्थं फलसम्बन्धे, संवलनन्तु मङ्गलवदुपयुज्यते अन्यथैकप्रयोगस्य व्यवधानादसम्भवः। परिपालनन्तु कर्त्तव्यमित्येव करणं तदुक्तं “ददामि देयमित्येव यजे यष्टव्यमित्यहमिति” यत्तु निषिद्धासम्बन्धएव सम्यक्त्वम् न तु विहितसात्रानुष्ठानमिति, तन्न वत्किञ्चिन्निषिद्धासम्बन्धस्याभावात्, सर्वनिषिद्धासम्बन्धस्य सर्वत्र सुलभत्वादिति सम्प्रदायः। अत्र ब्रूमः भगवदुद्देशेन कृतं किञ्चिदेव कर्म्म, सर्वं वा, काम्यं वा सर्वं, नित्यं वा सर्वमिति नाद्यः एकेनैव काम्येन नित्येन वा स्नानेन तथा कृतेन तत्फलसिद्धौ बहुवित्तादिसाध्ये श्राद्धादावप्रवृत्त्यापत्तेः नापरौ अशक्यत्वात् न तुर्य्यः जातेष्ठ्यादेर्नित्यत्वा- भावात् तस्मात् सम्यग्गृहस्थाश्रमपालनस्य न तत्फलं सम्यक्त्वञ्च सामस्त्यमेव अतो न श्राद्धादेः ब्रह्मलोकावाप्तिरिति साधूक्तं शास्त्रदेशितं फलमनुष्ठातरीत्युत्सर्ग इति तच्च फलं क्वचिद्विधिवाक्यश्रुतं क्वविच्चार्थवादिकमिति”। इदन्त्ववधेयं कर्मध्वंसेनापूर्बप्रत्याख्याने “ज्ञानाग्निः सर्वकर्माणीत्यादि शास्त्रबोधितस्य तत्त्वज्ञाननाश्यत्वस्य बाधः ध्वंसस्य नाश्यत्वाभावात् न्यायमते तु कर्मपदेन तज्जन्यापूर्बलक्षणया तेषां क्षयसम्भव इति। अस्य च कार्य्यमात्रं प्रति कारण तेति नैयायिकादयः। कर्मण एव फलमिति मीमांसकाः। ईश्वराधिष्ठितादेव सूक्ष्मवस्थापन्नात् कर्मणः फलमिति वेदान्तिनः तथा हि “फलमत उपपत्तेरिति” शा० सू० भाष्ये “अथोच्येत कर्म्मकार्य्यादपूर्ब्बात् फलमुत्पत्स्यते” इत्याशङ्क्य। तदपि नोपपद्यते अपूर्ब्बस्याचेतनस्य काष्ठलोष्टसमस्य चेतनाप्रवर्त्तितस्य प्रवृत्त्यनुपपत्तेः तदस्तित्वे च प्रमाणाभावात् अर्थापत्तिः प्रमाणमिति चेन्न ईश्वरसिद्धेरर्थापत्तिपरिक्षयादिति” अपूर्ब्बं निराकृत्य। “धर्म्मं जैमिनिरतएवेति” शा० सू०। जैमिनिमतं धर्म्मस्यैव फलहेतुत्वं पूर्ब्बपक्षीकृत्य। “पूर्ब्बन्तु वादरायणो हेतुव्यपदेशादिति” शा० सू० निराकृतम्। व्याख्यातञ्चैतत् भाष्यकृता शङ्कराचार्य्येण। नन्वनुक्षणविनाशिनः कर्म्मणः फलं नोपपद्यते इति परित्यक्तोऽयं पक्षः नैष दोषः श्रुतिप्रामाण्यात् श्रुतिश्चेत् प्रमाणं यथायं कर्म्मफलसम्बन्धः श्रुत एव उपपद्यते तथा कल्पयितव्यः न चानुत्पाद्य किप्यपूर्ब्बं कर्म्म विनश्यत् कालान्तरितं फलं दातुं शक्नोतीति अतः कर्मणो वा काचिदुत्तरावस्था फलस्य वा पूर्ब्बावस्थाऽपूर्ब्बं नामास्तीति च तर्क्यते। उपपद्यते चायमर्थ उक्तेन प्रकारेण ईश्वरस्तु फलं ददातीत्यनुपपन्नम्। अविचित्रस्य कारणस्य विचित्रकार्य्यानुपपत्तेः वैषम्यनिर्घृण्यप्रसङ्गादनुष्ठानवैयर्थ्यापत्तेश्च तथा च धर्मत एव फलमिति “पूर्ब्बपक्षः” वादारायणस्तु आचार्य्यः पूर्ब्बोक्तमेवेश्वरं फलहेतुं मन्यते केवलात् कर्म्मणोऽपूर्ब्बाद्वा केवलात् फलमित्ययंपक्षः तुशब्देन व्यावर्त्त्यते कर्मापेक्षाद्वाऽपूर्ब्बापेक्षाद्वा यथा तथा वा ईश्वरात् फलमिति सिद्धान्तः “हेतुव्यपदेशात्” धर्म्माधर्मयोरपि कारयितृत्वेनेश्वरोहेत्तुर्व्यपदिश्यते फलदातृतया च। “एष ह्येव साधु कर्म कारयति तं यमेभ्य उन्निनीषते एष उ एवासाधु कर्म कारयति तं यमघोनिनीषते” इति स्मर्य्यते चायमर्थो गीतासु। “यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम्। स तया श्रद्धया युक्तस्तस्या राधनमीहते। लभते च ततः कामान् मयैव विहितान् हि तान् इति”। विचित्रकार्य्यानुपपत्त्यादयोऽपि दोषाः कृतप्रयत्नापेक्षत्वादीश्वरस्य न प्रसज्यन्ते” इति। एतेन “नमस्तत् कर्मभ्योविधिरपि न येभ्यः प्रभवतीत्युक्तिस्तु प्रामादिकीत्यवसेयम् एवञ्च ईश्वराधिष्ठितकर्मभ्य एव तत्तत्फलोत्पत्तिरिति सुस्थम्। कर्मणामाशुविनाशिनामपि सूक्ष्मरूपेणैव स्वकारणेऽन्तः करणे सत्त्वात् “क्षीयन्ते चास्य कर्म्माणि” इत्याद्युक्तिः सङ्गच्छते तज्जन्यापूर्ब्बस्वीकारे तु तत्र तज्जन्ये लक्षणेति भेदः। अतएव “ज्ञानाग्निः सर्वकर्म्माणीत्यादौ सूक्ष्मावस्थानां ज्ञानादेव क्षयः, स्थूलावस्थापन्नानान्तु आशुनाशात्” इति वेदान्तिमते युक्तिरूहनीया। “आत्मान्तरगुणानामात्मान्तरेऽकारणत्वादिति” वै० सू० “आत्मान्तरस्य गुणानां पुण्यपापानामात्मान्तरेऽकारणत्वात् स्वर्गफलस्येति शेषः। “शास्त्रदेशितं फलममुष्ठातरीति” जै० सू०। “आत्मान्तरे यौ दुखदुःखगुणौ तयोरकारणत्वात् प्रत्यात्मनिष्ठाभ्यामेव धर्म्माधर्माभ्यां सुखदुःखे, न व्यधिकरणाभ्याम्। अन्यथा येन यागहिंसादिकं न कृतं तस्य तत्फलं स्यादिति कृतहानिरकृताभ्यागमश्च प्रसज्येतेति” एतच्च सामान्यशास्त्रं विशेषणास्त्रेणापोद्यते तेन पितृयज्ञादेः पुत्रपूतत्वादिहेतुत्वमिति” वै० सू० उपस्करः। तच्चापूर्ब्बं त्रिविधं प्रधानापूर्ब्बमङ्गापूर्बं कलिकापूर्बञ्चेति मीमांसकाः। तत्र दर्शपौर्णमासाद्यपूर्बं प्रधानापूर्बं तदेव परमापूर्बं, प्रयाजाद्यङ्गजन्यापूर्बमङ्गापूर्बं, तदवान्तरक्रियाकूटजन्यमपूर्बं कलिकापूर्बं तच्च व्रीहिप्रोक्षणाभ्युक्षणादिजन्य द्रव्यनिष्टमिति मीमांसवाः तज्जन्यसंस्कारविशेष एव कलिकापूर्ब्बतया व्यवहियते स चात्मनिष्ठ इति नैयायिकाः विस्तरस्तु कुसुमाञ्चलौ १ स्ताके दृश्यः। कलिकापूर्बञ्च परमापूर्बं जनयित्वा नश्यति। अङ्गापूर्बैस्तु परमापूर्बे विशेष आधीयते इति भेदः तथा च अङ्गापूर्बसहितं परमापूर्बं विशिष्टफलं जनयति तद्विहीनन्तु स्वल्पं फलम्। अत एव प्रधानकरणे दैवात् शक्याङ्गाकरणे न प्रधानस्य वैफल्यं किन्तु अल्पफलत्वमेवेति सिद्धान्तः। केवलाङ्गापूर्बाणां तु न फल जनकत्वम् प्रधानासिद्धेः फलाभावात्। अतएव “प्रधानस्या क्रिया यत्र साङ्गं तत् क्रियते पुनः। अप्रधानाक्रियायान्तु नावृत्तिर्न च तत्क्रियेति” छन्दोगपरिशिष्टे तथा व्यवस्थापितम्। इदञ्च परमापूर्बं फलनाश्यं तत्त्वज्ञाननाश्यं कर्मनाशाजलस्पर्शादिनाश्यञ्च। “नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभ- मिति” “कर्मणाञ्चैव सर्वेषां भोगादेव क्षयोभवेदिति” च शास्त्रात् “ज्ञानाग्निः सर्वकर्म्माणि भस्मसात् कुरुतेऽर्ज्जुनेति” गीतावाक्याच्च। सर्वकर्मपदेन च प्रारब्धकर्म्मातिरिक्तकर्म्माण्येबोच्यन्ते तेन प्रारब्धकर्मणां भोगादेव क्षय इत्यनुपदं वक्ष्यते। परमापूर्बञ्च नित्यकर्मणि पण्डापूर्बत्वेन मीमांसकैः व्यवह्रियते सन्ध्याबन्धनस्य किञ्चित्फलाजनकत्वात्। अर्थवादोपस्थापितब्रह्मलोकादि प्राप्तिरूपफलजननात् न तत्रापूर्बस्य फलाजनकत्वेन पण्डत्वमिति नैयायिकाः। अत एव चिन्तामणौ यत्रार्थवादिकं फलं न श्रूयते तत्र तत्त्वज्ञामसाधनत्वं गीतादिवाक्येन व्यवस्थापितं तच्च पूर्बं दर्शितम्। “न कलञ्जं भक्षयेदित्यादि निषेधस्यापि पण्डापूर्बजनकत्वमिति मीमांसकाः। तत्रापि प्रत्ययाभावरूपफलाङ्गीकारान्न पण्डत्वमिति तत्त्वज्ञानप्रतिबन्धकाभावत्वेन तस्यापीष्टत्वादिति नैयायिकाः। अपूर्बस्यापूर्बशब्दवाच्यत्वे हेतुर्जैमिनिना दर्शितः। “प्रत्यक्षमनिमित्तं विद्यमानोपलम्भनत्वात्” सूत्रेण व्याख्यातञ्चैतत् अदृष्टशब्दे ११६ पृष्ठे ततश्च पूर्बमविद्यमानत्वात् अपूर्बशब्दवाच्यतेति। वेदान्तिनस्तु कर्म्मणः सूक्ष्मावस्था, फलस्य पूर्ब्बावस्था वाऽपूर्वमिति स्वीचक्रुः तच्चानुपदं दर्शितम्। तत्त्वज्ञानेन कर्मक्षये कश्चिद्विशेषोऽभिधीयते। “तदधिगमे उत्तरपूर्ब्बाघयोरश्लेषविनाशौ तद्व्यपदेशात्” शा० सू० भाष्ये “अथेदानीं ब्रह्मविद्याफलं प्रति चिन्ता प्रजायते ब्रह्माधिगमे सति तद्विपरीतफलं दुरितं क्षीयते न वा क्षीयत इति संशयः किन्तावत् प्राप्तं फलहेतुत्वात् कर्म्मणः फलमदत्त्वा न सम्भाव्यते क्षयः। फलदायिनी ह्यस्य शक्तिः श्रुत्या समधिगता यदि तदन्तरेणैव फलोपभोगमुपमृद्येत, श्रुतिः कदर्थिता स्यात्। स्मरन्ति च “नहि कर्म्म क्षीयत” इति। नन्वेवं सति प्रायश्चित्तोपदेशोनिरर्थकः प्राप्नोति। नैष दोषः प्रायश्चित्तानां नैमित्तिकत्वोपपत्तेर्गृहेष्ट्यादिवत्। अपि च प्रायश्चित्तानां दोषसंयोगेन विधानात् भवेदपि दोषक्षपणार्थता नत्वेवं ब्रह्मविद्यायाविघानमस्ति। नन्वनभ्युपगम्यमाने ब्रह्मविदः कर्म्मक्षये, तत्फलस्यावश्यभोक्तव्यत्वादनिर्म्मोक्षः स्यात्। नेत्युच्यते। देशकालनिमित्तापेक्षोमोक्षः कर्म्मफल वद्भविष्यति। तस्मान्न ब्रह्मविद्याधिगमे दुरितनिवृत्तिरित्येवं प्राप्ते ब्रूमः। तदधिगमे ब्रह्माधिगमे सत्युत्तरपूर्ब्बाघयोरश्लेषविनाशौ भवतः उत्तरस्याश्लेषः पूर्बस्य विनाशः। कस्मात्? तद्व्यपदेशात्। तथा हि ब्रह्मविद्याप्रक्रियायां सम्भाव्यमानसम्बन्धस्यागामिनो दुरितस्यानभिसम्बन्धं विदुषोव्यपदिशति श्रुतौ “यथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवंविदि पापं कर्म्म न श्लिष्यत” इति। तथा विनाशमपि० पूर्ब्बोपचितस्य दुरितस्य व्यपदिशति “तद् यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैवं हास्य सर्बे पाप्मानः प्रदूयन्त” इति। अयमपरः कर्मक्षयव्यपदेशो भवति। “भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः। क्षीयन्ते चास्य कर्म्माणि तस्मिन् दृष्टेपरावरे” इति। यदुक्तमनुपमुक्तफलस्य कर्मणः क्षयकल्पनायां शास्त्रकदर्यनं स्यादिति। नैष दोषः न हि वयं कर्मणः फलदायिनींशक्तिमवजानीमहे विद्यत एव सा, सा तु विद्यादिना कारणान्तरेण प्रतिबध्यत इति वदामः। शक्तिसद्भावमात्रे च शास्त्रं व्याप्रियेत न प्रतिबन्धाभावेऽपि। “न हि कर्म क्षीयत” इत्येतदपि स्मरणमौत्सर्गिकं न भोगादृते कर्म क्षीयते तदर्थत्वादिति इष्यत एव प्रायश्चित्तादिना तस्य क्षयः। “सर्वं पाप्मानन्तरति तरति ब्रह्महत्यां योऽश्वमेधेन यजते य उ वैनमेवं वेदेत्यादिश्रुतिस्मृतिभ्यः। यत्तूक्तं नैमित्तिकानि प्रायश्चित्तानि क्षपयिष्यन्तीति तदसत् दोषसंयोगेन नोद्यमानानामेषां दोषनिह्नुतिफलान्तरकल्पनानुपपत्तेः। यत् पुनरुक्तं न प्रायश्चित्तवद्दोषक्षयोद्देशेन विद्याविधानमस्तेत्यत्र ब्रूमः। सगुणासु तावद्विद्यासु विद्यत एव विधानं तासु च वाक्यशेषे ऐश्वर्य्यप्राप्तिः पापनिवृत्तिश्च विद्यावत उच्यते। तत्राविवक्षाकारणं नास्तीत्यतः पाप्मप्रहाणपूर्बकैश्वर्य्यप्राप्तिस्तासां फलमिति निश्चीयते। निर्गुणायान्तु विद्यायां यद्यपि विधानं नास्ति तथाप्यकर्त्रात्मबोधात् कर्मप्रदाहसिद्धिः। अश्लेष इति चागामिषुकर्मसु कर्त्तृत्वमेव न प्रतिपद्यते ब्रह्मविदिति दर्शयति। अतिक्रान्तेषु तु यद्यपि मिथ्याज्ञानात् कर्तृत्वं प्रतिपेद इव तथापि विद्यासामर्थ्यान्मिथ्याज्ञाननिवृत्तेस्तान्यपि प्रलीयन्त इत्याह विनाश इति। पूर्वप्रसिद्धकर्तृत्वभोक्तृत्वविपरीतं हि त्रिष्वपि कालेष्वकर्तृत्वामोक्तृत्वरूपं ब्रह्माहमस्मि नेतः पूर्बमपि कर्त्ता भोक्ता वाहमासं नेदानीं” नापि भविष्यति काल इति ब्रह्मविदवगच्छति। एवमेव च मोक्ष उपपद्यते अन्यथा ह्यनादिकालप्रवृत्तातां कर्मणां क्षयाभावे मोक्षाभावः स्यात्। न च देशकालनिमित्तापेक्षोमोक्षः कर्मफल वद्भवितुमर्हति अनित्यवप्रसङ्गात् परोक्षत्वानुपपत्तेश्च ज्ञानफलस्य। तस्माद्ब्रह्माधिगमे दुरितक्षय इति स्थितम्।। “इतरस्याप्येवमसंश्लेषः पाते तु” शा० सू०।। “पूर्बस्मिन्नधिकरणे बन्धहेतोरघस्याश्लेषविनाशौ ज्ञाननिमित्तौ शास्त्र- व्यपदेशान्निरूपितौ धर्मस्य पुनः शास्त्रीयत्वाच्छास्त्रीयैण ज्ञानेन विरोध इत्याशङ्क्य तन्निराकरणाय पूर्ब्बाधिकरणन्यायातिदेशः क्रियते। इतरस्यापि पुण्यस्य कर्मण एवमघवद संश्लेषोविनाशश्च ज्ञानवतो भवतः। कुतः? तस्यापि स्वफलहेतुत्वे ज्ञानफलप्रतिबन्धित्वप्रसङ्गात् “उभे उ हैवैष एतेन तरतीत्यादि” श्रुतिषु च दुष्कृतवत् सुकृतस्यापि प्रणाशव्यपदेशात् अकर्त्रात्मबोधनिमित्तस्य कर्मक्षयस्य सुकृत दुष्कृतयीस्तुल्यत्वात्। “क्षीयन्ते चास्य कर्म्माणि इति चाऽ विशेषश्रुतेः। यत्रापि केवलएव पाप्मशब्दः पठ्यते तत्रापि तेनैव पुण्यमप्याकलितमिति द्रष्टव्यं ज्ञानापेक्षयानिकृष्टफलत्वात्। अस्ति च श्रुतौ पुण्येऽपि पाप्मशब्दः “नैनं सेतुमहोरात्रे प्रतते तरत” इत्यत्र सह दुष्कृतेन सुकृतमप्यनुक्रम्य “सर्वे पाप्मानोऽतोनिवर्त्तन्त” इत्यविशेषेणैव प्रततेषु पाप्मशब्दप्रयोगात्। पाते त्विति। तुशब्दोऽवघारणार्थः। एवं धर्म्माधर्म्मयोबन्धहेत्वोर्विद्यासामर्थ्यादश्लेषविनाशसिद्धेरवश्यं भाविनी विदुषः शरीरपाते मुक्तिरित्यवधारयति “अनारव्वकर्य्ये एव तु पूर्बे तदवधेः शा० सू०।। “पूर्बयोरधिकरणयोर्ज्ञाननिमित्तः सुकृतदुष्कृतयोर्विनाशोऽवधारितः स किमविशेषेणारब्धकार्य्ययोश्च भवत्युत विशेषेणानारव्वकार्य्ययोरेवेति विचार्यते तत्र” “उभे उहैवैष एतेन तरतीत्येवमादि” श्रुतिष्वविशेषश्रवणादविशेषेणैव क्षय इत्येवं प्राप्ते प्रत्याह अनारव्वकार्ये एव त्विति। अप्रवृत्तिफले एव पूर्बजन्मान्तरसञ्चिते अस्मिन्नपि च जन्मनि प्राक् च ज्ञानोत्पत्तेः सञ्चिते सुकृतदुष्कृते ज्ञानाधिगमात् क्षीयेते न त्वारब्धकार्ये सामिभुक्तफले, याभ्यामेतद्ब्रह्मज्ञानायतन जन्म निर्म्मितम्। कुत एतत्? “तस्य तावदेव चिरं यावन्न विमोक्षैति शरीरपातावघिकरणात् क्षेमप्राप्तेः। इतरथा हि ज्ञानादशेषकर्मक्षये सति स्थितिहेत्वभावात् ज्ञान प्राप्त्यनन्तरमेव क्षेममश्नुवीत तत्र शरीरपातप्रतीक्षां नाचक्षीत। ननु वस्तुबलेनैवायमकर्त्रात्मबोधः कर्म्माणि क्षपयन् कथं कानिचित् क्षपयेत् कानिचिच्चोपेक्षेत न हि समाने ह्यग्निवीजसम्पर्के केषाञ्चिद्वीजशक्तिः क्षीयते केषाञ्चिन्न क्षीयते इति शक्यमङ्गीकर्त्तुमिति। उच्यते। न तावदनाश्रित्यारब्धकार्यकर्म्माशयं ज्ञानोत्पत्तिरुपपद्यते आश्रिते च तस्मिन् कुलालचक्रवत् प्रवृत्तवेगस्यान्तराले प्रतिबन्धासम्भवाद्भवति वेगक्षयप्रतिपालनम्। अकर्त्रात्मबोधोऽपि हि मिथ्याज्ञानबाधनेन कर्माण्युच्छिनत्ति। बाघितमपि मिथ्याज्ञानं द्विचन्द्रज्ञानवत् संस्कारवशात् कञ्चित् कालमनुवर्त्तत एव। अपि च नैवात्र विवदितव्यं ब्रह्मविदः कञ्चित् कालं शरीरं ध्रियते न ध्रियते वा इति। कथं ह्येकस्य स्वहृदयप्रत्ययं ब्रह्मवेदनं देहधारणञ्चापरेण प्रतिक्षेप्तुं शक्येत? श्रुतिस्मृतिषु च स्थतप्रज्ञलक्षणनिर्द्देशेनैतदेव निरुच्यते। तस्मादनारब्धकर्ययोरेव सुकृतदुष्कृतयोर्विद्यासामर्थ्यात् क्षय” इति भा०।
अपूर्व्वता = स्त्री अपूर्ब्बस्य अन्यतोऽप्राप्तस्य भावः तल्। १ प्रमाणान्तरागम्यत्वे “उपक्रमोपसंहारावभ्यासोऽपूर्ब्बता फलम् अर्थवादोपपत्तिश्च हेतुस्तात्पर्य्यनिर्ण्णये २ इत्युक्ते तात्पर्य्यावधारणहेतुभेदे च यथा छन्दोग्ये “तन्त्वौपनिषदं वेदेति ब्रह्मणो मानान्तरागम्यत्वमुक्तम्।
अपूर्व्वपति = स्त्री न पूर्ब्बः पतिर्य्यस्याः। कुमार्य्याम्। “अपूर्ब्बपतिं कुमारीमिति” सि० कौ०।
अपूर्व्ववाद = पु० अपूर्ब्बमषिकृत्य वादः तत्त्वबुभुत्सोः कथा। गङ्गेशोपाध्यायकृते शब्दचिन्तामण्यन्तर्गते ग्रन्थभेदे।
अपूर्व्वविधि = पु० अपूर्ब्बे प्रमाणान्तरेणाप्राप्ते विधिर्विधानम् वि + धा–कि। अप्राप्तप्रापके लिङादिपदवेदनोये शब्दविशेषे। यथा स्वर्गकामो यजेतेति लिङादियुक्तं वाक्यं प्रमाणान्तरेणाप्राप्तस्य स्वर्गसाधनत्वस्य यागे बोधयत् तथा। अपूर्ब्बविधिरपि चतुर्विधः कर्म्मविधिः गुणविधिः विनियोगविधिः प्रयोगविधिश्चेति। तत्र अग्निहोत्रं जुहोति इत्यादौ यागरूपे कर्मणि इष्टसाधनतायाः, कृतिसाध्यताया, भावनाया वा मतभेदेन बोधनात् कर्म्मविधित्वम्। द्रव्यदेवतादिविघायकविधिर्गुणविधिः। यथा दध्ना जुहोत्यादिवाक्यं प्राप्तस्याग्निहोत्रस्यानुवादेनाप्राप्तगुणरूपद्रव्यादेर्विधानात्। “ऐन्द्र्या गार्हपत्यमुपतिष्ठत इत्यादि ऐन्द्र्या ऋचः गार्हपत्योपस्थाने विनियोजनात् विनियोगविधिः। एवं कृत्वा एवं कुर्य्यादित्यादि प्रयोगज्ञापकोविधिः प्रयोगविधिः,। यथा अधीत्य स्नायादित्यादि “उपसद्भिश्चरित्वा मासमेकमग्निहोत्रं जुहोत्यादि च अयञ्च विशिष्टविधिरिति भेदः।
अपूर्व्व्य = त्रि० न पूर्ब्बमर्हति यत् न० त०। पूर्ब्बानर्हे “त्वं नो वायवेषामपूर्ब्यः सोमानामिति” ऋ० १, १३४, ६।
अपृक्त = त्रि० पृच–क्त न० त०। १ असंबद्धे “अपृक्त एकाल् इति पाणि न्युक्ते वर्णान्तरायुक्ते २ एकवर्ण्णे “वेरपृक्तस्य पा०
अपृथक् = अव्य० न पृथक्। सहयोगे फूर्बापरयोरेकादेशरूपे सम्भूयभवने पृथक्साहित्यमपृथक्साहित्यञ्चेति साहित्यं द्विविधमिति वृद्धाः।
अपेक्षणीय = त्रि० अप + ईक्ष–कर्म्मणि अनीयर्। १ अनुरोद्धव्ये अपेक्षाकर्मणि २ प्रतिपाल्ये च “आत्मा यत्नेन रक्ष्योरणशिरसि पुनः सोऽपि नापेक्षणीय” इति नीति०।
अपेक्षा = स्त्री अप + ईक्ष–भावे अ। १ आकाङ्क्षायां, सा च शाब्दबोधजनिका “यत्पदेन विना यस्यानुभावकता भवेदित्युक्ता तत्पदे पदवत्त्वरूपा। अपेक्षायाञ्च प्रायशोवृत्तिर्नेष्यते “सापेक्षे प्रत्ययो न स्यात् समासो वा कथञ्चन। सापेक्षं तद्विजानीयादसमस्तविशेषणम्” यथा प्रवीर पुत्रकाम्यति ऋद्धस्य राजमातङ्ग इत्यादौ प्रत्ययसमासौ न स्तः। “सापेक्षत्वेऽपि गमकत्वात् समास” इति भाष्योक्तेः देवदत्तस्य गुरुकुलसमित्यादौ समासः इति भेदः। १ प्रयोजकावे तच्च ज्ञाने स्थितौ उत्पत्तौ वा इतरस्यानुरोधित्वम् ज्ञानादिकार्य्ये च यस्य यत्पदार्थान्तरज्ञानाद्यनुरोधः तस्य तदपेक्षा। अतएव तर्कग्रन्थे जगदीशेन “स्वापेक्षापादकः प्रसङ्ग आत्माश्रयः अपेक्षा च ज्ञप्तावुत्पत्तौ स्थितौ च ग्राह्येत्यभिधाय एतद्घटज्ञानं यद्येतद्घटज्ञानजन्यं स्यादेतद्घटज्ञानभिन्नं स्यादिति ज्ञप्तौ। घटोऽयं यद्येतद्घटजनकः स्यात् एतद्घटभिन्नः स्यादिति उत्पत्तौ, अयं घटः यद्येतद्घटवृत्तिः स्यात् तथात्वेनोपलभ्येतेति स्थितौ च” स्वापेक्षापेक्षितत्वे उदाहृतम्। अनतिदूरे च “अपेक्षा चात्र साक्षात्परम्परासाधारणी ग्राह्ये” त्युक्तम्। तेन साक्षात् परम्परया वा स्वज्ञानादिप्रयोजकतैवापेक्षेति निष्कर्षः। स्वग्रहसापेक्ष ग्रहसापेक्षग्रहकत्वमन्योन्याश्रयलक्षणम्। ३ अनुरोधे “सत्यामपि तपःसिद्धौ नियमापेक्षया मुनिः” रघुः। ४ स्पृहायाञ्च “समुगोढेषु कामेषु निरपेक्षः परिव्रजेदिति” “अध्यात्मरतिरासीत निरपेक्षोनिरामिष इति” च मनुः। “मिरपेक्षः विगतस्पृह इति” कुल्लूकभट्टः।
अपेक्षाबुद्धि = स्त्री अयमेकः अयमेक इत्याकारिकायाम् अनेकैकत्वविषयिण्यां “अनेकैकत्वबुद्धिर्य्या साऽपेक्षाबुद्धिरिष्यते भाषा० परिभाषितायाम् बुद्धौ।
अपेक्षाबुद्धिज = त्रि० अपेक्षाबुद्धितो जायते जन–ड ५ त०। न्यायोक्ते द्वित्वादिपरार्द्धान्ते संख्याभेदे। “द्वित्वादयः परार्द्धान्ता अपेक्षाबुद्धिजा मताः अनेकाश्रयपर्य्याप्ता एते तु परिकीर्त्तिताः अपेक्षाबुद्धिनाशाच्च नाशस्तेषां प्रकीर्त्तित” इति भाषा०। अत्रायमभिसन्धिः। यद्यपि द्वित्वादि समवायः प्रत्येकं घटादावस्ति तथापि एकोद्वाविति ज्ञानाभावात् एको न द्वावितिज्ञानाच्च द्वित्वादीनां पर्य्याप्तिस्वरूपः कश्चित् संबन्धोऽनेकाश्रयोऽङ्गीक्रियते पर्य्याप्तिसंबन्धेन च प्रत्येकं घटादौ न द्वित्वादि। तादृशसम्बन्धश्च अपेक्षाबुद्धिसापेक्षस्तेन तत्सत्त्वे तथा ज्ञानं, तदसत्वे न तथाज्ञानम्। तत्र प्रथमम् अयमेकः अयमेक इत्याकारिका अपेक्षाबुद्धिस्ततोद्वित्वोत्पत्तिः ततो द्वित्वद्वित्वत्वनिर्विकल्पकं ततोद्वित्वप्रत्यक्षम्। अपेक्षाबुद्धिनाशाच्च ततोद्वित्वनाशः इति। यद्यपि योग्यविभुविशेषगुणानां स्वोत्तरवर्त्तिगुणनाश्यत्वेन ज्ञानमात्रस्य द्विक्षणस्थायित्वं तथापि अगत्या अपेक्षाबुद्धेस्त्रिक्ष्णस्थायित्वं स्वीक्रियते अन्यथा निर्विकल्पककाले अपेक्षाबुद्धिनाशे द्वित्वस्य नाशः प्रसज्येत न तु द्वित्वप्रत्यक्षं तदानीं विषयाभावात् विषयस्य प्रत्यक्षं प्रति कार्य्यकालवृत्तितयैव कारणत्वोपशमात् तथा च द्वित्वप्रत्यक्षमेवापेक्षाबुद्धिनाशकं नान्यदिति कल्प्यते। कालान्तरे द्वित्वप्रत्यक्षाभावाच्च अपेक्षाबुद्धिनाशात् द्वित्वादिनाशैति कल्प्यतैति सि० मु०।
अपेक्षित = त्रि० अप + ईक्ष–कर्म्मणि क्त। १ अपेक्षाविषय भूते २ आकाङ्क्षिते च। “अपेक्षितक्रियञ्चेति त्रिधाऽपादानमिष्यत” इति हरिः।
अपेक्षिन् = त्रि० अप + ईक्ष–णिनि स्त्रियां ङीप्। अपेक्षावति स्वकार्य्यजननादौ इतरप्रयोजकतानुरोधिनि च।
अपेक्ष्य = त्रि० अप + ईक्ष–कर्म्मणि ण्यत्। १ अपेक्षणीये। भावे ल्यप्। अनुरुध्येत्यर्थे अव्य० “किमपेक्ष्य फलं पयोधरान् ध्वनतः प्रार्थयते मृगाधिप” इति किरा०।
अपेत = त्रि० अ + इण–कर्त्तरि क्त। १ अपगते अपसृते। “यं प्रव्रजन्तमनुपेतमपेतकृत्यमिति” भाग० ३ पलायिते च।
अपेतरासक्षी = स्त्री अपेतः राक्षस इव पातकं यस्याः गौ० ङीष्। तुलस्याम् राजनि०। तस्याः राक्षमतल्यपापादिहरणात्तथात्वम्। “दूर्ब्बा दहति पापानि धात्री हरति पातकम्। हरितकी हरेद्रोगं तुलसी हरते त्रयम्” आ० त० स्कान्दोक्तेस्तस्याः पापादिहारित्वम्।
अपेय = त्रि० पा अर्हाद्यर्थे यत् न० त०। १ स्मृतौ निपिद्धपाने मद्यादौ “मद्यमदेयमपेयमनिग्राह्यमिति” ति० त० उश० एवमन्यानि अपेयानि स्मृतौ प्रसिद्धानि यथा “वर्ज्यं सलवणं क्षीरं यच्च विश्रथितं पयः। अनिर्द्दशायागोः क्षीरं पीत्वा चान्द्रायणं चरेदिति” आ० त० स्मृतिः। “अपः सुराभाजनस्था मद्यभाण्डे स्थितास्तथा पञ्चरात्रंपिवेत् पीत्वा शङ्खपुष्पीघृतं पय” इति मनुः। “शुनोच्छिष्टाः स्थिता ह्यापो यदि कश्चित् द्विजः पिबेत् शङ्खपुष्पीविपक्वेन त्र्यहं क्षीरेण वर्त्तयेदिति” यमः। “स्त्रियोच्छिष्टाः स्थिता आपो यदि कश्चित् पिबेद्द्विजः। शङ्खपुष्पीत्यादि० शङ्खः “शूद्रोच्छिष्टा स्थिताह्यापो यदि कश्चित् पिबेत् द्विजः। कुशमूलविपक्केन त्र्यहं क्षीरेण वर्त्तयेदिति हारीतः “शुना संस्पृष्ट भाण्डे तु रेतोमूत्रविदूषिते। जलक्षीरादिकं पीत्वा तप्तकृच्छ्रं समाचरेत्” लघुबौ०। “चण्डालकूपभाण्डेषु यस्त्वज्ञानाज्जलं पिबेत् प्रायश्चित्तं कथं तत्र वर्ण्णे वर्ण्णे विधीयते। चरेत् सान्तपनं विप्रः प्राजापत्यन्तु भूमिपः। तदर्द्धं तु चरेद्वैश्यः पादं शूद्रस्य निर्द्दिशेत्” आप०। “चण्डालपरिगृहीतं योह्यज्ञानाज्जलं पिवेत्। तस्य शुद्ध्विं विजानीयात् प्राजापत्येन नित्यश” इति आप०। “यस्तु चण्डालसंस्पृष्टं पिबेत् किञ्चिदकामतः स तु सान्तपनं कृच्छ्रं चरेच्छुद्ध्यर्थमात्मनः” अङ्गिराः। “किञ्चिदिति जलक्षीरादिकमिति” प्रा० बि०। आममांसादौ न दोषः। “आमं मांसं घृतं क्षौद्रं स्नेहाश्च फलसम्भवाः। म्लेच्छभाण्डस्थिता दुष्टानिष्क्रान्ताः शुचयः स्मृताः” यमः “अन्त्यजैः खानिताः कूपास्तडानि तथैव च। एषु स्नात्वा च पीत्वा च पञ्चगव्येन शुध्यति” आप०। जलान्तरालाभे तु तदप्यापदि पातुं शक्यते “अन्त्यजैः खानिते कूपे सेतौ वाप्यादिके तथा तत्र स्नात्वा च पीत्वा च प्रायश्चित्तं न विद्यते इति वृद्धशाता०। “इदमत्यन्तापद्विषयमिति” प्रा० वि०। “भाण्डस्थिता अभोज्यानामपः पीत्वा पयोदधि। ब्राह्मणो क्षत्रियो वैश्यः शूद्रश्चैवोपसर्पति ब्रह्मकूर्चोपवासश्च याज्यवर्ण्णस्य निषकृतिः” परा०। उपसर्पति उपसर्पेत् पायश्चित्तमिति शेषः तदेवाह ब्रह्मकूर्चोपेति। “यदि विप्रः प्रमादेन शूद्रतोयं पिबेत् स्वयम्। उपोव्य विल्वपद्मानां पलाशस्य कुशस्य च। एतेषामुदकं पीत्वा तेन शुद्धिमवाप्नुयात्” शाता०। अत्रापवादः। “नवभाण्डेषु पानीयं विट्शूद्रक्षत्रजन्मनाम्। पेयं तदाहुर्विप्राणां पयोदधि तथैव च” जावा०। “घृतं तैलं पयःक्षीरं तथैवेक्षुरसो गुडः। शूद्रभाण्डस्थितं तक्रं तथा मधु न दुष्यति” शाता०। घृतादीनामाकरभाण्डस्थितानां न दोषः” शङ्खः। “पीतावशेषितं पीत्वा पानीयं ब्राह्मणः क्वचित्। त्रिरात्रं तु व्रतं कुर्य्याद्वामहस्तेन वा पुनः” शङ्खः। “वामेन केबलेनेति” प्रा० वि०। “प्रपामरण्ये घटके च कूपे द्रोण्यां जलं कोषगतास्तथापः। ऋतेऽपि शूद्रात्तदपेयमाहुरापद्गतो भूमिगताः पिबेत्ता” इति यमः। प्रपाजलं, कूपजलाहरण घटस्थजलं द्रोणी सेकपात्रविशेषः तज्जलं, खड्गादि कोषगतं जलञ्च शूद्रासम्बन्धेऽप्यपेयम् “आपदि तु तदेव जलं भूमिगतं कृत्वा ततः पात्रान्तरेणोद्धृत्य पेयमिति” प्रा० वि०। एतद्विषये एव। द्रोण्यामायसयुक्तायां छन्ने प्रावर्त्तके तथा। ग्रामप्रपाजलञ्चैव पीत्वापत्सु न दुष्यतीति लघुहारीतः। तदपि भूमिगतं कृत्वैव पेयं पूर्बवचनैकवाक्यत्वात्। “प्रावर्त्तके सेचके छन्ने अज्ञाते” प्रा० वि०। “कूपे विन्मूत्रसंसृष्टे पीत्वा तोयं द्विजोतमः। त्रिरात्रेण विशुध्येत” अङ्गिराः। “जलाशये तथान्येषुस्थावरेषुमहीतले। कूपवत् कथिता शुद्धिः महत्सु च न दूषणमिति” विष्णुः। “महत्खप्यशुचिशङ्कया तीर्थसमीपतोयग्रहणवर्ज्जनमिति” प्रा० वि०। यथोक्तं देवलेन। “तत्राक्षोभ्यतडागानि नदीर्वापीः सरांसि च कस्मलाशुचियुक्तानि तीर्थतः परिवर्जयेदिति”। “मृतपञ्चनखात् कूपादत्यन्तोपहताच्चोदकं पीत्वा ब्राह्मणस्त्रिरात्रमुपवसेदित्यादि” विष्णुः “अत्यन्तोपहतात् अमेध्यादिनेति” प्रा० वि०। “यस्तु कूपात् पिबेत् तोयं ब्राह्मणः शवदूषितात् उपवासत्रयं कृत्वेत्यादि” लघुहा०। “क्लिन्नो भिन्नः शवश्चैव कूपस्थो यदि दृश्यते। पयः पीत्वा त्रिरात्रेण इत्यादि” देवलः। “पीतशेषं पिबेत् विप्रैर्विप्रः स्यादन्यथा पशुरिति भवि० पु०। “श्लेष्मोपानहविन्मूत्रं स्त्रीरजो मद्यमेव च। एभिः संदूषिते कूपे तोयं पीत्वा कथं विधिः। एकं द्व्यहं त्र्यहञ्चैव द्विजातीनां विशोधनमिति” अत्रिः। अत्रापवादमाह स एव “गोदोहने चर्म्मपुटे च तोयं यन्त्राकरे कारुकशिल्पिहस्ते। स्त्रीबालवृद्धाचरितानि यान्यप्रत्यक्षदृष्टानि शुचीनि तानि। प्राकाररोधे विषमप्रदेशे सेवानिवेशे भवनस्य दाहे। आरब्धयज्ञेषु महोत्सवेषु तथैव दोषा न विकल्पनीयाः। शुचि गोतृप्तिकृत्तोयं प्रकृतिस्थं महीगतम्। चर्म्मभाण्डैस्तु धाराभिस्तथा यन्त्रोद्धृतं जलमिति”। प्रागुक्तवचनजातैः चर्म्मभाण्डस्थितयन्त्रोद्ध्वतयोरपेयत्वेन निषेधे प्राप्ते चर्मभाण्डैरुद्धृतं थन्त्रोद्धृतञ्च सन्ततधारयोद्धृतञ्च एतत्त्रयं यदि महीगतं गोतृप्तिकरं प्रकृतिस्थमविकृतं च तदा शुचीत्यनेन प्रतिप्रसूतम् महत्सु च न दुष्यतीत्यनेन महत्त्वस्यापेक्षाकृतत्वेन अव्यावर्त्तकतया गोतृप्तिकरत्वेन विशेषणात् तथाभूतं महत्त्वमेव प्रकृते विवक्षितम्। तदपि जलान्तराभावे शुद्धमित्यवधेयं प्रागुक्तवचने आपद्गतस्यैव भूमिगतं कृत्वा तत उद्धृत्य पानविधानेन तदेकवाक्यत्वात् तथैवेह ज्ञेयम्। एतच्च स्वभावतः पेयजलस्यैव–चर्म्मभाण्डादिस्थितिरूपदोषप्रतिप्रसवार्थम् न तु अपेयम्लेच्छादिखानिततोयस्यापि पेयताविधानार्थं तथात्वे वाक्यभेदापत्तेः न च हिरण्योदकस्पर्शस्य अन्नस्येव सामान्यशास्त्रनिषिद्धापेयजलस्य शुद्ध्यर्थतापरं स्वभावतः पेयस्यैव चर्म्मभाण्डादिगतत्वेन दोषपरिहारर्थतापरतयैव सर्व्वसामञ्जस्ये विधिद्वयकल्पनायाः अन्याय्यत्वात् एतेन इदानीन्तनम्लेच्छराजखानितस्थजलस्य यन्त्रोद्धृतत्वेन शुद्धताकीर्त्तनं साहसमेव तस्य म्लेच्छखानितजलत्वेन स्वभावतोऽपेयत्वात् जलान्तरस्य गङ्गाजलस्य च सन्निकृष्टत्वादापद्विषयत्वाभावात् प्रकृतिस्थविशेषणाच्च तस्य संस्कारविशेषेण विकारविशेषवत्त्वादेतद्वचनस्यापि तत्राप्रवृत्तेश्च। किञ्च “विचित्सा तु हृदये यस्मिन्नन्ने प्रजायते सहृल्लेखन्तु विज्ञेयं पुरीषन्तत् स्वभावतः” इति ब्रह्मपुराणेन अमेध्यस्पर्शवत्त्वेन शङ्कितान्नादेर्भोजननिषेधात् म्लेच्छामेध्यादिस्पर्शवत्त्वेन शङ्कि तस्यास्य जलादेरप्यपेयतेति गम्यते। शशिसूर्य्यकिरणास्पृष्टतया च तस्य व्यापन्नजलतया बैद्यकोक्तदोषाधायकत्वेनापिऽपेयता। “अपि चण्डालभाण्डस्थं तज्जलं पावनं महत्” इत्युक्तेस्तत्रत्यखाते गङ्गाजलानामेवाहृतत्वात्तस्य स्वभावतः शुद्धतेति तु न शङ्क्य “सर्वत्र पावनी गङ्गा त्रिषु स्थानेषु दुष्यति म्लेच्छस्पर्शे सुराभाण्डे मेघादिजलमिश्रणे” इति वचनात् तस्य मेघादिजलसम्पर्कशङ्कायाम्लेच्छादिस्पर्शस्य प्रत्यक्षदर्शनाच्च स्वभावतः शुद्धत्वाभावात्। धारायां प्रतिप्रसवमाह बैधायनः “अदुष्टा सन्तता धारा वातोद्धूताश्च रेणवः। आकराः शुचयः सर्वे वर्ज्जयित्वा सुराकरमिति “काले नवोदकं शुद्धं न पातव्यन्तु तत्र्यहम्। अकाले तु दशाहं स्यात् पीत्वा नाद्यादहर्निशमिति” आ० त० स्मृतिः। “स्नानमाचमनं दानं देवतापितृतर्पणम्। शूद्रोदकैर्नकुर्वीत तथा मेघाद्विनिःसृतैः”। आचमननिषेधात् पानादेः सुतरां निषेधः। “यव्यद्वयं श्रावणादि सर्व्वा नद्यो रजस्वलाः। तासु स्नानादिकं वर्ज्यं वर्ज्जयित्वा सुरापगाम् इति” छन्दो० प०। “यैः कृतः सर्वमक्ष्योऽग्निस्त्वपेयश्च महोदधिरिति” मनुः यैः विप्रैः “अन्यथा हि कृरुश्रेष्ठ। देवयोनिरपांपतिः। कुशाग्रेणापि कौन्तेय नस्पष्टव्योमहोदधिरिति भा० ब० प० स्पर्शनिषेधात् पाननिषेधः। “अनिर्द्दशाया गोः क्षीरमौष्ट्रमै शफं तथा। आविकं सन्धिनीक्षीरं विवत्सायाश्च गोः पयः। आरण्यानाञ्च सर्व्वेषां मृगाणां महिषं विना। स्त्रीक्षीरञ्चैव वर्ज्यानि सर्व्वशुक्तानि चैव हि” मनुः। “गोः क्षीरमनिर्द्दशायाः सूतके अजामहीष्योश्च नित्यमपेयमौष्ट्रमैकशफञ्च स्यन्दिनीनाञ्च याश्च वत्सव्यपेताः” अङ्गि०। “वर्ज्जयेद्गोरवत्सायाः पयश्चैवान्यवत्सया। आरण्यानाञ्च सर्व्वेषां वर्ज्जयित्वा तु माहिषमिति” यमः। “सर्वासां द्विस्तनीनां क्षीरं वर्ज्यमजावर्ज्जमिति” शङ्खः “गोजामहिषीबर्ज्जं सर्वपयांसि यान्यनिर्दशाहं तान्यपि सन्धिनीस्यन्दिनीविवत्सायमसूक्षोरं चामेध्यभुजश्च” विष्णुः। पीत्वोपवसेदित्यनुवृत्तिः। सन्धिनी वृषभाक्रान्ता स्यन्दिनी नित्यं प्रस्रवत्पयःस्तना। अमेध्यभुजः मद्यादिभक्षणशोलायाः। यमसूर्वत्सयुग्मं प्रसूता “हस्तवत्या निन्दितं रासभञ्च पयो वर्ज्जयेदिति” हारीतः। तत्राजाक्षीरं दशाहादर्वाक् निषिद्धम् ऊर्द्ध्वं तत् पेयं सर्ववचनसामञ्चस्यात् “गोघ्रातं शकनोच्छिष्टं षदास्पृष्टञ्च कामतः। सन्धिन्यनिर्द्दशावत्सगोपयः परिवर्ज्जयेत् याज्ञ०। “क्षीराणि यान्यभक्ष्याणि तद्विकाराशने पुनः सप्तरात्रं व्रतं कुर्य्यादित्यादि” या०। “उष्ट्रीक्षीरमानुषीक्षीरपाने पुनरुपनयनं तप्तकृच्छ्रञ्चेत्यादि” शाता०। “उद्धतस्नेहविलयनपिन्याकमथितप्रभृतीनि चात्तवीर्य्याणि नाश्नीयात्” गौत०। उद्धतस्नेहं, क्षीरादि विलयनं घृतमलं पिन्याकः खलिः मथितं तक्रादि आंत्तवीर्य्याणि गृहीतसाराणि।। आत्तवीर्य्यपदञ्चात्यन्तोद्धृतस्नेहपरं मथितपदं च उदकप्रायतक्रपरञ्च। “क्षत्रियश्चैव वृत्तस्थो वैश्यः शूद्रोऽथ वा पुनः। यः पिबेत् कपिलाक्षीरं न ततोऽन्योऽस्त्यपुण्यकृत्” आप०। “कापिलं यः पिबेच्छूद्रो नरकेण विपच्यते” स्मृतिः। सुश्रुते तु धातुदोषविशेषजनकतयाकानिचिदपेयान्युक्तानि तानि प्रायशः सामान्यतोऽपेयशब्दे २२६, २७, पृष्ठे उक्तानि। तत्र विशेषः कश्चित् प्रदर्श्यते “वर्षाजले गाङ्गेयत्वसामुद्रत्वपरीक्षणमुक्त्वा “वर्ण्णान्यत्वे सिक्यक्लेदे च सामुद्रमिति विद्यात्तन्नोपादेयमित्युक्तम् कीटमूत्रपुरीषाण्डशवकोथप्रदूषितम्। तृणपर्ण्णोत्कख्युतं कलुषं विपसं युतम् योऽवगाहेत वर्षासु पिबेद्वापि नवं जलम्। स वाह्याभ्यन्तरान् रोगान् प्राप्नुयात् क्षिप्रमेव तु तत्र यत् सैवालपद्मतृणपङ्कप्रमृतिभिरवच्छन्नं शशिसूर्य्यकिरणैर्नाभिजुष्टं गन्धवर्ण्णरसोपमृष्टञ्च तद्व्यापन्नमिति विद्यात्। तस्य स्पर्शरूपरसगन्धवीर्य्यविपाकाः दोषाः षट् सम्भवन्ति। व्यापन्नं वर्ज्जयेन्नित्यं तोयं यदप्यनार्त्तवम्। दोषसञ्जननं ह्येतन्नाददीताहितन्तु तत्। “व्यापन्नं सलिलं यस्तु पिबतीहाप्रसाधितम्। श्वयथु पाण्डुरोगञ्च त्वग्दोषमविपाकताम्। श्वासकासप्रतिश्यायशूलगुल्मोदराणि च। अन्यान् वा विषमान् रोगान् प्राप्नुयात् क्षिप्रमेव चेति” नदीविशेषजलस्य दोषकीर्त्तनेनापेयता च तत्रोक्ता “पूर्ब्बाभिमुखास्तु न” प्रशस्यन्ते गुरूदकत्वादिति। सह्यप्रभवाः कुष्ठं जनयन्ति, विन्ध्यप्रभवाः कुष्ठ पाण्डुरोगञ्च, मलयप्रभवाः कृमीन्, महेन्द्रप्रभवाः श्लीपदोदराणि, हिमवत्प्र- भवाः हृद्रोगश्वयथुशिरोरोगश्लीपदगलगण्डान्, प्राच्यावन्त्याः अपरावन्त्याश्चाशांस्युपजनयन्ति, इति “सामुद्रमुदकं विस्रं लवणं सर्व्वदोषकृदिति। अनेकदोषमानूपं वार्य्युभिष्यन्दि गर्हितमिति” च। रोगभेदे शीतलजलस्यापेयताप्युक्ता, “पार्श्वशूले प्रतिश्याये, वातरोगे गलग्रहे, आध्माते स्तिमिते कोष्ठे सद्यः शुद्धे नवज्वरे। हिक्कायां स्नेहपीते च शीताम्बु परिवर्ज्जयेदिति”। तक्रस्यापेयता रोगभेदे तत्रोक्ता “तक्रं नैव क्षते दद्यान्नोष्णकाले न दुर्बले। न मूर्च्छाभ्रमदाहेषु न रोगे रक्तपैत्तिके। शीतकालेऽग्निमान्द्ये च कफोत्थेष्वामयेषु चेति”। द्रव्यान्तरसंयोगादपेयता अपथ्यशब्दे २२६, २७, पृष्ठे दर्शिता। विशेषस्त्वेषः। “उष्णोदकानुपानन्तु स्नेहानामथ शस्यते, ऋतेभल्लातकस्नेहात् स्नेहात्तौवरकात्तथेति” रोगभेदेऽनुपाननिषेधेन तत्र जलादीनामपेयता भङ्ग्या तत्रैव दशिता। अनुपानगुणमभिधाय “न प्रिबेच्छ्वासकासार्त्तो रोगे चाप्यूर्द्ध्वजत्रुगे। क्षतोरस्कः प्रसेकी च यस्य चोपहतः स्वरः। पीत्वाऽध्वभाष्याध्ययनगेयस्वप्नान्न शीलयेत्। प्रदुष्यामाशयं तद्धि तस्य कण्ठोरसि स्थितः। मन्दाग्निसादछर्द्द्यादीनामयान् जनयेत् बहूनिति” सुश्रुते।।
अपेशल = त्रि० विरोधे न० त०। पेशलत्वविरोधिमान्द्ययुक्ते अदक्षे
अपेहिकटा = स्त्री अपेहि अपगच्छ कट! इत्युच्यते यस्यां क्रियायाम् मयू० स०। कटसम्बोधनकापगतिनिदेशक्रियाविशेषे। एवं मयू० समासे। अपेहिद्वितीया, अपेहिप्रथमा, अपेहिबाणिजा अपेहिस्वागता एतेऽपि शब्दाः तत्तत्सम्बोधनकागमनक्रियानिदेशे।
***