अपरा = स्त्री अपसृत्य राति गृह्णाति जन्म यस्याः रा–अपादाने बा० ड। जरायौ ततोऽपयानादेव गर्भान्निस्मरणाज्जन्मेति तस्यास्तथात्वम्। अधिकमपरशब्दे दृश्यम्।

अपराग = पु० अप + रन्ज–घञ् नलोपकुत्वे। अननुरागे विरागे “अनुरागापरागौ च प्रचारं मण्डलस्य चेति” मनुः।

अपराग्नि = पु० द्विव० कर्म्म०। गार्हपत्यदक्षिणाग्न्योः, “अन्तरेणापराग्नी गत्वा दक्षिणेनेति” कात्या० ४, १३, १२, “अपराग्नी गार्हपत्यदक्षिणाग्नी” इति तद्व्या०। अन्तिमाग्नौ अन्त्येष्टिकर्म्माङ्गवह्नौ पु० एकव०

अपराङ्ग = न० अपरस्य रसादेरङ्गम्। गुणीभूतव्यङ्ग्ये काव्यभेदे। “अगूढमपरस्याङ्गमिति” काव्य० प्र०। अपरस्य रसादेः वाक्यार्थीभूतस्य वा वाच्यस्याङ्गम् यथा “अयं स रशनोत्कर्षी पीनस्तनविमर्द्दनः। नाभ्यूरुजघनस्पशीं नीवीविस्रंसनः कर इति”। अत्र शृङ्गारस्य करुणाङ्गत्वात्तथात्वम् वाच्याङ्गव्यङ्ग्यं तत्र दृश्यम्।

अपराङ्मुख = त्रि० न पराङ्मुखः न० त०। अनिवृत्ते कर्त्तव्यकर्म्मणोऽसोढतया ततोनिवृत्तिरहिते” स्त्रियां ङीप्।

अपराच् = त्रि० न पराञ्चति परावर्त्तते परा + अञ्च–क्विन् न० त०। अनिवृत्ते परावृत्तभिन्ने स्त्रियां ङीप्।

अपराजित = पु० परा + जि–क्त न० त०। शिवे, विष्णौ, तयोः केनाप्यपराजितत्वात्तथात्वम् ऋषिभेदे च। पराजितभिन्ने त्रि०। दूर्वायां, शेफालिकायां, जयन्तीवृक्षे, असनवृक्षे, शङ्क्षिनीवृक्षे, हपुषावृक्षे असनपर्ण्याम्, ऐशान्यां दिशि “अपराजितां वास्थाय व्रजेद्दिशमजिह्मग” इति मनुः “अपाजितामैशानीं दिशमिति” कुल्लू०। चतुवृशाक्षरपादके “ननरसलगैः स्वरैरपराजितेति” वृ० र० उके छन्दोभेदे, दुर्गायां देव्यां “अपर्ण्णा चापराजितेति” दुर्गास्तोत्रम् “नास्ति पराजितं शत्रोः पराजयो यस्याः ५ त०। विजयदशम्याम् पूजनेन अपराजयदातृदुर्गामूर्त्तिभेदे। सा च आश्विनशुक्लदशम्यां श्रवणयुतायामपराह्णे सन्ध्यायां वा पूज्या यथा हेमाद्रौ व्रतखण्डे “आश्विनशुक्लपक्षमुपक्रम्य” “दशम्यां च नरैः सम्यक् पूजनीयाऽपराजिता। क्षेमार्थं विजयार्थञ्च पूर्ब्बोक्तविधिना नरैः। नवमीशेषयुक्तायां दशम्यामपराजिता। ददाति विजयं देवी पूजिता जयवर्द्धिनी” स्कान्दम्। “आश्विने शुक्लपक्षे तु दशम्यां पूजयेन्नरः। एकादश्यां न कुर्व्वीत पूजनञ्चापराजितमिति” निर्ण्णयसिन्धौ स्कान्दम्। “उदये दशमी किञ्चित् संपूर्ण्णैकादशी यदि, श्रवणर्क्षं यदा काले सा तिथिर्विजयाभिधेति” हेमाद्रौ काश्यपः। “कालेऽपराह्णे” इति निर्ण्णयसिन्धुः। तस्याश्च अपराह्णपूज्यता हेमाद्रौ दर्शिता ततएव तदगवन्तव्यम्। “नाधयोव्याधयस्तस्य भवन्ति न पराजयः श्रियं पुण्यमवाप्नोति विजयञ्च सदा भुवीति” तत्पूजायाः फलत्वेन अपराजयस्योक्तेस्तस्यास्तथात्वम्। तत्पूजाङ्गदशम्या अपि अपराजयहेतुत्वात् विजयहेतुत्वाच्च अपराजितेति विजयेति च नाम अतएव “पूजनञ्चापराजित” मित्युकमपराजितामधिकृत्यकृतत्वात् पूजनस्यापराजितत्वम् तत्र पूजनप्रकारस्तु हेमाद्रौ व्रतखण्डे अपराजितदशमोप्रकरणे दृश्यः। योगिनीभेदे तत्स्वरूपं ध्यानशब्दे नक्ष्यते। अःविष्णः पराजितः तुल्यवर्णतया यया। विष्णुक्रान्तायां स्वनामख्यातायां लतायां च स्त्री। अधिकं विजयदशम्यां वक्ष्यते।

अपराद्ध = त्रि० अप + राध–कर्त्तरि क्त। अपराधिनि, स्वोचितकार्य्याकारके, स्खलिते च “निमित्तादपराद्धेषोर्धानुष्कस्येव वल्गितमिति” माघः भावे क्त। अंपराधे।

अपराद्धपृषत्क = पु० अपराद्धो लक्ष्यात् च्युतः पृषत्को वाणो यस्य। लक्ष्याग्राहिसायके धानुष्के।

अपराद्धृ = त्रि० अप + राध–तृच्। अपराधकर्त्तरि स्वोचितकार्य्याकारके स्त्रियां ङीप्।

अपराध = पु० अप + राध–घञ्। स्वोचितकर्म्माकरणे आगसि “कमपराधलवं मम पश्यसीति” सा० द०। दण्डयोग्यकर्म्मकरणे। “यथाऽपराधदण्डनामिति” रघुः। देवविषये अपराधश्च शास्त्रविध्युल्लङ्घनेन, निषिद्धसेवनेन च जातदुरितविशेषः। तत्र निगमे द्वात्रिंशद् अपराधा दर्शिता यथा “यानैर्व्वा पादुकैर्व्वापि गमनं भगवद्गृहे। देवोत्सवाद्यसेवा च अप्रणामस्तदग्रतः।। उच्छिष्टे वाथवाऽशौचे भगवद्दर्शनादिकम्। एकहस्तप्रणामश्च पुरस्तादप्रदक्षिणम्।। पादप्रसारणं चाग्रे तथा पर्य्यङ्कबन्धनम्। शयनं भक्षणं वापि मिथ्याभाषणमेव च।। उच्चैर्भाषा मिथोजल्पो रोदनानि च विग्रहः। निग्रहानुग्रहौ चैव नृषु च क्रूरभाषणम्।। कम्बलावरणं चैव परनिन्दा परस्तुतिः। अश्लीलभाषणं चैव अधोवायुविमोक्षणम्।। शक्तौ गौणोपचारश्च अनिवेदितभक्षणम्। तत्तत्कालोद्भवानाञ्च फलादीनामनर्पणम्।। विनियुक्तावशिष्टस्य प्रदानं व्यञ्जनादिके। पृष्ठीकृत्यासनं चैव परेषामभिवादनम्।। गुरौ मौनं निजस्तोत्रं देवतानिन्दनं तथा। अपराघास्तथा विष्णोर्द्वात्रिंशत् परिकीर्त्तिताः इति”।। आह्निकतत्त्वे तु वाराहमूलका अन्यविधा द्वात्रिंशत् दर्शिता यथा। “भगवद्भक्तानां क्षत्रियसिद्धान्नभोजनम् १ अनिषिद्धदिने दन्तधावनमकृत्वा विष्णोरुपसर्पणम् २ मैथुनं कृत्वाऽस्नात्वा विष्णोरुपसर्पणम् ३ मृतं नरं स्पृष्ट्वाऽस्नात्वा विष्णुकर्म्मकरणम् ४ रजस्वलां स्पृष्ट्वा विष्णुगृहप्रवेशनम् ५ मानवं शवं स्पृष्ट्वाऽस्नात्वा विष्णुसन्निधाववस्थानम् ६ विष्णुं स्थृशतः पायुवायुप्रयोगः ७ विष्णोःकर्म्म कुर्वतः पुरीषत्यागः ८ विष्णुशास्त्रमनादृत्य शास्त्रान्तरप्रशंसा ९ अतिमलिनं वासः परिधाय विष्णुकर्म्माचरणम् १० अविधानेनाचम्य विष्णोरुपसर्पणम्। ११ विष्णोरपराधं कृत्वा विष्णोरुपसर्पणम् १२ क्रुद्धस्य विष्णु- स्पर्शनम् १३ निषिद्धपुष्पेण विष्ण्वर्च्चनम् १४ रक्तं वासः परिधाय विष्णोरुपसर्पणम् १५ अन्धकारे दीपेन विना विष्णोः स्पर्शनम् १६ कृष्णवस्त्रं परिधाय विष्णोः कर्म्माचरणम् १७ वायसोद्धूतवासः परिधाय विष्णोः कर्म्माचरणम् १८ विष्णवे कुक्कुरोच्छिष्टदानम् १९ वराहमांस भुक्त्वा विष्णोरुपसर्पणम् २० हसजालपादसरा रिमांसं भुक्त्वा विष्णोरुपसर्पणम् २१ दीपं स्पृष्ट्वा हस्तमप्रक्षाल्य विष्णोःस्पर्शनं कर्म्मकरणं वा २२ श्मशानं गत्वाऽस्नात्वा विष्णूपसर्पणम् २३ पिन्याकं भुक्त्वा विष्णोरुपसर्पणम् २४ विष्णवे वराहमांसनिवेदमम् २५ मद्यमाघ्राय पीत्वा स्पृष्ट्वा वा विष्णुगृहप्रवेशनम् २६ परकीयेणाशुचिना वस्त्रेण परिहितेन विष्णुकर्म्माचरणम् २७ विष्णवे नवान्नमप्रदाय तद्भोजनम् २८ गन्धपुष्पे अप्रदाय धूपदीपदानम् २९ उपानहावारुह्य विष्णुस्थानप्रवेशनम् ३० भेरिशब्देन विना विष्णुपबोधनम् ३१ अजीर्ण्णे सति विष्णु स्पर्शनम् ३२ इति” एतदुपलक्षणम् “अपराधसहस्राणि, अपराधशतानि चेति” मन्त्रलिङ्गात् “अहन्यहनि योमर्त्त्यो गीताध्यायन्तु संपठेत्। द्वात्रिंशदपराधैस्तु अहन्यहनि मुच्यते” इति नरसिंहपुरा०।

अपराधय = त्रि० अपराधं याति या–ड। अपराधप्राप्ते। ब्राह्म० भावे कर्म्मणि च ष्यञ् आपराधय्यं तस्य भावे तत्कर्म्मणि च न०।

अपराधिन् = त्रि० अप + राध–णिनि। कृतागसि अपराधकारके, स्त्रियां ङीप्।

अपरान्त = पु० “अपरस्याः पश्चिमायाः अन्तः सीमाभूतोदेशः। देशभेदेऽस्य पश्चिमदिशः सीमाभूतत्वात्तथात्वम् स च देशः कतम इति तावन्निर्णीयते “तस्यानीकैर्विसर्पद्भिरपरान्तजयोद्यतैः रामास्त्रोत्सारितोऽप्यासीत् सह्यलग्न इवार्ण्णव इति” रघुः। तेनास्य सह्यपर्व्वत सन्निकृष्टत्वम्। “अवकाशं किलोदन्वान् रामायाभ्यर्थितो ददौ। अपरान्तमहीपालव्याजेन रघवे करमिति” रघुः तेनार्ण्णवसन्निकृष्टत्वं च प्रतीयते। तत्रैव देशे रघो “त्रिकूटमेव तत्रोच्चं जयस्तम्भं चकार स” इति त्रिकूट पर्वतवर्ण्णनात् त्रिकूटयुक्तत्वञ्च तस्य प्रतीयते। “पारसीकांस्ततोजेतुमित्यनन्तरोक्तेश्च पारसीकदेशात् पूर्ब्बत्वं प्रतीयते पारसीकदेशश्च पाश्चात्त्यः “संग्रामस्तुमुलस्तस्य पाश्चात्त्यैरश्वसाधनैरिति” तेषां पाश्चात्त्यत्वस्य तत्रैव वर्ण्णनात्। वृहत्संहितायाञ्च “नव भारतवर्षे मध्यात् प्रागादिविभाजितादेशा” इत्युपक्रम्य “अपरस्यां मणिमान् मेघवान् वनौघः क्षुरार्पणोऽस्तगिरिः। अपरान्तशान्तिकहैहयप्रशस्ताद्रिकोङ्कणा” इत्यादिना मध्यस्थानात्तस्य पश्चिमदिक्स्थत्वमुक्तम् तत्र च मुरला नाम नदी। “मुरलामारुतोद्धूतमिति” रधौ तत्र तस्या वर्ण्णनात् तदवान्तरदेशः केरलः। “भयोत्सृष्टविभूषाणां तत्र केरलयोषितामिति” रघौ तथा वर्ण्णनात्। जनपदवाचित्वात् तद्धिताणोलुकि तद्देशभवे तद्राजनि च ब० व०। “उन्मूर्द्धानः सन्निपत्यापरान्तैरिति” माघः।

अपरार्क = पु० स्मृतिसंग्रहभेदे।

अपरार्द्ध = पु० न परार्द्धम्। परार्द्धभिन्ने। अपरमर्द्धमिति वाक्ये तु अपरस्य पश्चादेशे पश्चार्द्धमित्येव।

अपरावर्त्तिन् = त्रि० न परावर्त्तते परा + वृत–णिनि न० त०। अपराङ्मुखे कार्य्यसमाप्तिमकृत्वाऽनिवर्त्तिनि स्त्रियां ङीप्।

अपराह्ण = पु० अपरमह्न एक० त० टच् अह्नादेशः। दिनशेषभागे स च द्विधा विभक्तस्य, त्रिधा विभक्तस्य च दिनस्थ शेषमागः। “पृर्ब्बंदिनं मनुष्याणामपराह्णः पितॄणामिति” श्रुतौ द्विधा विभजनात् “पूर्ब्बाह्णोवै देवानां मध्यन्दिनं मनुष्याणामपराह्णः पितॄणामिति श्रुतौ त्रिधा विभजनाच्च तयोस्तेषु वा शेषस्य तथात्वम्। तथा च द्विधा विभक्तस्य दिनस्य शेषार्द्धम्, त्रिधा विभक्तस्य तृतीयार्द्धं च अपराह्णः। “ययास्तं सविता याति पितरस्तामुपासते। तिथिं तेभ्योऽपराह्णो हि स्वयं दत्तः स्वयंभुवेति” स्मृतिः। “तथा श्राद्धस्य पूर्ब्बाह्णादपराह्णो विशिष्यते” मनुः। पञ्चधा विभक्तस्य तु चतुर्थभागे च तस्य च कर्म्मयोग्येतरापेक्षयाऽपरत्वात् तथात्वम्। अन्तिमत्रिमुहूर्त्तस्य तु राक्षसवेलात्वेन कर्म्मानर्हत्वात् कर्म्मयोग्यशेषभागत्वाभावान्नापराह्णत्वम्। तथा च “प्रातःकालोमुहूर्त्तां स्त्रीन् सङ्गवस्तावदेव तु। मध्याह्नस्त्रिमुहूर्त्तःस्यादपराह्णस्ततस्तथा। सायाह्नस्त्रिमुहूर्त्तः स्यात् श्राद्धं तत्र न कारयेत्। राक्षसी नाम सा वेला गर्हिता सर्वकर्म्मस्विति” त्रित्रिमुहूर्त्तात्मकतया पञ्चधा विभक्तदिनस्य चतुर्थे भागे कर्म्मार्हापराह्णत्वेन परिभाषणात्तथात्वम्। लौकिके तु मध्याह्नात्परतः, सूर्य्यास्तात् प्राक्कालोऽपराह्णत्वेन व्यवह्रियते इति” भेदः। ततः भवार्थे वा वुन् अपराह्णकः तद्भवे त्रि०। पक्षे तदर्थे ठञापराह्णिकः। तद्भवे त्रि०। श्राद्धे चैवापराह्णिक” इति स्मृतिः। स्त्रियां ङीप्। “पार्वणे पितृकृत्ये च तिथिर्ग्राह्यापराह्णिकीति” स्मृतिः।

अपराह्णतन = त्रि० अपराह्णे भवः ट्युल् तुट् च। अपराह्ण- भवे त्रि० स्त्रियां ङीप्। “घकालेत्यादिना” पा० सप्तस्या वा अलुकि अपराहणेतनोऽप्युक्तार्थेत्रि०।

अपरिकलित = त्रि० न परिकलितः न० त०। अज्ञाते, अदृष्टे, अश्रुते च।

अपरिक्रम = त्रि० नास्ति परिक्रमः उद्योगोयस्य। अनुद्युक्ते। “जानन्नपि च किं कुर्य्यादशक्तश्चापरिक्रम इति” स्मृतिः। परितः क्रमः क्रमणम् अभावार्थे न० त०। परितः क्रमणाभावे पु०। परिगतः क्रमम् न० त०। क्रमापरिगते अपरपाटीके त्रि०।

अपरिक्लिष्ट = त्रि० क्लिश भावे क्त न परिक्लिष्टं क्लेशोयत्र। अनायाससाध्ये। कर्त्तरि क्त न० त०। क्लेशयुक्तभिन्ने त्रि०।

अपरिगत = त्रि० न० त०। ज्ञातभिन्ने, अप्राप्ते च।

अपरिगृहीत = त्रि० न० त०। अस्वीकृते, अगृहीते, अज्ञाते च

अपरिग्रह = पु० अभावे न० त०। परिग्रहाभावे, पातञ्जलोक्ते यमभेदे च यथा “अहिंसासत्यास्तेयब्रह्मचर्य्यापरिग्रहा यमाः” “सू० तत्रापरिग्रही नाम देहयात्रानिर्वाहकातिरिक्तभोगसाधनधनाद्यनङ्गीकारः। तस्य फलमपि तत्रैव दर्शितम् यथा “अपरिग्रहस्थैर्य्ये जन्मकथन्तासंबोघः” अपरिग्रहशीलस्य तत्स्थैर्य्ये सति किंरूपं जन्म किंप्रकारकं, किंहेतुकं, किंफलकम्, किमवसानमिति शरीरस्यापि परिग्रहविरोधिनी जिज्ञासा भवति शरीरस्यापि परिग्राह्यत्वाविशेषात्कथं तत्परिग्रहो न स्यादिति जिज्ञासावश्यम्भावात्। ततः कार्य्यकरणसंबन्धात् पुरुषस्याज्ञस्य जन्म देवनरतिर्य्यकत्वप्रकारम्। क्लेशकर्म्महेतुकं, दुःखैकफलकम्, पुरुषतत्त्वावसानमित्याचार्य्यादागमतश्च निश्चित्य अदेहः सन्नपरिग्रहयमस्य परमां काष्ठामनुभवतीत्यर्थः” इति तद्वृ०। “लोभस्य पुरतः केऽमी? सत्यास्तेयापरिग्रहा” इति प्र० च०। नास्ति देहयात्रानिर्व्वाहकव्यतिरिक्तस्य परिग्रहः संग्रहो यस्य। परिव्राजके “निराशीरपरिग्रह” इति गीता। तस्य च कौपीनादिपरिग्रहणेऽपि तस्य शरीरयात्रानिर्वाहकत्वान्न क्षतिः “कौपीनाच्छादनार्थं हि वासोवै बिभृयाद्यतिः। योगसम्भारभेदांश्च गृह्णीयात् पादुके तथेति” स्मृतौ तत्परिग्रहविधानात्।

अपरिचित = त्रि० परि + चि–क्त न० त०। अनुशीलितभिन्ने, पूर्ब्बमज्ञाते च।

अपरिच्छद = त्रि० न परिच्छदोयस्य अप्राशस्त्ये न० ब०। अपकृष्टवस्त्राद्युपकरणयुक्ते दरिद्रे।

अपरिच्छन्न = त्रि० परिच्छन्नः परिष्कृतः न० त०। अपरिप्कृते, मार्ज्जनशुद्ध्यादिरहिते।

अपरिच्छिन्न = न० न परिच्छिन्नः। इयत्तारहिते निःसी- मनि कूटस्थे चैतन्यात्मके ब्रह्मणि “तदेतद्ब्रह्मापूर्ब्बमनपरमनन्तमिति वृ० उ० श्रुत्या तस्यान्तराहित्योक्तेस्तथात्वम् इयत्तारहितमात्रे त्रि० “जगत्यपर्य्याप्तेत्यादि” माघव्याख्यायामपर्य्याप्तः अपरिच्छन्न” इति मल्लि०।

अपरिच्छेद = पु० अभावार्थे न०! परिच्छेदाभावे इयत्ताभावे। न० ब०। इयत्ताशून्ये त्रि०।

अपरिज्ञान = न० अभावे न० त०। तत्त्वविवकाभावे। न० ब०। तच्छून्ये त्रि०।

अपरिणत = त्रि० परि + नम–क्त न० त०। अपरिपक्वे। यस्य यथा परिणाम उचितस्तथात्वमप्राप्ते अन्यरूपतामप्राप्ते च।

अपरिणय = पु० परिणयो विवाहः अभावे न० त०। विवाहाभावे।

अपरिणीत = त्रि० परि + नी–क्त न० त०। विवाहसंस्कारहीने कौमारावस्थायुक्ते।

अपरितोष = पु० अभावे न० त०। सन्तोषाभावे।

अपरिपक्व = त्रि० न० त०। परिपक्वभिन्ने यस्य यथा परिणतिरुचिता तथारूपतामप्राप्ते, “यथा अपरिपक्वयोगीति”। विक्लित्तिप्राप्तिशून्ये आमे तण्डुलफलादौ च।

अपरिमाण = न० अभावे न० त०। परिमाणाभावे इयत्ताराहित्ये न० ब०। तच्छून्ये त्रि०।

अपरिमित = त्रि० न० त०। इयत्ताशून्ये परिमाणशून्ये।

अपरिमेय = त्रि० परिमातुं योग्यः न० त०। परिमातुमयोग्ये इयत्तारहिते।

अपरिम्लान = पु० न परिम्लायति कर्त्तरि क्त। रक्तवर्ण्णे (आयला) ख्याते महासहावृक्षे रा० नि०। तस्य बहुमर्द्दनेऽपि म्लानिराहित्यात् तथात्वम्। म्लानिवर्जिते त्रि०।

अपरिविष्ट = त्रि० परि + विष–कर्म्मणिक्त न० त०। वेष्टनशून्ये अव्याप्ते। “ऊर्ज्जयन्त्या अपरिविष्टमास्यमिति” ऋ० २, १३, ८। अपरिविष्टं मलादिभिरव्याप्तमिति” भा०। विष्टमाहारार्थमुपहृतं न० त०। परिवेषनशून्ये भोंजपरिनार्थमनुपढौकिते त्रि०।

अपरिवृत = त्रि० न परिवृतः। अनाच्छादिते। परितोवेष्टनरहिते अनावृते क्षेत्रादौ “तत्रापरिवृतं शस्यं विहिंस्युः पशवोयदीति” मनुः क्षेत्राद्यावरणप्रकारोऽपि तेन दर्शितः “वृतिं तत्र प्रकुर्व्वीत यामुष्ट्रोनावलोकयेत् छिद्रञ्च वारयेत् र्सवं श्वशूकरमुखानुगमिति” तेन तादृशच्छिद्रहीनवरणशून्येऽपि अपरिवृतत्वम् असंस्पृष्टे च “महोभिरपरीवृतो वसति प्रचेताः” ऋ० २, १०, ३, अपरीवृतोऽसंस्पृष्टः इति भा० वेदेदीर्घः।

अपरिशेष = पु० अभावे न० त०। परिशेषाभावे इयत्ताराहित्ये। न० ब०। इयत्ताशून्ये त्रि०।

अपरिष्कार = पु० अभावे न० त०। मार्ज्जनादिशोधनसंस्काराभावे। न० ब०। तच्छून्ये त्रि०।

अपरिष्टि = स्त्री अप + वैपरीत्ये रिष–हिंसायाम् क्तिन्। पूजायाम् हेम०। पूजायाश्च हिंसाहेतुकद्वेषशून्यत्वात् तथात्वम्।

अपरिसमाप्ति = स्त्री अभावे न० त०। इयत्ताभावे समाप्त्यभावे च। न० ब०। तच्छून्ये त्रि०।

अपरिसर = पु० अभावे न० त०। विस्ताराभावे प्रचाराभावे च न० ब०। तच्छून्ये त्रि०।

अपरिहरणीय = त्रि० न परिहर्त्तुं शक्यते हृ–शक्याद्यर्थे कर्म्मणि अनीयर्। परिहर्त्तुमशक्ये, परिहर्त्तुमयोग्ये च।

अपरिहार्य्य = त्रि० न परिहर्त्तुमर्हति शक्यते वा हृ–ण्यत्। परिहर्त्तुमयोग्ये, परिहर्त्तुमशक्ये च।

अपरीक्षित = त्रि० न० त०। रूपवर्ण्णपरिमाणादिना यथार्थ तत्त्वानुसन्धानशून्ये “एतच्चापरीक्षितक्रयविषयमिति” मिताक्षरा परीक्षिते तु “परीक्षितं तु यत् क्रीतं तत् सर्वं न निवर्त्तयेदिति” तद्धृता स्मृतिः।

अपरीत = त्रि० न० त०। परितोऽव्याप्ते अनभिगते च “शवसाऽपरीता” इति ऋ० १, १००, ३, “अपरीताः अपरैरनभिगता” इति भा०। अपरिगते, अपर्य्याप्ते च “अपरीतं नृतो शव” इति ऋ० ८, २४, ९, “अपरीतम् शत्रुभिरपरिगतमव्याप्तमिति वा” भा०।

अपरुष् = त्रि० अपगता रुट् यस्य। विगतक्रोधे “अपरुषा परुषाक्षरमीरितेति” रघुः।

अपरूप = न० अप आनन्दे आश्चर्य्ये वा प्रा० स०। आश्चर्य्यरूपे आनन्दहेतुप्रशंसितरूपे च। “ततोऽपरूपं जायते तस्मादव्येष्यदेनस इति” अथ० १ २, ४, ९, अपकृष्टरूपे च। प्रा० ब०। तद्वति त्रि०।

अपरेद्युस् = अव्य० अपरस्मिन् अहनि एद्युस्। अपरदिने इत्यर्थे “पूर्ब्बेद्युरपरेद्युर्वा श्राद्धकर्म्मण्युपस्थिते निमन्त्रयेत विप्रान् वै” इति स्मृतिः।

अपरोऽक्ष = अव्य० न परोऽक्षम् इन्द्रियासन्निकृष्टम्। प्रत्यक्षे विषयेन्द्रियसन्निकर्षोत्पन्ने ज्ञाने “सम्भावनादिनिरासे तु विचारविपाकात्तेनैव प्रमाणेन जनितं ज्ञानं प्रतिबन्धाभावात् फलं जनयदपरोऽक्षमित्युच्यते” इति वृद्धाः। फलं ज्ञाततामिति भाट्टाः चितिबुद्धेः प्रतिविम्बमिति सांख्याः बुद्धौ चितः प्रतिविम्बमिति वेदान्तिनः। संस्कारम् विषयताविशेषं वेति तार्किकादयः। तथा हि प्रथममिन्द्रियेण विषयः संबध्यते ततो विषयालोचनारूपं विनिर्विकल्पकस्थानीयं सामान्याकारं ज्ञानं जायते ततः विषयावरणरूपप्रतिबन्ध- नाशात् चित्प्रतिविम्बरूपं फलं जनयज्ज्ञानमपरोक्षमित्युच्यते इति वेदान्तिनः। नैयायिकास्तु विषयेन्द्रियसन्निकर्षात् प्रथमं निर्विकल्पकरूपं विशेष्यविशेषणयोः संसर्गानवगाहि ज्ञानं जायते तदुत्तरं विषयप्रत्यक्षमित्यङ्गीचक्रः। सांख्यादयस्तु विषयेन्द्रियसन्निकर्षात् बुद्धेस्तत्तद्विषयकारेण परिणामे जाते ततश्चेतनाशक्तौ बुद्धेः प्रतिविम्बरूपं फलमुत्पद्यते तत्रैव ज्ञानत्वव्यवहारोमुख्यः बुद्धिवृत्तौ तु गौण इति मन्यन्ते। “युक्तितोऽपि न बाध्यते दिङ्मोहरदपरोक्षादृते” सां० सू०। ब्रह्मणस्तु अज्ञानरूपावरणाभावात् सर्वदा प्रकाशमानत्वात् नेन्द्रियादिसन्निकर्षापेक्षेति तस्य सर्वदा प्रत्यक्षरूपत्वम् “यत् साक्षादपरोक्षाद्ब्रह्मेति” श्रुतिः अपरोक्षादपरोक्षमित्यर्थः। अर्शा० अस्त्यर्थे अच्। तद्विषये त्रि०।

अपरोक्षानुभूति = पु० अपरोक्षा प्रत्यक्षा अनुभूतिर्यस्मात्। वेदान्तप्रकरणभेदे। कर्म०। प्रत्यक्षरूपे ज्ञाने स्त्री।

अपरोध = पु० अप + रुध–भावे घञ्। “बाधने अभिप्रयायमभिषुण्वन्ति देशानपरोधेन” कात्या० २४, ३, ३१।

अपर्ण्णा = स्त्री नास्ति पर्ण्णान्यपि वृत्तिसाधनानि यस्याः। शैलराजदुहितरि उमायां सा हि शिवप्राप्त्यर्थं व्रतकाले पर्ण्णान्यपि त्यक्तवती यथोक्तं कुमारे “स्वयं विशीर्ण्णद्रुमपर्ण्णवृत्तिता परा हि काष्ठा तपसस्तया पुनः। तदप्यपाकीर्ण्ण मतः प्रियंवदाम् वदन्त्यपर्ण्णामिति तां पुराविद” इति “चतुर्थे त्यक्तपर्ण्णा च अपर्ण्णाख्यामवाप सेति” शि० पु०।

अपर्त्तु = त्रि० अपगत ऋतुर्यस्य। वसन्ताद्यृतुविगमयुक्ते। “यत्र विजायते यामन्यपर्त्तुरिति” अथ० ३, २८, १, अपगतऋतुः स्त्रीपुष्पं यस्याः। निवृत्तरजस्कायां स्त्रियां स्त्री।

अपर्य्यन्त = त्रि० नास्ति पर्य्यन्तोमर्य्यादा यस्य। निःसीमनि इयत्तारहिते “तदक्षयमपर्य्यन्तं दुर्ज्जयं वानरं बलम्” रा०।

अपर्य्याप्त = त्रि० परि + आप–क्त न० त०। असमर्थे, असम्पूर्णे, स्वकार्य्याक्षमे च “परिभुक्तमवज्ञातमपर्य्याप्तमसंस्कृतम् यः प्रयच्छति विप्रेभ्यस्तद्भस्मन्यवतिष्ठतीति “अपर्य्याप्तं स्वकार्य्याक्षममिति शु० त० रघु०। अपरिच्छिन्ने इयत्तारहिते “जगत्यपर्य्याप्तसहस्रभानुनेति” माघः “अपर्य्याप्तः अपरिच्छन्न” इति मल्लि०।

अपर्य्याप्ति = स्त्री न पर्य्याप्तिः अभावार्थे न० त०। अपरिच्छेदे असामर्थ्ये च। “मुख्यं श्राद्धं मासिमासि अपर्य्याप्तावृतुं प्रतीति” स्मृतिः। न० ब०। परिच्छेदशून्ये त्रि०।

अपर्य्याय = पु० न पर्य्यायः परिपटी अभावे न० त०। पक्रमाभावे। न० ब०। क्रमशून्ये त्रि०।

अपर्य्युषित = त्रि० न पर्य्युषितः। अभिनवे सद्योभवे पुष्पादौ। “अपर्य्युषितनिश्छिद्रैः प्रोक्षिवैर्जन्तुवर्ज्जितैरिति” नर० पु०।

अपर्वदण्ड = पु० अपर्व्वा दण्ड इव। रामतृणाख्यशरभेदे तस्येतरशरस्येव ग्रन्थियुक्तत्वाभावात्तथात्वम्।

अपर्वन् = त्रि० नास्ति पर्व्व ग्रन्थिः ग्रन्थप्रकरणपरिच्छेदो वा यस्य। ग्रन्थिशून्ये दण्डादौ विच्छेदशून्ये ग्रन्थादौ च। वा कप्। अपर्व्वकोऽप्यत्र त्रि०। “यदपर्व्वकं स्यात् प्रतृण्णमिति” शत० ब्रा०। “विच्छेदशून्यमिति” भा०।

अपल = न० अपक्रमनिवृत्त्यै लाति गृह्णात्यत्र ला–बा० आधारे क। कोलके शब्द० मा०। तद्बन्धने हि अपक्रमनिवृत्तेस्तथात्वम्। नास्ति पलं मांसं यस्य। मांसशून्ये त्रि०।

अपलाप = पु० अप + लप–घञ। सतोऽप्यसत्त्वेन कथनरूपे अपह्नवे, “न च प्रत्यक्षसिद्धस्यापलापः कर्त्तुं शक्यते इति” अप + आनन्दे लप्यत्यनेन लप–करणे घञ्। स्नेहे मेदिनिः। स्नेहेनैवानन्दभाषणात्तथात्वम्।

अपलाषिका = स्त्री लष इच्छायां पर्य्याये ण्वुच् लाषिका पर्य्यायेण इच्छा अप वैपरीत्ये प्रा० स०। अपर्य्यायेच्छारूपायां तृष्णायामतिशयलालसायाम् हेम०। अत्रार्थे अपलासिकेति पाष्ठकल्पनं प्रामादिकं लसतेरिच्छार्थत्वाभावात्।

अपलाषिन् = त्रि० अप + अपकर्षे लष–ताच्छील्यादौ घिनुण्। अनुचितधनादितृष्णाशीले। स्त्रियां ङीप्।

अपलाषुक = त्रि० अप + अनुचितत्वात् अपकर्षे लष–ताच्छील्यादौ बा० उकञ्। अनुचितधनादितृष्णाशीले।

अपल्यूलन = न० न पल्यूलनं शोधनम् अभावे न० त०। स्नानमार्ज्जनक्षारसंयोगादिना शोधनाभावे। “यदिदं स्नातवस्यं निहितमपल्यूलनकृतं भवतीति शत० ब्रा०। “अपल्यूनकृतं क्षारद्रव्यसंयोगादिनाऽधौतमिति” भा०। अत्रासमर्थसमासात् करणे नञर्थान्वय इति भेदः। तथा च रजकाधौतमिति तदर्थः। कर्मकाले रजकधौतवस्त्र परिधानस्य स्मृतौ निषेधात् तथोक्तम्।

अपवत् = त्रि० अपः कर्म तदस्त्यस्य मतुप् वेदे सस्य लोपः। कर्मयुक्ते। “अपृपवानपवांश्चरुरेह सीदतु” अथ० १८, ४, २४।

अपवन = न० अपकृष्टं कृत्तिमत्वात् स्वल्पत्वाच्च वनम् प्रा० त०। उपवेने कृत्रिमवने हेम०।

अपवरक = न० अप + व्रियते अप + वृ–कृञा० संज्ञायां वुन्। अन्तर्गृहे वासगृहे।

अपवरण = न० अप + वृ–भावे ल्युट्। अनावरणे आवरणापाकरणे च।

अपवर्ग = पु० अपवृज्यते संसारोऽत्र अप + वृज–घञ्कुत्वम्। मोक्षे। “स्वपर्गापवर्गयोर्मार्गमामनन्ति मनीषिण” इति कुसुमा०। “दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापायादनन्तरापायादपवर्ग” इति “ऋणत्रयापाकरणान्नास्त्यपवर्गः” इति च न्यायसू०। अपवर्गप्रकारस्तु मोक्षशब्दे वक्ष्यते। भावे घञ्। दाने, त्यागे च “मुष्टेरसम्भेद इवापवर्गे” किरा०। अपवृज्यते विरज्यते यस्मात् अपादाने घञ्। फलप्राप्तौ तद्धे तुके कर्म्मसमापने च “अपवर्गे तृतीयेति” पा०। “अपवर्गे तृतीयेति भणतः पाणिनेरपीति” नैषधम् “उदगपवर्मं मुखेषु समृज्यादिति” ता० ब्रा०। “कृत्वा गते भाग्य इवापवर्गमिति” किरा० “अपवर्गं समाप्तिमिति” मल्लि०।

अपवर्ज्जन = न० अप + वृज–ल्युट्। दानादावपवर्गार्थे। “घटापवर्जनमिति” मिताक्षरा।

अपवर्ज्जित = त्रि० अप + वर्ज्ज–क्त। परिहृते, त्यक्ते, दत्ते च।

अपवर्त्तन = न० अप + वृत–णिच्–ल्युट्। परिवर्त्तने, वक्रीकरणे अङ्कशास्त्रे प्रसिद्धे भाज्यभाजकयोरुभयोरपि तुल्यरूपेण केनचिदङ्केन विभाजने। “समेन केनापवर्त्त्येति” लीला०। अपहरणे च “न त्यागोऽस्ति द्विषन्त्याश्च न च दायापवर्त्तनमिति” मनुः। भावे अच् अपवर्त्तोऽप्यत्र पु०।

अपवाद = पु० अप + वद–भावे घञ्। निन्दायाम् अपकीर्तौ “किं करिष्यामि राज्येन सापवादेन राघव!” “प्रकाशं च हतै तस्मिन्नपवादो भवेन्मम” इति च रामा०। मिथ्यावादे “अपवादमात्रमबुद्धानामिति” सां० सू० “अपवादः मिथ्यावादः” भा०। कुत्सितवादे तत्रैव “अपवादः कुत्सितवाद” इति व्याख्यान्तरम्। अपोद्यते सामान्यशास्त्रं स्वविषयात् सङ्कोच्यतेऽनेन करणे घञ्। विशेषशास्त्रे। तद्धि स्वविषयं परिहृत्य सामान्यशास्त्रं विषयान्तरे व्यवस्थाप यतीति तस्य सङ्कोचकं भवति यथा “मा हिंस्यात् सर्व्वाभूतानीति” श्रुतौ हिंसानिषेधस्य सर्वभूतविषयकत्वेऽपि “वायव्यं श्वेतमालभेतेति” शास्त्रं वायव्यच्छागहिंसाविषयकत्वेन विरोधात् स्वविषयात् सङ्कोचयत् तस्येतरविषयकतां व्यवस्थापयति “अपवादैरिवोत्सर्गाः कृतव्यावृत्तयः परैरिति” कुमारः “परनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीय” इति “अपवादोयद्यन्यत्र चरितार्थस्तर्ह्यन्तरङ्गेण बाध्यते” इति च व्या० परि०। “क्वचिदपवादविषयेऽप्युत्सर्गोऽभिनिविशते” इति पा० भा०। अपोद्यते अपवाह्यते मिथ्याभूतमनेन अप + वद–करणे घञ्। वेदान्तमतसिद्धे मिथ्याभूतपदार्थनिवारणार्थमुपदेशभेदे। स च रज्जुविवर्त्तस्य मिथ्याभूतसर्पस्य रज्जुमात्रत्ववत् वस्तुभूतब्रह्मणो विवर्त्तस्य प्रपञ्चादेः वस्तु- भूतरूपतोपदेशः। “अध्यारोपापवादाभ्यां वस्तुतत्त्वविनिश्चय, इति वेदा० प्र०। भावे घञ्। विश्वासे, प्रणये च। करणे घञ्। बाघनसाधने वस्तुमात्रे। कर्म्मणि घञ्। कुत्सितवाद्ये “मधुकरैरपयादकरैरिव” माघः “अपवादः मृगवञ्चनाय घण्टादि कुत्सितवाद्यमिति” मल्लि०। भावे घञ्। आदेशे “ततोऽपवादेन पताकिनीपतेरिति” किरा०। “अपवादेन आदेशेनेति” मल्लि०। निरासने च।

अपवादक = त्रि० अपसार्य्य स्वविषयात्, वदति शास्त्रान्तरम् व्यवः यति वद–ण्वुल्। स्वविषयं परिहृत्य सामान्यशास्त्रस्येतरत्र व्यवस्थापके विशेषशास्त्रे। अप + वद–ण्वुल्। अकीर्त्तिकरे” निन्दके निरासके च त्रि०।

अपवादिन् = त्रि० अप + वद–णिनि। अपवादकर्त्तरि स्त्रियां ङीप्।

अपवारण = त्रि० अपवारयति आच्छादयति अप + वृ–णिच् नन्द्या० ल्यु। व्यवधायके। भावे ल्युट्। व्यवधाने न० आधारे ल्युट्। अन्तर्द्धौ सति तु व्यवधाने अन्तर्धानं भवत्येवेति तस्य तथात्वम्।

अपवारित = त्रि० अप + वृ–णिच्–कर्म्मणि क्त। आच्छादिते व्यवधापिते च। भावे क्त। अपवारणे, अप्रकाशे न०। “तद्भवेदपवारितम्। रहस्यन्तु यदन्यस्य परावृत्त्य प्रकाश्यते” इति सा० द० उक्ते परावृत्त्यान्यस्य रहस्यकथने न० परावृत्त्यान्यस्य रहस्यकथनमपवारितमिति तदर्थः।

अपवारितक = न० अपवारितं अपवारणम् अप्रकाशमेव स्वार्थे कन्। अप्रकाशे “अपवारितकेन प्रावृणोतीति” नाटकम्। अप्रकाश्याच्छोदयतीत्यर्थः।

अपवारुक = पु० अप + वृ–ब०। उकञ्। प्रस्तरे।

अपवार्य्य = अव्य० अप + वृ–णिच्–ल्यप्। आच्छाद्येत्यर्थे “त्रिपताककरेणान्यमपवार्य्यान्तरा कथेति” सा० द०।

अपवास = पु० अपसृत्य वासः स्थितिः। अपसरणे “अपवासे नक्षत्राणामपवास उषसामुत” अथ० ३, ७, ७।

अपवाह = पु० अपसार्य्य वाहः स्थानान्तरनयनम्। इतरस्थानादपसार्य्य स्थानान्तरप्रापणे। “भूतपूर्ब्बमभूतपूर्ब्बं वा जनपदं परदेशापवाहेन स्वदेशाभिष्यन्दवमनेन वा निवेशयेदिति” कौटिल्यः “मोनाः बट् गिति नवरसशरयतियुतमपवाहाख्यमिति” वृ० र० उक्ते वर्ण्णवृत्तभेदे।

अपवाहन = न० अप + वह–णिच्–ल्युट्। परदेशस्थजनानां स्वदेशप्रापणे “स्वराष्ट्रं वर्द्धयेद्राजा परदेशापवाहनादिति” हितो०।

अपवाह्य = त्रि० अप + वह–कर्म्मणि ण्यत्। दूरीकार्य्ये। अप + वह–णिच्–ल्यप्। अपसार्य्येत्यर्थे अव्य०।

अपविघ्न = त्रि० अपगतो विघ्नो यस्मात्। विघ्नशून्ये “शतं क्रतूनामपविघ्नमाप स” इति रघुः।

अपवित्र = पु० न पवित्रः कृतशौचादिः। अकृतशौचादौ, “अपवित्रः पवित्रो वा सर्व्वावस्थां गतोऽपि वा यःस्मरेत् पुण्डरीकाक्षं स वाह्याभ्यन्तरे शुचिरिति” स्मृतिः।

अपविद्ध = त्रि० अप + व्यध–क्त। त्यक्ते “अपविद्धगदोबाहुर्भग्नशाख इव द्रुम” इति कु०। “सोऽपविद्धस्तया रहस्यनिर्भेदभयादिति” दशकु०। प्रत्याख्याते, निरस्ते च “रक्षोविप्र कृतावास्तामपविद्धशुचाविव” रघुः “मातापितृभ्यामुत्सृष्टं तयोरन्यतरेण वा। यं पुत्रं प्रतिगृह्णीयादपविद्धः स उच्यते” इति मनूक्ते द्वादशपुत्रान्तर्गते पुत्रभेदे पु०।

अपविद्या = स्त्री अप विरोधे प्रा० त०। विद्याविरोधिन्यां वेदान्तादिप्रसिद्धायामविद्यायाम् “तत्त्वस्य संवित्तिरिवापविद्यामिति” किरा०। अपकृष्टा विद्या। वौद्धाद्यागमविद्यायाम्।

अपविषा = स्त्री अपगतं विषं यस्याः। निर्विषतृणभेदे राज० नि०। अपगतविष मात्रे त्रि०।

अपवृत्त = त्रि० अपवर्त्तते अप + वृत–कर्त्तरि क्त। समाप्ते, “अपवृत्ते कर्मणि वामदेव्यगानं शान्त्यर्थमिति” गोभिलः। “अपवृत्ते समाप्ते” संस्कारतत्त्वे रघुनन्दनः।

अपवेध = पु० अपकृष्टः अस्थानकृतत्वात् वेधः प्रा० त०। मणीनामस्थानकृते वेधने “मणीनामपवेधे च दण्ड उत्तमसाहसम् इति” मनुः।

अपव्यय = पु० अपकृष्टः शास्त्रादिमर्य्यादामुल्लङ्घ्यास्थाने कृतत्वात् व्ययः प्रा० त०। द्यूतवेश्यादावस्थाने कृते व्यये। अपगतः व्ययःक्षयोऽस्य। अविनश्वरे त्रि०।

अपव्ययमान = त्रि० अप + वि + अय–शानच्। अपलाप कर्त्तरि। “अर्थेऽपव्ययमानन्तु कारणेन विभावितम्। दापयेद्धनिकस्यार्थं दण्डलेशञ्च शक्तित इति” मनुः। अपव्ययमानमपलपन्तमिति दि० त० रघु०। अपव्ययकर्त्तरि त्रि०।

अपव्रत = त्रि० अपगतं व्रतं श्रौतादि कर्म्म यस्य। अपगत विहितकर्म्मणि “अनुव्रताय रन्धयन्नपव्रतानिति” ऋ० १, ५१, ९, अपव्रतान् “अपगतकर्म्मण” इति भा०। “गूढं सूर्य्यं तमसाऽपव्रतेन” ऋ० ५०, ४, ६, १, अपगतव्रतमस्य। नष्टव्रते गृहीतव्रतत्यागिनि त्रि०। प्रा० त०। अपकृष्टे व्रते न०

अपशङ्क = त्रि० अपगता शङ्कास्य प्रा० ब०। निःशङ्के शङ्कारहिते।

अपशद = त्रि० अप + शद–कर्त्तरि अच्। नीचे इति केचित्। तच्च सदधातुघटिततया दन्त्यमध्यमिति बहवः।

अपशब्द = पु० अपवैपरीत्ये प्रा० त०। शक्तिवैकल्यप्रमा- दादिना साधुशब्दस्यान्यथोच्चारणसाध्ये अपभ्रंशशब्दे “त एव शक्तिवैकल्यप्रमादालसतादिभिः। अन्यथोच्चारिताः शब्दा अपशब्दा इतीरिता” इति हरिः “म्लेच्छोहवा नाम यदपशब्द” इति श्रुतिः।

अपशव्य = त्रि० पशवे हितः यत्, विरोधे न० त०। पशुवृद्धिविघातके “अपशव्येव तु वा ईश्वरा” इति ता० ब्रा० “अपशव्येव पशूनां वृद्धिविघातिनी” भा०।

अपशु = पु० न पशुः अप्राशस्त्ये न० त०। गोऽश्वभिन्ने पशौ। “अपशवो वा अन्ये गोऽश्वेभ्यः इति” “अपशुर्व्या एष यदारण्योनैतस्य होतव्यमिति” च शत० ब्रा०। नास्ति पशुर्य्यस्य। पशुशून्ये “अप्रजा अपशुर्भविष्यति”। शत० ब्रा०।

अपशुच् = त्रि० अपगता शुक् शोकोयस्य प्रा० ब०। अपगत शोके। सर्वदाऽपेतशोके आत्मनि पु०। “क उत्तमःश्लोकगुणानुवादात् पुमान् विरज्येत विनाऽपशुग्घ्नादिति” भागवते पाठं प्रकल्प्य श्रीधरेण अपशुगात्मेतिव्याख्यातम् तस्य हननञ्च यथार्थ्येनाज्ञानं “योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते किंतेन न कृतं पापं? चौरेणात्मापहारिणेति” मनुना आत्मनोऽन्यथारूपज्ञानेनैव स्वात्महन्तृत्वोक्तेः। “अन्धं तमस्ते प्रविशन्ति ये केचात्महनोजना” इति श्रुतिभाष्येऽपि तथैवात्माज्ञाने आत्महननमुक्तम्। अपशोकादयोऽप्यत्र त्रि०।

अपश्चिम = त्रि० न पश्चिमः विरोधे न० त०। अग्रिमे “कस्यपश्च महाभागस्तेषामासीदपश्चिम” इति रामा० नास्ति पश्चिमः शेषभवोयस्य। शेर्षशून्ये, इयत्ताशून्ये च “अपश्चिमामिमां कष्टामापदं प्राप्तवत्यहमिति” रामा०।

अपश्य = त्रि० दृश–वेदे बा० श न० त०। अद्रष्टरि अदर्शके “अन्धा अपश्या न दभन्नभिख्या” इति ऋ० १, १४८, ५, “अपश्या अद्रष्टारः” इति भा० लोके तु अदर्शीत्येव।

अपश्रय = पु० अप + श्रि–अच्। उपाश्रये “सामासाद उद्मीथोऽपश्रयः” अथ० १५, ३, ८,।

अपश्री = त्रि० अपगताश्रीर्य्यस्मात् श्रीःशोभादिः। शोभादिहीने।

अपश्लिष्ट = त्रि० अप + श्लिष–क्त। श्लेषशून्ये, संसर्गहीने, वियुक्ते च।

अपष्ठ = न० अप + स्था–क अम्बा० षत्वम्। अङ्कुशाग्रे हेम०। अपक्रम्य स्थातरि त्रि०।

अपष्ठ = अव्य० अप + स्था–सुषामादि० षत्वम्। निर्द्दोषे, शोभने, विपरीते, च। “अपष्ठु पठतः पाठ्यमधिगोष्ठि शठस्य ते” इति नैष०। प्रतिकूले, विरुद्धार्थे च त्रि०। काले पु०।

अपष्ठुर(ल) = त्रि० अप + स्था–कुरच् वा लत्वम्। प्रतिकूले हेम०। विपरीते त्रिका०।

अपस् = न० आप–असुन् हृस्वश्च। कम्माण निरु०। तद्वति च। “अपसा सन्तु नेमे” ऋ० १, ५४, ८, अपः कर्म्म तद्घन्तोवेति भा० “ग्लास्त्वाऽकृन्तन्नपसोऽतन्वत” ता० ब्रा०। “अतृष्यन्तीरपसोयन्त्यच्छा” ऋ० ७, ७१, ३ “अपसा कर्म्मयुक्ता” इति भा०। प्राप्ते त्रि०। “माध्याम कर्म्मापसा नवेन ऋ० १, ३१, ८, “अपसा प्राप्तेनेति भा०।

अपसद = त्रि० अपकृष्ट इवसीदति सद–अच् अधमे, नीचे च। “रेरे क्षत्त्रियापसदाः!” इति वेर०। “विप्रस्य त्रिषु वर्ण्णेषु नृपतेर्वर्ण्णयोर्द्वयोः। वैश्यस्य वर्ण्णे चैकस्मिन् षडेतेऽपसदाः स्मृता इति” मनूक्ते अनुलोमवर्णस्त्रीजाते वर्ण्णसङ्करभेदे मूर्द्धावसिक्तादौ पुंस्त्री०। “यद्विजानामपसदा ये चापध्वं सजाः स्मृता” इति मनुः

अपसम = अव्य० समाया अत्ययः अव्ययी०। वत्सरात्यये तिष्ठस्तद्गुगणपाठान्नैतस्य समासान्तरघटकता।

अपसर = पु० अप + सृ–भावे अच्। अपयाने, अपसरत्यस्मात् स्वत्वम् अपादाने अच्। प्रतिग्रहक्रयादौ। “निरन्वयोऽनपसरः प्राप्तःस्याच्चौरकिल्लिषमिति” मनुः। “अपसरः प्रतिग्रहक्रयादिः” कुल्लूकभट्टः।

अपसरण = न० अप + सृ–भावे ल्युट्। अपयाने “इतोऽव सरणमेव श्रेय इति” नाटकम् “अपसरणतोह वा अग्रे देवा जयन्तोऽजयन्” इति “दिवमेवाग्रे अथेदमन्तरिक्षमथेतोऽनपसरणात् सपत्नाननुदन्त इति च शत० ब्रा० १, ९, १११।

अपसर्ज्जन = न० अप + सृज–भावे ल्युट्। त्यागे, वर्ज्जने च। घञ्। अपसर्गोऽप्युक्तार्थे पु०।

अपसर्प = पु० अप + सृप–कर्त्तरि अच्। गुप्तचरे। “सर्पाधिराजोरुभुजोऽपसर्पं पप्रच्छ भद्रं विजितारिभद्रः” रघुः। “तयैवासर्पभूतया तत्र मृद्भाण्डशेषमचोरयावः” इति दशकु०। भावे घञ्। अपसरणे।

अपसर्पण = न० अप + सृप–भावे ल्युट्। अपयाने पृष्ठतो गमने।

अपसल = त्रि० अप + सल–कर्त्तरि अच्। अपसव्यताप्राप्ते। “यथाबालं पुरस्कृत्य यज्ञोपवीतानि अपसलानि कृत्वा तीर्थमवतीर्य्येति” शु० त० बौधा०। “अपसलानि अपसव्यानीति शुद्धितत्त्व रघुनन्दनः।

अपसलवि = अव्य० अप + सल–बा० अवि। तर्ज्जन्यङ्गुष्ठमध्यस्थानरूपे पितृतीर्थे “तर्जन्यङ्गुष्ठयोरन्तरा अपसलवि अपसव्यं वा तेन पितृभ्योनिदधाति” शु० त० गृह्यम्। “सव्येनैव पाणिना सूत्रतन्तुं गृहीत्वा अपसलवि पूर्ब्बस्यां कर्ष्वां पिण्डे निदध्यादिति” गोभिलः।

अपसव्य = न० अपक्रान्तं सव्यात् निरा० त०। १ देहदक्षिणभागे “तर्ज्जन्यङ्गुयष्ठोरन्तरा अपसलवि अपसव्यं वेति” २ गृह्यपरिभाषिते पितृतीर्थे च। अपगतं मग्नतया भूमौपातितत्वात् सव्यं यत्र। भूमौ पातनेन भग्नप्रायवामाङ्गे अप वैपरीत्ये सू–भावे यत् सव्यं गतिः। विपरीते त्रि०। “अपसव्यं ततः कृत्वा पितॄणामाप्तदक्षिणमिति” याज्ञ०। “देवकर्म्मानन्तरं पितृकर्मकरणे प्राप्तवामोपचारनिरासायाप्तदक्षिणव्यापार” इति श्रा० त० रघु०। आभ्युदयिके हि “निपातो न हि सव्यस्य जानुनोविद्यते क्वचिदिति” श्रा० त० वशिष्ठोक्तेः भूमौ पातितवाम्जानूकरणाभावः। अतएव “नात्रापसव्यकरणं न पैत्रं तीर्थमिष्यते” इत्यादिना अप सव्यकरणनिषेधः सूपपन्नः। पितृतीर्थञ्च “यत्रानुक्तोविशेषस्तु दक्षिणस्तत्र शस्यते इति” स्मृतेः। दक्षिणहस्त एव। “प्राचीनावीतिना भाव्यमपसव्यमतन्द्रिणा। पित्र्यमानिधनात् कार्य्यं विधिवद्दर्भपाणिना” इति मनुः।

अपसार = पु० अप + सृ–णिच्–अच्। १ दूरीकरणे २ वहिष्करणे, ३ अपनयने ३ च। ल्युट्। अपसारणमप्यत्र न०।

अपसारित = त्रि० अप + सृ–णिच्–क्त। १ उत्सारिते २ दूरीकृते च

अपसिद्धान्त = पु० अपक्रान्तः सिद्धान्तात् निरा० त०। १ स्वीकृतसिद्धान्तात् स्खलनरूपे दोषभेदे, “सिद्धान्तमभ्युपेत्यानियमात् कयाप्रसङ्गोऽपसिद्धान्त इति” गौ० सू०। सिद्धान्तं किञ्चिच्छास्त्रकाराभ्युपगतमर्थमभ्युपेत्य स्वीकृत्यानियमात् तन्नियमोल्लङ्घनात् कयायां प्रसङ्गः स्वीकृतसिद्धान्तप्रच्यवोऽपसिद्धान्त इति तदर्थः। यथा सांख्यमतेनाहं वदिष्यामीत्यभ्युपेत्य कयायामारब्धायाम् आविर्भावस्याविर्भावाङ्गीकारेऽनवस्थेति दूषणे वादिनोद्भाविते प्रतिवादी यदा तद्दोषोद्धारणाय आविर्भावस्यासतोऽपि समुत्पत्तिमभ्युपैति तदा सत्कार्य्यवादिसांख्यमतविरुद्धाभिधायित्वेन स्वाभ्युपगतनियमातिक्रमात् स्वीकृतसिद्धान्तप्रच्यवरूपो दोषो भवति सएवापसिद्धान्तः एवमन्योऽप्युदाहार्य्यः। वितण्डावादिनः बौद्धभेदाश्च नापसिद्धान्तं दोषमङ्गीचक्रुः तेषां कस्यचित् सिद्धान्तस्यानङ्गीकारात्।

अपसोपान = पु० अपक्रान्तः अतिक्रान्तः सोपानमाकारेण अत्या० स०। १ हस्तिनखे।

अपस्कर = पु० अप + कॄ–अप् रथाङ्गे नि० सुट्। १ चक्रभिन्ने रथारम्भके अवयवभेदे। “अपस्करोरथाङ्गमिति” पा०। कूवरञ्च रथस्यासीद्वासुकिर्भजगोत्तमः। अपस्करमधिष्ठने हिमावान् विन्ध्यपर्वत” इति भा० क० प० उक्तेः क्लीवमपि।

अपस्नात = त्रि० अपकृष्टं अमङ्गलार्थत्वात् स्नातः। १ मृतमुद्दिश्य स्नाते जने। २ स्नानसंस्काराय स्थापिते मृते पु स्त्री० क्षीर०

अपस्नान = त्रि० अपक्रान्तः स्नानात् निरा० स०। १ स्नानावशिष्टे जले “उद्वर्त्तनमपस्नानं विण्मूत्रेरक्तमेव च। श्लेष्मनिष्ठ्यूतवान्तानि नाधितिष्ठेत्तु कामत” इति मनुः।

अपस्पश = त्रि० अपगतः स्पशोगूढचरोयतः। १ गूढचरशून्ये। “शब्दविद्येव नोभाति राजनीतिरपस्पशेति” माघः। शब्दविद्यापक्षे पस्पशा पातञ्जलभाष्यस्य नवाह्निकं २ तच्छून्येत्यर्थः।

अपस्मार = पु० अपस्मारयति स्मरणं विलोपयति अप + स्मृणिच्–कर्त्तरि अच्, अपगतः स्मारः स्मरणंयतो वा। १ रोगभेदे। स च सुश्रुते दर्शितो यथा “स्मृतिर्भूतार्थविज्ञानमपश्च परिवर्जने अपस्मार इति प्रोक्तस्ततोऽयं व्याधिरन्तकृत्।। मिय्यादियोगेन्द्रियार्थकर्म्मणामतिसेवनात्। विरुद्धमलिनाहारविहारकुपितैर्मलैः। वेगनिग्रहशीलानामहिताशुचिभोजिनाम्। रजस्तमोऽभिभूतानां गच्छताञ्च रजस्वलाम्।। तथा कामभयोद्वेगक्रोधशोकादिभिर्भृशम्। चेतस्यभिहते पुम्सामपस्मारोऽभिजायते।। संज्ञावहेषु स्रोतःसु दोषव्याप्तेषु मानवः। रजस्तमःपरीतेषुमूढो भ्रान्तेन चेतसा।। विक्षिपन् हस्तपादौ च विजिह्वभ्रूर्विलोचनः। दन्तान् वादन् वमन् फेनं विवृताक्षः पतेत् क्षितौ।। अल्पकालान्तरञ्चापि पुनः संज्ञां लभेत सः। सोऽपस्मार इति प्रोक्तः स च दृष्टश्चतुर्विधः।। वातपित्तकफैर्नॄणाञ्चतुर्थः सन्निपाततः। हृत्कम्पः शून्यता स्वेदोध्यानं मूर्च्छा प्रमूढता।। निद्रानाशश्च तस्मिंस्तु भविष्यति भवन्त्यथ। वेपमानो दशेद्दन्तान् श्वसन् फेनं वमन्नपि।। यो ब्रूयाद्विकृतं सत्वं कृष्णं मामनुधावति। ततो मे चित्तनाशः स्यात्सोऽपस्मारोऽनिलात्मकः।। तृट्तापस्वेदमूर्च्छार्त्तोध्वनन्नङ्गानि विह्वलः। यो ब्रूयाद्विकृतं सत्वं पीतं मामनुधावति।। ततो मे चित्तनाशः स्यात्स पित्तभव उच्यते। शीतहृल्लासनिद्रार्त्तः पतन् भूमौ वमन् कफम्।। यो ब्रूयाद्विकृतं सत्वं शुक्लं मामनुधावति। ततो मे चित्तनाशः यात्सोऽपस्मारः कफात्मकः।। हृदि तोदस्तृडुत्क्लेदस्त्रिष्वप्येतेषु संस्थया। प्रलापः कूजनं क्लेशः प्रत्येकन्तु भवेदिह।। सर्व्वलिङ्गसमावायः सर्व्वदोषप्रकोपजे। अनिमित्तागमाद्व्याधेर्गमनादकृतेऽपि च।। आगमाच्चाप्यपस्मारं वदन्त्यन्ये न दोषजम् क्रमोपयोगाद्दोषाणां क्षणिकत्वात्तथैव च।। आगमाद्वैश्वरूप्याच्च स तु निर्वर्ण्यते बुधैः। वर्षत्यपि यथा देवे भूमौ वीजानि कानिचित्।। शरदि प्रतिरोहन्ति तथा व्याधिसमुद्भवः। स्थायिनः केचिदल्पेन कालेनाभिप्रवर्द्धिताः।। दर्शयन्ति विकारांस्तु विश्वरूपान्निसर्गतः। अपस्मारो महाव्याधिस्तस्माद्दोषज एव तु” इति।। “धूर्त्तोऽपस्माररोगी स्यादिति” शाता० कर्म्म०। “अपस्मारादिरोगाणां ज्वरादीनां विशेषत इति” घटुकस्तोत्रम्।

अपस्मारिन् = त्रि० अपस्मार + अस्त्यर्थे इनि। १ अपस्माररोग युक्ते। स्त्रियां ङीप्।

अपस्य = त्रि० अपसि कम्मणि साधुः अपस् + यत्। १ साधुकर्म्मकारिणि “अनावृष्टा अपस्योवसाना” इति “यजु० १०, ७, अपस्याः अपसि कर्मणि साध्व्यः” वे० दी०। “अपरेण स्वयमातृण्णमेत्यापस्याः पञ्च पञ्चानूकान्तेष्वपामिति” का० १७, ६, २, अपस्यास्तत्संज्ञका इष्टकाभेदा इति वेददी०।

अपस्यु = त्रि० अपः कर्मैच्छति अपस् + क्यच्–उ। १ कर्म्मेच्छौ “गिर यदी सबन्धवः पञ्चाव्राता अपस्यव” इति ऋ० ९, १४, २

अपह = त्रि० अप + हन–“अपे क्लेशतपसोः” पा० ड। १ अपघातकर्त्तरि। क्लेशापहः पुत्रः तमोऽपहः सूर्य्यः। योगविभागादन्यत्रापि “सुपरीक्षितमन्नाद्यमद्यान्मन्त्रैर्विषापहैरिति” मनुः

अपहत = त्रि० अप + हन–क्त। १ विनाशिते “योऽयमात्माऽपहतपाष्मेति” श्रुतिः।

अपहति = स्त्री अप + हन–क्तिन्। १ नाशने। “न ह वैसशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति” छा० उ०।

अपहर = त्रि० अप + हृ–कर्त्तरि अच्। १ अपहरणकर्त्तरि “भद्रं भवेद्भवभयापहरं नृलोके” इति हेमा० भवि० पु०।

अपहरण = न० अप + हृ–ल्युट्। १ स्तेये साधारणस्य परकीयस्य वा धनादिचौर्य्ये। “सीताद्रव्यापहरणे शस्त्राणामौषधस्य चेति” “निक्षेपस्यापहरणं नराश्मरजतस्य चेति” “भक्ष्यभोज्यापहरणे यानशय्यासनस्य च” इति च मनुः स्तेयस्वरूपञ्च स्मृतौ दर्शितं यथा “उपायैर्विविधैरेषां छलयित्वापकर्षणम् सुप्तमत्त प्रमत्तेभ्यः स्तेयमाहुर्मनीषिण” इति नार०। “स्यात् साहसं त्वन्वयवत् प्रसभं कर्म्मयत् कृतम्। निरन्वयं भवेत् स्तेयं कृत्वापह्नूयते च यदिति” मनुः। “अन्वयवद् द्रव्यरक्षिराजाध्यक्षादिसमक्षं प्रसभं बलावष्टम्भेन यत् परधनहरणादिकं क्रियते तत् साहसं, स्तेयन्तु तद्विलक्षणं निरन्वयं द्रव्यस्वाम्याद्यसमक्ष वञ्चयित्वा यत् परधनहरणं तदुच्यते यच्चसान्वयमपि कृत्वा न मयेदं कृतमिति भयात् निह्नुते तदपि स्तेयमिति” मिताक्षरा। तच्च साधारणस्य परकीयस्य वा हरणम् “सामान्यद्रव्यप्रसभहरणात् साहसं स्मृतमिति” याज्ञ० उक्तेः। तथाच परकीये साधारणे वा द्रव्ये स्वत्व हेतुभूतलौकिकक्रयप्रतिग्रहादिकमन्तरेण स्वलम्पादनं हरणम् तदेव बलपूर्ब्बकं साहसमिति भेद इति मिताक्षरादिमतम् दायभागमते तु साधारणद्रव्यस्य नापहरणं परमात्र स्वत्ववद्द्रव्यस्यैवापहरणमिति तत्रोक्तेरिति विशेषः। २ बलादपकर्षणे च। “निर्विण्णोऽतिममत्वेन राज्यापहरणेन चेति” देवी मा०।

अपहरणीय = त्रि० अपहर्त्तुमर्हति अप + हृ–अनीयर्। १ अपहरणयोग्ये तानि वस्तूनि च स्मृतौ दर्शितानि। “द्विजोऽध्वगः क्षीणवृत्तिर्द्वाविक्षू द्वे च मूलके। आददानः परक्षेत्रान्न दण्डं दातुमर्हति” मनुः। “चणकव्रीहिगोधूम यवानां मुद्गमाषयोः। अनिषिद्धैर्ग्रहीतव्या मुष्टिरेका पथि स्थितैरिति” “तत्रैव सप्तमे भक्ते भक्तानि षडनश्नता। अश्वस्तनविधानेन हत्तव्यं हीनकर्म्मण इति” च मनुः। “द्विजस्तृणैधःपुष्पाणि सर्व्वतः स्ववदाहरेदिति” याज्ञ०। “गोऽग्न्यर्थं तृणमेधांसि यज्ञार्थे वीरुद्वनस्पतीनां पुष्पाणि स्ववदासीत फलानि चेति” गौ०। २ अपनेतव्ये च।

अपहर्त्तृ = त्रि० अप + हृ–तृच् स्त्रियां ङीप्। १ अपहारके। “निक्षेपस्यापहर्त्तार तत्समं दापयेद्दममिति” मनुः। तृणि तु नलोकेत्यादिना पा० षष्ठीनिषेधात् कर्मणि द्वितीया।

अपहस्त = पु० अपसारणार्थः हस्तः। १ गलहस्ते अपसारणायोद्यतः हस्तोयस्य। २ गलहस्तेन अपसारिते त्रि०।

अपहस्तित = त्रि० हस्तेन अपसार्यते अप + हस्त + णिच्कर्मणि क्त। १ गलहस्तादिना निरस्ते अपसारिते।

अपहार = पु० अप + हृ–घञ्। १ चौर्य्ये २ अपहरणे, ३ अपनयने। “कर्णनासापहारेण भगिनी मे विरूपितेति” रामा० स्वाम्यनुपकारिधनव्यये “नापहारं स्त्रियः कुर्य्युः पतिरिक्थात् कथञ्चनेति” स्मृतिः। “अपहारश्च धनस्वाम्यनुपयोगे भवतीति” दायभागः। ४ अपचये, ५ हानौ, ६ सङ्गोपने च।

अपहारक = त्रि० अप + हृ–ण्वुल्। १ चौर्य्यकर्त्तरि २ अपसारण कर्त्तरि ३ सङ्गोपक ४ स्थानान्तरापकर्षके च। “जालापहारकान् पक्षिण” इति हितो०। अपहारकभेदाश्च मनुना दर्शिताः “द्विविधांस्तस्करान् विद्यात् परद्रव्यापहारकान्। प्रकाशांश्चाप्रकाशांश्च चारचक्षुर्महीपतिः। प्रकाशवञ्चकास्तेषां नानापण्योपजीविनः। प्रच्छन्नवञ्चकास्त्वेते ये स्तेनाटविकादयः। उत्कोचकाश्चौपधिकावञ्चकाः कितवास्तथा। मङ्गलादेशवृत्ताश्च भद्राश्चैक्षणिकैः सह। असम्यक्कारिणश्चैव महात्राश्चिकित्सकाः। शिल्पोपचारयुक्ताश्च निपुणाः पण्ययोषितः। एवमादीन् विजानीयात् प्रकाशांल्लोककण्टकान्! “निगूढचारिणश्चान्याननार्य्यानार्य्यलिङ्गिन” इति।

अपहारिन् = त्रि० अप + हृ–णिनि स्त्रियां ङीप्। १ अपहर्त्तरि २ अपनायके च “इन्द्रियाणां विचरतां विषयेष्वपहारिषु” इति मनुः “क्षेत्रदारापहारी च षडेते ह्याततायिन” इति मनुः

अपहास = पु० अप + हस–घञ्। १ अकारणहास्ये हेमचन्द्रः।

अपह्नव = पु० अप + ह्नु–अप्। १ सतोऽपि वस्तुनोऽसत्त्वेन कथनरूपेऽपलापे,। अपह्नवश्च द्विविघः शब्दतः अर्थतोवा “मिथ्यैतदिति शब्दतः, नाभिजानाम्यहं, तत्र तदा न मम स्थितिरित्येवमर्थतोऽपह्नव इति। २ प्रेम्णि च।

अपह्नुत = त्रि० अप + ह्नु–क्त। १ कृतापहारे वस्तुनि यस्य चौर्य्यं कृतं तस्मिन्, २ स्थानान्तरं नीते, ३ अपसारिते च।

अपह्नुति = स्त्री अप + ह्नु–क्तिन्। १ अपह्नवे “प्रकृतं प्रतिषिध्यान्यस्थापनं स्यादपह्नुतिरिति” सा० द० उक्ते २ अर्थालङ्कारभेदे च। सा च द्विधा अपह्नवपूर्ब्बकः अन्यारोपः, अन्यारोपपूर्ब्बकः अपह्नवश्च यथा “नेदं नभोमण्डलमम्बुराशिर्नैताश्च तारा नवफेनभङ्गाः। नायं शशी कुण्डलितः फणीन्द्रो नासौ कलङ्कः शयितो मुरारिः”।। “एतद्विभाति चरमाचलचूडचुम्बि हिण्डीरपिण्डरुचिशीतमरीचिविम्बम्। उज्ज्वालितस्य रजनीं मदनानलस्य धूमं दधत्प्रकटलाञ्छनकैतवेन”।। “विराजते व्योमवपुः पयोधिस्तारामयास्तत्र च फेनभङ्गाः”। इत्याद्याकारेण प्रकृतनिषेधो बोद्धव्यः। “गोपनीयं कमप्यर्थं द्योतयित्वा कथञ्चन। यदि श्लेषेणान्यया वाऽन्यययेत् साप्यवह्नुतिः” सा० द० तत्र श्लेषेण यथा।। “कालेवारिघराणामयतितया नेव शक्यते स्थातुम्। उत्कण्ठितासि तरले! न हि न हि सखि! पिच्छिलः पत्थाः”।। अत्रापतितयेत्यत्र पतिं विनेत्युक्त्वा पतनाभावेनेत्यन्यथाकृतम्। अश्लेषेण यथा। “इह पुरोऽनिलकम्पितविग्रहा मिलति का न वनस्पतिना लता। स्मरसि किं सखि कान्तरतोत्सवं! न हि घनागमरीतिरुदाहृता” इति।।

अपह्नुवान = त्रि० अप + ह्नु–शानच्। १ चोरयति २ अपनयति ३ संगोपयति च “अपह्नुवानस्य जनाय यन्निजामिति” नैष०

अपह्नूयमान = त्रि० अप + ह्नु–कर्म्मणि शानच्। १ अपनीयमाने २ स्थानान्तरमपसार्य्यमाणे ३ चौर्य्यमाणे च।

अपह्रियमाण = त्रि० अप + हृ–कर्म्मणि शानच्। १ चौर्य्यमाणे। २ अपाकृष्यमाणे च।

अपांक्षय = पु० ६ त० अलुक् स०। १ नेत्रे। अश्रुजलधरत्वात्तथात्वम् “अपांक्षये चक्षुषि, त्वां सादयामि “चक्षु र्वा अपांक्षय इति” श्रुतिः यजुर्वेददीपः। पदद्वयमित्येके।

अपांज्योतिस् = न० ६ त० अलुक्स०। १ विद्युत्सुता हि अप्सु क्षियन्ति “अपांज्योतिषि विद्युति त्वां सादयामि” “विद्युद्वा अपांज्योतिरिति” श्रुतिः वे० दी० पदद्वयमित्येके

अपांनपात् = पु० न पातयति पत–णिच्–क्विप् न० त० “न भ्राण्नपादित्या०” पा० प्रकृतिभावः अलुक्स०। १ यज्ञ देवताभेदे। “अपोनपात् अपांनपाच्च देवतेति” सि० कौ०। “अपोनपाते अपांनपातेऽनुब्रूहीति” प्रैष्यः।

अपांनप्त्रि(प्त्री)य = त्रि० अपांनपात् देवताऽस्य घ, छ वा। १ अपांनपाद्देवताके हविरादौ।

अपांनाथ = पु० ६ त० अलुक् स०। १ समुद्रे।

अपांनिधि = पु० निधीयतेऽस्मिन् नि + धा–आधारे कि ६ त० अलुक्स०। १ समुद्रे, २ विष्णौ च “अपांनिधिरविष्ठानमप्रमत्तः प्रतिष्ठित इति” विष्णुसह०। “सरितामस्सि सागर” इति गीतोक्तेस्तस्य तथात्वम्।

अपांपति = पु० पा–डति ६ त० अलुक् स०। १ समुद्रे, २ वरुणे च।

अपांपाथस् = न० पाथः सारः ६ त० अलुक्स०। १ अन्ने तस्य वृष्टिप्रभवत्वात्तथात्वम् “वृष्टेरन्नं ततः प्रजेति” गीतायां तथोक्तेः। “अपांपाथसि अन्ने त्वां सादयामि” “अन्नं वा अपांपाथ” इति श्रुतिः वे० दी०। पदद्वयमित्येके।

अपांपित्त = न० ६ त० वा अलुक् स०। १ अग्नौ, तस्य जलहेतुत्वात् तत्पित्तत्वम् “आकाशाद्वायुर्द्वायोरग्निरग्नेराप” इति” श्रुतौ तस्य तथात्वावगतेः। वा लुकि अप्पित्तम प्यत्र।

अपांपुरीष = न० पुरीषं मलः ६ त० अलुक्स०। १ सिकतासु, तासां जलमलरूपत्वात्तथात्वम् “अपांपुरोषे सितकासु त्वां सादयामि “सिकता वा अपां पुरीषमिति श्रुतिः” वेददी०

अपांयोनि = स्त्री ६ त० अलुक्समा०। १ समुद्रे “अपांयोनौ समुद्रे” इति वेददी० “समुद्रोवै अपांयोनिरिति” शत० ब्रा० पदद्वयमित्येके।

अपांशु(सु)ला = स्त्री पांश(स)वोव्यभिचारदोषाः सन्ति यस्याः सिधा० लच् पांशु(सु)ला स्वैरिणी न० त०। १ पतिव्रतायां स्त्रियाम् “अपां(सु)शुलानां धुरि कीर्त्तनीयेति” रघुः।

अपांसदन = न० अलुक्स०। १ दिवि “दिवि ह्यापः सन्ना इति” शत० ब्रा०। भिन्नं पदमित्येके।

अपांसधस्थ = पु० ६ त० अलुक्स०। १ अन्तरिक्षे “अपांसथस्थे अन्तरिक्षे” वेददी० “अन्तरिक्षं वा अपांसधस्थमिति” शत० ब्रा०। भिन्नं पदमित्येके।

अपांसधिम् = न० ६ त० अलुक्स०। १ श्रोत्रे “अपांसधिषि श्रोत्रे” वेददो०। “श्रोत्रं वा अपांसधिरिति” शत० ब्रा०।

अपांसमुद्र = पु० समुद्रः सदनम् ६ त० अलुक्स०। १ मनसि “मनो वा अपां समुद्र” इति शत० ब्रा०।

अपाक = पु० पच–घञ् न० त०। १ पाकाभावे, भुक्तान्नादेरग्निमा द्यादिना २ पाकाभावे च। ७ ब०। तत्साधने ३ अजीर्ण्णतारोगे। ६ ब०। पाकरहिते आमे त्रि०। ४ मूर्खः पाकः ५ तद्भिन्ने, प्राज्ञे “ऐतनापाकाः प्राञ्चोन केचिदापय” इति ऋ० १, ११०२, अपाकाः! पक्तव्यप्रज्ञाःअपरिपक्वज्ञाना इति भा०। “अदिद्युतत् स्वपाको विभावाग्ने ऋ० ६, ११,। पाकः पक्तव्यप्रज्ञोसूर्खस्तद्विलक्षण इति” भा० “आ यस्मिन् त्वेःस्वपाके यजत्रा” ऋ० ६, १२, २, “अपाके प्राज्ञे” इति भा० “पाकः पक्तव्य” इति निरु०। पाकश्च द्विविधः लौकिकः अलौकिकश्च तत्र लौकिकः दहनादिसाध्यः अलौकिकस्तु द्विविधः कालकृतपरिणतिभेदः जटराग्निसाध्यश्च तत्र तण्डुलादेः पाकः लौकिकः, आम्रफलादेः कालकृतः, भुक्तान्नादेः जठराग्निकृतः वैद्यकप्रसिद्धः। स च सुश्रुते दर्शितः “विपाकः प्रधानमिति” कस्मात्? सम्यङ्मिथ्याविपाकत्वादिह सर्व्वद्रव्याण्यभ्यवहृतानि सम्यग्मिथ्याविपक्वानि गुणं दोषं वा जनयन्ति। तत्राहुरन्ये प्रतिरसं पाक इति। केचित्त्रिविधमिच्छन्ति मधुरमम्लं कटुकं चेति तत्तु न सम्यग्भूतगुणादागमाच्चाम्लो विपाको नास्ति पित्तं हि विदग्धमम्लतामुपैत्यग्नेर्मन्दत्वात्। यद्येवं लवणोऽप्यत्यः पाको भविष्यति श्लेष्मा हि विदग्धो लवणतामुपैति मधुरो मधुरस्याम्लोऽम्लस्यैवं सर्व्वेषामिति केचिदाहुर्दृष्टान्तं परिदिशन्ति यथा तावत् क्षीरं स्थालीगतमभिपच्यमानं मधुरमेव स्यात्तथा शालियवमुद्गादयः प्रकीर्ण्णाः स्वभावमुत्तरकालेऽपि न परित्यजन्ति तद्वदिति। केचिद्वदन्त्यबलवन्तोबलवतां वशमायान्तीत्येवमनवस्थितिस्तस्मादसिद्धान्त एषः। आगमे हि द्विविध एव पाकोमधुरः कटुकश्च तयोर्म्मधुराख्योगुरुः कटुकाख्यो लघुरिति तत्र पृथिव्यप्तेजोवाय्वाकाशानां द्वैविध्यं भवति गुणसाधर्म्याद्गुरुता लघुता च पृथिव्यापश्च गुर्व्यः, शेषाणि लघूनि, तस्माद्द्विविध एव पाक इति। भवन्ति चात्र। द्रव्येषु पच्यमातेषु येष्वम्बु पृथिवीगुणाः। निर्व्वर्त्तन्तेऽधिकास्तत्र पाको मधुर उच्यते।। तेजोऽनिलाकाशगुणाः पच्यमानेषु येषु तु। निर्व्वर्त्तन्तेऽधिकास्तत्र पाकः कटुक उच्यते।। पृथक्त्वदर्शिनामेष वादिनां वादसंग्रहः। चतुर्णामपि सामर्य्यमिच्छन्त्यत्र विपश्चितः।। तद्द्रव्यमात्मना किञ्चित् किञ्चिद्वीर्य्येण सेवितम्। किञ्चिद्रसविपा- काभ्यां दोषं हन्ति करोति वा।। पाको नास्ति विना वीर्य्याद्वीर्य्यं नास्ति विना रसात्। रसो नास्ति विना द्रव्याद्द्रव्यं श्रेष्ठमतः स्मृतम्।। जन्म तु द्रव्यरसयोरन्योऽन्यापेक्षकं स्मृतम्। अन्योऽन्यापेक्षकं जन्म यथा स्याद्देहदेहिनोः।। वीर्य्यसंज्ञा गुणा येऽष्टौ तेऽपि द्रव्याश्रयाः स्मृताः। रसेषु न वसन्त्येते निर्गुणास्तु गुणाः स्मृताः।। द्रव्ये द्रव्याणि यस्माद्धि विपच्यन्ते न षड्रसाः। श्रेष्टं द्रव्यमतो ज्ञेयं शेषा भावास्तदाश्रयाः।। अमीमांस्यान्यचिन्त्यानि प्रसिद्धानि स्वभावतः। आगमेनोपयोज्यानि भेषजानि विचक्षणैः” इति।। तदुभयाभावः अपाकः। वैद्यकोक्तापाकलक्षणमुक्तं निदाने “अङ्गमर्द्दोऽरुचिस्तृष्णा आलस्यं गौरवं ज्वरः।। अपाकः शून्यताङ्गानामामवातस्य लक्षणमिति”। गात्रप्रदेशे क्वचिदेव दोषाः संमूर्च्छिता मांसमसृक् प्रदुष्य, वृत्तं स्थिरं मन्दरुजं महान्तमनल्पमूलं चिरवृद्ध्यपाकमिति” माधवः। पाकः अल्पः ६ तद्भिन्ने त्रि०। “सेनयाग्नेरपाकचक्षस” इति ऋ० ८। ७५। ७। “अपाकचक्षसः अनल्पचक्षस” इति भा०। अधिकं पाकशब्दे वक्ष्यते।

अपाकज = त्रि० न पाकाज्जायते जन–ड न० त०। १ पाकजभिन्ने “अपाकजानुष्णाशीतः स्पर्शस्तु पवने मत” इति भाषा०।

अपाकरण = न० अप + आ + कृ–ल्युट्। १ निराकरणे। “तदपाकरणायाहेति” प्रश्न० उ० भा०। “ऋणत्रयापाकरणान्नास्त्यपवर्ग इति” गौ० सू० अपसारणे, दूरीकरणे च। “निधाय वत्सापाकरणं पूर्ब्बवदिति” का० ४१२। ३५।

अपाकरिष्णु = त्रि० अप + आ + कृ–बा० इष्णुच्। १ दूरीकरणशीले २ अपसारणशीले।

अपाकर्त्तोस् = अव्य० अप + आ + कृ–कृत्यार्थे तोसुन्। १ अपाकर्त्तव्ये तस्य च भावलक्षणत्वमौपाधिकम्।

अपाकर्म्मन् = न० अप + आ + कृ मनिन् निरासे।

अपाकशाक = पु० न पच्यते शाको यस्य। १ आर्द्रके। तस्य मूलमेव भोजनार्थं पच्यते न शाकः।

अपाकिन् = त्रि० न पाकोऽस्त्यस्य इनि।। १ पाकशून्ये अपाके।

अपाकृत = त्रि० अप + आ + कृ–क्त। १ निवारिते २ दूरीकृते “अपाकृतस्वेदलवामरुद्भिरिति” रघुः।

अपाकृति = स्त्री अप + आ + कृ–भावे क्तिन्। १ दूरीकरणे। २ अपसारणे च।

अपाकृत्य = अव्य० अप + आ + कृ–ल्यप्। १ निराकृत्येत्यर्थे “ऋणत्रयमपाकृत्य मनोमोक्षे निवेशयेदिति” मनुः।

अपाक्रिया = स्त्री अप + आ + कृ–भावे श। १ अपाकरणे २ अपसारणे “ऋणानाम नपाक्रियेति” उपपातकगणनयां स्मृतिः

अपाक्तात् = अव्य० अपाची अवाची प्रतीची वा बा० तातिल् १ अवाच्याः २ प्रतीच्या वा इत्यर्थे “प्राक्तादपाक्तादधरादुदक्तादभि ऋ० ७, १०४। १९। अपाक्तात् प्रतीच्या इति भा०।

अपाक्ष = न० अपनतमनुगतमक्षमिन्द्रियम् अत्या० स०। १ इन्द्रियसन्निकर्षजे प्रत्यक्षे २ तद्विषये त्रि० त्रिका०।

अपाङ्क्तेय = त्रि० सद्भिः सह भोजने पङ्क्तिमर्हति अर्हार्थे ढक् न० त०। १ सद्भिः सह एकपङक्तौ भोजनानर्हे स्तेनपतितादौ। अत्र ष्यञि अपाङ्क्त्य इत्यपि। ते च मनौ दर्शिताः यथा “ये स्तेनपतितक्लीबा ये च नास्तिकवृत्तयः। तान् हव्यकव्ययोर्विप्राननर्हान्मनुरब्रवीत्।। जटिलं चानधीयानं दुर्बलं कितवं तथा। याजयन्ति च ये पूगांस्तांश्च श्राद्धे न भोजयेत्।। चिकित्सकान् देवलकान् मांसविक्रयिणस्तया। विपणेन च जीवन्तोवर्ज्याः स्युर्हव्यकव्ययोः। प्रेष्यो ग्रामस्य राज्ञश्च कुनखी श्यावदन्तकः। प्रतिरोद्धा गुरोश्चैव त्यक्ताग्निर्वार्द्धुषिस्तया।। यक्ष्मी च पशुपालश्च परिवेत्ता निराकृतिः। ब्रह्मद्विट् परिवित्तिश्च गणाभ्यन्तर एव च।। कुशीलवोऽवकीर्ण्णी च वृषलीपतिरेव च। पौनर्भवश्च काणश्च यस्य चोपपतिर्गृहे।। भृतकाध्या पको यश्च भृतकाध्यापितस्तथा। शूद्रशिष्यो गुरुश्चैव वाग्दुष्टः कुण्डगोलकौ।। अकारणपरित्यक्ता मातापित्रोर्गुरोस्तथा। ब्राह्मैर्यौनैश्च सम्बन्धैः संयोगं पतितैर्गतः।। अगारदाही गरदः कुण्डाशी सोमविक्रयी। समुद्रयायी वन्दी च तैलिकः कूटकारकः।। पित्रा विवदमानश्च कितवो मद्यपस्तथा। पापरोग्यभिशस्तश्च दाम्भिको रसविक्रयी।। घनुःशराणां कर्त्ता च यश्चाग्रेदिधिषूपतिः। मित्रध्रुग्द्यूतवृत्तश्च पुत्राचार्यस्तथैव च।। भ्रामरी गण्डमाली च श्वित्र्यथो पिशुनस्तथा। उन्मत्तोऽन्धश्च वर्ज्याः स्युर्वेदनिन्दक एव च।। हस्तिपोऽश्चोष्ट्रदमको नक्षत्रैर्यश्च जीवति। पक्षिणां पोषको यश्च युद्धाचार्यस्तथैव च।। स्रोतसां भेदको यश्च तेषां च पोषणे रतः। गृहसंवेशको दूतो वृक्षारोपक एव च।। श्वक्रीडी श्येनजीवी च कन्यादूषकं एव च। हिंस्रो वृषलवृत्तिश्च गणानां चैव याजकः।। आचारहीनः क्लीवश्च नित्यं याचनकस्तया। कृषिजीवी श्लीपदी च सद्भिर्निन्दित एव च।। औरभ्रिको माहिषिकः परपूर्वापतिस्तथा। प्रेतनिर्हारकश्चैव वर्जनीयाः प्रयत्नतः।। एतान् विगर्हिताचारानपाङ्क्तेयान् द्विजाधमान्। द्विजातिप्रवरोविद्वानुभयत्र विवर्जयेत्। ब्राह्मणस्त्वनधीयानस्तूलाग्निरिव शाम्यति। तस्मै हव्यं न दातव्यं न हि भस्मनि हूयते।। अपाङ्क्त्य- दाने यो दातुर्भवत्यूर्द्ध्वं फलोदयः। दैवे हविषि पित्र्ये वा तत्प्रवक्ष्याम्यशेषतः।। अव्रतैर्यद्द्विजैर्भुक्तं परिवेत्त्रादिभिस्तथा। अपाङ्क्तेयैर्यदन्यैश्च तद्वै रक्षांसि भुञ्जते” इति।।

अपाङ्क्त्य = त्रि० न पङ्क्तिमर्हति ञ्य न० त०। १ अपाङ्क्तेये। “अपाङ्क्त्यदाने योदातुरिति” मनुः।

अपाङ्ग = पु० अपाङ्गति तिर्य्यक् चलति नेत्रं यत्र अप + अङ्ग घञ्। १ नेत्रप्रान्ते, “अजनि पङ्गुरपाङ्गनिजाङ्गणभ्रमिकणेऽपि तदीक्षणखञ्जन” इति नैष० २ तिलके च। अपगतमङ्गं यस्य प्रा० व०। ३ अङ्गहीने त्रि० स्त्रियां ङीप्।

अपाङ्गक = पु० अपकृष्टमङ्गंयस्यवा कप्। (आपाङ्) इति ख्याते अपामार्गे। स्वार्थेकन् १ नेत्रान्ते पु०। २ अपगताङ्गे त्रि०।

अपाङ्गदर्शन = न० अपाङ्गेन नेत्रान्तेन दर्शनं ३ त०। १ कटाक्षे

अपाङ्गनेत्र = न० अपाङ्गं देशं व्याप्य नेत्रम्। १ दीर्घनेत्रे।

अपाच् = त्रि० अपाञ्चति अप + अन्च–क्विप्। १ अपगमनकर्त्तरि २ अप्रकाशार्थे च। स्त्रियां ङीप्। सा च ३ दक्षिणस्यां दिशि, ४ प्रतीच्यामिति वेदभाष्ये माधवः। “प्राक्तादपाक्तादधरादिति ऋ० ७, १०४, १९ “अपाक्तात् प्रतीच्या” इति तेन व्याख्यानात्। तत्र पदान्तरेण दक्षिणप्रतीतेरपाक्शब्दस्य प्रतीच्यां लक्षणैव न तत्रशक्तिरिति तु युक्तम्।

अपाचीन = त्रि० अपाच्यां दक्षिणस्यां भवः ख। १ दक्षिणदिग्भवे २ अप्रकाशमाने च। “योह्यपाचीने तमसि मदन्तीरिति” ऋ० ७, ६, ४, “अपाचीने अप्रकाशमाने” भा०।

अपाच्य = त्रि० अपाच्यां भवः “द्युप्रागित्या०” पा० यत्। १ दक्षिणदिग्भवे पदार्थे “ये के च नीच्यानां राजानो ये अपाच्यानामिति” ऐत० व्रा०।

अपाटव = न० पाटवं पटुता पटु + भावेऽण् नास्ति तद्यत्रं। १ रोगे। न० त०। २ पटुताभावे “अपाटवाद्यशौचाद्यैर्य्यदि विघ्नं प्रजायते” इति स्मृतिः। ६ ब०। ३ पटुताशून्येत्रि०

***