अन्विच्छा = स्त्री अनु + इष–अ नि०। अन्वेषणे।
अन्वित = त्रि० अनु + इण + क्त। अनुगते, युक्ते, सहसम्बद्धे, शाब्दबोधे विशेष्यताप्राप्ते च “प्रकृत्यर्थान्वितस्वार्थबोधकत्वं प्रत्ययानामिति” न्यायः।
अन्विष्ट = त्रि० अनु + इष्–क्त। अन्वेषिते कृतान्वेषणे। “यद्वायुरन्विष्टमृगैः किरातै” रिति कुमा०। कृतानुसन्धाने च “अन्विष्टः स्यात् प्रमातैव पाप्मदोषादिवर्ज्जित” इति शा० भा०।
अन्विति = त्रि० इण–क्तिन् नमस्कारेण अनुकूला इतिः यस्य। नत्या अनुकूलताप्राप्ते “अन्वितिरसि दिवे त्वेति” ता० ब्रा०। “अन्वितिः अनुकूलनतियुक्तोऽसीति” भा०।
अन्वीक्षा = स्त्री पश्चात् ईक्षा पर्य्यालोचना प्रा० स०। वेदवाक्यश्रवणस्य पश्चात् तदर्थनिश्चयार्थं तदर्थपर्य्यालोचने, अन्वीक्षायै हिता ठक्। आन्वीक्षिकी तर्कविद्या। “आन्वीक्षिकी कौशलानामिति” गीता। ल्युट्। अन्वीक्षणमप्यत्र न०।
अन्वीत = त्रि० अनु + ई–गतौ कर्त्तरि क्त। अनुगते अन्वितशब्दार्थे
अन्वीप = त्रि० अनुगता आपो यत्र स्थानादौ अच्समा० अचि आत ईत्। अनुगतजले स्थाने, देशे वाच्ये तु “ऊदनोर्देशे” इति पा० ऊत्, अनूपोदेशः।
अन्वृच = अव्य० ऋचि विभ० अव्ययी० अच् समा०। ऋचीत्यर्थे। “त्रिष्ठुभश्चान्वाह तासायुक्तो बन्धुरुक्तं वेवामन्वृचमिति” शत० ब्रा०।
अन्वेष = पु० अनु + इष–भावे घञ्। अन्वेषणे अनुसन्धाने गवेषणे “वयं तत्त्वान्वेषान्मधुकर! हतास्त्वं खलु कृतीति” शकु०।
अन्वेषण = न० अनु + इष–भावे ल्युट्। अनुसन्धाने गवेषणे नष्टद्रव्यस्य दर्शनाय लाभाय वा व्यापारभेदे। “रन्ध्रान्वेषणदक्षाणां द्विषामामिषतां ययौ” रघुः।
अन्वेषणा = स्त्री अनुगता एषणा “इषेरनिच्छार्थकस्येति” पा० युच् टाप्। तत्त्वानुसन्धाने तर्कादिना ज्ञातपदार्थस्य शुद्ध्यर्थं युक्त्यादिना समर्थने गवेषणे च।
अन्वेषित = त्रि० अनु + एषृ–गतौ–इष–स्वार्थे णिच्–कर्म्मणि वा क्त। गवेषिते, कृतानुसन्धाने च।
अन्वेषिन् = अनु + इष–णिनि। गवेषणकर्त्तरि “तौ सीतान्वेषिणौ गृध्रं लूनपक्षमपश्यतामिति” रघुः। स्त्रियां ङीप्।
अन्वेष्टव्य = त्रि० अनु + इष–कर्म्मणि तव्य। अनुसन्धेये “सोऽन्वेष्ट व्यः स विजिज्ञासितव्य इति श्रुतिः “अन्वेष्टव्यात्मविज्ञानात् प्राक्प्रमातृत्वमात्मन” इति शा० भा०।
अन्वेष्टृ = त्रि० अनु + इष–शीलार्थे तृच् वा इडभावः। गवेषण शीले तत्कर्त्तरि च “अनुपदमन्वेष्टा” पा०। इट्पक्षे अन्वेषिताप्यत्र। उभययतः स्त्रियां ङीप्।
अप् = स्त्री ब० व०। आप–क्विप् ह्रस्वश्च। जले। “प्रत्तं जलं द्व्यञ्जलमन्तिकेऽपाम्” भट्टिः। “अद्भिरेव पारयित्वा नैत्यिकान्ते भुजिक्रियेति” स्मृतिः अग्नेरापः, अद्भ्योन्नमिति श्रुतिः “अपएव ससर्ज्जादौ तासु वीजमवासृजदिति” मनुः। समासान्ते अच् समासान्तः। “बह्वपानि तडानि सारसाः समुपासते” इत्युद्भटः। कृतसमासान्तस्य उपसर्ग द्व्यन्तःपरस्य आतईत्त्वम्। समीपंप्रेपम् द्वीपः अन्तरीपम्। अनुपूर्ब्बात्तु देशे वाच्ये ऊत्। अनूपोदेशः अन्यत्र अन्वीपोग्राम इत्यादि। पूजार्थकसुपूर्ब्बात् न अच्। स्वाम्पि नगराणि। अपां विकारः मयट्। अम्मयः वा ष्यञ्। आप्यम्। स्वार्थे चातु० ष्यञ्। आप्यं जले न०।
अप = अव्य० न पाति पा–ड। वियोगे विकृतौ, विपरीते, निदर्शने, आनन्दे, वर्ज्जने, चौर्य्ये च। “अप–वियोग विकृति–विपरीत–निदर्शनानन्द–वर्ज्जन–चौर्य्य–वारणेषु” इति ग० म०। वियोगे “अपयाति “सत्वे निविशतेऽपैतीति” पा० भा०। “भीत्या रामादपासरत्?। विकृतौ, अपकृतः अपचयः” विपरीते, अपशब्दः “तएव शक्तिवैकल्यप्रमादालसतादिभिः। अन्यथोच्चारिताः शब्दा अपशब्दा इतीरिता” इति हर्य्युक्तेः साधुशब्दानां वैपरीत्येनीच्चारणएवापशब्दत्वस्य परिभाषितत्वादस्य विपरीतशब्दत्वम्। निदर्शने निदेशे अपदिशति। आनन्दे अपहसति, वर्जने “अपपरी वर्जने” इति पा० उक्तेः कर्म्मप्रवचनीयसंज्ञा तद्योगे पञ्चमी। अप त्रिगर्त्तात् वृष्टोदेवः। चौर्य्ये अपहरति। वारणेअपवर्त्तयति “समेन केनापवर्त्त्येति” लीला०। अपकर्षे अपकर्म्म। अधः प्रदेशे, च अपाङ अपानः। अधोगतिमानित्यर्थः।
अपकर्म्मन् = न० अपकृष्टं कर्म्म प्रा० स०। दुष्टाचरणे। अपाकरणे च “ऋणस्यानपकर्म्म चेति” दत्तस्यानपकर्म्म चेति स्मृतिः प्रा० व०। दुष्टाचरणवति त्रि०। स्त्रियां वा ङीप्।
अपकर्त्तृ = त्रि० अप + कृ–तृच् स्त्रियां ङीप्। अपकारकारके।
अपकर्ष = पु० अप + कृष–भावे घञ्। उचितधर्म्मापेक्षातो हीनतायां, “तत्र पृथिव्यादीनामन्योन्यानुप्रवेशकृतः सलिलभवरसोऽत्युत्कर्षापकर्षेण चेति” यथा हि वर्णानां पञ्चानामुत्कर्षापकर्षकृतेन संयोगविशेषेणेति” च सुश्रुतः “उत्कर्षञ्चापकर्षञ्ज मनुष्येष्विह जन्मत इति” मनुः। “उत्कर्षापकर्षविहीनोमध्यः सि० कौ०। स्वकर्त्तव्यकालात् पूर्ब्बकालकरणे, परसूत्रपदानामन्वयार्थं पूर्ब्बसूत्रे आकर्षणे आकर्षणमात्रे च। अपकृष्यते कर्म्मणि घञ्। स्वकालतः पूर्ब्बं कर्त्तव्ये यथा अपकर्षससिण्डनम्। तथा च “मुख्यं श्राद्धं मासिमासि अपर्य्याप्तावृतुं प्रति। द्वादशाहेन वा कुर्य्यादेकाहे द्वादशाथवेति” स्मृतौ मरणोत्तरं मृताहे मासि मासि कर्त्तव्यानां मृहाहनिमित्तकमासिकादीनां द्वादशाहेषु एकाहेषु च कर्त्तव्यत्वोक्तेः सर्व्वापकर्षः। तथाऽपकर्षे च हेतव एकपुत्रत्वादयः। “आनन्त्यात् कुलधर्म्माणां पुत्रस्य चायुषः क्षयात्। अस्थितेश्च शरीरस्य द्वादशाहे प्रशस्यते इति” स्मृत्युक्ताः। तत्र पाश्चात्त्यानां कुलधर्म्मात् द्वादशाह एव कर्त्तव्यतायाः कुलपरम्पराचारः। वङ्गीयानान्तु एकपुत्रस्यैव आयुषःक्षयसम्भावनायामिति भेदः। अयमेव सर्वापकर्षः, आवश्यकवृद्ध्यारम्भकाले तु न सर्वापकर्षः। किन्तु पश्चाद्भाविनामेवापकर्ष इति भेदः। एवं नवममासादिष्वप्यपकर्षणे न सर्वाप्रकर्ष इति बोध्यम्।
अपकर्षक = त्रि० अपकर्षति अप + कृष–कर्त्तरि ण्वुल्। अपकर्षकारके “रसस्यानपकर्षकत्वे तेषां दोषत्वमपि नाङ्गीक्रियते” इति “दोषास्तस्यापकर्षका” इति च सा० द०।
अपकर्षण = त्रि० अपकर्षति अपहरति कर्त्तरि ल्यु। अपहारके “नचास्ति सदृशं तेन किञ्चित्स्थौल्यापकर्षणमिति” “वर्षायां बद्धविन्मूत्रारूक्षाः श्लेषापकर्षणा” इति सुश्रु० भावे ल्युट्। आकर्षणे न०। “सशल्यः क्लिश्यते प्राणैर्विशल्योविनशिष्यति। इति मामाविशच्चिन्ता तस्य शल्यापकर्षणे” रामा०।
अपकाम = त्रि० अपगतः कामो यस्य यत्र यस्माद्वा प्रा० ब०। अपगतकामे वा उत्तरपदलोपाभावे अपगतकामोऽप्युक्तार्थे “अपकामं स्यन्दमाना अवीवरत वोहितमिति” अथ० ३१३, ३,। काभस्यात्ययः अत्यये अव्ययी०। कामात्यवे अव्य० “शत्रोरकामं कृणोति धन्वनेति” ऋ० ६, ७५, २, “अपकामं कामस्यापायमिति” भा०।
अपकार = पु० अप + कृ–भावे घञ्। अनिष्टसम्पादने तद्धेतौ द्रोहे च “द्रोहोऽपकार इति” सि० कौ०। “उपकर्त्त्रारिणा सन्धिर्न मित्रेणापकारिणा। उपकारापकारौ हि लक्ष्यं लक्षणमेतयोरिति” माघः। “अपकारोऽनिष्टचिन्ते” त्युक्तेरनिष्टं भूयादिति चिन्तने च “ततो जातास्त्विमा धोरा नानारूपा महाविषाः अपकाराय बर्त्तन्ते इति सुश्रुतः।
अपकारगिर = स्त्री अपकारेण द्वेषेण गीर्य्यते गॄ–क्विप्। भर्त्सनवाक्ये। “भर्त्सनं त्वपकारगीः” इत्यमरः।
अपकारिन् = त्रि० अप + कृ–कर्त्तरि णिनि। अपकारकारके, अनिष्टचिन्तके’ द्रोग्धरि च। “उपकर्त्त्रारिणा सन्धिर्न मित्रेणापकारिणेति” माघः स्ववीर्य्येणैव तान् शिष्यान्मानवानपकारिण” इति मनुः।
अपकृत = त्रि० अप + कृ–कर्म्मणि क्त। यस्यानिष्टं कृतं तस्मिन् कृतद्रोहे “किं मयापकृतं तस्येति”। भावे क्त। अपकारे न०। “मित्रस्य चैवापकृते द्विविधोविग्रहः स्मृत” इति मनुः।
अपकृति = स्त्री अप + कृ–भावे क्तिन्। अपकारे, अनिष्टचिन्तने, द्रोहे च।
अपकृत्य = न० अपकृष्टं कृत्यम् प्रा० स०। अपकृष्टकर्मणि। अप + कृ–भावे क्यप्। अपकारे न०। भावे स्त्रियां क्यप्। अपकृत्या अपकारे स्त्री।
अपकृष्ट = त्रि० अप + कृष–क्त। अधमे, हीने, स्वकालात् पूर्व्वकाले कृते, परसूत्रादन्वषार्थं पूर्बसूत्रे आकृष्टे, आकृष्टमात्रे च “स्वोच्चापकृष्टा भगणैः प्राङ्मुखंयान्ति मद्ग्रहा” इति सूर्य्यसिद्धान्तः।
अपक्ति = स्त्री न पक्तिः अभावार्थे न० त०। पाकाभावे।
अपक्रम = पु० अप + क्रम–भावे घञ्। अपयाने। अपक्रमादुहैवैषामेतद्बिभयाञ्चकार” शत० ब्रा० ४, ३, ३, ११। अपक्रम्यते यस्मात् अपादाने घञ्। अपयानावधिस्थाने “विक्षिपत्येष विक्षेपं चन्द्रादीनामपक्रमादिति” सू० सि०। “अपक्रमात् क्रान्तिवृत्तस्थस्पष्टग्रहभोगस्थानादिति” रङ्गनाथः। अपगतः क्रमःपरिपाटी यस्मात् प्रा० स०। क्रमविहीने अक्रमे त्रि० वा उत्तरपदलोपाभावे अपगतक्रमोऽप्युक्तार्थे त्रि०। क्रमस्यात्ययः अव्ययी०। क्रमात्यये अव्य०। क्त्वि वेट्कत्वात् वा वृद्धिः। अपक्रामोऽप्युक्तार्थे। “यस्यस्याभिक्रान्त्याऽपक्रामाय” इति ऐ० व्रा०।
अपक्रमण = त्रि० अप + क्रम–भावे ल्युट्। अपयाने पलायने च। “अपक्रमणमेवाख सर्वकामैरहं वृणे” इति रामा०। “पुरस्तान्नापक्रमणमस्त्यत्रैवान्विच्छतेति” शत० व्रा०।
अपक्रमिन् = त्रि० अप + क्रम–कर्त्तरि णिनि वेट्कामन्तत्वात् वा ह्रस्वः। अपयानकर्त्तरि “तानेवैतदनपक्रमिणोऽकुरुत” शत० ब्रा० वृद्धौ अपक्रामीत्यपि स्त्रियां ङीप्।
अपक्रिया = स्त्री अप + कृ–मावे स्त्रियां श। द्रोहे, अपकारे च। चतुर्थोपायसाध्ये तु रिपौ सान्त्वमपक्रियेति” माघः। “जन्मवेषतपसां विरोधिनीं मा कृथाः पुनरमूमपक्रियामिति” किरा०।
अपक्रोश = पु० अप + क्रुश–घञ्। निन्दने। उपक्रोशोऽप्यत्र। भावे ल्युट्। अपक्रोशनमप्यत्र न०।
अपक्व = त्रि० न पक्वः। अपरिणते अपक्वयोगी अपरिणतयोगी यथा योगाभ्यास उचितः तथाभ्यासशून्यः इत्यर्थः। आमे तण्डुलफलादौ च। “अपक्वेन वर्त्तितव्यं फलमूलादिनापि वेति” स्मृतिः।
अपक्ष = त्रि० नास्ति पक्षो गरुत् यस्य। पक्षशून्ये उड्डयनशक्तिशून्ये च। पक्षः सहायः। तच्छून्ये।
अपक्षपात = पु० पक्षे सहायतायां पातः आनुकूल्यम् अभावार्थे न० त०। पक्षपाताभावे सहायताऽकरणे। “अपक्षपातात् वक्तव्यं सभायामिति निश्चय इति” नीति०।
अपक्षपातिन् = त्रि० पक्षे सहायतायां पतति पत–णिनि ७० त० ततः न० त०। पक्षपातिमिन्ने यथार्थवादिनि।
अपक्षेपण = न० अप–क्षिप–ल्युट्। अधःस्थानसंयोगहेतौ क्रियाविशेषे, अधःपातने च। अवक्षेपणमम्यत्रार्थे। उत्क्षेपणं तथापक्षेपणमाकुञ्चनं तथा प्रसारणञ्च गमनं कर्म्माण्येतानि पञ्च चेति” भाषा० अवक्षेपणमिति वा पाठः।
अपगण्ड = पु० गण्डोवृद्धो वैपरीत्यार्थकेनापशब्देन प्रा० स०। अतिबाले अपोगण्ड इति हैम०। अपोगण्डशब्दे विवरणं दृश्यम्।
अपगत = त्रि० अप + गम–कर्त्तरि क्त। अपयाते पलायिते च। भावे घञ्। तत्रार्थे पु०।
अपगम = पु० अप + गम–भावे घञ् न वृद्धिः। अपयाने अपसरणे। “निद्रापगमहेतुभ्यो विबोधश्चेतनागम” इति सा० द० “पुराणपत्रापगमादनन्तरं लतेव सन्नन्धमनोज्ञपल्लवेति” रघुः।
अपगर = पु० अप + निन्दार्थे गॄ–भावे अप्। निन्दने। “अन्यदन्तर्वेदीत्युपक्रम्य “अभिगरापगरौ” कात्या० १३, ३, ३, “अपगरोनिन्देति” तद्व्या०।
अपगा = स्त्री अपगच्छति निष्यन्दते अप + गम–ड। आपगायाम् नद्याम्। अपयानकर्त्तरि त्रि०।
अपगा(गो)रम् = अव्य० अप + गुरी–उद्यमने णमुल् एच आच्च वा। उद्यम्येत्यर्थे “अस्यपगारम् अस्यवगोरं वेति” सि० कौ०।
अपगोह = पु० अप + गुह–घञ्। तरोधाने गोपने च। “स विद्वानपगोहं कणीनामाविर्भवन्निति” ऋ० २, १५, ७, “अपगोहं तिरोभावमिति” भाष्यम्।
अपघन = पु० अपहन्यते संहत्य कर्म्म कृत्वा वियुज्यते अप + हनअप् घनादेशः। शरीरे, हस्ताद्यवयवे च। शरीरादि हि पुरुषोपभोगाय प्रथमं संहत्य तत्तत्कर्म्म निष्पाद्य भोगादृष्टक्षये पुनर्वियुज्यते इति तस्य तथात्वम्। देहादेः संहत्य कारित्वं च पातञ्जलादौ दर्शितं यथा। “परार्थं संहत्य कारित्वादिति” पात०। इतरसाहित्येनार्थक्रियाकारित्वं संहत्यकारिता, संहननञ्च आरम्भकसंयोगभेदः। तथा च देहादिकं परार्थं (स्वेतरस्य भोगापवर्गफलकम्,) संहतत्वात् शय्यासनादिवदित्यनुमानप्रयोगः। अतएव सांख्यसूत्रे “संहतपरार्थत्वादिति” संहन्तृसिद्धिरुक्ता। संहतानां देहा दीनां स्वेतरस्य भोगादिफलकत्वात् संघातातिरिक्तः पुरुषोऽनुमीयते नहि अचेतनानां देहादीनां स्वतः संघातः सम्भवति अतः संघातसिद्धये पुरुषसिद्धिरिति समुदितार्थः। “संयोगाश्च विभागान्ता” इत्युक्तेः संयोगभेदरूपसंहननस्यावश्यं वियोगान्तत्वात् देहादीनां तदवयवानाञ्च क्रमेणारम्भकसंयोगनाशेन परस्परवियोग इत्यतोऽङ्गादेरवश्यवियोगवत्त्वात् तथात्वम् अतएव “अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिण” इति गीतायामारम्भकसंयोगनाशपूर्ब्बकपरस्परवियोगेन नाश उक्तः। “लौहोद्घनघनस्कन्धा ललितापघनां स्त्रियमिति” भट्टिः। अपगतोघनोमेघो यस्मात् प्रा० ब० वा गतलोपः। मेघावरणशून्ये त्रि० वा गतलोपाभावे अपगतघनोऽप्युक्तार्थे।
अपघात = पु० अप–हन–भावे घञ्। अपकृष्टहनने दुष्टहेतुकमरणे च।
अपघातक = पु० अपहन्ति अप + हन–ण्वुल्। विनाशके। “जिज्ञासा तदरपघातके हेतौ” सा० का० पाठान्तरम्।
अपघातिन् = त्रि० अप + हन–कर्त्तरि णिनि। अपहननकर्त्तरि स्त्रियां ङीप्।
अपच = पु० न पक्तुं शक्तः पच–“अच्कावशक्ताविति” पा०। अच्। पक्तुमशक्ते। “अपचः पक्तुमशक्त” इति सि० कौ०।
अपचय = पु० अप + चि भावे अच्। हानौ, अपहरणे, व्यये च।
अपचरित = न० अपकृष्टं चरितं प्रा० स०। अपकृष्टचरिते सदोषाचरणे, “आहोस्वित् प्रसवो ममापचरितैर्विष्टम्भितो वीरुधामिति” शकु०।
अपचार = पु० अप + चर–भावे घञ्। अहिताचरणे अपथ्यसेवने “कृतापचारोऽपि परैरनाविष्कृतविक्रियः। असाध्यं कुरुते कोपं प्राप्ते काले गदों यथेति” माघः। “अपचारः अपकारः अपथ्यञ्चेति” मल्लि०। “योनिप्रदोषाच्च भवन्ति शिश्ने पञ्चोपदंशा विविधापचारैरिति” वैद्य०। वैपरीत्यादिहेतुकदोषे “नापचारमगमन् क्वचित् क्रिया” इति माघः। “अपचारं लोपविषयविपर्य्यासादिदोषमिति” मल्लि०। विनाशे च “महाध्वरे विध्यपचारदोष” इति किरा०। “अपचारः कर्म्मलोपदोष” इति मल्लि०। “मुद्गापचारे माषप्रतिनिधाविति” मीमांसा। अपकर्म्मणि च “गूहमानाऽपचारं सा बन्धुपक्षभयात्तदा” भा० आ० प० १११ अ०।
अपचारिन् = त्रि० अप + चर–तच्छीलार्थे कर्त्तरि घिनुण्। अपकर्म्मकरणशीले स्त्रियां ङीप्। “पत्यौ भार्य्यापचारिणीति” मनुः। “भार्य्या अपचारिणी व्यभिचारिणी जारपतिं क्षममाणे भर्त्तरि पापं संश्लेषयतीति” कुल्लूकभट्टः।
अपचिकीर्षा = स्त्री अपकर्त्तुमिच्छा अप + कृ–सन्–भावे स्त्रियाम् अ। अपकर्त्तुमिच्छायाम्।
अपचिकीर्षु = त्रि० अपकर्त्तुमिच्छुः अप + कृ–सन्–उ। अपकारकरणेच्छावति।
अपचित् = त्रि० अप + चि–क्विप्। अपचयकारके। “इतस्ताः सर्वानश्यन्तु बाधका अपचितामिव” अथ० ६, २५, १।
अपचित = त्रि० अपचाय्यते आनन्देन पूज्यते चाय–पूजनादौ क्त चायतेश्चिः अपशब्दस्यानन्दपूर्ब्बकत्वम्। आनन्देन पूजिते। पूजितो हि आनन्दपूर्ब्बकं पूज्यते। अप + चिक्त। जातापचये अवयवाद्यपचययुक्ते, हीने, व्ययिते च। “तत्रापचितवलाः प्राणिनोभवन्ति” सुश्रुतः।
अपचिति = स्त्री० अप + चाय–क्तिन् चायतेश्चिः। पूजायाम् “विहितापचितिर्महीभृता” इति माघः। अप + चि–क्तिन्। अपचये हीनतायाम्, अपक्षयरूपभावविकारभेदे च।
अपची = स्त्री अपकृष्टं पच्यतेऽसौ पच–कर्मकर्त्तरि अच् अप्राशन्त्ये न० त० गौ० ङीष्। गण्डमालोपरिजाते रोगभेदे “अथातोऽग्रन्थ्यपच्यर्वुदगण्डमालानां निदानं व्याख्यास्याम” इत्युपक्रम्य “अनन्यवर्ण्णैरुपचीयमानं चयप्रकर्षादपचींवदन्ति कण्डूयनान्तेऽल्परुजाः प्रभिन्नाः स्रवन्ति नश्यन्ति भवन्ति चान्ये” इति सुश्रुते तल्लक्षणमुक्तम्। “ते ग्रन्थयो केचिदनाप्तपाकाः स्रवन्ति नश्यन्ति भवन्ति चान्ये। कालानुबन्धं चिरमादघाति सैवापचीति प्रवदन्ति केचिदिति” वै० “नाडीं कफानिलकृतामपचीं व्रणांश्चेति” अपचीं गण्डमालां च ग्रहणीं शोथमेव वेति” चसुश्रुतः।
अपचीयमान = त्रि० अप + चि–कर्मकर्त्तरि शानच्। अपक्षीयमाणे।
अपच्छाय = पु० अपगता देहच्छाया कान्तिर्वास्य प्रा० ब० वा गतलोपश्च। देवे देहच्छायाशून्यत्वात्तेषामपच्छायत्वम्। अतएव “भजन्तु रूपं कियदस्य देवाश्छाया नलस्यास्ति तथापि नैषाम्। इतीरयन्तीव तथा निरैक्षि सा (छाया) नैषधे नत्वमरेषु तेषु” इति नैषधे देवानां छायाराहित्यं लक्षणत्वेन वर्ण्णितम्। अपगतकान्तौ त्रि०।
अपच्यव = पु० अप + च्युङ्–गतौ भावे अप्। अपसरणे निर्गमने “यत्र नार्य्यपच्यवमुपच्यवञ्च शिक्षते” इति ऋ० १, २८, ३ “अपच्यव्यं शालायानिर्गममिति” भा०। अप–च्यु–क्षरणे, अप्। अपक्षरणे।
अपच्युत = त्रि० अप + च्यु–कर्त्तरि क्त। अपक्षयप्राप्ते नष्टप्रायेक्षरिते च।
अपजर्गुराण = त्रि० अप + गॄ–यङ् लक्–ताच्छील्ये चानश्। आच्छादनादिमोचन शीले “जिगर्त्तिमिन्द्रो अपजर्गुराण” इति ऋ० ५, २९, ४,।
अपञ्चीकृत = त्रि० अपञ्चात्मकः पञ्चात्मकः कृतः न० त०। पञ्चात्मकतामनासादिते सूक्ष्मभूते, पञ्चीकारप्रकारस्तु पञ्चीकरणशब्दे वक्ष्यते “पञ्चप्राणमनोबुद्धिदशेन्द्रियसमन्वितम् अपञ्चीकृतभूतोत्थं सूक्ष्माङ्गं भोगसाधनमिति” वेदा० प०।
अपजय = पु० अप + जि–भावे अच्। पराजये।
अपटान्तर = त्रि० पटेन तिरस्करिण्या अन्तरमत्र न० त०। अव्यवहिते, आसन्ने, संसक्ते च। अपदान्तरमित्यप्यत्रैवार्थे।
अपटी = स्त्री अल्पः पटः पटी न० त०। (कानात्) इति ख्याते काण्डपटे वस्त्रप्रावरणे स च “दूष्याधोलम्बिवायुसञ्चारार्थः पठभेद” इति मल्लिनाथः।
अपटीक = त्रि० नास्ति पटी यस्य कप्। प्रावरशपटशून्ये, अपगता टीकाव्याख्याग्रन्थोयस्य। टीकाज्ञानशून्ये “अपटीकोजडोमाघे भृशं जाड्येन ताड्यते” इत्युद्भटः।
अपटीक्षेप = पु० अपट्याः काण्डपटस्य क्षेपः। प्रावरणपटक्षेपे। नाट्यै हि प्रावरणपटे अन्यैराक्षिप्ते एव पात्रप्रवेशोऽभिनयसम्प्रदायस्तमुल्लङ्घ्य पात्रेण यत्र काण्डपटं स्वयं क्षिप्त्वा प्रविश्यते तेन चाकस्मिकत्वं तत्प्रवेशस्य गम्यते। एतत्प्रयोगश्च भरिशो नाटकेषु।
अपटु = त्रि० पटुर्दक्षः न० त०। रोगिणि, दक्षतारहिते, कार्य्याक्षमे, दक्षताविरोघिमन्दत्वे च। भावे त्व अपटुत्वम्। अपाटवे। तल्। अपटुताप्यत्रैव त्वान्तं न० तलन्तं स्त्री। गुणवचनत्वात् इमनिच्। अपटिमा तत्रैव पु०।
अपण्य = त्रि० न पण्यः विक्रेयः अप्राशस्त्ये न० त०। स्मृत्यादिनिषिद्धविक्रये पदार्थे। प्रायश्चित्तसहितानि अपण्यानि च प्रायश्चित्तविवेके दर्शितानि यथा विष्णुः। कृष्णवस्त्ररङ्गरत्नगुडगन्धमधुरसोर्ण्णाविक्रयी त्रिरात्रमुपवसेत्। रङ्गः सिन्दूरकुसुम्भादि। एतत् सकृद्विक्रये पैठीनसिः। “तथाऽविक्रेयाणि ब्राह्मणस्य लवणं पक्वान्नं मधुरक्षीरं दधि घृतमुदकं सर्व्वगन्धीलाक्षारक्तवासो गुडस्तैलं ग्राग्यरशूनामेकशाफाः केशिनः। सर्व्वे चारण्याः पशबोविद्यापूर्त्तमिष्टं गावः शङ्खश्चोर्ण्णा चेति विक्र- येण तेषामेकैकस्मिन् प्राजापत्यञ्चरेत्”। तथाच्यवनः “दघिमधूच्छिपिष्टसर्पिःपक्वान्नतिलतक्रक्षीररसविषतिलाश्वनीलीकौषैयवासोलाक्षारसलवणविक्रये प्राजापत्यञ्चरेत्। एतच्चाभ्यासविषयं तत्र धेनुरेका दातव्या। हारीतः। “लाक्षालवणमांसतैलक्षीरदधिघृततक्रगन्धचर्म्मरक्तवाससामेकतमविक्रये चान्द्रायणम्” तथा शातातपः। “आममांस सुरासोमलाक्षालवणसर्पिर्षाम्। विक्रये सर्व्वपण्यानां द्विजश्चान्द्रायणञ्चरेत्”। ऐतच्चात्यन्ताभ्यासे चान्द्रायणे चाष्टधेनवः। भविष्यपुराणे। “गुडं तिलांस्तथा नीलीं केशगोधूमकन्यकाः। विक्रये ब्राह्मणोऽपाञ्च कृच्छ्रं सान्तपनञ्चरेत्”। एतद्वारत्रयाभ्यासे सान्तपने धेनुद्वयम्। हारीतः “अथोर्ण्णिकेशिकेशरिणाञ्च धेन्वनडुदश्मशस्त्रविस्तविक्रये तप्तच्छ्रहृविधिः। हिङ्गुगुग्गुलुरससर्जरसहरितालमनःशिलाञ्जन गैरिकक्षारलवणमणिमौक्तिकप्रबालदन्तनखशुक्तिशङ्खवेणुवैणवमृण्मयविक्रये च। आरामतडागोदपानपुष्करिणीपूर्त्तसुहृद्विक्रयेषु त्रिषवणस्नाय्यधःशायी चतुर्थकालभुक् संवत्सरेण पूतोभवतीति”। आरामादिनिखिलविक्रये ह्योतदितिधर्म्मप्रदीपः। तथा “हीनोन्मानमापनसङ्कर सङ्कीर्ण्णविक्रये च”। अत्र च कामाकामसकृदभ्यासापेक्षयावैषम्यदोषः समर्थनीयः। हीनमानोन्मानमापनं तुलादीनाङ्करसङ्कीर्ण्णत्वं द्रव्यस्याद्रव्येण। विष्णुः “प्राणिभूपुण्यसोम विक्रयी तप्तह्रच्छ्रं कुर्य्यात्। अन्नौषधिपुष्पमूलचर्मबिदलतुषकार्पासकेशभस्मास्थिगोरसपिण्याकतिलतैलविक्रयी प्राजापत्यम्”। विदलः पाचितवंशादिनिर्म्मितः। तथा “श्लेष्म जतुमधूच्छ्विष्टशङ्गश्रुक्तित्रपुशीशककृष्णलोहोडुम्बरखड्गपात्रविक्रयी महासान्तपनम्”। श्लेष्मा चर्म्मविकारः वरुडेति यस्य पर्य्यायः। महासान्तपने धेनुद्वयम्, सुमन्तुः “देवर्षिसोमचैत्र्यान्नापत्यकूपोदपानदारात्मनां विक्रये कृच्छ्रद्वयम्। घृततिलतैलरक्तवस्त्रपक्वान्नानां प्राजापत्यंचरेत्। गोविक्रयनिन्दामाह यमः। “गवां विक्रयकारी च गवि रोमाणि यानि तु। तावद्वर्षसहस्राणि गवां गोष्ठे क्रमिर्भवेत्”।। यच्च मनुनोक्तं सद्यः पतति मांसेन लाक्षया लवणेन च। त्र्यहेण शूद्रीभवति ब्राह्मणः क्षीरविक्रयीति, तन्निन्दातिशयार्थम्। गौतमः। “पशवः हिंसायोगे” अस्यार्थः यत्र विक्रीताः सन्तः पशवोहिंस्यन्ते तत्र तेषामप्यपण्यत्वम्। यानि चान्यानि गुरुतरप्रायश्चित्तबोधकवचनानि तानि वहुतरकालाभ्यासे समूह्यानि शूद्रस्य त्वत्यन्तापदि दोषाभावमाह पराशरः। “लवणं मधु मद्यं वा दधि तक्रं घृतं पयः। न दुष्येत् शूद्रजातीनां कुर्य्यात् सर्वेषु विक्रयम्”।। कालिकापुराणे। “विक्रयं सर्ववस्तूनां कुर्वन् शूद्रो न दोषभाक्।। मधुचर्मसुरां लाक्षां त्यक्त्वा मांसञ्च पञ्चमम्”। एतदप्यापदि, दोषापवादमाह गौतमः। “विनिमयस्तु रसानां रसैः पशूनाञ्च लबणकृतान्नयोस्तिलानाञ्च समेनामेन पक्वस्य संयत्यर्थे”। पशूनां समानजातीयैरसमानजातीयैर्वा पशुभिरेव परिवर्त्तो न तु द्रव्यान्तरेण। पक्वान्नस्य चामेन तण्डुलादिना तावत्परिमितेनेत्यर्थः। अत्र समशब्दादत्यद्रव्यपरिवर्त्ते न नियमः। मनुः “रसारसैर्विमातव्या नत्वे व लवणं रसैः। घृतान्नञ्चाहृतान्नेन तिलधान्येन तत्समाः”।। वशिष्ठः “रसारसैः समतोहीनतो वा विमातव्या नत्वेव लवणं रसैः तिलतण्डुलपक्वान्नविद्यामनुष्याश्च विहिताः परिवर्त्तकेन”। नारदः। “अशक्तौ भेषजस्यार्थे यज्ञहेतोस्तथैव च। यद्यवश्यन्तु विक्रेयास्तिला धान्येन तत्समाः”।। एतेन “काममुत्पाद्य कृष्यात्तु स्वयमेव कृषीबलः। विक्रीणीत तिलान् शुद्धान् धर्म्मार्थमचिरस्थितानिति” मनुवचनम् तिलविनिमयपरम्।।
अपतन्त्रक = पु० अपगतं तन्त्रं भिषजामधीनता यत्र कप्। वातरोगभेदे “वायुरूर्द्ध्वं व्रजेत् स्थानात् कुपितो हृदयं शिरः। सन्धौ च पीडयत्यङ्गान्याक्षिपेन्नमयेच्च सः। निमीलिताक्षो निश्चेष्टस्तब्धाक्षो वापि कूजति। निरुच्छ्वासोऽथ वा कृच्छ्रादुच्छ्वस्य नष्टचेतनः। स्वस्थः स्वाद्धृदये मुक्ते आवृते च प्रमुह्यति। कफान्वितेन वातेन ज्ञेय एषोऽपतन्त्रक इति” सुश्रुते २५५ पृ० तल्लक्षणमुक्तम्। “अपतन्त्रकातुरं नापतर्पयेदिति” सुश्रुतः।
अपतर्पण = न० अप + तृप–भावे ल्युट्। रोगादौ–उपवासे, तृप्त्यभावे च। “अपगतं तर्पणं यस्य वा गतलोपः तपणशून्ये त्रि० “क्रियाभिश्चिकित्सेत् स्थूलमपतर्पणं युक्ताभिरिति” सुश्रुतः।
अपतानक = पु० अपक्रम्य अन्तरान्तरा तनुते तन कर्त्तरि–ण्वुल्। वातरोगभेदे “यदा तु घमनीः सर्व्वाः कुपितोऽभ्येति मारुतः। तदाक्षिपत्याशुमुहुर्मुहृर्देहं मुहुश्चरः। मुहुर्मुहुस्तदाक्षेपादाक्षेपक इति स्मृतः। सोऽपतानकसंज्ञोयः पातयत्यन्तान्तरेति मुश्रुते आक्षेपकवातरोगस्यैवान्तरान्तरापतने अपतानकसंज्ञा” मु० २५४ पृ० कृता “अभिघातनिमित्तश्च शोणिताभिस्ववाच्च यः। गर्भपातनिमित्तश्च न सिध्यत्यपतानक” इति तत्रैव तस्यासाध्यतोक्ता “अभुक्तवता पीतमम्लदधिमरिचवचायुक्तमनतानकं हन्ति तैलसर्पिर्वसाक्षौद्राणि चेति” सुश्रु०।
अपत्नी = स्त्री नास्ति पतिर्यस्याः “विभाषा सपूर्ब्बस्येति” पा० वा न ङीप् च। पतिरहितायां स्त्रियाम्। पक्षे अपतिरित्यपि कपि तु अपतिकेचेव तत्रैवार्थे।
अपत्नीक = पु० नास्ति सन्निकर्षे कर्म्मयोग्या, मृत्या वा पत्नी यस्य कप्। असन्निकृष्टपत्नीके, कर्म्मायोग्यपत्नीके, मृतपत्नीके च। “अपत्नीकस्याहवनीये तच्छ्रापिणः” कात्या० २, ५, १८। “अपत्नीकस्य रजोदोषप्रसवप्रवासादिना असन्निहितपत्रीकस्य तच्छ्रापिण आहवनीयश्रापिणः आहवनीये हविःश्रपणं कुर्ब्बतो यजमानस्य “आहवनीये आज्यमधिश्रयती” त्युक्तेः। आहवनोयश्रापिणोऽपि सन्निहितायां पत्न्यां गार्हपत्य एवाज्यमधिश्रयति, शाखान्तरे चैवं श्रूयते “यस्य व्रत्येऽहनि पत्न्यनालंभुक्ती (रजस्वला) स्यात्तामनपरुध्य यजेतेति”। केचित् अपत्नीको मृतपत्नीक इत्याहुः तस्याप्येकाकिन एवाघानं श्रूयते आश्वलायनब्राह्मणे, “पत्न्यां मृतायामग्निभिर्दग्धायां पुनर्विवाहासम्भवे आत्मार्थमग्न्याधानमाहापस्तम्बः दर्शपौर्णमासाग्रयर्णार्थं, शेषाणि कर्म्माणि न भवन्तीति” तथा त्रिकाण्डे मण्डनः “तस्मान्नग्न्यैकदेशेन दग्धव्या पूर्व्वमारिणी पत्नी ज्येष्ठेतरा वापि यज्ञपार्श्वे निरूपितम्”।। कात्यायनः (कर्मप्रदीपे) “मृतायामपि भार्य्यायां वैदिकाग्नीन्नहि त्यजेत्। उपाधिनापि तत्कर्म यावज्जीवं समापयेदिति”। तद्व्या० (उपाधिना स्वर्ण्णादितत्प्रतिमूर्त्त्या)। नास्ति पत्नीसहिता यस्य कप्। पत्नीस्यहित्यरहिते। “पितृयज्ञमुपक्रम्य”। “अपत्नीकः” कात्या० ५, ७, ५। “पितृयज्ञो भवति केबलस्यैकाकिनो यजमानस्यैवाधिकारो न तु पत्नीसहितस्य। अतोऽत्र पत्न्याः प्रतिषेधात् “पत्नीं समुह्येति प्रैषस्याभावः। आज्यावेक्षणं त्वाज्यसंस्कारत्वादध्वर्य्युः करोतीति” तद्व्या०।
अपत्य = न० न पतन्ति पितरोऽनेन पत–वा करणे यत् न० त०। पुत्रदुहितृरूपे संताने। “नापुत्रस्य लोकोऽस्तीति श्रुतेः पुत्राभावे स्वर्गादिलोकानुत्पत्तेः “पुत्रेण लोकान् जयति पौत्रेणानन्त्यमश्नुते अथ पुत्रस्य पौत्रेण व्रध्नस्याप्नोति पिष्टपमिति” या० स्मृतेश्च तदुत्पादेने स्वर्गलोकलाभोक्तेः “पुन्नाम्नो नरकाद्यस्मात् पितरं त्रायते सुतः। तस्मात् पुत्र” इति स्मृत्या नरकनिस्तारकत्वस्य श्रुतेश्च सुतादीनां पतनाहेतुत्वात् तथात्वम् पौत्रादीनामपि पतनाहेतुत्वात् अपत्यत्वम्। अतएव “अपत्यं पौत्रप्रभृति गोत्रभिति” पा० सूत्रे पौत्रादीनामप्यपत्यशब्दपाच्यतोक्ता। पौत्रादीनां तुगोत्रसंज्ञापीति विशेषः। “अपत्यं पितुरेव स्यात् ततः प्राचामपीति चेति” सि० कौ० का०। “अपत्यैरिव नीवारभागघेयोचितैर्मृगैरिति” रघुः। “सोऽपत्यंभ्रातुरुत्पाद्येति” “अपत्यलाभात् या तु स्त्रीति, “अपत्यं धर्मशुश्रूषेति” च मनुः।
अपत्यदा = स्त्री० अपत्यं तद्धेतुं गर्भं ददाति। सेवनेन गर्भदायके ओषधिविशेषे गर्भदायिविद्यादौ च। अपत्यदायिमात्रे मन्त्रादौ त्रि०।
अपत्यपथ = पु० अपत्यस्य गर्भात् तन्निसारणस्य तदुत्पत्तेश्च पन्थाः अच् समा०। पुत्रनिःसारणद्वारे स्त्रीणां गुह्यस्थानभेदे “स यदा विगुणानिललपीडोऽपत्यपथमनेकधाप्रतिपद्यते इति” स्त्रीणान्तु विंशतिरधिका, दश तासां स्तनयोरैककस्मिन् पञ्च पञ्च, यौवने तासां परिवृद्धिः। अपत्यपथे चतस्र इति”। “तिर्य्यगामतस्य परिघस्येव तिरश्चीनस्य पार्श्वादूर्द्धमूर्द्धमुत्क्षिप्य गर्भमपत्यपर्थ प्रत्यार्ज्जवमानीयापहरेत् पार्श्वापवृत्तशिरसमसंप्रपीड्य ऊर्द्धमुत्क्षिप्य शिरोऽपत्यपधमानीयापहरेदिति” च सुश्रुतः।
अपत्यशत्रु = स्त्री अपत्यं शत्रुर्गर्भभेदनेन नाशकं यस्याः। कर्कट्याम् सा हि गर्भेऽपत्यजनने तन्निःसारणसमये गर्भस्फोटनान्मियते इति” लोकप्रसिद्धेः “स्वनाशाय कर्कटी गर्भं धत्त इत्युक्तेश्च तथात्वम्! ६ त०। अपत्यनाशके, कर्कटे सर्पे च।
अपत्यसाच् = पुंस्त्री० अपत्यैः सचते संबध्यते सच–वेदे–ण्वि। अपत्यसमवेते। “अपत्यसाचं श्रुत्यं रराथाम्” ऋ० १, ११७, २३।
अपत्र = पु० नास्ति पत्रं दलं पक्षोवास्य। वंशकरीरे (कोढ) अङ्कुरे च तदवस्थायां तयोः पत्रशून्यतयोत्पत्तेस्तथात्वम्। गलितपत्रे वृक्षे, गलितपक्षे विहगे च।
अपत्रप = त्रि० अपगता त्रपा लज्जा यस्मात् प्रा० ब० वा गतलोपः। लज्जाहीने लोपाभावे अपगतत्रपीऽप्युक्तार्थे।
अपत्रपा = स्त्री अपरम् अपेक्ष्य त्रपा, अप + त्रप–भावे स्त्रियाम् अ वा। अन्यहेतुकलज्जायाम् लज्जामात्रे च। “अपत्रपा चेतसि च न्यषेधदिति” नैषधम्।
अपत्रपिष्णु = त्रि० अप + त्रप–शीलार्थे इष्णुच्। स्वभावतो लज्जाशीले।
अपथ = न० न पन्थाः अप्राशस्त्ये न० त०। “अपथं” पु० न० पा०। “विभाषेति” पा० वा अच् समा०। अपकृष्टपथे निन्दितपथे कुपथे। “घनागमे राजपथे हि पिच्छिले क्वचिद्बुधैरप्यपथेन गम्यते” इति नै०। “को वा न पदमप्रथेऽकार्य्यत मया” इति प्रबोध०। “अथैतदपथमिवैति यदेतांदिशमिति” शत० ब्रा०। नास्ति पन्थाः सुन्दरमार्गो यत्र ब० अच् समा०। सुन्दरपथशून्ये ग्रामादौ त्रि०। पथोऽभावः अव्ययी० अच् समा०। मार्गाभावे अव्य०।
अपथिन् = पु० न पन्थाः अप्राशस्त्ये न० त० वा अजभावः। अपकृष्टपथे।
अपथ्य = न० पथ्ये वैद्यकोक्तभोजनादिनियमाय नीत्युक्ताचाराय वा हितम् यत् न० त०। वैद्यकोक्तिमुल्लङ्घ्य, अनिष्टे मोजनादौ अहिताचारे च “अकार्य्यं कार्य्यसङ्काशमपथ्यं पथ्यमस्मेतम्” रामा०। “संतापयन्ति किमपथ्यभुजं न रोगा” इति वै०। पथ्यापथ्ये च सुश्रुते दर्शिते यथा “अथातो हिताहितीयमध्यायं व्याख्यास्यामः। यद्वायोः पथ्यं तत्पित्तस्यापथ्यमित्यनेन हेतुना न किञ्चिद्द्रव्यमेकान्तेन हितमहितं वास्तीति” केचिदाचार्य्या ब्रुवते तत्तु न सम्यक्। इह खलु यस्माद् द्रव्याणि स्वभावतः संयोगतश्चैकान्तहितान्येकान्ताहितानि हिताहितानि च भवन्ति। तत्रैकान्तहितानि जातिसात्म्यात् सलिलघृतदुग्धौदनप्रभृतीनि। एकान्ताहितानि दहनपचनमारणादिषु प्रवृत्तान्यग्निक्षारविषादीनि। संयोगादपराणि विषतुल्यानि भवन्ति। हिताऽहितानि तु यद्वायोः पथ्यं तत्पित्तस्यापथ्यमित्यतः सर्व्वप्राणिनामयमाहारार्थं वर्ग उपदिश्यते। तद्यथा रक्तशालिषष्टिककङ्गुकमुकुन्दकपाण्डुकपीतकप्रमोदककालकाशनकपुष्पककर्दमकशकुनाहृतसुगन्धककलमनीवारकोद्रवोद्दालकश्यामाकगोधूमवेणुयवादयः। एणहरिणकुरङ्गमृगमातृकाश्वदंष्ट्राकरालक्रकरकपोतलावतित्तिरिकपिञ्जलवर्त्तीरवर्त्तिकादीनां मांसानि। मुद्गवनमुद्गमकुष्ठकलायमसूरमङ्गल्यचणकहरेण्वाढकीसतीनाः। चिल्लीवास्तूकसुनिषण्णकजीवन्तीतण्डुलीयकमण्डूकपर्ण्यः। गव्यं घृतं सैन्धवदाडिमामलकमित्येष वर्गः सर्वप्राणिनां सामान्यतः पथ्यतमः। तथा ब्रह्मचर्य्या-निवातशयनोष्णोदकनिशास्वप्नव्यायामाश्चैकान्ततः पथ्यतमाः। एकान्तहितान्येकान्ताहितानि प्रागुपदिष्टानि।। हिताहितानि तु यद्वायोः पथ्यं तत्पित्तस्यापथ्यमिति।। संयोगतस्त्वपराणि विषतुल्यानि भवन्ति। तद्यथा। वल्लीफलकवककरीराम्लफललवणकुलत्थपिण्याकदधितैलविरोहिपिष्टशुष्क शाकाजाविकमांसमद्यजाम्बवचिलिचिममत्स्यगोधावराहांश्च नैकध्यमश्नीयात् पयसा।
रोगं सात्म्यञ्च देशञ्च कालं देहञ्चबुद्धिमान्। अवेक्ष्याग्न्यादिकान् भावान् रोगवृत्तेः प्रयोजयेत्। अवस्थान्तर- बाहुल्याद्रोगादीनां व्यवस्थितम्। द्रव्यं नेच्छन्ति भिषज इच्छन्ति स्वस्थरक्षणे। द्वयोरन्यतरादाने वदन्ति विषदुग्धयोः। दुग्धस्यैकान्तहिततां विषमेकान्ततोऽहितम्।। एवं युक्तरसाद्येषु द्रव्येषु सलिलादिषु। एकान्तहिततां विद्धि वत्स! सुश्रुत! नान्यथा।।
अतोऽन्यान्यपि संयोगादहितानि वक्ष्यामः।। न च विरूढधान्यैर्व्वसामधुपयोगुडमाषैर्व्वा ग्राम्यानूपोदकपिशितादीनि चाभ्यवहरेत्। न पयोमधुभ्यां रोहिणीशाकं जातु शाकं वाश्नीयात्। बलाकां वारुणीकुल्माषाभ्याम्। काकमाचीं पिप्पलीमरिचाभ्यां, नाडीभङ्गशाककुक्कुटदधीनि च नैकध्यम्। मधु चोष्णोदकानुपानं पित्तेन वा मांसानि। सुराकृशरपायसांश्च नैकध्यम्। सौवीरकेण सह तिलशष्कुलीम्। मत्स्येः सहेक्षुविकारान्।। गुडेन काकमाचीं, मधुना मूलकं, गुडेन वाराहं, मधुना च सह विरुद्धम्। क्षीरेण मूलकम्। आम्रजाम्बवश्वाविच्छूकरसगोधाश्च सर्व्वांश्चमत्स्यान्विशेषेण चिलिचिमं पयसा। कदलीफलं तालफलेन, पयसा, दध्ना, तक्रेण वा। लकुचफलं पयसा, दध्ना, माषसूपेन वा मधुना, घृतेन च प्राक् पयसः पयसोऽन्ते वा।
अतः कर्म्मविरुद्धान् वक्ष्यामः।। कपोतान् सर्षपतैलभृष्टान्नाद्यात्। कपिञ्जलमयूरलावतित्तिरिगोधाश्चैरण्डदार्वग्निसिद्धा एरण्डतैलसिद्धा वा नाद्यात्। कांस्यभाजने दशरात्रपर्य्युषितं सर्पिर्म्मधु चोष्णैरुष्णे वा। मत्स्यपरिपचने शृङ्गवेरपरिपचने वा सिद्धां काकमाचीम्। तिलकल्कसिद्धमुपोदिकाशाकम्। नारिकेलेन वराहवसापरिभृष्टां बलाकाम्। भासमङ्गारशूल्यं नाश्नीयादिति।।
अतो मानविरुद्धान् वक्ष्यामः।। मध्वम्बुनी मधुसर्पिषी मानतस्तुल्ये नाश्नोयात्। स्नेहौ मधुस्नेहौ जलस्नेहौ वा विशेषादान्तरीक्षोदकानुपानौ। अत ऊर्द्ध्वंरसद्वन्द्वानि रसतो वीर्य्यतो विपाकतश्च विरुद्धानि वक्ष्यामः। तत्र मधुराम्लौ रसवीर्य्यंविरुद्धौ मधुरलवणौ च मधुरकटुकौच सर्वतः। मधुरतिक्तौ रसविपाकाभ्यां मधुरकषायौ चाम्ललवणौं रसतः। अम्लकटुकौ रसविपाकाभ्यामम्लतिक्तावम्लकषायौ च सर्व्वतः। लवणकटुकौ रसविपाकाम्यां लवणतिक्तौ लवणकषायौ च सर्वतः। कटुतिक्तौ रसवीर्य्याभ्यां कटुकषायौ तिक्तकषायौ च रसतः। तरतमयोगयुक्तांश्च भावानतिरुक्षानतिस्निग्धानत्युष्णानतिशीतानित्येवमादीन् विवर्जयेत्। भवन्ति चात्र।। विरुद्धान्येवमादीनि रसवीर्य्यविपाकतः। तान्येकान्ता- हितान्येव शेषं विद्याद्धिताहितम्।। व्याधिमिन्द्रियदौर्बल्यं मरणञ्चाधिगच्छति। विरुद्धरसवीर्य्यादीन् भुञ्जानोऽनात्मवान्नरः।। यत्किञ्चिद्दोषमुत्क्लेश्य भुक्तं कायान्न निर्हरेत्। रसादिष्वयथार्थं वा तद्विकाराय कल्पते।। विरुद्धाशनजान् रोगान् प्रतिहन्ति विरेचनम्। वमनं शमनं वापि पूर्ब्बं वा हितसेवनम्।। सात्म्यतोऽल्पतया वापि दीप्ताग्नेस्तरुणस्य च। स्निग्धव्यायामबलिनां विरुद्धं वितथं भवेत्।। व्यायामशोलो बलवान् शिशुश्च स्निग्धोऽग्निमांश्चापि महाशनश्च। आप्नोति रोगान्न विरुद्धजातानभ्यासतो वाऽल्पतया च जन्तुः। अथ वातगुणान् वक्ष्यामः।।
पूर्ब्बः समधुरः स्निग्धो लवणश्चैव मारुतः। गुरुविदाहजननो रक्तपित्ताभिवर्द्धंनः।। क्षतानां विषजुष्टानां बलिनः श्लेष्मलाश्च ये। तेषामेव विशेषेण सदा रोगविवर्द्धनः।। वातलानां प्रशस्तश्च श्रान्तानां कफशोषिणाम्। तेषामेव विशेषेण व्रणक्लेदविवर्द्धनः।। मधुरश्चाविदाही च कषायानुरसोलघुः। दक्षिणो मारुतः श्रेष्ठश्चक्षुष्यो बलवर्द्धनः। रक्तपित्तप्रशमनो न च वातप्रकोपणः।। विषदो रूक्षपरुषः स्वरः स्नेहबलापहः। पश्चिमो मारुतस्तीक्ष्णः कफमेदोविशोषणः। सद्यः प्राणक्षयकरः शोषणस्तु शरीरिणाम्।। उत्तरो मारुतः स्निग्धो मृदुर्म्मधुर एव च। कषायानुरसः शीतो दोषाणामप्रकोपणः।। तस्माच्च प्रकृतिस्थानां क्लेदनो बलवर्द्धनः। क्षीणक्षयविषार्त्तानां विशेषेणतु पूजितः” इति पृ० १, २०।
अपद् = त्रि० न पद्यते ज्ञायते पद–कर्म्मणि क्विप् न० त०। अज्ञेये। “गायत्र्यस्येकपदी द्विपदी त्रिपदी चतुष्पद्यपदसि न पद्यसे” इति शत० ब्रा० १४, ८, १५, १०। नास्ति पादोऽस्याः पादोऽन्त्यलोपः कुम्भ० ङीप् पादः पच्च। पादशून्यायांस्त्रियाम्। पुंसि तु अन्त्यलोपो “न ङीप्। अपाद्। “आपादशीर्षा गूहमान” इति ऋ० ४ १, ११। “अपादहस्तोऽपृतन् यदिन्द्रमिति” ऋ० १, ३२, ७। “अथ यदपात् समभवत्तस्मादहिरिति” शत० ब्रा०। “अपादपाणिर्जवनोग्रहीतेति” श्रुतिः।
अपद = न० न पदम् अप्राशस्त्ये न० त०। अप्रकृष्टस्थाने सुप्तिङन्तभिन्ने च नापदं शास्त्रे प्रयुञ्जीतेति वृद्धाः।
अपदान = न० अपदायति परिशुध्यति येन कर्मणा अप + दैपशोधने करणे ल्युट्। परिशुद्धाचरणे येन कर्मणा सर्व्वैः परिशुद्धत्वेन ज्ञायते तस्मिन् कर्मणि।
अपदान्तर = त्रि० न पदान्तरं व्यवधानं यत्र। अव्यवहिते सन्निकृष्टे, संसक्ते च।
अपदिश = अव्य० दिशयोर्मध्ये अप + दिशा + अव्ययी०। दिशोमध्ये विदिक् इति कोण इति च ख्याते। दिक्शब्देन समासे तु शरदा० टच् इति भेदः।
अपदिष्ट = त्रि० अप + दिश–कर्म्मणि क्त। कथिते प्रयुक्ते। “कालात्ययापदिष्टश्च हेत्वाभासाश्च पञ्चधेति” भाषा०।
अपदेश = पु० अप + दिश–घञ्। लक्ष्ये, स्वरूपाच्छादनरूपे, छले, निमित्ते स्थाने च। “रक्षापदेशान्मुनिहोमधेनो रिति” रघुः। “न धर्म्मस्यापदेशेन पापं कृत्वा व्रतं चरेदिति”। “भक्ष्यभोज्यापदेशैश्च ब्राह्मणानां च दर्शनैः”। “शौर्य्यकर्म्मापदेशेनेति” “साक्ष्यभावे प्रणिधिभिर्वयोरूपसमन्वितैः। अपदेशैश्च संन्यस्य हिरण्यं तस्य तत्त्वत इति” च मनुः। उपदेशे च। “दीक्षाया अपदेशात्” कात्या० २२, १२२। अपदेश उपदेश इत्यर्थः। अपकृष्टोदेशः प्रा० ब० वा कृष्टपदलोपः। अपकृष्टदेशे, अनुचितस्थाने च।
अपदेश्य = त्रि० अप + दिश–कर्म्मणि यत्। छलेन कथनीये। अपदेशे अनुचितस्थाने भवः दिगा० यत्। अनुचितस्थानभवे त्रि०। “अपदिश्यापदेश्यञ्च पुनर्यस्त्वपधावतीति” मनुः। यत्र यस्य दानमुचितं ततोऽन्यत्र स्थाने दानस्यानुचितत्वात् तथात्वम्।
अपद्रव्य = न० अपकृष्टं द्रव्यम् प्रा० ब० वा कृष्टभागलोपः। अपकृष्टद्रव्ये “अदूषितानां द्रव्याणां दूषणे भेदने तथेति” मानव व्याख्यायाम् “अपद्रव्यप्रदानेन दूषणे” इति कुल्लकः।
अपद्वार = न० अपकृष्टं द्वारं प्रा० ब० वा कृष्टलोपः। अपकृष्टद्वारे “निर्यियासुरपद्वारैरिति” सुश्रुतः।
अपधा = स्त्री अप + वारणे धा–भावे स्त्रियाम् अङ्। वारणार्थं निरोधे, “गा उदाजदपधा बलस्य” इति ऋ० २, १२, ३। “अपधाअपधायाः निरोधादिति” भा०।
अपध्यान = न० अपकृष्टं ध्यानम् प्रा० स०। अनिष्टचिन्तने। वैपरोत्यचिन्तने च।
अपध्वंस = पु० अप + ध्वन्स–भावे घञ्। नाशे, यस्य यथारूपमुचितं ततः प्रच्यवे च। “पथामपध्वंसेनैत्विन्द्र” इति अथ० १, ३, ५।
अपध्वंसज = पुंस्त्री अपध्वस्यतेऽनेन अपध्वंसः वर्णानां भिन्नरूपतासंमादकः सङ्करस्तस्माज्जायते जन–ड ५ त०। भिन्नवर्णसङ्गमजाते करणादौ सङ्कीर्णवर्णे। “शूद्राणां तु सधर्म्माणः सर्व्वेऽपध्वंसजाः स्मृता” इति मनुः “ये द्विजानामपसदा ये चापध्वंसजाः स्मृता” इति च मनुः। तेषां पित्रीः समवर्णत्वाप्राप्तेः स्वरूपप्रच्यवेन जातत्वात् तथात्वम्।
अपध्वंसिन् = त्रि० अपध्वंसयति अप + ध्वन्स–णिच्–णिनि। नाशके। “सर्व्वैनसामपध्वंसि जप्यं स्यादधमर्षणमिति” मनुः
अपध्वस्त = त्रि० अप + ध्वन्स–क्त। निन्दिते, परित्यक्ते अवचूर्णिते च।
अपध्वान्त = न० अपकृष्टं ध्वान्तं ध्वनितम् ध्वन–क्त वेदे नि० स्वनार्थेऽपि इडभावः। भिन्नकांस्यस्वरसमे शब्दे “वृहस्पतेरपध्वान्तमिति” छा० उप०। वार्हस्पत्यं तदपध्वान्त भिन्नकांस्यस्वरसममिति” भा०।
अपनय = पु० अप + नी–अच्। दूरीकरणे स्थानान्तरनयने च। “अपनयो वाऽदृष्टत्वादिति” कात्या० २५, ९, २। “तस्य तण्डुलापनयो वचनादिति” कात्या० २५, ४४, ३। “अपनयतेर्दूरीकरणार्थत्वात्तथात्वम् अतएव “अविनयमपनय विष्णो!” इति शङ्कराचार्य्येण दूरीकरणार्थतया प्रयुक्तम्। अपकृष्टो नयो वैपरीत्ये प्रा० स० वा। निन्दितनीतौ दुष्टनीतौ च। अपकारे “ततः सपत्नापनयस्मरणानुशयस्फुरेति” माघः।
अपनयन = न० अप + नी–ल्युट्। दूरीकरणे, खण्डने च। अपनीयतेऽनेन अप + नी–करणे ल्युट्। अपकारसाधने। अपगतं नयनं यस्य। नेत्रहीने त्रि०।
अपनस = त्रि० अपगता नासिका यस्य प्रा० ब० नसादेशश्च। अपगतनासिके। “असिं कौक्षेयमुद्यम्य चकारापनसं मुखमिति” भट्टिः।
अपनीत = त्रि० अप + नी–क्त। खण्डिते, दूरीकृते, अपसारिते च।
अपनुत्ति = स्त्री अप + नुद–क्तिन्। स्वण्डने दूरीकरणे। “परिजनश्रमापनुत्त्यै” इति छा० उप०। “पापानामपनुत्तये इति” “गुरुतल्पापनुत्तये” इति च मनुः।
अपनुद = त्रि० अप + नुद–क। दूरीकारके, खण्डके, शोधके च।
अपनोद = पु० अप + नुद–भावे घञ्। स्वण्डने, दूरीकरणे, अपसारणे च। “तस्यापनोदाय फलप्रवृत्ताविति” रघुः। “ब्रह्महत्यापनोदाय मितभुङ्नियतेन्द्रिय” इति मनुः।
अपनोदन = न० अप + नुद–ल्युट्। अपसारणे खण्डने च “एनसा स्थूलसूक्ष्माणां चिकीर्षन्नपनोदनमिति” मनुः। कर्त्तरि ल्यु। दूरीकारके त्रि०। “यथाश्वमेधः क्रतुराट् सर्वपापापनोदनः। तथाऽघमर्षणं जप्यं सर्वपापापनोदनम्” इति। “पराकोनाम कृच्छ्रोऽयं सर्वपापापनोदन” इति च मनुः।
अपन्न = त्रि० पत–क्त नि० ब० त०। अपतिते। “आशवोऽपन्नगृहस्येति” यजु० ६, २४। न पन्नं पतितं गृहं यस्येति” वेददोषः। पन्नग इत्यत्र हि पन्नशब्दस्य पतितार्थकत्वं दृष्टम्।।
अपपाठ = पु० अपकृष्टः पाठः। यथा यस्य पाठः समुचितः ततोऽन्यथा पाठे अपकृष्टपाठे “द्वादशापपाठा अस्य जाता इति” सि० कौ०।
अपपात्र = त्रि० अपकृष्टं पात्रं भोजनपात्रं यस्य। चण्डालौ तेषां हि भोजने पात्राणामप्रकृष्टत्वं तत्रान्यैर्भोजनानर्हत्वात्तेषां तथात्वम् “चण्डालश्वपचानान्तु बहिर्ग्रामान् प्रतिश्रयः अपपात्राश्च कर्त्तव्या इति” मनुः।
अपबर्हिस् = त्रि० अपगतं बर्हिर्यत्र प्रा० ब० वा गतलोपः। बर्हिर्होमरहिते “सोऽपबर्हिषौ द्वावनुयाजौ” इति श्रुतिः। “अपबर्हिषश्चतुरः प्रयाजान् यजति”। शत० व्रा०। अपबर्हिष इति पृथक्पदमित्येके।
अपभय = त्रि० अपगतं भयं यस्य प्रा० ब० वा गतलोपः। गतभये भोतिशून्ये। लोपाभावे अपगतभयोऽप्युक्तार्थे त्रि०।
अपभर्त्तृ = पु० अपकृष्टोभर्त्ता प्रा० स०। अपकृष्टभर्त्तरि
अपभी = त्रि० अपगता भीरस्य प्रा० ब० वा गतलोपः। भीतिशन्ये अपभीतिरप्यत्र स्त्री।
अपभूति = स्त्री अपकृष्टा भूतिः प्रा० स०। “अपवृष्टविभूतौ “यममी पुरोदधिरे ब्रह्माणमपभूतये” इति श्रुतिः।
अपभ्रश = पु० अप + भ्रन्श–घञ्। अपक्षरणे अधःपतने “अत्यारूढिर्भवति महतामप्यपभ्रंशनिष्ठा” शक०। “अपभ्रंशति स्वभावात् प्रच्यवते” अप + भ्रन्श–कर्त्तरि अच्। साधुशब्दस्य शक्तिवेफल्यपयुक्तान्यथाच्चारणयुक्ते अपशब्दे। “त एव शक्तिवैकल्यप्रमादालसतादिभिः। अन्यथोच्चारिताः शब्दा अपशब्दा इतीरिता” इति हरिणा साधुशब्दानामेवान्यथोच्चारणेऽपशब्दतोक्तेः तस्य स्वभावतो भ्रंशात् तथात्वम्। “अनपभ्रंशतानादिर्यदाभ्युदययोग्यतेति” हरिः। “आभीरादिगिरः काव्येष्वपभ्रंशगिरः स्मृताः। शास्त्रेषु संस्मृतादन्यदपभ्रंशतथोदितमिति” दण्डी।
अपम = त्रि० अपकृष्टं मीयते अप + मा–बा० क। अपकृष्टतया ज्ञाते “भगोऽनाशोश्चिदविताऽपमस्य चित्”। ऋ० १०, ३९, ३। “अपमस्य जात्यातिनिकृष्टस्य” भा०। अपकृष्यभूगोलादुपरि मीयते। भूगीलानाच्छादितान्तरिक्षमागे ज्योतिषपरिभाषितायां सूर्य्यादिगत्यर्थतिर्य्यग्रेखायाम् क्रान्तौ यथा। “नाडिकामण्डलात् तिर्य्यगत्रापमः, क्रान्तिवृत्तावधिः क्रान्तिवृत्ताच्छरः। विक्षेपवृत्तावधिस्तिर्य्यगेवं स्फुटो नाडिकावृत्तखेटान्तरालेऽपम” इति सि० शि०। “क्रान्तिवृत्ते यत् स्फुटग्रहस्थानं तस्य नाडीवृत्तात् तिर्य्यगन्तरम् अपमः क्रान्तिः। अथ विमण्डले यत् ग्रहस्थानं तस्य क्रान्ति- वृत्तात् यत् तिर्य्यगन्तरं स विक्षेपः अथ विमण्डलस्य प्राक् च नाडीवृत्तात् यत् तिर्य्यगन्तरम् सः अपमः स्फुटा क्रान्तिः ग्रहस्य उत्तरतो याम्यदिशं याम्यान्तात् तदनु सौम्यदिग्भागम्। प्रमि० “परिसरतां गगनसदां चलनं किञ्चिद्भवेदपमः” इति। सि० शि०।
अपमज्या = स्त्री अपमस्य धनुराकृतिक्षेत्रस्य ज्येव। क्रान्तिवृत्ताख्यजीवायाम्। विवरणम् क्रान्तिज्याशब्दे दृश्यम्।
अपमण्डल = न० अपक्रान्तं मण्डलात् भूमण्डलात् निरा० त०। सिद्धान्तशिरोमण्युक्ते क्रान्तिवृत्ते। यथा “ग्रहस्य गोले कथिताऽपमण्डलं प्रकल्प्य कक्षाबलयं यथोदितमिति” “क्रान्तिवृत्तं कक्षामण्डलं प्रकल्प्येति” प्रमिता०। “एष भगोलः कथितः खेचरगोलोऽयमेव विज्ञेयः। अत्रापसण्डले वा सूत्राधारैव यस्य तस्यैवेति” सि० शि०।
अपमर्द्द = पु० अप + मृद–घञ्। विमर्द्दने “हयहस्तिकरीषाभ्यामपमर्द्दः कृतोमहानिति” रामा०।
अपमान = पु० अपकृष्टं मीयतेऽनेन अप + मा–करणे ल्युठ्। अनादरे “अपमानं पुरस्कृत्य स्वकार्य्यं साधयेन्नर” इति नीतिः। “मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयो” रिति” गीता। वेदस्य ब्राह्मणानाञ्च अपमानादधोगतिः पुरा० अपकृष्टो मानो यस्मात् अप + मन–करणे घञ् वा। अनादरे पु०। नापमानः प्रयोक्तव्यः कामक्रोधकृतः क्वचिदिति” रामा०। “अथापमानेन पितुःप्रयुक्तेति” कुमा०।
अपमानित = त्रि० अपमानं जातमस्य तार० इतच्। यस्यापमानं कृतं तस्मिन् कृतापमाने अनादृते।
अपमार्ग = पु० अपकृष्टो मार्गः प्रा० स० वा कृष्टलोपः। कुत्सितवर्त्मनि।
अपमार्जन = न० अप + मृज–भावे ल्युट् वृद्धिः। संशोधने। “कांस्यापमार्जनमसीमधुरं सैन्धवं नतमिति” सुश्रुतः अधस्तान्मार्जने च। अपमार्जनप्रोक्षिताभ्यामपमृष्ट इति कात्या० ९, १०, ४। “अपमार्जनंग्रहपात्रमुखादारभ्याधस्तादपमार्जनमिति” तद्व्या०।
अपमित = त्रि० अप–मा–क्त। अवज्ञाते अनादृते।
अपमित्यक = न० अपमित्य अपमानमङ्गीकृत्य गृह्यते कन्। ऋणे
अपमुख = न० अपगतं पराभूतं मुखम् प्रा० त०। परावृत्ते वदने प्रा० ब० गतलोपः। परावृत्तवदनवति पदार्थे त्रि०।
अपमूर्द्ध = त्रि० अपगतो मूर्द्धा यस्य। शिरःशून्ये कबन्धे।
अपमृत्यु = पु० अपकृष्टः दुष्टहेतुजन्यत्वेन मृत्युर्मरणम्। विषोद्बन्धनादिहेतुके मृत्यौ। “अपमृत्युहेतवश्च शुद्धिपत्त्वे कौर्म्मे दर्शिता यथा “शृङ्गिदंष्ट्रिनखिव्यालविषवह्निस्त्रिया जलैः। आदरात् परिहर्त्तव्यः कुर्वन् क्रीडां मृतस्तु यः। नागानां विप्रियं कुर्वन् दग्धश्चाप्यथ विद्युता। निगृहीतः स्वयंराज्ञा चौर्य्यदोषेण कुत्रचित्। परदारान् रमन्तश्च द्वेषात्तत्पतिभिर्हताः। असमानैश्च सङ्कीर्ण्णैश्चाण्डालाद्यैश्च विग्रहम्। कृत्वा तैर्निहतास्तांस्तु चाण्डालादीन् समाश्रिताः। गवाग्निविषदाश्चैव पाषण्डाः क्रूरबुद्धयः। क्रोधात् प्रायं विषं वह्निं शस्त्रमुद्बन्धनं जलम्। गिरिवृक्षप्रपातञ्च ये कुर्वन्ति नराधमा” इति।
अपमृषित = त्रि० न० अप + मृष–क्त वाक्ये वाच्ये नि०। क्षान्ते वाक्ये। अन्यत्र अपमृष्टमित्येव सोढे क्षान्ते परामृष्टे च।
अपयशस् = न० अपकृष्टं यशः। “यशोविपरीतायामकीर्त्तौ “अपयशो यस्यास्ति किं मृत्युना” इतिनीतिः। अपगतं यशो यस्य। कीर्त्तिशून्ये त्रि०।
अपयशस्कर = त्रि० न यशस्करः कृ–हेतौ ट विरोधे न०। अकीर्त्तिहेतौ।
अपयान = न० अप + या–भावे ल्युट्। अपक्रम्य पलायने “अपयानेऽपि न भवान् समर्थो लघुविक्रय” इति रामा०।
अपर = न० न पूर्य्यते यतः पृ–अपादाने, अप्। गजस्य पश्चाद्भागे। “बद्धापराणि परितो निगडान्यलावोदिति” माघः। परितो बद्धः अपरः पश्चिमग्रादोयैरिति मल्लि०। न पृणाति सन्तोषयति पृ–अच्। शत्रौ, भिन्ने त्रि०। “अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरेऽपरे” इति मनुः “तमा समुद्रादपरे परे नृपाः” नैष० पश्चिमायां दिशि स्त्री “अपरदिग्गणिकेति” माघः परकालवृत्तौ त्रि०। “पूर्ब्बां सन्ध्यां जपन् तिष्ठेत् स्वकाले चापरां चिरमिति” मनुः। पश्चाद्वृत्तौ त्रि० “पूर्ब्बापरौ तोयनिधी वगाह्य” कुमा०। ऋग्वेदादिविद्यायां स्त्री। “द्वेविद्ये विदितव्ये इति हस्म ब्रह्मविदो वदन्ति परा चैवापरा च तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति” ऋ० भा० धृना श्रुतिः। अस्य च कालदेशादिनियमे सर्व्वनामकार्य्यम्। तत्र “पूर्ब्बादिभ्यो नवभ्यो वा इति” पा० वा तत्कर्म। अपरत्वञ्च दैशिकं कालिकं च द्विविधं, तत्र स्वापेक्षया उदयाचलविप्रकृष्टत्वम् दैशिकमपरत्वम् स्वापेक्षयाधिकसूर्य्यस्पन्दनवत्त्वं कालिकम्। उक्तोदाहृतौ दैशिकम् कालिकन्तु। “अपरं भवतो जन्म परं जन्म विवस्वत” इति गीता। अल्पदेशवृत्तिरूपे व्याप्ये त्रि० “सामान्यं द्विविधं प्रोक्तं परञ्चापरमेव च। व्यापकत्वात् परापि स्यात् व्याप्यत्वादपरापि च” भाषा०। द्रव्यत्वादेः घटत्वाद्यपेक्षया अधिकदेशवृत्तित्वात् परत्वं सत्तापेक्षयाअल्पदेशवृत्तित्वात् अपरत्वमिति मुक्ता०। “द्रव्यत्वादिक जातिस्तु परापरतयोच्यते” इति भाषा०। “स्वायम्भुवस्य च मनो षड्वंश्या मनवोऽपरे” इति अपरकालिका भिन्ना वा इत्यर्थः। निकृष्टे। “भूमिरापोऽनलो वायुः स्वं मनोबुद्धिरेव च अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा अपरेवमितस्त्वन्यां प्रकृतिं विद्धि मे परामिति” गीता। तत्र भूम्यादीनामितरपदार्थ्यकृतित्वेऽपि जडत्वात् संहत्य कारित्वात् स्वयमसमर्थत्वेन जीवस्य भोगाद्यर्थमेव प्रवृत्तिमत्त्वाच्च निकृष्टत्वम्। जीवस्य तु तदपेक्षया परत्वम्।।
उत्तरकालिकत्वात् तद्धिकारलक्षणे कार्य्ये “तदेतद्ब्रह्माऽपूर्ब्बमनपरमनन्तमिति” वृह० उप०। नास्ति अपरं कार्य्यं यस्येति भा०। वस्तुतः स्वरूपप्रच्यवाभावेन कूटस्थस्य न कार्य्यकारित्वमत एव “न कर्त्तृत्वं न कर्म्माणि लोकस्य सृजति प्रभुः अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तव इति” गीतायाम् तस्याकर्त्तृत्वमुक्तं कर्त्तृत्वन्तु अज्ञानोपहितेश्वरस्येति न विरोधः। समुदायिनः शेषभागे “अपररात्रः अपराह्णः एकदेशि स०। अस्य पूर्ब्बपदस्थस्य पश्चादेशः पश्चार्द्धम् न० शेषार्द्धे। अपरस्मिन् भवः डिमच् पश्चिमः शेषभवे। प्रथमापञ्चम्यादिदेशकालवृत्ते रपरशब्दात् प्रथमाद्यर्थे अति। पश्चात्। अधिकमधःशब्दे दृश्यम्। अस्य दिग्वाचकत्वात् तेन समासे देशवाचिनः णिदादि तद्धिते उत्तरपदस्यैव वृद्धिः अपरपाञ्चालक इत्यादि।
अपरक्त = त्रि० अपगतो रक्तः शोणितो यस्मात्। अपगतरक्तवर्णे अप + रग्ज–क्त। विरक्ते अनुरागशून्ये च त्रि०।
अपरज = पु० अपरस्मिन् काले जायते जन–ड ७ त०। रुद्रभेदे “नमः पूर्ब्बजाय चापरजाय” चेति यजु० १६, ३२।
अपरति = स्त्री अप + रम–भावे क्तिन्। अविरतौ।
अपरत्र = अव्य० अपरस्मिन् कालादौ। अपरस्मिन् देशे। काले वा।
अपरत्व = न० अपरस्य भावः त्व। अपरभावे तच्च वैशेषिकोक्तो गुणभेदः। तदपि द्विविधं दैशिकं कालिकञ्च तत्स्वरूपमपरशब्दे उक्तम्। तत्र च कारणमपेक्षाबुद्धिविशेषः तस्य नाशाच्च परत्वापरत्वयोर्नाशः। “संयोगश्च विभागश्च परत्वञ्चापरत्वकमिति” “परापरत्वधीहेतुरेका नित्या दिगुच्यते” इति च भाषा०। तत्र दैशिकापरत्वं अल्पसूर्य्यसंयोगज्ञानजन्यं, कालिकं तु अल्पसूर्य्यपरिस्पन्दज्ञानजन्यभिति भेदः। कालिके कालोहेतुः दैशिके तु दिगिति भेदः। “परत्वञ्चापरत्वञ्च द्विविधं परिकीर्त्तितम्। दैशिकं कालिकञ्चापि मूर्त्त एव तु दैशिकम्।। परत्वं सूर्य्यसंयोगभयस्त्वज्ञानतो भवेत्। अपरत्वं तदल्पत्वबुद्धितः स्यादितीरितम्।। तयोरसमावायो नु दिक्संयोगस्वदाश्रये। दिवाकरपरिस्पन्दपूर्ब्बोत्पन्नत्वबुद्धितः।। परत्वमपरत्वन्तु तदनन्तरबुद्धितः। अत्र त्वसामवायी स्यात् संयोगः कालपिण्डयोः।। अपेक्षाबुद्धिनाशेन नाशस्त्वेषामुदाहृत” इति भाषा०।
अपरदक्षिण = अव्य० अपरा च दक्षिणा च “दिङ्नामान्यन्तराले इति” पा० सूत्रं बाधित्वा तिष्ठद्गुप्रभृतिपाठात् अव्ययी०। पश्चिमदक्षिणयोरन्तराले नैरृते कोणे। तद्गणपाठाच्च नैतस्य समासान्तरघटकतेति विशेषः।
अपरपक्ष = पु० अपरः शेषः पक्षः। कृष्णपक्षे स हि चन्द्रस्य वृद्धिह्रासपक्षयोर्मध्ये शेषः, चैत्रशुक्लप्रतिपद्येव वर्षारम्भणात् शुक्लस्य पूर्ब्बत्वम् सुतरां कृष्णस्यापरत्वम्। “पूर्ब्बपक्षो देवानामपरपक्षः पितॄणामिति” श्रुतिः। “यथा चैवाऽपरपक्षः पूर्ब्बपक्षाद्विशिष्यते” इति मनुः “अथ श्राद्धममावास्यायां पितॄणां दद्यात् पञ्चमीप्रभृति वाऽपरपक्षस्येति” स्मृतिः “अश्वयुक्कृष्णपक्षस्य प्रेतपक्षत्वेन अपरपक्षत्वव्यवहारः। “अमावास्यामृतोयश्चापरपक्षमृतस्तथा। तस्य पार्वणमुद्दिष्टं मुनिभिः पञ्चपात्रकमिति” स्मृतिः कचित् प्रेतपक्षेत्येव पाठः। “तुलादिषडशीत्यह्नां षडशीतिमुखं क्रमात्। तच्चतुष्टयमेव स्याद्द्विस्वभावेषु राशिषु।। षड्विशे धनुषो भागे द्वाविंशेऽनिमिषस्य च। मिथुनाष्टादशे भागे कन्यायास्तु चतुर्दशे।। ततः शेषाणि कन्याया यान्यहानि तु षोडश। क्रतुभिस्तानि तुल्यानि पितॄणां दत्तमक्षयम्” इति सूर्य्यसिद्धान्तोक्तेः षडशीतिमुखावशिष्टानां षोडशानां दिनानां श्राद्धप्रशस्तकालत्वादपरपक्षत्वम् अथ वा नास्ति परो यस्मात् तादृशः पक्षः। ताथाचाक्षयपुण्यदत्वेन अत्युत्कृष्टत्वात्तथात्वम्। पञ्चादशाहस्यैव पक्षत्वेऽपि षोडशानां दिनानां किञ्चिदधिकपक्षत्वात् पक्षत्वम् तेषां सौरत्वेऽपि चान्द्रे पक्षे व्यवहारस्य गौणतेति भेदः। विकल्प्यमानयोः पक्षयोर्मध्ये शेषपक्षे च।
अपररात्र = पु० अपरं रात्रेः एकदे० त० अच् समा०। रात्रिशेषे “अपररात्रे सायंदोहमिति” कात्या० ७, ४, ३०, “अपररात्रकृतम्” सि० कौ०।
अपरव = पु० अपकृष्टोरवः प्रा० त०। अकीर्त्तौ अपयशास।
अपरवक्त्र = न० “अयुजि ननरला गुरुः समे न्जमपरवक्त्रमिदं ततोजरौ” इति वृत्तरत्नाकरोक्ते अर्द्धसमे मात्रावृत्तमेदे “वदन्त्यपरवक्त्राख्यं वैतालीयं विपश्चितः। पुष्पिताग्राभिधं केचिदौपच्छन्दसिकं तथेति वृ० र०। अपरवक्त्रा स्त्रियामिति केचिदाहुः।
अपरवैराग्य = न० कर्म्म०। पातञ्जलोक्ते वैराग्यभेदे। यथा “दृष्टानुश्राविकविषयवितृष्णस्य वशीकारसंज्ञं वैराग्यमिति” यतमानव्यतिरेकैकेन्द्रियवशीकारसंज्ञाश्चतस्रः तत्र रागादीनां चित्तस्थानां कषायाणां विषयेष्विन्द्रियप्रवर्त्तकानां पाकाय प्रयत्नो यतमानसंज्ञं वैराग्यं ततः पक्वानां केषाञ्चित्कषायाणां वक्ष्यमाणेभ्यो विरागावधारणं व्यतिरेकसंज्ञं वैराग्यं, ततः पक्वानां सर्वेषामिन्द्रियप्रवर्त्तनाऽशक्तानां मनस्यैत्सुक्यरूपेणावस्थानमेकेन्द्रियसंज्ञं वैराग्यम्, स्त्रियोन्नपानमित्यादिषु दृष्टेषु, गुरूच्चारणमनु श्रुवः श्रवणं यस्य सोऽनुश्रवो वेदः तदुक्तेष्वानुश्राविकेषु स्वर्गादिदिव्यविषयेषु मर्त्त्येषु च विनाशपरितापसातिशयत्वासूयादिदोषाणामभ्यासेन साक्षात्काराद्वितृष्णस्योपेक्षाबुद्धिः वंशीकारसंज्ञं वैराग्यमित्यर्थः। एतानि च संप्रज्ञातसमाधेरन्तरङ्गाणि असंप्रज्ञातसंसाधेस्तु बहिरङ्गाणि” इति पा० वृ०।
अपरस्पर = न० अपरश्च परश्च क्रियासातत्ये द्वित्वं सुश्च। क्रियासातत्ये। क्रियावतां सातत्ये तु त्रि०। अपरास्पराः पुंमांसः, योषितो वा गच्छन्ति अपरस्पराणि कुलानि यान्ति। सततमविच्छेदेन गच्छन्तीत्यर्थः। “अपरस्पराः सार्था गच्छन्ति” सि० कौ०।
अपरहैमन = त्रि० अपरहेमन्ते भवः अपरहेमन्त + भवार्थे अण् तलोपः उत्तरपदवृद्धिः। हेमन्तशेषभवे। एवं पूर्ब्बहैमनः हेमन्तपूर्व्वभवे त्रि०।
***