अन्दिका = स्त्री अदि + बन्धने ण्वुल्। नाट्योक्तौ ज्येष्ठभगिन्यामित्यमरटीकायां नीलकण्ठः।
अन्दू = स्त्री अन्द्यते बध्यतेऽनेन अदि + कू। निगडे स्त्रीपादभूषणभेदे च। स्वार्थे कन् “केऽण इति” ह्रस्वः। अन्दुकोऽप्यत्र “स्वार्थिकप्रत्ययस्य प्रकृतितो लिङ्गवचनातिक्रमस्य देवताशब्दादौ दर्शनात् पुंस्त्वम्।
अ(आ)न्दोल = दोलने अद० चु० उभ० सक० सेट्। अ(आ)न्दोसयति ते आन्दुदोलत्–त। ल्युट्। अ(आ)न्दोलनम् “किन्त्वासामरविन्दसुन्दरदृशां द्राक्चामरान्दोल- नादि” त्युद्भटः। अ(आ)न्दोलितः। चुरादेराकृतिगणत्वनायमुत्प्रेक्षितः स च दीर्घादिः। “आन्दोलत् क दोलने इति कविकल्पद्रुमोक्तेः ह्रस्वान्त इत्यन्ये तन्मूलं मृग्यम्।
अन्ध = दृष्टिविघाते अद० चु० उभ० धात्वर्थगृहीतकर्म्मकत्वादकर्मकः सेट्। अन्धयति–ते आन्दिधत्–त। अन्धयन् अन्धितः। “कनकमृगतृष्णान्धितधियेति” सा० द०। दृष्टिरत्र नेत्रेन्द्रियजं प्रत्यक्षं विवेकज्ञानञ्च तद्विघाताश्रयस्य कर्त्तृत्वम्।
अन्ध = त्रि० अन्ध–अच्। नेत्रद्वयशून्ये एकचक्षुर्हीने तु नास्य प्रयोगः अनुपहतनेत्रान्तरेण तस्य दर्शनसम्भवात्। अन्धश्च द्विविधः जन्मान्धः, उत्पत्तौ नेत्रद्वयवानपि रोगादिना उपहतनेत्रद्वयश्च उभयत्रैव तत्प्रयोगात्। “जडमूकान्धबधिरानिति” “उन्मत्तोऽन्धश्च वर्ज्याः स्युरिति” च मनुः। “इहैवास्ते तु सा लोके गौरन्धेवैकवेश्मनीति” “अनंशौ क्लीवपतितौ जात्यन्धबधिरौ” तथेति स्मृत्यन्तरम् “अन्धोगगनं न पश्यतीति” व्यु० गदा० “वृद्धोऽन्धः पतिरेष मञ्चकगत” इति सा० द०। चक्षुःसत्त्वेऽपि आलोकादि सहकारिकारणान्तराभावेन दृष्टिराहित्येऽपि अस्य प्रयोगः। यथा “दिवान्धाः प्राणिनः केचिद्रात्रावन्धास्तथा परे। केचिद्दिवा तथा रात्रौ प्राणिनस्तुल्यदृष्टय” इति देवी०। तत्र पेचकानां दर्शने आलोकाभावस्यैव सहकारितया तेषां दिवान्धत्वम्। कपोतादीनां तु सूर्य्यालोकाभावेऽपि दीपाद्यालोकान्तरसद्भावे रात्रावन्धता। मनुष्याणान्तु दिवा सूर्य्यालोकात्, रात्रौ दीपाद्यालोकात् उभयत्र दृष्टिमत्त्वान्नान्धत्वम्। विवेकज्ञानशून्ये “क्रोधान्धस्तस्य तस्य स्वयमिह भवितेति” वेणो० “नैवान्यत्र मदान्धसिन्दूरघटेति” गङ्गास्तोत्रम्। “स्मरान्धा गाढतारुण्या समस्तरतकोविदेति” सा० द० “अज्ञानतिमिरान्धस्येति” गुरुनतिः। परिव्राजकभेदे, तस्य “सचक्षुरचक्षुरिव सकर्ण्णः अकर्ण्ण इवे” त्यादि श्रुत्या वाह्यवस्तुदर्शनशून्यचक्षुःशून्यत्वोक्तेरन्धत्वम् अतएव “तिष्ठतोव्रजतोवापि यस्य चक्षुर्न दूरगम्। चतुष्पदां भुवं मुक्त्वा, परिव्राडन्ध उच्यते” इत्यनेन तस्यान्धत्वं परिभाषितम्। नष्टद्रवलाभालाभोपयोगितया ज्योतिषपरिभाषिते राशिभेदे च। “मेषो वृषो मृगेन्द्रश्च दिवान्धाः परिकीर्त्तिताः। नृयुक्कर्कटकन्याश्च रात्रावन्धाः प्रकीर्त्तिता” इति तथा च मेषादिषु दिवा नष्टद्रव्यस्य लाभः तत्र ग्रहीतुश्चौरस्य दिवान्धत्वात्। मिथुनादिषु तु रात्रौ नष्टद्रव्यस्य लाभः तत्र ग्रहीतुश्चौरस्य रात्रावन्धत्वात् अन्यत्र नष्टस्य न लाभ इत्येतत्परतया तत्रान्धत्वम् भाक्तम्। अन्धयतीत्यन्धम् अन्ध–चु० प्रेरणे णिच्–अच्, अन्ध–करणे अच् वा। तमसि अन्धकारे “अन्धं तमस्ते प्रविशन्ति ये के चात्महनोजना इति” श्रुतिः। यथार्थ ज्ञानावरके वेदान्तिमतसिद्धे अज्ञाने च “आसीदिदं तमोभूतमिति” मनौ “तमसावृततत्त्वेनेति” “तमसै वावृतं तत्त्वं नानुपश्यति मूढघीरिति” च पुराणे तमःशब्देनाज्ञानस्यैवाभिधानात्तथात्वम्। जले न० मेदि०। तस्य मनुष्याणामन्धकारित्वात्तथात्वम् तेषां हि जलमध्ये उन्मीलितनेत्राणामपि न दर्शनमित्यनुभवसिद्धम्।
अन्धक = पु० अन्ध–ण्वुल्। दैत्यभेदे स च दैत्यः दितौ कश्यपादुत्पन्नः तस्य वरेण महादेवैरबध्यतामापेदे यथोक्तं हरिवंशे १४५ अ० “दितिरुवाच हतपुत्त्राऽस्मि भगवन्! देवैर्धर्म्मभृताम्बर!। अबध्यं पुत्त्रमिच्छामि देवैरमितविक्रमम्। कश्यप उवाच। अबध्यस्ते सुती देवि! दाक्षायणि! भवेदिति। देवानां संशयो नात्र कश्चित् कमललोचने!। देवदेवमृते रुद्रं तस्य न प्रभवाम्यहम्। आत्मा ततस्ते पुत्त्रेण रक्षितव्यो हि सर्व्वथा। अन्वालभत तां देवीं कश्यपः सत्यवागथ। अङ्गुल्योदरदेशे तु सा पुत्रं सुषुवे ततः। सहस्रबाहुं कौरव्य! सहस्रशिरसं तथा। द्विसहस्रेक्षणञ्चैव तावच्चरणमेव च। स व्रजत्यन्धवद्यस्मादनन्धोऽपि हि भारत!। तमन्धकोऽयं नाम्नेति प्रोचुस्तत्र निवासिनः। अबध्योऽस्मीति लोकान् स सर्व्वान् बाधति भारत!। हरत्यपि च रत्नानि सर्व्वाण्यात्मबलाश्रयात्। वासयत्यात्मवीर्य्येण निगृह्याप्सरसां गणान्। स्ववेश्मन्यूर्ज्जितोऽत्यर्थं सर्व्वलोकभयङ्करः। परदारापहरणं पररत्नविलोपनम्। चकार सततं मोहादन्धकः पापनिश्चयः” इति “निशितत्रिशूलदीरितान्धकमहासुर इति” काद०। अन्ध एव अन्धकः स्वार्थे कन्। मुनिभेदे स च वृहस्पतिज्येष्ठभ्रातुः उतथ्यात् ममतायामुत्पन्नः वृहस्पतिशापादन्धत्वमापेदे। तस्य जात्यन्धत्वात् दीर्घतमा इति नामान्तरं तत्कथा भा० आ० प० १०४ अ० “उतथ्यस्य यवीयांस्तु पुरोधास्त्रिदिवौकसाम्। वृहस्पतिर्वृहत्तेजा ममतामन्वपद्यत।। उवाच ममता तन्तु देवरं वदताम्बरम्।। अन्तर्वत्नी त्वहं भ्रात्रा ज्येष्ठेनारम्यतामिति। अयञ्च मे महाभाग! कुक्षावेव वृहस्पते!। औतथ्यो वेदमत्रापि षडङ्गं प्रत्यधीयत।। अमोधरेतास्त्वञ्चापि द्वयोर्न्नास्त्यत्र सम्भवः। तस्मादेवं गतेऽद्य त्वमुपार- मितुमर्हसि।। एवमुक्तस्तया सम्यक् वृहस्पतिरुदारधीः। कामात्मानं तदात्मानं न शशाक नियन्त्रितुम्।। स बभूव ततः कामी तया सार्द्धमकामया। उत्सृजन्तं तु तं रेतः स गर्भस्थोऽभ्यभाषत।। भोस्तात! मा गमः कामं द्वयोर्नास्तीह सम्भवः। अल्पावकाशो भगवन्! पूर्ब्बञ्चाहमिहागतः। अमोघरेताश्च भवान्न पीडां कर्त्तुमर्हसि।। अश्रुत्वैव तु तद्वाक्यं गर्भस्थस्य वृहस्पतिः। जगाम मैथुनायैव ममतां चारुलोचनाम्।। शुक्रोत्सर्गं ततो बुद्ध्वा तस्या गर्भगतो मुनिः। पद्भ्यामरीधयन्मार्गं शुक्रस्य च वृहस्पतेः।। स्थानमप्राप्तमथ तद्रेतः प्रतिहतन्तदा। पपात सहसा भूमौ ततः क्रुद्धो वृहस्पतिः।। तदृष्ट्वा पतितं शुक्रं शशाप सरुषान्वितः। उतथ्यपुत्रं गर्भस्थं निर्भत्स्य भगवानृषिः।। यन्मां त्वमीदृशे काले सर्व्वभूतेप्सिते सति। एवमात्य वचस्तस्मात्तमो दीर्घं प्रवेक्ष्यसि।। स वै दीर्घतमा नाम शापादृषिरजायत। वृहस्पतेर्वृहत्कीर्त्तेर्वृहस्पतिरिवौजसा।। जात्यन्धोवेदवित् प्राज्ञः पत्नीं लेभे स विद्यया। तरुणीं रूपसम्पन्नां प्रद्वेषीं नाम ब्राह्मणीम्।। स पुत्रान् जन यामास गौतमादीन् महायशाः” इति। यादवभेदे च “सात्त्वतान् सत्त्वसम्पन्नात् कौशल्या सुषुवे सुतान्। भजिनं भजमानञ्च दिव्यं देवावृधं नृपम्। अन्धकञ्च महाबाहुं वृष्णिञ्च यदुनन्दनम्। तेषां विसर्गाश्चत्वारो विस्तरेणेह तान् शृणु। अन्धकात् काश्यदुहिता चतुरोऽलभ्मतात्मजान्। कुकुरं भजमानञ्च शभं कम्बलवर्हिषम्”। इति हरिवंशे ३८ अ०। “दूतं संप्रेषयामास वृष्ण्यन्धकनिवेशनम्, ततो वृष्ण्यन्धकाः कृष्णमिति” हरिवंशः।
अन्धकरिपु = पु० ६ त०। महादेवे तस्य तन्नाशकत्वात्तथात्वम् यथा हरिवंशे १४६ अ० “मुमोच भगवाञ्छूलं प्रदीप्ताग्निसमप्रभम्। तत पपात हरोत्सृष्टमन्धकोरसि दुर्द्धरम्। भस्मसाच्चाकरोद्रौद्रमन्धकं साधुकण्ठकमिति”। अन्धकहन्त्रादयोऽप्यत्र। अन्धकस्यान्धकारस्य रिपुरपसारकत्वात्। सूर्य्ये; चन्द्रे, वह्नौ, च पु०।
अन्धकवर्त = पु० अन्धक इव वर्त्तते वृत–अच्। पर्वतभेदे गहा० छ। अन्धकवर्त्तीयस्तद्भवे त्रि०।
अन्धकार = पुंन० अन्धं करीति कृ–अण् उप० स०। तमसि तच्च तेजोद्रव्यसामान्याभावरूपमिति नैयायिकाः। नीलं तमोधावतीति प्रयोगात् नीलरूपवत् धावनादिक्रियावच्च द्रव्यान्तरम्, आलोकस्य अन्यत्र चाक्षुषप्रत्यक्षे सहकारित्वेऽपि तत्प्रत्यक्षे पेचकप्रत्यक्षैव न सहकारिता वस्तुस्वाभाव्यादिति भेद इति मीमांसकादयः। “दिवाकराद्रक्षति यो गुहासु लीनं दिवाभीतमिवान्धकारमिति” कुमा० “सुखं हि दुःखान्यनुभूय शोभते घनान्धकारेष्विव दीपदर्शनमिति” मृच्छ० “अथान्धकारं गिरिगह्वराणामिति” रघुः। अन्धकारस्य दृष्टिविघातकत्वं मनुष्याणामेव तेषामेवालोकसहकारेण दर्शनोदयात् उन्दुरादीनान्तु तदभावेऽपि दृष्टेरुदयात्। ततश्च आलोकरूपसहकारिविघटनेनास्य दृष्टिरोधकत्वमवसेयम्। यथार्थज्ञानविरोधिनि वेदान्तिमतसिद्धे अज्ञाने च।
अन्धकारमय = त्रि० अन्धकार + प्राचुर्य्ये मयट्। प्रचुरान्धकारे।
अन्धकारि = पु० अन्धकः तदाख्यस्यासुरस्यारिः ६ त०। शिवे अन्धकरिपुशब्देऽस्य विवृतिः।
अन्धकासुहृत् = पु० अन्धकस्य असून् हरति हृ–क्विप् तुक् च, अन्धकस्यासुरस्य असुहृत् रिपुर्वा ६ त०। महादेवे।
अन्धकूप = पु० अन्धयतीत्यन्धः स चासौ कूपः। सान्धकारे कूपे। अन्धः कूपो यत्र ७ ब०। नरकभेदे यथा “यस्त्विह वै भूतानामीश्वरकल्पितवृत्तीनामविविक्तपरव्यथानां स्वयं पुरुषोपकल्पितवृत्तिर्विविक्तपरव्यथोव्यथामाचरति स परत्रान्धकूपे तदभिद्रोहेण निपतति।। तत्रह्यसौ तैस्तैर्जन्तुभिः पशुमृगपंक्षिसरीसृपैर्मशकयूकमत्कुणमक्षिकादिभिः, ये के चाभिद्रुग्धास्तैश्च सर्व्वतोऽभिद्रुह्यमाणस्तमसि विहतनिद्रानिर्वृतिरलब्धावस्थानः परिक्रामति यथा कुशरीरे जीवः ईति भाग० ५ स्क०। अन्धस्य दृष्ट्यभावस्य कूप इव। मोहे। सहि सर्व्वदृष्ट्यभावस्याकरः इति तस्य तथात्वम्।
अन्धङ्करण = न० अन्धःक्रियतेऽनेन च्व्यर्थे कृ–करणे ख्युन्। अन्धकरणसाधने।
अन्धतमस = न० अन्धयति अन्ध + अच् ताम्यति अनेनेति तम–करणे–असि कर्म्म० अच् समासान्तः। निविडान्धकारे, तद्युक्ते नरकभेदे च।
अन्धतामस = न० तम एव तामसं प्रज्ञा० स्वार्थेअण् अन्धयतोति अन्धं कर्म्म०। निविडान्धकारे।
अन्धतामिस्र = न० तमिस्रा तमस्ततिः तमिस्रैव तामिस्रम् अन्धवतीत्यन्धम् कर्म्म०। निविडान्धकारे। अन्धम् अन्धकारकं तामिस्रं यत्र ७ ब०। नरकविशेषे पु० न०। “तामिस्रमन्धतामिस्रं महारौरवरौरवौ नरकं कालसूत्रञ्च नहानरकमेवचेत्यादिना” मनुना गणितेषु एकविंशतिनरकभेदेषु द्वितीये नरले तत्स्वरूपम्। “यस्तु परवित्तापत्यकलत्राण्यशहरति स हि कालपाशबद्धो यमपुरुषैरतिभयानकै स्तामिस्रे नरके बलान्निपात्यते।। अनशनानिपानदण्डताडनसन्तर्जनादिभिर्यातनाभिर्यात्यमानो जन्तुर्यत्र कश्मलमासादितएकदैक मूर्च्छामुपयाति तासिस्रप्राये।। एवमेव अन्धतामिस्रे। यस्तु “वञ्चित्वा पुरुषं दारादीनुपयुङ्क्ते यत्र शरीरी निपात्यमानो यातनास्थो वेदनया नष्टमतिर्नष्टदृष्टिश्च भवति यथा वनस्पतिर्वृश्च्यमार्नमूलस्तस्मादन्धतामिस्रं तमुपदिशन्ति इति भाग० ५ स्क०।। सांख्यशास्त्र प्रसिद्धे भयविशेषविषयकेऽभिनिवेशे पु०। तामिस्रोऽष्टादशधा तथा भवत्यन्धतामिस्रः इति सा० का०। “अभिनिवेशस्त्रासः दिव्यादिव्यशब्दविषयत्वेन दशविषयकत्वात् अणिमाद्यष्टविधैश्वर्य्यविषयत्वाच्चाष्टादशधा। तथा हि देवाः खल्वणिमादिकमष्टविधमैश्वर्य्यमामाद्य दश शब्दादीन् भुञ्जानाः “शब्दादयो भोग्यास्तदुपायाश्चाणिमादयोऽस्माकं असुरादिभि र्मास्म उपघानिषतेति बिभ्यति तदिदं भयमभिनिवेशोऽन्धतामिस्रोऽष्टादशविषयत्वादष्टादशधेति” सा० कौ०। वेदान्तिमतसिद्धे “देहे नेष्टे अहमेव नष्टोऽस्मीत्येवं” रूपे अज्ञाने च।
अन्धत्व = न० अन्धस्य भावः। नेत्रघाते चक्षुषः स्वग्राह्यासामर्थ्ये “एकादशेन्द्रियबधा” इत्यादि सा० का० (४९) व्याख्याने कौमुद्याम् “बाधिर्य्यं कुष्ठितान्धत्वजडताऽजिघ्रता तथा। मूकता कौण्यपङ्गुत्वक्लैव्योदावर्त्तमन्दता इत्यादिना श्रीत्रादीनां क्रमेण इन्द्रियाणां घातोदर्शितः।
अन्धपूतना = स्त्री ३८४ सुश्रुतोक्ते बालग्रहभेदे “स्कन्दग्रहश्च प्रथमः स्कन्दापस्मार एव च शकुना रेवती चैव पूतना चान्धपूतने” त्युद्दिश्य। “योद्वेष्टि स्तनमतिसारकासहिक्काछर्दीभिर्ज्वरसहिताभिरर्द्यमानः दुर्वर्णः सततमधःशयोऽम्लगन्धिस्तं ब्रूयुर्वरर्भिषजोऽन्धपूतनार्त्तमिति” तल्लक्षणमुक्तम्।
अन्धमूषिका = स्त्री अन्धं दृष्ट्यभावं मुष्णाति मुष–ण्वुल् दीर्घः। देवताडवृक्षे तत्सेवने हि चक्षुष्मत्ता भवतीति वैद्यकप्रसिद्धम्।
अन्धम्भविष्णु = त्रि० अनन्धोऽन्धोभवति भू–च्व्यर्थे स्विष्णुच्। अन्धीभवितरि।
अन्धम्भावुक = त्रि० अन्ध च्व्यर्थे भू–खुकञ्। अन्धीभवितरि
अन्धम् = न० अद्यते अद–असुन् नुम् धश्च। ओदने। अमृतान्धसोदेवाः। “द्विजातिशेषेण यदेतदन्धसा” किरा० “विपानं शुक्रमन्धस इति” यजु० १९, ७५।
अन्धाहि = पु० अन्धोऽहिरिव। (कुचिया) इति प्रसिद्धे मत्स्ये।
अन्धवर्त्मन् = पु० अन्धं सूर्य्यप्रकाशरहितत्वादप्रकाशं वर्त्म यत्र। वायोः सप्तमे स्कन्धे। “मरुदिन्द्रः सरभसः साम- ज्ञोमानुषीतिपाः देवीविशोऽन्धवर्त्मा च स्कन्धः सप्तम आ ध्रुवादिति” पुरा०।
अन्धातमस = न० कर्म्म० अन्येभ्योऽपीति दीर्घः। निविडान्धकारे। रजन्यान्तु स्त्री।
अन्धिका = स्त्री अन्धयति अन्ध–प्रेरणे णिच् ण्वुल्। द्यूतक्रीडायाम् तया हि जनः अन्धैव विवेकशून्यः क्रियते। सर्षप्याञ्च तस्याश्चात्यन्तसेवनात् दृष्टिक्षयः वैद्यकप्रसिद्धः।
अन्धु = पु० अन्ध–कु। कूपे। कूपतुल्यच्छिद्रवत्त्वात् पुंचिह्ने च। “वाक्पाणिपादपाय्वन्धुसंज्ञान्याहुर्मनीषिण” इति शा० ति०। अन्धुर्लिङ्गमिति शब्दा० चि०।
अन्धुल = पु० अन्ध–उलच्। शिरीषवृक्षे। तत्पुष्पदर्शनात् वियोगिनामन्धत्वात्तथात्वम्।
अन्ध = पु० अन्ध–रन्। देशभेदे स च देशः। “जगन्नाथादूर्द्धभागादर्वाक् श्रीभ्रमरात्मकात् तावदन्ध्राभिधोदेश इत्युक्तः”।। वैदेहेन कारावरस्य स्त्रियामुत्पादिते अन्त्यजभेदे च। व्याधभेदे इति काश्यपः।
अन्न = न० अनित्यनेन अन–नन्, अद्यते इति अद–क्त वा “अन्नाण्ण इति” पा० निर्द्देशात् अन्नार्थतया न जग्धिः। ओदने, स्विन्नान्ने, “शस्यं क्षेत्रगतं प्रोक्तं सतुषं धान्यनुच्यते। आमं तु वितुषं ज्ञेयं स्विन्नमन्नमुदाहृतम्” इति वसि० स्मृ०। अन्नमूलं हि जीवनमित्युक्तेः तेषां प्राणहेतुत्वात्तथात्वम्। तत्रामान्नेऽपि अन्नशब्दप्रयोगः “आमान्नं हरये दत्त्वा पक्वं कृत्वाथ खादयेत्। षष्टिर्वर्षसहस्राणि विष्ठायां जायते कृमिरिति” पुराणे “चाण्डालान्नं भुक्त्वा त्रिरात्र मुपवसेत् सिद्धं भुक्त्वा पराक” इति विष्णुसूत्रे, आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजा” इति मानवे च तत्र प्रयोगात् “स्विन्नमन्नमुदाहृतमिति वशिष्ठोक्तिस्तु परिभाषार्था न तु तन्मात्रस्यैवान्नताबोधनार्था। अतएव “अन्नमाश्रित्य पापानि तिष्ठन्ति हरिवासरे” इत्यादिनिषेघे आमान्नभक्षणस्यापि ग्रहणम् अन्नानि च विविधानि “अन्नानि विविधानीह भवन्ति गिरिसम्भवे”! इत्युपक्रम्य अष्टादशविधानि धान्यान्यभिधाय “अन्नवर्ज्जब्रते देवि! एतान्येव विवर्ज्जये” दित्यनेन पद्मपुराणे अन्नबर्ज्जनव्रते तेषां वर्ज्जनीयत्वाभिधानात् अष्टादश धान्यानि च धान्यशब्दे वक्ष्यन्ते “अन्नमशितं त्रेवा विधीयते तस्य यःस्थविष्ठोधातुस्तत्पुरीषं यन्मध्यमस्तन्मांसं योऽणिष्ठस्तन्मन” इति श्रुत्या “अन्नमयं हि सोम्य मन इति” श्रुत्यन्तरोक्तं मनसोऽन्नमयत्वं यत् समर्थितं तत् सर्व्वप्रकारान्नविकारत्वेनैव। ततश्च “राजान्नं तेज आदत्ते” इत्यादौ निषिद्धतापि सर्वेषाभेव। “शूद्रेषु दासगोपालकुलमितार्द्धसीरिणः। भोज्यान्नाः नापितश्चैव यश्चात्मानं निवेदये” दित्यादावपि दासादेर्भोज्यान्नताप्रतिप्रसवः अष्टादशान्नविषयएव दासादयश्च संकीर्ण्णजातिभेदाः पराशरोक्ता वेदितव्यास्ते च तत्तच्छब्दे दर्शयिष्यन्ते। “गोरसं तिलसक्तूंश्च तिलपिण्याकमेव च। अपूपान् भक्षयेत् शूद्राद्यच्चान्यत् पयसाकृतमिति” संवर्त्तवचनन्तु आपदि शूद्रान्ननिवृत्तानामपि भक्ष्यतार्थम्। “कन्दुपक्वं तैलपक्वं पायसं दघि सक्तवः। एतान्यशूद्रान्नभुजां भोज्यानि मनुरव्रवीदिति” हारीतवचने अशूद्रान्नभुजामिति विशेषणात्तथावगतेः एवमेव प्रा० वि०। “अन्नं हि भूतानां श्रेष्ठं तस्मात् सर्व्वौषधमुच्यते” इति श्रुतौ अन्नस्य सर्व्वौषधिरूपत्वोक्तेः सर्वेषांव्रीह्याद्योषधीनामन्नत्वं व्यक्तमुक्तं “पृथिव्या ओषधय ओषथिभ्योऽन्नमिति” श्रुतौ च ओषधिजमात्रस्य अन्नत्वमुक्तम् “अद्यतेऽदन्ति च भूतानि तस्मादन्नमित्युच्यते” इति तन्निरुक्तिरपि श्रुतौ दर्शिता। पृथिव्यां, तस्याश्च अन्नहेतुत्वादन्नशब्दवाच्यता। “अद्भ्योऽन्नमिति श्रुतेः” “यत् कृष्णं रूपं तदन्नस्येति” छा० उप० श्रुतेश्च। अत एव भाष्यकृता “हन्ताहमिमास्तिस्री देवता” इति श्रुतौ इदमा तेजोबन्नात्मिकाया देवतायाः परामर्शः इत्युक्तम्। उदके च निरुक्त० तस्य च “वृष्टेरन्नं ततः प्रजा इति” मनुना अन्नहेतुत्वोक्तेस्तथात्वम्। तथाऽनिति प्राणित्यनेनेति व्युत्पत्तेः उदकस्य प्राणहेतुत्वादन्नत्वम् “आपोमयः प्राण” इत्युक्त्वा तत्समर्थनाय “आपः पीतास्त्रेधा विधीयन्ते तासां यःस्थविष्ठोधातुस्तन्मूत्रं योमध्यमः तल्लोहितं योऽणिष्ठः स प्राण इति छान्दोग्येऽपां प्राणहेतुत्वमुक्तम्। तथा “षोडशकलो वा असौ पुरुषः” इत्युपक्रग्य “पञ्चदशाहानि माशीः काममपः पिबापोमयः प्राणो न पिबितो विच्छेत्स्यते” इति तत्रैव जलपानाभावे प्राणविच्छेद उक्तः। प्राणानन्दहेतुत्वाद्वा अन्नस्य तथात्वम् यथा “आपो वा अन्नाद्भूयस्यस्तस्माद्यदा सुवृष्टिर्न भवति व्याधीयत्ते प्राणाः अन्नं कणीयो भविष्यतीति अथ यदा सुसुष्टिर्भवति आनन्दिनः प्राणाः भवन्ति अन्नं बहु भविष्यतीति छा० उप०। सूर्य्ये पु० सि० कौ० तस्य अन्नहेतुवृष्टिहेत्वात्तथात्वम् “आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजा” इति मनुना तद्धेतुत्वोक्तेस्तथात्वम् भोगसाधने उपकरणे, न० “स्त्रियोऽन्नं पशवोऽन्नञ्च विशोऽन्नञ्च महीक्षितामिति” मनुः। भक्ष्यद्रव्ये च “प्राणस्यान्नमिदं सर्वं प्रजापतिरकल्पयत्। स्थावर जङ्गमञ्चैव सर्वं प्राणस्य भोजनमिति” मनुना जङ्गमस्याप्यन्नत्वोक्तेः।
अन्नकिट्ट = न० ६ त०। अन्नपाकशब्दे वक्ष्यमाणे अन्नमलभेदे।
अन्नकोष्ठ = पु० अन्नस्य ब्रीह्यादेः स्वल्पं कोष्ठमिव अल्पार्थे कन्। (कुटी) इति ख्याते धान्यादेः स्थापनस्थाने।
अन्नद = त्रि० अन्नं ददाति दा–क। अन्नदातरि “वारिदस्तृप्तिमाप्तोति सुखमक्षय्यमन्नद” इति मनुः। अन्नपूर्ण्णाख्यदेवीभेदे स्त्री तत्पूजादि अन्नदाकल्पग्रन्थे दृश्यम्।
अन्नदास = पु० अन्नेन पालितो दासः। अन्नमात्रलाभेन प्राप्तदासत्वे भक्तदासे (पेटभाता) अन्नस्य दासमात्रे च, “अन्नस्य पुरुषो दास” इति भारते पुरुषस्य अन्नहेतुनैव दांसत्वोक्तेः।
अन्नदोष = पु० अन्नस्य भोजनप्रतिग्रहादिकृतः दोषः पापविशेषः धातुवैषम्यं वा। अभक्ष्यान्नभक्षणजनिते अग्राह्या न्नपतिग्रहजनिते च पापहेतौ अपथ्यभोजनजधातुवैषम्यकृते च दोषभेदे “आलस्यादन्नदोषाच्च मृत्युर्विप्रान् जिघांसति” मनुः। अभक्ष्याण्यन्नानि द्विविधानि स्मृत्यादौ निषिद्धतया उक्तानि, तानि च अभक्ष्यशब्दे वक्ष्यन्ते। वैद्यके रोगनिदानतया उक्तानि च, तानि धातुवैषम्यसम्पादनद्वारा रोगनिदानतया वैद्यके प्रसिद्धानि यथा मन्दाग्नेः गुर्वन्नादीनि।
अन्नपाक = पु० ६ त०। अन्नस्य ब्रीह्यादेर्लौकिकदहनेन विक्लित्त्यनुकूलव्यापाररूपे पचने, भुक्तान्नस्य जठरानलेन रसरक्तादिरूपालरापादने च तत्र लौकिकपाकः चूल्ल्युपरिस्थापनपूर्ब्बाधःसन्तापनादिर्लोकसिद्धः। जाठरपाको यथा पदार्थादर्शे योगार्ण्णवे। “आयुष्यं भुक्तमाहारं स वायुः कुरुते द्विधा संप्रविश्यान्नमध्यन्तु पृथक् किट्टं पृथग्जलम्। अग्नेरूर्द्ध्वं जलं स्थाप्य तदन्नं च जलोपरि। जलस्याधः स्वयं प्राणः स्थित्वाग्निं धमते शनैः। वायुना ध्मायमानोऽग्निरत्युष्णं कुरुते जलम्। अन्नं तदुष्णतोयेन समन्तात् पच्यते पुनः। द्विधा भवति तत् पक्वं पृथक् किट्टं पृथग्जलम्। रसेन तेन ता नाडीः प्राणः पूरयते पुनः। प्रतर्पयन्ति सम्पूर्ण्णास्ताश्च देहं समन्ततः। रसः स नाडीमध्यस्थः शरीरे चोष्मणा भृशम्। पच्यते पच्यमानस्तु भवेत् पाकद्वयं पुनः। चर्म्मावेष्ट्य समन्ताच्च रुधिरञ्च प्रजायते” इति त्वगादिधातुपाकस्तु ४९ पृष्ठे उक्तः।
अन्नपान = न० अन्नस्य अभ्यवहार्य्यमात्रस्य पानमुगभोगः। यावददनीयादिभक्षणे, “अथातोऽन्नपानविविधाध्यायं व्या- ख्यास्याम” इति प्रतिज्ञाय “तस्याशितपीतलीढस्वादितस्य नानाद्रव्यात्मकस्येति” सुश्रुते उक्तत्वात् सर्व्वेषामन्नपानत्वम्।
अन्नपूर्ण्णा = अन्नं पूर्ण्णं यया। देवीभेदे “अन्नपूर्णे! सदापूर्णे! शड्कर प्राणबल्लमे!। ज्ञानवैराग्यसिर्द्ध्यथं भिक्षां मे देहि पार्व्वतीति, शङ्कराचार्य्यः। एषा च काशीश्वरगृहिणी काशीखण्डे एतस्याभूरिशो वर्ण्णनम्।
अन्नपूर्ण्णेश्वरी = स्त्री भैरवीभेदे, तन्त्रसारेऽस्या विवरणम्। अन्नपूर्ण्णायामपि “भिक्षां देहि कृपावलोकनकरी मातान्नपूर्णेश्वरीति” शङ्कराचार्य्यः।
अन्नप्राशन = “न० प्रकृष्टं विधानेन प्रथममाशनं प्राशनं ६ त०। षष्ठाष्टममासादौ वालकादेर्विधानेन प्रथममन्नभोजने। “षष्ठेऽन्नप्राशनं मासि यद्वेष्टं मङ्गलं कुले” इति मनुः। “ततोऽन्नप्राशनं षष्ठे मासि कार्य्यं यथाविधि। “अष्टमे वास्य कर्त्तव्यं यद्वेष्टं मङ्गलं कुले” इति स्मृत्यन्तरम्। षष्ठ इति मुख्यकल्प इति रघु०। तत्रायं विशेषः कृत्यचिन्तामणौ। “अन्नस्य प्राशनं कार्य्यं मासि षष्ठेऽष्टमे बुधैः स्त्रीणान्तु पञ्चमे मासि सप्तमे प्रजगौ” मुनिः। तत्र विहिततिथ्यादि यथा “पष्ठे मासि निशाकरे शुभकरे रिक्तेतरे वा तिथौ सौम्यादित्यसितेन्दुजीवदिवसे पक्षे च कृष्णेतरे। प्राजेशादिति पौष्णवैष्णवयुगैर्हस्तादिषट्कोत्तरैराग्नेयाप्पतिपैत्र्यभैश्च नितरामन्नादिभक्षः शुभ इति, भुज० भी०। प्राजेशादयश्च रोहिण्यादयः ४, ५, ७, ८, २७, १, २२, २३, १३, १४, १५, १६, १७, १८, १२, २१, २६, ३, २०, १०,। तथाचैतन्मितानि नक्षत्राणि तत्र। विहितानि। तत्र वर्ज्यानि। “द्वादशीसप्तमीनन्दारिक्ताषु पञ्चपर्वसु। बलमायुर्य्यशोहन्यात् शिशूनामन्नभक्षणम्। कृत्यचि०। “वेधं सर्वत्र वर्ज्जये” दित्युक्तेर्नक्षत्रवेधस्यापि तत्र वर्ज्यता।
अन्नभक्त = त्रि० अन्नार्थं भक्तः दासः। अन्नमात्रदानेन प्रतिपादिते दासभेदे भक्तदासे विवृतिरस्य दासशब्दे दृश्या।
अन्नमय = पु० अन्नस्य विकारः अन्न + विकरार्थे मयट्। स्थूलशरीरे। स्थूलशरीरस्य अन्नविकारत्वादन्नमयत्वम् अतएवोक्तम्, “पितृभुक्तान्नजाद्वीर्य्याज्जातोऽन्नेनैव वर्द्धते, देहः सोऽन्नमयोनात्मा प्राक् चोर्द्धं तदभावत इति” वृद्धोक्तिः “सवा एष पुरुषोऽन्नरस” इति श्रुतौ अन्नरसत्वोक्तेस्तस्य अन्नमयत्वम्। “अन्नाद्रेतः रेतसः पुरुषः” इति श्रुतौ च देहस्यान्नषयत्वे प्रकारोदर्शितः।। अन्नविकृतिमात्रे त्रि०। “अन्नमयं हि सौम्य! मन” इति श्रुतिः विवरणं कोशशब्दे। अन्नप्रकृतमुच्यतेऽस्मिन् “तत् कृतवचने” पा० मयट्। अन्नप्रचुरे यज्ञादौ “अन्नमयोयज्ञ” इति सि० कौ०।
अन्नमल = न० पु० अन्नस्य मलः किट्टः। निस्सारितरसभागभेदें (सिटि) इति ख्यातेऽन्नकिट्टे “वर्चस्कः मल” इति सि० कौ०। सुरायाञ्च “सुरा वै मलमन्नानां पुरीषं मलमुच्यते। तस्मात् ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिबेदिति” प्रा० वि० स्मृतिः।
अन्नरस = पु० अन्नस्य रसः सारांशः स्वादो वा। भुक्तस्य अन्नस्य सारांशे “सवा अयं पुरुषोऽन्नरस” इति श्रुतिः अपथ्यैः सह संभुङ्क्ते व्याधिरन्नरसे यथेति” वै०। रसस्तु जठरानलेनान्नस्य परिपाकात् कश्चित् सारांशः। अन्नपाकशब्दे तद्विवरणम्। अन्नस्यास्वादे च।
अन्नविकार = पु० अन्नस्य विकारः। शोणितादिषु सप्तसु धातुषु “प्रधानेन व्यपदेशाभवन्तीति” न्यायात् चरमधातावेवास्य प्रयोगोपाधित्वात् चरमे धातौ शुक्रे रा० नि०। शुक्रोत्पत्त्यर्यमेव हि क्रमशःशोणितादिपाकात्तस्य प्राधान्यम्। अत एव “अन्नाद्रेत” इति श्रुतौ अन्नतो रेतस उत्पत्तिर्दर्शिता सा च परम्परयैव।
अन्नाद = त्रि० अन्नमत्तुं शक्नोति अद–अण् उप०। अन्नभोजनसामर्थ्यवति दीप्ताग्नौ। “अन्नवानन्नादोभवति य एवं विद्वानिति छा० उप०। “अन्नादः दीप्ताग्निरिति” शा० भा०। “त्विषिमानपचितिमान् यशस्वी ब्रह्मवर्चस्यन्नाद” इति कात्या० ३, ३, ५। अन्नभक्षके त्रि० “टिड्ढाणञित्यादि” पा० सूत्रे आद्यन्तयोस्तद्धितसाहचर्य्यात् तद्धिताणन्तादेव ङीप् अन्यतोन, तेनातः स्त्रियां टाप्।
अन्नादिन् = त्रि० अन्नमत्ति अद–णिनि ६ त०। अन्नभक्षके। “भैक्षेण वर्त्तयेन्नित्यं नैकान्नादी भवेद्व्रतीति” मनुः स्त्रियां ङीप्।
अन्नाद्य = न० अन्नरूपमाद्यं भक्ष्यम्। अन्नरूपभक्ष्ये। “अग्निमन्नादमन्नाद्यायादधे” य० ३, ५,। अन्नमाद्यं यस्य। अन्नप्रभृतौ त्रि० “अन्नाद्याय व्यूहध्वं सोमोराजा यमागमदिति” दन्तधावनमन्त्रः। “अन्नाद्येनोदकेन वा” इति मनुः।
अन्नायुस् = त्रि० अन्नमायुर्जीवनसाधनमस्य। अन्नजीवने “स एषोऽन्नस्य ग्रहोयद्वायुरन्नायुर्व्वा एष यद्वायुरिति” ऐ० उप०। अन्नायुरन्ननिबन्धनायुरन्नजीवन इत्यर्थः।
अन्नावृध = त्रि० अन्नं वर्द्धतेऽनेन वृध–करणे क्विप् ६ त० पूर्ब्बपददीर्घः। अन्नवर्द्धके। “अत उत्वा पितुभृतोजनित्रीरन्नावृघं प्रतिचरन्त्यन्नैरिति ऋ० १०, १, ४,।
अन्नाशन = न० अन्नस्य विधानेन आशनम्। अन्नप्राशनार्थे।
अन्य = त्रि० अन–अघ्न्यादि० य। भिन्ने, सदृशे च। “उत्थितं दृदृशेऽन्यच्च कबन्धेभ्यो न किञ्चनेति” रघुः। “शरीरेण समं नाशं सर्वमन्यद्धि गच्छति” हितो०। “अन्यदुच्छृङ्खलं सत्वमन्यच्छास्त्रनियन्तितमिति” माघः धन्यास्तागुणरत्नरोहणभुवोधन्यामृदन्यैव सेति” सा० द० सदृशे अन्योक्तिः मुख्यत्वेऽस्य सर्वनामता। “नान्वये सति सर्व्वस्वं यच्चान्यस्मै प्रतिश्रुतमिति” या०। “व्याप्तिः साध्यवदन्यस्मिन्निति” भाषा०। “वृत्रहन्नन्येषां या शतक्रतोरिति ऋ० ८, ३३, १४, अत्यस्मित् यूपे, निदधाति। रेत इति ऋ० ३, ५५, १७। द्वन्द्वेऽन्त्यस्य न तत्कार्य्यम्, “साध्वन्यानां सखिद्विषे” इति मु० बो० जसि तु वा साध्यन्ये–साध्वन्याः। तस्येदमित्यर्थे छ दुक्। अन्यदीयः।
अन्यकारुक = प्र० अन्यत् करोति कृ–उण् स्वार्थे कन् कारुकः। पुरीषकिट्टे हारा०। अन्यस्य कारके त्रि०।
अन्यचित्त = न० अन्यदिव स्वव्यापराक्षमं चित्तं कर्म्म०। विषयालोचनासमर्थे चित्ते। ६ त०। अन्यमनस्के त्रि०।
अन्यत् = अव्य०। अन–बा० यति। अन्यार्थे। “देवदत्तोगच्छति अन्यच्च यज्ञदत्त” इति गण० महो० स्वरादिपाठादव्ययत्वम्।
अन्यतम = त्रि० अन्य + डतमैति, मुग्धबोधम्। बहूनां मध्ये निर्द्धारिते एकस्मिन्। न्यायमते अनेकभेदावच्छिन्नप्रतियोगिताकभेदवति तच्च तद्भिन्नत्वे सति तद्भिन्नत्वे सति तद्भिन्नभिन्नत्वम्। यथा धटपटगृहान्यतम इत्यादौ घटादिभेदत्रयभेदो घटपटगृहेष्वेव, तद्भिन्नेषु सर्वत्र तत्त्रयभेदसत्त्वात्। अनेकत्वञ्च अपेक्षाबोधविषयत्वं तथा च यावन्तः पदार्थाः अन्यतमघटकप्रथमभेदप्रतियोगितया विवक्षितास्तावन्तएव भेदा ग्राह्यास्तथा च तावत्पदार्थभिन्नभेदवत्त्वमेवान्यतमशब्दार्थः। “अन्यतरान्यतमशब्दौ अव्युत्पन्नो प्रातिपदिके इति” कैयटः। तेनान्यतमस्य न सर्वनामकार्य्यम् “किंयत्तदोनिर्द्धारणे इति” पा० किंयत्तद्भ्योऽन्यत्र डतरादिविधानाभावान्न डतमान्तत्वम् अतोऽव्युत्पन्नत्वम्। इति भा० प्र० उ०। अतएव सर्वनामसंज्ञासूत्रे डतरडतमान्तयोरुक्तत्वेऽपि अन्यतरशब्दस्य पृथग्ग्रहणम्। “कर्म्मादिषट्कान्यतमत्वं कारकत्वमिति” सारमञ्जरी “अधःप्रकुपितोऽन्यतमो हि दोष” इति सुश्रुतम्।
अन्यतर = त्रि० अन्य + डतर मु० बो०। द्वयोर्मध्ये निर्द्धारिते एकस्मिन्। न्यायमते मेदद्वयादिच्छन्नप्रतियोगिताकभेदवति तच्च तद्भिन्नत्वे सति तद्भिन्नभिन्नत्वमधिकमन्यतमशब्दे दृश्यम् अव्युत्पन्नत्वेऽपि अस्य स्वशब्देनोपात्तत्वात् सर्वनामकर्य्यम्। किंयत्तद्भ्योऽन्यत्र डतराद्यभावात् अव्युत्पन्नत्वमिति भाष्य० प्र० उद्योत०। शुभ्रादि० अपत्ये ठक्। आन्यतरेयस्तदपत्ये पुंस्त्री०।
अन्यतरेद्युस् = अव्य० अन्यतरस्मिन्नहनि एद्युस्। अन्यतरदिवसे।
अन्यतस् = अव्य० अन्य + सप्तम्याद्यर्थे तसिल्। अन्यत्र अन्यंस्मादित्याद्यर्थे। तत्र सप्तम्यर्थे “नैव न प्रियतमोभयथासो यद्यमुंन वृणुते वृणुते वा। एकतस्तु धिगमूमगुणज्ञामन्यतः कथमदःप्रतिलम्भः इति” नै० “एकतस्तु सकलानि निमित्त न्यन्यतो मनसः प्रतित्तिरिति” नीति० “गुरो र्यत्र परीवादोनिन्दा वापि प्रवर्त्तते। कर्ण्णौ तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यत” इति मनुः। पञ्चम्यर्थे तु “या नियुक्तान्यतः पुत्रं देवराद्वाप्यवाप्नुयादिति” मनुः।
अन्यतस्त्य = त्रि० अन्यतोऽन्यस्मिन् स्वेतरपक्षे भवः अन्यतस् + त्यप्। सपत्ने। “स य एतमुपास्ते जिष्णुर्हापराजिष्णुर्भवत्यन्यतस्त्यजायीति” श्रुतिः।
अन्यत्कारक = त्रि० अन्यस्य कारकः ६ त० दुक् च। अन्यस्यकारके।
अन्यत्र = अव्य० अन्यस्मिन् + अन्य + त्रल्। अन्यस्मिन्नित्यर्थे। “अन्यत्र निद्रद्रव्येभ्य आश्रितत्वमिहेष्यते इति” भाषा० न चानुमानगम्यं शास्त्रप्रामाण्यं येनान्यत्र दृष्टं निदर्शनमपेक्षते इति” अन्यत्र प्रजापतिव्रतादिभ्यः इति च शारी० भा०। प्रकरणबलाच्च कालो देशो वा विशेष्यः तत्र कालः। “अन्यत्र निधनात् पत्युः पत्नी केशान्न वापयेदित्यादौ” निधनकालभिन्ने काले इत्यर्थः। उक्तोदाहरणे तु देश इति। “इतराभ्योऽपि दृश्यन्ते इति” पा० उक्तेः तत्रभवानित्यादिवत् प्रथमार्थे त्रल्। प्रथमार्थे “देवा अन्यत्राश्विभ्यां सत्वं निषेदुरिति” कौ० ब्रा०। अन्यत्र अन्ये इत्यर्थः “अन्यत्र धर्म्मादन्यत्राधर्म्मादन्यत्र कृताकृतात् अन्यत्र भूताद्भव्याच्चेति” कठ० उप०। धर्म्मादन्यैत्यर्थः।
अन्यथा = अव्य० अन्य + प्रकारार्थेथाच्। अन्यप्रकारे “यदभावि न तद्भावि भावि चेन्न तदन्यथेति” हितो०। “अवाप्यते वा कथमन्यथा द्वयमिति” कुमा०। निष्कारणे मेदि० अभावार्थे च “अन्यथानुपपत्तिरिति”।
अन्यथाकारम् = अव्य० अन्यथा + कृ + णमुल्। अन्यप्रकारेण कृत्वेत्यर्थे यस्य यथाकरणमुचितं ततोन्यरूपेण कृत्वेत्यर्थे।
अन्यथाख्याति = स्त्री अन्यथा अन्यरूपेण ख्यातिर्ज्ञानम्। यस्य यद्धर्म्मवत्त्वेन ज्ञानमुचितं तस्य तद्भिन्नधर्मेण ज्ञाने। यथा ह्रदो वह्निमानित्यादिज्ञानम् तच्च भ्रमात्मकं तदभाव वति तत्प्रकारकत्वात्। तच्च विशिष्टमेकं ज्ञानं तस्यैव प्रवर्त्तकत्वात् तथा च शुक्तौ रजतत्वभ्रमात् रजतार्थिनस्तद्ग्रहणे प्रवृत्तिरुपजायते इति नैयायिकादयः। मीमांसकादयस्तु तत्र ज्ञानद्वयम् वह्निज्ञानं ह्रदज्ञानञ्च असंसर्गाग्रहवशाच्च तयोः विशिष्टज्ञानकार्य्यकारिता सति च ह्रदे वह्नेरसंसर्गज्ञाने तत्र न प्रवृत्तिरित्यतोऽसंसर्गाग्रह एव तत् प्रवर्त्तकः अप्रवृत्तिस्तु तदभावे इत्याहुः। वेदान्तिनस्तु धर्म्मिणोऽसन्निकुष्टस्थले नान्यथाख्यातिः किन्तु अलौकिकपदार्थान्तरोत्पत्त्या तस्य लौकिकं प्रत्यक्षं जायते यथा इदं रजतमिति ज्ञानं तद्विवरणमध्यासशब्दे १४० पृष्ठे उक्तम्। अतोऽसत एव तत्र ख्यातिरित्यसत्ख्यातिः धर्म्मिसन्निकर्षस्थले तु जपासन्निकृष्टस्फटिकादौ अन्यथा ख्यातिरिति भेद इत्यङ्गीचक्रुः।
अन्यथानुपपत्ति = स्त्री अन्यथा अभावे न उपपत्तिःअसम्भवः स्वाभावप्रयोज्यासम्भवे, अर्थापपत्तिप्रमाणे च तथा हि पीनो देवदत्तो दिवा न भुङ्क्ते इत्यादौ दिवाऽभोक्तुर्देवदत्तस्य पीनत्वं रात्रिभोजनं विनाऽनुपपन्नम् (असम्भवि) इति ज्ञानात् रात्रिभोजनाकर्त्तृवृत्तिपीनत्वेन रात्रिभोजनं कलप्यते तथा च भोजनस्य पीनत्वव्यापकतया व्यापकाभावस्य च व्याप्या भावव्याप्यतया साध्याभावव्यापकीभूताभावप्रतियोगित्वरूपव्यतिरेकव्याप्तिज्ञानात् अनुमितिरूपार्थापत्तिरुदेति। सेयमर्थापत्तिः मीमांसकमते प्रमाणान्तरं नैयायिकानां मते व्यतिरेकव्यप्तिज्ञानहेतुकानुमितिरिति भेदः।
अन्यथाभाव = पु० अन्यथा अन्यरूपेण भावः। यस्य यथारूपमुचितं तस्य ततोऽन्यथारूपेण भवने। अन्यरूपाशये च। “अतो मय्यन्यथाभावी न कर्त्तव्य इति” छा० उप० भौ० “ज्ञातेऽपि विषये तवानुक्तिरित्येवं रूपो भाव इत्यर्थः।
अन्यथाभूत = त्रि० अन्यथा अन्यप्रकारेण भूतः। प्रकारान्तरतां प्राप्ते। “अन्यथाभूतखिरिति” मु० बो०।
अन्यथावृत्ति = स्त्री अन्यथाऽन्यरूपेण वृत्तिः। चित्तादेः अन्यप्रकारेण वृत्तौ, (परिणामे) अन्यथास्थितौ च।
अन्यथासिद्ध = त्रि० अन्यथा अन्यप्रकारेण सिद्धः। अन्यप्रकारेण सिद्धे पदार्थे, न्यायादिमते अन्यथासिद्धिरूपाणां कारणताप्रतिबन्धकानां दोषाणामाश्रये वस्तुनि च। अन्यथासिद्धानि च पञ्च तत्र घटादौ दण्डत्वादिकमाद्यम् दण्डादिरूपं द्वितीयं, कुलालजनकः तृतीयः, गगनादि चतुर्थम् रासभादि पञ्चमम्, यथोक्तं भाषायाम् “येन सह पूर्ब्ब- भावः कारणमादाय वा यस्य। अन्यं प्रति पूर्ब्बभावे ज्ञाते यत्पूर्ब्बभावविज्ञानम्।। जनकं प्रति पूर्ब्बवर्त्तितामपरिज्ञाय न यस्य गृह्यते। अतिरिक्तमथापि यद्भवेन्नियतावश्यकपृर्ब्बभाविनः।। एते पञ्चान्यथासिद्धा दण्डत्वादिकमादिमम्। घटादौ, दण्डरूपादि द्वितीयमपि दर्शितम्।। तृतीयन्तु भवेद् व्योम कुलालजनकोऽपरः। पञ्चमो रासभादिः स्यादेतेष्वावश्यकस्त्वसौ” इति।।
अन्यथासिद्धि = स्त्री अन्यथा अन्यप्रकारेण सिद्धिः। अन्यप्रकारेण सिद्धौ न्यायाद्युक्तकारणताप्रतिबन्धकरूपे पञ्चविधे दोषे च।
अन्यदर्थ = पु० अन्योऽर्थः कर्म्म० दुक्। भिन्नार्थे। ६ त० ३ त० वा अन्यार्थः अन्यस्यान्येन वाऽर्थे पु०। अन्यः अर्थोयस्य अन्यार्थः भिन्नार्थके त्रि०। “अन्यार्थ उपन्यास इति”
अन्यदा = अव्य० अन्यस्मिन् काले दा। अन्यस्मिन् काले इत्यर्थे “अन्यदा भूषणं पुंसां क्षमा लज्जेव योषितामिति” माघः
अन्यदाशा = स्त्री अन्या आशा दुक्। भिन्नप्रार्थने। अन्यस्वाशा ६ त०। अन्यस्य वाञ्छायाम् अन्यलाभाशये।
अन्यदाशिस् = स्त्री अन्या आशीः दुक्। अन्याशीर्वादे अन्यस्य अन्येन वाशीरिति ६ त० ३ त० वा। अन्याशीरित्येव। अन्यस्य अन्येन वाऽशास्यप्रार्थने।
अन्यदास्था = स्त्री अन्यस्मिन् आस्था दुक्। अन्यस्मिन्नास्थायाम् अन्यस्यास्था ६ त०। अन्यास्थेत्येव अन्यस्यास्थायाम्।
अन्यदास्थित = त्रि० अन्यमास्थितः दुक्। अन्यरूपास्थिते ३ त०। अन्यास्थित इत्येव अन्येनास्थिते।
अन्यदीय = त्रि० अन्यस्यायम् गहा० छ दुक् च। अन्यसम्बन्धिनि
अन्यदुत्सुक = त्रि० अन्यस्मिन् उत्सुकः दुक्। अन्यविषयोत्कण्ठिते। अन्येन उत्सुकः ३ त०। अन्योत्सुक इत्येव तत्रैवार्थे त्रि०।
अन्यदूति = स्त्री अन्या ऊतिः दुक्। अन्यरक्षणे। अन्यस्य ऊतिः ६ त०। अन्योतिरित्येव अन्यस्य रक्षणे।
अन्यद्राग = पु० अन्यस्मिन् रागः दुक्। अन्यविषयरागे। अन्येन अन्यस्य वा रागः ३ त० ६ त० वा। अन्यराग इत्येव अन्यकरणके अन्यसम्बन्धिनि च रागे।
अन्यपुष्ट = पुंस्त्री० अन्यया नातृभिन्नया पुष्टः सर्वनाम्नो वृत्तौ पुंवद्भावः। कोकिले “अप्यन्यपुष्टाः प्रतिकूलशब्दाः श्रोतुर्वितन्त्रीरिव ताड्यमानेति” कुमा०। “बलिपुष्टकुलादिवान्यपुष्टैरिति” माघः।
अन्यपूर्व्वा = स्त्री अन्यः पूर्व्वो यस्याः। पूर्व्वपतिमरणादौ पश्चात् कृततद्भिन्नपतिकायां पुनर्भूस्त्रियाम्। अन्यपूर्व्वा च सप्तविधाः यथोक्तं नारदेन “परपूर्ब्बाः स्त्रियस्त्वन्याः सप्त प्रोक्ता यथाक्रमम्। पुनर्भूस्त्रिबिधा तासां खैरिणी तु चतुर्व्विधा। कन्यैवाक्षतयोनिर्य्या पाणिग्रहणदूषिता। पुनर्भूः प्रथमा प्रोक्ता पुनःसंस्कारकर्म्मणा। देशधर्म्मानवेक्ष्य स्त्री गुरुभिर्य्या प्रदीयते। उत्पन्नसाहसान्यस्मै सा द्वितीया प्रकीर्त्तिता”। (उत्पन्नसाहसा उत्पन्नव्यभिचारा)। “असत्सु देवरेषु स्त्री बान्धवैर्य्या प्रदीयते। सवर्णाय सपिण्डाय सा तृतीया प्रकीर्त्तिता”। स्त्री प्रसूताऽप्रसूता वा पत्यावेव तु जीवति। कामार्थमाश्रयेदन्यम्प्रथमा स्वैरिणी तु सा। कौमारम्पतिमुत्सृज्य या त्वन्यं पुरुषं श्रिता। पुनः पत्युर्गृहं यायात्सा द्वितीया प्रकीर्त्तिता। मृते भर्तरि तु प्राप्तान् देवरादीनपास्य या। उपगच्छेत्परं कामात्सा तृतीया प्रकीर्त्तिता। प्राप्ता देशाद्धनक्रीता क्षुत्पिपासातुरा तु या। तवाहमित्युपगता सा चतुर्थी प्रकीर्त्तिता इति”। अन्या अपि सप्तविधाः कात्यायनेन दर्शिता यथा “सप्त पौनर्भवाः कन्या वर्जनीयाः कुलाधमाः। वाचा दत्ता मनोदत्ता कृतकौतुकमङ्गला। उदकस्पर्शिता या च या च पाणिगृहीतिका। अग्निं परिगता या च पुनर्भूप्रभवा च या। इत्येताः काश्यपेनोक्ता दहन्ति कुलमग्निवत्” इति। अन्यपूर्ब्बावेदनञ्च युगान्तरविषयमिति माधवाचार्य्यादयः “नष्टे मृते प्रव्रजिते क्लीवे वा पतिते पतौ। पञ्चस्वापत्सु नारीणां पतिरन्योविधीयते पराशरवाक्यस्य तेन युगान्तरविषयकत्वस्य व्यवस्थाप्रनात्। कलियुगेऽपि तत्कर्त्तव्यतेति आधुनिकामन्यन्ते तत्र बलाबले तत्तद्ग्रन्थे एवावगन्तव्ये। अन्यस्वामिकमात्रेऽपि “मनुप्रभृतिभिर्मान्यैर्भुक्ता यद्यपि राजभिः। तथाप्यनन्यपूर्ब्बेव तस्मिन्नासीत् वसुन्धरेति रघुः। ततः अर्शआदित्वादच्, अन्या पूर्व्वा यस्य वा। तत्परिणेतरि पुनर्भूपतौ पु०।
अन्यभाव = पु० अन्यरूपो भावः। अन्यरूपभवने अन्यरूपचित्तभावे च। ब्रा० ष्यञ्। आन्यभाव्यं तद्भावे न०।
अन्यभृत् = पुंस्त्री० अन्यया भ्रियते भृ–कर्म्मणि क्विप्। कोकिले।
अन्यभृत = पुंस्त्री० अन्यया भृतः पुष्टः। कोकिले। “कलमन्यभृतासु भाषितमिति” रघुः। अन्यपुष्टमात्रे त्रि०।
अन्यमनस् = त्रि० अन्यस्मिन् मनोयस्य। स्वग्राह्यविषयपरिहारेण उत्कण्ठया व्याकुलीभावेन अन्यत्रासक्तचित्ते। वा कप्। अन्यमनस्कोऽप्यत्र त्रि०।
अन्यमातृज = पु० अन्यस्या मातुर्जायते जन ड ५ त० पुंवद्। सापत्ने भ्रातरि “असंसृष्ट्यपि चादद्यात् संसृष्टोनान्यमातृज” इति याज्ञ० तादृशभगिन्यां स्त्री।
अन्यलिङ्ग = पु० अन्यस्य स्वविशेष्यस्य लिङ्गमिव लिङ्गमस्य। विशेष्यलिङ्गानुसारिलिङ्गके शब्दे। वा कप्। अन्यलिङ्गकोऽप्युक्तार्थे “ज्ञेयाः सप्तान्यलिङ्गका” इत्यमरः।
अन्यवर्ण्ण = पुंस्त्री अन्यो वर्ण्णः यस्य। सविजातीयवर्ण्णे यथा ब्राह्मणस्य क्षत्रियः क्षत्रियस्य वैश्यजातिरित्यादि।
अन्यवादिन् = पु० अन्यथा प्रतिज्ञातार्थादन्यथा वदति वदणिनि। हीनप्रतिज्ञे वादिनि–प्रतिवादिनि च। “अन्यवादी क्रियाद्वेषी नोपस्थायी निरुतरः। आहूतः प्रपलायी च हीनः पञ्चविधः स्मृत” इति नारदसंहिता।
अन्यविवर्द्धित = पुंस्त्री० अन्यया स्वमातृभिन्नया विवर्द्धितः पुंवत्। कोकिले। परवर्द्धितमात्रे त्रि०।
अन्यव्रत = त्रि० अन्यत् वैदिकाद्भिन्नं व्रतं कर्म्म यस्य। श्रुतिस्मृति–विहितव्यतिरिक्तकर्म्मकारके असुरादौ यथेष्टाचारिमानुषे च। “अपद्वेषो अपह्वरोऽन्यव्रतस्य ऋ० ५, २०२, अकर्म्मा दस्युरभि नो अमन्तुरन्यव्रतोऽमानुषः ऋ० १०, २२, ८,।
अन्यशाख = पु० अन्या स्वाध्यायभिन्ना शाखा वेदभागभेदो यस्य। स्वाध्वायवेदशाखाभिन्नशाखाध्यायिनि “अन्यशाखोद्भवोदत्तो गृहीतश्चोपनायित” इति दत्तक० च० स्मृतिः। वा–कप्। अन्यशाखकोऽप्युक्तार्थे। स्वशाखामुत्सृज्य अन्यशाखामध्येतरि च। स्वार्थे कन्। शाखारण्डे।
अन्यसाधारण = त्रि० अन्येन साधारणः। अन्येन सदृशे, “अप्यप्रसिद्धं यशसे हि पुंसामनन्यसाधारणमेव कर्म्मेति” कु० अन्यस्य साधारण्यवति स्वपरस्वत्वास्पदीभूते साधारणे वित्तादौ।
अन्यादृक्ष = त्रि० अन्य इव पश्यति अन्य + दृश–“कर्त्तरि कृत्” पा० उक्तेः कर्म्मकर्त्तरि क्स, कर्म्मणि सक् इति मु० बो०। अन्यादृशे। क्विन्। अन्यादृगप्यत्र स्त्रियां ङीप्। कञ्। अन्यादृशस्तत्रार्थे “इमे नूनमीदृशा अन्यादृशा” इति छा० उप०। स्त्रियां ङीप्।
अन्याय = पु० न्यायो विचारः, सङ्गतिःऔचित्यं, प्रतिज्ञादिपञ्चकप्रतिपादकवाक्यञ्च अभावार्थे न० त०। विचाराभावे, सङ्गत्यमावे, अनौचित्ये, पञ्चाङ्गन्यायाभावे च न्यायशब्दार्थे त्वधिकं वक्ष्यते। न० ब०। विचारशून्ये, औचित्यशून्ये, असङ्गते, प्रतिज्ञादिपञ्चकवाक्यशून्ये च त्रि०। “अन्यायेनापि तं यान्तं येऽनुयान्ति सभासद” इति स्मृतिः। “अन्यायेनापि यद्भुक्तं बहून्यब्दशतानि चेति” नारदस०।
अन्याय्य = त्रि० न न्याय्यः। न्यायादनपेतभिन्ने अनुचिते।
अन्यार्थ = पु० अन्योऽर्थः वा दुगभावः। भिन्नार्थे। अन्योर्थःअभिधेयं प्रयोजनं तास्य। भिन्नाभिधेयवाचके शब्दे भिन्नप्रयोजनके पदार्थे च त्रि०।
अन्यून = त्रि० न न्यूनम्। हीनभिन्ने व्याप्यभिन्ने च। “अन्यूनानतिरिक्तवृत्तित्वमवच्छेदकत्वमिति” न्यायप्रकरणम्।
अन्यूनाधिक = त्रि० न न्यूनं नाप्यधिकम्। समानभावप्राप्ते न्यूनाधिकतारहिते।
अन्यूनानतिरिक्त = त्रि० अन्यूनः अहीनः अनतिरिक्तः नाधिकः विशेषणयीरप्येकस्य विशेष्यताविवक्षया क०। समाने। “अन्यूनाततिरिक्ताङ्गीं योषितं सौम्यदर्शनामिति” स्मृतिः। अन्यूनानतिरिक्तवृत्तित्वमिति न्या० प्र०।
अन्येद्युष्क = त्रि० अन्येद्युः अन्यस्मिन्नहनि भवः कन् उदु पधत्वात् षत्वम्। अन्यदिवसभवे। “अन्येद्युष्कमहोरात्रादेककालं प्रवर्त्तते इति” सुश्रुतम्।
अन्येद्युस् = अव्य० अन्यस्मिन्नहनि अन्य + एद्युस्। अन्यदिवसे इत्यर्थे “परेद्यव्यद। पूर्ब्बेद्युरुन्येद्युश्चापि चिन्तयन्निति” भट्टिः “अन्येद्युरात्मानुचरस्य भावमिति” रघुः।
अन्योढा = स्त्री अन्येन उढा। परकीयनायिकायाम् “यात्रादिनिरताऽन्योढा कुलटा गलितत्रपेति” सा० द०।
अन्योदर्य्य = पु० अन्यस्मिन् स्वमातृभिन्ने उदरे गर्मे भवः उदर + यत्। एकपितृके भिन्नमातृके वैमात्रेये भ्रातरि। “अन्योदर्य्यस्तु संसृष्टो नान्योदर्य्यीधनं हरेरिति याज्ञ० स्मृतिः। तथाभगिग्यां स्त्री। अन्योदरजातमत्रे त्रि० अतएव दायभागे द्विचनव्याख्याने भ्रातृपुत्त्रादीनामपि अत्योदर्य्यपदार्थतया दायाधिकार उक्तः।
अन्योन्य = त्रि० अन्य + कर्म्मव्यतिहारे (एकजातीयक्रियाकरणे) द्वित्वम् पूर्ब्बपदे सुश्च। परस्परार्थे। “अन्योन्यमुत्पीडय दुत्पलाक्ष्याः स्तनद्वयं पाण्डु तथा प्रवृद्धमिति” “अन्योन्य संसक्तसहस्त्रियामम्” “अन्योन्यसंस्पर्शनिमीलिताक्षौ” इति “अन्योन्यलोलानि विलोचनानिनीति” च कुमा० कृतद्वित्वस्यापि सर्व्वनामता तेनान्योऽन्यस्मै इत्यादि। “अन्योन्यस्मिन्नन्योन्यात्मकतामध्यस्येति” शारी० भा०। “तावेतावन्योन्यस्मिन् प्रतिष्ठितौ” इति वृ० उ० अन्योन्यस्या एवैतच्छ्रिया प्रतिष्ठमानाय इति कौ० व्रा० “अन्योन्यमुभयोरेकक्रियायाः करणं मतमि” त्युक्तलक्षणे अर्थालङ्कारभेदे न०। “त्वया सा शोमते तन्वी तया त्वमपि शोभसे। रजन्या शोभते चन्द्रश्चन्द्रेणापि च यामिनी” सा० द०।
अन्योन्याध्यास = पु० अन्योन्यस्मिन् अन्योन्यतादात्मस्याध्यासः आरोपः। वेदान्तिमतसिद्धे परस्परतादात्मारोपे यथा अन्तःकरणे चेतनाध्यासः, चेतने वा अन्तःकरण तादात्माध्यासः “जलव्योम्ना घटाकाशो यथा सर्वस्तिरोहितः। तथा जीवे च कूटस्थः सोऽन्योन्याध्यास उच्यते” इति वृद्धाः।
अन्योऽन्याभाव = पु० अन्योन्यस्मिन् अन्योऽन्यस्य अभावः। भेदे। भेदो हि यथा घटे पटस्य, तथा पटे घटस्य सदाऽस्ति, संसर्गाभावस्तु नैवं, घटे भूतलस्याभाचेऽपि भूतले घटस्य कदाचित् सत्त्वसंभवेन सदाभावाभावात्। “अभावस्तु द्विधा संसर्गान्योऽन्याभावभेदत” इति भाषा० तादात्म्यसंबन्धावच्छिन्नप्रतियोगिताकाभावत्वम् अन्योन्याभावत्वमिति मुक्ता०। तच्च अखण्डोपाधिरिति नान्योन्याश्रयः इति तु नव्याः।
अन्योन्याश्रय = त्रि० अन्योन्यमाश्रयतीति आ + श्रि–अच्। परस्परसापेक्षे। न्यायमते तर्कविशेषे पु०। स च एकस्य ज्ञानादिजननाय यथाऽन्यज्ञानाद्यपेक्षा तथातस्य ज्ञानादि जननायेतरस्य ज्ञानापेद्यक्षेति स्वापेक्षापेक्षित्वनिमित्तकोऽनिष्टः प्रसङ्गः। अपेक्षा च ज्ञप्तौ, उत्पत्तौ, स्थितौ च ग्राह्या तत्र ज्ञप्तौ “घटोऽयम् यद्येतद्घटज्ञानजन्यज्ञानविषयः स्यात् तदैतद्घटभिन्नः स्यात् तत्र स्वज्ञानस्य स्वज्ञानजन्यत्वेनानिष्टं प्रसज्येत स्वापेक्षापेक्षिज्ञानत्वात् स्वापेक्षित्घटज्ञानरूपविषयस्य तज्जनकज्ञानविषयाद्भेदरूपमनिष्टञ्च सज्येत अतोघटस्य घटभेदप्रसङ्गोऽनिष्टः। उत्पत्तौ यथा घटोऽयं यद्येतद्घटजन्यजन्यः स्यात् तदैतद्घटभिन्नः स्यादित्यादि। एतद्घटस्य उत्पत्तौ एतद्घटजन्यसापेक्षत्वे कारणस्य कार्य्याद्भेदनियतया एतद्घटस्य एतद्घटभेदरूपोऽनिष्टःप्रसङ्गः। स्थितौ यथा घटोऽयं यद्येतद्घटवृत्तिवृत्तिः स्यात् तदा तथात्वेनोपलभ्येत न च तथा उपलभ्यते तथात्वे च घटस्य घटवृत्तित्वापक्षिरनिष्टा प्रसज्येत। एतेषु ज्ञप्तिविपयतयैव प्रायशोऽनिष्टप्रसङ्गः। सर्वत्र तन्मूलकमेव स्वग्रहसापेक्षग्रह सापेक्षग्रहकत्वमन्योन्याश्रयत्वं तत्र तत्र व्यवह्रियते। अतएव परस्परज्ञानसापेक्षज्ञानाश्रयोऽन्योन्याश्रय इति स्मार्तैरुक्तम्। एवञ्च अन्योन्यपदस्य तज्ज्ञाने, तदुत्पत्तौ, त्तस्थितौ च लक्षणा तदाश्रयः अन्योन्याश्रय इति त्रितयसाधारणः विग्रहः।
अन्वक्ष = त्रि० अनुगतमक्षमिन्द्रियं गतिस०। प्रत्यक्षे, अनुपदे, अनुगते च। अक्ष्णः ममीपम् अव्ययी० टच्समा०। चक्षुर्निकटे अव्य०।
अन्वग्भाव = पु० अनूचोभावः। पश्चाद्गन्तृत्वे, आनुगत्ये।
अन्वच् = त्रि० अनु + अन्च–क्विन्। अनुगामिनि, स्त्रियां ङीप्। “समानबन्धू अमृते अनूची” ऋ० १, ११३, २, अनूची अन्वञ्चन्त्याविति भा०। “तस्मादिमे अन्वञ्चश्च तीर्य्यञ्चश्च” श० ब्रा०। पशुश्चान्वक् कात्या० ६, ५, ६। अनु पश्चादञ्चतीति तद्व्या०। अनुपदे न० अव्य० अमरः। “अन्वग्ययौ मध्यमलोकपालैति” रघुः अनुपदं यथावित्यर्थः स्वरादेराकृतिगणत्वेन तद्गणीयः अनुमाने अव्य० प्रो० मनो०।
अन्वन् = त्रि० अन–वनिप्। अनुगन्तरि। “अन्वासि रात्र्यैत्वेति” ता० ब्रा० स्त्रियां ङीप्। भाष्यकृता तु अनुपूर्ब्बाद्वातेरेतद्रूपमित्युक्तम्। तेन अनु + वा–क पृ० रूपसिद्धिः। स्त्रियां टाप्।
अन्वय = पु० अनु + इण्–भावे अच्। सन्ततौ, अनुगतौ, “जन्माद्यस्य यतोऽन्वयादिति” भाग०। वृत्तौ, आनुकूल्ये, कार्य्ये–कारणस्यानुसरणे, कार्य्यसत्तापादकस्वसत्ताकस्य कारणस्य कार्य्ये स्थितौ, स्वसत्तानियतसत्तावत्कार्य्यसंबन्धे, च। कर्त्तरि अच्। वंशे तस्य पूर्ब्बपुरुषदेहावयवानुगमनात्तथात्वम्। “तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तर” इति “रघूणामन्वयं वक्ष्ये” इति “तस्यान्वये भूपतिरेष जात” इति “अथ स्तुते वन्दिभिरन्वयज्ञैरिति” च रघुः पदानां, स्वोपस्थाप्यपदार्थानां वा परस्परसंबन्धे। “तात्पर्य्याख्यां वृत्तिमाहुः पदार्थान्वयबोधने” इति सा० द० “परस्परनिरपेक्षाणामेकस्मिन्नन्वयः समुच्चय” इति सि० कौ०। “मुख्यार्थस्येतराक्षेपो वाक्यार्थान्वयसिद्धये” इति सा० द०। तत्सत्त्वे तत्सत्त्वरूपे “गुणानां तदन्वयव्यतिरेकानुविधायित्वादिति” सा० द०। अन्वेति इन्द्रियम् कर्त्तरि अच्। प्रत्यक्षे, “स्यात् साहसं त्वन्वयवत् प्रसभं कर्म्म यत् कृतम्। निरन्वयं भवेत् स्तेयमिति” मनुः। अनुगतमात्रे त्रि०। “का त्वमेकाकिनी भीरु! निरन्वयजने वने” इति भट्टिः अनुगतजनशून्ये इत्यर्थः।
अन्वयबोध = पु० एकपदार्थे धर्म्मिणि अपरपदार्थस्य अन्वयं सम्बन्धं बोधयति आकाङ्क्षादिना, बुध–णिच्–अण् उप० स०। शब्दज्ञानजन्ये शाब्दबोधरूपानुभवभेदे। स च बोधः न प्रत्यक्षं नाप्यनुमेति नैयायिकाः। किन्तु ततोविलक्षण- कारणकत्वाद्भिन्न इति यथोक्तं प्रकाशिकायाम्। “शब्दो यदि स्वार्थस्यानुभवे भवेद्धेतुस्तर्हि प्रात्यक्षिकएवौपनायिके, तत्र नाकाङ्क्षाद्युपयोगः, तद्भिन्ने चेदानुमानिक एव न च तत्र सद्यः, साकाङ्क्षत्वादिधीमात्रेण, व्याप्तिबोधस्याप्यधिकस्यापेक्षणादित्याशङ्काममनेतुमन्वयवोधनामकमनुभवातरं दर्शयति। “साकाङ्क्षशब्दैर्योबोधस्तदर्थान्वय गोचरः। सोऽयं नियन्त्रितार्थत्वान्न प्रत्यक्षं न चानुसा”। शाब्दधियः प्रत्यक्षत्वाभ्युपगमे प्रत्यक्षादिसामान्यं प्रति शाब्दसामग्र्याः प्रतिबन्धकत्वासम्भवात्, शाब्दान्यप्रत्यक्षत्वाद्यवच्छिन्नं प्रति तस्यास्तथात्वमपेक्ष्य शाब्दधियः प्रत्यक्षाद्भिन्नत्वकल्पनायामेव लाघवाच्च। लिङ्गजन्यत्वेनान्वयबुद्धेरनुमितित्वसिद्धावनायत्त्या शाब्दान्यानुमित्यां तत्सामग्र्याः प्रतिबन्धकत्वं वाच्यमतो लिङ्गजत्वमेव शाब्दधियः खण्डयति। “योग्यतार्थगताऽऽकाङ्क्षा शब्दनिष्ठाऽनुभाविका। प्रत्येकं वा मिलित्वा वा नैते लिङ्गमसिद्धितः”। गवादावस्तित्वादेरनुभवार्थं न तावदस्तित्वबाधविरहरूपं लिङ्गं बाधनिश्चयाभावेनान्यथासिद्धस्य योग्यतानिश्चयस्यानावश्यकत्वात् योग्यतामात्रलिङ्गकसंसर्गानुमानस्यान्वय बुद्धित्वे घटः कर्म्मत्वमित्यादिस्थलीयस्यापि तस्य तथात्वापाताच्च। योग्यतायाः संशयस्थलेऽप्यग्वयबुद्धेरानुभविकत्वात्। गवादावस्तित्वादेरन्वयबोधानुकूलानुपूर्ब्बीपर्य्यवसिता त्वाकाङ्क्षा खयमसिद्धा कथमस्तित्वाद्यन्वयबोधं साधयेत् तत्र गवास्तित्वादेर्योग्यताविशिष्टमप्याकाड्क्षावत्त्वं न तदन्वयस्य नुमापकप्रसिद्धेरित्यादि”।
अन्वयिन् = त्रि० अन्वेति अनु–इण–णिनि। शाब्दबोधोपयोगि संबन्धवति अनुगते च अन्वयः वंशादिः अस्त्यस्य इनि। प्रागुक्तान्वयवति स्त्रियां ङीप्। न्यायनये अन्वयव्याप्तियुक्ते हेतौ पु० “केवलान्वयी”।
अन्वर्थ = त्रि० अनुगतोऽर्थम् अत्या० स०। अर्थानुगते व्युत्पत्तियुक्ते शब्दे “तथैव सोऽभूदन्वर्थः राजा प्रकृतिरञ्जनादिति” रघुः।
अन्ववसर्ग = पु० अनु + अव + सृज–घञ् अनुगतोऽवसर्गमिच्छानुरूपप्रचारम्, अत्या० स०, अनुरूपं स्वेच्छानुरूपतया अवसृज्यते न प्रतिरुध्यते अनेन इति वा अनु + अव + सृज–घञ्। यर्थष्ट क्रियतामित्येवं रूपायामनुज्ञायाम् कामाचारानुज्ञाने, “अपिः पदार्थसंभावनान्ववसर्गगर्हासमुच्चयेषु” पा० अपि सिञ्च अपि स्तुहि इत्यादौ यथेष्टं कुर्य्या इत्याद्यर्थोऽपिना द्योत्यते न तु कुत्रापि अनु- ज्ञया प्रतिरोधः क्रियते इति तस्य तथात्वम्।
अन्ववाय = पु० अन्ववाय्यते उत्पत्त्यानुसंबध्यते अनु + अव + अय–घञ्, इण्–अच् वा अनुन्ववेति अनुगच्छति देहावयवम् अनु + अव + इण्–कर्त्तरि अच् वा। वंशे, सन्ताने च।
अन्वयव्यतिरेकिन् = त्रि० अन्वयव्यतिरेकौ स्तोऽस्य० इनि। साध्यसाधके हेतुविशेषे, यथा वह्निसाधने धूमः। स हि वह्निमति महानसादौ, वह्न्यभाववति जलादौ च भावाभावाभ्यां वह्नेररन्वयव्याप्तेः व्यतिरेकव्याप्तेश्च तथेति न्यायमते प्रसिद्धम्। अन्वयोऽन्वयव्याप्तिर्व्यतिरेको व्यतिरेकव्याप्तिस्तौ विद्येते अस्य इनि। अन्वयव्याप्तिमति व्यतिरेकव्याप्तिमति च हेतौ। यथा वह्नौ साध्ये धूमस्य अन्वयव्यतिरेकव्याप्तिकत्वम्। तत्र च धूमसत्त्वे वह्नि सत्त्वरूपान्वयव्याप्तिः वह्निव्यतिरेके च धूमाभावः व्यतिरेकव्याप्तिरित्युभयव्याप्तिसत्त्वात्तथात्वम्।
अन्वयव्याप्ति = स्त्री अन्वयेन व्याप्तिर्व्यापनं नियततया स्थितिः ३ त०। यत्र धूमस्तत्र वह्निरित्येवं रूपायां व्याप्तौ। अन्वयेन तस्य सत्त्वेन व्याप्तिः इतरान्वयस्य साध्यस्यान्वयः व्यापकता। यथा धूमसत्त्वेन वह्निसत्ता इत्यतोधूमसत्त्वेन वह्नेर्व्यापकता। सा च साध्यसामानाधिकरण्यरूपा।
अन्वयागत = त्रि० अन्वयात् वंशपरम्परायाः आगतः। दायप्राप्ते धनादौ “श्रुतं शौर्य्यं तपःकन्याशिष्ययाज्यान्वयागतम् धनं सप्तविधं शुद्धमिति” नारस०।
अन्ववेक्षा = स्त्री अनु + अव + ईक्ष–अङ्। अपेक्षायामनुरोधे।
अन्वष्टका = स्त्री अनुगतोऽष्टकाम्। श्राद्धकालभेदे स च अग्रहायण्या ऊर्द्ध्वं तिस्रः कृष्णाष्टम्यः अष्टकाः, तदुत्तरवर्त्तिन्यस्तिस्रः कृष्णनवम्यः तद्रूपः। ताश्च साग्निकस्य मात्रादिश्राद्धकालः। तथाहि “अष्टका योर्द्ध्वमाग्रहायण्यास्तमिस्राष्टमीति” गोभि०। “पितृदानाय मूले स्युरष्टकास्तिस्र एव च कृष्णपक्षे वरिष्ठाश्चेति” ब्रह्मपु०। आश्वलायनगृह्ये तु ताश्चतस्र इत्युक्तम् यथा। हेमन्तशिशिरयोश्चतुर्ण्णामपरपक्षाणामष्टमीष्वष्टका” इति। “एकस्यां चतुसृषु वेति” विकल्पश्रंवणात् सामर्थ्यभेदेन एकस्यां तिसृषु चतुर्षु वा अष्टकाश्राद्धम् अन्वष्टकाश्राद्धं च कार्य्यमिति गम्यते। तत्र पशुकल्पस्थालीपाकाद्यङ्गजातमुक्त्वा “अपरेद्युरान्वकक्यमिति” सूत्रेण तदुत्तरवर्त्तिकृष्णनवमीसु तद्विहितम् तच्च मात्रादिभ्योऽपि देयम् “पितृभ्यश्च हुत्वा मन्थवर्ज्जमुस्त्रीभ्यश्च सुराचाममिति” तत्रैवोक्तेः मनुनाऽपि “पितॄंश्चैवाष्टकास्वर्चेन्नित्यमन्वष्टकासु” चेत्युक्तम् अत्र पितृपदमष्टकापक्षे स्वपरम्, अन्वका- पक्षे “स्त्रिया पुंवत्” इत्येकशेषेण मातृपितामहीप्रपितामहीसहितपित्रादिपरम्। एवञ्च आश्वलायनगृह्ये मनुवचने च पित्रादेरपि देवतात्वश्रवणात् मात्रादिमात्रदैवत्यं रघुनन्दनोक्तं चिन्त्यं वस्तुतः शाखिभेदेन सपत्नीकपितृश्राद्धं मात्रादिदेवताकं वा तच्छाद्धमिति व्यवस्था। “पित्रादित्रिकपत्नीषु भोज्या मातॄः प्रति द्विजाः। स्त्रीणामेव तु तद्यस्मान्मातृश्राद्धमिहोच्यते” शङ्खवचनन्तु तासां वृथक्श्राद्धविधानार्थम्। एतच्च अन्वष्टकाश्राद्धं साग्निकमात्रेण कर्त्तव्यम्। तथा च विष्णुः। “अन्वष्टकाष्वष्टकावदग्नौ हुत्वा मात्रे पितामह्यै प्रपितामह्यै पूर्ब्बवद्ब्राह्मणान् भोजयित्वा” इति। अत्र होमत्वदेवाग्निप्राप्तेरग्निग्रहणं तन्नियमार्थम्। न चाग्नौकरणहोमे विप्रपाण्यादे र्व्विधानादत्रापि तथेति वाच्यम् प्रकृतिभूतश्राद्धविध्युक्तस्याधारान्तरस्य विकृतीभूतश्राद्धे विशेषविहिताधारेण बाधात्। न वा लौकिकाग्नौ होमः “न पैत्र्ययज्ञियो होमोलौकिकाग्नौ विधीयते” इति मनुवचनेन निषेधात्। श्राद्धचिन्तामणावप्येवम्। श्रा० त० रघुनन्दनः।
अन्वष्टमदिश = अव्य० अष्टमीं दिशमनुलक्ष्यीकृत्य अव्ययी० अच्समा०। पश्चिमोत्तरयोर्दिशोरष्टमाभिमुखीकृतदिग्भागे। स च वायुकोणः तस्य च पश्चिमोत्तरयोर्वामावर्त्तदक्षिणावर्त्ताभ्यामष्टमभागत्वात्तथात्वम् “अरण्ये समित्पाणिः सन्ध्यामुपास्ते नित्यं वाग्यत उत्तराभिमुखोऽन्वष्टमदिशमानक्षत्रदर्शनादिति” आ० त० सांख्या० गृ०। अन्वष्टमदिशमिति उभयदिगष्टमभागमिति रघु०।
अन्वह = अव्य० अह्रि अह्रि वीप्सार्थेऽव्ययी० अच् समा०। प्रत्यहमित्यर्थे।
अन्वाख्यान = न० अनु + आ + ख्या–ल्युट्। तात्पर्य्यावधाराणार्थं व्याख्याने तत्प्रतिपादने च “वस्त्वन्वाख्यानं क्रियान्वाख्यानं चेति” “आत्मस्वरूपान्वाथ्यानपरेष्विति च वृ० उ० भा०
अन्वाचय = पु० प्रधानस्य पश्चादन्यः आचीयते बोध्यते यत्न अनु + आ + चि + अच्। उद्देश्यसिद्ध्यानुद्देश्यसिद्ध्यर्थोपदेशे। यथा भिक्षां गच्छ यदि गां पश्येस्ताञ्चानय, अत्र भिक्षायामेव उद्देशः न गवानवने, तत्सिद्ध्युमुरं गवानयनमनुद्दिष्टमपि साध्यतया निर्द्दिष्टम्। “चान्वाचये समाहारे” इत्यमरः। “चार्थे द्वन्द्व इति” पा० सूत्रे “समुच्चयान्वाचयेतरेतरयोगसमाहाराश्चार्था” इति सि० कौ०।
अन्वाजे = अव्य० अनु–आजयत्यनेन अनु + आ + जि–डे। दुर्ब्बलस्य बलाधाने। बलस्य हि जयहेतुत्वं प्रसिद्धम्। सप्तम्यन्तप्रतिरूपकोऽयम्। “उपाजे अन्वाजे इति” पा० वा उप- पदसमासे अन्वाजेकृत्येत्यादौ ल्यप्। पक्षे अन्वाजेकृत्वा।
अन्वादेश = पु० अनु + आ + दिश–घञ्। पूर्ब्बोपात्तस्य किञ्चित्कार्य्यान्तरं विधातुं पुनरुपदेशे। यथा अनेन व्याकरणमधीतं न्यायमेनं प्रपाठयेति न्यायपाटनार्थं पुनरुपदेशः। कथितकथते, अनुवादार्थे च। “इदमोऽन्वादेशेऽशनुदात्त” इति पा०।
अन्वाधान = न० वह्निस्थापनस्य पश्चात् आधानम्। आहित वह्नौ–द्वयोः तिसृणां वा समिधामाधाने। स्थण्डिलादिकरणानन्तरम् “तदभ्युक्ष्याग्निं प्रतिणाय्यान्वाधाय परिसमुह्येति” आ० गृ० सूत्रे हि अग्न्याधानोत्तरं तदाधानमुक्तम्। “अग्न्यन्वाधानमध्वर्युर्यजमानो” वेति कात्या० २, १, २’।
अन्वाधि = पु० पश्चात् आधीयते अनु + आ + धा–कि। स्वसमीपे आहितस्य वस्तुनः स्वामिने दानाय परत्राधाने तद्विषये धने च “अर्थमार्गणकार्य्येषु अन्यस्मिन् वचनान्मम। दद्यास्त्वमिति योदत्तः स इहान्वाधिरुच्यते इति” कात्या० स०। सन्तत आविः। सन्ततमानसव्याथायाम्।
अन्वाधेय = न० विवाहस्य पश्चात् आधेयम् दत्तम्। अनु + आ + धा–यत्। विवाहात् परम् पित्रादिभिः स्त्रीभ्यो दत्तधने स्त्रीधनभेदे “विवाहात् परतोयत्तु लब्धं भर्त्तृकुलात् स्त्रिया अन्वाधेयं तदुक्तं तु लब्धं बन्धुकुलात्तथेति ना० स०। “बन्धुदत्तं तथा शुक्लमन्वाधेयकमेव च। अप्रजायामतीतायां बान्धवास्तदवाप्नुयुरिति” या०।
अन्वायतन = अव्य० आयतनस्य मध्यम् अव्य०। गृहमध्ये इत्यर्थे अनुगतमायतनम् अत्या० स०। गृहानुगते त्रि०।
अन्वायत्त = त्रि० अनु + यत–क्त। अनुगते “प्रस्तोतः! या देवता प्रस्तावमन्वायत्ता ताञ्चेदविद्वानिति” “वसवोऽन्वायत्ता” इति च छा० उप०।
अन्वारब्ध = त्रि० अनु + आ + लभ–कर्त्तरि क्त लस्य रः। कृतस्पर्शे “विष्णोः कर्म्माणीति वाचयति यूपमन्वारब्धमिति” का० ६, ३, १२, “अन्वारब्धं स्पृष्टवन्तमिति” वेददोपः। कर्म्मणि क्त। पश्चाद्भागे–स्पृष्टे, पश्चाल्लग्ने च। “अन्वारब्धेन सव्येन पाणिना दक्षिणेन तु इति” आ० त० या०। “अन्वारब्धेन पश्चाल्लग्नेनेति” रघु०। “द्वाभ्यां पत्नीभ्यामन्वारब्ध” इति बौ० सू०।
अन्वारभ्य = त्रि० सह आलभ्यः लस्य रः। सहस्पृश्ये।
अन्वारम्भ = न० पश्चात् आलम्भः लस्य रः। स्पर्शे अनुपूर्ब्बकलभेर्हि स्पर्शार्थत्वम्। “अनड्वाहमन्वारभामहे” इति यजु० ३५, १३ स्पर्शार्थे प्रयोगात्। “अनड्वाहमन्वा रभामहे आलभामहे स्पृशाम” इति वेददीपः।
अन्वारूढ = त्रि० अनु + आ + रुह–क्त। अधिरूढे। पश्चादारूढे च।
अन्वारोहण = न० पश्चात् आरोहणम्। पश्चादभर्त्तरि मृते पश्चात् सह वा स्त्रियाश्चितारोहणेतच्च “ब्रह्मचर्य्यं तदन्वारोहणं वेति” वि० सूत्रे विहितम् विवृतमनुमरणशब्दे।
अन्वासन = न० अनु + आस–ल्यट्। अनूपवेशनेन सेवने।
अन्वासित = त्रि० अनु + आस–कर्मणि क्त। पश्चादुपवेशनादिना सेविते “अन्वासितमरुन्धत्येति” रघुः।
अन्वाहार्य्य = न० मासि मासि आह्रियते अनु + आ + हृ– कर्मणि ण्यत्। “यच्छ्राद्धं कर्म्मणामादौ या चान्ते दक्षिणा भवेत्। आमावास्यं द्वितीयं स्यादन्वाहार्य्यं विदुर्बुधा इति” कात्यायनपरिभाषिते नान्दीमुखश्राद्धे, अमावास्यायां मासि मासि कर्त्तव्ये श्राद्धे, दक्षिणायाञ्च “पितृणां मासिकं श्राद्धमन्वाहार्य्यं विदुर्बुधा इति मनुः। “सर्वाण्येवान्वाहार्य्यवन्ति” गोभि०। अन्वाहार्य्यं नान्दीमुखश्राद्धम् दक्षिणा च तदुभयवन्ति। स्वार्थे कन् तत्रैव। “पिण्डान्वाहार्य्यकं श्राद्धं कुर्य्यान्मासानुमासिकमिति” मनुः मासिमासिकर्त्तव्यश्राद्धस्यानुमासमाह्रियमाणत्वात् नान्दीमुखस्य संस्कारादौ आह्रियमाणत्वात्, दक्षिणायाः कर्म्मणां पश्चात् आह्रियमाणत्वाच्च तथात्वम्।
अन्वाहार्य्यपचन = पु० अन्वाहार्य्यं तदर्थान्नं पच्यतेऽनेन पच + ल्युट्। दक्षिणाग्नौ ऋग्वेदविधिना स्थापितेऽग्नौ। “अथ हैनमन्वाहार्य्यपचनोऽनुशशासापो दिशो नक्षत्राणि चन्द्रमा इति छा० उप०। अन्वाहार्य्यपचनो दक्षिणाग्निरापो दिशो नक्षत्राणि चन्द्रमा इत्येतमोमम चतस्रस्तनवस्ततुर्द्धा अहमन्वाहार्य्यपचनः विभज्य आत्मानं स्थितः इति” भा०। “प्रसिद्धं हि दर्शपौर्ण्णमासयोरन्वाहार्य्यपचने हविः श्रपयन्तीति” आन० गि०। “यस्मिन्नग्नावृचा वा साम्ना वा यजुषा वा समिधं वाभ्यादध्यादाहुतिं वा जुहुयादन्ते दक्षिणां वा हरेयुरनु वा गमयेयुर्दक्षिणा वाह्येन हरन्त्यान्वाहार्य्यपचनोभविष्यतीति अनु वा गमयन्ति” इति शत० ब्रा० तस्य निरुक्तिर्दर्शिता।
अन्वाहित = त्रि० अनु + आ + धा–क्त। कृतान्वाधाने, वह्नौप्रक्षिप्तसमिद्विशेषे अन्वारोपिते” आधेःस्वामिनोदानार्थमपरस्य हस्ते निक्षिप्ते च। “अन्वाहितं याचितकमित्यादि या०।
***