अन्तःपदवी = स्त्री ७ त०। सुषुम्णामध्यगते पथि।
अन्तःपशु = पु० अन्तःग्राममध्ये पशवो यत्र। ग्राममध्ये पशुस्थितिकाले प्राह्णे, सायाह्ने च “अन्तःपशौ पशुकामस्य सायं प्रातः” कात्या० ४, १५, १४। “अन्तःपशौ काले ग्राममध्ये पशवो यस्मिन् काले, सायं पशुषु ग्राममध्येषु आगतेषु, प्रातश्च ग्रामादनिःसृतेष्विति” तद्व्या०।
अन्तःपात = पु० अन्तर्मध्ये पततीति पत–कर्त्तरि ण। सन्धिस्थाने। भावे घञ्। मध्यपतने।
अन्तःपातिन् = त्रि० अन्तःपतति पत–णिनि ६ त०। मध्यप्रविष्टे। स्त्रियां ङीप्।
अन्तःपात्य = पु० अन्तर्मध्ये पात्यते पत–णिच्–आधारे यत्। मध्ये पातनाधारे देशे “अन्तःपूर्ब्बेण यूपं परीत्यान्तःपात्यदेशे स्थापयतीति” कात्या० १५, ६, २२, “स्थापितगवानां पतये स्वभ्रात्रे द्रव्यं शतमधिकं वा दत्त्वा यूपात् पूर्ब्बदिशि परीत्यान्तःपात्यदेशे स्थापयेदिति” वेददीपः।
अन्तःपुर = न० अन्तरभ्यन्तरं पुरं गृहं कर्म्म०। (अन्दर) इति प्रसिद्धे राज्ञां स्त्रीणां स्थानयोग्ये गृहे। “त्रितयमिदमपूर्बं दृष्टमन्तःपुरे ते” इत्युद्भटः “व्यायम्याप्लुत्य मध्याह्ने भोक्तुमन्तःपुरं विशेत् इति” भुक्तवान् विहरेच्चैव स्त्रींभिरन्तःपुरे सहेति। “अन्तःपुरप्रचारञ्च प्रणिधीनाञ्च चेष्टितमिति” च मनुः। तत्र स्थितत्वात् राजमहिलायामपि। “दाक्षिन्येनददाति वाचमुचितामन्तःपुरेभ्यो यदेति” शकु०। पुर्शब्दसमासे अचि स्त्रीत्वात् ङीप्। अन्तःपुरीत्यपि स्त्री।
अन्तःपुरचर = पु० अन्तःपुरे चरति चर–ट ७ त०। राजन्तःपुरचारिणि कञ्चुक्यादौ। अन्तःपुरस्थस्त्रियाम् स्त्री ङीप्।
अन्तःपुरसहाय = पु० अन्तःपुरे सहायः। राज्ञामन्तःपुरसहचरे विदूषकादौ।
अन्तःपुराध्यक्ष = पु० ६ त०। “वृद्धः कुलोद्गतः शक्तः पितृपैतामहः शुचिः। राज्ञामन्तःपुराध्यक्षो विनीतश्च तथेष्यते” इति नरपत्युक्तलक्षणेऽन्तःपुराधिवृते। अन्येऽपि पञ्च तथा, “पञ्चापरे वामनको जघन्यः कुब्जोऽपरो मण्डलकोऽथ सामी। पूर्ब्बोक्तभूपानुचरा भवन्ति सङ्कीर्णसंज्ञाः शृणुलक्षणैस्तान्।। सम्पूर्णाङ्गो वामनो (१) भग्नपृष्ठः किञ्चिच्चोरुर्मध्यकक्षान्तरेषु। ख्यातो राज्ञो ह्येष भद्रानुजीवी स्फीतो दाता वासुदेवस्य भक्तः।। मालव्यसेवी तु जघन्यनामा खण्डेन्दुतुल्यश्रवणः सुसन्धिः। शुक्रेण सारः पिशुनः कविश्च रूक्षच्छविः स्थूलकराङ्गुलीकः।। क्रूरो धनी स्थूलमतिः प्रतीतस्ताम्रच्छविः स्यात् परिहासशीलः। उरोऽंह्रिहस्तेष्वसिशक्तिपाशपरश्वधाङ्कश्च जघन्थनामा (२)।। कुब्जो (३) नाम्नायः स शुद्धो ह्यधस्तात् क्षीणः किञ्चित्पूर्वकाये नतश्च। हंसासेवी नास्तिकोऽर्थैरुपेतो विद्वान् शूरः सूचकः स्यात् कृतज्ञः।। कलास्वभिज्ञः कलहप्रियश्च प्रभूतभृतः प्रमदाजितश्च। सम्पूज्य लोकं प्रजहात्यकस्मात् कुब्जोऽयमुक्तः सततोद्यतश्च।। मण्डलकनामधेयो ४ रुचकानुचरोऽभिचारवित् कुशलः। कृत्यावैतालादिषु कर्मसु विद्यासु चानुरतः।। वृद्धाकारः खररूक्षमूर्धजः शत्रुनाशने कुशलः। द्विजदेवयज्ञयोगप्रसक्तधीः स्त्रीजितो मतिमान्।। सामीति (५) यः सोऽतिविरूपदेहः शशानुगामी खलु दुर्भगश्च। दाता महारम्भसमाप्तकार्यो गुणैः शशस्यैव भवेत् समानः” वृहत्संहितोक्तलक्षणादिभेदपञ्चकात्।
अन्तःपुरिक = त्रि० अन्तःपुरे नियुक्तः ठक् संज्ञापूर्ब्बकविधेरनित्यत्वान्नवृद्धिः। अन्तःपुराध्यक्षे कञ्चुक्यादौ “अस्मत्प्रार्थनामन्तःपुरिकाभ्यो निवेदयेति” चण्डकौ०।
अन्तःपुष्प = न० अन्तर्गतं पुष्पं स्त्रीरजः। द्वादशवर्षादूर्द्धमभ्यन्तरजाते स्त्रीणां रजसि। “वर्षद्वादशकादूर्द्ध्वं यदि पुष्पं वहिर्नहि। अन्तःपुष्पं भवत्येव पणसोडुम्बरादिवत्”। इति काश्यपसंहिता।
अन्तःप्रकृति = स्त्री अन्तर्वर्त्तिनी प्रकृतिः राज्याङ्गम्। राज्ञां सन्निकृष्टप्रकृतौ अमात्यादौ। “अन्तःप्रकृतिकोपनं हि राज्ञां महद्व्यसनमिति” नीति०।
अन्तःप्रज्ञ = त्रि० अन्तःस्था प्रत्यक्तत्त्वविषयिणी प्रज्ञा यस्य। आत्मानुसन्धानपरे।
अन्तःप्रविष्ट = त्रि० अन्तःकरणे, मध्ये वा प्रविष्टः। हृदयगते, अभ्यन्तरगते च। “अन्तःप्रविष्टकर्णपल्लवप्रतिविम्बेनेति” काद०।।
अन्तःशरीर = न० अन्तः स्थूलदेहमध्यस्थं शरीरम्। स्थूलदेहमध्यवर्त्तिनि वेदान्तमतसिद्धे सूक्ष्मशरीरे। तच्च “पञ्चप्राणमनोबुद्धिदशेन्द्रियसमन्वितम्। अपञ्चीकृतभूतोत्थं सूक्ष्माङ्गं भोगसाधन” मित्युक्तं सप्तदशावयवं भोगसाधनं सूक्ष्ममङ्गम्। शरीरस्य मध्ये अव्ययी०। देहमध्ये इत्यर्थे अव्य०। अन्तर्देहादयोऽप्युक्तार्थयोः। अन्तरेव देहः। मनोरूपदेहे न०।
अन्तःशल्य = न० अन्तःकरणस्य शल्यमिव पीडकत्वात्। मनसो दुःखदायके।
अन्तःसंज्ञ = त्रि० अन्तः अभ्यन्तरवर्त्तिनी कथनायोग्यत्वात् अप्रकाश्या संज्ञा चेतना यस्य। वृक्षादौ। ते च मनुना दर्शिता यथा “उद्भिज्जा स्थावराः सर्व्वे वीजकाण्डप्ररोहिणः। ओषध्यः फलपाकान्ताः बहुपुष्पफलोपगाः। अपुष्पाः फलवन्तोये ते वनस्पतयः स्मृताः। पुष्पिणः फलिनश्चैव वृक्षास्तूभयतः स्मृताः। गुच्छगुल्मं तु विविधं तथैव तृणजातय,। वीजकाण्डरुहाण्येव प्रतानाः वल्ल्य एव च। तमसा बहुरूपेण वेष्टिताः कर्म्महेतुना। अन्तःसंज्ञाभवन्त्योते सुखदुःखसमन्विता” इति।
अन्तःसत्त्वा = स्त्री अन्तरभ्यन्तरे गर्भे सत्त्वं प्राणि सारो वा यस्याः यस्य वा ६ ब०। गर्भिण्यां स्त्रियाम्। अन्तःसारे त्रि०।
अन्तःसुख = त्रि० अन्तरात्मनि तदनुसन्धाने एव सुखं यस्य। आत्मानुसन्धानमात्रसुखे वाह्यसुखशून्ये। “योऽन्तःसुखोऽन्तराराम इति” गीता।
अन्तःस्वेद = पु० अन्तःस्वेदो मदस्यन्दनं मदजलं यस्य ६ ब०। मदस्राविणि हस्तिनि।
अन्तक = पु० अन्तयति अन्तं करोति अन्त + णिच्–ण्वुल्। मृत्यौ “व्याजेनापि कृता राजन् नो दर्शयति सान्तकमिति” नार० पु०। देहिनां स्वस्वकर्मानुसारेण विनाशनाय ईश्वरनियुक्ते यमाख्ये देवभेदे “ऋषिप्रभावान्मयि नान्तकीऽपि प्रभुः प्रहर्त्तुं किमुतान्यहिंस्रा” इति रघुः। विनाशकमात्रे त्रि० “क्रोधान्धस्तस्य तस्य स्वयमिह जगतामन्तकस्यान्तकोऽहमिति” वेणी०। परमेश्वरे पु० तस्य सर्वभूतानां प्रलये संहर्त्तृत्वात्तथात्वम्, “महीदधिशयोऽन्तक” इति विष्णुसह०।
अन्तकर = त्रि० अन्तं नाशं करोति कृ–ट उप० स०। नाशकारके। “अहमन्तकरो नूनं ध्वान्तस्येव दिवाकर” इति भट्टिः। स्त्रियां ङीप्।
अन्तकरण = त्रि० अन्तं करोति नन्द्या० ल्यु। नाशकारके। “द्यूतं समाह्वयञ्चैव राजा राष्ट्राद्विवासयेत्। राज्यान्तकरणावेतौ द्वौ दोषौ पृथिवीक्षितामिति” मनुः। भावे ल्युट्। नाशने न०।
अन्तकर्म्मन् = न० अन्तस्य नाशस्य परिच्छेदस्य वा कर्म्म उत्पादनम्। नाशने। “षो अन्तकर्म्मणि इति” पा० धातु०। स्यतेर्नाशनार्थत्वात् सकर्म्मकत्वम् तेन “राघव! स्य शरैर्घोरैर्घोरं रावणमाहवे” इत्यादौ वारणस्य कर्म्मता स्येति स्यतेर्लीटो मध्यमैकवचनान्तरूपम्। परिच्छेदकरणे “अवासासीच्च वैयासकीमित्यादि।
अन्तकारिन् = त्रि० अन्तं करोति कृ–णिनि ६ त०। अन्तकारके विनाशके। स्त्रियां ङीप्। ण्वुल्। अन्तंकारकोऽप्युक्तार्थे त्रि०।
अन्तकाल = पु० ६ त०। मृत्युकाले, “स्थित्वाऽस्यामन्तकालेऽपि ब्रह्म निर्वाणमृच्छतीति” गीता।
अन्तकृत् = त्रि० अन्तं करोति कृ–क्विप् ६ त०। विनाशके।
अन्तग = त्रि० अन्तं गच्छति गम–ड उप० स०। कार्य्यान्तगामिनि, निरवशेषकार्य्यकारके, पारगामिनि, च “यत्नेन भोजयेच्छ्राद्धे बह्वृचं वेदपारगम्। शाखान्तगमथाध्वर्य्यं छन्दोगं च समाप्तिकमिति” मनुः।
अन्तचर = त्रि० अन्ते शेषावधौ चरति चर–ट। कार्य्यादिशेषगामिनि।
अन्ततस् = अव्य० अन्त + सार्वविभक्तिकस्तसि। अन्तेन अन्ते अन्तादित्याद्यर्थे। तत्र तृतीयार्थे। “वैश्योऽद्भिः प्रासिता- भिस्तु शूद्रः स्पृष्टाभिरन्तत” इति मनुः। “शुध्येत स्त्री च शूद्रश्चसकृत्स्पृष्टाभिरन्तत” इति या०। सप्तम्यर्थे “सह द्यावापृथिव्योश्च तथा स्विष्टकृतेऽन्तत” इति मनुः। “अन्ततः उपस्पृश्य शुचिरिति गोभि०। अन्ततः अन्तावच्छेदे इत्यर्थः “तामन्ततोऽपक्रम्येत्यादौ तु पञ्चम्यर्थे। अपेक्षायां, सम्भावनायाञ्च। अवयवे, शासने च विश्व०।
अन्तम = त्रि० अन्तिक + तमप् “तादेश्चेति” वेदे तिकशब्दलोपः। अन्तिकतमे अत्यन्तुनिकटस्थिते। शिक्षा अन्तुमस्येति ऋ० १, २७, ५, “तनूऽपा अन्तमो भवेति” ऋ० ६, ४६, १०,। भाष्यकृतोक्तार्थतयैव व्याख्यातम्।
अन्तपाल = त्रि० पु० अन्तं समीपदेशं द्वारं पालयति। द्वारप्राले। “सुद्युम्नस्त्वन्तपालेभ्यः श्रुत्वा लिखितमागतमिति” भा० शा० प०।
अन्तर् = अव्य० अम–अरन् तुडागमश्च। मध्ये, “अन्तःशाक्ता वहिःशैवाः सभायां वैष्णवा मता” इति तन्त्रम्। “अन्तर्विश्वानि भेषजा” ऋ० १, २३, २० “अप्स्वन्तरमृतमप्सु” इति ऋ० १, २३, १९, “न श्मश्रुणि गतान्यास्यान्न दन्तान्तरधिष्ठितमिति” मनुः “प्रतिबलजलधेरन्तुरौर्वायमाण” इति “अन्तर्ज्वालावलीढेति” च वेणी०। सर्व्वमध्यस्थे परमेश्वरे देहमध्यस्थे जीवे च अन्तःप्रज्ञः अन्तर्ज्योतिरित्यादि। चित्ते “अन्तर्गता मदनवह्निशिखावली येत्युद्भटः “अन्तर्गतं प्राणभृतां हि वेदेति” रघुः। प्राप्ते, स्वीकारे च। अस्य च मध्यार्थेऽव्ययीभावः। अन्तर्जलधि अन्तुर्गृहमित्यत्यादि अव्य०।
अन्तर = न० अन्तं राति ददाति रा–क। अवकाशे, अवधौ, परिधानांशुके अन्तर्द्धाने, भेदे, परस्परवैलक्ष्यण्यरूपे विशेषे, तादर्थ्ये, छिद्रे, आत्मीये, विनार्थे, वहिरर्थे, व्यवधाने, मध्ये, सदृशे च। आसन्ने त्रि०। “कृष्वायुजश्चिदन्तरम् ऋ० १, १०, ९, अन्तरं कृष्व आसन्नं कुरु” भा० “पायुरन्तरो निषङ्गाय” ऋ० १, ३१, १३, “अन्तरः समीपवर्त्तीति” भा० “न यत्परो नान्तर इति” ऋ० २, ४१, ८, “अन्तरः समीपवर्त्तीति” भा० निकटस्थे “यज्ञोहीलो वो अन्तर इति” ८, १८, १९, अन्तरः अन्तिके वर्त्तमान इति भा०। अन्तरयति दूरीकरोति अन्तर–णिच् + अच्। अपसारणे। अन्तर्गते त्रि०। “ह्रदो अस्त्वन्तरम्” ऋ० ७, १०१, ५ “अन्तुरमन्तर्गतमिति” भा०। वृ० उप० अन्तर्यामिब्राह्मणे अन्तर्गते बहुशः प्रयुक्तः तच्च (१३०) पृष्ठे दृश्यम्। “यो अन्तुरोमित्रमहो वनुष्यात् ऋ० ६, ५, ४, अन्तरः अभ्यन्तुरवर्त्तीति भा०। “पुरोहितोऽन्तरोयासिदूत्यम् ऋ० १, ४४, १२, “अन्तरः देवयजनमध्ये वर्त्तमान” इति भा०। अवकाशे, “मृणालसूत्रान्तुरमप्यलभ्यम्” कुमा०। “तत्रान्तरे जघ्नुरमुं कटाक्षैः” माघः। मध्ये, “दिलीपसूनोः स वृहद्भुजान्तरमिति” रघुः। “आवयोरन्तरे जाताः पर्वताः सरितो द्रुमा” इति रामा०। व्यवधाने गिरिर्वा व्यवधायकः। “महानद्यन्तरं यत्र तद्देशान्तरमुच्यते वृ० मनुः। “निरन्तराभ्यन्तरवातवृष्टिषु” कुमा० निरन्तरमव्यवधानम् इत्यर्थः। “एकान्तुरे आनुलोम्यादिति” मनुः। भेदे “सैव विशिनष्टि पुनःप्रधानपुरुषान्तरं सूक्ष्ममिति” सा० का०। “शरीरस्य गुणानाञ्च दूरमत्यन्तमन्तरमिति” हितो०। “यदन्तरं सर्षपशैलराजयोर्यदन्तरं वायसवैनतेययोरिति” रामा०। व्यसने। “प्रहरेदन्तरे रिपुम्”। वहिर्योगे “अन्तरे च पुरात् चाण्डालावासा” इति। उपसंव्याने (उत्तरीयवस्त्रे,) अन्तरं परिदधाति। सदृशे, “स्थानेऽन्तरतम” इति पा० अन्तरशब्दस्य पुरीभिन्ने एव विशेष्ये सर्वनामकार्य्यम् “सुमेधसामन्तरस्मै” इति सि० कौ०, मु० बो०। पुर्य्यान्तु न, अन्तरायै नगर्य्यै। तत्रापि वहिर्योगे उपसंव्याने एव सर्वनामता। मयूरव्यंसादित्वात् नञादेशान्तरशब्दस्य स्वजातीयभिन्ने वृत्तिः शब्दस्वाभावात् “राजान्तरं राजसुतां निनायेति” रघुः। अन्यो राजा मयू० “राजान्तरमिति” मल्लिना० “देशान्तरमृते पत्यौ साध्वी तत्पादुकाद्वयमिति” स्मृतिः “स्वमेव मूर्त्त्यन्तरमष्टमूर्त्तिरिति “अर्थोऽयमर्थान्तरभाव्य एव” इति च कुमा०। अन्तरस्य भावः ब्राह्मा० ष्यञ्। आन्तर्य्यंसादृश्ये न० “यत्रानेकविधमान्तर्य्यं तत्र स्थानत आन्तर्य्यं बलीय” इति परि० सि० कौ०। अन्तरे भवः अण् आन्तरः तद्भवे त्रि०। “कश्चन आन्तरो भाव इति” सा० द०। “अन्तःकरणमान्तरमिति” वेदा० व्यवकलने (वियोजने) “कुर्य्याद् यथा स्थाननकमन्तरं वेति” लीला०।
अन्तरग्नि = पु० अन्तर्वर्त्ती अग्निः। जठरानले “दीप्तान्तरग्निः परिशुद्धकोष्ठ” इति “शाम्यन्ति चायं चिरमन्तरग्नेरिति” “इच्छाभिघातभयशोकहतेऽन्तरग्नौ” इति च सुश्रुतम्। अग्नेर्मध्ये अव्य०। अग्निमध्ये अव्य०।
अन्तरङ्ग = पु० अन्तरं सदृशमङ्गं यस्य। अत्यन्तप्रिये, “समीपगोऽन्तरङ्गःप्रियो भवतीति” छा० उप० भा०। “चरमगिरिकुरङ्गीशृङ्गकण्डूयनेन स्वपिति सुखमिदानीमन्तरङ्गः कुरङ्गः” इति। वहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये अन्तभूतानि अङ्गानि निमित्तानि यस्य। व्याकरणोक्ते परनित्यवहिरङ्गबाधके नैमित्तिककार्य्यभेदे, तद्बोधकशास्त्रे च। यथा ग्रामणिनी कुले इत्यादौ “इकोऽचीति” पा० नित्यप्राप्त नुमं बाधित्वा “ह्रस्वो नपुंसके” इति पा० ह्रस्वः। पूर्ब्बं कृते तु नुमि अजन्तत्वाभावात् ह्रस्वो न स्यात्। ततश्च नुम्रूपकार्य्यं प्रत्ययस्थाज्रूपं निमित्तमपेक्षतेइति तद्वहिरङ्ग, ह्रस्वस्तु प्रकृतिमात्रसापेक्षत्वात् अन्तरङ्ग इति तस्य वहिरङ्गनिमित्तककार्य्यबाधकत्वे वीजम्। “परनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलोय इति” “असिद्धं वहिरङ्गमन्तरङ्ग” इति च परि० सि० को०। एतन्मूलिकैव “वहिरङ्गविधिभ्यस्तु अन्तरङ्गविधिर्बलीति” कारिका। अन्तः आसन्नमङ्गं कर्म्म०। आरादुपकारके न० यथा ब्रह्मसाक्षात्कारे श्रवणमनन निदिध्यासनानि, संप्रज्ञातसमाघौ च धारणादीनि त्रीणि अन्तरङ्गाणि। यमादयस्तु पञ्च वहिरङ्गाणि। तथा हि यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयैत्यष्टौ संप्रज्ञातसमाधेरङ्गानि तत्र यमादयः वहिरङ्गाणि, प्रतिबन्धकस्य चित्तकायप्राणेन्द्रियमलस्य निवर्त्तनेन परम्परया उपकारकत्वात्, धारणादयस्तु संप्रज्ञातसमाधेः समानविषयतया साक्षात्स्वरूपोपकारकत्वादन्तरङ्गाणीति अत एव धारणादित्रयमभिधाय “त्रयमन्तरङ्गं पूर्ब्बेभ्य” इति पात० सूत्रे धारणादित्रयस्यान्तरङ्गत्वमुक्तम्। धारणादिस्वरूपादि तत्तच्छब्दे वक्ष्यते। असंप्रज्ञातसमाधौ तु सर्व्वाण्येव वहिरङ्काणि असमानविषयत्वादिति बोध्यम्।
अन्तरचक्र = न० अन्तरं मध्यवर्त्ति चक्रम्। तन्त्रोक्तेषु देहस्थसुषुम्णामध्यस्थेषु मूलाधारादिषु षट्सु पद्माकारचक्रेषु। विवरण षट्चक्रशब्दे दृश्यम्। ६ त०। आत्मीयसमूहे न०।
अन्तरज्ञ = त्रि० अन्तरं भेदं विशेषं जानाति ज्ञा–क ६ त०। विशेषज्ञे “नान्तरज्ञाः श्रियो जातु प्रियैरासां न भूयते” इति किरा०।
अन्तरण = न० अन्तरं व्यवहितं करोति अन्तर + णिच्–भावे ल्युट्। अन्तरितकरणे व्यवधापने, “हविरन्तरणे प्राक् प्रधानेज्याया” इति कात्या० २५, ५, १५, “यदि नाम हविरन्तरितं न गृहीतमेव, प्राक् प्रवानेज्यायाः स्मृत्वा अन्वाहरेत् हरिषोऽन्तरणं बहूनां मध्ये एकस्याग्रहणमिति” तद्व्या०।
अन्तरतम = त्रि० अतिशयेन अन्तरः सदृशः, अत्यन्तसदृशे “स्थानेऽन्तरतम” इति पा०। सादृश्यञ्च “तुल्यास्यप्रयत्न- मिति” पा० सूत्रोपात्त स्थानादिसाम्यम्, यथा कका रादीनां ङकारादिषु तुल्यस्थानप्रयत्नवत्त्वेन साम्यम् एवं सकारस्य थकारे। आत्मीयतमे च।
अन्तरतस् = अव्य० सप्तम्यर्थे तसि। मध्ये इत्याद्यर्थे। “तृणमन्तरतःकृत्वा रावणं वाक्यमब्रवीत्” इति रामा०।
अन्तरदृश् = पु० अन्तरे दृग् यस्य। अन्तरज्ञे परमात्मानुसन्धा यिनि। अन्तरंभेदं पश्यति दृश–क्विप् ६ त०। विभेदज्ञे त्रि०।
अन्तरदेश = पु० कर्म्म०। मध्यदेशे तद्विवरणं मध्यदेशशब्दे दृश्यम्
अन्तरपु(पू)रुष = पु० अन्तरः मध्यवर्त्ती पुरुषः वा दीर्घः। अन्तयामिनि परमेश्वरे। “मन्यन्ते च पापकृतो “न कश्चित् पश्यतीति नः”। तांस्तु देवाः प्रपश्यन्ति स्वस्यैवान्तरपूरुष” इति मनुः।
अन्तरपूजा = स्त्री ७ त० तन्त्रोक्ते मनःकल्पितोपचारेण पूजायाम् तत्प्रकारस्तु अन्तर्यागशब्दे वक्ष्यते।
अन्तरप्रभव = पु० अन्तरेभ्यो भिन्नवर्ण्णमातृपितृभ्यः प्रभवति प्र + भू–अच् ५ त०। सङ्कीर्णवर्ण्णे मूर्द्धावसिक्तादौ। अन्तरप्रभवाश्च द्विविधाः अनुलोमजाः, प्रतिलोमजाश्च तत्रोत्कृष्टवर्ण्णात् अपकृष्टवर्ण्णायां स्त्रियां जाताः मूर्द्धावसिक्तादयः अनुलोमजाः, अपकृष्टवर्ण्णात् उत्कृष्टवर्णायां स्त्रियां जाताः प्रतिलोमजाः सूतादयः। “भगवन्! सर्व्ववर्ण्णानां यथावदनुपूर्ब्बशः। अन्तरप्रभवानाञ्च धर्म्मान्नो वक्तुमर्हसीति” मनुः। एतेषां भिन्नवर्ण्णजातत्वात् अन्तरनामत्वमपि मनुना हि अनुलोमजान् प्रतिलोमजांश्च उक्त्वा “तानन्तरनाम्नस्तु मातृदोषात् प्रचक्षते” इत्युक्तम्। अधिकं वर्ण्णसङ्करशब्दे वक्ष्यते।
अन्तरय = पु० अन्तर्मध्ये अयः गमनम् इण्–अच्। मध्यगतौ व्यवधाने। ल्युडन्तमप्यत्र न०। अन्तरं याति या–क। देहमध्यस्थचित्तगते त्रि०।
अन्तरशायिन् = पु० अन्तरे शेते शी + णिनि। चित्तस्थे जीवे। तस्य तत्र प्रतिविम्बरूपेण स्थितत्वात्तथात्वम्।
अन्तरस्थ = पु० अन्तरे देहमध्ये तिष्ठति स्था–क ७ त०। देहमध्यस्थचित्तस्थे जीवे।
अन्तरा = अव्य० अन्तरेति इण्–डा। निकटे, मध्ये, विनार्थे च। तत्र मध्ये “अन्तरा पतिते पिण्डे सन्देहे वा पुनर्हरेदिति” या०। “अन्तरा मृतसूतके” इति स्मृतिः। “पशुमण्डूकमार्ज्जारश्वसर्पनकुलादिभिः अन्तरा गमने, विद्यादनध्यायमहर्निशमिति” मनुः। “सौमित्रेर्निशितैर्वाणैरन्तरा शकलीकृता” इति रघुः। “अक्षेत्रे वीज- मुत्सृष्टमन्तरैव विनश्यति इति मनुः। द्वयोर्मध्ये “अन्सरान्तरेण युक्ते” पा० उक्तेः एतत्सम्बन्धिपदात् द्वितीया। अन्तरा त्वां मां हरिरिति” सि० कौ०। वर्ज्जने निकटे च मेदिनिः।
अन्तरात्मन् = पु० कर्म्म०। जीवात्मनि। “तदपि न हरिणाक्षीं विस्मरत्यन्तरात्मेति” सा० द०।
अन्तरापत्या = स्त्री अन्तरे गर्भमध्येऽपत्यं यस्याः। गर्भवत्यां स्त्रियाम्।
अन्तराय = त्रि० अन्तरं व्यवधानमयते अय–अच्। व्यवधानकारके। “अस्य ते वाणपातपथवर्त्तिनः कृष्णसारस्यान्तरायौ तपस्विनौ संवृत्तौ” शकु०। विघ्ने च “त्वमन्तरायो भवसि च्युतो विधिरिति” रघुः। “वैरी न चेद् वेपथुरन्तराय” इति सा० द० “समाध्यन्तरा याश्च लयादयः वेदान्तसारे दर्शिताः यथा। “अस्याङ्गिनोनिर्विकल्पकस्य लयविक्षेपकषायरसास्वादलक्षणाश्चत्वारोविघ्नाः सम्भवन्ति। लयस्तावदखण्डवस्त्वनवलम्बनेन चित्तवृत्तेर्निद्रा। अखण्डवस्त्वनवलम्बनेन चित्तवृत्तेरन्यावलम्बनं विक्षेपः। लयविक्षेपणाभावेऽपि चित्तवृत्ते रागादिवासनया स्तब्धीमावादखण्डवस्त्वनवलम्बनं कषायः। अखण्डवस्त्वनवलम्बनेनापि चित्तवृत्तेः सविकल्पानन्दास्वादनं रसासास्वादः, समाध्यारम्भसमये सविकल्पानन्दास्वादनं वा। अनेन विघ्नचतुष्टयेन रहितं चित्तं निर्व्वातदीपवदचलं सदखण्डचैतन्यमात्रमवतिष्ठते यदा, तदा निर्व्विकल्पकसमाधिरित्युच्यते। तदुक्तम्। “लये संबोवयेत् चित्तं विक्षिप्तं शमयेत्पुनः। सकषायं विजानीयात् शमप्राप्तं न चालयेत्। नास्वादयेद्रसं तत्र निःसङ्गः प्रज्ञया भवेत्” इति। योगशास्त्रोक्ताः प्रधानपुरुषसाक्षात्कारात् प्राम्भवाः प्रातिभादयः सिद्धयः विवेकसाक्षात्कारस्योपसर्गापरपर्य्याया अन्तरायाः यथोक्तं पातञ्जलसूत्रे “ततः प्रातिभश्रावणवेदनादर्शास्वादवार्त्ता जायन्ते” इत्यनेन प्रातिभादिसिद्धीरुक्त्वा “ते समाधावुपसर्गा व्युत्थाने सिद्धय इति” अयमर्थः। योगजशुक्लधर्म्मानुगृहीतेन मनोमात्रेण सर्वगोचरज्ञानं प्रातिभसिद्धिः। दिव्यानां शब्दस्पर्शरूपरसगन्धानां ग्रहणे योगजधर्म्मानुगृहीतानि श्रवणादीनि यथाक्रमं समर्थानि यदा भवन्ति तदा श्रावणवेदनादर्शास्वादवार्त्ताख्याः सिद्धयः। तथा च दिव्यशब्दग्रहणे यदा योगिनः श्रवणं समर्थं भवति तदा श्रावणमिति संज्ञा एवं दिव्यस्पर्शग्रहणसमर्था त्वक् वेदनासंज्ञा, दिव्यरूपग्रहणे समर्थं नेत्रं दर्शसंज्ञम्। दिव्यरसास्वादे समर्था रसना आस्वादसंज्ञा, दिव्यगन्धग्रहणे समर्थं घ्राणं वार्त्तासंज्ञा। ते प्रातिभादयः निःश्रेयसफले समाधौ तस्य योगिनः व्युत्थानसमये योगविरामकाले जायमानाः उपसर्गा भवन्ति। अतो मोक्षार्थी तानुपेक्षेतेति उपदेशप्रयोजनम् नह्यात्मसाक्षात्कारं विना सिद्धिकोट्यापि कृतकृत्यता भवतीति।
अन्तराराम = पु० अन्तरे सर्व्वाभ्यन्तरेऽतिसूक्ष्मत्वात् आत्मनि आरमते क्रीडति आ + रम कर्त्तरि घञ्। आत्माभिरते। “योऽन्तःसुखोऽन्तराराम” इति गीता।
अन्तराल = न० अन्तरं व्यवधानसीमामाराति गृह्णाति आ + राक रस्य लत्वम्। मध्ये अभ्यन्तरे। “तुतोष पश्यन् वितृणान्तराला” इति भट्टिः। “वधूप्रवेशोऽष्टिदिनान्तराल” इति मुहू० दिङ्नामान्यन्तराले” पा०। सङ्कीर्णवर्णे च। “वर्णानां सान्तरालानां स सदाचार उच्यते” मनुः। तद्वर्त्तिनि त्रि० स्वार्थे अणि आन्तरालमप्यत्र न०।
अन्तरालदिक् = स्त्री अन्तराला दिक्। दिशो मध्यायां विदिशि ऐशान्यादौ कोणे।
अन्तरावेदि(दी) = स्त्री अन्तरा मध्यस्था वेदिः वा ङीप्। गजयोर्यु व्यमानयोर्मध्यस्थायां मृण्मयवेद्याम्। “जयन्श्रीरन्तरावेदी मत्तवारणयोरिव” रघुः। अन्तरेति पृथक्पदमिति मल्लि०। “समूहे चान्तरावेद्यामिति” त्रिका०।
अन्तरिक्ष = न० अन्तः स्वर्गपृथिव्योर्मध्ये ईक्ष्यते ईक्ष–कर्म्मणि घञ्, अन्तः ऋक्षाणि अस्य वा पृषो० पक्षे ह्रस्वः ऋकारस्य रित्वं वा। पक्षिमेघसञ्चारयोग्ये भूलोकस्वर्गमध्यवर्त्तिनि आकाशप्रदेशे। “पृथिवी हिङ्कारोऽन्तरिक्षं प्रस्ताव” इति छा० उप०। “अन्तरिक्षगतांश्चैव मुनीन् देवांश्च इति” मनुः। “तिर्य्यक् चान्तरिक्षं व्यपोहितमिति” अथ०। “अदितिर्द्यौरदितिरन्तरिक्षमिति” ऋ० १, ८९, १०। “अदितिरदींना अखण्डनीया वा पृथिवी देवमाता वा सैव द्यौर्द्योतनशीलो नाकः ततश्च सैवान्तरिक्षम् अन्तरा द्यावापृथिव्योर्मध्ये ईक्ष्यमाणं व्योमेति” भा०। “विश्वमाप्रा अन्तरिक्षमिति” ऋ० १, ५२, १३। अन्तरिक्षमन्तरिक्षान्तं द्यावापृथिव्योर्मध्ये वर्त्तमानमाकाशं विश्वं सर्वमिति” भा०। “दिवञ्च पृथिवीं चान्तरिक्षमथो स्वरिति” सन्ध्यामन्त्रः। ततश्च द्यावापृथिवीमध्यस्थाकाशस्यैव भुवर्लोकरूपस्यान्तरिक्षत्वम्। “सादयाम्यन्तरिक्षस्य धर्त्त्रीमिति” य० १४, ५। अन्तरिक्षस्य भुवर्लोकस्य धर्त्त्रीमिति” वेददीपः। अत्र अन्तरीक्षमपि। अस्यचान्तरीक्ष- निरुक्तिः श्रुतौ। “योऽन्वरे नाकाश आसीदन्तरीक्षमभवदीक्षं हि तन्नाम ततः पुरान्तरा वा इदानीमीक्षमभूदिति” तस्मादन्तरीक्षमिति”।
अन्तरिक्षप्रा = त्रि० अन्तरिक्षं प्राति पूरयति प्रा–पूरणे विच्। अन्तरिक्षपूरके “अन्तरिक्षप्रां तविषीभिरावृतमिति” ऋ० १, १५, २। “अन्तरिक्षं द्युलोकं स्वतेजसा प्राति प्रयतीति” विच्, भा०।
अन्तरिक्षप्रुत् = त्रि० अन्तरिक्षं प्रवते प्रुङ्गतौ क्विप्। अन्तरिक्षचरे “अन्तरिक्षप्रुद्भिरपोदकाभिरिति” ऋ० १, ११६, ३।
अन्तरिक्षसद् = त्रि० अन्तरिक्षे सीदति सञ्चरति सद–गतौ क्विप्। आकाशचारिणि। “हंसः शुचिषद्वसुसदन्तरिक्षसदिति ऋ० ४, ४०, ५। “अन्तरिक्षसद अन्तरिक्षसञ्चारीति” भा०।
अन्तरिक्षसद्य = त्रि० अन्तरिक्षे सद्यम् सदनं सद–भावे यत्। अरिक्षसदने। “उपरि सद्यं वा एष जयति यो जयत्यन्तरिक्षसद्यमिति” कौ० ब्राह्म०।
अन्तरिक्ष्य = त्रि० अन्तरिक्षे भवः यत्। अन्तरिक्षभवे। “पवतामन्तरिक्ष्या इति ऋ० ९, ३६, ५।
अन्तरित = त्रि० अन्तर्–इण–कर्त्तरि क्त २ त०। अन्तर्गते अन्तरं व्यवधानं करोतीति णिचि कर्म्मणि क्त। व्यवघानी गते, व्यवधापिते, तिरस्कृते आच्छादिते, “द्विरेफवृन्दान्तरितैः सरोरुहैरिति” किरा०। अपसारिते, “कुर्य्यात् यथास्थानकमन्तरं वेति” लीलावत्यामन्तरशब्दस्य वियोजने प्रयोगात् तत्प्रकृतिकतया वियोजिते च।
अन्तरिन्द्रिय = न० कर्म्म०। अन्तःकरणे।
अन्तरीक्ष = न० अन्तरिक्षवत्सर्व्वम्।
अन्तरीक्षजल = न० अन्तरीक्षात् पतितंजलम् शा० त०। दिव्योदके आकाशात्पतितजले
अन्तरीप = पु० अन्तर्मध्ये गता आपोऽस्य ब० अच् समा० आतईत्त्वम्। द्वीपभेदे। द्वीपस्य हि जलमध्यस्थत्वात् अन्तर्गतजलत्वात्तथात्वम् इयांस्तु भेदः चतुर्दिक्षु जलसत्त्वे तस्य अन्तरीपत्वम् द्वयोर्दिशोर्जलसत्त्वे द्वीपत्वमित्यनयोर्भेदः। काकाक्षिगोलकन्यायात् “द्वीपोऽस्त्रियामन्तरीपमित्यत्रापि अस्त्रियामित्यस्य अन्वय इति तेनायं पुंस्त्री० इति केचित्।
अन्तरीय = न० अन्तरे भवं गहादित्वात् छ। “नाभौ धृतञ्च यद्वस्त्रमाच्छादयति जानुनी। अन्तरीयं प्रशस्तं तदच्छिन्नमुभयान्तयो” रित्येवंलक्षणे परिधाने वस्त्रे। भवाद्यर्थे धूमा० वुञ्। आन्तरीयकः तद्भवे त्रि०।
अन्तरे = अव्य० अन्तरेति इण्–विच्। मध्ये। “आनन्देऽथान्तरेऽन्तरा, अन्तरेण च मध्ये स्युरित्यमरः”।
अन्तरेण = अव्य० अन्तरेति इण्–ण टवर्गादित्वेऽपि णस्य नेत्त्वम्। विनार्थे, मध्यार्थे च। तत्र विनार्थे “अन्तरेणाञ्जलिं बद्ध्वा लक्ष्मणस्य प्रसादनमिति” रामायणम्। मध्ये “अन्तरेण वै योनिं गर्भः सञ्चरति” कौ० ब्रा०। “अन्तरेणापां गुणम् इति” स्मृतिः। तत्र विनार्थे, द्वितीयातृतीये पर्य्यायेण, “श्रीर्नेशेन विना शम्भुनान्तरेणाच्युतं सुखमिति” मु० बो०। उभयोर्मध्येऽर्थे द्वितीया “अन्तरेणाहवनीयं गार्हपत्यञ्चेति” कौ० ब्रा०।
अन्तर्गडु = त्रि० अन्तर्मध्ये गडुरिव निरर्थकः। ग्रीवाप्रदेशे जातस्य गलमांसपिण्डस्य गडोर्यथा निरर्थकत्वम् तद्वन्निरर्थके। “किमनेनान्तर्गडुनेति सर्व्वदर्शन सं०। “अन्तर्गडु निरर्थकमिति” मेदिनिः।
अन्तर्गत = त्रि० अन्तःअन्तकरणे गतः। अन्तःकरणस्थे देहस्थे च “अन्तर्गतं प्राणभृतां हि वेद” इति रघुः। “येषामन्तर्गतं पापं जनानां पुण्यकर्म्मणामिति” पुरा० “अन्तर्गता मदनवह्निशिखावली या सा बाध्यते किमिह चन्दनचर्च्चितेनेति” उद्भटः। अभ्यन्तरस्थे च “अन्तर्गतशवे ग्रामे वृषलस्य च सन्निधाविति”। “नेत्रवक्त्रविकारेण गृह्यतेऽन्तर्गतं मनः” इति च मनुः। अन्तर्गतफलारम्भाः शस्यानामिव सम्पदः” इति रघुः।
अन्तर्गर्भ = त्रि० अन्तरभ्यन्तरस्थो गर्भोऽस्य। अभ्यन्तरस्थगर्भयुक्ते। “कुशौ समावप्रशीर्णाग्रावनन्तर्गर्भाविति” कात्या० २, ३, ३१। गर्भस्य मध्यम् अव्ययी०। गर्भमध्ये अव्य०।
अन्तर्गर्भिन् = त्रि० अन्तर्म्मध्ये गर्भोऽस्त्यस्य इनि। मध्यस्थगर्भयुक्ते। “अनन्तर्गर्भिणं साग्रं कौशं द्विदलमेव चेति” पवित्रलक्षणे कात्यायन स्मृतिः।
अन्तर्गृह = न० अन्तःस्थं गृहम्। वाराणसीस्थे सप्तावरणवति स्थानविशेषे “अन्यस्थाने कृतं पापं वाराणस्यां विनश्यति। वाराणस्यां कृतं पापं पञ्चक्रोश्यां विनश्यति। पञ्चक्रोश्यां कृतं पापमन्तर्गृहे विनश्यति”।। काशीमा० अन्तर्गेहमप्यत्र “अन्यत्र यत्कृतं पापं तत्काश्यां परिणश्यति वाराणस्यां कृतं पाप मन्तर्गेहे विनश्यति अन्तर्गेहे कृतं पापं पैशाच्यनरकावहमिति” “देवो विरजसः पीठादन्तर्गेहं विवेश हेति” च काशी०। मध्यस्थगृहे च। गृहस्य मध्यम् अव्ययी० गृहस्य मध्ये अव्य०।
अन्तर्घण = पु० अन्तर्हन्यते क्रोडीभवत्यस्मिन् अन्तर् + हन–अप् नि० घादेशः णत्वम्। द्वारमतिक्रम्य स्थिते सावकाशे देशे “तस्मिन्नन्तर्घणे पश्यन् प्रघणे सौधसद्मनः” इति भट्टिः।
अन्तर्जठर = अव्य० जठरस्य मध्यम् अव्ययी०। जठरस्य मध्ये, उपचारात् तत्स्थकोष्ठे न०।
अन्तर्जात = त्रि० अन्तर्देहमध्ये जातः। देहाभ्यन्तरजाते।
अन्तर्जानु = अव्य० जानुनोर्मध्यम् अव्ययी०। जानुनोर्मध्ये “अन्तर्जानु शुचौ देश उपविष्ट उदङ्मुखः। प्राङ् वा ब्राह्मेण तीर्थेन द्विजो नित्यमुपस्पृशेदिति” या० “जानुनोर्मध्ये हस्तौ कृत्वेति” रघु०।
अन्तर्ज्योतिस् = न० अन्तर्गतं ज्योतिःप्रकाशकत्वात् चैतन्यम्। सर्वान्तर्यामिनि परब्रह्मरूपचैतन्ये तस्य सर्वान्तर्यामित्वात्तथात्वम्।
अन्तर्ज्वलन = न० अन्तः देहान्तरस्य ज्वलनम्। रोगकृते देहान्तर्दाहे। अन्तःस्थो ज्वलनः। जठरानले पु०।
अन्तर्दधन = न० अन्तर्दध्यते आधीयते मादकताऽनेन दधकरणे ल्यट्। किणुप्रभृतौ मद्यवीजे।
अन्तर्दशा = स्त्री अन्तर्गता दशा आधिपत्यकालः। ज्योतिषोक्ते महादशान्तर्गते ग्रहाणां स्वाधिपत्ययुक्तकालभेदे। दशा च नानाविधा ताश्च दशाशब्दे वक्ष्यन्ते। तत्राष्टोत्तरीयदशायामन्तर्दशाऽभिधीयते वङ्गे च तस्या एव प्रचलितत्वम्। “षट्सूर्य्यस्य दशा ज्ञेयाः शशिनोदश पञ्च च। अष्टावङ्गारके ज्ञेया बुधे सप्तदश स्मृताः। शनैश्चरे दश प्रोक्ता गुरोरेकोनविंशतिः। राहोर्द्वादश वर्षाणि भृगोरप्येकविंशति” रित्युपक्रम्य सत्याचार्य्यः “कृत्तिकादित्रये सूर्य्यः सोमो रौद्रचतुष्टये। मघादित्रितये भौमो बुधो हस्तचतुष्टये।। अनुराधात्रये सौरिर्गुरुःपूर्ब्बाचतुष्टये। धनिष्ठात्रितये राहुः शेषे शुक्रःप्रकीर्त्तितः।। सूर्य्योपप्लवभौमार्किदशातिकष्टदा नृणाम्। गुरुज्ञचन्द्रशुक्राणां यथेप्सितफलप्रदा”।। अन्तर्दशाज्ञानं यथा। “स्वदशाभिर्दशां हत्वा नवभिर्भागमाहरेत्। लब्धा मासास्तु तच्छेषं पूरयित्वा तु त्रिंशता।। अङ्कैर्हृत्वा दिनं लभ्यं तच्छेषे वष्टिपूरिते। नवभिश्च हृते लब्धा ज्ञेया दण्डास्तदन्तरे।। रवेः षड्वर्षमध्ये तु वेदा ४ मासा रवेर्निजाः। चन्द्रस्य दश मासाश्च दिग्दिनं पञ्चमासकाः। कुजस्य, ज्ञस्य रुद्रास्तु मासा दिग्दिवसाः, शनेः। ऋतुमासाद्यु विंशश्च गुरोर्व्वर्षोद्युविंशतिः। राहोर्मासाष्टकं ज्ञेयं भृगोर्वर्षस्तु मासकौ एवं ग्रहाणामन्येषामूह्याश्चैवान्तरादयः। यद्ग्रहस्यान्तरे यस्तु यत्संख्यकालमाप्तवान्। तत्संख्यं स्वान्तरे तस्मै स दद्यादिति निश्चयः। स्वान्तरे ग्रहणे स्वांशं स्वांशेन पूरयेत् सदा इति” ज्यो० त०। विंशोत्तरीये तु। आचं कुराजीशबुकेशुपूर्ब्बा वह्न्यादितो भात्क्रमशस्त्रिवारम्। मानं रसाशानगदन्तिचन्द्रकलाङ्कचन्द्राद्रिरसाद्रिविंशा” इत्युक्तेः कृत्तिकादिक्रमेण रव्यादीनां त्रिवारं रसादिमिता वर्षा महादशा। यथा कृत्तिकायां जातौ रवेः षट्वर्षाः, रोहिण्यां जातौ चन्द्रस्य १० वर्षाः, मृगे, कुजस्य ७ वर्षाः, आर्द्रायां राहोः १८ वर्षाः, पुनर्वसौ जीवस्य १६ वर्षाः, पुष्ये जातौ शनेः १९ वर्षाः, अश्लेषायां बुधस्य १७ वर्षाः, मघायां केतोः ७ वर्षाः, पूर्ब्बफाल्मुन्यां जातस्य शुक्रस्य २० वर्षाः, एवमुत्तरफाल्गन्यादिषु नवसु उत्तराषाढादिषु नवसु च रव्यादीनां यथाक्रमं षडादिवर्षाः। तदन्तर्दशा तु “स्वदशाभिर्दशां हत्वा वसुभिर्भागमाहरेदिति” विशेषः। ततश्च उभयोर्दशयोरनुपातेनान्तर्दशामानमुन्नेयम् यथा यदि १०८ वर्षैः ६ वर्षाः तदा ६ वर्षैः किमिति इत्यादिक्रमेण त्रैराशिकेन तत्तन्मानम् एवं १२० वर्षैः यदि ६ वर्षाः तदा ६ वर्षैः किमित्यादिक्रमेण त्रैराशिकेन तत्तन्मानसिद्धिः। एवं योगिन्यादिदशायामपि अन्तर्दशामानमुन्नेयम्।
अन्तर्दशाह = अव्य० दशाहस्य मध्यम् अव्ययी०। दशाहाभ्यन्तरे “अन्तर्दशाहे स्याताञ्चेत् पुनर्मरणजन्मनी” इति मनुः दशाहपदं स्वस्वजात्युक्ताशौचदिनपरमु।
अन्तर्दहन = न० अन्तरभ्यन्तरे दहनम्। रोगकृते देहाभ्यन्तरदाहे। अन्तःस्थः दहनः। जठरानले पु०।
अन्तर्दाह = पु० अन्तर्मध्ये दाहः। देहाभ्यरसन्तापे।
अन्तर्दुष्ट = त्रि० अन्तः अन्तःकरणे दुष्टः। दुष्टान्तःकरणे।
अन्तर्द्वार = न० अन्तर्गतं द्वारम्। गृहमध्यस्थे गुप्तद्वारे। जालद्वारे क्षीरस्वामी (खिड्की) द्वारे शवरः।
अन्तर्द्धा = स्त्री अन्तर् + धा स्त्रियां भावेऽङ्। अन्तर्द्धाने तिरोधाने “अन्तर्द्धामुपययुरुत्पलावलीषु” इति माघः।
अन्तर्द्धान = न० अन्तर् + धा–ल्युट्। तिरोधाने दृश्यपदार्थस्य दर्शनायोग्यस्थाने स्थितौ, मुन्यादीनां शरीरत्यागे च। “अन्तर्द्धानं गते रामेइति” रामायणम्।
अन्तर्द्धि = पु० अन्तर् + धा–कि। आच्छादने, व्यवधाने, अन्तर्धाने च “अन्तर्द्धौ येनादर्शनमिच्छति” पा०।
अन्तर्नगर = न० नगरस्य मध्यम् अव्ययी०। नगरमध्ये अन्तःस्थं नगरम् कर्म्म०। अन्तःपुरे। “दशाननान्तर्नगरं ददर्शेति” रामा०।
अन्तर्भाव = पु० अन्तर्मध्ये भावः प्रवेशः। मध्यप्रवेशे समुदायमध्यपाते। “आत्मानमात्मना बिभ्रदस्तोति व्यवदिश्यते अन्तर्भावाच्च तेनासौ कर्म्मणा न सकर्म्मक” इति हरिका० स्वविषयकज्ञानविषयत्वे च भवति च वह्निमह्नोधविषयत्वाद्वह्नेर्वह्निमदन्तर्भावः। अन्तःस्थोभावः। चित्तवृत्तिभेदे।
अन्तर्भावना = स्त्री अन्तःस्था व्यञ्जकचेष्टाकारादिरहिता भावना। व्यञ्जकचेष्टादिशून्ये चिन्तने।
अन्तर्भावित = त्रि० अन्तर् + भू–णिच्–क्त। मध्यप्रवेशिते समुदायान्तर्भूतीकृते। “अन्तर्भावितसत्त्वं चेत् कारणं तदसत्त्वतः। नान्तर्भावितसत्त्वं चेत् कारणं तदसत्त्वत” इति खण्डनखण्डखाद्यम्। अव्यवहितपूर्बवर्त्तितया कारणस्य यत् सत्त्वसुररीक्रियते तस्य सत्त्वमस्ति न वा तस्य सत्त्वस्वीकारे पुनस्तत्सत्त्वस्य सत्त्वस्वीकारेऽनवस्थापातः ततश्च उत्तरत्र एकस्य सत्त्वमनङ्गीकृत्यैव अनवस्था वारणीया तथाच कारणसत्त्वेऽपि कुतः तथा नाङ्गीक्रियते। एवं च विनापि सत्त्वं, तदङ्गीकृत्य कारणतास्वीकारे न कोऽपि दोषोऽस्ति इति तदाशयः।
अन्तर्भूत = त्रि० अन्तर्मध्ये भूतः भू + क्त। मध्यस्थिते, अन्तर्गते च। “कालभावाध्वदेशानामन्तर्भूतक्रियान्तरैः। सर्वैरकर्मकैर्योगे कर्मत्वमुपजायते” इति हरिका० “एष वै भगवान् विष्णुरन्तर्भूतः सनातन” इति पुरा०।
अन्तर्मनस् = त्रि० अन्तर्गतं वाह्यव्यापारशून्यतया अन्तरेव स्थितं मनो यस्य। व्याकुलचित्ते, समाहितमनस्के च। दुःखितस्य हि वाह्येतदितरव्यापारशून्यतया तत्प्रती कारचिन्तनायान्तरेव मनसः स्थितत्वात् तथात्वम् समाधिस्थस्य तु वाह्यविषयपरिहारेण ध्येयात्ममात्रगीचरमनस्कतया तथात्वमिति भेदः।
अन्तर्मुख = त्रि० अन्तःपरमात्मा मुखं प्रवेशद्वारं यस्य। वाह्यवस्तुपरिहारेण परमात्मविषयकतया प्रवेशयुक्ते चित्तादौ। अन्तरभ्यन्तरे मुखं यस्य। सुश्रुतोक्ते व्रणस्रावणसाधने शस्त्र भेदे न०। “सूचीकुशपत्राचीमुखशरारीमुखान्तर्मुस्वत्रिकूर्चकानि विस्रावणे” इति सुश्रुतम्। अन्तःकरणं अविद्यावृत्तिरूपं द्वारं सुखानुभवे यस्य। स्वरूपसुखानुभवहेतुना अविद्यावृत्तिरूपान्तःकरणेन सुषुप्तौ आनन्दानुभवकारके प्राज्ञाख्ये जीवभेदे “आनन्दभुक् चेतोमुखः प्राज्ञः” इति श्रुतौ प्राज्ञस्य आनन्दभोगे चेतोमुस्वत्वोक्त्या तथात्वम्। मुखस्य मध्यम् अव्ययी०। मुखस्य मध्ये इत्यर्थे अव्य०।
अन्तर्मातृका = स्त्री अन्तःस्था षट्चक्रस्था मातृका अकारादि- वर्ण्णाः। तन्त्रोक्तेषु षट्पद्मस्थेषु अकारादिषु वर्ण्णेषु। ते च वर्ण्णा अन्तर्मातृकान्यासशब्देऽनुपदं वक्ष्यन्ते।
अन्तर्मातृकान्यास = पु० अन्तःस्थाया मातृकाया न्यासः उच्चारणपूर्ब्बकं तत्तत्स्थानेषु न्यासः। अन्तस्थमातृकावर्णानां स्मरणपूर्ब्बकं तत्तत्स्थानेषु न्यासे। यथा “न्यासोऽयमान्तर” इत्युपक्रम्य “द्व्यष्टपत्राम्बुजे कण्ठे स्वरान् षोडश विन्यसेत्। द्वादशच्छदहृत्पद्मे कादीन् द्वादश विन्यसेत्। दशपत्राम्बुजे नाभौ डकारादीन्न्यसेद्दश। षट्पत्रमध्ये लिङ्गस्थे बकारादीन्न्यसेच्च षट। आधारे चतुरोवर्णान् न्यसेद्वादीन् चतुर्द्दले। हक्षौ भ्रूमध्यगे पद्मे द्विदले विन्यसेत् प्रिये!। तन्मध्ये परविन्दुञ्च सृष्टिस्थितिलयात्मकम्। एवं समाहितमना ध्यायेन्न्यासोयमान्तरः” इति तन्त्रसारः।
अन्तर्मृत = पु० स्त्री अन्तर्गर्भाशये मृतः। गर्भाशये मृते बालकादौ “भवत्युच्छासपूतिञ्च शूलं चान्तर्मृते शिशौ” इति सुश्रुतम्।
अन्तर्य्य = त्रि० अन्तरे भवः दिगा० य। मध्यभवे।
अन्तर्याग = पु० अन्तरन्तःकरणेन मनसा कल्पितोपचारैर्यागः पूजा होमश्च। तन्त्रोक्ते मानसोपचारैः पूजने, होमभेदे च। “अर्च्चयन् विषयैः पुष्पैस्तत्क्षणात् तन्मयो भवेत्। न्यासैस्तन्मयताबुद्धिः सोहंभावेन पूजयेत्”। तन्मयेति तदेकत्वज्ञानं सोहमिति, “मन्त्राक्षराणि तच्छक्तौ प्रोतानि परिभावयेत्। तामेव परमव्योम्नि परमानन्दवृंहिते। दर्शयत्यात्मसद्भावं पूजा होमादिभिर्विनेति”। विषयपुष्पाणि यथा। अमायामनहङ्कारमरागमगदं तथा। अमोहकमदम्भञ्च अनिन्दाऽक्षोभकौ तथा। अमात्सर्य्यमलोभञ्च दशपुष्पं विदुर्बुधाः। अहिंसा परमं पुष्पं पुष्पमिन्द्रियनिग्रहः। दया पुष्पंक्षमा पुष्पं ज्ञानं पुष्पञ्च पञ्चमम्। इत्यष्टसप्तभिः १५ पुष्पैः पूजयेत् परदेवताम्”। अथ होमः। “आत्मानमपरिच्छिन्नं विभाव्यात्मानमन्तरा परमात्मज्ञानमेकस्वरूपं संविभाव्य च। चतुरस्रं तु चित्कुण्डमानन्दमेखलायुतम्। अर्द्धमात्राकृतिर्योनिस्तया चैव विभूषितम्। नाभौ ध्यात्वा तन्मयस्थज्ञानाग्नौ जुहुयात् यथा। मूलान्ते नाभिचैतन्यरूपाग्नौ हविषा स्रुचा। ज्ञानप्रदीपिते नित्यमक्षवृत्तीर्जुहोम्यहम्”। (स्वाहा इति प्रथमाहुतिः, मूलान्ते) घर्म्माधर्म्महविर्दीप्ते आत्माग्नौ मनसा स्रुचा। सुषुम्णावर्त्मना नित्यमक्षवृत्तीर्जुहीम्महम्”। (स्वाहेति द्वितीयाहुतिः, मूलान्ते) “प्रकाशाकाशहस्ताभ्यां अवलम्बन्मनःस्रुचा। धर्म्माधर्म्मकलास्नेहपूर्ण्णमग्नौजुहोम्यहम्”। (स्वाहेति तृती- याहुतिं जुहुयात्। ततो मूलान्ते)। “अन्तर्निरन्तरनिरिन्धनएधमाने मायान्धकारपरिपन्थिनि संविदग्नौ। कस्मिंश्चिदद्भुतमरीचिविकाशमूमौ विश्वं जुहोमि वसुघादिशिवासनान्तम्। इत्यन्तर्यजनं कृत्वा साक्षाद्ब्रह्ममयो भवेत्। न तस्य पापपुण्यानि जीवन्मुक्तोभवेद्ध्रुवम्”। “अयमन्तर्यागोज्ञानिनामेव। अथान्तःपञ्चमकारयजनप्रकारः।। तदुक्तं कुलार्ण्णवे अन्तर्यजने”। “सुरा शक्तिः शिवोमांसं तद्भोक्ता भैरवःस्वयम्। तयोरैक्यसमुत्पन्ने आनन्दोमोक्ष उच्यते। आनन्दं ब्रह्मणोरूपं तच्च हव्ये व्यवस्थितम्। तस्याभिव्यञ्जकं द्रव्यं यीगिभिस्तेन पीयते। लिङ्गत्रयविशेषज्ञः षट्चक्रपद्मभेदतः। पीठस्थानानि चागम्य महा पद्मवनं व्रजेत्। आमूलाधारमाब्रह्मरन्धं गत्वा पुनः पुनः। चिच्चन्द्रकुण्डलीशक्तिसामरम्यमहोदयः। व्योमपङ्कजनिष्यन्दसुधापानरतो नरः। मधुपानमिदं देवि! चेतरन्मद्यपानकम्। पुण्यापुण्यं पशुं हत्वा ज्ञानखड्गेन योगवित्। परे लयं नयेच्चित्तं पलाशीति निगद्यते। मानसादिन्द्रियगणं संयम्यात्मनि योजयेत्। मांसाशी स भवेद्देवि! इतरे प्राणिघातकाः। शिवशक्त्यात्ममिथुनसंयोगानन्दनिर्भराः। मुक्तास्ते सैथुनं तत्स्यादितरे स्त्रीनिषेवकाः” इति त० सा० “अन्तःपूजां विधायैव वाह्यपूजां समाचरेदिति” तन्त्रम्।
अन्तर्याम = पु० अन्तर्यामो यस्मात्। ग्रहरूपे सामापराख्ये पात्रभेदे। “त्रिष्टुभः स्वारं स्वारादन्तर्यामः “अन्तर्यामात् पञ्चदश” इति यजु० १३, ५५ स्वारात् साभ्नोऽन्तर्यामं ग्रहं निरमिमीतेति” श्रुतेरिति वेददीपः। तच्च यज्ञियं पात्रभेदः। “सुहवा सूर्य्यायान्तर्याममनुमन्त्रयेदिति” श्रुतिः “उन्नेतुः पात्रयोजनमित्युपक्रम्य” खरोत्तरपूर्ब्बार्द्धे उपांश्वन्तर्यामयोः” कात्या० ९, १, २, खरस्य उत्तरपूर्ब्बार्द्धेईशानकोणे, उपांश्वन्तर्यामयोः पात्रयो र्योजयति सादयतीति वा” तद्व्या०।
अन्तर्यामिन् = पु० अन्तर्मध्येऽनुप्रविश्य यमयति स्वस्वकर्म्मणि इन्द्रियादीनि जीवं वा व्यापारयति यम + णिच्–णिनि। “अन्तराविश्य भूतानि यो बिभर्त्त्यात्मकेतुभिः। अन्तर्यामीश्वरः ताक्षात् भवे” दित्युक्ते ईश्वरे “अन्तरेष यमयतीत्यादि” वृहदारण्यकान्तर्यामिब्राह्मणोक्तेस्तस्य तथात्वम्। आत्मकेतुभिः निजव्यापारैः प्राणादिवृत्तिभिरित्यर्थः। वायौ च तस्य सर्व्वप्राणिषु अध्यात्मवायुरूपेण स्थितत्वात्तथात्वम्। अन्तर्गतवस्तुज्ञातरि त्रि०।
अन्तर्यामिव्राह्मण = न० अन्तर्यामिन ईश्वरस्य ज्ञापकम् ब्राह्मणं मन्त्रेतरवेदभागः। वृहदाण्यकान्तर्गते अन्तर्यामिनः ईश्वरस्य ज्ञापके ब्राह्मणे। तच्च १३० पृष्टे दर्शितम्।
अन्तर्लोम = न० अन्तर्गतमाच्छाद्यं लोम अच् समा०। आच्छाद्ये लोम्नि।
अन्तर्वंशिक = त्रि० अन्तर्वंशे राज्ञामाभ्यन्तरगृहे नियुक्तः नियुक्तार्थे ठक् संज्ञापूर्ब्बकविधेरनित्यत्वान्न वृद्धिः, अन्तर्वंशः नियोज्यतयाऽस्त्यस्य ठन् वा। राज्ञामन्तःपुरे रक्षणार्थं नियुक्ते कुब्जवामनादौ।
अन्तर्वण = अव्य० वनस्य मध्यम् णत्वम्। वनसध्ये इत्यर्थे।
अन्तर्वत्नी = अन्तरस्त्यस्य गर्भ इति वाक्ये “अन्तर्वत्पतिवतोर्नुगिति” पा० अन्तःशब्दस्याधिकरणशक्तिप्रधानतयाऽस्तिसामानाधिकरण्याभावात् अप्राप्तौ मतुप् अदुपपत्वे मस्य वः नुक् च। गर्भवत्याम् स्त्रियाम्। “तस्यामेवास्य यामिन्यामन्तर्वत्नी प्रजावती सुतावसूत सम्पन्नाविति” रघुः। अन्तःशब्दस्य तत्स्थलक्षणया अस्त्यर्थे मतुप् मस्य वः। अन्तःस्थपदार्थवति त्रि०। “पुमानन्तर्वा~ स्थविरः पयस्वानिति” अथ० ९, ४, ३,।
अन्तर्वमि = पु० अन्तःस्थित एव वाणयति उद्गारशब्दं कारयति वण–शब्दे इन् णस्य मत्वम्। (ढेकुर) इतिख्यातस्योद्गारशब्दस्य कारके अजीर्णनामके रोगभेदे।
अन्तर्वर्त्तिन् = त्रि० अन्तः मध्ये वर्त्तते वृत–णिनि। मध्यवर्त्तिनि। “अन्तर्वर्त्तिनीं विभक्तिमाश्रित्येति” सि० कौ०।
अन्तर्वा = त्रि० अन्तः अन्तरङ्गभावम् अन्तःकरणंवा वाति गच्छति स्निग्धत्वेन वा–गतिगन्धनयोः विच्। पुत्रपश्वादिषु।
अन्तर्वाणि = त्रि० अन्तर्गता अन्तःकरणे स्थिता शास्त्रवाक्यात्मिका वाणी यस्य ब० समासान्तविधेरनित्यत्वान्न कप् ह्रस्वश्च। बहुशास्त्रवाक्याभिज्ञे पण्डिते।
अन्तर्वावत् = त्रि० अन्तर्वाः पुत्रादिरस्त्यस्मिन् मतुप् मस्य वः। पुत्रादिमति “अन्तर्वावत् क्षयं दधे” इति ऋ० १, ४०, ७, “अन्तर्वावत् अन्तःस्थितपुत्रादिमत्त्वात् बहुगुणोपेतं क्षयं गृहमिति” भा०।
अन्तर्वाष्प = त्रि० अन्तर्गतं वाष्पम्। वाह्याप्रकाशिते कण्ठपथाप्राप्ते रोदनजन्यजलकणे। ब०। तद्युक्तपदार्थे त्रि०। “अन्तर्वाष्पविलोचने” इति।
अन्तर्विगाह = पु० अन्तर्भूत्वा विगाहः। मध्यप्रवेशं। ल्युट्। अन्तर्विगाहनमप्यत्र न० हेम०।
अन्तर्वेदि = पु० अन्तर्गता वेदिर्यत्र देशे। ब्रह्मावर्त्तदेशे, स च देशः आ प्रयागात् हरिर्द्वारपर्य्यन्तो गङ्गायमुनयोर्मध्यदेशः। वेद्या मध्यम् अव्ययी०। वेदिमध्ये अव्य०। “श्रपणस्य पश्चादुपविशत्यन्तर्वेदि वा कात्या० २, ५, ११, “अन्तर्वेदि वेद्याः करिष्यमाणायाः प्रदेशो लक्ष्यते तस्य देशस्याभ्यन्तरे उपविशतीति” तद्व्या० “अन्यदन्तर्वेदि” कात्या० १३, ३, ३। अन्तर्वेदि विहितं कर्न्म ठन्। अन्तर्वेदिकम् अन्तर्वेदिविहिते इष्ट्यादौ कर्म्मणि “नित्यमैष्टिकपौर्त्तिकमिति” मनुबचने ऐष्टिकमन्तर्वेदिकमिति” कूल्लू०।
अन्तर्वेदी = स्त्री पृथिव्या मध्यस्थितत्वादन्तर्वेदीव। हरिद्वारावधिप्रयागपर्य्यन्ते शशस्थलीति ब्रह्मावर्त्त इति च ख्याते देशे
अन्तर्वेशिक = त्रि० अन्तर्वेशे अन्तःपुरे नियुक्तः ठक् संज्ञा पूर्ब्बकविधेरनित्यत्वात् न वृद्धिः। अन्तःपुररक्षणाय नियुक्ते कञ्चुक्यादौ। अन्तर्वेश्मिकादयोऽप्यत्र।
अन्तर्हत्य = अव्य० अन्तर् + हन–ल्यप्। मध्ये हत्वेत्यर्थे “अन्तरपरिग्रहे” पा० अपरिग्रह एवास्य गतित्वेन समासः परिग्रहे तु न, “अन्तर्हत्वा गतः हतं परिगृह्येति” सि० कौ०।
अन्तर्हास = पु० अन्तरप्रकाशो हासः। गूढहास्ये, ६ त०। तद्वति त्रि०।
अन्तर्हित = त्रि० अन्तर् + धा–क्त। गुप्ते, तिरोहिते च। “अन्तर्हितण्यर्थ” इति सि० कौ०।
अन्तवत् = त्रि० अन्तो नाशः परिच्छेदो वाऽस्य मतुप् मस्य वः। अवश्यनश्वरे “अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिण” इति गीता। परिच्छेदयुक्ते सीमावति च। “स हैतानन्तवत उपास्तेऽन्तवतः स लोकान् जयतीति” वृ० उ०। “अन्तवतः परिच्छिन्नानिति” भा०। स्त्रियां ङीप्।
अन्त(न्ते)वासिन् = पु० अन्ते समीपे वस्तुं शीलमस्य वस–णिनि सप्तम्या वा अलुक्। शिष्ये। स्त्रियां ङीप्। समीपस्थिते त्रि०।
अन्तवेला = स्त्री अन्तस्था वेलाऽवधिः कालो वा ६ त०। शेषसीमायाम्, नाशसमये च।
अन्तशय्या = स्त्री शयनं शय्या शीङ्–भावे क्यप् अन्तस्य नाशार्थं शय्या चतुर्थ्यर्थे ६ त०। मरणार्थं भूमिशय्यायाम्, तद्धेतुत्वात् श्मशाने च। अन्त एव शय्या निर्व्यापारत्वसादृश्यात् कर्म्म०। मरणे।
अन्तसद् = पु० अन्ते निकटे सीदति सद–क्विप्। अन्तेवासिनि शिष्ये। “तमुपासते गुरुमिवान्तसद” इति किरा०। समीपगे त्रि०।
अन्तस्सलिल = न० अन्तरप्रकाशं सलिलम्। भूमिमध्यस्थे जले “गङ्गाया अन्तस्सलिलवाहित्वान्न दोष” इति रघु०। सत्वाभावपक्षे अन्तःसलिलमप्यत्र। अन्तर्गतं सलिलं यस्याः। अप्रकाशितजलायां सरखतीनद्यां स्त्री। सलिलस्य मध्यम् अव्ययी०। जलमध्ये अव्य०। अन्तःसलिलमवगाहेतेति” स्मृतिः।
अन्तस्ताप = पु० अन्तःस्थितः तापः। चित्ततापे, देहमध्यतापे च।
अन्त(न्ते)स्था = पु० अन्तः स्पर्शोष्मणोर्वर्णयोर्मध्ये तिष्ठतीति स्थाक्विप्। यरलवाख्येषु वर्णेषु ते हि कादिमावमानस्पर्शानां शषसहरूपोष्यणश्चमध्यस्थाः। वा विसर्गलोपेऽन्तस्था अपि। “हकारं पञ्चमैर्युक्तमन्तस्थाभिश्च संयुतम्। औरस्यं तं विजानीयात् कण्ठ्यमाहुरसंयुतमिति” पा० शि०। स्था–क। अन्तःस्थोऽप्यत्र मध्यस्थितमात्रे त्रि०। भवादौ गहा० छ। अन्तःस्थीयः मध्यस्थभवे त्रि०।
अन्तादि = त्रि० आदिश्च अन्तश्च द्व० राज० वा परनिपातः। आद्यन्तयोः। “अन्तादिवच्चेति” पा०।
अन्तानल = पु० अन्तस्य प्रलयस्यानलोवह्निः। प्रलयानले, अन्त्येष्टिकर्म्माङ्गवह्नौ च।
अन्तार = पु० अन्तं वनपर्य्यन्तदेशमृच्छति ऋ–अण् उप०। “अघिष्ठातारमन्तारं पशूनां पुरुषं विदुरिति” भारतोक्ते पशुपालके।
अन्तावशायिन् = पु० अन्ते पर्य्यन्तदेशेऽवशेते अव + शी–णिनि। चाण्डालादौ तस्य ग्रामान्तस्थत्वात्तथात्वम्।
अन्तावसायिन् = पु० नखकेशानामन्तमवसातुं छेत्तुं शीलमस्य अव + सो–णिनि युक् च। नापिते। अन्ते वृद्धे वयसि अवस्यति निश्चिनोति तत्त्वम्। मुनिभेदे। “अन्ताय स्वतोषार्थं जन्तुनाशाय अवस्यति। प्राणिहिंसके चाण्डालादौ।
अन्ति = (का) स्त्री अन्त्यते संबध्यते अन्त–इ। नटाभिनयनकाले तदुक्तौ ज्येष्ठभगिन्याम्। स्वार्थेके टापि अन्तिकेत्यपि। सामीप्यार्थे अव्य० “मुग्धप्रभीतवदुपेयतुरन्ति मात्रोरिति” भाग० “यो नो अग्नेऽभिदासत्यन्ति दूरे पदीष्ट स” इति ऋ० १, ७९, ११, “अन्ति अन्तिके” भा०। “नही नु वो मरुतो अन्त्यस्मे” ऋ० १, १६७, ९। अस्य सामीप्यार्थत्वात् पदान्तरेण अव्ययीभावे। तत्तदर्थसामीप्ये “वृषणावन्तिदेवगिति ऋ० १, १८०, ७।
अन्तिक = त्रि० अन्त्यते संबध्यते सामीप्येन, अन्त–घञ् सोस्यास्तीति मत्वर्थीयः ठन्। सामीप्यवति। “विप्रान्तिके पितॄन् ध्यायन्निति” “शनैः पिण्डान्तिके पुनरिति” “वसेयुश्च गृहान्तिके” इति च मनुः। “तामन्तिकन्थस्तबलिप्रदीपामिति” रघुः। स्वार्थे ठनि सामीप्ये न०। चूल्ल्याम न०। ओषधिभेदे स्त्री। अन्तं शेषसीमां व्याप्नोति अन्त + कन्। पर्य्यन्तव्यापके त्रि०। “केशान्तिको ब्राह्म- णस्य दण्डः कार्य्यः प्रमाणतः। ललाटसस्मितो राज्ञः स्यात्तु नासान्तिको विश” इति “षट्त्रिंशदाब्दिकं चर्य्यं गुरौ त्रैवेदिकं व्रतम्। तदर्द्धिकं पादिकं वा ग्रहणान्तिकमेव वेति” च मनुः। “जनान्ते स्याज्जनान्तिकमिति” सा० द०।
अन्तिकतम = त्रि० अतिशयेनान्तिकः अतिशायने तमप्। अत्यासन्ने वेदे तु “तादेश्चेति” तिकलोपे अन्तमोऽप्युक्तार्थे।
अन्तिकाश्रय = पु० अन्तिकं समीपम् आश्रयते आ + श्री–अच्। निकटस्थे, अवलम्बनस्थाने च।
अन्तितस् = अव्य० अन्तिक + तसिल् कलोपः अन्तिशब्दाद्वा तसिल्। अन्तिके इत्यर्थे “नकिष्टं घ्नन्त्यन्तितोनदूरादिति” ऋ० २, २७, १३, “अन्तितः अन्तिकादिति” भा०।
अन्तिम = त्रि० अन्ते भवः अन्त + डिमच्। अन्तभवे, चरमे च। “अजातमृतमूर्खानां वरमाद्यौ नचान्तिमः। सकृद्दोषकरावाद्यावन्तिमश्च पदे पदे” हितो०।
अन्तिवाम = त्रि० अन्ति अन्तिके वामं वननीयं धनमस्य। निकटस्थधने “अन्तिवामा दूरे” इति ऋ० ७, ७७, ४। “अन्ति अस्मदन्तिके वामं धनं यस्याः सान्तिवामेति” भा०।
अन्तेवसत् = पु० अन्ते निकटे बिद्याग्रहणाय वसति वस–शतृ ७ त० अलुक्समा०। शिष्ये अन्तेशब्दस्य पृथक्स्थितावपि तत्सभभिव्याहारमात्रेण तदर्थता। “बसन्निवान्ते विनयेन जिष्णुः” किरा०।
अन्तेवासिन् = पु० अन्ते निकटे विद्याग्रहणाय वसति वसणिनि ७ त० अलुक्समा०। शिष्ये “याज्यान्तेवासिनोर्वापि न त्वन्यत इति स्थितिरिति” मनुः “कलापिवैशम्पायनान्तेवासिभ्यश्चेति” “आचार्य्योपसर्जनान्तश्चान्तेवासीति” च पा०। “वामदेवान्तेवासी तदाश्रमवासीति” दशकु०। ग्रामादेरन्तेवासिनि चाण्डालादौ त्रि०।
अन्तोदात्त = न० अन्ते उदात्तः स्वरो यस्य। अन्तोदात्तस्वरयुक्ते पदे “पथिमथोः सर्व्वनामस्थाने” पा० सूत्रे “सर्व्वनामस्थाने किम्? ज्योतिष्मतः पथो रक्षेति उदात्तनिवृत्तिस्वरेणान्तोदात्तं पदमिति” सि० कौ०। अन्ते अन्ता वयवे उदात्तः। यादृशसमुदायस्य अन्त उदात्तः तादृशे समुदाये “कर्षात्वतो घञोऽन्त उदात्त” इत्यधिकारे विहिते अन्तोदात्तस्वरे, कार्षःपाक इत्यादि। “धातोः” पा० अन्तोदात्तः। “गोपायतन्न” इति सि० कौ०। “फिषोऽन्त उदात्त” इत्यधिकारे शान्तनवाचार्य्यप्रणीतसूत्रैः प्रातिपदिकस्यान्त उदात्तः। तानि च सूत्राणि सि० कौ० उत्तरार्द्धे ५५१, पृष्ठादौ उपात्तानि। तादृशसूत्रोत्पात्तानां प्रातिपादिकानामन्तोदात्तता बोध्या।
अन्त्य = त्रि० अन्ते पर्य्यन्ते वसतीति अन्त + यत्। चाण्डाले। “अन्त्यादपि वरं धर्म्मं स्त्रीरत्नं दुष्कुलादपीति” मनुः “अन्त्यश्चण्डाल” इति कुल्लू०। भ्लेच्छे, चण्डांलान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च पतत्यज्ञानतो विप्रो ज्ञानात् साम्यं तु गच्छति” नर्क्षवृक्षनदीनाभ्नीं नान्त्यपर्वतनामिकामिति” “नान्त्यो न विकलेन्द्रिय” इति च मनुः। “अन्त्यश्चण्डालादिरिति” “नक्षत्रवृक्षनदीम्लेच्छपर्वतनामिकामिति” च कुल्लू०। म्लेच्छानां सर्व्वापकर्षान्तभवत्वात्तथात्वम्। अवसानभवे, “जायायै पूर्व्वमारिण्यै दत्त्वाग्नीनन्त्यकर्म्मणीति” मनुः “नानावीजेष्वन्त्य एव सामर्थ्यात्” कात्या० २, ४, १०, “असह्यपीडं भगवन्! ऋणमन्त्यमवेहि मे” इति “विससर्ज्जतदन्त्यमण्डनमिति” च रघुः “क्रियतां कथमन्त्यमण्डनमिति” कुमा०। अवसानञ्च दैशिकं कालिकञ्च उक्तोदाहरणे यथायथं बोध्यम् अन्ताय परिच्छेदाय हितः यत्। परिच्छेदकारके वैशिषिकोक्ते विशेषपदार्थे “अन्त्यो नित्यद्रव्यवृत्तिर्विशेषः परिकीर्त्तित” इति भाषा० प्रलये परमाणूनां गगनादीनाञ्च अन्यस्य विशेषकारकस्याभावात् विशेषस्यैव परिच्छेदकरत्वमिति तस्यान्त्यत्वम्। सुस्तायाम् स्त्री। अन्तिमे वस्तुनि त्रि०। यथा नक्षत्राणां मध्ये रेवती, राशीनां मध्ये मीनः, वर्ण्णानां मध्ये हकार इत्यादि। संख्याभेदे न० “जलधिश्चान्त्यं मध्यं परार्द्धमिति दशगुणोत्तरा संख्ये” ति भास्कृराचार्य्योक्ते परार्द्धशतभागे। गणितशास्त्रोक्ते सर्वस्य वामस्थिताङ्के “स्थाप्योऽन्त्यवर्गो द्विगुणान्त्यनिघ्न” इति लीला०। लग्नावघिद्वादशराशौ पु० षष्ठेऽष्टमेऽन्त्ये भुविचेन्थिहेश इति नील० ता०। “त्रिकोणाष्टकयूकान्त्यग्रहायद्वत् फलं तथा इति” ज्योति०। अन्तेभवः दिगा० यत्। सिद्धान्तशिरोमण्युक्तायां चरजीवया युतोनायां त्रिज्यायाम् स्त्री। यथा “क्षितिज्ययैवं द्युगुणश्च सा हृतिश्चरज्ययैवं त्रिगुणोऽपि सान्त्यका”। “द्युज्यैव क्षितिज्ययोत्तरगोले युता, याम्ये रहिता हृतिर्भवति। एवं त्रिज्या चरजीवया युतोनान्त्या स्यात्। अत्रोपपत्तिः। अत्र गोलेऽहोरात्रवृत्तक्षितिजसंपातयोर्बद्ध यत् तदुदयास्तसूत्रम्। एवमुन्मण्डलसंपातयोर्बद्धं तदहोरात्रवृत्तव्याससूत्रम्। तदुदयास्तसूत्रयोरन्तरं सर्व्वत्र कुज्या। अथ याम्योत्तरवृत्तसंपातयोर्बद्धं तत् तन्मितं तस्य व्याससूत्रम्। तयोर्व्याससूत्रयोर्यः संपातस्तस्मादुपरितनं खण्डं द्युज्या। सोऽत्तरगोलेऽधःस्थया कुज्यया युता यावत् क्रियते तावद्दिनार्धोर्कोदयास्तसूत्रयोरन्तरं स्यात्। दक्षिणे तु कुज्यया हीना। यतस्तत्रोदयास्तसूत्रादधः कुज्या। यदर्कोदयास्तसूत्रयोरन्तरं सा च हृतिरुच्यते। एवमन्त्यापि। अत्राहोरात्रवृत्तव्यासार्धं त्रिज्यातुल्यैरङ्कैरङ्क्यते तावत् त्रिज्यातुल्यं भवति। तैरङ्कैर्यावत् कुज्या गण्यते तावच्चरज्यातुल्या भवति। अथ चरज्यया त्रिज्या युतोनाऽन्त्यासंज्ञा भवति। नह्यन्त्याहृत्योः क्षेत्रसंस्थानभेदः। किन्त्वङ्कानां गुरुलघुत्वात् केवलं सख्याकृतो भेद इत्युपपन्नम्” प्रमिता०।
अन्त्यकम्मन् = न० अन्ते नाशे भवं कर्म्म। अन्त्येष्टिक्रियायाम्। “जायायै पूर्व्वमारिण्यै दत्त्वाग्नीनन्त्यकर्भणि” “व्रात्यानां याजनं कृत्वा परेषामन्त्यकर्म च अभिचारमहींनञ्च त्रिभिः कृच्छ्रैर्व्यपोहति” इति “जातकर्म्मान्त्यकर्माणि नवश्राद्धं तथैव चेति” च मनुः। “तमेनं मृतमितोऽस्माद्ग्रामात् अग्नये” इति छा० उप० अग्नयेऽग्न्यर्थमृत्विजोहरन्ति पुत्त्रा वान्त्यकर्म्मणि” इति छा० उप० भा०।
अन्त्यज = पु० स्त्री० अन्त्यः सन् जायते जन–ड। शूद्रे तस्थ वर्ण्णमध्ये शेषभवत्वात्तथात्वम्। “येन केनचिदङ्गेन हिंस्याच्चेच्छ्रेष्ठमन्त्यज” इति मनुः। “अन्त्यजः शूद्रः” इति कुल्लू०। शेषजातमात्रे त्रि०। अन्त्यश्चाण्डाल इव जायते जनड। रजकादिषु सप्तषु जातिषु पु० स्त्री० “रजकश्चर्मकारश्च नटो वरुड च। कैवर्त्तमेदभिल्लाश्च सप्तैते अन्त्यजाः स्मृताः” अत्रिसंहिता। “न शूद्रराज्ये निवसेदित्यधिकृत्य नोपसृष्टेऽन्त्यजैर्नृभिरिति” “सहस्रं त्वन्त्यजस्त्रियामिति” च मनुः।
अन्त्यजन्मन् = पु० स्त्री० अन्त्यं जन्म यस्य। शूद्रे, “प्रतिग्रहस्तु क्रियते शूद्रादप्यन्त्यजन्मन” इति मनुः। शेषजातमात्रे त्रि०।
अन्त्यजाति = पु० स्त्री० अन्त्या जातिर्यस्य। शूद्रे। “शरीरजैः कर्मदोषैर्याति स्थावरतां नरः। वाचिकैः पक्षिमृगतां मानसैरन्त्यजातितामिति” मनुः। चण्डालादौ च। “अन्त्यजातिरविज्ञातो निवेशश्चास्य वेश्मनीति” आप०।
अन्त्यभ = न० कर्म०। मीनराशौ, रेवतीनक्षत्रे च तयीः राशि चक्रस्यान्ते स्थितत्वात्तथात्वम्।
अन्त्ययोनि = पु० स्त्री० अन्त्या योनिरुत्पत्तिर्यस्य। शूद्रे, चण्डालादौ च “शूद्राश्च सन्तः शूद्राणामन्त्यानामन्त्ययोनय” इति मनुः।
अन्त्यवर्ण्ण = पु० स्त्री० कर्म्म०। शूद्रे। पदवाक्यादेरवसानस्थिताक्षरे पु०।
अन्त्यानुप्रास = पु० कर्म०। शब्दालङ्काररूपे अनुप्रासभेदे (१७८) पृष्ठेऽस्य विवरणम्।
अन्त्यावसायिन् = पु० स्त्री० “निषादस्त्री तु चण्डालात् पुत्त्रमन्त्यावसायिनम्। श्मशानगोचरं सूते” इति मनूक्ते निषादस्त्रियां चण्डालजाते (मुरदाफरास) इति ख्याते सङ्कीर्णवर्णे स्त्रियां ङीप्। “चण्डालः श्वपचःक्षत्ता सूतो वैदेहकस्तथा। मागघायोगवौ चैव सप्तैतेऽन्त्यावसायिनः” इत्यङ्गिरसोक्तचाण्डादिषु च। “अन्त्यावसायिनामन्नमश्नीयाद्यस्तु कामत” इति अङ्गिरःस्मृतिः।
अन्त्याश्रम = पुंन० कर्म्म०। चतुर्थाश्रमे भिक्षुरूपशेषाश्रमे।
अन्त्याश्रमिन् = पु० अन्त्याश्रमोऽस्त्यस्य इनि। चतुर्थाश्रमयुक्ते।
अन्त्याहुति = स्त्री कर्म्म०। अन्त्येष्टौ साग्निकस्य मृतस्य देहसंस्कारके यज्ञभेदे “अन्त्याहुतिं हावयितुं सविप्रा” इति भट्टिः।
अन्त्यूति = स्त्री अन्ति अन्तिकस्य वा ऊतिः रक्षणम् अव–क्विप् कलोपः। आसन्नरक्षणे “अहमन्त्यूतिमयोभुवमिति” ऋ० १, १३८, १।
अन्त्येष्टि = स्त्री अन्तेभवा इष्टिः। साग्निकस्य मृतस्य देहसंस्कारार्थमिष्टिभेदे तत्समत्वात् निरग्नेर्दाहमात्रसंस्कारे च। “पतितानां न दाहःस्यात् नान्त्येष्टिर्नास्थिसञ्चय” इति शु० त० स्मृतिः।
अन्त्र = न० अन्त्यते देहो बध्यतेऽनेन अति–बन्धने करणे ष्ट्रन्। देहबंन्धने–“उक्ताः सार्द्धास्त्रयो व्यामाः पुंसामन्त्राणि सूरिभिः अर्द्धव्यामेन हीनानि स्त्रीणामन्त्राणि निर्द्देशेत्”। इति वैद्यकोक्तपरिमाणवति नाडीभेदे। “सार्द्धत्रि व्यामान्यन्त्राणि पुंसः स्त्रीणामर्द्धव्यामहीनानि” सुश्रुतम्। “निर्य्यदन्त्रविभूषितमिति दुर्गाध्यानम्” “यस्यान्त्रमन्नैरुपलेपिभिरिति” सुश्रुतम्।
अन्त्रकूज = पु० अन्त्रस्य कूजः शब्दभेदः। अन्त्रविकूजने “पक्वाशयस्थोऽन्त्रकूजं शूलं नाभौ करोति वेति” सुश्रुतम्।
अन्त्रपाचक = अन्त्रस्थं दोषं पाचयति। त्वचिसारे निर्य्यासविषे औषधिभेदे “स्थावरञ्जङ्गमञ्चैव द्विविधं विषमुच्यते” इत्युपक्रम्य। “दशाधिष्ठानमाद्यन्तु द्वितीयं षोडशाश्रयमित्यभिधाय “मूलं पुत्रं फलं पुष्पं त्वक् क्षीरं सार एव च निर्य्यासाः धातवश्चैव कन्दश्च दशमः स्मृत” इति विशेषतः स्थावरस्य स्थानमुक्त्वा “अन्त्रपाचककर्त्त्ररीयसौरीयककरघाटक रम्भनन्दनवराटकानि सप्त त्वक्सारनिर्य्यासविषाणा- ञ्चेति” २५२ पृ० सुश्रुते उक्तम्। विवरणं विषशब्दे दृश्यम्।
अन्त्रमांस = न० “आन्त्रिकं छिद्रमार्गेण धौतं निर्मलधारिणा। तस्य खण्डान् संविधाय वेसवार (वेसम) युतान् पचेत्। निःसारं विरसोद्गारमन्त्रमांसमुदाहतमिति वैद्यकोक्ते पक्वमांसभेदे आन्त्रिके।
अन्त्रवृद्धि = पु० अन्त्रनिमित्ता वृद्धिः। सुश्रुतोक्ते रोगभेदे स च रोगः मु० २८९ पृ० सुश्रुते दर्शितो यथा “वातपित्तश्लेष्मशोणितमेदोमूत्रान्त्रनिमित्ताः सप्त वृद्धयः। तासां मूत्रान्त्रनिमित्ते वृद्धी वातसमुत्थे केवलमुत्पत्तिहेतुरन्यतमः।। अधःप्रकुपितोऽन्यतमो हि दोषः फलकोशवाहिनीरभिप्रपद्य धमनीः फलकोशयोर्वृद्धिं जनयति तां वृद्धिमित्याचक्षते।। तासां भविष्यन्तीनां पूर्ब्बरूपाणि बस्तिकटीमुष्कमेढ्रेषु वेदना मारुतनिग्रहः फलकोशशोफश्चेति तत्रानिलपरिपूर्ण्णां वस्तिमिवाततां परुषामनिमित्तानिलरुजं वातवृद्धिमाचक्षते, पक्वोडुम्बरसङ्काशां ज्वरदाहोष्मवतीं चाशु समुत्थानपाकां पित्तवृद्धिं, कठिनामल्पवेदनां शीतां कण्डूमतीं श्लेष्मवृद्धिं, कृष्णस्फोटावृतां पित्तवृद्धिलिङ्गां, रक्तवृद्धिं मृदुस्निग्धां कण्डूमतीमल्पवेदनां तालफलप्रकाशां मेदोवृद्धिम्।। मूत्रसन्धारणशीलस्य मूत्रवृद्धिर्भवति सा गच्छतोऽम्बुपूर्णा दृतिरिव क्षुभ्यति मूत्रकृच्छ वेदनां वृषणयोः श्वयथुं कोशयोश्चापादयति तां मूत्रवृद्धिं विद्यात्।। भारहरणबलवद्विग्रहवृक्षप्रपतनादिभिरायासविशेषैर्व्वायुरतिप्रवृद्धः प्रकुपितश्च स्थूलान्त्रस्येतरस्य चैकदेशं द्विगुणमादायाधोगत्वा वङ्क्षणसन्धिमुपेत्य ग्रन्थिरूपेण स्थित्वाऽप्रतिक्रियमाणे च कालान्तरेण फलकोशं प्रविश्य मुष्कशोफमापादयत्याध्मातो वस्तिरिवाततः प्रदीर्घः शोफो भवति सशब्दमवपीडितश्चोद्ध्वमुपैति। विमुक्तश्च पुनराथमति तामन्त्रवृद्धिमसाध्यामित्याचक्षते” इति। “षण्मासानुपयुज्यैतमन्त्रवृद्धिं व्यपोहति” सुश्रुतम्।
***