अनुवाक = पु० अनूच्यते अनु + वच–घञ् कुत्वम्। गानशून्ये ऋग्विशेषे, ऋग्यजुःसमूहे, शस्त्रनाम्ना ख्याते वेदांशे। “अग्निरेकाक्षरेणेत्यनुवाकं द्वादशवत् कृत्वेति” कात्या० १४, ५, २६, “चतुःकण्डिकात्मकमनुवाकं द्वादशवदिति” वेददीपः। “अध्यायानुवाकयोर्लुक्” पा० विमुक्तशब्दोऽस्त्यस्य अण् तस्य वा लुक्। वैमुक्तो विमुक्तो वा अध्यायः अनुवाको वा।

अनुवाक्या = स्त्री अनु + वच–ण्यत् कुत्वम्। ऋत्विग्भेदः प्रशास्ता तत्पाठ्यायां देवताह्वानसाधने ऋचि। “पुरोऽनुवाक्या याज्या वेति” यजु० “द्वे ऋचौ सुराग्रहाणार्थे थाज्यानुवाक्ये प्रथमानुवाक्या, सुतमिवेति याज्येति” वेददीपः। “पुरोऽनुवाक्या याज्या च शस्यैवेति” वृ० उप०। पुरोऽनुवाक्या प्राक्प्रयोगकालाद् याः प्रयुज्यन्ते ऋचः सा ऋग्जातिः पुरोऽनुवाक्येत्युच्यते इति भा०।

अनुवाच् = पु० अनुवाचयति अनु + वच–णिच्–क्विप्। अनुवाचके अध्यापके।

अनुवाचन = न० अनु + वच–णिच्–ल्युट्। अध्यापने। तत्प्रयोजनमस्य अनुप्रव० छ। अनुवाचनीयः अध्यापके त्रि०।

अनुवात = पु० अनुगतो वातः शिष्यादिदेशात् गुर्वादिदेशगन्तरि वायौ “प्रतिवातेऽनुवाते च नासीत गुरुणा सहेति” मनुः।

अनुवाद = पु० अनु + वद–घञ्। विधिप्राप्तस्य वाक्यान्तरेण कथने यथा अग्निहोत्रं जुहोतीति वाक्येन प्राप्तस्य होमस्यु दध्ना जुहोतीति वाक्येन पुनरनुवादेन दधिकरणकत्वमात्रं तत्र विधेयम्। तत्र होमस्यानुवादः एवमन्यत्राप्यूह्यम् अनुवादः पूर्ब्बस्येति का० ४, ३, १८, “य इष्ट्येत्यनेन वाक्येन पौर्णमास्याममावस्यायां वा विकृतीनामनुष्ठानमुच्यते तच्च प्रकृतितः प्राप्तमेव अतः कारणात् य इष्ट्येत्यनुवाद इति तद्व्या०। अनुवादश्च त्रिविध भूतार्थानुवादः स्तुत्यर्थानुवादः गुणानुवादश्चेति। तत्र सदेव सौम्येदमग्र आसीदित्यादौ भूतार्थानुवादः। “वायुर्वैक्षिपिष्ठा देवतेत्यादौ, स्तुत्यर्थानुवादः। वायव्यं श्वेतं छागनालभतेत्यादौ, प्राप्ताया वायुदेवतायाः स्तुत्यर्यत्वात् तस्य स्तुन्यर्यानुवादत्वम्। अग्निहोत्रं जुहोतीति प्राप्तस्याग्निहोत्रहोमस्य गुणविधानार्थं प्रवृत्तं दध्ना जुहोतीत्यादि गुणानुवादः। एवसन्यान्यप्युदाहार्य्याणि। अनुक्षणकथने। “क उत्तमः श्लोकगुणानुवादात् पुमान् विरज्येत विना पुशुघ्नादिति” भाग० “सिद्धोपदेशे च “अनुवादे चरणानामिति” पा०। “सिद्धोपदेशे” इति सि० कौ०।

अनुवादक = त्रि० अनुवदति अनु + वद–ण्वुल्। अनुवादकारके अनुवदनशीले च।

अनुवादिन् = त्रि० अनुवदति अनु + वद–णिनि। अनुवादकारके, अनुवदनशीले, युक्तगीतानुवादिनि च स्त्रियां ङीप्।

अनुवाद्य = त्रि० अनु + वद–ण्यत्। उद्देश्ये प्राप्तावपि किञ्चिद्विधानार्थमनुकीर्त्तनीये। “अनुवाद्यमनुक्त्वैव न विधेयमुदीरयेदिति वृद्धाः तथा च। पर्वतो वह्निमानित्येव प्रयोक्तव्यं व वैपरीत्येन, तथा प्रयोगे तु आलङ्कारिकैः वाक्यगतविधेया विमर्शदोषो भवतोति प्रतिपादितम् यथा “न्यक्कारो ह्ययमेव मे यदरयः” इति वाक्ये अयमेव न्यक्कार इति प्रयोक्तव्ये तद्वैपरीत्येन प्रयोगात्तथात्वम्। अतएव “वृद्धिरादैच्” इति पा० सूत्रे आदैच् वृद्धिसंज्ञः स्यादित्यर्थके वृद्धेर्विधेयत्वेन पूर्ब्बनिर्वेशावश्यम्भावेऽपि वृद्धिशब्दस्य मङ्गलार्थत्वेन प्राक्प्रयोगो भाष्यादौ समर्थितः यथा “पूर्ब्बोच्चारितः” संज्ञी परोच्चारितः संज्ञेत्याक्षिप्य “एतदेकमाचार्य्यस्य मङ्गलार्थं मृष्यताम्। माङ्गलिक आचार्य्यो महतः शास्त्रौघस्य मङ्गलार्थं वृद्धिशब्दमादितः प्रयुङ्क्ते। मङ्गलादीनि हि शास्त्राणि प्रथन्ते वीरपुरुषकाणि च भवन्त्यायुष्मत्पुरुषाणि च अध्येतारश्च वृद्धियुक्ता यथा स्युरित्यन्तेन”। “माङ्गलिको मङ्गलप्रयोजनः। महतोऽर्थतः एकैकं सूत्रं शास्त्रमिति शास्त्रौधस्येत्युक्तम्। मङ्गलादीनीत्यादिना स्वप्रयोजनं श्रोतृप्रयोजनञ्चोक्तम्। प्रथन्ते विस्तृतानि भवन्ति तेन समाप्तिरर्थाक्षिप्तेति” भा० उद्यो०।

अनुवासन = न० अनु + वास–सोरभ्ये ल्युट्। धूपादिभिः सुरभीकरणे, वैद्यौकोक्ते स्नेहाद्यैः वस्तिकर्म्मणि च। “द्विधावस्तिः परिज्ञेयो निरुहश्चानुवासनम्। कषायाद्यैर्निरुहः स्यात् स्नेहाद्यैरनुवासनम्” इति वैद्यकम्। अनुवसति, अनुवासरं दीयते वा पृ०। सुश्रुतोक्ते अनुवासनद्रव्ये पु०। तत्र यथाप्रमाणगुणविहितः स्नेहवस्तिविकल्पोऽनुवासनः पादावकृष्टः। अनुवसन्नपि न दुष्यत्यनुदिवसं वा दीयत इत्यनुवासनः। तस्यापि विकल्पोऽर्द्धार्द्धमात्रावकृष्टोऽपरिहार्य्यो मात्रावस्तिरिति”। “निरुहः शोधनो लेखी स्नेहनो वृंहणो मतः। निरुहशोधितान् मार्गान् सम्यक् स्नेहोऽनुगच्छति। अपेतसर्वदोषासु नाडीष्विव वहञ्जलम्। सर्वदोषहरश्चासौ शरीरस्य च जीवनः। तस्माद्धि शुद्धदेहस्य स्नेहवस्तिर्विधीयते” इति। “तत्रोन्मादभयशोकपिपासारोचकाजीर्णाशपाण्डुरोगभ्रममदमूर्च्छा च्छर्दि–कुष्ठ–मेहोदर–स्थौल्यश्वासकासकण्ठशोषशोकोषसृष्टक्षतक्षीणचतुस्त्रिमासगर्भिणी दुर्बलाग्न्युत्सहा बालवृद्धौ च वातरोगाद्धते क्षीणा नानुवास्या नास्थापयितव्या उदरी च प्रमेही च कुष्ठी स्थूलश्च मानवः। असाध्यता विकाराणां स्यादेषामनुवासनात्” इति च सुश्रुतम्। अजादिवस्तिचर्म्मधनवस्त्रादिनिर्मितेन (पिच्कारीति) प्रसिद्धयन्त्रेण धातुवैषम्यदोषनाशाय लिङ्गद्वारेण योनिद्वारेण वा दीयमानं स्नेहादिद्रव्यमनुवासन इति वैद्यकप्रसिद्धिः। अधिकं वस्तिकर्म्मशब्दे वक्ष्यते। अनुवासनं प्रयोजनमस्य अनुप्रवच० छ। अनुवासनीयः अनुवासनहेतौ त्रि०।

अनुवासित = त्रि० अनु–वास–क्त। सुरभीकृते, वस्तिकर्म्मणा चिकित्सिते च।

अनुवास्य = त्रि० अनु + वरु–कर्म्मणि यत्। सुरभीकार्य्ये वस्तिकर्म्मणा चिकित्स्ये च। “अवश्यं स्थापनीयाश्च नानुवास्या कथञ्चनेति” सुश्रुतम्।

अनुविधायिन् = त्रि० अनु + विधत्ते अनु + वि + धा–णिनि। पश्चाद्विधायिनि, अनुगते च। “गुणानां तदन्वयव्यतिरेकानुविधायित्वमिति” सा० द०।

अनुविद्ध = त्रि० अनु + व्यध–क्त। संसृष्टे। “न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते। अनुविद्ध इवार्थो हि सर्वः शब्देन भासते” इति वाक्यप०। “कीटानुविद्ध्वरत्नादिसाधारण्येन काव्यता। दुष्टेष्वपि मता यत्र रसाद्यनुगमः स्फुट” इति सा० द०।

अनुविन्ध्य = पु० अवन्तिदेशीये नृपतिभेदे “विन्ध्यानुविन्ध्यावावन्त्याविति” भा० भी० प०।

अनुवृत् = त्रि० अनु पश्चात् वर्त्तते अनु + वृत–क्विप्। पश्चाद्वर्त्तिनि पश्चाद्भाविनि अनुगते च “अनुवृदस्यनुवृते” इति ता० ब्रा०।

अनुवृत्त = त्रि० अनु + वृत–क्त। अनुगते, पूर्व्वसूत्रादपरसूत्रे आकाङ्क्षापूरणार्थम् अन्विते पदादौ, अनुक्रमेण वृत्तताप्राप्ते क्रमशः वर्त्तुलाकारे। अनुगतो वृत्तं शीलम् अत्या० स०। शीलानुगते त्रि०।

अनुवृत्ति = स्त्री अनु + वृत–क्तिन्। अनुसरणे, सेवने, पूर्बसूत्रादुत्तरसूत्रे आकाङ्क्षापूरणार्थमनुसरणे च। “कुशी दकृषिबाणिज्यशुल्कशालानुवृत्तिभिः कृतोपकारादाप्तञ्च राजसं समुदाहृतमिति” नारदः। “अनुवृत्तिः सेवेति” रषु०। “अनुवृत्तिं ध्रुवं तेऽद्व्य कुर्वन्त्यन्यमहीमृतामिति” देवी० तत्सत्त्वे तत्सत्त्वरूपे अन्वये, समन्वये च। एवं व्यावृत्त्यनुवृत्तिभ्यामन्नमयत्वं मनसः सिद्धमिति छा० उप० भा०। “जन्माद्यस्य यतोऽन्ययादिति” भागव०। “अन्वशब्देनानुवृत्तिरिति” श्रीघरः नह्यवबुद्धस्वभावा भिषजः स्वस्थानुवृत्तिं रोगनिग्रहणञ्च कर्त्तुं समर्था इति सुश्रुतम् “यासां सत्यपि सद्गुणानुसरणे दोषानुवृत्तिः परेति” सा० द०। दोषः दोषा च तदनुवृत्तिः मेवा अनुसरणञ्चेति तदर्थः।

अनुवेध = पु० अनु + विध–घञ्। संसर्गे। “नहि कीटानुवेधादयो रत्नस्य रत्नत्यं व्याहन्तुमीशा” इति सा० द०।

अनुवेल = न० वीप्सार्थे अव्ययी०। प्रतिसमये अनुक्षणे “इति स्म पृच्छत्यनुवेलमादृत” इति रघुः। अर्शआदि० अस्त्यर्थे अच्। तद्वृत्तौ त्रि०।

अनुवेल्लित = न० अनु + वेल्ल–क्त। सुश्रुतोक्ते ब्रणलेपनबन्धभेदे। बन्धाच्च “कोशदामस्वस्तिकानुवेश्लितप्रतोलीमण्डलस्थगिका यमकस्वट्टाचीनविबन्धवितानगोपणा पञ्चाङ्गी चेति चतुर्दश बन्धविशेषाः तेषा नामभिरेवाकृतयः प्रायेण व्याख्याता” इति सुश्रुतोक्ताः वेदितव्याः। तत्र अनुवेल्लितं तु शाखासु इति वैद्यकप्रसिद्धिः।

अनुवेश = पु० अनु + विश–घञ्। ज्येष्ठातिक्रमेण कनिष्ठस्य विवाहे “यवीयसोऽनुवेशो हि ज्येष्ठस्य विधिलोपक” इति भार०।

अनुवेश्य = त्रि० अनुक्रमेण वेशमहति यत्। प्रतिवेश्यानन्तरवासिनि। “प्रातिवेश्यानुवेश्यौ च कल्याणे विंशतिद्विजे” इति मनुः। “अनुवेश्यः प्रातिवेश्यानन्तरगृहवासीति कुल्लू०।

अनुव्य = त्रि० अनुव्ययति अनुगच्छति अनु + व्ये–क। अनुगते ततो देवा अनुव्यमिवासुः का० १, २, ५, अनुव्यम् अनुगमनं न्यग्भूतिं “प्राप्ता इव बभूवुरिति तद्व्या०।

अनुव्याख्यान = त० अनुरूपं व्याख्यानम् प्रा० स०। मन्त्रादीनामनुरूपार्थप्रकाशके व्याख्याने।

अनुव्याहार = पु० अनु + वि + आ + हृ–घञ्। अनुवादे, सहकथने च।

अनुव्रजन = न० अनु + व्रज + भावे ल्युट्। अनुगमने अनुव्रजनं च गच्छतोऽतिस्निग्धादेः जलसमीपपर्य्यन्तानुधावनम् तथैवोपमाविधया वर्ण्णितं नैषधे “वनान्तपर्य्यन्तमुपेत्य सस्पृहं क्रमेण तस्मिन्नथ तीर्ण्णदृक्पथे। न्यवर्त्तिदृष्टिप्रकरैः पुरौकसामनुव्रजद्बन्धुसमाजबन्धुभिरिति”।

अनुव्रज्या = स्त्री अनु + व्रज–क्यप्। अनुसरणादिरूपे सेवने। “अब्राह्मणादध्ययनमापत्काले विधीयते। अनुव्रज्या च शुश्रूषा यावदध्ययनं गुरोरिति” मनुः।

अनुव्रत = त्रि० अनुकूलं व्रतं कर्म्म यस्य। अनुकूलकर्म्मयुक्ते। “अनुव्रताय रन्धयन्नपव्रतायेति ऋ० १, ५, ९, अनुव्रताय अनुकूलकर्म्यणे इति भा०। वैश्याः क्षत्रमनुव्रताः रामा०

अनुशतिकादि = न० ६ ब० पाणिनीयगणपाठोक्ते ञिति णिति किति च तद्धिते परे द्विपदयोराद्यचोवृद्धिनिमित्तीभूते शब्दसमूहे, सच गणः। अनुशतिक, अनुहोड, अनुसंवरण, अनुसंवत्सर, अङ्गारवेणु, असिहत्य, अस्यहत्य, अस्यहेति, बध्योग, पुष्करसद्, अनुहरत्, कुरुकत, कुरुपञ्चाल, उदकशुद्ध, इहलोक, परलोक, सर्वलोक, सर्वपुरुष, सर्वभूति, प्रयोग, परस्त्री, (राजपुरुषात् ष्यञि) सूत्रनड, आकृतिगणोयम्। तेनाभिगम, अधिभूत, अधिदेव, चतुर्विद्या, इत्यादयोऽन्येऽपि।

अनुशय = पु० अनु + शीङ्–अच्। अत्यन्तद्वेषे, पश्चात्तापे, पूर्बवैरे च। अनुगतः शयं हस्तं गतिस० हस्तानुगते त्रि०। तत्र क्रीतादिपदार्थविशेषेणानुशयस्वरूपादि नारदेनोक्तम्। “क्रीत्वा मूल्येन यः पण्यं क्रेता न बहु मन्यते। क्रीतानुशय इत्येतद्धिवादपदमुच्यते”। तत्र च यस्मिन्नहनि पण्यं क्रीतन्तस्मिन्नेवाह्नि तदविकृतं प्रत्यर्पणीयमिति तेनैवोक्तम्। “क्रीत्वा मूल्येन यत् पण्यं दुःक्रीतं मन्यते क्रयी। विक्रेतुः प्रतिदेयन्तत्तस्मिन्नेवाह्न्यविक्षतमिति”। द्वितीयादिदिने तु प्रत्यर्पणे विशेषस्तेनैवोक्तः। “द्वितीयेऽह्नि ददत् क्रेता मूल्यात्त्रिंशांशमाहरेत्। द्विगुणन्तु तृतीयेऽह्नि परतः क्रेतुरेव तदिति”। परतोऽनुशयो न कर्त्तव्य इत्यर्थः। एतच्च वीजादिव्यतिरिक्तोपभोगादिविनश्वरवस्तुविषयम्। वीजादिक्रये पुनरन्य एव प्रत्यर्पणेऽवधिरित्याह। “दशैक- पञ्चसप्ताहमासत्र्यहार्द्धमासिकम्। वीजायोवाह्यरत्नस्त्री दोह्यपुंसां परीक्षणम्”। वीजं व्रीह्यादिवीजम्। अयो लौहम्। वाह्यो बलीवर्द्दादिः। रत्नं मुक्ताप्रबालादि। स्त्रींदासी। दोह्यं महिष्यादि। पुमान् दासः। एषां वीजादीनां यथाक्रमेण दशाहादेकः परीक्षाकालो विज्ञेयः। परीक्ष्यमाणे च वीजादौ यद्यसम्यग्बुद्ध्याऽनुशयो भवति तदा दशाहाभ्यन्तर एव क्रयनिवृक्षिः। न पुनरूर्द्ध्वमित्युपदेशप्रयोजनम्। यत्तु मनुवचनम्। “क्रीत्वा विक्रीय वा किञ्चित् यस्येहानुशयो भवेत्। सोऽन्तर्दशाहात् तद्द्रव्यं दद्याच्चैवाददीत वेति”। तदुक्तलोहादिव्यतिरिक्तोपभोगादिविनश्वरगृहक्षेत्रयानशयनासनादिविषयम्। सर्वञ्चैतदपरीक्षितक्रीतविषयम्। यत् पुनः परीक्षितन्न पुनः प्रत्यर्पणीयमिति समयं कृत्वा क्रीतं तद्दिकेत्रे न प्रत्यर्पणीयम् तदुक्तम्। “क्रेता पण्यं परीक्षेत प्राक् स्वयं गुणदोषतः। परीक्ष्याभिमतं क्रीतं विक्रेतुर्न भवेत् पुनरिति” मिता०। ततश्च क्रीतस्य, विक्रीतस्य, अन्यथा वा कृतस्य वस्तुनः, असमीचीनत्वबुद्ध्या यः पश्चात्तापः सोऽनुशय इति बोध्यम्। “भुक्तकर्म्मणोऽवशेषे च “कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवमिति” शा० सू० स्वर्गार्थकर्म्मणो भुक्तफलस्यावशेषः कश्चिदनुशयो नाम भाण्डानुसारिस्नेहवत् यथा हि स्नेहभाण्डं विरिच्यमानं न सर्वात्मना विरिच्यते भाण्डानुसार्य्येव कश्चित् स्नेहशेषोऽवतिष्ठते तथानुशयोऽपीति” भा०। “तत्र दृष्टं प्रत्यक्षं श्रुतिः सा हि सानुशयानामेवावरोहं दर्शयति यथा “तद्य इह रमणी चरणा अभ्यासोह यत्ते रमणीयां योनिमापद्येरन् ब्राह्मणयोनिं वा क्षतिययोनिं वा वैश्ययोनिं वा अथ य इह कपूयचरणा अभ्यासोह यत्ते कपूयां योनिमापद्येरन् श्वयोनिं वा शूकरयोनिं चाण्डालयोनिं वेति”। चरणशब्दे नानुशयः (शेषः) सूच्यते। दृष्टश्चायं जन्मनैव प्राण्युच्चावचरूपौपभोगः गविभज्यमान आकस्मिकत्वासम्भवात् अनुशयसडायं सूचयति अभ्युदयप्रत्यवाययोः सुकृतदुप्कृतहेतुकत्वस्य सामान्यतः शास्त्रेणावगमितत्वादिति च शा० भा०।

अनुशयाना = स्त्री अनु + शीङ–शानत्त्। परकीयनायिकाभेदे। तद्विवरणं नायिकाशब्दे दृश्यम्। अनुतापकर्त्तरि त्रि०।

अनुशयिन् = पु० अनु + शीङ्–इनि। यावत्कर्मक्षयं चन्द्रलोके स्थित्वा सावशेषे एव कर्म्मणि पश्चात्तापान्विततया भूमिलोके जन्मग्रहणायागन्तुं प्रवृत्ते जीवे। “यो यी ह्यन्नमत्ति अनुशयिभिः तदंशेन भावितत्वात् संस्कृतत्वाच्च संश्लिष्ट- रेतःसिगिति” छा० भा०। तस्य रेतःसिगाकृत्याः पूर्ब्बसम्मूतत्वात् तद्रूपेण गर्भाशयमनुप्रविष्टोऽनुशयी रेतःसिगाकृतिर्भवतीति आनन्द०। पश्चात्तापयुते त्रि०। पुण्षस्य अनुशयत एव भुक्तभोगायाः प्रकृतेस्त्यागः श्रुतावप्युक्तः। “अजामेकां लोहितशक्लकृष्णां बह्वीः प्रजाः सृजमानां स्वरूपाः। अजोह्येको जुषमाणोऽनुशेते जरात्येनां भुक्तभोगामजोऽन्य इति “यं संपद्य जहात्यजामनुशयी सुप्तः कुलायं यथेति” भाग०।

अनुशयी = स्त्री अनुशय्यते पश्चात्तप्यतेऽस्याम्। अनु + शीङधिकरणे अच् गौरा० ङीष्। पादरोगभेदे, “हरेदनुशयीं वैद्यः क्रियया श्लेष्मविद्रधेरिति” भावप्रकाशः।

अनुशर = पु० अनुशृणाति अनु + शॄ–कर्त्तरि–अच्। राक्षसे।

अनुशासन = न० अनुशिष्यते याथार्थ्येन निरूप्यते अनु + शास– भावे ल्युट्। याथार्थ्यज्ञापने, निरूपणे, कर्त्तव्योपदेशे च। “ऋणे देये प्रतिज्ञाते पञ्चकं शतमर्हति। अपह्नुते तद्द्विगुणं तन्मनोरनुशासनमिति” मनुः अनुशासनविरोधादिति वृद्धाः। करणे ल्युट्। तत्प्रतिपादके शास्त्रे यथा “अथ शब्दानुशासनम्”। “अनुशिष्यन्तेऽसाधुशब्देभ्यो विविच्य बोध्यन्तेऽनेनेति करणल्युडन्ततया शास्त्रपदेन सामानाधिकरण्यमिति भाष्यप्रदीपोद्द्योतः। “अथशब्दानुशासनं नाम शास्त्रमधिकृतं वेदितव्यमिति भाष्यम्”। “अथ योगनुशासातमिति” पातञ्जलसूत्रम् योगोऽनुशिष्यतेऽनेन तादृशं शास्त्रमधिकृतमिति तदर्थः उभयत्र अथशब्दस्याधिकारार्थं त्वात्तथात्वम् “नामलिङ्गानुशासनमित्यमरः” अनुशासनं धमानरूपणं प्रयोजनमस्य ठक् आनुशासनिकम्। महाभारतान्तर्गतानुशासनपर्व्वणि।

अनुशासितृ = त्रि० अनुशास्ति याथार्थ्येन कर्त्तव्यमुपदिशति अनु + शास–तृच्। कर्त्तव्योपदेशके। स्त्रियां ङीप्। औणा० तृन्। अनुशास्तापि तत्रार्थे त्रि० स्त्रियां ङीप्।

अनुशासिन् = त्रि० अनु + शास–णिनि। कर्त्तव्योपदेशके दण्ड यितरि च “एषस्तेनानुशासी राजेति” विक्र०।

अनुशिष्ट = त्रि० अनु + शास–कर्म्मणि क्त। कृतानुशासने, यस्य हितोपदेशः क्रियते तस्मिन्, दण्डिते च।

अनुशीत = अव्य० शीते विभ० अव्ययी०। शीते इत्यर्थे, पारमुखा० भवादौ ञ्य। आनुशीत्यः तद्भवादौ त्रि०।

अनुशीलन = न० अनुक्षणं शीलनं प्रा० स०। सतताभ्यासं अनुक्षणाचरणे “आनुकूल्येन कृष्णानुशीलनं भक्तिरुत्त सेति” भक्तिरसा० कृष्णस्यतद्गुणकीर्त्तनस्यानुशीलनं तदर्थः

अनुशोक = पु० अनु + शुच–घञ्। पश्चाच्छोके अनुशोचने।

अनुशोचन = न० अन + शुच–ल्युट्। अनुशोके। “इष्टं दत्तमधीतं वा विनश्यत्यनुकीर्त्तनात्। श्लाघानुशोचनाभ्यां च भग्नतेजो विभिद्यते” इति शु० त० देवलः। अनुशोचनं धनव्ययेन पश्चात्ताप इति रघुनन्दनः। स्वार्थे णिचि युच्। अनुशोचना तत्रैवार्थे स्त्री।

अनुशोचनीय = त्रि० अनुशुच्यते अनु + शुच–कर्म्मणि अनीयर्। अनुशोचनार्हे यमुद्दिश्य शोक क्रियते तस्मिन्।

अनुशो(शु)चित = न० अनु + शुच–भावे क्त उदुपधत्वात् वा न कित्त्वम्। अनुशोचने। अनुशोचितुमारब्धः आरम्भार्थे क्त वा गुणः। कृतशोचनारम्भे त्रि०।

अनुश्लोक = न० अनुश्लोक्यते गीयते अनु + श्लोक–कर्म्मणि अच्। महाव्रते गेये सामभेदे, “श्लोकेन स्तुवते पुरस्तात् सदसः, अनुश्लोकेन पश्चादिति” ता० ब्रा०। तच्च वेगानग्रन्थे ११२ प्रपा० आद्यम् सास।

अनुषक्त = त्रि० अनु + सन्ज–क्त। संलग्ने। “येऽत्र नकारानुषक्ता” इति सि० कौ०।

अनुषङ्ग = पु० अनु + सन्ज–घञ्। दयायां दयया हि अन्यदुःखेनान्यदुःखसम्बन्धात्तथात्वम्। प्रसङ्गे, प्रसङ्गश्च अन्योद्देशेन प्रवृत्तस्य तन्नान्तरीयकविधयान्यसिद्धिः यथा “विप्रबधप्रायश्चित्तेन तन्नान्तरीयकविधया अवगोरदण्डनिपातनप्रायश्चित्तसिद्धिः। “क्षयं केचिदुपात्तस्य दुरितस्य प्रचक्षते। अनुत्पत्तिं तथाचान्ये प्रत्यवायस्य मन्वते। नित्यक्रियां तथाचान्ये ह्यनुषङ्गफलां श्रुतिमिति” प्रा० त० आप० स्मृ०। अनुषङ्गेण फलं यस्या इति तदर्थः। एकत्र वाक्ये श्रुतस्य शब्दस्यान्यत्र वाक्येऽन्वयार्थमाकर्षणे। यथा “नित्यक्रियां तथा चान्ये” इति वाक्ये पूर्व्ववाक्योपात्तस्य मन्वते इति क्रियापदस्यान्वयार्थमाकर्षणम्। तथा पञ्चावयवन्यायवाक्येषु उपनयवाक्यस्थस्य अयमिति पदस्य निगमनकाक्येऽन्वयार्थमाकर्षणम्। यथा वह्निव्याप्यो धूमो धमावांश्चायमिति उपनयवाक्यस्थस्य अयमिति शब्दस्य तस्माद्वह्निमानिति वाक्येऽन्वयेन अयं वह्निमानिति बोधः। अतएव शास्त्रकारैः पूर्ब्बत्र श्रुतशब्दस्योत्तरत्रानुकर्षणबोघनाय एतत्पदमनुषञ्जनीयमित्युक्तम्।

अनुषङ्गिन् = त्रि० अनुक्षणं सजते अनु + सन्ज घिनुण्। अनुक्षणं प्रसक्ते। “सप्तकस्यास्य वर्गस्य सर्वत्रैवानुषङ्गिणः। पर्ब्बं पूर्ब्बं गुरुतरं विद्याद्व्यसनमात्मन” इति मनुः। अनुषङ्गिणः प्रायेणावस्थितस्येति” कुल्लू०। व्यापके च। “विभुतानुषङ्गि भयमेति जन इति “किरा० विभुतायाः प्रभुत्वस्यानुषङ्गि व्यापकमिति” तट्टीकायां मल्लिनाथः।

अनुषज् = अव्य० अनु + सन्ज–क्विप्। आनुपूर्ब्बो। स्वरादेराकृतिगणत्वादय तद्गणीयः” इति मनो०। पृ० दीर्घः। आनुषगप्यत्रार्थे अव्य०।

अनुषिक्त = त्रि० अनु + सिच–क्त। सततसिक्ते पश्चात्सिक्ते च।

अनुषेचन = न० अनु + सिच–भावे ल्युट्। अनुक्षणसेचने पश्चात्सेचने च।

अनुष्टुति = स्त्री अनु + स्तु–क्तिन्। अनुक्रमेण स्तुतौ “यः पूर्ब्ब्यमनुष्ठुतिमीशे इति ऋ० ८, ६८, अनुष्टुतिम् अनुक्रमेण क्रियमाणां स्तुतिमिति भाष्यम्।

अनुष्टुब्गर्भा = स्त्री ६ ब०। “आद्यः पञ्चाक्षरः” पादः उत्तरेऽष्टाक्षरास्त्रयः अनुष्टुब्गर्भैव सोष्णिक्सेत्युक्तलक्षणे छन्दोभेदे। “अद्यः पञ्चकस्त्रयोऽष्टका अनुष्टुब्गर्भा” इति का० सर्वा०

अनुषण्ड = अव्य० षण्डः पद्मसमूहस्तत्र विभ० अव्ययी०। षण्डे इत्यर्थे। तत्र जातादि कच्छादि० अण्। आनुषण्डस्तज्जाते त्रि०।

अनुष्टुभ् = स्त्री अनु + स्तुन्भ–क्विप् षत्वम्। सरस्वत्याम्, अष्टाक्षरपादके, छन्दोभेदे वाचि च। अनुष्टुप्छन्द इति य० १५, ५, “अनु निरन्तरं स्तुभ्यतेऽनया अनुष्टुप् वाक्” वागेव संस्तुप् छन्दः “वागनुष्टुप् छन्द” इति श्रुतेरिति वेददी०। “अनुष्टोभनादनुष्टुबिति” ब्राह्मणे निरुक्तिः। “गायत्र्युष्णिगनुष्टुप् चेति वृत्त०। अनुष्टुप् च द्विविधा यथा कथञ्चिदअष्टाक्षरपादिका जातिः, विशेषसन्निवेशयुक्ताक्षरं छन्दश्च। तत्र जातेः २५६ भेदाः। “पञ्चमं लघु सर्व्वत्र सप्तमं द्विचतुर्थयोः। गुरु षष्ठञ्च पादानां शेषेर्ष्वनियमो मत” इति छन्दोमञ्जर्य्युक्तलक्षणं द्वितीयम्। तस्य च पञ्चमलघुत्वं व्यभिचरति च “यियक्षमाणेनाहूत” इति माघः। तस्य च मात्रावृत्तरूपत्वं यथा “प्रयोगे प्रायिकं प्राहुः केऽप्येतद्वक्तलक्षणम्। लोकेऽनुष्टुबिति ख्यातम् तस्याष्टाक्षरता कृतेति छन्दोम०। अतएव वृत्तरताकरे “वक्त्रं नाद्यान्नसौ स्या मब्देर्योऽनुष्टुभि ख्यातमिति” वक्त्रनामतोक्ता। वर्ण्णवृत्तस्य तु वितानमिति नाम यथोक्तं वृत्तरत्नाकरे “वितानमाभ्यां यदन्यदिति।” आभ्यां समानिकाप्रमाणिकाभ्यामन्यत् सर्वमित्यर्थः। “अथ छन्दांसि गायत्र्युष्णिगनुष्टुब्वृहतीपङ्क्तित्रिष्टु बित्याद्युपक्रम्य चतुर्विशत्यक्षरादीनि चतुरुत्तराणि, ऊनाधिकेनैकेन निचृद्भूरिजौ, द्वाभ्यां विराट्स्वराजौ, पादपूरणार्थं तु क्षिप्रसंयोगैकाक्षरीभावात् व्यूहेदिति “अनादेशेऽष्टाक्षराः पादाश्चतुष्पदाश्चर्च इति तृतीयमनुष्टुबिति” च कात्या० सर्व्वानुक्र० “शुचिमनुष्णिहा प्राणमनुष्टुभेति” यजु०।

अनुष्ठ = त्रि० अनुक्रमेण तिष्ठति अनु + स्था–क षत्वम्। अनुक्रमेण स्थातरि “हिता विश्वा अनुष्ठा प्रवणेषु जिघ्नते इति ऋ० १, ५४, १०, अनुष्ठाः अनुक्रमेण तिष्ठन्तीरिति भाष्यम्। भावे अङ् टाप्। अनुष्ठाने स्त्री।

अनुष्ठातृ = त्रि० अनु + स्था–तृच् स्त्रियां ङीप्। विधानकर्त्तरि “शास्त्रदेशितं फलमनुष्ठातरीति” न्यायवाक्यम्।

अनुष्ठान = न० अनु + स्था–भावे ल्युट् षत्वम्। विहितकर्म्मादिकरणे। अलब्धलाभादिकमभिधाय “एतच्चतुर्विधं विद्यात् पुरुषार्थप्रयोजनम्। अस्य नित्यमनुष्ठानं सम्यक् कुर्य्यादतन्त्रित” इति मनुराह स्म “उपरुध्यते तपोऽनुष्ठानम्” शकु०।

अनुष्ठित = त्रि० अनु + स्था–कर्म्मणि क्त। विधानेन कृते धर्म्मकार्य्यादो “अस्माभिर्यदनुष्ठेयं गन्धर्वैस्तदनुष्ठितमिति” भा० व० प०।

अनुष्ठु = अव्य० अनु + स्था–कु। सम्यगित्यर्थे “पांर्थिवानामृतून् प्रासासद्विदधावनुष्ठु इति ऋ० १, ९५, ३, अनुष्ठु इत्येतदव्ययं सम्यकसमानार्थं सुष्ठु यथेति भा०।

अनुष्ठेय = त्रि० अनु + स्था–कर्म्मणि यत्। विधेये। “अस्माभिर्यनुष्ठेयं भन्धर्वैस्तदनुष्ठितमिति” भा० व० प०।

अनुष्ण = त्रि० न उष्णः न० त०। उष्णभिन्ने शीतपदार्थे “अनुष्णाभिरफेनाभिरद्भिस्तीर्थेन धर्भविदिति” मनुः। न उष्णः विरोधे न० त०। अलसे। अलसो हि शीतबाधाभावेऽपि शीतबाधामभिनयन् कर्त्तव्यकर्न्मणि जड इव भवति दक्षस्तु शीतेऽपि तदगणयित्वा कर्त्तव्यकरणाव अजड इव सन् व्याप्तियते इति तयोरुष्णानुष्णता। अत्र कारिण्यर्थे कनि अनुष्णकोऽपि। उत्पले न०। उष्णभिन्ने शीतले स्पर्शे पु० “अनुष्णाष्णीतपाकज” इति भाषा०। अनुष्णः स्पर्शश्च पृथिवीसमीरणयोः, तयोरौष्ण्योपलब्धिस्तु तेजःसंयोगविशेषादिति बोध्यम्।

अनुष्णगु = पु० अनुष्णाः शीतला गावः किरणाः अस्य। चन्द्रे अनुष्णकिरणादयोऽप्यत्र पु०।

अनुष्णवल्लिका = स्त्री अनुष्णा शीतला वल्लीव इवार्थे कनि टापि अत इत्त्वम्। नीलदूर्व्वायाम्।

अनुसंवत्सर = अव्य० संवत्सरे विभक्त० वीष्मायां वा अव्ययो०। वत्सरे इत्यर्थे, प्रतिवर्षे च। तत्र भवादौ ठञ्, अनुशतिका० उभयपदवृद्धिः। आनुसावतसरिकः प्रतिवर्षभवे त्रि०।

अनुसंवरण = न० अनु + सम् + वृ–ल्युट्। अनुक्रमेण गोपने। अनुसंवरणाय हितम् ठण् अनुशतिका० द्विपदवृद्धिः। आनुसांवरणिकः तद्भवादो त्रि०।

अनुसंहित = त्रि० अनु + सम् + धा–कर्म्मणि क्त। कृतानुसन्धाने यस्य ज्ञानार्थमन्वेषणादिकम् क्रियते तस्मिन्। संहितायां विभ० अव्ययी०। संहितायामित्यर्थे। ‘अथैके प्राहुरनुसंहितमिति ऋग्वेदप्रातिणाख्यम्।

अनुसन्तति = स्त्री अनुक्रमेण सन्ततिः। अविच्छेदधारायाम् “अनुसन्तिपातिनः पटुत्वभिति” माघः।

अनुसन्धान = न० अनु + सम् + घाञ्–ल्युट। अग्नेषणे, चिन्तने च

अनुसन्धेय = त्रि० अनु + सम् + धा कर्म्मणि अहाद्यर्थे वा यत्। अन्सन्धातुं योग्ये, अनुसन्धातव्ये च।

अनुसर = त्रि० अनुसरति पश्चाद् गच्छति। अनु + सृ–ट स्त्रियां ङीप्। अनुचरे सहगन्तरि च।

अनुसरण = न० अनु + सृ–ल्युट्। अनुगमने, सदृशीकरणे च।

अनुसवन = अव्य० सवनस्य पश्चात् अव्ययी०। सवनस्य (स्नानस्य) पश्चात् सवने, “अनुसवनमेनमालभेरन्निति का० २५, १३, २६, एनं ज्वराछभिभूतं दीक्षितं सर्व्वे ऋत्विजः सवनान्तेषु स्पुशेयुरिति तदव्याख्या।

अनुसाय = अव्य० साये विभ० अव्ययी०। सायाह्ने इत्यर्थे तत्रभवः पारिमुखा० ञ्य। आनुसाय्यः तत्रभवे त्रि०।

अनुसार = पु० अनु + सृ–घञ्। अनुसरणे, “धर्मशास्त्रानुसारेण क्रोधलोभविवर्जितः” इति या० स्मृतिः। “कृतानुसारादधिका व्यातारक्ता न सिध्यतीति” मनुः।

अनुसारणा = स्त्री अनु + सृ + णिच्–युच् सारणा अनुगत्य सारणा चालना। अनुधावने, अपसारणायाम्, भीतिहेतोरनुधावने हि भीतस्य चालना भवतीति तस्य सरणाहेतुत्वम् “तस्मात् पलायमानानां कुर्य्यान्नात्यनु सारणाम्” भा० शा० प०।

अनुसारिन् = त्रि० अनुसरति पश्चाद् गच्छति अनु + ऋ–णिनि। अनुगलरि। “कृष्णसारे ददच्चक्षुस्त्वयि चाधिज्यकार्मुके। मृगानुसारिणं साक्षात् पश्यामीव पिनाकिन” मिति शकु०। “यदा यदा सतां हानिर्वेदमार्गानुसारिणामिति” पुरा०।

अनुसूया = स्त्री अनुसूयते अनु + सू–क्यप्। शकुन्तलासहचरीभेदे शकु०। अनुसूयेत्येके।

अनुसृति = स्त्री अनु + सृ–क्तिन्। अनुसरणे। अनुसरति वुलान्तरं कर्चारि संज्ञायां क्तिच्। कुलटायां स्त्रियां, स्त्री। तस्याः अपत्यं मतान्तरे कल्याण्यादि० ढक् इनङ् च। आनुसृतिनेयः तदपत्ये पु० स्त्री०।

अनुसृष्टि = स्त्री अनु + सृज–क्तिन्। अनुसर्जने। कर्त्तरि संज्ञायां क्तिच्। प्रत्युत्पन्नमतौ स्त्रियां स्त्री। तस्याः अपत्यम् कल्याण्यादि० ढक् इनङ् च। आनुसृष्टिनेयः तदपत्ये पु० स्त्री०।

अनुसेविन् = त्रि० अनुक्षणं सैवते अनु + सेव–णिनि स्त्रियां ङीप्। सततसेविनि “क्रूरकर्म्मानुसेविनीमिति” रामा०।

अनुस्तरण = त्रि० अनुस्तीर्त्यते अनु + स्तॄ–क्वरणे ल्युट्। आच्छादने चर्म्मादौ स्त्रियां ङीप्। “अनुस्तरण्या वपामुत्खिद्य शिरोमुखं प्रच्छादयेदिति” ता० ब्रा०। तत्साधने स्त्रीगव्यां स्त्री। “अनुस्तरणीं गामजां वैकवर्णां कृष्णामेके सव्ये वाहौ बद्ध्वेति” श्रुतिः। “सेयं गौः स्तृतं दीक्षितमनुस्तृतत्वाद्धिंसितत्वाच्चानुस्तरणीत्युच्यते” इति तन्निरुक्तब्राह्मणम्। अनुतीर्य्यते वैतरणी नदी अनया अनु + तॄ–करणे ल्युट् पृ० सुट्। वैतरणीनद्युत्तारिकायां गवि स्त्री। “तस्मात् पुरुषाय पुरुषानुत्तरणी क्रियते इति” श्रुतिः।

अनुस्मृति = स्त्री अनु + स्मृ–क्तिन्। अनु रूपचिन्तने आलम्बनसदृशतया चिन्तने “अनुस्मृतेर्वादरिरिति” शा० सू०। प्रादेशमात्रत्वेन अयम् (परमेश्वरः) अप्रादेशमात्रोऽप्यनुस्मरणीयः प्रादेशमात्रप्रत्ययवत्त्वाय। एवमनुस्मृतिनिमित्ता परमेश्वरे प्रादेशमात्रश्रुतिरिति वादरिराचार्य्योमन्यते इति भा०। “प्रादेशमात्रोऽह्यपरोऽपि दृष्ट इत्यादौ श्रुत्यौ प्रादेशमात्रश्रवणमनुस्मृत्यर्थमित्यत्र तत्तात्पर्य्यम्।

अनुस्यूत = त्रि० अनु + सिव–क्त ऊट्। ग्रथिते, सततसंबन्धे च। “स्रक्सूत्रवत् सर्व्वानुस्यूतेति” ति० त० रघुनन्दनः।

अनुसमाहार = पु० अनु + सम् + आ + हृ–घञ्। अनुसन्धाने “अनुसमाहरतीत्यस्यानुसन्धत्ते” इति भाष्ये व्याख्यानात्तथात्तम्।

अनुस्वार = पु० स्वृ–अप् उदात्तादिस्वरवत्त्वात् स्वराः स्वरवर्णाएव स्वाराः अनुगतः स्वारान् अत्या० स०। स्वराश्रयेण उच्चार्य्यमाणे विन्दरेखया व्यज्यमानेऽनुनासिके वर्णभेदे। “अनुस्वारो विसर्गश्चेंत्युपक्रस्य “आश्रयस्थानभागिन” इत्युक्तेस्तस्य तयात्वम्। सानुस्वारो विसर्गी च दीर्घश्चैव गुरुर्भवेत् छन्दोम०। “अनुस्वारो विसर्गश्च + क~पौ चापि पराश्रितौ। अयोगवाहा विज्ञेया आश्रय थानमागिन” इति शिक्षा।

अनुहरण = न० अनु + हृ–ल्युट्। देशभाषाचेष्टादिना सदृशीकरणे, सादृश्यधर्म्माविष्करणे च।

अनुहार = पु० अनु + हृ–षञ्। अनुकरणे पश्चाद्धरणे च।

अनुहार्य्य = त्रि० अनु + हृ–ण्यत्। सदृशीकार्य्ये।

अनुहृत = त्रि० अनु + हृ–क। अनकृते सदृशीकृते।

अनुहोड = त्रि० होडे विभक्त्य० अव्ययी०। हाडे इत्यर्थे। तत्र भवादौ ठक् अनुशतिका० द्विपदवृद्धिः। आनुहोडिकः। होडभवे त्रि०।

अनूक = पु० अनु + उच–समवाये क नि० कुत्वम्। गतजन्मनि। सुशीले न०। वङ्क्र्याधारे पृष्ठास्थिभेदे पु०। यन्न शीर्ष्णोऽवद्यति नांसयोर्नानूकस्य नापरसक्थयोरिति” शत० ३, ८, ३, २७, भाष्यकृता तथैव व्याख्यातम। चयनसाधने यज्ञिये इष्टकोपधायकपात्रभेदे न०। “अयुग्मागणमध्यमानूके” इति कात्या० १६, ७, २२। अयुग्मो य इष्टका गणः तासां मध्यमाऽनूके उपधेया इति। “एका च” कात्या० १६, ७, २३। यांचैकेष्टका साप्यनूक एव। “अभितो युग्माः २४, अनूकमभितो युग्मा अर्द्धार्द्धिकया इति तद्व्या०। “साध्यमनूकं वक्त्रादिति” वृहत्संहितोक्तेपुरुषलक्षणभेदे न०।

अनूकाश = पु० अनु + काश–घञ् उप० दीर्घः। अधस्तनदेहादिप्रकाशे “प्रकाशेनान्तरमनूकाशेन कहप्रनिति” य० २५, २ “अनृकाशेनाधस्तनदेहकान्त्ये त” वेददीपः।

अनूचान = पु० अनु + वच–कान नि०। शिक्षादिषडङ्गसहितवेदाध्ययनकारिणि, वेदार्थानुवचनसमर्थे च। “इदमूचुरनुचानाः प्रीतिकण्टकितत्वच” इति कुमा० “सह द्वादशवर्ष उपेत्य चतुर्विंशतिवर्षः सर्व्वान् वेदानधीत्य महामना अनूचानमानी स्तब्ध एयाय” छा० उप०। “बालाकिर्हानूचानमना आसेति” छा० उ०।

अनूच्य = त्रि० अनूच्यते अनु + वच–क्यप्। अनुवाच्येते पाठ्ये “पश्चादरण्येऽनूच्यमिति” “विमुखेनारण्येऽनूच्यमिति” च का० १८, ४, २०, २४।

अनूढ = त्रि० अनु + वह–क्त। अविवाहिते। “परिवेत्तानुजोऽनूढे ज्येष्ठे दारपरिग्रहा” दित्यमरः। स्त्रियां ङीप्।

अनूत = स्त्री वे–क्तिन् अभावे न० त०। गमनाभावे। “अस्तूती अनूती हिरिशिप्रःसत्वा” इति ऋ० ६, २९, ६। “अनूत्या अनागमनेनेति” भा०।

अनूदित = त्रि० अनु + वद–क्त। यस्य तुल्यार्थकमाषान्तरेणानुवादः कृतः, तस्मिन् पदार्थे अनुवादविषये च।

अनूद्य = अव्य० अनु + वद–ल्यप्। अनुवादं कृत्वेत्यर्थे। अनु + वद–क्यप्। अनूच्ये अनुवादार्हे।

अनून = त्रि० न ऊन ः न० त०। परिपूर्णे, समग्रे, अहीने च। “अनूपराजस्य गुणैरनूनामिति” रघुः। नूनं निश्चितं न० त०। अनिश्चिते। स्वार्थे कन् तत्रैवार्थे।

अनूप = त्रि० अनुगता आपो यत्र ७ ब० अच्मास० अतौत्वम्। जलप्ताये स्थाने। “शकटः शाकिनी गावो जालमस्पन्दनं वनम्। अनूपं पशवो राजा दुर्भिक्षे नव वृत्तय” इति आह्नि० त० छागलेयः। तत्स्थले सर्व्वदावासिनि महिषे पु०। “बह्वम्बुर्बहुवृक्षश्च वातश्लेष्मामयान्वितः। देशोऽनूप इति ख्यात” इत्युक्ते “अनूपसर” इति प्रसिद्धे देशभेदे पु०। “अनूपराजस्य गुणैरनूनामिति” रघुः।

अनूपज = न० अनूपे जलप्राये देशे जायते जन–ड ७ त०। (आदा) इति ख्याते आर्द्रके, तस्य जलप्रायीद्भवत्वात्तथाअम्। तत्स्थानजातमात्रे त्रि०।

अनूप्य = त्रि० अनूपदेशे भवः यत्। अनुगतजलदेशभवे “शन्न आपो धन्वन्याः शमनः सन्त्वबूप्या” इति स्नानमात्रः।

अनूबन्ध्य = त्रि० अनु + बन्ध–ण्यत् उपस० दीर्घः। बधार्थं बन्धनीये यज्ञिये पशौ, “वशामगबन्ध्यामालभेत” इति शत० २, ४, ४, १४, “अनुबन्ध्यवेदेति” आश्व०।

अनूयाज = पु० अनु + यज घञ् उपसर्गस्य वा दीर्घः। अनुयाजार्थे।

अनूरु = पु० न स्त ऊरू यस्य ब०। सूर्य्यसारथौ विनताज्येष्ठपुत्रे अरुणे। तस्य अपूर्णे एव गर्भे मात्रा अण्डस्य स्थोटनादूरुप्रभृतृद्भावकलत्वम् गत्कथा भा० आदिप०। यथा “ततः पुत्रार्थिनी देवी व्रीडिता च तपस्विनी। अण्डं बिभेद विनता तत्र पुत्रमपश्यत। पूर्ब्बार्द्धकायसम्पन्नभितरेणाप्रकाशता। स पुत्रः क्रोधसंरब्धः शशापैनामिति श्रुतिः। योऽहमेवं कृतो मातस्तया लोभपरीतया। शरीरेणासमग्रेण तष्माद्दासी भविष्यसि। पञ्चवर्षशतान्यस्या यया विष्पर्द्धसे सह। एष च त्वां सुतो मातर्द्दासीत्वान्मोचयिष्यति। यद्येनमपि मातस्त्वं मामिवाण्डविभेदनात्। न करिष्यस्यनङ्गं वा व्यङ्गं वापि यशस्विनम्। प्रतिपालयितव्यस्ते जन्मकालोऽस्य धीरया। विशिष्टं बलमीप्सन्त्या पञ्चवर्षशतात्परः। एवं शप्त्वा ततः पुत्रो विनतामन्तरीक्षगः। अरुणो दृश्यते ब्रह्मन् प्रभातसमये सदा। आदित्यरथमध्यास्ते सारथ्यं ममकल्पयदिति”। “गतं तिरश्चीनमनूरुसारथेरिति” माघः।

अनूरुसारथि = पु० अनूरुः सारथिः रथनियन्ता यस्य। सूर्य्ये तत्कथाऽनुपदमुक्ता।

अनूराध = त्रि० अनु + राध–षञ् उपस० दी०। अनुराधनीये “इन्द्रं वयमनूराधं हवामहे” इति अथ० १९, १५, २।

अनृच = पु० नास्ति अभ्यस्ततया ऋक् यस्य अच् समासान्तः। ऋक्थून्ये अनुपनीते बालके। “अनृचबह्वचावध्येतर्य्ये वेति” सि० कौ०। “यथा चाज्ञेऽफलं दानं तथा विप्रोऽनृचोऽफलः” मनुः। “अनृचः अनधीयान इति” कुल्लू०। “अनृचो माणवक रति” मुग्धबोधम्। समासान्तविधेरनित्यत्वात् क्वचित् न अच्। “तेन सहस्रं हि सहस्राणामनृचां यत्र भुञ्जते इति” “तथानृचे हविर्दत्त्वा न दाता लभते फलमिति” च मनुः। समासान्तपक्षे अनृचे इति विवक्षया सप्तमी, तदभावपक्षे चतुर्थीति भेदः। अध्येतरीत्युक्तेः “अनृक् सामेति” सि० कौ०। अजभावपक्षे विभाषया कप्। अनृक्कः ऋक्शून्ये त्रि०।

अनृजु = त्रि० न ऋजुः। शठे वक्रे कुटिले च। “न पाणिपाद चपलो न नेत्रचपलोऽनृजुः” रति मनुः। “या भ्रातुरग्रे अनृजोरृणमिति” ऋ० ४, ३, १३। “लग्नात् पापावृज्वनृजू व्ययार्थस्थौ यदा तदा। कर्त्तरी नाम सा ज्ञेया मृत्युदारिद्र्यशोकदेति” मुहूर्त्तचि०। ऋजुर्मार्गगामी पूर्ब्बगतिः, अनृजुः वक्री पश्चाद्गतिरिति तदर्थः।

अनृण = त्रि० न ऋणं यस्य। ऋणशून्ये। ऋणञ्च अवश्यदेयम् तच्च उत्तमर्णाय दातव्यत्वेन स्वीकृतं धनम्। तच्चावश्यं शोध्यं तदशोधने “ऋणानामनपक्रियेत्युक्तेरुपपातकं भवति। अवश्यशोध्यत्वेन तत्सदृशम् वेदाध्ययनादिकमपि ऋणशब्देन व्यवह्रियते “जायमानो र्व पुरुषस्त्रिभिरृणैरृणी भवति स्वाध्यायेन ऋषिभ्यः, यज्ञेन देवेभ्यः प्रजया पितृभ्य” इति श्रुतिः एवञ्च वेदाध्ययनादिना ऋष्यादीनामृणशोधने अनृणो भवतीति स्मृत्यादौ प्रसिद्धम्। एवञ्च “ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेदिति” ऋणशून्यस्यैव मोक्षाधिकारः। अतएव मनुना “दशलक्षणकं धर्म्ममनुतिष्ठन् समाहितः। वेदान्तं विधिवच्छ्रुत्वा संन्यसेदनृणी द्विज” इति अनृणस्यैव संन्यासोऽभिहितः। “ज्येष्ठेन जातमात्रेण पुत्री भवति मानवः। पितॄणामनृणश्चैव स तस्मात् सर्व्वमर्हतीति” मनुः। “एष वा अनृणः यः पुत्रीति” श्रुतिः। कृतोपकारस्य प्रत्युपकारोऽपि ऋणत्वेन स्वीक्रियते। तदभिप्रायेणैव “प्राणैर्दशरथप्रीतेरनृणं कण्टवर्त्तिभिरिति” रघौ वर्णितम्।

अनृणिन् = त्रि० न ऋणी स्त्रियां ङीप्। ऋणिभिन्ने “दिवस्याष्टमे भागे शाकं पचति यो नरः। अनृणी चाप्रवासी च स वारिचर! मोदते, इति भा० व० प०। “एकमप्यक्षरं यस्तु गुरुः शिष्ये निवेदयेत्। पृथिव्यां नास्ति तद्द्रव्यं यद्दत्त्वा सोऽनृणी भवेदिति” पु०।

अनृत = न० न ऋतम्। सत्यभिन्ने मिथ्याभूते। “यद्वाहमभिदुद्रोह यद्वा शेप उतानृतमिति” ऋ० १, २३, २२। “प्रियञ्च मानृवं ब्रूयादेष धर्म्मः सनातन” इति मनुना मिथ्याभूतं प्रियवाक्यमपि निषिद्धं तत्र साक्ष्यनृतभाषणस्यातीवनिन्द्यता यथा “यावतो बान्धवान् यस्मिन् हन्ति साक्ष्येऽनृतं वदन्निति” “एषामन्यतमे स्थाने यः साक्ष्यमनृतं वदेदिति” च मनुः। “ये च पाषकृतां लोका महापातकिनां तथा। अग्निदानाञ्च ये लोकाः ये च स्त्रीबालधातिनाम्। स तान् सर्व्वानवाप्नोति यः साक्ष्यमनृतं वदेदिति” या०। “ब्रूहि साक्षित्! ययातत्त्वं लम्बन्ते पितरस्तव। तव वाक्यमुदीक्ष्यैवमुत्पतन्ति पतन्ति च।। भग्नो मुण्डः कपाली च भिक्षार्थं क्षुत्पिपासितः। अन्धशत्रुकले गच्छेद् यस्तु साक्ष्यनृतं वदेत्।। पञ्च कन्यानृते हन्ति दश हन्ति गवानृते। शतमश्वानृ हन्ति, सहस्रं पुरुषानृते।। वशि० स०। क्वचिद्विपये तदपवादः। “वर्णिनां हि बधो यत्र तत्र साक्ष्यनृतं वदेदिति” या०। “प्राणात्यये सर्व्वधनापहारे विप्रस्य चार्थे ह्यनृतं वदेच्च। विवाहकाले रतिसंप्रयोगे पञ्चानृतान्याहुरपातकानि भा० क० प०। कृषिकर्मणि न० मे०।

अनृतक = त्रि० अनते प्रसृतः कन्। असत्यकयनरते “लुब्धा अनृतकाश्चैव तिष्ये जायन्ति भारत”! भा० भी० प०।

अनृतवादिन् = त्रि० अनृतं वदति वद–णिनि। मिथ्यावादिनि

अनृतु = पु० न ऋतुः वर्षादिकालः। स्वस्वयोग्यवर्षर्त्तुभिन्ने काले “तदा विद्यादनध्यायमनृतौ चाभ्रदर्शने” इति मनुः। नास्ति ऋतुः स्त्रीपुष्पविकाशो यस्मिन् काले। स्त्रीपुष्पविकाशशून्ये काले पु०। “अनृतावृतुकाले च मन्त्रसंस्कारकृत् पतिरिति” मनुः।

अनृशंस = त्रि० न नृशंसः विरोधे न० त०। अहिंस्रे दयालौ। तस्य भावः युवादि० अण्नृशंसम्, ब्राह्मणा० ष्यञ् आनृशंस्यञ्च दयायाम्।

अनेक = त्रि० न एकः एकभिन्नतया उत्सर्गतः बहुवचनान्तता। बहुसंख्यकेषु। “अनेकानि सहस्राणि कौमारब्रह्मचारिणा” मिति मनुः। “पतन्त्यनेके जलधेरिवोर्मयः” इति माघः “अनेके सेवन्ते भवदधिकगीर्वाणनिवहानिति” श्यामास्त्रोत्रम्। एकशब्दस्य सर्वनामत्वेन नञ्तत्पुरुषे तद्भिन्नवाचकतया गौणत्वेऽपि अतच्छब्दवत् सर्वनामकार्य्यं तेन अनेके इति, अनेकेषामिति, अनेकत्रेत्यादि। एवञ्च एकशब्दस्य समाहारद्विगुत्वनिषेधादनेकशब्दस्य बहुसंख्यावाचकत्वेऽपि न समाहारः। तेन अनेकराजन्यरथाश्वसङ्कुलमिति किरा० समाहारे अनेकराजन्यरथाश्वीति स्यात्। “यत्रानेकविधमान्तर्य्यं तत्र स्थानत आन्तर्य्यं बलीय इति” परिभा० सि० कौ०। “अनेकपितृकानान्तु पितृतो भागकल्पनेति” याज्ञ०। “अनेकबाहूदरवक्त्रनेत्रमिति” “अनेकजन्मसंसिद्धस्ततो याति परां गतिमिति” च गीता नास्ति एकः “द्व्येकयोर्द्विवचनैकवचने” इतिवत् एकत्वं यत्रेति बहुव्रीहौ अनेकशब्दस्य एकवचनान्ततापीष्यते। “अनेकमन्यपदार्थे” इति पा० सू०। “आकाशमेकं हि यथा घटादिषु पृथग्भवेत् “तथात्मैकोऽप्यनेकश्चेति” याज्ञ०। “अनेकमाश्रितं लिङ्गमिति” सा० का०। “एकोऽन्यार्थे प्रधाने च प्रथमे केवले तथा। साधारणे मङ्गलेऽल्पे संख्यायाञ्च प्रयुज्यते” इत्युक्तेष्वर्थेषु एकशब्दस्य वृत्तेः तदुक्तार्थभिन्ने त्रि०। तत्र च संख्यान्यर्थे एव बहुवचनान्ततान्यत्र यथेष्टतेति मनो०। उत्करादि० भवार्थे छ। अनेकीयः तद्भवे त्रि०। भावे व्रा०। ष्यञ्। अनैक्यं बहुत्वे न०।

अनेकज = पु० अनेकवारं जायते जन–ड वृत्तौ संख्यावाचकस्य सुजर्थता। द्विवारं जाते पक्षिणि, तस्य गर्भाण्डाभ्यां जातत्वेन द्विवारजाततया द्विजत्वादनेकजत्वम्। ५ त०। बहुभ्यो जाते त्रि०।

अनेकधा = अव्य० अनेक + प्रकारे धाच्। बहुप्रकारे “अनेकधा कृताः पुत्रा ऋषिभिर्ये पुरातनैरिति” स्मृतिः। “तत्रैकस्थं जगत् कृत्स्नं प्रविभक्तमनेकधेति” गीता।

अनेकप = पु० अनेकाभ्यां मुखशुण्डाभ्यां पिबति पा–क। द्विपे हस्तिनि। “मालवनाथोऽप्यनेकानेकपयूथसनाथः” द० कु०।

अनेकमूर्त्ति = पु० अनेका लोकानामनुग्रहाय अवतारेषु नानाविधा मूर्त्तयोऽस्य। परमेश्वरे “अनेकमूर्त्तिरव्यक्त” इति विष्णुसह०।

अनेकरूप = पु० अनेकानि रूपाण्यस्य। बहुरूपे परमेश्वरे “रूपं रूपं प्रतिरूपो बभूवेति” श्रुतौ तस्य बहुरूपत्वोक्तेस्तथात्वम्। नानाविधरूपयुक्तमात्रे पटादौ त्रि०।

अनेकलोचन = पु० अनेकानि लोचनानि यस्य। इन्द्रे, परमेश्वरे च “सहस्राक्षः सहस्रपादिति” श्रुतौ अनेकवा हूदरवक्त्रनेत्रमिति” गीतायाञ्च तस्य अनेकनेत्रत्वोक्तेस्तथात्वम्

अनेकवर्णसमीकरण = न० अनेकवर्णाः अज्ञातविशेषसंख्यकानेकराशयः समीक्रियन्ते ज्ञातसंख्यकसमतया क्रियन्ते यत्र। वीजभेदे यथोक्तं भास्करवीजगणिते “अथानेकवर्णसमीकरणं वीजम्। तत्र सूत्रं सार्द्धवृत्तत्रयम्।” “आद्यं वर्ण्णं शोधयेदन्यपक्षादन्यान् रूपाण्यन्यतश्चाद्यभक्ते। पक्षेऽन्यस्मिन्नाद्यवर्णोन्मितिः स्याद्वर्णस्यैकस्योन्मितीनां बहुत्वे।। समीकृत- च्छेदगमे तु ताभ्यस्तदन्यवर्ण्णोन्मितयः प्रसाध्याः। अन्त्योन्मितौ कुट्टविधेर्गुणाप्ती ते भाज्यतद्भाजकवर्ण्णमाने।। अन्येऽपि भाज्ये यदि सन्ति वर्ण्णास्तन्मानमिष्टं परिकल्प्य साध्यम्। विलोमलोत्थापनतोऽन्यवर्ण्णमानानि भिन्नं यदि मानमेवम्।। भूयः कार्य्यः कुट्टकोऽत्रान्त्यवर्ण्णं तेनोत्थाप्योत्थापयेद्व्यस्तमानात्”। “इदमनेकवर्ण्णसमीकरणं वीजं यत्रोदाहरणे द्वित्र्यादयोऽव्यक्तराशयो भवन्ति तेषां यावत्तावदादयो वर्ण्णाः मानेषु कल्प्यास्तत्र पूर्ब्बाचार्य्यैः कल्पिताः यावत्तावत्, कालक, नीलक, पीतक, लोहितक, श्वेतक, चित्रक, कपिलक, पिङ्गलक, धूम्रक, पाटलक, शवलक, श्यामलक, मेचका, इत्यादि। अथ वा कादीन्यक्षराणि अव्यक्तानां संज्ञाः असङ्करार्थं कल्प्याः। अतः प्राग्वदुद्देशकालापवद्विघिं कुर्वता गणकेन पक्षौ समौ कार्य्यौ पक्षा वा समाः कार्य्याः। ततः सूत्रावतारोऽयं तयोः समयोरनेकस्मात् पक्षादितरपक्षस्याद्यं वर्ण्णं शोधयेत्तदन्यवर्णान् रूपाणि च इतरपक्षाच्छोधयेत्ततः आद्यवर्ण्णशेषेणेतरपक्षे भक्ते भाजकवर्णोन्मितिः। बहुषु पक्षेषु ययोर्ययोः साग्यमस्ति तयोरेवं कृते सति अन्या उन्मितयः स्युः। ततस्तासून्मितिषु एकवर्ण्णोन्मितयो यद्यनेकधा भवन्ति ततस्तासां मध्ये द्वयोर्द्वयोः समी कृतच्छेदगमेनाद्यं वर्ण्णं शोधयेदित्यादिनान्यवर्ण्णोन्मितयः स्युः। एवं यावत्सम्भवस्ततोऽन्त्योन्मितौ भाज्यवर्ण्णे योऽङ्कः स भाज्यराशिः, यो भाजके स भाजकः, रूपाणि क्षेपः, अतः कुट्टकविधिना यो गुण उत्पद्यते तद्भाज्यवर्ण्णमानं, या लब्धिस्तद्भाजकवर्णमानं, तयोर्मानयोर्द्दढभाजकभाज्याविष्टेन वर्णेन गुणितौ क्षेपकौ कल्प्यौ। ततः स्वस्वमानेन सक्षेपेण पूर्ब्बवर्णोन्मितौ वर्ण्णावुत्थाप्य स्वच्छेदेन हरणे यल्लभ्यते तत् पूर्ब्बवर्णस्य मानम्। एवं विलोमकोत्थापनतोऽन्यवर्णमानानि भवन्ति। यदि तु अन्योन्मितौ द्व्यादयी वर्ण्णा भवन्ति तदा तेषामिष्टानि मानानि कृत्वा स्वस्वमानैस्तानुत्थाप्य रूपेषु प्रक्षिप्य कुट्टकः कार्य्यः। अथ यदि विलोमकोत्थापने क्रियमाणे पूर्ब्बवर्ण्णोन्मितौ तन्मितिर्भिन्ना लभ्यते तदा कुट्टकविधिना यो गुण उत्पद्यते स क्षेपः स भाज्यवर्णमानं तेनान्यवर्णमानेषु तं वर्णमुत्थाप्य पूर्ब्बोन्मितिषु विलोमकोत्थापनप्रकारेणान्यवर्णमानानि साध्यानि। इह यस्य वर्णस्य यन्मानमागतं व्यक्तमव्यक्तं, व्यक्ताव्यक्तं वा तस्य मानस्य व्यक्ताङ्केन गुणने कृते तद्वर्ण्णाक्षरस्य निरसनमुत्थापनमुच्यते” तद्व्याख्या। उदाहरणं तत्रैव दृश्यम्।

अनेकविध = त्रि० अनेका विधा प्रकारा यत्र। बहुप्रकारे “यत्रानेकविधमान्तर्य्यं तत्र स्थानत आन्तर्य्यं बलीय” इति परि०।

अनेकशस् = अव्य० अनेक + वीप्सार्थे कारके शस्। अनेकवारार्थे “अनेकशो निर्ज्जितराजकस्त्वभिति” भट्टिः।

अनेकाग्र = त्रि० न एकाग्रः। शून्यहृदये एकाग्रताशून्ये

अनेकान्त = त्रि० न एकान्तो नियमो अव्यभिचारो यत्र। अनियमे, अनिश्चितफलके च। व्यभिचारवति दुष्टहेतौ पु०। “अनेकान्तो विरुद्धश्चाप्यसिद्धः प्रतिपक्षितः। कालात्ययापदिष्टश्च हेत्वाभासाश्च पञ्चधेति” भाषा०। सच त्रिविधः “आद्यः साधारणस्तु स्यादन्योऽसाधारणो मतः। तथैवानुपसंहारी त्रिधाऽनैकान्तिको मत” इति भाषा०। एकान्तोऽस्त्यस्य प्रज्ञा० ण। ऐकान्तः न० त० अनैकान्तोप्यत्र क्वचित् “भाषायाम् अनैकान्तो विरुद्ध श्चेत्येव” पाठः। तथा च साधारणादित्रितयान्यान्यत्वमनेकान्तत्वम्।

अनेकान्तवादिन् = पु० अस्ति नास्ति वेत्येकान्तं न वदति वद–णिनि ६ त०। बौद्धभेदे। तस्य अस्तिनास्तिकायवादित्वेन तथात्वं विवरणमर्हच्छब्दे दृश्यम्।

अनेकार्थ = त्रि० अनेके अर्था अभिधेया यस्य। नानार्थे शब्दे। यथा गवादय अक्षादयश्च। “अनेकार्थस्य शब्दस्य संयोगाद्यैर्नियन्त्रिते। एकत्रार्थेऽन्यधीहेतुर्व्यञ्जना साभिधा श्रयेति” सा० द०। अयमाशयः “संयोगश्च विभागश्च साहचर्य्यं विरोधिता। अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य सन्निधिः। सामर्थ्यमौचिती देशः काक्वाद्युक्तिः स्ववाचकः। शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतव” इति हर्य्युक्तेरनेकार्थशब्दानां सर्वत्र शक्तौ समानायां सत्यां, संयोगाद्यैरितरार्थबोधप्रतिरोधनेन विशेषार्थ एव स्मार्य्यते। तद्भिन्नार्थस्य तु व्यञ्जनया बोधः इत्यलङ्कारिकाणां मतम्। तथाच संयोगादयः शक्त्या अन्यार्थोपस्थितौ प्रतिबन्धकाः। व्यञ्जना वृत्त्या तदुपस्थापने तु न। “अनेकार्थशब्देभ्यःसर्वेषामर्थानामविशेषेणोपस्थितौ सत्यामपि संयोगादयः अन्यशक्यविषयशाब्दबोधमात्रं प्रतिबध्नन्ति नतु व्यङ्ग्यविषयमिति” रसगङ्गाधरः। नैयायिकादयस्तु अनेकार्थशब्दानां शक्यताच्छेदकलाघवलाभे तत्रैव शक्तिरन्यत्र लक्षणा तत्र संयोगादयः अन्यार्थबोधनं नैव प्रतिवघ्नन्ति। तथा च संयोगादयः सति तात्पर्य्ये, तद्विषयीभूतार्थविषयस्मृतिं तज्जन्यान्वयबुद्धिं वा न प्रतिवध्नन्ति किन्तु तात्पर्य्यमात्रोन्नायका इत्यलं व्यञ्जनावृत्त्येति स्वीचक्रुरिति भेदः। अनेके अर्थाः प्रयोजनानि यत्र यस्य वा। अनेकप्रयोजनवति त्रि० “अनेकार्थाभियोगे च यावत्संसाधयेद्धनी” इति स्मृतिः। कर्म्म०। वहुप्रयोजने पु० ब० व०।

अनेकाश्रित = पु० अनेकेषु आश्रितः ७ त०। वैशेषिकनये संयोगादिषु, सामान्येषु च। “संयोगश्च विभागश्च संख्या द्वित्वादिकास्तथा। द्विपृथक्त्वादयस्तद्वदेतेऽनेकाश्रिता गुणा” इति भाषा० “नित्यत्वे सति अनेकसववेतत्वं जातित्वमिति” मुक्ता०। एकस्या एव व्यक्तेर्नानाव्यक्तिनिष्ठत्वेऽस्य प्रयोगोपाधिता। भवन्ति च संयोगादयः सामान्यं च तथा। रूपादेर्नानाव्यक्तिषु सत्त्वेऽपि नैकव्यक्तेरिति न तस्य तथात्वमिति भेदः।

अनेजत् = न० न एजत्। सर्ब्धदैकरूपे ब्रह्मणि। “अनेजदेकं मनसो जवीय” इति ईशोप०। “एजनं कम्पनं स्वभावप्रच्युतिस्तद्विवर्ज्जितं सर्व्वदा एकरूपमिति” भा०। कम्पनशून्ये त्रि० स्त्रियां ङीप्।

अनेडमूक = त्रि० एडो बधिरो मूको वाक्शक्तिरहितश्च नास्ति यस्मात् ५ ब०। (काला, वोवा) इति ख्याते श्रवणवचनशक्तिरहिते, शठे च।

अनेद्य = त्रि० निदि कुत्सने क्यप् नि० नलोपगुणौ न० त०। प्रशस्ते प्रधाने निरुक्तकारः।

अनेनस् = त्रि० नास्ति व्यसनमधर्म्मो वा यस्य। व्यसनपापादिरहिते “राजा भवत्यनेनास्तु मुच्यन्ते च सभासदः” इति व्यव० त० मन्वादिस्मृ०। “अनेनो वोमरुतो याम” इति ऋ० ६, ६६, ७। “अनेनः पापरहितं यथा भवतीति” भाष्यम् “त्वानेना नमसा तुर” इति ७, ८६, ४। “अनेना अपाप” इति भाष्यम्।

अनेमा = पु० नी–मनिन् न० त०। प्रशस्ये निरुक्तकारः।

अनेहस् = पु० न हन्यते हन–असि प्रकृतेरेहादेशः। काले। सौ अनङ्। अनेहा “कालोद्दिष्टोऽप्यनेहापी” त्यमरः। न हन्यते कर्म्मणि असि। अहिंसनीये त्रि०। “शम्भुवं मन्त्रं देवा अनेहसमिति” ऋ० १, ४०, ६। “अनेहसं केनाप्याहिंस्यामिति” भा०। “पापिनोवयम् यजामहे सुप्रतूर्तिमनेहसम्” ऋ० १, ४०, ४। “यथा नोऽस्मे क्षयाय धिषणे अनेहः” ऋ० ६, ५०३।

अनैकाग्र्य = न० एकाग्रस्य भावः ष्यञ् अभावे न० त०। ऐकाग्र्याभावे। न० ब०। ऐकाग्र्यशून्ये त्रि०। “आचाराणामनैकाग्र्यं सर्वेषामुपलक्षणादिति” भाग०।

अनैकान्त = पु० अनेकान्तशब्दार्थे। तत्रैव व्युत्पत्तिर्दर्शिता “अनैकान्तो विरुद्धश्चेति” भाषा० पाठान्तरम्।

अनैकान्तिक = पु० एकान्तं नियतं व्याप्नोति एकान्त + ठक् एकान्तो नियमो व्याप्तिरस्त्यस्य ठन् स्वार्थे अण् वा न० त०। अनेकान्तशब्दार्थे अनेकान्तशब्देऽधिकं दृश्यम् “त्रिघाऽनैकान्तिको मत” भाषा०। ऐकान्तिको निश्चितरूपस्तद्भिन्ने त्रि०

अनैक्य = न० न ऐक्यम् अभावे न० त०। ऐक्याभावे।

अनैतिह्य = त्रि० न ऐतिह्यं यत्र। परम्पराश्रवणरूपैतिह्य प्रमाणशून्ये। “अनागतमनैतिह्यं कथं ब्रह्माधिगच्छति”? भा० शा० प०।

अ(आ)नैपुण = न० अनिपुणस्य भावः अण् आद्यचो वा वृद्धिः। अनिपुणत्वे। ष्यञ् अ(आ)नैपुण्यमप्यत्र न०।

अ(आ)नैश्वर्य्य = न० अनीश्वरस्य भावः आद्यचो वा वृद्धिः। अनीश्वरत्वे अधीनत्वे। नास्ति ऐश्वर्य्यं यस्य। अनैश्वर्य्यः ऐश्वर्य्यशून्ये त्रि०।

अनो = अव्य० न + नी–डो। अभावार्थे। “अभावे, नह्यनो नापी” त्यमरे अनो इत्येकं नामेति नीलकण्ठः। अन्ये तु अ इति, नो इति, च छित्त्वा नामद्वयमित्याहुः।

अनोकह = पु० अनसः शकटस्याकं गतिं हन्ति प्रतिरोधं करोति हन–ड ६ त०। वृक्षे। “वृन्ताच्छ्लथं हरति पुष्पमनोकहानामिति” अनोकहाकम्पितपुष्पगन्धीति च” रघुः। “उद्यन्तमुद्द्रुतमनोकहजालमध्ये इति” माघः।

अनोदन = त्रि० नास्ति ओदनरूपं भक्ष्यं यत्र। “अन्नवर्जनयुक्ते व्रते। “नक्तं हविष्यान्नमनोदनं वा” इति स्मृतिः।

अनोङ्कृत = त्रि० न ओङ्कारमुच्चार्य्य कृतः ओम् + कृ–क्त न० त०। ओङ्कारोच्चारणाभावेन कृते। “ब्राह्मणः प्रणवं कुर्य्यादादावन्ते च सर्वदा। स्रवत्यनोङ्कृतं पूर्बं परस्ताच्च विशीर्य्यति” मनुः। ओमिति स्वीकारे तथा कृतम्। अङ्गीकृते त्रि०।

अन्च = व्य क्तौ चु० उभ० सक० सेट्। अञ्चयति–ते आञ्चिचत्त कर्म्मणि अञ्च्यते। णिजभावे अच्यते इति भेदः “पूर्ण्णात् पूर्ण्णमुदच्यते” इति श्रुतिः।

अन्चु = गतौ अचिवत् ८२ पृ० दृश्यम्।

अन्ज = गतौ कान्तौ म्रक्षणे व्यक्तौ च रुधा० वर्त्तमाने क्त ऊदित् वेट् पर०। अनक्ति। सिचि परस्मैपदे नित्यमिट्। आञ्जीत्–आनञ्ज। अञ्जिता–अङ्क्ता। अञ्जिष्यति–ङ्क्ष्यति। क्त अक्तः। क्तिन् अक्तिः। क्त्वा–अक्त्वा अञ्जित्वा। वि + प्रकाशने। व्यनक्ति व्यज्यते “व्यनक्ति कालत्रितयेऽपि योग्यतामिति” माघः। घञ् व्यङ्गः। ण्यत् व्यङ्ग्यः। “सव्यङ्ग्यमुत्तमं काव्यमिति”। णिच्। व्यञ्जयति ल्युट्। व्यञ्ज- नम्। “अन्यार्थधीकृत् व्यापृतिरञ्जनम्” का० प्र०। कर्त्तरि ल्यु। व्यञ्जना एकत्रार्थेऽन्यधीहेतुर्व्यञ्जना साभिधाश्रयेति” सा० द०।

अन्त = न० अम–तन्। स्वरूपे, स्वभावे च। शेषे पु० न०। नाशे, सीमायां, निश्चये, शेषावयवे च पु०। निकटे, मनोहरे च त्रि०। तत्र स्वरूपे “मृदुलतान्तलतान्तमलोकयदिति” माघः। नाशे “पतत्यविरतं वारि नृत्यन्ति शिखिनो मुदा। “अद्य कान्तः कृतान्तो वा दुःखस्यान्तं करिष्यतीति” उद्भटः। “वैरस्यान्तं करिष्यति” रामा०। सीमायां “वनान्तपर्य्यन्तमुपेत्य सस्पृहमिति” नैष०। “ओदकान्तात् स्निग्धोऽनुगन्तव्य” इति श्रुतिः। सीमाऽवधिः स च दैशिकः कालिकश्च। तत्र दैशिक उक्तोदाहरणे कालिकस्तु। “पक्षान्ते निष्फला यात्रा मासान्ते मरणं ध्रुवमिति” ज्योति०। “दशाहान्ते पुनः क्रियेति” स्मृतिः शेषसीमायाम् “अमुं वनान्ताद्वनितवहारिणमिति” माघः। “दिगन्ते श्रूयन्ते मदमलिनगण्डाः करटिन” इति भामिनी०। “गङ्गाप्रपातान्तविरूढशष्पसिति” रघुः। शेषावयवे “नेत्रान्तमुद्वीक्षते” इति वेदान्त इत्यादि। निश्चये। “उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिरिति” गीता। उभयोः सदसतोरित्यर्थः। निकटे अन्तपालः। स्मभावे शुद्धान्तः। शेषे निशान्तः।

अन्तःकरण = न० कृ–करणे ल्युट् अन्तरभ्यन्तरस्थं करणं, कर्म्म०, तद्वृत्तिपदार्थानां सुखादीनां करणं ज्ञानसाधनं ६ त० वा। ज्ञानसुखादिसाधने आभ्यन्तरे मनोबुद्धिचित्तादिपदाभिलप्यमाने इन्द्रिये। तच्चान्तःकरणम् वेदान्तिमते चतुर्विधम्। “मनो बुद्धिरहङ्कारश्चित्तं करणमान्तरम्। संशयो निश्चयो गर्वः स्मरणं विषया इमे” इत्युक्तकार्य्यभेदात्। अन्यत्र व्यक्तमुक्तम् “यदा तु संकल्पविकल्पकृत्यं तदा भवेत्तन्मन इत्यभिख्यम्। स्याद्बुद्धि संज्ञं च यदा तु वेत्ति सुनिश्चितं संशयरूपहीनम्। अनुसन्धानरूपं तच्चित्तञ्च परिकीर्त्तितम्। अहंकृत्यात्मवृत्त्या तु तदहङ्कारतां गतमिति”। एतदनुसारेणैव शारादायामुक्तम् “अन्तःकरणमात्मनः। मनोबुद्धिरहङ्कारश्चित्तञ्चेति प्रकीर्त्तितमिति”। तस्य च ज्ञानादिप्रत्यक्षकरणत्वादन्तःकरणत्वम्। तत्साधकमनुमानञ्चेत्थम् ज्ञानसुखादिप्रत्यक्षं स्वग्राहकेन्द्रियसापेक्षं प्रत्यक्षत्वात् रूपादिप्रत्यक्षवत्। नच चक्षुरादीनां तत्करणत्वं सम्भवति रूपादित्वाभावादित्यन्तःकरणसिद्धिरिति नैयायिकादयः। सांख्यादयस्तु महत्तत्त्वापरपर्य्यायमेवान्तःकरणमङ्गीचक्रुः। पञ्चतन्मात्रेभ्यो भूतेभ्यश्चाहङ्काररूपद्रव्यसिद्धिमुक्त्वा “तेनाऽन्तःकरणस्येति” सां० सू० तत्सिद्धिरुक्ता तदनुमाने च भाष्ये एवं प्रयोगादिकं दर्शितम्। “अहङ्कारद्रव्यं निश्चयवृत्तिमद्द्रव्योपादानकं निश्चयकार्यद्रव्यत्वात् यन्नैवं तन्नैवं यथा पुरुषादिरिति। अत्राप्ययं तर्कः, सर्वोऽपि लोकः पदार्थमादौ स्वरूपतो निश्चित्य पश्चादभिमन्यते अयमहं, मयेदं कर्त्तव्यमित्यादिरूपेणेति, तावत् सिद्धमेव। तत्राहङ्कारद्रव्यकारणाकाङ्क्षायां वृत्त्योः कार्यकारणभावेन तदाश्रययोरेव कार्यकारणभावो लाघवात् कल्प्यते कारेणस्य वृत्तिलाभेन कार्यवृत्तिलाभस्यौत्सर्गिकत्वादिति। यद्यपि अन्तःकरणमेकं तथापि वंशपर्वस्विवान्तरभेदमाश्रित्यान्तःकरणत्रये क्रमः, कार्यकारणभावश्चोक्तः योगोपयोगिश्रुतिस्मृतिपरिभाषानुसारादिति मन्तव्यम्। तदुक्तं वाशिष्ठे। “अहमर्थोदयो योऽयं चित्तात्मा वेदनात्मकः। एतच्चित्तद्रुमस्यास्य वीजं विद्धि महामते!।। एतस्मात् प्रथमोद्भिन्नादङ्कुरोऽभिनवाकृतिः। निश्चयात्मा निराकारो बुद्धिरित्यभिधीयते।। अस्य बुद्ध्यभिधानस्य याङ्कुरस्य प्रपीनता। सङ्कल्परूपिणी तस्याश्चित्तचेतोमनोभिधा” इति। अहमर्थोऽग्तःकरणसामान्यम्। अत्र वाक्ये बीजाङ्कुरन्यायेनैकस्यैवान्तःकरणवृक्षस्य वृत्तिमात्ररूपेण चित्ताद्यवस्थाभेदाः क्रमिकास्त्रिविधाः परिणामा उक्ता इति। साङ्ख्यशास्त्रे च चिन्तनावृत्तिकस्य चित्तस्य बुद्धावेवान्तर्भावः। अहङ्कारस्य चात्र वाक्ये बुद्धावन्तर्भावः” इति।। कारिकायामपि “अन्तःकरणं त्रिविधं दशधा वाह्यं त्रयस्य विषयाख्यमिति” त्रैविध्यमुक्त्वा “सान्तःकरणा बुद्धिः सर्वं विषयमवगाहते यस्मात्, तस्मात्त्रिबिधं करणंद्वारि, द्वाराणि शेषाणीति” तत्त्रयस्यैव प्राधान्यमुक्तम्। एवञ्च पुरुषस्य सन्निधिमात्रादधिष्ठातृत्वं गौणं मुख्यमधिष्ठातृत्वन्तु अन्तःकरणस्यैव यथोक्तम् “अन्तःकरणस्य तदुज्ज्वलितत्वाल्लौहवदधिष्ठातृत्वम्” सां० सू०।। “अन्तःकरणस्यानुपचरितमधिष्ठातृत्वं सङ्कल्पादिद्वारकं प्रत्येतव्यम्। नन्वधिष्ठातृत्वं घटादिवदचेतनस्य न युक्तं तत्राह। लौहवत् तदुज्ज्वलितत्वादिति। अन्तःकरणं हि तप्तलौहवच्चेतनोज्ज्व लितं भवति। अतस्तस्य चेतनांयमानतयाधिष्ठातृत्वं घटादिव्यावृत्तमुपपद्यत इत्यर्थः। नन्वेवं चैतन्येनान्तःकरणस्योज्ज्व लने चितेः सङ्गित्वमग्निवदेव स्यादिति चेन्न नित्योज्ज्वलचैतन्यसंयोगविशेषमात्रस्य संयोगविशेष जन्यचैतन्यप्रतिविम्बस्य वान्तःकरणोज्ज्वलनरूपत्वात्। न तु चैतन्यमन्तःकरणे संक्रामति येन सङ्गिता स्यात्।। अग्नेरपि हि प्रकाशादिकं न लौहे संक्रामति, किन्त्वग्निसंयोगविशेष एव लौहस्योज्ज्वलनमिति। नन्वेवमपि संयोगेन परिणामित्वमिति चेन्न सामान्यगुणातिरिक्तधर्म्मोत्पत्तावेव परिणामव्यवहारादिति। अयं च संयोगविशेषोऽन्तःकरणस्यैव सत्त्वोद्रेकरूपात् परिणामाद्भवतीति फलबलात् कल्प्यते पुरुषस्यापरिणामित्वेन संयोगे तन्निमित्तकविशेषासम्भवादिति। अयमेव च संयोगविशेशो बुद्ध्यात्मनोरन्योऽन्यप्रतिविम्बने हेतुरिति” सा० प्र० भा०। अन्तःकरणस्य च वृत्तयस्त्रिधा “शान्ताघोरास्तथामूढा मनसो वृत्तयस्त्रिधा। वैराग्यं क्षन्तिरौदार्य्यमित्याद्याः शान्तवृत्तयः। तृष्णा स्नेहोरागलोभावित्याद्या घोरवृत्तयः। सम्मोहोभयमित्याद्या कथिता मूढवृत्तयः” इति तास्वेव वृत्तिषु ज्ञानत्वोपचारात् तत्साधनत्वमिन्द्रियाणाम् “अन्तःकरणवृत्तौ ज्ञानत्वोपचारादिति” पञ्चपादिकाविवरणम्। शान्तादीनामेव सात्विक्यादिरूपेण व्यवहारः। ताश्च वृत्तयः “क्रमशोऽक्रमशश्च वृत्तय इति सां० सू० उक्तेः युगपदपि भवन्तीति सांख्यादयः। नैयायिकादयस्तु “अयौपद्याज्ज्ञानाना” मित्युक्तेः क्रमिकत्वमेवाङ्गीचक्रुः। तच्चान्तःकरणमणुपरिमाणमिति नैयायिकादयः। यावद्देहकार्य्य कारित्वात् जलावगाहे एकदैव सर्वदेहगतशैत्याद्युपलब्धेर्मध्यपरिमाणमिति सांख्यादयः। तेषां च चतुर्ण्णां चन्द्रचतुर्मुखशङ्कराच्युता अधिष्ठातारोदेवा इति।

अन्तःकुटिल = पु० अन्तर्मध्ये कुटिलः। वक्राकारमध्यावयववति शङ्खे। वक्रान्तःकरणे त्रि०।

अन्तःकृमि = पु० अन्तरभ्यन्तरे कृमिर्यस्य। (गुटि) इति ख्याते कृमिकोषफले। मध्यस्थकृमियुक्ते फलादौ त्रि०।

अन्तःकोटरपुष्पी = स्त्री अन्तःकोटरे अभ्यन्तरे पुष्पं यस्याः जातित्वात् ङीप्। अन्तःकोटरपुष्पवत्यां नीलवुह्नायाम्।

***