अनुतर = न० अनुतीर्य्यतेऽनेन अनु–तॄ–करणे अप्। नदीपारार्थं देये शुक्लादौ, आतरे।
अनुतर्ष = न० अनुतृष्यतेऽनेनेदं वा करणे कर्म्मणि वा घञ्। सुरापानपात्रे, मद्ये च। भावे घञ्। मद्यपाने, अभिलाषे, पानेच्छायाञ्च। “सोपचारमुपशान्तविचारं सानुतर्षमनुतर्षपदेनेति” माघः।
अनुताप = पु० अनु + तप–घञ्। इदमनुचितं कृतमिति स्वकृतवस्तुनो दुःखजनकतया ज्ञानेन पश्चात्तापे। “ख्यापनेनानुतापेन” इति” मनुः। “तस्याः करिष्यामि दृढानुतापमिति” कुमा०।
अनुतिल = त्रि० अनुगतस्तिलम् अत्या० स०। तिलानुगते क्षेत्रादौ, तिलै विभक्त्यर्थे अव्ययी० तत्र भवः परिमुखादि० ञ्य। आनुतिल्यः तिलभवे त्रि०।
अनुतूलन = न० तूलेनानुकुष्णाति तृणाद्यग्रं तूलेनानुवट्टयति अनु + तूल + अनुकोषणे णिच्–भावे ल्युट्। तूलेन तृणाग्रादेरनुघट्टने।
अनुत्क = त्रि० न० त०। उत्कण्ठितभिन्ने स्वस्थे।
अनुत्कर्ष = पु० न उत्कर्षः अभावे न० त०। उक्तर्षाभावे ब०। उत्कर्षशून्ये त्रि०।
अनुत्त = त्रि० न + उन्द–क्त नसत्तनिषत्तानुत्तेत्यादिना नि०। अक्लिन्ने “इन्द्र! तुभ्यमिदद्रिवोऽनुत्तमिति” ऋ० १, ८०, ७, नुद–क्त न० त०। अनुन्ने अप्रेरिते। “अनुत्तमाते मघवन्निति” ऋ० १, १६५, ९, “अनुत्तमप्रेरितमिति” भा०।
अनुत्तम = न० न उत्तमोयस्मात्। अत्युत्कृष्टे। “काङ्क्षन् गतिमनुत्तमामिति, “इह कीर्त्तिमवाप्नोति प्रेत्य चानुत्तमं सुखमिति” “यशोऽस्मिन् लोके प्राप्नोति प्रेत्य चानुत्तमं सुखमिति” च मनुः।
अनुत्तर = त्रि० उत्तरौत्तमः न० ५ ब०। अत्यन्तश्रेष्ठे। ६ ब०। उत्तरवाक्यरहिते “भवत्यवज्ञा च भवत्यनुत्तरादिति” नैष०। न० त०। उत्तरदिग्भिन्नायां तद्विरोधिन्यां दक्षिणस्यां दिशि, स्त्री। उत्तमभिन्ने अपकृष्टे त्रि०। न उत्तरति चलति उद् + तॄ–अच् न० त०। स्थिरे त्रि०।
अनुत्तान = त्रि० न उत्तानः विरोधे न० त०। उत्तानभिन्ने अवताने अवाङ्मुखे।
अनुत्तरङ्ग = त्रि० उद्गतस्तरङ्गो वीचिश्चाञ्चल्यं वा यस्मात् प्रा० ब० न० त०। अनुद्गततरङ्गे अचञ्चले च “अपामिवाधारमनुत्तरङ्गमिति” कुमा० शिवपक्षे अचञ्चलमित्यर्थः।
अनुत्पत्ति = स्त्री न उत्पत्तिः अभावे न० त०। उत्पत्त्यभावे “क्षयं केचिदुपात्तस्य दुरितस्य प्रचक्षते। अनुत्पत्तिं तथा चान्ये प्रत्यवायस्य मन्वते” स्मृतिः।
अनुत्पत्तिक = त्रि० नास्ति उत्पत्तिर्य्यस्य कप्। उत्पादशून्ये।
अनुत्पन्न = त्रि० न उत्पन्न न० त०। उत्पन्नभिन्ने अजन्ये।
अनुत्पाद = पु० न उत्पाद उत्पत्तिः अभावार्थे न० त०। उत्त्त्यभावे। ब०। उत्पत्तिशून्ये त्रि०।
अनुत्साद = पु० न उत्सादः अवसादनम् भावे न० त०। अव सादाभावे उच्छेदाभावे। न० ब०। उच्छेदशून्ये त्रि०।
अनुत्साह = पु० न उत्साहः अमावे न० त०। उत्साहाभावे ब०। उत्साहशून्ये त्रि०।
अनुत्सिक्त = त्रि० न उत्सिक्तः गर्वितः। अगर्विते गर्वशून्ये।
अनुत्सुक = त्रि० न० त०। उत्सुक–भिन्ने उत्कण्ठाशून्ये।
अनुत्सूत्र = त्रि० उत्क्रान्तः सूत्रम् अत्या० स० न० त०। सूत्रानुगते “अनुत्सूत्रपदन्यासा सद्वृत्तिः सन्निबन्धनेति” माघः। सूत्रं पाणिनीयसूत्रं नीतिशास्त्रञ्चेति विवेकः।
अनुद = त्रि० न नुदति नुद–क न० त०। प्रेरकभिन्ने अनुददाति तुल्यं ददाति अनु + दा क। तुल्यरूपदातरि एतस्य उदाहरणम् प्रागुक्त्रे अनानुदशब्दे दृश्यम्।
अनुदक = त्रि० नास्ति उदकं यत्र। “उदकशून्ये मरुदेशादौ अल्पार्थे न० त०। अल्पजले पल्वलादौ “उद्वन्वतीरनुदकाश्च या” इति ऋ० ७, ५१, ४, उदकदानविशेषशून्ये श्राद्धभेदे “पुरोडाशमात्रा अनुदका” इति कात्या० १०, ५, ११,। “अनुदकाः प्रत्यवनेजनपरिषेचनादि वर्जिता” इति तद्व्यख्या।
अनुदग्र = न उद्गतमग्रमस्य। मृदौ अतीक्ष्णे उन्नताग्रभिन्ने च नास्ति उदग्रोयस्मात् ५ ब०। अत्युन्नते त्रि०।
अनुदर = त्रि० न उदरं यस्याल्पार्थे न० ब०। अल्पोदरशालिनि कृशोदरे, “अनुदरा कन्येति सि० कौ० स्त्रियां टाप्।
अनुदर्शन = अनु + दृश–ल्युट्। अनुचिन्तने, “जन्ममृत्युजराव्याधि दुःखदोषानुदर्शन” मिति गीता।
अनुदात्त = न० न उदात्तः विरोधे न० त०। उदात्तस्वरभिन्ने नीचैरुच्चारिते स्वरभेदे। स्वराहि त्रिविधाः उदात्तः अनुदात्तः स्वरित इति भेदात् तत्र “उच्चैरुदात्तः” “नीचैरनुदात्तः” “समाहारः स्वरित” इति च पा०। ताल्वादिषु, सभागेषु स्यानेषूर्द्ध्वभागे निष्पन्नोजुदात्तः, तत्रैव नीचभागे निष्पन्नोऽच् अनुदात्तः। “तस्यादित उदात्तमर्द्धहस्वमिति” पा०। यस्यादितोऽर्द्धसुदात्तमन्त्यमनुदात्तं तादृशः स्वरः स्वरितः इति” “अनुदात्तं पदमेकवर्ज्जमिति” अस्यैव निघात नीचादि संज्ञा उदात्तानुदात्तत्वादिकं स्वरवर्णस्यैव न तु व्यञ्जनानां, यथोक्तम् शिक्षायाम् “उदात्तश्चानुदात्तश्च स्वरितश्च स्वरास्त्रयः हृस्वोदीर्घः प्लुतश्चेति कालतोनियमस्त्वचीति”। “प्रयत्नप्रेरितोवायुर्यदोर्द्ध्वभागे प्रतिहतोऽचं निष्पादयति स उदात्तः। एवमधोनिष्पन्नोजनुदात्त इति” शब्देन्दु०। “उदात्तानुदात्तस्वरितानां सन्निकर्ष ऐक श्रुत्यम्” इति आश्व० गृह्यम्।
अनुदार = न० न उदारः। अतिदातृभिन्ने, अमहति च। नास्ति उदारो यस्मात् ५ ब०। अतिमात्र दातरि, अति महति च। अनुगतो दारान् अत्या० स०। दारानुगते। “यस्मिन् प्रसीदसि पुनः स भवत्युदारोऽनुदारश्चेति का० प्र०। उदारत्वानुदारत्वयोरापाततो विरोधः। उदारत्वानुगतदारत्वाभ्यां तत्परिहारः।
अनुदित = पु० उद् + इण् + क्त ईषदर्थे न० ७ ब०। किरणमात्रेण। ईषदुदितसूर्य्ये प्रविरलतारके काले। “उदितेऽनुदिते चैवेति मनुः न० त०। उदितभिन्ने त्रि०। व्रद–क्त न० त०। अकथिते त्रि०।
अनुदिन = अव्य० वीप्सार्थे अव्ययी०। प्रतिदिने “पारावतः खलु शिलाकणमात्रभोगी कामी भवेदनुदिनं वद कोऽत्र हेतु” रित्युद्भटः। अनुदिवसादयोप्यत्र।
अनुदृष्टि = स्त्री अनुगता अनुकूला वा दृष्टिः प्रा० स०। अनुगतदृष्टौ, अनुकूलदृष्टौ च। ब०। तथादृष्टिमति त्रि०। तथाभूतस्त्रियाः अपत्यं कल्याण्या० ढक् इनङ् च। आनुदृष्टिनेयः तदपत्ये पुंस्त्री०। अनुदृष्टेः पुंसोऽपत्यम् शुभ्रा० ढक्। आनुदृष्टेयः तदपत्ये पुंस्त्री०।
अनुदेश = पु० अनु + दिश–घञ्। यथाक्रमोच्चारणे, उपदेशे च “यथासंख्यमनुदेशः समानामिति” पा०। अनुदिश्यते कर्मणि घञ्। उपदेश्ये “अनुदेशाद्याः पुरोडाशेत्यादि” कात्या० १८, ६, १५।
अनुद्देश = पु० न उद्देशः अभावार्थे न० त०। उद्देशाभावे।
अनुद्धत = त्रि० न उद्धतः विरोधे न० त०। विनययुक्ते।
अनुद्धरण = न० न उद्धरणम् अभावार्थे न० त०। उद्धाराभावे
अनुद्धार = पु० न उद्धारः अभावार्थे न० त०। उद्धाराभावे। न उद्धारः विभाज्यविशेषस्योत्थापनं यत्र। विंशोद्धारशून्ये विभागे त्रि०। “अनुद्धारोविभागः स्यादिति स्मृतिः।
अनुद्धृत = त्रि० न उद्धृतमुत्थापितम्। अनुत्थापिते “पयोऽनुद्धृतसारञ्चेति” हविष्यविषये स्मृतिः।
अनुद्भट = त्रि० न उद्भटः विरोधे न० त०। अप्रल्भे मृदौ।
अनुद्यम = पु० न उद्यमः अभावे न० त०। उद्यमाभावे। न० ब०। उद्यमशून्ये त्रि०।
अनुद्यूत = न० अनु + दिव–क्त। द्यूतस्य पश्चात् पुर्नद्यूते। तदधिकृत्य कृतग्रन्थतयोक्तमनुद्यूतपर्व सभापर्वणि दृश्यम्।
अनुद्योग = पु० न उद्योगः अभावे, न० त०। उद्योगाभावे ब०। उद्यमशून्ये त्रि०।
अनुद्रुत = त्रि० अनु + द्रु–क्त। अनुगते “धनुर्द्धरै राजसुतैरनुद्रुतमिति रघुः “अनुद्रुतः संयति येन केवलं बलस्य शत्रुः प्रशशंस शीघ्रतामिति” माघः। “अर्द्धमात्रं द्रुतं ज्ञेयं द्रुतार्द्धञ्चाप्यनुद्रुतमित्युक्ते” मात्राचतुर्थभागकाले तालभेदे न०।
अनुद्वाह = पु० न उद्वाहः अभावार्थे न० त०। विवाहाभावे न० त०। तच्छून्ये त्रि०।
अनुद्विग्न = त्रि० न उद्विग्नः विरोधे न० त०। उद्विग्नभिन्ने अव्याकुलचित्ते।
अनुद्वेग = पु० न उद्वेगः अभावार्थे न० त०। उद्वेगाभावे न० ब०। तच्छून्ये त्रि० “अनुद्वेगकरं वाक्यं सतां स्वाभाविकं मतमिति” नीति०।
अनुधावन = न० अनु + धाव–ल्युट्। पश्चाद्गमने, तत्त्वनिश्चयायानुसरणे, अनुसन्धाने च।
अनुध्या = स्त्री अनु + ध्यै–अङ्। शुभानुचिन्तने, अनुग्रहे, आसक्तौ च।
अनुध्यान = न० अनु + ध्यै–ल्युट्। अनुक्षणचिन्तने “या नः प्रीतिर्विरूपाक्ष! त्वदनुध्यानसम्भवेति” कुमा०।
अनुध्याय = पु० अनु + ध्यै–कर्त्तरि घञ्। अनुचिन्तके शुभानुचिन्तके। “बालस्याशक्तस्य वा तदनुध्यायमनसेति” प्रा० त० स्मृतिः।
अनुध्येय = त्रि० अनु + ध्यै–कर्म्मणि यत्। अनुग्राह्ये यदीयशुभानुचिन्तनं क्रियते तस्मिन्। “अनुदध्युरनुध्येयं सान्निध्यैः प्रतिमागतैरिति” रघुः।
अनुनय = पु० अनु + नी + अच्। विनये, प्रणिपाते, प्रार्थने, सान्त्वने च। “कथं नु? शक्योऽनुनयोमहर्षेर्विश्राणनादन्यपयस्विनीनामिति” रघुः।
अनुनाद = पु० अनुरूपोःनादः प्रा० स०। प्रतिध्वनौ प्रतिशब्दे अनुरूपशब्दे।
अनुनादिन् = त्रि० अनु + नदति अनु + नद–णिनि। प्रतिरूप शब्दकारके “गम्भीरेणानुनादिनेति” रामा०।
अनुनायिका = स्त्री अनुगता नायिकाम्। नायिकानुगतायाम् “सखी प्रब्रजिता दासी प्रेष्या धात्रेयिका तथा। अन्याश्च शिल्पकारिण्यो विज्ञेया ह्यनुनायिका” इत्युक्तदास्यादो।
अनुनाश = पु० अनु + नश–घञ्। अनुमरणे। अदूरदेशादावर्थे सङ्काशादि० ण्य आनुनाश्यः तददूरदेशादौ त्रि०।
अनुनासिक = त्रि० अनुगतो नासिकाम् अत्या० स०। नासिकया सह स्वस्वस्थानेनोच्चार्य्यमाणेषु वर्णभेदेष। ते च “अमोऽनुनासिका न ह्रौ” इति शिक्षायां दर्शिताः हकाररकारभिन्नाः अम्प्रत्यहरान्तर्गताः वर्णाः। “मुखनासिकावचनोऽनुनासिक” इति पाणिन्युक्तेस्तेषां तत्तत्स्थानसहितनासिकयोच्चार्य्यमाणत्वात्तत्त्वम् “उपदेशेऽजनुनासिक” इति पा०। अम्प्रत्याहारमध्ये रभिन्ना यबलाः निरनुनासिकाः सानुनासिकाश्च तत्रानुनासिकस्थाने उत्पन्नयवलामेव सानुनासिकत्वम् “यलोद्विधाऽरो निरनुनासिकः सानुनासिकः। ञमोऽनुनासिकस्तेन तत्स्थाने सानुनासिक” इत्यभियुक्तोक्तेः यथा यय्य~म्यते विद्वाल्लि~खति, सर्व्वत्सरः अन्ये निरनुनासिकाः। वेत्यनुवृत्तौ “अणोऽप्रगृह्यस्यानुनासिक” इति पाणित्युक्तेरप्रगृह्या एवाणोऽनुनासिकाः।
अनुनीत = त्रि० अनु + नी–क्त। कृतानुनये यस्य सान्त्वनार्थं विनयादिकं क्रियते तस्मिन्। “स चानुनीतोऽपि भृशं चुकोपेति” भारतम्।
अनुनेय = त्रि० अनु + नी–कर्मणि यत्। अनुनयकरणार्हे, अनुनेतुं योग्ये च।
अनुपकार = पु० न उपकारः अभावार्थे न० त०। उपकाराभावे विरोधे न० त०। अपकारे।
अनुपकारिन् = त्रि० न उपकारी विरोधे न० त०। अपकारिणि स्त्रियां ङीप्।
अनुपक्षित = त्रि० उप + क्षि–क्त वेदे निष्ठातस्य न नत्वम् न० त०। अनुपक्षीणे। “सुवीर्य्यं वर्षिष्ठमनुपक्षितम् ऋ० ३, १३, ७ अनुपक्षितम् “अनुपक्षीणमिति” भा०। लोके तु अनुपक्षीणः त्रि०।
अनुपठित = न० अनु + पठ–भावे क्त। गुरुमुखपाठानुसारिपाठे अनुपठितमनेन इष्टादि० इनि। अनुपठिती कृतानुपाठे त्रि० स्त्रियां ङीप्।
अनुपतन = न० अनु + पत–ल्युट्। अनुकूलपतने, अनुरूपपतने च।
अनुपति = अव्य० पत्युः सामीप्यम् अव्ययी०। पतिसमीपे। “अनुपति पत्नीरुत्तर उत्तर” इति कात्या० १२, २, १६, दीक्षाकर्त्ता पतिसमीपे तत्पत्नीः दीक्षयतीति तद्व्याख्या।
अनुपथ = पु० अनुकूलः पन्थाः अच् समा०। अनुकूलमार्गे “अन्तस्पथा अनुपथा” इति ऋ० ५, ५२, १०, अनुपथाः अनुकूलमार्गा इति भा०। पथःसमीपे पथि वा अव्ययी०। पथिसमीपे पथीत्यर्थे वा अव्य०। परिमुखा० ञ्य। आनुपथ्यम् पथिभवादौ त्रि०।
अनुपद = न० अनुरूपं पदम् प्रा० समा०। अनकूलपदे अनुरूपस्थाने “आशिषामनुपदमिति” “अर्घानुपदमाशिष” इति च रघुः। पदस्य पश्चात् अव्ययी०। पदस्य पश्चादित्यर्थे पश्चाद्गमने च। भवादौ परिमुखा० ञ्य आनुपद्यः तत्र भवादौ त्रि०। सुप्तिङन्तं पदं तत्सदृशं ग्रन्थमधीते वेत्ति वा उक्था० ठक्। आनुपदिकः तदध्येतरि तद्वेत्तरि च त्रि०।
अनुपद् = न० अनुपद्यते प्रतिदिनं लभ्यते अनु + पद–क्विप्। प्रतिदिनलभ्येऽन्ने। “अनुपदस्यानुपदे त्वा” य० १५, ८, “प्रतिदिनमनुपद्यतेऽनुपदन्नमिति” वेददीपः।
अनुपदिक = त्रि० अनुपदमस्त्यस्य गन्तृत्वेन ठन्। पश्चाद्गते
अनुपदिन् = अनुपदमन्वेष्टा अनुपद + इनि। अनुपदम् अन्वेष्टरि (अन्वेषणकर्त्तरि) “अनुपद्यन्वेष्टेति” पा० “मृगस्यानुपदी रामो जगाम गजविक्रम” इति भट्टिः।
अनुपदिष्ट = त्रि० उप + दिश–क्त न० त०। उपदेशाकर्म्मणि।
अनुपदीना = स्त्री अनु, पदस्य आयामतुल्यायामः आयामेऽव्ययी० अनुपदं बद्धेत्यर्थे ख। पादतुल्यायामवत्यां पादबद्धायां पादुकायाम् (मोजा) इत्यादि ख्यातायाम्।
अनुपधि = त्रि० नास्ति उपधिश्छलं यत्र। निष्कपटे सरलव्यवहारे।
अनुपनीत = पु० न उपनीतः न० त०। अकृतोपनयनसंस्कारे ज्ञानलक्षणाधीनज्ञानाविषयीभूते त्रि०।
अनुपन्यास = त्रि० न उपन्यासः अभावे न० त०। उपन्यासाभावे कथनाभावे। न० ब०। कथनशून्येवागारम्भशून्ये त्रि०।
अनुपपत्ति = स्त्री उप + पद–क्तिन् उपपत्तिर्युक्तिः न० त०। युक्त्यभावे, असङ्गतौ च। “तात्पर्य्यानुपपत्तित” इति भाषा०। उपपत्तिश्च न्यायादिमते व्यतिरेकव्याप्तिज्ञानाधीनानुमितिः” आपादकज्ञानाधीना आपाद्यनिश्चयरूपाऽनुभूतिर्वा। यथा पीनोदेवदत्तो दिवा न भुङ्क्ते इत्युक्ते दिवाऽभोजिनः पीनत्वं रात्रिभोजनं विनानुपपन्नमिति” अभोक्तुः पीनत्वासम्भवेन रात्रिभोजनं निश्चीयते तथा हि पीनत्वस्य भोजनव्याप्यतया पीनत्वाभावस्य च रात्रिभोजित्वाभावव्याप्यतानिश्चयेन पीनत्वेन रात्रिभोजनमनुमीयते सा चानुमितिः अर्थापत्तित्वेन व्यवह्रियते इति नैयायिकाः। मीमांसकवेदान्तिभिस्तु कल्पयामि अर्थापयामीति विलक्षणानुभवात् अनुमितिभिन्नैव सेति स्वीक्रियते। अधिकमर्थापपत्तिशब्दे वक्ष्यते।
अनुपपन्न = त्रि० उप + पद–क्त न० त०। उपपत्तिशून्ये।
अनुपबाध = त्रि० नास्ति उपबाधा प्रतिबन्धोऽस्य। प्रतिबन्धशून्ये।
अनुपम = त्रि० नास्ति उपमा यस्य। अतुल्ये अन्यसादृश्यरहिते अत्युत्कृष्टे। “बलं प्रमाणं शक्तिश्च परैरनुपमं ममेति रा०। कुमुददिग्गजयोषिति स्त्रीत्यमरः। सुप्रतीकदिग्गजस्त्रियां स्त्रीति मेदिनिः।
अनुपमेय = त्रि० केनापि न उपमीयतेऽसौ उप + मि–कर्म्मणि यत् न० त०। अन्यैरतुल्ये, अन्यसाद्दृश्यरहिते।
अनुपयुक्त = न उपयुक्तम् उचितं भुक्तं वा न० त०। समुचितभिन्ने अननुरूपे भुक्तभिन्ने च।
अनुपयोग = पु० न उपयोगः आनुकूल्यं भोजनं वा न० त०। आनुकूल्याभावे, भोजनाभावे च। न० ब०। आनुकूल्यशून्ये, भोजनशून्ये च त्रि०।
अनुपरत = त्रि० उपरतः निवृत्तः न० त०। अनिवृत्ते विषयरागनिवृत्तिशून्ये।
अनुपरति = स्त्री न उपरतिः विषयरागः अभावे न० त०। विषयरागाभावे।
अनुपलक्षित = त्रि० न उपलक्षितः विशेषेण ज्ञातः। विशेषेणाज्ञाते अतर्किते।
अनुपलब्धि = स्त्री न उपलब्धिः अभावे न० त०। लाभाभावे प्रत्यक्षाद्यभावे च। तत्र अनुपलब्धिश्च न केवलं इन्द्रियादिसन्निकर्षाभावमात्रेण, किन्तु तत्सन्निकर्षेऽपि कारणान्तरादपि भवति यथोक्तं सांख्यसूत्रे। “सौक्ष्म्यात्तदनुपलब्धिरिति”। तदेव कारिकायां विवृतम् “अतिदूरात् सामीप्यादिन्द्रियघातान्मनोऽनवस्थानात्। सौक्ष्म्याद्व्यवधानादभिभवात् समानाभिहारादिति “नास्ति घटोऽनुपलब्धेरिति”। योग्यपदार्थस्यानुपलब्धिश्च अभावज्ञानसामग्री। तद्विवरणं योग्यानुपलब्धिशब्दे दृश्यम्।
अनुपवीत = पु० न उपवीतं यज्ञसूत्रं विधिना जातमस्य। अनुपनीते मानवके। उपवीतरूपयज्ञसूत्रशून्ये च।
अनुपशम = पु० न उपशमः शान्तिः निवृत्तिर्वा अभावे त० त०। शान्त्यभावे, निवृत्त्यभावे च।
अनुपसंहारिन् = पु० न्यायमते परिभाषिते दुष्टहेतुविशेषे। स च अन्वये व्यतिरेके च दृष्टान्तरहितत्वेन दुष्टोहेतुः। यथा सर्वमनित्यं प्रमेयत्वादित्यनुमाने सर्वस्यापि पक्षत्वेन अन्वये दृष्टान्तो नास्ति नापि व्यतिरेके दृष्टान्तः, सर्वस्यापि प्रमेयतया तदभावस्य कुत्राप्यसिद्धेः। “तथैवानुपसंहारी केवलान्वयिपक्षक” इति। “आद्यः साधारणस्तु स्यादन्योऽसाधारणो मतः। तथैवानुपसंहारी त्रिधा नैकान्तिको मत” इति च भाषा० मुक्तावल्यान्तु सर्वमभिधेयं प्रमेयत्वादित्यादिकं तदुदाहरणत्वेनोपन्यस्तं “केवलान्वयिपक्षक इत्यस्य च केवलान्वयिसाध्यक इत्येतत् परतया व्याख्यातञ्च। यथा “केवलान्वयिधर्म्मावच्छिन्नपक्षक इत्यर्थः। सर्बमभिधेयं प्रमेयत्वादित्यादौ सर्व्वस्यैव पक्षत्वात् सामान्याधिकरण्यग्रहस्थलान्तराभावान्नानुमितिः इदन्तु न सम्यक्। पक्षैकदेशे घटसहचाराग्रहेऽपि क्षतेरभावात् अस्तु वा सहचारग्रहस्तावतापि पक्षे अज्ञानरूपासिद्धिरेव न तुहेत्वाभासत्वं तस्य, तथापि केवलान्वयिसाध्यकत्वं तत्त्वमित्युक्तम्। उपसंहाराकारके त्रि०।
अनुपसेचन = त्रि० नास्ति उपसेचनं व्यञ्जनं यत्र। दध्यादिव्यञ्जनशून्ये अन्ने “स यत्तदन्नस्य महिमानं विद्यादि” त्युपक्रम्य “नाल्प इति ब्रूयान्नानुपसेचन” इति उक्तम्, अथ० ११, ३, ४।
अनुपस्कृत = त्रि० उप + कृ–प्रतियत्ने क्त सुट् न० त०। अकृतपाकादिसंस्कारे अविकृते च “मुन्यन्नानि पयः सोमो मांसं यच्चानुपस्कृतमिति” मनुः अनुपस्कृतं पाकोपस्काररहितमिति रघु०। “अविकृतमिति” कुल्लू०। अपरिष्कृते “अब्जमश्ममयञ्चैव राजतञ्चानुपस्कृतमिति” मनुः। दृष्टप्रयोजनानपेक्षे, “व्राह्मणार्थे गवार्थे वा देहत्यागोऽनुपस्कृत” इति मनुः “दृष्टप्रयोजनानपेक्ष” इति कुल्लू०। अनिन्दिते च “एषोऽनुपस्कृतः प्रोक्त” इति मनुः अनुपस्कृतः अविर्हित इति कुल्लू०।
अनुपस्थान = न० न उपस्थानम् अभावे न० त०। उपस्थानाभावे न० ब०। तच्छून्ये त्रि०।
अनुपस्थाप्य = त्रि० न उपस्थाप्यः। अस्मरणीये। प्रथमान्तपदानुपस्थाप्यत्वादिति जग०।
अनुपस्थिति = स्त्री न उपस्थितिः अभावे न० त०। उपस्थित्यभावे, स्मृत्यभावे च।
अनुपहत = न० न उपहतः भोगच्छेदादिना। सदशे नवे अभुक्ते वस्त्रे “अनुपहतमतिधवलमिति” काद०। उपघात शून्ये त्रि०।
अनुपाकृत = त्रि० उप–आ–कृ–क्त न० त०। मन्त्रैर्यज्ञे पशोरर्चनादिसंस्कार उपाकरणं तद्रहिते।
अनुपात = पु० अनुरूपः त्रैराशिकेन पातः। पाटीगणितोक्तेन त्रैराशिकेन युक्तसंख्यापाते। “पुरान्तरं चेदिदमुत्तरं स्यात् तदक्षविश्लेषलवैस्तदा किम्?। चक्रांशकैरित्यनुपातयुक्त्या युक्तं निरुक्तं परिधेः प्रमाणम्” सि० शि०।। “निरक्षदेशः स्वदेशाद्यथा यथा दक्षिणतो भवति तथा तथा खस्वस्तिकाद्विषुवद्वृत्तं नतम् तयोरन्तरेऽक्षांशाः। ते च निरक्षदेशजापसारयोजनैरनुपातेनोत्पद्यन्ते। अतः कस्मिंश्चित् पुरेऽक्षांशान् ज्ञात्वा तस्मात् पुरादुत्तरतोऽन्यस्मिन् पुरे ज्ञेयाः। ततस्तेषामन्तरांशैः पुरान्तरयोजनैश्चानुपातः। यद्यन्तरांशैः पुरान्तरयोजनानि लभ्यन्ते तदा चक्रांशैः ३६० किमिति फलं भूपरिधियोजनानि” इति प्रमि०। तदानयनञ्च “प्रमाणमिच्छा च समानजाती आद्यन्तयोः स्तः, फलमन्यजाति मध्ये, तदिच्छाहतमाद्यहृत् स्या” दित्युक्त त्रैराशिकरीत्या अन्तरयोजनसंख्याङ्केन राशिचक्रसंख्या३६०ऽङ्के गुणिते पुरान्तरयोजनाङ्केन विभक्ते लब्धं परिधिमानसंख्या। पश्चात्पतने च। अनुगतः पातं राहुंरूपग्रहभेदम्। पातग्रहानुगते। अनु + पत–णिच् णमुल्। पश्चाद्पातयित्वेत्यर्थे अव्य०। किन्तु कर्म्मोपपदेन सह “अमैवाव्ययेनेति” पा० नित्यसमासः “लतानुपातं कुसुमान्यगृह्णादिति” भट्टिः।
अनुपातक = न० अनुपातयति नरकं गमयति पत–णिच्ण्वुल् पातकं ब्रह्महत्यादि तत्सदृशम् प्रा० स०। ब्रह्महत्यादिमहापातकसदृशे वेदनिन्दादिजन्ये पापविशेषे तानि च पञ्चत्रिंशत्प्रकारहेतूद्भवत्वेन तावत्संख्यातानि अनुरत्र सादृश्ये तेन पतनहेतुमहापातकतुल्यत्वादस्य अनुपातकत्वमिति प्रा० वि०। तानि च विष्णुना दर्शितानि यथा “यागस्थस्य क्षत्त्रियस्य वैश्यस्य च, रजस्वलायाश्चार्न्तर्व्वत्न्याश्चात्रिगोत्रायाश्चाविज्ञातस्य गर्भस्य शरणागतस्य च घातनं ब्रह्महत्यसमानीति, कौटसाक्ष्यं सुहृद्बध एतौ सुरापानसमौ। ब्राह्मणस्य भूम्यपहरणं निक्षेपापहरणं सुवर्णस्तेयसमम्। पितृव्यमातामहमातुलश्वशुरनृपपत्न्यभिगमनं गुरुदारगमनसमम्। पितृष्वसृमातृष्वसृस्वसृगमनञ्च श्रोत्रियर्त्विगुपाध्यायमित्रपत्न्यभिगमनञ्च स्वसुः सख्याः सगोत्राया उत्तमवर्णायाः कुमार्य्या अन्त्यजाया रजस्वलायाः शरणागतायाः प्रव्रजिताया निक्षिप्तायाश्च।। अनुपातकिनस्त्वेते महापातकिनो यथा अश्वमेधेन शुद्ध्यन्ति तीर्थानुसर्णेन वा इति”।। नरकाण्यभिधाय “एतेष्वकृतप्रायश्चित्ता अतिपातकिनः पर्थायेण कल्पं पच्यन्ते, मन्वन्तरं तु महापातकिनः, अनुपातकिनश्च, उपपातकिनश्चतुर्युगमिति विष्णु० स०। तथा च महापातक सदृशान्येतानि पातकानि। अन्यान्यपि मनुना संक्षिप्य दर्शितानि यथा “अनृतञ्च समुत्कर्षे राजगामि च पैशुनम्। गुरोश्चालीकनिर्ब्बन्धः समानि ब्रह्महत्यया।। ब्रह्मोज्झता वेदनिन्दा कौटसाक्ष्यं सुहृद्बधः। गर्हितानाद्ययोर्जग्धिः सुरापानसमानि षट्।। निक्षेपस्यापहरणं नराश्वरजतस्य च। भूमिवज्रमणीनाञ्च रुक्मस्तेयसमं स्मृतम्।। रेतःसेकः खयोनीषु कुमारीष्वन्त्यजासु च। सख्युः पुत्रस्य च स्त्रीषु गुरुतल्पसमं विदुरिति”।।
अनुपातकिन् = त्रि० अनुपातकमस्त्यस्य इनि स्त्रियां ङीप्। अनुपातकयुक्ते “अनुपातकिनस्त्वेते महापातकिनस्तथा” स्मृ०।
अनुपातिन् = त्रि० अनुपतति अनुगच्छति अनु + गम–णिनि अनुगामिनि।
अनुपान = न० अनु भेषजेन सह पश्चाद्वा पीयते कर्म्मणि ल्युट्। औषधेन सह, तत्पश्चाद्वा पेये मधुगुडादौ। पानस्य जलस्य समीपे अव्ययी०। जलसामीप्ये अव्य०।
अनुपावृत्त = त्रि० न उपावृत्तः। अपरावृत्तं।
अनुपुष्प = पु० अनुगतं पुष्पं तद्विकाशम् अत्या० स०। शरवृक्षे तस्य पुष्पेणैव प्रकाशात्तथात्वम्।
अनुपूर्व्व = त्रि० अनुगतं पूर्ब्बं परिपाटीं गतिस०। यथाक्रमप्राप्ते यथाहान्यनुपूर्ब्बं भवति ऋ० १०, १८, ५ “यथावदनुपूर्व्वश” इति वर्ण्णानामनुपूर्ब्बश” इति च मनुः। अनुपूर्ब्ब + शस्। अनुपूर्बशः। “वृत्तानुपूर्ब्बे च न चातिदीर्घे” इति कुमा० “ततोऽनुपूर्ब्बायतवृत्तबाहुरिति” भारविः पूर्व्वमनुगतौ गीपुच्छाकाराविति मल्लि० अनुगतः पूर्ब्बम्। पश्चाद्गामिनि त्रि०। आग्नेयः प्रथमो गच्छत्यन्वारब्धो-ऽनुपूर्ब्बा इतरे, कात्या० ८, ८, २९ “इतरे दश पशवः अनन्वारव्धा एव अनुपूर्ब्बाः अनुगामिनो भवेयुरिति” व्या० निकृष्टप्रमाणे च “अनुपूर्ब्बाइतरे” कात्या० ८, ८, २०, “अनुपूर्ब्बांः निकृष्टा ह्यनुगच्छन्ति अत्र च प्रमाणेन निकृष्टत्वम्। अतश्च दक्षिणस्य वर्सिष्ठत्वमुक्तं तत उत्तरस्य तदपेक्षया हीनप्रमाणत्वं तदपेक्षया तत उत्तरस्य, तदपेक्षया तदुत्तरस्येत्येवमेकादशो यूपः सर्वतो निकृष्टो यथा भवति तथा कर्त्तव्यमिति” व्याख्या। अनुपूर्ब्ब + भावादौ ष्यञ्। आनुपूर्ब्यं तद्भावे षित्त्वात् चातुरीवत् वा स्त्री “साजत्यञ्च समानानुपूर्ब्बीकत्वेनेति” जग०। वेदे पृ० पूर्ब्बपदह्रस्वः। अनुपूर्ब्बी आनुपूर्ब्ब्ये स्त्रो। “वर्षिष्ठरशनः पुरुषोऽनुपूर्ब्ब्या इतरेषामिति” कात्या० १६, १, ९, “अनुपूर्ब्या द्विव्यामया रशनया” इति व्याख्या।
अनुपृष्ठ्य = त्रि० अनुपृष्ठं बध्यते अनुपृष्ठ + यत्। पृष्ठमध्ये बध्यपाशादौ “अनुपृष्ठ्यामायम्य पाशयोरिति” कात्या० १६, ८, ५।
अनुपेत = त्रि० न उपेतः। उपगतभिन्ने। उपगमनञ्च उपनयनार्थं गुरुसमीपगमनम्, तच्छून्ये च। न स्त्री जुहुयान्नानुपेत” इति स्मृतिः “अनुपेतः अनुपनोतः” इति रघु०। “यं प्रव्रजन्तमनुपेतमपेतकृत्यमिति” भाग० अत्रापि शुकस्य विद्वत्त्वेन कृत्यसामान्याभावेन अनुपनीततयैव प्रव्रज्योक्तिः।
अनुप्रदान = न० अनुप्रदीयते वर्णविशेषरूपता आधीयते अनेन अन + प्र + दा–करणे ल्युट्। वर्ण्णोत्पादनवाह्यप्रयत्नभेदे “एते श्वासानुप्रदाना अघोषाश्च विवृण्वते” इति सि० कौ०। श्वासः अनुप्रदानं वाह्यप्रयत्नो येषामिति तत्त्वबो०। “अनुप्रदानात् संसर्गात् स्थानात् करणविन्ययात्। जायते वर्ण्णवैशेष्यं परिमाणाच्च पञ्चमादिति” शिक्षा।
अनुप्रवचन = न० अनुरूपं गुरुमुखोच्चारितानुरूपं प्रवचनम्। गुरूच्चारितानुवचने। तत्प्रयोजनमस्य छ। अनुप्रवचनीयः तथाभूत ध्ययनप्रयोजनयुक्ते त्रि०।
अनुप्रवचनादि = पु० ६ त०। पाणिन्युक्ते “तदस्य प्रयोजनमित्यर्थे विहितप्रत्ययनिमित्ते प्रकृतिभूते शब्दसमूहे। अनुप्रवचन, उत्थापन, उपस्थापन, संवेशन, अनुप्रवेशन, अनुवादन, अनुवचन, अनुवाचन, अन्वारोहण, प्रारम्भण, आरम्भण, आरोहण।
अनुप्रवेश = पु० अनु + प्र + विश + भावे घञ्। अनुरूपप्रवेशे “पुपोष दृद्धिं हरिदश्वदीधितेरनुप्रवेशादिव बालचन्द्रमा” इति रघुः। अमावास्यायाञ्चन्द्रार्कयोः एकराश्यवस्थितत्वेन सूर्य्यमण्डलादधः स्थितत्वाच्चार्काच्चन्द्रस्यान्तरगतौ सूर्य्यरश्मे- रिन्दौ प्रवेशः तदुत्तरञ्च क्रमशः प्रवेशाधिक्यम् “सलिलमये शशिति रवेर्दीधितयोमूर्च्छितास्तमोनैशम्। क्षपयन्ति दर्पणोदरनिहिता इव मन्दिरस्यान्तरिति” वृहत्स०। यथा च तस्याधस्थःत्वं तथा इन्दुशब्दे वक्ष्यते। तथाहि यावद्यावच्च सूर्य्यात् चन्द्रमाः पूर्बं गच्छति तावत्तावदेव व्यवधानानुरूपेण सूर्य्यरश्मेस्तत्र क्रमशःप्रवेशः।
अनुप्रासः = पु० अनुगतः रसाद्यनुगुणं प्रकृष्टमासं वर्णन्यासं समवर्णरचनां समवर्णोच्चारणं वा गतस०। अलङ्कारप्रसिद्धे स्वरवैषम्येऽपि समवर्ण्णानां तुल्यरचनारूपे “अनुप्रासः शब्दसाम्यं वैषस्येऽपि स्वरस्य यत् (सा० द०) उक्ते शब्दालङ्कारभेदे। स च पञ्चधा ते च सोदाहरणमुक्ता दर्पणे यथा “छेको व्यञ्जनसङ्घस्य सकृत् साग्यमनेकधा”। छेकश्छेकानुप्रासः। अनेकधेति स्वरूपतः क्रमतश्च। रसः सर इत्यादिक्रमभेदेन सादृश्यं नास्यालङ्कारस्य विषयः। यथा “आदाय वकुलगन्धानन्धीकुर्व्वन् पदे पदे भ्रमरान्। अयमेति मन्दमन्दं कावेरीवारिपावनः पवनः”।। अत्र गन्धानन्धीति संयुक्तयोः, कावेरीवारीत्यसंयुक्तयोः। पावनः पवन इति बहूनां व्यञ्जनानां सकृदावृत्तिः। छेको विदग्धः तत्प्रयोज्यत्वादेष छेकानुप्रासः। “अनेकस्यैकधा साम्यमसकृद्वाप्यनेकधा। एकस्य सकृदप्येष वृत्त्र्यनुप्रास उच्यते”।। एकधा स्वरूपत एव न तु क्रमतोऽपि। अनेकधा स्वरूपतः क्रमतश्च। सकृदपीत्यपिशब्दादसकृदपि। यथा “उन्मीलन्मुधगन्धलुब्धमधुपव्याधूतचूताङ्कुरक्रीडत्कोकिलकाकलीकलकलैरुद्गोर्णकर्णज्वराः। नीयन्ते पथिकैः कथं कथमपि ध्यानावधानक्षणप्राप्तप्राणसमासमागमरसोल्लासैरमी वासराः”। अत्र रसोल्लासैरमी इति रसयोरेकधैव साग्यम्। न तु तेनैव क्रमेणापि। द्वितीये पादे तु कलयोरसकृत् तेनैव क्रमेण च। प्रथमे एकस्य तकारस्य सकृत्। रसविषयव्यापारवती वर्णरचना वृत्तिस्तदनुगतत्वेन प्रकर्षेण व्यसनाद्धत्त्यनुप्रासः। “उच्चार्य्यत्वाद्यदैकत्र स्थाने तालुरदादिके। सादृश्यं व्यञ्जनस्यैव श्रुत्यनुप्रास उच्यते”।। यथा “दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः। विरूपाक्षस्य जयिनीस्ताः स्तुमो वामलोचनाः”।। अत्र “जीवयन्तीति” “या इति” “जयिनीरिति” अत्र जकारयकारयोरेकत्र स्थाने तालौ उच्चार्य्यत्वात् सादृश्यम्। एव दन्त्यकण्ठ्यानानप्युदाहार्य्यम्। एष च सहृदयानामतीव श्रुतिसुखावहत्वाच्छ्रुत्यनुप्रासः। “व्यञ्जनं चेद्यथावस्थं सहाद्येन स्वरेण तु। आवर्त्त्यतेऽन्त्य- योज्यत्वादन्त्यानुप्रास एव तत्”।। “यथावस्थमिति” यथा सम्भवमनुस्वारविसर्गस्वरसंयुक्ताक्षरविशिष्टम्। एष च प्रायेण पादस्य पदस्य चान्ते प्रयोज्यः। पादान्तगो यथा “केशः काशस्तवकविकासः कायः प्रकटितकरभविलासः। चक्षुर्दग्धवराटककल्पं त्यजति न चेतः काममनल्पम्”।। पदान्तगो यथा। “मन्दं हसन्तः पुलकं वहन्त इत्यादि। “शब्दार्थयोः पौनरुक्त्यं भेदे तात्पर्य्यमात्रतः। लाटानुप्रास इत्युक्तोऽनुप्रासः पञ्चधा ततः” इति। यथा “स्मेरराजीवनयने! नयने किं निमीलिते?। पश्य निर्जितकन्दर्पं कन्दर्पवशगं प्रियम्।। अत्र विभक्त्यर्थस्यापौनरुक्त्येऽपि मुख्यतरस्य प्रातिपदिकांशद्यीत्यधर्म्मिरूपस्याभिन्नार्थत्वाल्लाटानुप्रासत्वमेव। “नयने तस्यैव नयने” अत्र द्वितीय नयनशब्दो भाग्यवत्तादिगुणविशिष्टत्वरूपतात्पर्य्यमात्रेण भिन्नार्थः। यथा वा। “यस्य न सविधे दयिता दवदहनस्तुहिनदीधितिस्तस्य। यस्य च सविधे दयिता दवदहनस्तुहिनदीधितिस्तस्य”।। अत्रानेकपदानां पौनरुक्यम्। एष च प्रायेण लाटजनप्रियत्वाल्लाटानुप्रास” इति।
अनुप्लव = पु० अनु–प्लु–अच्। सहाये, अनुचरे, दासे च। “सानुप्लवः प्रभुरपि क्षणदाचराणामिति” रघुः।
अनुबन्ध = पु० अनु + बन्ध–यथायथं भावादौ घञ्। बन्धने, इच्छापूर्वकदोषविशेषाभ्यासे, “अनुबन्धादिकं दृष्ट्वा सर्वं कार्य्यं यथाक्रममिति” स्मृतिः। “अनुबन्धः पौनःपुन्येनाभिनिवेश” इति रघु०। शास्त्रस्यादौ वक्तव्येषु अधिकारिविषयप्रयोजसम्बन्धेषु, “अनुबन्धोनामविषयप्रयोजनाधिकारिसम्बन्ध” इति “अस्य वेदान्तप्रकरणत्वात्तदीयैरेवानुबन्धैस्तद्वत्तासिद्धेरिति च” वेदा० सा० “ज्ञातार्थं ज्ञातसम्बन्धं श्रोतुं श्रोता प्रवर्त्तते। ग्रन्थादौ तेन वक्तव्यः सम्बन्धः स प्रयोजन” इत्युक्तेः विषयप्रयोजनादीनामारम्भप्रयोजकत्वात् तद्धेतुत्वम्। अस्मिन् पक्षे च अनुबध्यते अनेनेति करणे घञ्। मुख्यानुयायिनि अप्रधाने, बालकादौ प्रकृतस्यानुवर्त्तने, संबन्धे, वातपित्तादिदोषाणामप्राधान्ये, प्रकृतिप्रत्ययागमादेशानां विकरणागमगुणवृद्ध्यादिकार्य्यविशेषार्थमनुबन्धनीये परिनिष्पन्नपदकालेषु अश्रूयमाणतया नश्वरे इत्संज्ञतया कृतलोपे वर्ण्णादौ, “पदानिड्विड्विकरणाद्यनुबन्धगणोदितम् कर्म्मोच्चारणमात्रेण स्पष्टमत्रानुबन्धत इति” कविकल्पद्रुमः। फलसाधने पुनःपुनरनुष्ठानाभ्यासे, “अनुबन्धं परिज्ञाय देशकालौ च तत्त्वतः। सत्त्वापराधो चालोक्य दण्डं दण्ड्येषु पातयेदिति” मनुः। वन्धेऽपि मेदिनिः। आरम्भे, शब्दरत्ना०। अनुसरणे “शान्तज्वरोऽपि शोध्यः स्वादनुबन्धभयान्नर इति सुश्रुतम्। सन्ततसम्बन्धे (अविच्छेदे) “सानुबन्धाः कथ न स्युः सम्पदो मे निरापद” इति रघुः। अनुवध्यते अनुरुध्यते कर्म्मणि घञ्। पश्चाद्भाविनि शुभाशुमे। “अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम्” इति गीता पश्चात्सम्बन्धेच। “यदग्रे चानुबन्धे च सुखं मोहुनमात्मन” इति गीता।
अनुबन्धिन् = त्रि० अनुबघ्नगात अनु + बन्ध–णिनि। महचरे अनुगते, अनुरोधिनि, व्यापके च। स्त्रियां ङीप्। “गुणा गुणानुबन्धित्वात्तस्य सप्रसवा इव” इति रवुः। “अधश्च मूलान्यनुसन्ततानि कर्म्मानुबन्धीनि मनुष्यलोके” इति गीता। “सूक्ष्मानुबन्धी सूक्ष्मश्च सुगन्धी रोचको मृदुरिति” “मेदःकषायैः खलु रोग एष सुदुस्तरो वर्षगणानुबन्धी” इति च सुश्रुतम्।
अनुबन्धी = स्त्री अनुबध्यतेऽतिश्वासेन व्याप्रियतेऽनया अनु– बन्ध–घञ् गौरा० ङीष्। हिक्कारोगे, तृष्णायाञ्च।
अनुबन्ध्य = त्रि० बधार्थं बन्धोऽनुबन्धः अनु + बन्ध–कर्म्मणि ण्ठत्। बधार्थं बध्ये गवादौ। “नानुबन्ध्याबवाऽपि वा। तथोद्धारविभागश्च नैव संप्रति वर्त्तते” इति स्मृतिः।
अनुबोध = पु० अनु + वुध–णिच्–घञ्। पूर्व्वलिप्तचन्दनादेर्गन्धोद्दीपनार्थं पुनर्मर्दनादौ, पश्चाद्बोधे च।
अनुब्राह्मण = न० ब्राह्मणं मन्त्रेतरवेदभागस्तत्सदृशम्। ब्राह्मण सदृशे ग्रन्थे। तदधीते वेद वा इनि। अनुब्राह्मणी ब्राह्मणसदृशग्रन्थाध्यायिनि, तद्वेत्तरि च त्रि० स्त्रियां ङीप्।
अनुभव = पु० अनु + भू–अप्। स्मृतिभिन्ने ज्ञाने। विषयानुरूपभवनाच्च वुद्धिवृत्तेरनुभवत्वम्। “वृत्तिसारूप्यमितरत्र” पात० सूत्रे, विषयानुरूपत्वं चित्तवृत्तेरभिहितम्। तथाहि यथा पयः प्रणाल्या क्षेत्रादिकं प्राप्य चतुरस्राद्या कारेण परिणमते एवमेव इन्द्रियादिप्रणाल्याऽन्तःकरणं वहिर्निसृत्य विषयाकारेण परिणमते तादृशपरिणामरूपवृत्त्या च विषयगतमज्ञानं निवारयतीति अन्तःकरणस्य विषयरूपानुरूपभवनात् अनुभवत्वम्। स्मृतौ तु विषयसन्निकर्षाभावात् न विषयाकारताप्राप्तिरिति तद्भिन्ने ज्ञाने एवास्य प्रयोगोपाधिता इति सांख्यबेदान्तिमतम्। अनुभवस्य प्रत्यक्षाणुमानोपमाशाब्दभेदेन चतस्रो विधाः इति नैयायिकादयः। वेदान्तिनो मीमांसकाश्च अर्थापत्त्यनुपलब्धिरूपमधिकं तद्भेदद्वयमुररीचक्रुः। वैशेषिकाः सौगताश्च प्रत्यक्षानुमारूपमेव अनुभवद्वयं स्वीचक्रुः अन्येषां सर्व्वेषामनयोरन्तर्भावात्। सांख्यादयः प्रत्यक्षानुमाशाब्दा एवेति भेदत्रयीमङ्गीचक्रुः। चार्वाकाः प्रत्यक्षमात्रमिति भेदः। “अनुभवं वचसा सखि लुम्पसीति” नैष०।
अनुभाव = पु० अनुभावयति उद्बोधयत्यनेन अनु + भू–णिच्करणे–घञ्। कोषदण्डादिजाते राज्ञां तेजोविशेषे। सामर्थ्ये च। कर्त्तरि अच्। अलङ्कारशास्त्रप्रसिद्धे रसव्यञ्जके “भावं मनोगतं साक्षात् स्वगतं व्यञ्जयन्ति ये। तेऽनुभावा” इति ख्याताः, इत्युक्तलक्षणे भ्रूभङ्गादौ। “विभावेनानुभावेन व्यक्तः सञ्चारिणा तथेति” सा० द०। अनुभावस्य लक्षणभेदादिकमुक्त्वा दर्पणे। “उद्बुद्धं कारणैः स्वैःस्वैर्वहिर्भावं प्रकाशयन्। लोके यः कार्य्यरूपः सोऽनुभावः काव्यनाट्ययोः।। यः खलु लोके सीतादिवन्द्रादिभिः स्वैःस्वैरालम्बनोद्दोपनकारणैरामादेरन्तरुद्बुद्धं रत्यादिकं वहिः प्रकाशयन् कार्य्य मित्युच्यते स काव्यनाट्ययोः पुनरनुभावः। कः पुनरसावित्याह। “उक्ताः स्त्रीणामलङ्कारा अङ्गजाश्च स्वभावजाः। तद्रूपाः सात्त्विका भावास्तथा चेष्टाः परा अपि”।। तद्रूपा अनुभावस्वरूपाः। तत्र च यो यस्य रसस्यानुभावः स तत्स्वरूपवर्ण्णने तत्र तत्र दर्शितः। तत्र सात्त्विकाः। “विकाराः सत्त्वसम्भूताः सात्त्विकाः परिकीर्त्तिताः”। सत्त्वं नाम स्वात्मविश्रामप्रकाशकारी कश्चनाऽऽन्तरो धर्म्मः। “सत्त्वमात्रोद्भवत्वात्ते भिन्ना अप्यनुभावतः”।। गोबलीवर्द्दन्यायेन इति शेषः। के ते इत्याह। स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः। वैवर्ण्ण्यमश्रु प्रलय इत्यष्टौ सात्त्विकाः स्मृताः।। तत्र। स्तम्भश्चेष्टाप्रतीघातो भयहर्षामयादिभिः। वपुर्ज्जलोद्गमः स्वेदो रतिघर्म्मश्वमादिभिः।। हर्पाद्भुतभयादिभ्यो रोमाञ्चो रोमविक्रिया। मदसंमदपीडाद्यैर्व्वैस्वर्य्यं गद्गदं विदुः।। रागद्वेषश्रमादिभ्यः कम्पो गात्रस्य वेपथुः। विषादमदरोपाद्यैर्वर्ण्णान्यत्वं विवर्ण्णता।। अश्रु नेत्रोद्भवं वारि क्रोधदुःखप्रहर्षजम्। प्रलयः सुखदुःखाभ्यां चेष्टाज्ञाननिराकृतिः इति”।। “अनुभावविशेषात्तु सेनापरिगतैरिव” रघुः। तेजसि च। गुरुभिरभिनिविष्टं लोकपालानुभावैरिति” रघुः। माहात्म्ये, “जामे वो रक्षसाक्रान्तावनुभावपराक्रमौ इति” रघुः।
अनुभावक = त्रि० अनुभावयति बोधयति अनु–भू–णिच्ण्वुल्। बोधके “यत्पदेन विना यस्याननुभावकता भवेत् आकाङ्क्षेति” भाषा०। “यन पदेन विना यत्पदस्यान्वया- ननुभावकत्वं तेन सह तस्याकाङ्क्षेति” सिद्धान्तमुक्तावली।
अनुभाविन् = त्रि० अनुभवति अनु + भू–णिनि। साक्षात्कारादिकारके। “अनुभावी तु यः कश्चित् कुर्य्यात् साक्ष्यं विवादिनामिति” मनुः। मनुपश्चात् भवति। पश्चाज्जाते कनिष्टादौ। “अनुभाविनां परिवापनमिति” आप० स्मृतिः। अनुपश्चाद्भवनोति अनुभाविनः कनिष्ठा इति रत्नाकरः “स्वाशौचमनुभवन्तीति अनुभवकारका” इति शु० त० रघु०।
अनुभाषण = न० अनु सहितं भाषणम्। सहभाषणे।
अनुभू = स्त्री अनु + भू–क्विप्। अनुभवरूपे ज्ञानभेदे “अयमात्मा सर्व्वानुभूरिति” वृ० उप०। “सत्यं ज्ञानमनन्तं ब्रह्मेति” श्रुत्या ब्रह्मणोज्ञानरूपत्वात् सर्व्वज्ञानरूपत्वम्।
अनुभूत = त्रि० अनु + भू–कर्म्मणि क्त। अनुभवविषयीभूते पदार्थे अनु + भू–कर्त्तरि क्त। पश्चाज्जाते त्रि०।
अनुभूति = स्त्री अनु + भू–क्तिन्। अनुभवे तद्विवरणमनुभवशब्दे दृश्यम्। “अनुभूतिश्चतुर्विधा प्रत्यक्षमप्यनुमितिस्तथोपमितिशाब्दजे” इति भाषा०।
अनुभूतिप्रकाश = पु० अनुभूतेरनुभवस्य वेदान्तश्रवणजन्यस्य प्रकाशार्थं माधवाचार्य्यप्रणीते उपनिषत्तात्पर्य्यज्ञापके प्रकरणभेदे
अनुमत = त्रि० अनु + मन–क्त। स्वयंप्रवृत्ते इदं क्रियतामिति प्रोत्साहनार्थमनुज्ञाते। अनुमोदिते च “कृतमनुमतं दृष्टं वा यैरिदं गुरु पातकमिति” वेणी०। “गुरुणानुमतः स्नात्वा समावृत्तो यथाविधि” इति मनुः। “सग्यग्विनीयानुमतो गृहायेति” च रघुः। “उभयानुमतः साक्षीति” स्मृतिः।
अनुमति = स्त्री अनु + मन–क्तिन्। अनुज्ञायाम्। “अनुमत्या व्यपेयादिति” स्मृतिः। अनुमन्यते कलाहीनत्वेऽपि पृर्णिमाविहितयागादिकरणायानुज्ञायतेऽस्याम् अधिकरणे क्तिन्। कलाहोनचन्द्रवत्यां शुक्लचतुर्दशीयुतपूर्ण्णिमातिथौ। अनुमतो राकेति देवपत्न्याविति नैरुक्ताः पौर्णमास्याविति याज्ञिका या पूर्व्वा पौर्णमासी सानुमतिर्योत्तरा सा राकेति विज्ञायते।। अनुमतिरनुमननात्। “अनुमतिराकासिनीबालीवु हूभ्यश्चरव” इति का० १८, ६, २१, कुह्वै “चैवानुमत्यै च प्रजापतय एव चेति” मनुः।
अनुमन्तृ = त्रि० अनु + मन–तृच्। स्वयमुदासीने कार्य्यादौ प्रवृत्तस्यान्यस्यीत्साहवर्द्धनार्थमनुज्ञाकर्त्तरि। “अनुमन्ता विशसिता नियन्ता क्रयविक्रयीति” मनुः “उपद्रष्टानुमन्ता च भर्त्ता भोक्ता महेश्वर” इति गीता। “अनुमन्ता अनुमोदयितैव सन्निधिमात्रेणानुग्राहक” इति श्रीधरः।
अनुमन्त्रण = पु० अनु मन्त्रोच्चारणात् पश्चात् मन्त्रणम् मन्त्रेण संस्कारादिकरणम्। मन्त्रोच्चारपूर्व्वके यागादिषु संस्कारभेदे “प्रयाजानुमन्त्रणमिति” कात्या० ३, ३, २।
अनुमरण = न० अनु + मृ–ल्युट्। भर्त्तरि मृते तद्देहाप्राप्तौ तत्पादुकादिग्रहणेन पृथक्चितारोहणेन स्त्रीणां देहत्यागे। “भर्त्त्रानुमरणं काले याः कुर्व्वन्ति तथाविधाः। कामात् क्रोधात् भयाद्वापि सर्वाः पूताः भवन्ति ताः” इति स्मृतिः अनुपूर्ब्बकमरणस्य मरणसदृशमरणार्थकत्वेन सकर्म्मकत्वम् अतएव “भवता नानुमृतापि लभ्यते” इति रघौ कर्मणि क्तप्रयोगः। अनुमरणं च भर्त्तुः देशान्तरादिमरणे देहाद्यलाभे एव “देशान्तरे मृते पत्यौ साध्वी तत्पादुकाद्वयम्। निधायोरसि संशुद्धा प्रविशेज्जातवेदसमिति” स्मृतिः। तत्र क्षत्रियादीनामेवाधिकारो न विप्रायाः, यथोक्तम्। “पृथक्चितां समारुह्य न विप्रा गन्तुमर्हतीति” शु० त० स्मृतौ।
अनुमा = स्त्री अनु + मा–अङ्। परामर्शज्ञानाधीने (व्याप्तधूमादिलिङ्गविशिष्टज्ञानाधीने) ज्ञानभेदे यथा “पर्वतो वह्निमानित्यादि” तथाहि धूमादिहेतौ महानसादौ प्राक् भूयःसहचारदर्शनात् धूमत्ववह्नित्वसामान्यधर्म्मेण सकलवह्निधूमादिव्याप्तिनिश्चयः अनन्तरं देशान्तरं गतवतो वह्न्यर्थिनः पर्वतादौ धूमदर्शने सति तत्र वह्निव्याप्तिस्मृतिर्जायते एकसम्बन्धिज्ञानस्यापरसम्बन्धिस्मारकताया नियमेन, धूमदर्शनात् धूमगताया वह्नेर्व्याप्तेः स्मरणसम्भवात्। ततस्तादृशधूमवान् अयं पर्वत इति निश्चयरूपपरामर्शेन तत्र वह्निमानयमिति निश्चिनोति सोऽयं निश्चयः अनुमितिरूपः अनुभवभेद इति। तत्र च धूमादिलिङ्गज्ञानमेव करणं नतु ज्ञायमानलिङ्गं करणमिति नव्यनैयायिकसिद्धान्तः प्राचीनमते ज्ञायमानलिङ्गमेवेति भेदः “अनुमायां ज्ञायमानं लिङ्गं तु करणं न हीति” भाषा०। “सोऽयं नियन्त्रितार्थत्वान्न प्रत्यक्षं न चानुमेति” श० श० प्र०।
अनुमातृ = त्रि० अनु + मा–तृच्। अनुमानकर्त्तरि “नहि करिणि दृष्टे चीत्कारेण तमनुमिमतेऽनुमातार” इति वाचस्पतिः।
अनुमान = न० अनु–मि–मा–वा भावादौ ल्युट्। व्याप्यस्य ज्ञानेन व्यापकस्य निश्चये, यथा वह्निर्धूमस्य व्यापक इति धूमस्तस्य व्याप्त इत्येवं तयोः भूयः सहचारं पाकस्थानादौ दृष्ट्वा पश्चात् पर्वतादौ उद्धूयमानशिखस्य धूमस्य दर्शने तत्र वह्निरस्तीति निश्चीयते। करणे ल्युटि। तद्धेतुभूते धूमादौ। “तच्चानुभानं त्रिविधमिति” चित्तामणिः। श्रुतेरेच स्वतः प्रामाण्यं, यत्र श्रुतिः साक्षात् न श्रूयते तत्र स्मृतिवाक्यात् श्रुतिवाक्यमनुभीयते इति श्रुत्यनुमापकं स्मृतिवाक्यमप्यनुमानपदेनाभिधीयते इति मीमांसकाः। “विरोधे त्वनपेक्षमसति ह्यनुमानमिति जै० मू०। इयं स्मृतिः वेदमूलिका आप्तवाक्यत्वादित्येवमनुमानाकारः इति। “दृष्टमनुमानमाप्तवचनञ्च सर्व्वप्रमाणसिद्धत्वादिति सा० का०। “अतीन्द्रियस्य सिद्धिरनुमानादिति” सांख्य० सू० “प्रत्यक्षपरिकलितमप्यर्थमनुमानेन वुभुत्सन्ते” इति वाच० “प्रत्यक्षमनुमानं च शास्त्रञ्च विविधागममिति मनुः। “एवमनुमाने निरूपिते तस्मात् पुरुषधौरेयसिद्धिरिति” चिन्ता० “नानुमानं रसादीनामिति सा० द० “सपरिकर मनुमानं निरूप्येति” चिन्तामणिदीधितिः।
अनुमानचिन्तामणि = पु० गङ्गेशोपाध्यायकृते न्यायशास्त्रस्यानुमानतत्त्वज्ञापके प्रकरणभेदे। तत्र च आदौ अनुमितिस्वरूपादिनिरूपणं ततस्तत्कारणव्याप्तिज्ञानार्थं व्याप्तिनिरूपणम् ततोव्याप्तिग्रहोपायनिरूपणम् ततो व्याप्तिग्रहानुकूलतर्कनिरूपणम्, उक्तासु बह्वीषु व्याप्तिषु कथङ्कारं तासामनुगमस्तन्निरूपणम्” ततः व्याप्तिज्ञानोपायतया सामान्यलक्षणानिरूपणम् ततो हेतोः परिशुड्विज्ञानार्थमुपाधिनिरूपणम्। ततोऽनुमित्यङ्गपक्षतानिरूपणम् परार्थानुमानस्य पञ्चावयवन्यायसाध्यतया तन्निरूपणम्। अनुमितौ परामर्शस्य (साध्यव्याप्तिमद्धेतुविशिष्टज्ञानात्मकस्य) स्वरूपादिनिरूपणम्।। ततोहेतुत्रैविध्यस्य (केवलान्वयि केवलव्यतिरेक्यन्वयव्यतिरेकित्वरूपस्य) निरूपणम् ततो वर्ज्जनीयतया हेतोर्दोषाणां (हेत्वाभासानाम्) निरूपणम् तत्रादौ सासान्यतोहेत्वाभासलक्षणम् ततः सव्यभिचारस्य, साधारणस्य, असाधारणस्य, अनुरूपसंहारिणः, असिद्धेश्च क्रमशः, ततो बाधस्य निरूपणम् इत्येतत्पर्य्यन्तं सपरिकरमनुमानं हेयतया तद्दोषांश्च निरूप्य तादृशानुमानेन ईश्वरस्य सिद्धिर्दर्शिता तस्याराधनसहकृतेन षोडशपदार्थ तत्त्वज्ञानेनात्यन्तिकदुःखनिवृत्तिरूपापवर्गसिद्धिरित्येते पदार्थाः तत्रत्या अवधेयाः।
अनुमानदीधिति = स्त्री अनुमानरूपचिन्तामणेर्दीधितिरिव। रघुनाथशिरोमणिकृतायामनुमानचिन्तामणिव्याख्यायाम्।
अनुमार्ग = अव्य० मार्गे विभक्त्यर्थे याथार्थ्ये, पश्चादर्थे वा अव्ययी०। मार्गे इत्यर्थे, मार्गानुरूपे, मार्गस्य पश्चादर्थे च। “अनुमार्गागतायाञ्चेति” काद०।
अनुमाष = अव्य० माषे विभक्त्यर्थे अव्ययी०। माषे इत्यर्थे। परिमुखा० ञ्य। आनुमाष्यः तद्भवादौ त्रि०।
अनुमासं = अव्य० वीप्सार्थे अव्ययी०। प्रतिमासे, अनुमासे भवः ठञ्। आनुमासिकः प्रतिमासभवे “पिण्डान्वाहार्य्यकं श्राद्धं कुर्य्यान्मासानुमासिकम्” इति मनुः।
अनुमित = त्रि० अनु + मि–कर्म्मणि क्त। कृतानुमाने अनुमानविषयीभूते। “अनुमितोऽपि हि वाष्पनिरीक्षणाद् व्यभिचचार न तापकरोऽनल” इति नैष०।
अनुमिति = स्त्री अनु–मा–क्तिन्। अनुमाने व्याप्तिविशिष्टस्य पक्षधर्म्मताज्ञानाधीने अनुभवभेदे “स पक्षस्तत्र वृत्तित्वज्ञानादनुमितिर्भवेदिति” भाषा०। अनुमितिश्च द्विविधा स्वार्था परार्था च तत्र हेतौ व्याप्तिनिश्चये सति तस्य च पक्षे वृत्तित्वज्ञानात् उपादेयपदार्थग्रहणाय प्रवर्त्तिका यानुमितिः सा स्वार्था। विवदमानं प्रति कञ्चित्पदार्थं साधयितुं मध्यस्थाद्यवलम्बनेन प्रतिज्ञाहेतूदाहरणोपनयननिगमनरूपपञ्चावयवन्यायसाध्या परार्था।
अनुमित्सा = स्त्री अनु + मि–सन्–भावे अ। अनुमातुमिच्छायाम् सिषाधयिषायाम्। अनुमित्सायां हि सिद्धिसत्त्वेप्यनुमितिरुदेति तदभावे साध्यवत्तानिश्चययरूपसिद्धि सत्त्वे नानुमितिः। तत्रायं विशेषः सामाथिकरण्येन सिद्धिसत्त्वेऽपि अवच्छेदावच्छेदेनानुमितिर्भवत्येव न तत्रानुमित्सापेक्षा तथा च अवच्छेदावच्छेदेन सिद्धिरेव अवच्छेदावच्छेदेन सामानाधिकरण्येन चानुमितिं प्रतिवध्नाति एवञ्च तत्रैव इच्छापेक्षेति। अतएव वाचस्पतिना “प्रत्यक्षपरिकल्पितमप्यर्थमनुमानेन बुभ्त्सन्ते तर्करसिका” इत्युक्तम्।
अनुमृत = त्रि० अनु पश्चात् शोकादिना मृतः। शोकादिना मृतस्य पश्चात् मृते। अनु + मृ–कर्म्मणि क्त। यस्य पश्चात् म्नियते तस्मिन् “भवता नानुमृताऽपि लभ्यते” इति रघुः।
अनुमेय = त्रि० अनुमीयतेऽसौ अनु + मि–कर्म्मणि यत्। अनुमित्यर्हे, अनुमातुं योग्ये “एतावता नन्वनुमेयशोभीति” कुमा०। “फलानुमेयाः प्रारम्भाः संस्काराः प्राक्तना इव” इति रघुः।
अनुमोद = पु० अनु + मुद–णिच्–घञ्। प्रकृतकर्म्मणि प्रवृत्तिविघाताक्लरणेनान्यवोत्साहानुकूलव्यापारे। त्वया यत् कृतं तन्मोनुमतमित्याद्यभिलापव्यङ्ग्ये। भावेल्युट्। तत्रैवार्थे न०।
अनुमोदित = त्रि० अनु + नुद–णिच्–कर्म्मणि क्त। कृतानुमोदने स्वानुमतत्वज्ञापनेन प्रोत्साहिते “भवता यद्व्यवसितं तन्मेसाध्वसुमोदितम्। प्रार्थ्यमानोऽर्थिना यत्र ह्यर्थो नैव विघातितः। दानकालेऽथवा तूष्णीं स्थितः, सोऽर्थोऽनुमोदित इति (प्रा० वि०) उक्तेऽर्थे च।
अनुयव = अव्य० यवे विभक्त्यर्थे अव्ययी०। यवे इत्यर्थे। परि- मुखा० भवादौ ञ्य। आनुयव्यम् तत्रभवे पदार्थे त्रि०।
अनुयाज = पु० अनु + यज–घञ् यज्ञाङ्गत्वात् कुत्वाभावः। दर्शपौर्णमासाङ्गेषु प्रयाजादिषु पञ्चसु यागेषु। “यजतिषु ये यजामहे नानुयाजेषु” इति श्रुतिः। “प्रयाजान्मे अनुयाजांश्च केवलानिति” ऋ० १०, ५१, ९, अनुयाजानुमन्त्रणम् का० ३, ५, १४।
अनुयात = त्रि० अनु या–कर्त्तरि क्तः। पश्चाद्गन्तरि, रुहगन्तरि च कर्म्मणि० क्तयस्य पश्चाद्गम्यते तादृशे जने।
अनुयात्र = अव्य० यात्रायां विभक्त्यर्थे पश्चादर्थे वा अव्ययी०। यात्रायामित्यर्थे, यात्रायाः पश्चाद्भावे च। अनुगता अनुरूपीकृता यात्रा येन प्रा० ब०। अनुयायिवर्गे। “त्यक्तभोगस्य मे राजन्! वने वन्येन जीवतः। किं कार्य्य मनुयात्रेणेति” रामा० अनुगता यात्रा प्रा० स०। पश्चाद्यात्रायां स्त्री। तत्प्रयोजनमस्येत्यर्थे ठक्। आनुयात्रिकः अनुचरे सेवके त्रि०।
अनुयात्रिक = त्रि० अनुयात्रा पश्चाद् यात्रा अनुगमनमस्त्यस्य ठन्। पश्चाद्गन्तरि अनुचरे “सर्व्वानेवानुयात्रिकवर्गान् त्वया सहेति” शकु०।
अनुयायिन् = त्रि० अनुयाति पश्चात् गच्छति अनु + या–णिनि स्त्रियां ङीप्। पश्चाद्गन्तरि, सेवके, अनुचरे “न्यषेधि शेषोऽप्यनुयायिवर्गः” इति रघुः सदृशे, मुख्यस्यानुगन्तरि शिशौ च।
अनुयुक्त = त्रि० अनु + युज–क्त। जिज्ञासिते पदार्थे। कृतप्रश्ने, यं प्रति कस्यचित् पदार्थस्य जिज्ञासार्थं प्रश्नः क्रियते तस्मिंश्च। “स चानुयुक्तो व्याचष्टामिति खण्डनखाद्यम्।
अनुयुग = अव्य० युगे विभ० अव्ययी०। युग इत्यर्थे। तत्र भवः परिमुखा० ञ्य। आनुवुग्यः अनुयुगभवे त्रि०।
अनुयूप = अव्य० यूपे विभ० अव्ययी०। “यूप इत्यर्थे। तत्र भवः परिमुखा० ञ्य। आनुयूप्यः यूपभवे त्रि०।
अनुयोक्तृ = त्रि० अनु + युज–तृच् स्त्रियां ङीप्। प्रश्नकारके। भृतकाध्यापके च।
अनुयोग = पु० अनुयुज्यते कथनाय नियुज्यते अनु + युजघञ्। प्रश्ने। सति हि प्रश्ने, पृष्टः कथनाय प्रवर्त्तते। “निगृह्यानुयोगे चेति” पा०। अनुपूर्ब्बात् युजेः प्रश्नार्थकता। तेन “त्वया कियद्वेति तमन्वयुङ्क्त” इति रघौ प्रश्नार्थकतया निर्द्देशः।
अनुयोगकृत् = पु० अनुयोगं प्रश्नविषयसंशयं कृन्तति कृत छेदने क्विप्। आचार्य्ये। कृ–क्विप्। पृच्छके त्रि०।
अनुयोगिन् = त्रि० अनुयुङ्क्ते अनु + युज–घिनुण्। प्रश्नकारके।
अनुयोज्य = त्रि० अनुयुज्यते नियुज्यते “अनु + युज–शक्यार्थे आवश्यकार्थे वा ण्यत्। प्रश्नार्हे अवश्यनियोज्ये, त्वया कथमित्थं कृतमित्याक्षेपेण कृतप्रश्ने, आज्ञाकारके, दासादौ च “वासवानुयोज्यो दुष्मन्तः प्रणमति” शकु०।
अनुरक्त = त्रि० अनु + रन्ज क्त। अनुरागयुक्ते, अनुगतः रक्तं रागम् अत्या० स०। प्राप्तरक्तवर्णे।
अनुरक्ति = स्त्री अनु + रन्ज–क्तिन्। अनुरागे।
अनुरञ्जक = त्रि० अनुरञ्जयति अनुरक्तं करोति अनु + रन्जणिच्–ण्वुल्। अनुरागयुक्तकारके।
अनुरञ्जन = न० अनु + रन्ज–णिच्–भावे ल्युट्। अनुरागयुक्त करणे “विश्वेषामनुरञ्जनेन जनयन्नानन्दमिति” रामा०। कर्त्तरि ल्यु। अनुरञ्जके त्रि०।
अनुरञ्जित = त्रि० अनु + रन्ज–णिच्–कर्म्मणि क्त। यस्य अनुरागः कृतः तस्मिन्, अनुरक्तीकृते जने।
अनुरणन = अनु + रण–ल्युट्। घण्टादिशब्दज प्रतिध्वन्यात्मके शब्दसन्ताने व्यञ्जनरूपशब्दशक्तिभेदे, ध्वनिभेदे च।
अनुरत = त्रि० अनु + रम–कर्त्तरि क्त। अनुरक्ते, अभिरते च।
अनुरति = स्त्री अनु + रम–भावे क्तिन्। अनुरागे।
अनुरस = त्रि० अनुगतो रसम्। माधुर्य्यादिरसानुगते “भूमिजं गुरु नातिवातलं भूमितश्चास्यानुरस” इति “मधुरानुरसं रूक्षं लवणानरसं लघु। नार्य्यास्तु मधुरं स्तन्यं कषयानुरसं हिममिति” च सुश्रुतम्।
अनुरहस = त्रि० अनुगतं रहः अत्या० स० अच्समा०। निर्ज्जनदेशानुगते।
अनुराग = पु० अनु + रन्ज + घञ्। अत्यन्तप्रीतौ, स्नेहे च। अनुरूपो रागः प्रा० स०। अनुरूपरागे। “अनुरागवन्तमपि लोचनयोरिति” माघः “प्रणादस्तु शब्दः स्यादनुरागज” इत्यमरः। “प्रियानुरागस्य मनःसमुन्नतेरिति” रघुः। अनुगतो रःगं गतिस०। प्राप्तलौहित्यवर्ण्णे त्रि०।
अनुरागिन् = त्रि० अनु + रन्ज–घिनुण् कुत्वम्। अनुरागयुक्ते स्त्रियां ङीप्। “वेश्याञ्चाननुरागिणीमिति” सा० द०
अनुरात्र = अव्य० रात्रौ विभ० अव्ययी० अच्समा०। रात्रावित्यर्थे, प्रतिरात्रे च। “तस्मात् स्त्र्यनुरात्रं पत्याविच्छते” इति श्रुतिः। अनुगतो रात्रिम्। रात्र्यनुगते त्रि०।
अनुराधा = स्त्री० अनुगता राधां विशाखाम् अत्या० स०। सप्तविंशतिधाविभक्तस्य राशिचक्रस्य सप्तदशभागात्मके नक्षत्रभेदे “रेवत्युत्तररोहिणीमृगशिरोमूलानुराधामघेति” ज्योति०। “राधे विशाखेसुहवानुराधाज्येष्ठासु नक्षत्रेष्विति” श्रुतिः। “शिखिगुणरसेन्द्रियानलशशिविषयगुणर्तुपञ्चवसुपक्षाः। विषयैकचन्द्रभूतार्णवाग्निरुद्राश्विवसुदहनाः। भूतशतपक्षवसवो द्वात्रिंशच्चेति तारकामानम्। क्रमशोऽश्विन्यादीनां कालस्ताराप्रमाणेन। नक्षत्रजमुद्वाहे फलमब्दैन्तारकामितैः सदसत्। दिवसैर्ज्वरस्य नाशो व्याधेरन्यस्य वा वाच्यः” इति वृ० उक्तेस्तस्याः चतुस्तारात्मकत्वम्। अश्वियमदहनकमलजशशिशूलभृददितिजीवफणिपितरः। योन्य र्यमदिनकृत्त्वष्टृपवनशक्राग्निमित्राश्च। शक्रो निरृतिस्तोयं विश्वे देवा हरिर्वसुर्वरुणः। अजपादोऽहिर्बुध्न्यः पूषा चेतीश्वरा भानाम्” इति वृहत्संहितोक्तेस्तस्या मित्रदेवताकत्वम्। तस्य च योगतारा “ज्येष्ठाश्रवणमैत्राणां वार्हम्पत्यस्य मध्यमा” इति सूर्य्यसि० उक्तेर्मध्यमा तारा। तत्र भवः अणो लुक् “लुक्तद्धितलुकीति” पा० स्त्रीप्रत्ययस्य लुक्। अनुराधस्तज्जाते त्रि०। नक्षत्रेण युक्तः काल इत्यणस्तु लुप् “लुपि युक्तवद्व्यक्तिवचनमिति” पा० अनुराधा अनुराधानक्षत्रयुक्तकाले ततः सप्तम्यर्थे तृतीयेति भेदः। पृ० दीर्घः। अनूराधाप्यत्र।
अनुरुद्ध– = त्रि अनु + रुध–कर्म्मणि क्त। अपेक्षिते।
अनुरुध् = त्रि० अनु + रुध–क्विप्। अनुरोद्धरि अपेक्षके। कर्मणि क्विपि वेदे उपसर्गदीर्घः। अनुरुद्धे। “आक्षित्पूर्व्वास्वपरा अनूरुद् ऋ० ३, ५५, ५, “अनूरुद् अनुरुद्धमिति” भा०।
अनुरूप = अव्य० रूपस्य सादृश्ये योग्यत्वे वा अव्ययी०। रूपस्य सादृश्ये, योग्यतायाञ्च। अर्श आद्यचि। तद्वति त्रि०। “अथानुरूपाभिनिवेशतोषिणेति” कुमा०। “सत्वानुरूपा सर्व्वस्य श्रद्धा भवति भारत” गीता। द्वादशाहसाध्ये यागे वहिष्यवमानगतानां त्रयाणां तृचानां मध्ये मध्यमे तृचे। “स्तोत्रियानुरूपौ तृचौ भवतः वृषण्वन्तस्तृचा भवन्ति तत्र उत्तमः पर्य्यास” इति ता० ब्रा०। प्राकृतानां वहिष्पवमानगतानां त्रयाणां तृचानां स्तोत्रियः, अनुरूपः, पर्य्यासश्चेति त्रीणि नामानीति भा०।
अनुरोध = पु० अनु + रुध–घञ्। अनुसरणे, आराध्यादेरिष्टसम्पादनेच्छायाञ्च। “मिवस्यानुरोधेन द्विविधं स्मृतमासनमिति” “नानुरोधोऽस्त्यनध्याये” इति च मनुः।
अनुरोधिन् = त्रि० अनु + रुध–णिनि। अपेक्षके। स्त्रियां ङीप्। “पतिव्रतानां समयानुरोषिनीति” रामा०।
अनुलाप = पु० अनुर्वीप्सायां वारंवारं लप्यते लप–वञ्। मुहुर्भाषणे।
अनुलिप्त = त्रि० अनु + लिप–क्त। गन्धादिना कृतानुलेपे “वन्दनागुरुकर्पूरकुङ्कुमोशीरपत्रकैः अनुलिप्तो नरैर्भक्त्या हरिरिष्टं प्रमच्छतीति” पुरा०।
अनुलेप = पु० अनु + लिप–भावे घञ्। चन्दनादिमर्द्दने। करणे घञ्। अनुलेपसाधाने चन्दनादौ।
अनुलेपक = त्रि० अनुलिम्पति अनु + लिप–ण्वुल्। चन्दनादिभिः स्वदेहदेवार्च्चाद्यनुलेपकारके। स्त्रियां टाप्। तस्याः धर्म्यं महिष्या० अण्। आनुलेपिकम् तद्धर्म्ये त्रि०।
अनुलेपन = न० अनु + लिप–भावे ल्युट्। चन्दनादिमर्दने “धात्रीफलं तथा दद्यादनुलेपनकारणादिति” पुरा०। करणे ल्युट्। अनुलेपसाधने चन्दनादौ द्रव्ये।
अनुलेपित = त्रि० अनु + लिप–णिच्–कर्मणि क्त। “अनुलिप्तीकृते
अनुलेपिन् = त्रि० अनुलिम्पति अनु + लिप–णिनि। अनुलेपके
अनुलोम = पु० यथाक्रमे अव्ययी० अच्समा०। यथाक्रमे। “अनुलोमविलोमाभ्यां मातृकार्ण्णान् जपेद्बुध इति तन्त्र० “तत्र प्रतिलोममालिम्पेन्नानुलोममिति” सुश्रुतम् अनुगतः लोम आनुरूप्यम् रोम वा प्रा० स०। आनुरूप्यप्राप्ते, यथाक्रमप्राप्ते च त्रि० “सवर्णासु पुत्राः सवर्णा भवन्ति अनुलोमजा मातृवर्णा” इति विष्णुस० अनुलोमं कृष्टं क्षेत्रं प्रतिलोलं कर्षति सि० कौ०। अनुगतरोमे च। “अनुलोमाः सुलोमाश्च रुचिरा रोमराजय” इति।
अनुलोमज = पु० स्त्री० अनुलोमेन यथाक्रमेण जातः जन–ड। परिणीतक्षत्रियादिस्त्रीषु विप्रादिभ्य उत्कृष्टेभ्यो वर्णेभ्यो जाते मूर्द्धावसिक्तादौ सङ्कीर्णवर्णे। अनुलोमजाश्च “विप्रान्मूर्द्धावसिक्तो हि क्षत्रियायां, विशःस्त्रियाम्। अम्बष्ठः, शूद्र्यां निषादजातिः पारशवोऽपि वा” “वैश्याशूद्र्योस्तु राजन्यात्, माहिष्योग्रौ नुतौ स्मृतौ, वैश्यात्तु करणः शूद्र्यां, विन्नास्वेष विधिः स्मृत” इति च याज्ञ० स०।
अनुलोमजन्मन् = पु० स्त्री० अनुलोमं पितृवर्णानुक्रमेण जन्म यस्य। अनुलोमजाते मूर्द्धावसिक्तादौ। स्त्रियां डाप्। “अन्येऽनुलोमजन्मानः प्रतिलोमभवा अपीति” काशी०।
अनुवंश = अव्य० वंशे विभक्त्यर्थे अव्ययी०। वंशे इत्यर्थे तत्र भवः परिमुखा० ञ्य। आनुवश्यस्तत्र भवे त्रि०।
अनुवक्तृ = त्रि० अनुवक्ति गुरुमुखात् श्रुत्वा तदनुरूपं वदति अनु + वच–तृच्। गुरुमुखोच्चारितानुरूपपाठके। स्त्रियां ङीप्।
अनुवक्र = त्रि० अनुक्रमेण वक्रः। अतिवक्रे “यस्य वक्रानुवक्राग्रहा” इति मुश्रुतम् अतिवक्रत्वञ्च ग्रहाणाम् “अतिवक्रा नगाष्टग” इति सूर्य्याक्रान्तराश्यपेक्षया सप्ताष्टमस्थानस्थितौ भवति।
अनुवचन = न० अनुरूपं वचनम् प्रा० स०। अनुरूपकथने “तमेतं ब्राह्मणाविविदिषन्ति वेदानुवचनेन” इति “त्रिशङ्कोर्वेदानुवचनमिति” च श्रुतिः।
अनुवत्सर = पु० अनुकूलो वत्सरो दानादिविशेषाय। “शकाङ्क्षात् पञ्चभिः शेषात् ममाद्यादिषु वत्सराः। सम्परीदानुपूर्ब्बाश्च तथोदापूर्ब्बका मता” इत्युक्ते वत्सरभेदे। “संवत्सरे तथा दानं तिलस्य तु महाफलम्। परिपूर्ब्बे तथा दानं यवानाञ्च द्विजोत्तम!। इदापूर्ब्बे च वस्त्राणां धान्यानाञ्चानुपूर्ब्बके उदासंवत्सरे दानं रजतस्य महाफलमिति” विष्णु० ध० वुरा०। अनुवर्षादयोप्यत्र।
अनुवर्त्तन = न० अनु + वृत–ल्युट्। अनुगमने, अनुसरणे, व्याकरणादौ पूर्ब्बसूत्रश्रुतशब्दस्योत्तरसूत्रेऽन्वयार्थमनुसरणे च।
अनुवर्त्तिन् = त्रि० अनु + वृत–णिनि। पाश्चद्गामिनि अनुयायिनि च स्त्रिर्या ङीप्। “सशरीरा गता स्वर्गं भर्त्तारमनुवर्त्तिनी” इति रामा०।
***