अनप = त्रि० न सन्ति आधिक्येनापो यत्र नञ्पूर्ब्बकत्वेऽपि बहुव्रीहौ अच्समा०। स्वल्पजले पल्ललादौ।

अनपकर्म्मन् = न० अपकर्म्म अपाकरणं अभावार्थे न० त०। त्यागाभावोपलक्षिते दत्तस्य आदाने “दत्तस्यानपकर्म्म चेति” मनुः अपकर्म अपात्रे पात्रबुद्ध्या क्रोधादिना वा दत्तस्यानपकर्म, पुनर्ग्रहणम्। “ऋणस्यापकर्म चेति” स्मृतिः। अनपकर्म अपाकरणाभावः अशोधनमित्यर्थः। अनपक्रियाप्यत्र स्त्री। अपाकरणाभावे। “ऋणानामनपक्रियेति” स्मृतिः।

अनपच्युत = त्रि० अप + च्यु–भावे क्त न० ब०। विनाशरहिते “स्वर्य्यं सुवज्रमनपच्युतमिति” ऋ० ४, १७, ४, अनपच्युतं विनाशरहितमिति” भा०।

अनपत्य = त्रि० नास्ति अपत्यं यस्य। अपत्यशून्ये। न हितमपत्यानामिति, पताय पतनाय हितं पत + यत् वा न० त० ततः न० त०। अपत्याहिते, पतनकारणे च “युयोत नो अनपत्यानीति ऋ० ३, ५४, १८, अनपत्यानि अपत्यानां पुत्त्राणामहितानि, पतनकारणं न भवत्यपत्यं तदन्यानि पतनकारणानीति” भाष्यम्।

अनपत्रप = त्रि० नास्ति अपत्रपा अन्यहेतुका लज्जा यस्य। अन्यहेतुकलज्जाहीने।

अनपभ्रंश = पु० न अपभ्रंशः न० त०। अपभ्रंशभिन्ने व्याकरणप्रतिपाद्यसंस्कारवति साधुशब्दे “अनभ्रंशतानादिर्यद्वाभ्युदयोन्यता। व्याक्रियाव्यञ्जनीया वा जातिः कापीह साधुतेति” हरिः।

अनपाकर्म्मन् = न० अपाकर्म अपाकरणम् अभावार्थे न० त०। अपाकरणाभावे ऋणादेरशोधने।

अनपायिन् = त्रि० न अपैति अप–इण–णिनि न० त०। निश्चले स्थिरे “अनपायिनि संश्रयद्रुमे गजभग्ने इति” कुमा०।

अनपावृत् = त्रि० अपावर्त्तनमपावृत् अप + आ + वृत–भावे क्विप् न० ब०। पुनरावृत्तिशून्ये। “इत्था सृजानाह अनपावृदर्थमिति ऋ० ६, ३, ५, “अनपावृत् अपावृत् अपावर्त्तनम् पुनरागमनं न भवतीति” भा०।

अनपिहित = त्रि० न अपिहितमावरणं भावे क्त तन्नास्ति यस्य। आवरणशून्ये। “एष वानपिहितस्तस्यैव तदपिधानं यच्छिखेति ब्रा० “अनपिहित आवरणशून्य” इति रघु०।

अनपेक्ष = त्रि० न अपेक्षते अनुरुध्यते अच् न० त०। अपेक्षाशून्ये अननुरोविनि। “उत्सृज्य प्रमदामेतामनपेक्षो यथामखमिति” रामा०।

अनपेत = त्रि० न अपेतः वहिर्गतः अपगतो वा। अवहिर्गते अपेतभिन्ने अनुगते। “धर्मपथ्यर्थन्यायादनपेते” इति पा० “धर्म्मादनपेतम् धर्म्यमित्यादि” सि० कौ०।

अनप्त = त्रि० न आप्तः वेदे पृ० ह्रस्वः। आप्तभिन्ने। “अनप्तमप्सु दुष्टरमिति” ऋ० ८, १६, ३, “अनप्तं शत्रुभिरनाप्तमिति” भा०।

अनप्नम् = त्रि० नास्ति अप्नो रूपं यस्य। रूपहीने “जम्माया अनप्नस इति” ऋ० २, ३, ९, “अनप्नसः कर्म्महीना” इति भाष्योक्तेः कर्म्महीने च।

अनफा = पु० (चन्द्रात्) “रविवर्ज्जं द्वादशगैरनफेति” दीपिकोक्तेः योगभेदे “सच्छीलं सुखान्वितं प्रभुं ख्यातियुक्तमनफायामिति” दीपिका।

अनभिज्ञ = त्रि० न अभिजानाति। अज्ञे ज्ञानशून्ये।

अनभिधेय = न० न अभिधेयः। अवाच्ये।

अनभिभव = पु० न अभिभवः अभावार्थे न० त०। अभिभवाभावे पराजयाभावे।

अनभिभवनीय = त्रि० न अभिभवनीयः। अपराजेये।

अनभिभूत = त्रि० न अभिभूतः। अपराभूते।

अनभिमत = त्रि० न अभिमतः। असम्मते, विमते च।

अनभिम्लातवर्ण्ण = त्रि० अभि + म्ला–तन् न अभिम्लातः क्षीणोवर्ण्णो यस्य। दीप्यमाने। “सो अपां नपादनभिम्लातवर्ण” इति ऋ० २, ३५, १३ अनभिम्लातवर्णः दीप्यमान इति भा०। शिवा० अण्। आनभिम्लातः तदपत्ये पु० स्त्री।

अनभिलाष = पु० न अभिलाषः अभावे न० त०। अभिलाषाभावे। न० ब०। अभिलाषशून्ये त्रि०।

अनभिव्यक्त = त्रि० न अभिव्यक्तः न० त०। अपरिस्फुटे।

अनभिशस्त = त्रि० अभि + शन्स–क्त न० त०। अनिन्दिते। “परास्यानभिशस्ता दिव्या” इति ऋ० ९, ८८, ७, “अनभिशस्ता अनिन्दिता” इति भा०। परिवादाग्रस्ते च।

अनभिशस्त्य = त्रि० अभिशस्तिं निन्दामर्हति अभिशस्त्यः न० त०। अनिन्दनीये प्रशस्ये निरुक्तकारः।

अनभिसंहित = त्रि० न अभिसंहितः न० त०। अभिसन्धिना फलोद्देशेन अकृते “विमुक्तिदा येऽनभिंसंहितेष्विति” रुचि०।

अनभिहित = त्रि० न अभिहितः। अनुक्ते प्रत्ययादिना उक्तार्थभिन्ने “अनभिहिते इति पा० अस्य उपकादिगणे पाठात् तत्कार्य्यम्।

अनभीष्ट = त्रि० न अभीष्टः। अभीष्टभिन्ने “अनभीष्टदक्षिणवातमृगगमनामिति” का० द०।

अनभ्यावृत्ति = स्त्री न अभ्यावृत्तिः अभ्यासः अभावार्थे न० त०। अभ्यासाभावे। “मनागनभ्यावृत्त्या वा कामं क्षाम्यतु यः क्षमीति” माघः।

अनभ्यासमित्य = त्रि० न अभ्यासे निकटे इत्यः इण–कर्म्मणि क्यप् मुम्। दूरतः परिहर्त्तव्ये सि० कौ०।

अनमित्र = त्रि० नास्ति अमित्रोऽस्य। शत्रुशून्ये “इन्द्रोयां चक्रे आत्मने अनमित्रां शचीपतिरिति” अर्थ० १२, १, नृपभेदे पु०।

अनमीव = त्रि० अमीवः रोगः न० ब०। रोगहोने “अनमीवा इषस्करदिति” ऋ० ३, १६२, १४, अनमीवा “रोगवर्जितानि इषोऽन्नानीति” भा० “प्रदानमीवस्य शुष्मिण्य” इति ता० ब्रा०। “अरोगोऽमीवस्तद्रहितस्येति” भा०।

अनम्बर = पु० नास्ति अम्बरं कच्छसहितं यस्य। बौद्धभेदेऽस्य मुक्तकच्छतया तथात्वम् दिगम्बरशब्देऽस्य विवरणम्। नग्ने त्रि०।

अनय = पु० अयः शुभावहो विधिस्तदन्यः न० त०। अशुभदैवे। नयोद्यूते दक्षिणावर्त्तेन शाराणामिष्टस्थाननयनं विरोधे न० त०। (दुगडीति) ख्याते द्यूतभेदे शाराणा वामावर्त्तेनाभीष्टस्थाननयने पु०। नयोनीतिः नी–अच् न० त०। नयाभावे अनीतौ दुर्नये, दुष्टे, कर्म्मणि च। “विजानतोऽपि ह्यनयस्य रौद्रतेति” भार०। न० ७ ब०। आपदि “जीवेदेतेन राजन्यः सर्वेषामनयं गत इति” मनुः। “सर्वतः प्रतिगृह्णीयात् ब्राह्मणस्त्वनयं गतः” इति मनुः “अनयमापदमिति” कुलॢ०। ६ ब०। नयहीने त्रि०।

अनरण्य = पु० सूर्य्यवंश्ये नृपभेदे तत्कथा रामा० उत्तराकाण्डे स रावणेन परिभूतो मृतः।

अनर्काभ्युदित = पु० न ईषत्, अर्कोऽभ्युदितो यस्मिन्। ईषदर्कोदयकाले। “अनर्काभ्युदिते काले माघे कृष्णचतुर्दशीइति” यमः “माघे मासि रटन्त्यापः किञ्चिदभ्युदिते रवौ” इत्यनेनैकवाक्यत्वात् नञ ईषदर्थता।

अनर्गल = त्रि० नास्ति अर्गलं प्रतिबन्धकं यस्य। अप्रतिबन्धके प्रतिबन्धकशून्ये “तुरङ्गमुत्सृष्टमनर्गलं पुनरिति” रघुः।

अनर्घ = त्रि० अर्घो मूल्यं न० ब०। अमूल्ये।

अनर्घराघव = न० राघवचरितख्यापके मुरारिमिश्ररचिते नाटकभेदे।

अनर्घ्य = त्रि० न अर्घ्यः पूज्यो यस्य, यस्माद्वा। अन्यपूज्यशून्ये अत्यन्तपूजनीये च “अनर्घ्यमर्घेण तमदिनाथ” इति कुमा०।

अनर्थ = पु० अर्थः प्रयोजनं विरोधे न० त०। अनिष्टे। “एकैकमप्यनर्थाय किमु तत्र चतुष्टयमिति” हितो०। “नोदनालक्षणोऽर्थो धर्म्म” इति सूत्रे निषेधलक्षणोऽनर्थोऽधर्म इति भङ्ग्या सूचिते नरकादिसाधनत्वादनिष्टहेतावधर्म्मे च। “दातुर्भवत्यनर्थाय परत्रादातुरेव चेति” मनुः। ब०। अभीष्टरहिते विष्णौ पु० आप्तकामत्वात्तत्त्वम्। अर्थोऽभिधेयः प्रयोजनं वा नास्ति यस्य ब० कप्। अर्थरहितमात्रे त्रि०।

अनर्थक = न० अर्थोऽभिधेयोऽप्राशस्त्ये न० ब० कप्समा०। समुदायार्थशून्ये प्रलापे, असम्बद्धे वाक्ये च। व्यर्थे त्रि०। “धिगिदं जीवितं लोके किमु? सार्थमनर्थकमिति”।

अनर्थलुप्त = त्रि० दृष्टेनार्थेन अलुप्तः असम० स०। दृष्टार्थेनालुप्ते “अनर्थलुप्ता इति” कात्या० ६, १०, २०,।

अनर्थान्तर = त० अन्योऽर्थः अर्थान्तरं मयूर० त० ततः न० त०। अभेदे, एकार्थे।

अनर्व = त्रि० ऋ–व अर्वः गतिः शैथिल्यं स नास्ति यस्य। अशिथिले “त्रिनाभि चक्रमजरमनर्वमिति ऋ० १, १६४, २, “अनर्वमशिथिलमिति” भा०।

अनर्वन् = त्रि० अर्व–हिंसायां कनिन् “अर्वा भ्रातृव्य” इति श्रुतेः अर्ला सपत्नः न० त०। शत्रुभिन्ने। “जनोऽनर्वाणं त परित” इति ऋ० १, १३६, ५, “अनर्वाणमद्वे- ष्यमिति” भा०। अर्वा अश्वः। तच्छून्ये त्रि०। न त्रादेशः।

अनर्विश् = त्रि० अनसा शकटेन विशति प्राप्नोति विशक्विप् ३ त० अहरा० रुः, ऋ–कर्मणि विच् अरं गन्तव्यं प्रति विशति विश–क्विप् वा न० त०। शकटेन काष्ठाद्याहरणाय वनप्रवेशिनि, गन्तव्यं स्थलं गन्तुमशक्ते च। “अनू द्यूनमनर्विशे पश्चिषे तुरायेति” ऋ० १, १२१, ७,

अनर्शराति = त्रि० अनर्शाय अपापिष्ठाय रातिर्दानं यस्य। अपापिष्ठे दातरि “अनर्शरातिं वसुदामुपस्तुहीति ऋ० ८, ९९, ४, अनर्शरातिमनश्लीलदानमश्लीलं पापमिति निरुक्त०

अनर्ह = न अर्हः। अयोग्ये। “तान् हव्यकव्ययोर्विप्राननर्हान् मनुरब्रवीदिति” मनुः।

अनल = पु० नास्ति अलः पर्य्याप्तिर्यस्य बहुदाह्यदहनेऽपि तृप्तेरभावात् न० ब०। वह्नौ, “व्यभिचचार न तापकरोऽनल” इति नैषधम् अनलः नलाभावोवह्निश्च अनुपलम्भवदभावार्थे न० त०। अव्ययीभावसिद्धत्वे क्लीवता स्यात्। “ऊचे नलोऽयमिति तं प्रति चित्तमेकं ब्रूतेऽस्य चान्यदनलोऽयमितीदमीयमिति” “आवर्ज्जनं तमनु ते ननु साधु नामग्राहं मयानलमुदीरितमेतदत्र” इति “सैषानलं सहजरागभरादिति” च नैषधम् “वयोभिः खादयन्त्यन्ये प्रक्षिपन्त्यनलेऽप्सु वेति” स्मृतिः। जठरानलस्य पित्तजातत्वात् देहस्थे पित्तधातौ च। अष्टवसुमध्ये पञ्चमे वसौ, मेदिनिः तच्च “धरोध्रुवः सोमनामा तथाऽपोऽप्यनिलोनल” इति वसुभेदबोधकवचने नलैत्यत्नानलैत्यकारप्रश्लेषभ्रान्त्यैवोक्तं किन्तु वसूनां स्वरूपख्यापके विष्णुधर्म्मोत्तरवचने “स्रुवाक्षमालिके दक्षे वामे शक्तिकपालभृत् सव्योर्द्धादिक्रमाद्योऽसौ नलाख्यस्तु वसुः स्मृत” इति नलनामत्वस्यैव प्रतीतेर्नलएव वसुभेद इत्यवधेयम्। अनलदैवतत्वात् कृत्तिकानक्षत्रे “अनलविधिशताख्येति ज्योति०। (चिता) इति ख्याते चित्रके वृक्षे, पु०। तस्य सर्व्वतः पर्य्याप्तत्वेऽपि पर्य्याप्तेः सीमाभावात्तत्त्वम्, (भेला) इति ख्याते भल्लातके वृक्षे च। अन–कलच्। षष्टिवर्षमध्ये पञ्चाशत्संख्याते वर्षे षष्टिवर्षगणननामभेदादि वर्षशब्दे वक्ष्यते। पितृदेवभेदे “कव्यवालोऽनलः सोमः यमश्चैवार्य्यमा तथा अग्निष्वात्ताः वर्हिषदः सोमपाः पितृदेवता” इति वायु पुरा०। अनान् प्राणान् लाति आत्मत्वेन अनलः जीवः। तद्रूपेण सर्वान्तर्यामितया स्थिते विष्णौ णल–गन्धे बन्धे वा न नलति न बध्यते वा अच्। गन्धशून्ये परमेश्वरे विष्णौ “अगन्धनस्य शर्म्म रस” इति “तथा रसं नित्यमगन्धवच्चेति” च श्रुतेस्तस्य गन्धशून्यत्वात् तथात्वम्। अल पर्य्याप्तौ अच् न० त०। अपर्य्याप्ते अपरिमिते परमेश्वरे “पवनःपावनोऽनल” इति वि० सह०। भाष्यकृता च उक्तव्युत्पत्तिः विष्णुविषयत्वे दर्शिता।

अनलदीपन = त्रि० अनलं जठरानलं पित्तधातुवर्द्धनेन दीपयति वर्द्धयति दीप–णिच्–ल्यु। जठरानलोद्दीपके “मधुरो मधुरः पाके दीषघ्नोऽनलदीपन इति” “सौगन्ध्यात् पूतिकोष्ठघ्नः सौक्ष्म्याच्चानलदीपन” इति च सुश्रुतोक्ते द्रव्यभेदे।

अनलप्रभा = स्त्री अनलस्य प्रभेव प्रभा यस्य ब०। ज्योतिष्मतीनामिकायां लतायाम्।

अनलप्रिया = स्त्री ६ त०। स्वाहाख्यायां दक्षकन्यायाम् वह्निपत्न्याम्।

अनलि = पु० अनिति अन–अच् अनः अलिर्यत्र ब० शक०। वकवृक्षे तत्पुष्पस्य बहुमधुमत्त्वेन तन्मधुभिर्भ्रमराणां जीवनधारणात्तथात्वम्।

अनल्प = त्रि० न अल्पः। प्रचुरे भूयिष्ठे।

अनवकाश = पु० न० त०। अवकाशाभावे। ब०। अवकाश शून्ये त्रि०।

अनवगीत = त्रि० अव + गै–क्त न० त०। अनिन्दिते।

अनवग्रह = त्रि० नास्ति अवग्रहो यस्य। प्रतिबन्धशून्ये “अवश्यभव्येष्वनवग्रहग्रहेति” नैष०। न० त०। वृष्टिप्रतिबन्धाभावे।

अनवद्य = त्रि० न अवद्यं निन्द्यम्। निन्द्यभिन्ने दोषशून्ये च “अनवद्यतृणार्द्दिनो मृगानिति” नैष०। “अनवद्यविद्योद्द्योतेनेति” दायभा०। “अनवद्योरिशादा” इति ऋ० ९, ६९, १०, “अनवद्योगर्हारहित” इति भा०। “अग्निः शर्द्धमनवद्यं युवानमिति” ऋ० १, ७१, ८।

अनवधान = न० न अवधीयते मनः संयुज्यते कर्त्तव्यकर्म्मणि यथावस्थितं प्रवर्त्त्यतेऽनेन अव + धा–करणे ल्युट् अवधानम् चित्तवृत्तिभेदः अभावे न० त०। अवधानाभावे मनःसंयोगविशेषाभावे प्रमादे, न० ब०। तद्वति त्रि०।

अनवधानता = स्त्री अवधानं नास्ति यस्य तस्य भावः। प्रमादे। कर्त्तव्येऽकर्त्तव्यताबोधेन ततोनिवृत्तिः, अकर्त्तव्ये कर्त्तव्यताबोधेन तत्र प्रवृत्तिश्च प्रमादः। “कर्त्तव्याकरणं यत्राकर्त्तव्यस्याथवा क्रिया। उच्यते द्वितयं तत्र प्रमादोऽनवधानतेति”।

अनवपृग्ण = त्रि० अव + पृच् संपर्के क्त इडभावादि छान्दसम् न० त०। असम्पृक्ते। “अनवपृग्णा वितता वसानमिति” ऋ० १, १५२, ४।

अनवब्रव = पु० अव + ब्रू–अच् न वचादेशः न० त०। अपवादवर्जिते “विजेष कृदिन्द्र इवानवव्रवोऽस्माकमिति” ऋ० १०, ८४, ५।

अनवभ्र = त्रि० न भ्रंशते बा० ड। अवभ्रंशशून्ये “प्रस्कम्भदेष्णा अनवभ्रराधस” इति ऋ० १, १६६, ७। “अनवभ्रराधसः अनवभ्रष्टहविरादिधना” इति भा०।

अनवम = त्रि० न अवमः। न्यूनताहीने श्रेष्ठे “सुधर्म्मानवमां सभामिति” रघुः।

अनवर = त्रि० न अवरः। अवरभिन्ने श्रेष्ठे अजघन्ये “सोऽयमिन्द्रादनवरो वासुदेवश्च भारतेति भार०।

अनवरत = त्रि० अव + रम + भावे क्त अवरतम् विरामः तन्नास्ति यस्य ब०। निरन्तरे विश्रामशून्ये।

अनवरार्द्ध्य = त्रि० अवरस्मिन् अर्द्धे भवः यत् न० त०। उत्कृष्टे श्रेष्ठे च शीर्षभागे स्थापनीयतयास्य तत्त्वम्।

अनवलम्ब = त्रि० नास्ति अवलम्बो यत्र। आलम्बनहीने। “न परं पथि पक्षपातिताऽनलम्बे किमु? मादृशेऽपि सेति” नैष०।

अनवलोभन = न अवलुप्यते पुमान् येन अव + लुप–ल्युट् पृ० पस्य भः। गर्भसंस्कारभेदे। “उपनिषदि गर्भलम्बनम् पुंसवनमनवलोभनञ्चेति” आ० गृ०।

अनवस = त्रि० अव–प्रीणनादौ असच् अवसः भोजनं प्रीति करत्वात् न० ब०। पथ्याशनहीने “अनवसो अनभीशु” इति ऋ० ६, ६६, ७, “अनवसः षथ्याशनरहित” इति भा०।

अनवसर = त्रि० अवसरः उचितः कालः नास्ति यम्य ब०। उचितकालविहीने। “अतर्क्यैश्यर्य्ये त्वय्यनवसरदुःस्थाहतधिय इति महि० स्तो०। न० त०। अवसराभावे।

अनवसित = त्रि० अवसितः समाप्तो निश्चितो वा न० त०। अनिश्चिते असमाप्ते च। “अनवसितान्यौ भ्गौ गुरुरन्तेइति (वृत्त०) उक्ते छन्दोभेदे स्त्री।

अनवस्कर = त्रि० अवस्क्रियते शोध्यते अव–कॄ–अप् सुडागमः अवस्करो मलः स नास्ति यस्य ब०। मलहीने।

अनवस्था = स्त्री अव + स्था–अङ् अवस्थितिः न० त०। अवस्थाभावे, तर्कदोषविशेषे उपपाद्यस्य समर्थनाय उपपादकस्यानुसरणं तर्कः यत्र तर्के उपपाद्योपपादकयोर्विश्रान्ति र्नास्ति तादृशतर्कस्यानवस्थादोषः तत्र स तर्को न ग्राह्यः। अधिकं तर्कशब्दे वक्ष्यते “प्रामाणिकी अनवस्था न दोषायेति” जग०। नास्ति अवस्था यस्य। अवस्थितिशून्ये त्रि०। “अशरीरं शरीरेषु अनवस्थेष्ववस्थितसिति”

अनवस्थान = न० अव + स्था–ल्युट् न० त०। अवस्थानाभावे। व०। वायौ पु०। चञ्चलमात्रे त्रि०।

अनवस्थित = त्रि० न अवस्थितः। चञ्चले, अस्थिरे “दयितास्वनवस्थितं नृणामिति” कुमा०। व्यभिचारवति च। “चतुर्णामपि वर्णानां नारीर्हत्वानवस्थिता” इति मनुः अनवस्थिताव्यभिचारिणीरिति कुल्लू०। व्यभिचारिण्याश्च पत्यौ नितान्तावस्थानाभावात् तथात्वम्। अवस्थातु मक्षमे च “प्रस्थितं तमनवस्थितं प्रिया” इति रघुः अनवस्थितम् अवस्थातुमक्षममिति मल्लि०।

अनवस्थिति = न० न अवस्थितिः। अभावार्थे न० त०। अवस्थानाभावे।

अनवह्वर = त्रि० अव + ह्वृ–कौटिल्ये अच् न० त०। अकुटिले सरले “सचेते अनवह्वरमिति” ऋ० २, ४१, ६। “अनवह्वरमकुटिलमिति” भा०।

अनवाप्त = त्रि० न अवाप्तः। अप्राप्ते “नानवाप्तममाप्तव्यं त्रिषु लोकेषु किञ्चनेति” गीता।

अनवाय = त्रि० अव + इण् वञ् अवायः अवयवः न० ब०। निरवयने “अनवायं किमीदिने” इति ऋ० ७, १०४, २।

अनवेक्षक = त्रि० न अवेक्षकः न० त०। पर्य्यालोचना हीने सदसद्विवेकहीने।

अनवेक्षा = स्त्री न अवेक्षा अपेक्षा अभावार्थे न० न०। अपेक्षाभावे।

अनशन = अश–ल्युट् न० त०। भक्षणाभावे, उपवासे, स च भोजनविषयनिवृत्तिरूपः व्रतभेदः अहोरात्रभोजनाभाव एव तस्य प्रयोगोपाधिता। तेन यत्किञ्चित्क्षणे अभोजनेऽपि न उपवासपदप्रयीगः। त्रिरात्रादिपदसमभिव्यहारे तु भोजनाभावमात्रपरतेति भेदः। न० ब०। भोजनशून्ये त्रि०।

अनश्वर = त्रि० न नश्वरः। नश्वरभिन्ने, स्थायिनि, नित्ये च।

अनस् = न० अनिति शब्दायते अन–असुन्। शकटे “दूरादनसा रथेन” ऋ० ३, ३३, १०। अनिति जीवत्यनेन करणे ल्युट्। ओदने, ओदनस्थाने, षितरि च मातरि स्त्री। उत्तरपदस्यः अव्ययी० शरदा० टच्समा०। अध्यनसम् तत्पुरुषेऽपि संज्ञायां जातौ च टच्समा०। उपानसं महानसम् अनोऽत्र भक्तस्थानम्। “अपोषा अनस” इति ऋ० ४, ३०, १०।

अनसूय = त्रि० नास्ति असूया यस्य। परगुणेषु दोषारोपशून्ये “श्रद्धावाननसूयश्चेति” गीता “श्रद्धधानोऽनसूयश्चेति” मनुः।

अनसूयक = न असूयकः। असूयाशून्ये “यथा तथा हि सद्धृत्तमातिष्ठत्यनसूयक” इति मनुः।

अनसूया = स्त्री असु–कण्ड्वादित्वात् यक्–भावे अङ् असूया गुणेषु दोषारोपः अभावार्थे न० त०। “न गुणान् गुणिनोहन्ति स्तौति चान्यगुणानपि। न हसेच्चान्यदोषांश्च साऽनसूया प्रकीर्त्तिते” त्युक्तलक्षणे असूयाभावे। “एकमेव तु शूद्रस्य प्रभुः कर्म्म समादिशत्। एतेषामेव वर्णानां शुश्रूषामनसूययेति” “यत्किञ्चिदपि दातव्यं याचितेनानसूययेति” च मनुः। अत्रिमुनिपत्न्यां च शकुन्तलासहचरीभेदे शकु०।

अनसूयु = त्रि० असु–उपतापे कण्ष्ट्वा० यक् उ न० त०। असूयाशून्ये “इदन्तु ते गुह्यतमं प्रवक्ष्यास्यमनसूयवे” इतिगीता।

अनस्तमित = त्रि० न अस्तमितः गतः असम० स०। अस्तमप्राप्ते।

अनस्थ = पु० नास्ति अस्थि यस्य बा० अच्समा०। अस्थिवर्जिते अवयवे “पुरस्तादनस्य जरूरवरंवमाण” इति ऋ० ८, १, ३४, अस्थि अवयवः। तच्छून्ये निरवयवे सांख्यप्रसिद्धे प्रधाने, ईश्वरमायायाञ्च “यदनस्था बिभर्त्ति” ऋ० १, १६४, ४, “अनस्था निरवयवा प्रकृतिरीश्वरायत्तमायावेति” भा०। समासान्ताभावे अनस्थि। अस्थिशून्ये त्रि०।

अनस्वत् = त्रि० अनः शकटमस्त्यस्य मतुप् मस्य वः सान्तत्वान्न पदत्वम्। शकटयुक्ते “अनस्वन्तः श्रव ऐषन्त पज्वाः ऋ० १, १२६, ५।

अनहङ्कार = पु० न अहङ्कारः अभावार्थे न० त०। अहङ्काराभावे। ब०। तच्छून्ये त्रि० अहङ्कारश्चाहङ्कारशब्दे वक्ष्यते।

अनहङ्कारिन् = त्रि०। अहमिति गर्वं करोति अहम् + कृ णिनि। न० त०। गर्वशून्ये।

अनहंकृत = त्रि० अहमिति कृतमहङ्कारः, भावे क्त न० ब०। अहङ्कारशून्ये “मुदु वाप्यनहङ्कृत” इति मनुः।

अनहङ्कृति = स्त्री अहमिति क्रियते भावे क्तिन् न० त०। अहङ्काराभावे न० ब०। अहङ्कारशून्ये त्रि०।

अनहंवादिन् = त्रि० अहमिति गर्वेण न वदति वद–णिनि, गर्वरहिते “मुक्तसङ्गोऽनहंवादीति” गीता।

अनाकार = त्रि० नास्ति आकारोऽस्य। अवयवहीने आकाशादौ, ईश्वरे च।

अनाकाल = पु० आ सम्यक् अन्नादिसस्पन्नःकालः आकालः न० त०। शश्यादिसस्पन्नकालभिन्ने दुर्भिक्षे काले।

अनाकुल = त्रि० न आकुलः न० त०। अव्यग्रे, एकाग्रे, स्थिरे, असङ्कीर्णवाक्ये च।

अनाकृत = न० नेत्यनेन कृतः नाकृतः निराकृतः न० त०। अनिवारिते “न वक्का जरणा अनाकृत” इति ऋ० १, १४१, ७, “अनाकृतः अनिवारित” इति भा०।

अनाक्रान्ता = स्त्री आक्रमितुमयोग्या सर्वतःकण्ठकावृतत्वात् आ + क्रम–क्त न० त०। कण्टकारिवृक्षे। आक्रान्तभिन्ने त्रि०।

अनाक्षारित = न० न आक्षारितः अपकृतः। अनपकृते। “अनाक्षारितपूर्ब्बोय” इति कात्यासं०। “अनाक्षारितोऽनपकृत” इति प्रा० विवेकः।

अनाग = त्रि० न आ सम्यग्गच्छति स्वर्गमनेन नागः अधर्म्मः न० ब०। पापरहिते “मित्रोनो अत्रादितिरनागान्” ऋ० १०, १२, ९, “अनागान् अपापान्” इति भा०।

अनागत = त्रि० न आगतः। भविष्यत्कालवृत्तौ, “हेयं दुःखमनागतमिति पा० सू० आगतभिन्ने च “अनागतार्त्तवे” त्यमरः “तावद्भयस्य भेतव्यं यावद्भयमनागतमिति” हितो० “अनागतादिलिङ्गेन न स्यादनुमितिस्तदेति” भाषा०।

अनागतविधातृ = त्रि० अनागतस्य भविष्यतः अनिष्टस्य विधाता प्रतिविधानकर्त्ता। आगामिदुःखस्य लिङ्गद्वारानुमानेन तन्निवारणोपायानुष्ठातरि “अनागतविधाता च प्रत्युत्पन्नमतिस्तथा। द्वावेतौ सुखमेधेते यद्भविष्योविनश्यतीति” हितो०।

अनागताबाध = अनागतः आबाधः दुःखम्। भाविदैहिकादिदुःखे। यदाचरणेन भाविदुःखानुत्पादस्तादृशा उपायाः सुश्रुते दर्शिता यथा “अथातोऽनागताबाधप्रतिषेधनीयं व्याख्यास्याम” त्युपक्रम्य। “उत्थायोत्थाय सततं स्वस्थेनारोग्यमिच्छता। धीमता यदनुष्ठेयं तत् सर्व्वं सम्प्रवक्ष्यते।। तत्रादौ दन्तपवनं द्वादशाङ्गुलमायतम्। कनिष्ठिकापरिणाहमृज्वग्रथितमव्रणम्। अयुग्मग्रन्थि यच्चापि प्रत्यग्रं शस्तभूमिजम्। अवेक्ष्यर्तुञ्च दोषञ्च रसं वीर्य्यञ्च योजयेत्।। कपायं मधुरं तिक्तं कटुकं प्रातरुत्थितः। निम्बश्च तिक्तके श्रेष्ठः, कषाये खदिरस्तया।। मधूको मधुरे श्रेष्ठः, करञ्जः कटुके तथा। क्षौद्रव्योषत्रिवर्गाक्तं सतैलं सैन्धवेन च।। चूर्णेन तेजोवत्याश्च दन्तान्नित्यं विशोधयेत्,। एकैकं घर्षयेद्दन्तं मृदुना कूर्चकेन च।। दन्तशोधनचूर्णेन दन्तमांसान्यबाधयन्।। तद्दौर्गन्ध्योपदेहौ तु श्लेष्माणं चापकर्षति। वैशद्यमन्नाभिरुचिं मौमनस्यं करोति च।। न खादेद्गलताल्वोष्ठजिह्वारोगममुद्भवे। अथास्यपाके श्वासे च कासहिक्कावमीषु च।। दुर्ब्बलो जीर्णभक्तश्च मूर्च्छार्त्तो मदपीडितः। शिरोरुगार्त्तस्तृषितः श्रान्तः पानक्लमान्वितः।। अर्द्दिती कर्ण- शूली च दन्तरोगी च मानवः,। जिह्वानिर्लेखनं रौप्यं सौवर्णं वार्क्षमेव च।। तन्मलापहरं शस्तं मृदु श्लक्ष्णं दशाङ्गुलम्। मुखवैरस्यदौर्गन्ध्यशोफजाड्यहरं सुखम्,।। दन्तदार्ढ्यकरं रुच्यं स्नेहगण्डूषधारणम्। क्षीरवृक्षकषायैर्व्वा क्षीरेण च विमिश्रितैः।। भिल्लोदककषायेण तथैवामलकस्य वा। प्रक्षालयेन्मुखं नेत्रे खस्थः शीतोदकेन वा।। निलीकां मुखशोषञ्च पिडकां व्यङ्गमेव च। रक्तपित्तकृतान् रोगान् सद्य एव विनाशयेत्,।। मुखं लघु निरीक्षेत दृढं पश्यति चक्षुषा,। मतं स्रोतोऽञ्जनं श्रेष्ठं विशुद्धं सिन्धुसम्भवम्।। दाहकण्डूमलघ्नञ्च दृष्टिक्लेदरुजापहम्,। अक्ष्णोरूपावहञ्चैव सहते मारुतातपौ।। न नेत्ररोगा जायन्ते तस्मादञ्जनमाचरेत्। भुक्तवान् शिरसा स्नातः श्रान्तश्छर्दनवाहनैः।। रात्रौ जागरितश्चापि नाञ्ज्याज्ज्वरित एव च,। कर्पूरजातिकक्कोललवङ्गकटुकाह्वयैः।। सचूर्णपूगैः सहितं पत्रं ताम्बूलजं शुभम्। मुखवैशद्यसौगन्ध्यकान्तिसौष्ठवकारकम्।। हनुदन्तस्वरमलजिह्वेन्द्रियविशोधनम्। प्रसेकशमनं हृद्यं गलामयविनाशनम्। पथ्यं सुप्तोत्थिते भुक्ते स्नाते वान्ते च मानवे। रक्तपित्तक्षतक्षीणतृष्णामूर्च्छापरीतिनाम्।। रुक्षदुर्व्वलमर्त्यानां न हितं चास्यशोषिणाम्,। शिरोगतांस्तथा रोगान् शिरोऽभ्यङ्गोऽपकर्षति।। केशानां मार्द्दवं दैर्घ्यं बहुत्वं स्निग्धकृष्णताम्। करोति शिरसस्तृप्तिंसुत्वक्कमपि चाननम्।। सन्तर्पणं चेन्द्रियाणां शिरसः प्रतिपूरणम्। मधूकं क्षीरशुक्ला च सरलं देवदारु च। क्षृद्रकं पञ्चनामानं समभागानि संहरेत्। तेषां कल्ककषायाभ्यां चक्रतैलं विपाचयेत्।। सदैव शीतलं जन्तोर्मूर्ध्नि तैलं प्रदापयेत्,। केशप्रसाधनी केश्या रजोजन्तुमलापहा,।। हनुमन्याशिरःकर्णशूलघ्नं कर्णपूरणम्,। अभ्यङ्गो मार्द्दवकरः कफवातनिरोधनः।। धातूनां पुष्टिजननो मृजावर्णबलप्रदः,। सेकः श्रमघ्नोऽनिलनुद्भग्नसन्धिप्रसाधकः।। क्षताग्निदग्धाभिहतविधृष्टानां रुजापहः। जलसिक्तस्य वर्द्धन्ते यथा मूलेऽङ्कुरास्तरोः।। तथा धातु विवृद्धिर्हि स्नेहसिक्तस्य जायते। शिरामुखैरोमकूपैर्धमनीभिश्च तर्पयन्।। शरीरबलमाधत्ते युक्तः स्नेहोऽवगाहने। तत्र प्रकृतिसात्म्यर्त्तुदेशदोषविकारवित्।। तैलं घृतं वा मतिमान् युञ्ज्यादभ्यङ्गसेकयोः। केवलं सामदोषेषु न कथञ्चन योजयेत्।। तरुणज्वर्य्यजीर्णी च नाभ्यक्तव्यौ कथञ्चन। तथाविरिक्तो वान्तश्च निरूढो यश्च मानवः।। पूर्ब्बयोः कृच्छ्रता व्याध्योरसाध्यत्वमथापिवा। शेषाणां तदहः प्रोक्ता अग्निमान्द्यादयोगदाः।। सन्तर्पणसमुत्थानां रोगाणां नैव कारयेत्,। शरीरायासजननं कर्म व्यायामसंज्ञितम्।। तत् कृत्वा तु सुखं देहं विमृद्नीयात् समन्ततः। शरीरोपचयः कान्तिर्गात्राणां सुविभक्तता।। दीप्ताग्नित्वमनालस्यं स्थिरत्वं लाघवं मृजा। श्रमकुमपिपासोष्णशीतादीनां सहिष्णुता।। आरोग्यं चापि परमं व्यायामादुपजायते। न चास्ति सदृशं तेन किञ्चित् स्थौल्यापकर्षणम्।। न च व्यायामिनं मर्त्यमर्दयन्त्यरयो भयात्। नचैन सहसाक्रम्य जरा समधिरोहति।। स्थिरीभवति मांसञ्च व्यायामाभिरतस्य च। व्यायामक्षुण्णगात्रस्य पद्भ्यासुद्वर्त्तितस्य च।। व्याधयो नोपसर्पन्ति सिंहं क्षुद्रमृगा इव। वयोरूपगुणैर्हीनमपि कुर्य्यात् सुदर्शनम्।। व्यायाम कुर्वतो नित्यं विरुद्धमपि भोजनम्। विदग्धमविदग्धं वा निर्दोषं परिपच्यते।। व्यायामो हि सदापथ्योबलिनां स्निग्धभोजिनाम्। स च शीते वसन्ते च तेषां पथ्यतमः स्मृतः।। सर्व्वेष्वृतुष्वहरहः पुम्भिरात्महितैपिभिः। बलस्यार्द्धेन कर्त्तव्यो व्यायामो हन्त्यतोऽन्यथा।। हृदि स्थानस्थितो वायुर्यदा वक्त्रं प्रपद्यते। व्यायामं कुर्वतो जन्तोस्तद्बलार्द्धस्य लक्षणम्।। वयोबलशरीराणि देशकालाशनानि च। समीक्ष्य कुर्य्यात् व्यायाममन्यथा रोगमाप्नुयात्।। क्षयस्तृष्णारुचिच्छर्दिरक्तपित्तभ्रमक्लमाः। कासशोषज्वरश्वासा अतिव्यायामसम्भवाः।। रक्तपित्ती कृशः शोषी श्वासकासक्षतातुरः। भुक्तवान् स्त्रीषु च क्षीणो भ्रमार्त्तश्च विवर्जयेत्”।। उद्वर्त्तनं वातहरं कफमेदोविलापनम्। स्थिरीकरणमङ्गानां त्वक्प्रसादकरं परम्।। शिरामुखविविक्तत्वं त्वक्स्थस्याग्नेश्च तेजनम्। उद्धर्षणोत्सादनाभ्यां जायेयातामसंशयम्,।। उत्सादनाद्भवेत् स्त्रीणां विशेषात् कान्तिमद्वपुः। प्रहर्षसौभाग्यमृजालाघवादिगुणान्वितम्,।। उद्घर्षणन्तु विज्ञेयं कण्डूकीटानिलापहम्। ऊर्व्वोः सञ्जनयत्याशु फेनकः स्थैर्य्यलाघवे कण्डूकीटानिलस्तम्भमलरोगापहश्च सः। तेजनं त्वग्गतस्याग्नेः शिरामुखविरेचनम्।। उद्धर्षणन्त्विष्टिकया कण्डूकीटविनाशनम्। निद्रादाहश्रमहरं स्वेदकण्डूतृषापहम्।। हृद्यं मलहरं श्रेष्ठं सर्वेन्द्रियविशाघनम्। तन्द्रापापोपशमनं तुष्टिदं पुंस्त्ववर्द्धनम्,।। रक्तप्रसादनं चापि स्नानमग्नेश्च दीपनम्। उष्णेन शिरसः स्नानमहितञ्चक्षुषः सदा।। शीतेन शिरसः स्नानं चक्षुष्यमिति निर्दिशेत्। श्लेष्ममारुतकोपे तु ज्ञात्वा व्याधिबलाबलम्।। काममुष्णं शिरःस्नानं भैषर्ज्यार्थं समाचरेत्। अतिशीताम्बुशीते च श्लेष्ममारुतकोपनम्।। अत्युष्णमुष्णकाले च पित्तशोणितवर्द्धनम्। तच्चातिसारज्वरितकर्णश्लानिलार्त्तिषु।। आध्मानारोचकाजीर्णभुक्तवत्सु च गर्हितम्,। सौभाग्यदं वर्णकरं प्रीत्योजोबलवर्द्धनम्।। स्वेददौर्गन्ध्यवैवर्ण्यश्रमघ्नमनुलेपनम्। स्नानं येषां निषिद्धन्तु तेषामप्यनुलेपनम्। रजोघ्नमथ चौजस्यं सौभाग्यकरमुत्तम्,। सुमनोऽम्बररत्नानां धारणं प्रीतिवर्द्धनम्।। मुखालेपाद्दढं चक्षुःपीनगण्डं तथाननम्। अव्यङ्गपिडकं कान्तं भवत्यम्बुजसन्निभम्,।। पक्ष्मलं विशदं कान्तममलोज्ज्वलमण्डलम्। नेत्रमञ्जनसंयोगाद्भवेच्चामलतारकम्,। यशस्यं स्वर्ग्यमायुष्यं धनधान्यविवर्द्धनम्। देवतातिथिविप्राणां पूजनं गोत्रवर्द्धनम्,।। आहारः प्रीणनः सद्योबलकृद्देहधारकः। आयुस्तेजःसमुत्साहस्मृत्योजोऽग्निविवर्द्धनः,।। पादप्रक्षालनं पादमलरोगश्रमापहम्। चक्षुःप्रसादनं वृष्यं रजोघ्नं प्रीतिवर्द्धनम्।। निद्राकरो देहसुखश्चक्षुष्यः श्रमसुप्तिनुत्,। पादत्वङ्मृदुकारी च पादाभ्यङ्गः सदा हितः।। पादरोगहरं वृष्यं रजोघ्नं प्रीतिवर्द्धनम्,। सुखप्रचारमौजस्यं सदा पादत्रधारणम्।। अनारोग्यमनायुष्यं चक्षुषोरुपघातकृत्। पादाभ्यामनुपानद्भ्यां सदा चंक्रमणं नृणाम्,।। पापोपशमनं केशनखरोमापमार्जनम्। हर्षलाघवसौभाग्यकरमुत्साहवर्द्धनम्।। वाणवारं मृजावर्णतेजोबलविवर्द्धनम्,। पवित्रं केश्यमुष्णीषं वातातपरजोऽपहम्।। वर्षानिलरजोघर्महिमादीनां निवारणम्।। वर्ण्यं चक्षुष्यमौजस्यं शङ्करं छत्रधारणम्।। शुनः सरीसृपव्यालविषाणिभ्यो भयापहम्,। श्रमस्खलनदोषघ्नं स्थविरे च प्रशस्यते।। सत्वोत्साहबलस्थैर्य्यधैर्य्यवीर्य्य विवर्द्धनम्। अवष्टम्भकरञ्चापि भयघ्नं दण्डधारणम्,।। आस्था वर्णकफस्थौल्यसौकुमार्य्यकरी सुखा,। अध्वा वर्णकफस्थौल्यसौकुमार्य्यविनाशनः,। अत्यध्वा विपरीतोऽस्माज्जरादौर्बल्यकृच्च सः।। यत्तु चंक्रमणं नातिदेहपीडाकरं भवेत्,। तदायुर्बलमेघाग्निप्रदमिन्द्रियबोधनम्।। श्रमानिलहरं वृष्यं पुष्टिनिद्राधृतिप्रदम्। सुस्वं शय्यासनं दुःखं विपरीतगुणं मतम्,।। व्यालव्यजनमौजस्यं मक्षिकादीनपोहति। शोषदाहश्रमस्वेदमूर्च्छाघ्नो व्यजनानिलः,।। प्रोतिनिद्राकरं वृष्यं कफवातश्रमापहम्। संवाहनं मांसरक्तत्वक्प्रसादकरं खम्,। प्रवातं रोक्ष्यवैवर्ण्यस्तम्भकृद्दाहपक्तिनुत्। स्वेदमूर्च्छापिपासाघ्नमप्रवातमतोऽन्यथा,।। सुखं वातं प्रसेवेत ग्रीष्मेशरदि मानवः। निवातं ह्यायुषे सेव्यमारोग्याय च सर्वदा,। आतपः पित्ततृष्णाग्निस्वेदमूर्च्छाभ्रमास्रकृत्,। दाहवैवर्ण्यकारी च छाया चैतानपोहति,। अग्निर्वातकफस्तम्भशीतवेपथुनाशनः। आमाभिष्यन्दजरणो रक्तपित्तप्रदूषणः,। पुष्टिवर्णबलोत्साहमग्निदीप्तिमतन्त्रिताम्। करोति धातुसाम्यञ्च निद्राकाले निषेविता,।

तत्रादित एव नीचनखरोम्णा शुचिना शुक्लवाससा लघूष्णीषच्छत्रोपानत्केन दण्डपाणिना काले हितमितमधुरपूर्ब्बाभिभाषिणा बन्धुभूतेन भूतानान्तु, गुरुवृद्धानुमतेन सुसहायेनानन्यमनसा खलूपचरितव्यं, तदपि न रात्रौ न केशास्थिकण्टकाश्मतुषभस्मोत्करकपालाङ्गारामेध्यस्थानबलिभूमिषु, न विषमेन्द्रकीलचतुष्पथश्वभ्राणामुपरिष्टात्,। न राजद्विष्टपरुधपैशुन्यानृतानि वदेत् न देवब्राह्मणपितृपरिवादांश्च। न नरेन्द्रद्विष्टोन्मत्तपतितक्षुद्रनीचाचारानुपासीत। वृक्षपर्वतप्रपातविषमवल्मीकदुष्टवाजिकुञ्जराद्यधिरोहणानि परिहरेत् पूर्णनदीसमुद्राविदितपल्वलश्वभ्रकूपावतरणानि, भिन्नशून्यागारश्मशानविजनारण्यवासाग्निसंभ्रमव्यालभुजङ्ग–कीटसेवाग्रामाघातकलहशस्त्रसन्निपाताग्निसंभ्रमव्यालसरीसृपशृङ्गिसन्निर्कषांश्च।। नाग्निगोगुरुब्राह्मणप्रेङ्खादम्पत्यन्तरेणाभियायात्। न शवमनुयायात्। देवगोब्राह्मणचैत्यध्वजरोगिपतितपापकारिणाञ्च छायां नाक्रमेत्। नास्तं गच्छन्तमुद्यन्तं वादित्यं वीक्षेत। गान्धयन्तीं परशस्यं वा चरन्तीं परस्मै न कस्मैचिदाचक्षीत, न चोल्कापातेन्द्रधनूंषि। नाग्निं मुखेनोपधमेत्। नापो भूमिं वा पाणिपादेनाभिहन्यात्।। न वेगान् घारयेत्। न वहिर्वेर्गान् ग्रामनगरदेवतायतनश्मशान चतुष्पथसलिलाशयपथिसन्निकृष्टानुत्सृजन्नप्रकाशं न वाय्वग्निसलिलसोमार्कगोगुरुप्रतिमुखम्।। न भूमिं विलिखेत्। नासंवृतमुखः सदसि जृम्भोद्गारश्वासक्षवथनुत्सृजेत्। न पर्य्यस्तिकावष्टम्भपादप्रसारणानि गुरुसन्निधौ कुर्य्यात्। न बालकर्णनासास्रोतोदशनविवराण्यभिकुष्णीयात्। न वीजयेत् केशमुखनखरवस्त्रगात्राणि। न गात्रनखवक्त्रवादित्रं कुर्य्यात्। न काष्ठलोष्टतृणादीनभिहन्याद्भिन्द्याद्वा। न प्रतिवातातपंसेवेत। न भुक्तमात्रोऽग्निमुपासीत, नोत्कटुकस्तिष्ठेत्। नाल्पकाष्ठासनमध्यासीत। न ग्रोवां विषमं षारयेत्। न विषमकायः क्रियां भजेत् भुञ्जीत वा। न प्रततमीक्षेत विशेषाज्ज्योतिर्भास्करसूक्ष्मचलभ्रान्तानि। न भारं शिरसा वहेत्। न स्वप्नजागरणशयनासनचङ्कमणयानवाहनप्रधानवनलङ्घनप्लवनप्रत रणहास्यभाष्यव्यवायव्यायामादीनुचितानप्यतिसेवेत।। उ चितादप्यहितात् क्रमशो विरमेत् हितमनुचितमप्यासेवेत क्रमशो न चैकान्ततः पादहीनात्।। नावाक्शिराः शयीत। न भिन्नपात्रे नाञ्जलिपुटेनापः पिबेत्। काले हितमितस्निग्धमधुरप्रायमाहारं वैद्यप्रत्यवेक्षितमश्नीयात्। ग्रामगणगणिकापणिकशत्रुशठपतितभोजनानि परिहरेत् शेषाण्यपि चानिष्टरूपरसगन्धस्पर्शशब्दमानसान्यन्यान्येवंगुणान्यपि वा संभूय दत्तानि तान्यपि मक्षिकाबालोपहतानि,। नाप्रक्षालितपाणिपादो भुञ्जीत मूत्रोच्चारपीडितो न सग्ध्ययोर्नापाश्रितो नातीतकालं हीनमतिमात्रञ्चेति न भुञ्जीतोद्धृतस्नेहम्।। नोदके पश्येदात्मानं, न नग्नः प्रविशेज्जलम्। न नक्तं दधि भुञ्जीत न वाप्यघृतशर्करम्।। नामुद्गयूषं नाक्षौद्रं नोष्णैर्नामलकैर्विना। अन्यथा कृष्ठवीसर्पादिं जनयेत्। द्यूतमद्यातिसेवाप्रतिभूसाक्षित्वसमाह्वानगोष्ठीवादित्राणि न सेवेत। स्रजञ्छत्रोपानहौ कनकमतीतवासांसि न चान्यैर्धृतानि धारयेत्। ब्राह्मणमग्निं गाञ्च नोच्छिष्टः स्पृशेत्।। भवन्ति चात्र।। सुखमात्रं समासेन सद्वृत्तस्यैतदीरितम्। आरोग्यमायुरर्थो वा नासद्भिः प्राप्यते नृभिः।। यस्मिन् यस्मिन्नृतौ ये ये दोषाः कुप्यन्ति देहिनाम्। तेषु तेषु प्रदातव्या रसास्ते ते विजानता।। वर्षासु न पिबेत्तोयं पिबेच्छरदि मात्रया। वर्षासु चतुरो मासान्मात्रावदुदकं पिबेत्।। उष्णं हैमे वसन्ते च कामं ग्रीष्मे तु शीतलम्। हेमन्ते च वसन्ते च सीध्वरिष्टौ पिबेन्नरः।। शृतशीतं पिबेत् ग्रीष्मे प्रावृट्काले रसं पिबेत्। यूषं यर्षति तस्यान्ते प्रपिबेच्छीतलं जलम्।। स्वस्य एवमतोऽन्यस्तु दोषाहारमतानुगः। स्नेहं सैन्धवचूर्णेन पिप्पलीभिश्च संयुतम्।। पिबेदग्निविवृद्ध्यर्थं न च वेगान्विधारयेत्। अग्निदीप्तिकरं नॄणां रोगाणां शमनं प्रति।। प्रावृट्शरद्वसन्तेषु सम्यक् स्नेहादिमाचरेत्। कफे प्रच्छर्दनं, पित्ते विरेको, वस्तिरीरणे।। शस्यते त्रिष्वपि सदा व्यायामो दोषनाशनः। भुक्तं विरुद्धमप्यन्नं व्यायामान्न प्रकुप्यति।। उत्सर्गमैथुनाहारशोधने स्यात्तु तन्मनाः। नेच्छेद्रोगभयात्प्राज्ञः पीडां वा कायमानसीम्।। अतिस्त्रीसंप्रयोगाच्च रक्षेदात्मानमात्मवान्। शूलकासज्वरश्वासकार्श्यपाण्ड्वामयक्षयाः।। अतिव्यवायाज्जायन्ते रोगाश्चा- क्षेपकादयः। आयुष्मन्तो मन्दजरा वपुर्वर्णबलान्विताः।। स्थिरोपचितमांसाश्च भवन्ति स्त्रीषु संयताः। त्रिभिस्त्रिभिरहोभिर्हि समीयात् प्रमदां नरः।। सर्वेष्वृतुषु धर्म्मेषु पक्षात्पक्षाद् व्रजेत् बुधः। रजस्वलामकामाञ्च मलिनामप्रियां तथा।। वर्णवृद्धां वयोवृद्धां तथा व्याधिप्रपीडिताम्। हीनाङ्गीं गर्भिणीं द्वेष्यां योनिदोषसगन्विताम्।। सगोत्रां गुरुपत्नीञ्च तथा प्रवजितामपि। सग्ध्यापर्वस्वगम्याञ्च नोपेयात् प्रमदां नरः।। गोसर्गे चार्द्धरात्रे च तथामध्यन्दिनेषु च। लज्जासमावहे देशे विवृतेऽशुद्ध एव च।। क्षुधितो व्याधितश्चैव क्षुब्धचित्तश्च मानवः। वातविण्मूत्रवेगी च पिपासुरतिदुर्बलः।। तिर्य्यग्योनावयोनौ च प्राप्तशुक्रविधारणम्। दुष्टयोनौ विसर्गन्तु बलवानपि वर्जयेत्।। रेतसश्चातिमात्रन्तु मूर्द्ध्वावरणमेव च। स्थितावुत्तानशयने विशेषेणैव गर्हितम्।। क्रीडायामपि मेधावी हितार्थी परिवर्जयेत्। रजस्वलां प्राप्तवतो नरस्यानियतात्मनः।। दृष्ट्यायुस्तेजसां हानिरधर्म्मश्च ततो भवेत्। लिङ्गिनीं गुरुपत्नीञ्च सगोत्रामथ पर्वसु।। वृद्धाञ्च सन्ध्ययोश्चापि गच्छतो जीवितक्षयः। गर्भिण्यां गर्भपीडा स्याद्व्याधितायां बलक्षयः।। हीनाङ्गीं मलिनां द्वेष्यां कामं बन्ध्यामसंवृते। देशेऽशुद्धे च शुक्रस्य मनसश्च क्षयो भवेत्।। क्षुधितः क्षुब्धचित्तश्च मध्याह्ने तृषितोऽबलः। स्थितस्य हानिं शुक्रस्य वायोः कोपञ्च विन्दति।। अतिप्रसङ्गाद्भवति शोपः शुक्रक्षयावहः। व्याधितस्य रुजा प्लीहा मृत्युर्मूच्छा च जायते। प्रत्यूषस्यर्द्धरात्रे च वातपित्ते प्रकुप्यतः।। तिर्य्यग्योनावयोनौ च दुष्टयोनौ तथैव च। उपदंशस्तथा वायोः कोपः शुक्रस्य च क्षयः।। उच्चारिते मूत्रिते च रेतसश्च विधारणे। उत्ताने च भवेच्छीघ्रं शुक्राश्मर्य्यास्तु सम्भवः।। सर्वं परिहरेत्तस्मादेतल्लोकद्वये हितम्। शुक्रं चोपस्थितं मोहान्न सन्धार्य्यं कथञ्चन।। वयोरूपगुणोपेतां तुल्यशीलां गुणान्विताम्। अभिकामोऽभिकामान्तु हृष्टो हृष्टामलंकृताम्।। सेवेत प्रमदां युक्त्या वाजीकरणवृंहितः। भक्ष्याः सशर्कराः क्षीरं ससितं, रस एव च।। स्नानं सव्यजनं स्वप्नो व्यवायान्ते हितानि तु इति”। एतेषामन्यथाचरणे यथायथं दुःस्रान्युत्पद्यन्ते।

अनागतार्त्तवा = स्त्री स्त्रीपुष्पविकाशनम् आर्त्तवम् न आगतमार्त्तवं यस्याः। स्त्रीधर्मशून्यायां नग्निकायां कन्यायाम्।

अनागन्धिव = त्रि० न आगन्धितः आघ्रातः। अनाघ्राते, “सर्वदोषानागन्धितं प्रतिवचनमाहेति” वृ० उ० भा०।

अनागम = पु० नास्ति आगमः स्वत्वहेतुः क्रयादिर्यत्र। स्वत्वहेतुक्रयादिशून्ये “अनागमं तु यो भुङ्क्ते बहून्यब्दशतान्यपीति” स्मृतिः अधिकमागमशब्दे वक्ष्यते।

अनागस् = त्रि० नास्ति आगोऽपराधः पापं वा यस्य। अपराधशून्ये पापशून्ये च “आर्त्तत्राणाय वः शस्त्रं न प्रहर्त्तुमनागसीति” शकु०। “अनागमे शंसति बालचापलमिति” नैष०। “अनागसः तमदितिः कृणोतु ऋ० ४, ३९, ३, “अनागसं पापरहितमिति” भा०। “तवानागसो अदितये स्याम” ऋ० १, २४, २५, “अनागसः अपराधरहिताः स्यामेति” भा०।

अनाचार = पु० अप्राशस्त्येऽभावे वा न० त०। कदाचारे, आचाराभावे च। “सर्वदेशेष्वनाचारः पथि ताम्बूलचर्वणमिति” स्मृतिः। “अनाचारोद्विविधः विहितस्यानुष्ठानाभावः निषिद्धस्याचरणञ्च। तत्र आचारशब्दे वक्ष्यमाणा भावाभावरूपाः शास्त्रे कर्त्तव्यतया ये विहितास्तेषामननुष्ठानम् अनाचारः। निषिद्धशब्दे वक्ष्यमाणानि वर्ज्जनीयतया शास्त्रे यानि उक्तानि तेषामनुष्ठानमप्यनाचारः। तत्रायं विशेषः यत्र देशे परभ्पराप्रसिद्धः योऽनाचारः स, अल्पदोषाधायकः यथोक्तं माधवीये बौधायनेन “पञ्चधा विप्रतिपत्तिर्दक्षिणत उर्णाविक्रयो, अनुपनीतेन भार्य्यया च सह भोजनम्, पर्य्युषितभोजनम्, मातुलपितृष्वसृदुहितृपरिणयनम्, तथोत्तरतः सीधुपानमुभयतोदद्भिर्व्यवहार” इत्यादिकमभिधाय “इतर इतरस्मिन् कुर्वन् दुष्यति देशप्रामाण्यादिति”। “इतरोदाक्षिणात्य इतरस्मिन् उत्तरदेशे मातुलसुतादिसम्बन्धं कुर्वन् दुष्यति न स्वदेशे, तथा इतर उदीच्य इतरस्मिन् दक्षिणे देशे सीधुपानादिकं कुर्वन् दुष्यति न स्वदेशे कुतः देशप्रामाण्यात् देशनिबन्धनत्वादाचारप्रमाण्यस्येति” माधवः। देवलः “यस्मिन् देशे ग आवारः न्यायदृष्टः सुकल्पितः। स तस्मिन्नेव कर्त्तव्यो न तु देशान्तरे स्मृतः इति। यस्मिन् देशे पुरे ग्रामे त्रिविधे नगरेऽपि वा। यो यत्र विहितो धर्म्मस्तं धर्मं न विचालयेदिति”। “देशानुशिष्टं कुलधर्ममग्र्यं स्वजातिधर्मं न हि संत्यजेच्चेति” स्मृत्यन्तरं वृहस्पतिरपि “परम्परासिद्धानानाचारान् देशविशेषेष्वाह स्म। “उदुह्यते दाक्षिणात्यैर्मातुलस्य सुता द्विजैः। मत्स्यादाश्च नराः पूर्ब्बे व्यभिचाररताः स्त्रियः। उत्तरे मद्यपाश्चैव स्पृश्या नॄणां रजस्वला इति” एवमन्येप्यनाचारा देशभेदे परम्परागताः तत्तत्स्पृतिषूक्ता वेद्याः। ब०। आचारहीने त्रि०।

अनाज्ञात = त्रि० न आज्ञातः। सम्यग्ज्ञानाविषयीभूते “आज्ञातं यदानाज्ञातं यज्ञस्य क्रियते मिथ” इति यजु०।

अनातप = पु० आ + तप–अच् न० त०। आतपस्य रोद्रस्याभावे, छायायां च। अनातपविशोषितमिति” वैद्यकम् छायाशुष्कमिति तदर्थः। ब०। आतपशून्ये त्रि०।

अनातुर = त्रि० न आतुरः। आतुरभिन्ने स्वस्थे अरोगे च “यद्देवाः शर्म्म शरणं यद्भद्रं यदनातुरमिति” ऋ० ८, ४७, १०, “भेजे धर्ममनातुर” इति रघुः।

अनात्मक = त्रि० नास्ति आत्मा स्थिरः यत्र कप्। क्षिणिक विज्ञानमते, स्थिरात्मशून्ये जगति च। नैरात्म्यवादे हि चेतयिता स्थिर आत्मा न स्वीक्रियते किन्तु क्षणिकविज्ञानेनैव सर्वव्यवहारसिद्धिरित्यतः पराभिमतात्मशून्यत्वम् जगतः। विस्तरः क्षस्तिक्तविज्ञानशब्दे दृश्यः।

अनात्मज्ञ = त्रि० आत्मानं यथाखरूपं न जानाति ज्ञा–क जत० स०। आत्मस्वरूपानभिज्ञे आत्मचेष्टितानभिज्ञे खपरविवेचनाशून्थे च।

अनात्मन् = पु० न आत्मा अप्राशस्त्ये भेदार्थे च न० त०। “अप्राप्तः प्राप्यते योऽयमत्यन्तं त्यज्यतेऽथवा। जानीयात्तमनात्मानं बुद्ध्यन्त वपुरादिकम्” इत्थेवं प्रतिपादिते आत्मभिन्ने अपकृष्टात्मनि देहादौ “अनात्मनि देहादौ आत्मेति बा बुद्धिः साऽविद्येति वे० प्र०। “देवाश्च असुराश्च उभयएवानात्मान” इति श्रुतिः “अनात्मन्यात्मबुद्धिर्या साऽविद्या परिकीर्त्तितेति” पुरा।

अनात्मवत् = त्रि० आत्माऽब्धःकरणं वश्यत्वेनास्त्यस्य मतुप् मस्य वः न० त०। अजितेन्द्रिये। “अनात्मवन्तःपशुवद्भुञ्जते येऽप्रमाणत” इति सुश्रुतम्।

अनात्म्य = न० आत्मन इदं आत्मन् + यत् आत्म्यम् शरीरं न० ब०। अशरीरे “एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्ते इति तै० ब्रा० “अनात्म्ये अशरीरे” इति भा०।

अनाथ = त्रि० नास्ति नाथः प्रभुरस्य। प्रभुहीने “किं भ्राता सद्यदनाथमिति” ऋ० १०, १०, ११,। विलपन्तमनाथवदिति भार०।

अनादर = पु० आदुरः गोरवहेतुका सम्मानना विरोधे न० त०। परिमवे, तिरस्कारे, अवज्ञायाम् च तेषामादरविरोधिप्त्व्यात्तथात। “गुणेपु रागो व्यसनेष्वनादरः” नीति०। ब०। आदरशून्ये त्रि०।

अनादि = पु० आदिः कारणम् पूर्ब्बकालो वा स नास्ति य स्य परमेश्वरे। नास्ति आदिः प्राथमिकोयस्मात् ५ ब०। हिरण्यगर्भे पु० तस्य च “हिरण्यगर्भः समवर्त्तताग्रे” इति श्रुतौ सृष्टेः प्रगुत्पत्त्युक्तेस्तथात्वम्। आदिशून्ये त्रि०। “जगदादिरनादिस्त्वमिति” कुमा०। “अनादिनिधनं ब्रह्म शब्दतत्त्वं प्रचक्षते” इति हरिः। “अनादिनिधना देवी वागुत्सृष्टा स्वयम्भुवेति” पुरा०। “अनादिभूर्भुव इति” विष्णु स०। “अनादित्वात् निर्गुणत्वादिति” गीता।

अनादिमत् = आदिमत् कार्य्यं तद्भिन्नः। कार्य्यभिन्ने।

अनादिष्ट = त्रि० न आदिष्टः विशेषरूपेण उपदिष्टः। विशेषरूपेणाकथिते “अस्य पापस्य, इदं प्रायश्चित्त” मित्यादिरूपेण विशेषतोऽनिर्दिष्टे प्रायश्चित्ते “उपपातकयुक्तानामनादिष्टेषु चैव हि। प्रकाशे च रहस्ये च” इति विश्वामित्रः।

अनादृत = न० आदृतम् आदरः भावे क्त अभावार्थे न० त०। आदरामावे अवज्ञायाम्। कर्म्मणि क्त न० त०। आदृतभिन्ने अवज्ञाते तिरस्कृते च त्रि०।

अनादेय = न० न आदेयः। स्मृत्यादिषु निषिद्धतया आदानानर्हे वस्तुनि “अनादेयस्य चादानादादेयस्य च वर्जनादिति” मनुः। अप्रतिग्राह्ये च अप्रतिग्राह्यद्रव्याणि च अप्रतिग्राह्यशब्दे वक्ष्यन्ते।

अनादेश = पु० न आदेशः अभावे न० त०। उपदेशाभावे। “मन्त्रानादेशे गायत्रीति” स्मृतिः।

अनाद्य = त्रि० न आद्यं भक्ष्यम्। अभक्ष्ये स्मृतिनिषिद्धतया भक्षणानर्हे। “एषोऽनाद्यादनस्योक्तो व्रतानां विविधोविधिरिति” “ज्ञानाज्ञानकृतं कृत्स्नं शृणुतानाद्यभक्षणे” इति च मनुः। अनाद्यानि च अभक्ष्यशब्दे दर्शयिष्यन्ते। आद्यशूत्ये अनादौ त्रि०।

अनाधार = त्रि० नास्ति आवारो यस्य। आश्रयशून्ये “अयत्र नित्यद्रव्येभ्य आश्रितत्वमिहेष्यते” (भाषा०) उक्तेः न्यायमते नित्यद्रव्यमात्रे, आश्रयशून्यत्वाच्च युक्तमनाधारत्वम् “अम्ब रान्तधृते” रित्यादि शा० सूत्रेण अम्बरपर्य्यान्तामां सर्वेषामाधारत्वमीश्वरस्येति नाम्बरादौ अनावारत्वं किन्तु ब्रह्मण एवेति वेदान्तिनः।

अनाधृष् = त्रि० आ + धृष–क्त न० त०। अनभिभूत आधर्षणरहिते “रेवतीरनाधृषः सिषासव” इति णर्व० ६, २, २।

अनाधृष्ट = त्रि० न आधृष्टः पराभूतः। अपरिभूते “मही न आयस्यनाधृष्ट” इति ऋ० ७, १५, १४,। वार्यमनाधृष्टं रक्षखिना, ऋ० ८, २२, १८।

अनाधृष्य = त्रि० आ + धृष–कर्म्मणि क्यप् न आधृष्यः न० त०। अनभिभवनीये “अनाधृष्यं वृषभं तुम्रमिन्द्रमिति” ऋ० ४, १८, १०, “तव देवैरनाधृष्यमिति” रामा०।

अनानुद = त्रि० अनुददाति अनु + दा–क न० त० पृ० दीर्घः। समानदातृशून्ये अतुल्यदातरि। “अनानुदो वृषभोदोधत” इति ऋ० २, २१, ४, “प्रमूतधनदानेन अन्यः समानो दाता नास्तीति” भा०।

अनापि = त्रि० आप्यते आप–कर्म्मणि इन् आपिराप्तो बन्धुश्च न० ब०। आप्तशून्ये। “अनापिरज्ञा असजात्यामतिरिति” ऋ० १०, ३९, ६, “अनापिरबन्धुरिति” भा० “अम्रातृव्यो अना त्वमनापिरिन्द्र” इति ऋ० ८, २१, १३।

अनाप्त = त्रि० आप्तो बन्धुः यथार्थज्ञानवान्, प्राप्तश्च, न० त०। बन्धुभिन्ने, अप्राप्ते, “यस्यानाप्तः सूर्य्यस्येव ऋ० १, १००, २, “अनाप्तः परैरप्राप्तः” इति भा०। यथार्थनिश्चयवद्भिन्ने “युग्यस्थाः प्राजकेऽनाप्ते सर्वे दण्ड्याः शतं शतमिति” मनुः।

अनाभयिन् = त्रि० आबिभेति आ + भी–उणा० इनि न० त०। सम्यग्भीतभिन्ने। “अनाभयिन्नरिमा ते” ऋ० ८, २, १,।

अनाभू = त्रि० आभिमुख्येन भवति आभूः स्तोता न० त०। स्तोतृभिन्ने आभिमुख्याप्राप्ते च। “इन्द्रःश्नथयन्ननाभुव” इति ऋ० १, ५१, ९,।

अनामन् = न० अननमनः अनं जीवनम् अमयति रुजति अम– कनिन्। अर्शोरोगे। नास्ति नामास्य नामशून्ये मलमासे पु० तस्य वैदिककर्म्मानर्हतयाऽनामत्वात्तत्त्वम्। नामशून्ये त्रि० अनामिकायामपि पु० शब्दरत्ना०। स्वार्थे कन्। तत्रार्थे।

अनामय = पु० अम–घञ् आमं तापं यात्यनेन या–क आमयो रोगः न० त०। रोगाभावे आरोग्ये। “ब्राह्मणं कुशलं पृच्छेत् क्षात्रबन्धुमनामयमिति” मनुः। न० ५ ब०। वाह्याभ्यन्तरपीडानिवारके विष्णौ पु० “पुण्यकीर्त्तिरनामय” इति विष्णु स०। रोगशून्ये त्रि०। “जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयमिति” गीता।

अनामयित्न, = अम–णिच्–बा० इत्नुच् न० त०। व्यथकभिन्ने “हस्ताभ्यामनामयित्नुभ्यामिति” ऋ० १०, १३७, ७,।

अनामा = स्त्री ब्रह्मणः शिरश्छेदनसाधनतया ग्रहणायोग्यत्वात् नास्ति नाम ग्रहणयोग्यं यस्याः, नास्ति अङ्गुष्ठतर्जन्यादिवत् विशेषनामास्य वा मनन्तत्वात् डाप्। स्वनामप्रसिद्धायां मध्यमाकनिष्ठयोः मध्यगायामङ्गुल्याम्। स्वार्थे कन्। अनामिकाप्यत्र। तया हि शिवेन ब्रह्मशिरच्छिन्नमिति पुराणे प्रसिद्ध्वम् तेन तस्या अपवित्रजातीयता अतएव तस्याः पवित्रीकरणार्थं यज्ञादौ पवित्रनामककुशधारणं तत्र क्रियते। “अनामिकाधृता दर्भा ह्येकानामिकयापि वा, द्वाभ्यामनामिकाभ्यां तु धार्य्ये दर्भपवित्रके” इति छन्दो० प०।

अनामृण = त्रि० आमृणाति हिनस्ति आ + मृण–क न० ब०। हिंसकरहिते। “अनामृणः कुविदादस्य ऋ० १, ३३१,।

अनायत्त = त्रि० न आयत्तः। अवशे अनधीने। “एतावज्जन्मसाकल्यं यदनायत्तवृत्तितेति” हितो०।

अनायन = न० न आयनं चालनम् यत्र। एकान्ते हेम० एकान्तानायनमित्येकं नामेति केचित्।

अनायास = पु० आ–यस घञ् अल्पार्थे न० त०। प्रयत्नाभावे, अल्पप्रयासे, अक्लेशे च। “शरीरं पीड्यते येन शुभेनाप्यशुभेन वा। अत्यन्तं तन्न कुर्वीत अनायासः स उच्यते” अत्रि०। ब०। प्रयत्नशून्ये त्रि०। “ममाप्येऽकस्मिन्ननायासे कर्मणि सहायेन भवता भवितव्यमिति” शकु०।

अनायासकृत = न० अनायासेन अल्पप्रयत्नेन कृतं न० त०। अल्पायासेन साध्ये फाण्टे क्वाथे।

अनायुष्य = न० आयुषे हितम् आयुस् + यत् न० त०। आयुरहितकरे अतिभोजनादौ। “अनारोग्यमनायुष्यमस्वर्ग्यञ्चातिभोजनम्” इति “नहीदृशमनायुष्यं लोके किञ्चन विद्यते यादृशं पुरुषस्यैव परदारोपसेवनमिति” च मनुः। “तत्र प्रथमदिवसे ऋतुमत्यां मैथुनगमनमनायुष्यं पुंसामिति” सुश्रुतम् एवमन्यान्यपि बहूनि अनायुष्याणि तत्र स्थाने स्थाने दर्शितानि। तत एव तानि बोध्यानि।

अनारत = न० आ + रम–क्त आरतं विरतिः अत्यन्ताभावे न० त०। सन्तते, अविरामे अविच्छेदे च। “अनारतं तेन पदेषु लम्भिता” इति भार०। ब०। तद्वति त्रि०।

अनारभ्य = अव्य० आ + रभ–ल्यप् न आरभ्य। किञ्चिदनधिकृत्येत्यर्थे। “अनारभ्याधीतत्वादिति” मीमांसा। न आरभ्यः न० त०। आरभ्यभिन्ने त्रि०। अनारभ्यत्वादिति का० १, ८, ३, “नैवायमारम्भणीऽर्थ” इति व्याख्या। “अनारभ्यत्वाच्चेति” इति कात्या० २०, ८, २९,। “तस्मादनारभ्योऽयमर्थ” इति व्याख्या।

अनारभ्याधीत = त्रि० न आरभ्य किञ्चित् अधीतः। किञ्चिदनधिकृत्य अधीते, येषां मन्त्राणां कर्म्मविशेषे विनियोगो नोक्तस्तेषां मन्त्राणामनाराभ्याधीतत्वात् ब्रह्मयज्ञे एव विनियोग इति मीमांसायां स्थिरीकृतम्। “सामान्येन तु विनियोगो यद्यपि ब्रह्मयज्ञविशेष” इति ऋ० भा० माधवः।

अनारम्भः = पु० न आरम्भः अमावार्थे न० त०। आरम्भाभावे अनुष्ठानाभावे। “न कर्म्मणासनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते इति” गीता।

अनारोग्य = न० न आरोग्यम्। “आरोग्याभावे। नास्ति आरोग्यं यस्मात् ५ ब०। आरोग्यासाधने “अनारोग्यमनायुष्यमस्वर्ग्यं चातिभोजनमिति” मनुः।

अनार्ज्जव = पु० ऋजोर्भाव आर्ज्जवं सरलता स्वाच्छन्द्यं वा न० ७ ब०। रोगे। अभावार्थे अव्ययी०। ऋजुत्वाभावे अव्य०। ६ ब०। कुटिले त्रि०।

अनार्त्तव = त्रि० ऋतुरस्य प्राप्तः ऋतु + अण् न० त०। स्वकाल रूपे–ऋतौ–अनुत्पन्ने कुमुमादौ। ऋतोः स्त्रीकुसुमस्येदम् विकाशनम् आर्त्तवं तन्नास्ति यस्याः। अदृष्टरजस्कायां स्त्रियां स्त्री।

अनार्य्य = पु० न आर्य्यः न० त०। आर्य्यभिन्ने असच्चरिते। “अनार्य्य इति मामार्य्या इति” रामा०। न० ७ ब०। आर्य्यानाश्नये देशे।

अनार्य्यक = न०। न आर्य्यो यत्र देशे तत्र आर्य्यावर्त्तादिभिन्ने द्वीपान्तरादौ भवः अनार्य्य + कन्। अगरुकाष्ठे।

अनार्य्यज = न०। अनार्य्ये देशे जायते जन–ड। अनार्य्यदेशजाते अगरुकाष्ठे। तद्देशजातमात्रे त्रि०।

अनार्य्यतिक्त = पु० अनार्य्यप्रियस्तिक्तः शाक० त०। (चिराता) इति ख्याते भूनिम्बे वृक्षे।

अनार्ष = त्रि० ऋषिजुष्टत्वादृषिर्वेदस्तत्रोक्तः आर्षः न० त०। अवैदिके वेदाप्रयुक्ते। “संबुद्धौ शाकल्यस्येतावनार्षे” इति पा०। “अनार्षे अवैदिके” इति सि० कौ०। ऋषिणा दृष्टम् अण् आर्षम् न० त०। ऋषिणाऽदृष्टे। “अणिञोरनार्षयोर्गुरूपोत्तमयोरिति” पा०। “अनार्षयो किं? वाशिष्ठीति” सि० कौ०।

अनालोचि(डि)त = त्रि० न आलोचि (डि) तः। अविवेचिते। “अनालोचितकार्य्यस्य वाग्जालं वाग्मिनो वृथेति” माघः अनिर्लोचितेति वा पाठः।

अनाविल = त्रि० न आविलः। प्रसन्ने स्वच्छे कालुष्यरहिते।

अनाविद्ध = त्रि० न आविद्धः। अवाधिते। “अनाविद्धया तन्वा त्वाजय” ऋ० ६, ७५, १।

अनावृत्त = त्रि० न आवृत्तः अभ्यस्तः। अपुनर्गते प्रथमगते च। “मलमासेऽप्यनावृत्तां तीर्थयात्रां विवर्जयेदिति” स्मृतिः।

अनावृत्ति = स्त्री न आवृत्तिः पुनर्गमनम्। अभ्यासाभावे, आगमनाभावे च “अनावृत्तिः शब्दादिति” शा० सू०। “तत्र प्राप्तविवेकस्यानावृत्तीति” सां० सू०। ब०। तद्वति त्रि०।

अनावृष्टि = स्त्री आ + वृष–क्तिन् “अभावार्थे न० त०। “अतिवृष्टिरनावृष्टिः शलभामूषिकाः स्वगाः। प्रत्यासन्नाश्च राजानः षडेते ईतयः स्मृता” इत्युक्ते ईतिभेदे “द्वादशवार्षिक्यामनावृष्ट्यामिति” हितो०।

अनाशक = पु० आ सम्यक् यथेच्छम् आशः अशनम् आ + अश घञ् न० ब० कप् नश्यति नश–ण्वुल् न० त० वा। यथेच्छभोगशून्ये, अनश्वरे च “तमेतं ब्राह्मणा विविदिवन्ति वेदानुवचनेन यज्ञेन तपसाऽनाशकेनेति” श्रुतिः। फलकामनाशून्यत्वेन, भोगाय फलाजनकत्वात् तादृशकर्मणश्च भोगेन क्षयाभावाच्च तथात्वम्।

अनाशकायन = न नश्यति अनाशक आत्मा तस्यायनं प्राप्त्युपायः। आत्मज्ञानसाधने ब्रह्मचर्य्यभेदे, “अथ यदनाशकायनमित्याचक्षते ब्रह्मचर्य्यमेव तदेष ह्यात्मा न नश्यति यं ब्रह्मचर्य्येणानुविन्दते” इति छा० उ०।

अनाशस्त = त्रि० आ + शन्तु स्तुतौ–क्त न० त०। अस्तुते। “अनाशस्त इवास्मसि” ऋ० १, २९, १,।

अनाशिन् = त्रि० न नश्यति नश–णिनि, कर्म्मफलमश्नुते अश–णिनि वा न० त०। अनश्वरे आत्मनि, ईश्वरे च, “अनाशिनोऽप्रमेयस्येति” गीता “अन्योऽनश्नन्नभिचाकशीति” श्रुतेरीश्वरस्य फलभोक्तृत्वाभावात्तथात्वम्। नाशरहिते त्रि० “नश्यतो विनिपातेनाविनिपाते त्वनाशिनौ” मनुः।

अनाशु = त्रि० नश–उण्–अश–व्याप्तौ कर्मणि उण् वा न० त०। विनाशरहिते, अव्याप्ने च। “धन्वन् विद्ये अनाशव” इति ऋ० १, १३५, ९, “अनाशवः विनाशरहिताः अव्याप्ता वा इति भा०। न आशुः शीघ्रः न० त०। क्षिप्रभिन्ने। “अविप्रे चिद्वयोदषदनाशुनेति ऋ० ६, ४५, २, “अनाशुना अक्षिप्रगमनेनेति” भा०।

अनाश्रमिन् = पु० न आश्रमी न० त०। गृहस्थाद्याश्रमशून्ये “अनाश्रमी न तिष्ठेत्तु क्षणमेकमपि द्विज” इति स्मृतिः।

अनाश्रय = त्रि० नास्ति आश्रयो यस्य। आलम्बनरहिते।

अनाश्वस् = त्रि० अश–भोजने क्वसु नि०। गोगशून्ये उपेयिननाश्वाननूचानश्चेति पा० “धृतजयधृतेरनाशुष” इति भारविः।

अनाश्वास = पु० अभावार्थे न० त०। आस्थाभावे विश्वासाभावे “प्रत्यक्षपूर्ब्बकत्वादनुमानस्य सर्व्वत्रानाश्वासप्रसङ्गादिति” वृ० उ० भा०।

अनास् = त्रि० आस्यते निरास्यते ष्ठीवनमनेन आ + अस–क्षेपे करणे क्विप् आः मुखं नास्ति तत् साधनत्वेनास्य। आस्यव्यापारशब्दरहिते। “अनासोदस्यू~रमृण” इति ऋ० ५, २९, १०, “अनासः आस्यरहितानि तद्व्यापारशून्यानीति” भा०।

अनासिक = त्रि० नास्ति नासिकाऽस्य। भग्ननासिके विकृत नासिके च।

अनास्था = स्त्री आ + स्था–अङ् आस्था आदरः अभावार्थे न० त०। अनादरे। “स्त्री पुमानित्यनास्थैषा वृत्तं हि महितं सतामिति” कुमा० “अनास्थया सूनकरप्रसारिणीमिति” नैष०। न० ब०। आदररहिते त्रि०।

अनास्थान = त्रि० आस्थीयतेऽस्मिन् आ + स्था–आधारे ल्युट् आस्थानोभूप्रदेशः न० त०। आस्थानायोग्ये जलादौ। “अनारम्भणे तदवीरयेथामनास्थाने” इति ऋ० १, ११६, ५। आस्थानं सभा। तच्छून्ये च।

अनास्राव = आ + स्रु–वेदे घञ् न० ब०। क्लेशरहिते। लोके तु अप् अनास्रव इति। “तेषामसि त्वमुत्तममनास्रावमरोगणमिति अथ० २, ३, २।

अनाह = पु० नह–घञ् न० त०। मलादिबन्धाभावोपलक्षितेग्रहणीरोगे।

अनाहत = न० आ–हन–भावे क्त आहतं छेदो भोगो वा न० ब०। छेदभोगादिरहिते नवीने वस्त्रे। तन्त्रशास्त्रे प्रसिद्धे हृदयस्थिते सुषुम्णामध्यस्थे द्वादशदलपद्मे “शब्दो ब्रह्ममयः, शब्दोऽनाहतो यत्र दृश्यते अनाहताख्यं तत् पद्मं मुनिभिः परिकीर्त्तितमित्युक्तलक्षणे। नाभिस्थं मणिपूरं चक्रं वर्णयित्वा “तदूर्द्ध्वेऽनाहतं पद्ममुद्यदादित्यसन्निभम्। कादिठान्ताक्षरैरर्कपत्रैश्च समधिष्ठितम्। तन्मध्ये वाणलिङ्गन्तु सूर्य्यायुतसमप्रभम्। आनन्दसदनं तत्तु पुरुषाधिष्ठितं परमिति” तन्त्रसारे उक्तम्। अस्मिन् पक्षे च आहतमाघातः कण्ठताल्वाद्यभिघातः तन्नास्ति साधनत्वेनास्य तादृशः शब्दः अस्यास्ति अर्श आदित्वात् अच्। अनाहतशब्देन च परा, पश्यन्ती, मध्यमा, वैखरीतिप्रसिद्वानां वाग्वृत्तीनां मध्ये मध्यमा वाक् कथ्यते तस्याश्च हृदयपद्मे कण्ठादिस्थानमनाहत्यैवोत्पन्नत्वादनाहतत्वम्, अधिकं मध्यमाशब्दे वक्ष्यते। ब०। आघातरहिते वस्तुमात्रे त्रि०।

अनाहार = पु० न आहारः अभावार्थे न० त०। भोजनाभावे “अनाहारेणात्मानं तव द्वारि व्यापादयिष्यामीति” हितो०। “अनाहारेण देहिन” इति पुरा०।

अनाहार्य्य = त्रि० आहार्य्यः कृत्रिमः आहरणीयश्च न० त०। अकृत्रिमे स्वाभाविके, आहरणीयभिन्ने च।

अनाहिताग्नि = पु० न आहितः अग्निर्येन। विधिना अकृताग्न्याधाने निरग्नौ द्विजभेदे। “योऽनाहिताग्निः शतगुरयज्वा तु सहस्रगु” रिति मनुः। ‘अनाहिताग्निश्रुतेश्चेति’ कात्या० ४, १, २९, “अनाहिताग्नेरपि पिण्डपितृयज्ञः श्रूयते” इति तद्व्याख्या सा च श्रुतिस्तत्रैव दर्शिता “अप्यनाहिताग्निना कार्य्य इति” “यदि स दर्शाङ्गं स्यात् अनाहिताग्ने र्दर्शपौर्णमासाभावान्न श्रूयेतेति” तद्याख्या।

***