अधिकाङ्ग = न० अधिकोऽङ्गात्। वर्मधरैर्योधैर्हृदयमध्ये वर्मदार्ट्यार्थं बद्धपट्टिकादौ। ब०। अधिकाङ्गवति त्रि०। “अजाविघातने चैव अधिकाङ्गः प्रजायते” इति शाता०।
अधिकार = पु० अधि + कृ–घञ। आरम्भे, यथेष्टं क्रयविक्रया दिकर्तृत्वसम्पादके स्वामित्वे, “अधिकारः फले स्वाम्यमधिकारी प्रभुर्भवेदिति” मीमांसोक्ते विहितकर्म्मफलस्वामित्वे, विनियोज्यपुरुषस्य सम्बन्धे, यथा याजनादिकर्मणि ब्राह्मणादेः, राज्ञां प्रजापालनादौ, वैश्यस्य कृष्यादौ, शूद्रस्य द्विजसेवायाम्, “नैमित्तिकोऽयं प्रायश्चित्ताधिकार” इति मिताक्षरा। स्वामित्वे–“सर्व्वे स्युरधिकारण” इति स्मृतिः। तत्र च वैदिकादिकर्मसु कर्त्तव्यताज्ञानाधीनप्रवृत्तिहेतुरधिकारः। यया याजनादौ ब्राह्मणस्येत्यादि। शूद्रस्य नाध्ययनादिष्वधिकारः यथोक्तं “निषेकादिश्मशानान्तो यस्य वेदोदितो विधिः। तस्य शास्त्रेऽधिकारोऽस्मिन्नान्यस्यैव कदाचनेति” मनुना। न केवलम् अध्ययने शूद्राणामधिकारः यागादावप्यनधिकारः यथोक्तं जैभिनीयसूत्रभाष्यादौ। “चातुर्वर्ण्यमविशेषात्” इत्याशङ्क्य “निर्द्देशाद्वा त्रयाणां स्यादग्न्याधेये ह्यसम्बन्धः क्रतुषु ब्राह्मणश्रुतिरित्यात्रेय” इति। “वाशब्दः पक्षं व्यावर्त्तयति, “त्रयाणाम्” अधिकारः स्यात् कुतः? अग्न्याधेये निर्देशात् अग्न्याधेये त्रयाणां निर्द्देशो भवति, “वसन्ते ब्राह्मणोऽग्निमादधीत, ग्रीष्मे राजन्यः, शरदि वैश्यः” इति शूद्रस्य आधाने श्रुतिर्नास्ति इत्यनग्निः शूद्रः असमर्थोऽग्निहोत्रादि निर्वत्तयितुम्। तस्मात् “अग्निहोत्रं जुहुयात् स्वर्गकामः” इत्येवमादिषु शूद्रस्य प्राषिका श्रुतिर्नास्ति। ब्राह्मणादीन् एवाधिकृत्य सा प्रवर्त्तते, ते हि समर्था अग्निमत्त्वात्, आहवनीयादयो न शृद्रस्य, अविधानात्, संस्कारशब्दत्वाच्च आहवनीयादीनाम्। तस्मात् अनधिकृतोऽग्निहोत्रादिषु शूद्रः इत्यात्रेयः मन्यते स्म” इति भा०। तथा कर्मप्रतिपादक सर्वशास्त्र विहितकर्मसु मनुष्याणामेवाधिकारः न तिरश्चां न वा देवादीनां यथोक्तं तत्रैव “फलार्थत्वात् कर्मणः शास्त्रं सर्वाधिकारं स्यात्” इत्याशङ्क्य “कर्त्तुर्वा श्रुतिसंयोगाद्विधिः कात्स्न्येर्न गम्यते” इति सू० “वाशब्दः पक्षं व्यावर्त्तयति। न चैतदस्ति तिर्यगादीनामपि अधिकारः इति। कस्य तर्हि?। यः समर्थः कृत्स्नं कर्म अभिनिर्वर्त्तयितुम्। न चैते, शक्नवन्ति तिर्यागादयः कृत्स्नं कर्म्माभिनिर्वर्त्तयितुम्, तस्मात् एषां न सुखस्याभ्युपायः कर्म, कथं यो न शक्यते कर्त्तुम्, सोऽभ्युपायः स्यात्? इति। न देवानां, देवतान्तराभावात् न हि आत्मानम् उदिश्य त्यागः सम्भवति, त्याग एवासौ न स्यात्, न ऋषीणाम्, आर्षेयाभावात् न भृग्वादयो भृग्वादिभिः सगोत्रा भवन्ति, न चैषां सामर्थ्यं प्रत्यक्षम्। “अपि च तिर्य्यञ्चो न कालान्तरफलेन अर्थिनः, आसन्नं हि कामयन्ते। “ननु च उक्तं, कालान्तरफलार्थिनः तिरश्चः पश्यामः, शुनः श्येनांश्चतुर्द्दश्याम् अष्टमम्यां च उपवसतःः” इति उच्यते न जन्मान्तरफलार्थिन उपवसन्ति। “कथं अवगम्यते? वेदाध्ययनाभावात्, ये वेदमधीयते ते एतद्विदुः, “इदं कर्म कृत्वा, इदं फलममुत्र प्राप्नोति इति” न चैते वेदमधीयते, नापि स्मृतिशास्त्राणि, नाप्यन्येभ्यः अवगच्छन्ति, तस्मात् न विदन्ति धर्मम्। अविद्वांसः कथम् अनुतिष्ठेयुः, तस्मात् न धर्म्माय उपवसन्ति इति। किमर्थश्च तर्ह्येषाम् उपवासः?। उच्यते, रोगात् अरुचिरेषाम्। कथं पुनर्नियते काले रोगो भवति?। उच्यते नियतकाला अपि रोगा भवन्ति यथा तृतीयकाश्चातुर्थकाश्चेति। तस्मात् मनुष्याणाम् अधिकारः इति। न च तिरश्चां द्रव्यपरिग्रहः, न हि एते द्रव्यं स्वेच्छया उपयुञ्जना दृश्यन्ते, तस्मात् अनीशाना धनस्य। यत्तु, देवग्रामो हस्तिग्रामः इति, उपचारमात्नं तत्। तस्मात् अपि न तिरश्चाम् अधिकारः इति। यानि पुनर्लिङ्गानि, “देवा वै सत्रमासत” इत्येवमादीनि, अर्थबादाः ते विधिप्ररोचनार्थाः। विद्यते हि विधिरन्यः तेषु सर्वेषु, न च विधेर्विषिनैक्यवाक्यभावो भवति, वचनव्यक्तिभेदात्। स्तुतिस्तु सा, इत्थं नाम सत्राणि आसितव्यानि, यत् कृतकृत्या अपि आसते देवाः, आसन्नचेतना अपि तिर्यञ्चः, अचेतना अपि वनस्पतयः, किमङ्ग पुनर्विद्वांसो मनुष्या” इति भा०। ब्रह्मविद्यायान्तु सर्वेषां देवादीनामधिकार इति “तदुपर्य्यपि वादरायणः सम्भवात्” इति शा० सूत्रेण व्यवस्थापितं, व्याख्यातञ्चैतत् शाङ्कराचार्य्येण यथा “वाढं मनुष्यानधिकारोतु शास्त्रं न तु मनुष्यानेवेतीह ब्रह्मविज्ञाने नियमोऽस्ति तेषां मनुष्याणामुपरिष्टात् ये देवादयस्तानप्यधिकरोति शास्त्रमिति वादरायण आचार्य्यो मन्यते कस्मात्? सम्भवात्। सम्भवति हि तेषामप्यर्थितत्वाद्यधिकारकारणम्। तत्रार्थित्वं तावत् मोक्षविषयं देवादीनामपि, सम्भवति विकारविषयविभूत्यनित्यतालोचनादिनिमित्तम्। तथा सामर्थ्यमपि तेषां सम्भवति मन्त्रार्थवादेतिहासपुराणलोकेभ्यो विग्रहवत्त्वाद्यवगमात्। नच तेषां कश्चित् प्रतिषेधोऽस्ति। नचोपनयनादिशास्त्रेणैषामधिकारो निवर्त्तितः उपनयनस्य वेदाध्ययनार्थ त्वात् तेषाञ्च स्वयंप्रतिभातवेदत्वात्। अपि चैषां विद्याग्रहणार्थं ब्रह्मचर्य्यादि दर्शयति “एकशतं ह वै वर्षाणि मघवान् प्रजापतौ ब्रह्मचर्य्यमुवास” “भृगुर्वै वारुणिर्वरुणं पितरमुपससाद अधीहि भगवो! ब्रह्मेत्यादि”। यदपि कर्मस्वनधिकारकारणमुक्तम्, न देवानां, देवतान्तराभावात्। न ऋषीणामार्षेयान्तराभावादिति। न तद्विद्याखस्ति न हीन्द्रादीनां विद्यास्वधिक्रियमाणानामिन्द्राद्युद्देशेन किञ्चित् कृत्यमस्ति न च भृग्वादीनां भृग्वादिसगोत्रतया। तस्माद्देवादीनामपि विद्यास्वधिकारः केन वार्य्येत? इति”। ततश्च विद्वत्त्व कर्मफलार्थित्व–तत्तत्कर्मकरणसमर्थत्वापर्य्युदस्तत्वानि अधिकारप्रयोजकानीति सिद्धम् तत्रापि विधानेन सर्वकर्मत्यागरूपे सन्न्यासे विप्रस्यैवाधिकार इति सर्ववादिसम्मतम् द्विजमात्राणामधिकार इति केषाञ्चिन्मतम्। अधिकमाकरे दृश्यम्। क्वचिच्चाधिकृतस्याधिकारः। यथा दर्शाद्यधिकृतस्य प्रयाजादिष्वधिकारः “प्रधानाधिकारो अङ्गाधिकारी भवतीति” न्यायात्। “ताम्बूलाधिकारो दत्त इति” हितो०। “हृताधिकारां मलिनामिति” स्मृतिः। कर्मणि घञ्। “कर्त्तव्ये “स्वाधिकारे प्रमत्त” इति मेघ०। प्रकरणे, व्याकरणशास्त्रे पूर्बसूत्रोपात्तपदादेरुत्तरत्र सूत्रेषु अनुवर्त्तने। “अधिकारोऽयम् आ पञ्चमाध्यायसमाप्तेरिति” सि० कौ०। तत्राधिकारश्च प्रत्ययादिकर्म्माद्यर्थमुत्तरोत्तरसूत्रेषु पूर्व्वसूत्रोपात्तशब्दस्यानुवर्त्तनम्। यथा “प्रत्ययः, परश्च” इति सूत्रोपात्तप्रत्ययपरशब्दयोः आ पञ्चमाध्यायसमाप्तेः सर्व्वत्र सूत्रेषु अनुवर्त्तनम्। स चाधिकारः त्रिविधः “सिंहावलोकितं चैव मण्डूकप्लुतमेव च। गङ्गाप्रवाहवच्चापि अधिकारस्त्रिधा मत” इत्युक्तभेदत्रयात्। तदुदाहरणन्तु व्याकरणेऽवगम्यम्। नियोज्यतया विषयीकरणे, “सर्व्वाधिकारं शास्त्रमिति” जै० सू०। तदभिप्रायेण “वाढं मनुष्यानधिकारोतु शास्त्र” मिति मनुष्याधिकार त्वाच्छास्त्रस्येति” च श० भा०। सर्वमधिकरोति कर्म्मण्युपपदे अण् एवमेव मनुष्याधिकारत्वादित्यत्रापि
अधिकारविधि = पु० अधिकारे फलस्वाम्ये विधिर्विधानम्। मीमांसकोक्ते विधिभेदे कर्मजन्यफलभोक्तृताज्ञापके विधौ यथा स्वर्गकामो यजेत इत्यनेन यागजन्यफलभोक्ता स्वर्गकामीति ज्ञाप्यते। तत्र नियोज्यप्रवर्त्तनाविधिः अधिकारः यथा “राजा राजसूयेन यजेतेति” तत्र राजसूये राज्ञ एव नियोज्यतया तत्र प्रवर्त्तनात्तस्य तथात्वम् स्वस्वकर्मणि नियोगे च।
अधिकारिता = स्त्री अधिकारिणो भावः तल्। विद्वत्त्वफलार्थित्वकर्म्मकरणशक्तिमत्त्वापर्य्युदस्तत्वप्रयोज्ये अधिकारे “भार्य्यापुत्रविहीनस्य–नास्ति यज्ञेऽधिकारितेति” स्मृतिः। भावार्थे त्व। अधिकारित्वम् अत्रैवार्थे न०।
अधिकारिन् = त्रि० अधिकरोति अधि + कृ–णिनि। स्वामिनि विहितकर्मफलभोक्तरि, शास्त्रेण कर्त्तव्यतींपदेशेन नियोजिते, कामनाविषयफल–तदुपायोपदेशेन प्रवर्त्तिते च स्त्रियां ङीप्। वेदान्तमतसिद्धे अनुबन्धचतुष्टयमध्ये अनुबन्धभेदे वेदान्तसारे वेदान्तशास्त्रालोचनहेतुभूतानुबन्धचतुष्टयनिरूपणाय “अधिकारी तु विधिवदधीतवेदवेदाङ्गत्वेनापाततोऽधिगताखिलवेदार्थः इह जन्मनि जन्मान्तरे वा काम्यनिषिद्धवर्ज्जनपुरस्मरं नित्यनैमित्तिकप्रायश्चित्तोपासनानुष्ठानेन निर्गतनिखिलकल्मषतया नितान्तनिर्म्मलस्वान्तः साधनचतुष्टयसम्पन्नः प्रमाते” त्युक्तम्। स चाधिकारी उत्तममध्यमाधमभेदेन त्रिविधः “अधिकारित्रैविध्यान्न नियम” इति “अधिकारिभेदान्न मियम” इति च सांख्यसूत्रभ्यां तथोक्तेः। तत्र उत्तमाधिकारिणः विधानेन विहितसर्वकर्मत्यागपूर्ब्बकं निराकारब्रह्मज्ञानेऽधिकारः मध्यमाधिकारिणः विहितवर्णाश्रमादि कर्म्मकरणपूर्ब्बकं सोपाधिब्रह्मोपासने, अधमस्य तु वर्णाश्रमविहितकर्म्मविधानपूर्ब्बकं साकारब्रह्मोपा- सने “ये मन्दास्ते तु सज्जन्ते ब्रह्मणोरूपकल्पने” इत्युक्तेः। अतएवोक्तम् “प्रशान्तचित्ताय जितेन्द्रियाय प्रक्षीणदोषाय यथोक्तकारिणे–प्रदेयमेतत् सततं मुमुक्षवे” इति। अत्र यथोक्तकारिणेइत्यनेन प्राक् ज्ञानोत्पत्तेः वर्णाश्रमविहितं कर्म्मानुष्ठेयमेवेत्युक्तं शा० सूत्रकृताऽपि “विहितत्वादाश्रम कर्म्मापि” इत्युक्तम् गीतायामपि “आरुरुक्षोर्मुनेर्योगः कर्म्म कारणमुच्यते। योगारूढस्य तस्यैव शमः कारणमुच्यते” इत्यनेन आरुरुक्षोः यथोक्तकर्म्माधिकारः उक्तः “कषाये कर्म्मभिः पक्वे ततोज्ञानं प्रजायते” इत्यनेन कषायशब्दवाच्यचित्तदोषक्षयार्थं कर्म्मावश्यकतेत्युक्तम्। “द्वे ब्रह्मणी वेदितव्ये परञ्चापरमेव चेति” श्रुतावप्यधिकारिभेदात् निराकरसोपाधिकयोः द्वयोर्व्रह्मणोर्वेद्यतोक्ता। गीतायामपि “लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ! ज्ञानयोगेन सांङ्ख्यानां, कर्म्मयोगेन योगिनामिति” अधिकारिभेदात् ज्ञानकर्म्मणोरधिकार इत्युक्तम्। “सम्यक् संसाधनं कर्म्म कर्त्तव्यमधिकारिणा। निष्कामेण सदा पार्थ! काम्यं कामान्वितेन चेति” भवि० पु०। “अधिकारिणाऽर्थिना विदुषा समर्थेनेति” रघु० तेन विद्वत्त्वं तत्तत्कर्मजन्यफलार्थित्वम् तत्तत्कर्म्मकरणयोग्यत्वम् अपर्य्युदस्तत्वञ्च अधिकारिताप्रयोजकम्। तत्र फलार्थित्वञ्च सति कामे एव, मुमुक्षुत्वे तु न फलार्थित्वावश्यकतेति भेदः। मार्कण्डेयपुराणे रुचिवाक्येन “पितॄन्नमस्ये दिवि ये च मूर्त्ताः स्वधाभुजः काम्यफलाभिसन्धौ। प्रदानशक्ताः सकलेप्सितानां विमुक्तिदा येऽनभिसंहितेष्विति” अनेन फलार्थिनं प्रति तत्तत्फलदातृत्वं, तदनर्थिनं मुमुक्षुं प्रति मुक्तिदातृत्वमिति स्पष्टमुक्तम् एवं देवतानामप्यधिकारिभेदेन फलदातृत्वम्। अनभिसंहितेसु अनुद्दिष्टेषु फलेष्वित्यर्थः। अधिकारोऽस्त्यस्य इनि। स्वामित्ववति “सर्वे स्युरधिकारिण” इति स्मृतिः स्त्रियां ङीप्। “कृतात्र देवी वचनाधिकारिणीति नैष०।
अधिकार्थवचन = न० अधिकार्थस्य स्तुतिनिन्दाभ्यामारोपितस्य वस्तुधर्म्मादतिंरिक्तस्य गुणस्य वचनम्। स्तुत्यर्थवादे, निन्दार्थवादे च। यथा वातच्छेद्यं तृणमित्यत्र दुर्बलत्वेन निन्दा, काकपेया नदीत्यत्र च पूर्णजलत्वेन स्तुतिः गम्यते “कृत्यैरधिकार्थवचने” इति पा०।
अधिकाम = पु० अधिकः कामः। अत्यन्ताभिलाषे। ब०। तद्वति त्रि०। कामे विभक्त्यर्थे अव्य०। काममधिकृत्येत्यर्थे अव्य०।
अधिकृच्छ्र = पु० अधिकं कृच्छ्रं कष्टं साधनतयाऽस्त्यस्य अच्। “विल्वैरामलकैर्वापि कपित्थैरथवा शुभैः। मासेन लोकेऽधिकृच्छ्रः कथ्यते द्विजसत्तमैः” इति (शङ्खस०) उक्ते माससाध्ये व्रतभेदे। प्रा० स०। अधिककष्टे न०। तद्वति त्रि०।
अधिकृत = पु० अधि + कृ–क्त। आयव्यायाद्यवेक्षके, अध्यक्षे कर्म्मजन्यफलसम्बन्धिनि नियुक्ते, स्वामित्ववति च त्रि०। “महीपतीनां पृथगर्हणार्थं समादिदेशाधिकृतानधिश्रीरिति” रघुः।
अधिकृति = स्त्री अधि + कृ–क्तिन्। अधिकारे।
अधिक्रम = पु० अधि + क्रम–भावे घञ् अमन्तत्वान्न वृद्धिः। आरोहणे।
अधिक्षित् = त्रि० अधि + भावे कर्त्तरि वा क्विप्–तुक् च। परिक्षये, तत्कारिणि च। “विशामासामभयानामधिक्षितम् ऋ० १०, ९२, २४।
अधिक्षिप्त = त्रि० अधि + क्षिप–क्त। स्थापिते, निन्दिते, कृताधिक्षेपे, प्रेरिते, तिरस्कृते च।
अधिक्षेप = पु० अधि + क्षिप–भावे घञ्। तिरस्कारे, स्थापने, प्रेरणे च।
अधिगत = त्रि० अधि + गम कर्म्मणि–क्त। प्राप्ते, ज्ञाते च। “अधिगतं विधिवत् यदपालयदिति” रघुः “अधिगतसकलकलाकलापकमिति” काद०। अधिगताखिलवेदार्थ” इति वे० सा०।
अधिगम = पु० अधि + गम–घञ्। ज्ञाने, प्राप्तौ, स्वीकारे च। “अध्यात्मयोगाधिगमेनेति” गीता। निध्यादेः प्राप्तौ च। “स्वामी ऋक्थक्रयसंविभागपरिग्रहाधिगमेष्विति” गौत०। “अधिगमो निध्यादेः प्राप्तिरिति” मिता०।
अधिगव = अव्य० गवि विभक्त्यर्थे अव्ययो० वेदे अच् समा०। गवीत्यर्थे “स्वादीयो यदधिगवं क्षीरमिति” वेदः।
अधिगुण = पु० अधिको गुणः प्रा० स०। अतिशथितविनयोदगुणे। ब०। तद्वति त्रि०। “याच्ञा मोघा वरमधिगुणे नाधमे लब्धकामा” इति नीति०। गुणे–विभक्त्यर्थे अव्ययी०। गुणमधिकृत्येत्यर्थे अव्य०। अधिगतो गुणो येन। ज्याधिरूढे धनुषि न०।
अधिजिह्व = पु० अधिका जिह्वा यस्य। द्विजिह्वे सर्पे तस्य द्विजिह्वत्वञ्च अमृतास्वादाशया कुशविलेहनात्। यथोक्तं भा० आ० प०। “यत्रैतदमृतञ्चापि स्थापितं कुशमंस्तरे। तद्विज्ञाय हृतं सर्पाः प्रतिमायाकृतञ्च तत्। सोमस्थानमिदञ्चेति दर्भांस्ते लिलिहुस्तदा। ततो द्विधा कृता जिह्वा सर्पाणां तेन कर्म्मणा। अमवंश्चामृतस्पर्शाद्दर्भास्तेऽथ पवित्रिणः। एवं तदमृतं तेन हृतमाहृतमेव च। द्विजिह्वाश्च कृताः सर्पा गरुडेन सहात्मना” इति।
अधिजिह्विका = स्त्री जिह्वेव इवार्थे कन् अधिरूढा जिह्विका वा। (आल्जिभ) उपजिह्वायाम्।
अधिज्य = न० अध्यारूढा ज्या यत्र प्रा० ब०, अधिगतं ज्यां वा अत्या० स०। आरोपितगुणके धनुषि “त्वयि चाधिज्यकार्मुके” इति शकु०।
अधिज्योतिष = अव्य० ज्योतिषि विभक्त्यर्थे अव्ययी० अच् समा०। सूर्य्यतारकादिज्योतींष्यधिकृत्येर्थे।
अधित्यका = स्त्री अधि + त्यकन्। पर्वतस्योपरिभूमौ। “आरूढं स्थलमधित्यकेति” सि० कौ०। “स्थाणुं तपस्यन्तमधित्यकायामिति” कुमा०। “अधित्यकायामिव धातुमय्यामिति” रघुः।
अधिदन्त = पु० अध्यारूढो दन्तम् अत्या० स०। दन्तोपरि जातदन्ते (गज~दात)। प्रा० ब०। तद्वति त्रि०। दन्ते विभक्त्यर्थे अव्ययी०। दन्तमधिकृत्येत्यर्थे अव्य०।
अधिदेव = पु० अधिकृतोदेवः येन गुणातिशयात् प्रा० ब०। सर्वदेवाधिपे परमेश्वरे। देवे विभक्त्यर्थे अव्ययी०। देवमधिकृत्येत्यर्थे अव्य०। अधिदेवं भवः ठञ्। अनुशतिका० द्विपदवृद्धिः। आधिदैविकं देवेभ्यो जाते दुःखादौ त्रि०।
अधिदेवता = स्त्री अधिष्ठात्री देवता शा० त०। अधिष्ठात्र्यां देवतायाम्। देवतानाम् अधिष्ठातृत्वञ्च सन्निधानमात्रेण तत्तत्पदार्थानां तत्तत्कर्म्मसु नियन्तृत्वरूपम्। तच्च साक्षात् परमेश्वरस्यैव यथोक्तम् वृ० उ० अन्तर्यामि ब्राह्मणे। “यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो, यं पृथिवी न वेद, यस्य पृथिवी शरीरं, यः पृथिवीमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः।। योऽप्सु तिष्ठन्नद्भ्योऽन्तरो, यमापो न विदुर्यस्यापः शरीरं, योऽपोऽन्तरो यमयत्येष त आत्मान्तर्य्याम्यमृतः। योऽग्नौ तिष्ठन्नग्नेरन्तरो यमग्निर्न वेद, यस्याग्निः शरीरं, योऽग्निमन्तरो यमयत्येप त आत्मान्तर्य्याम्यमृतः। योऽन्तरिक्षे तिष्ठन्नन्तरिक्षादन्तरो, यमन्तरिक्षं न वेद यस्यान्तरिक्षं शरीरं योऽन्तरिक्षमन्तरो यमयत्येष त आत्मान्तर्य्याम्यमृतः। यो वायौ तिष्ठन्वायोरन्तरो, यं वायुर्न वेद, यस्य वायुः शरीरं, यो वायुमन्तरो यमयत्येष त आत्मान्तर्य्याम्यमृतः। यो दिवि तिष्ठन्दिवोऽन्तरो, यं द्यौर्न वेद, यस्य द्यौः शरीरं, यो दिवमन्तरो यमयत्येष त आत्मान्तर्य्याम्यमृतः। य आदित्ये तिष्ठन्नादित्यादन्तरो, यमादित्यो न वेद, यस्यादित्यः शरीरं, य आदित्यमन्तरो, यमयत्येष त आत्मान्तर्य्याम्यमृतः। यो दिक्षु तिष्ठन्दिग्भ्योऽन्तरो यं दिशो न विदुर्यस्य दिशः शरीरं, यो दिशोऽन्तरो यमयत्येष त आत्मान्तर्य्याम्यमृतः। यश्चन्द्रतारके तिष्ठंश्चन्द्रतारकादन्तरो, यञ्चन्द्रतारकं न वेद, यस्य चन्द्रतारकं शरीरं, यश्चन्द्रतारकमन्तरो यमयत्येष त आत्मान्तर्य्याम्यमृतः। य आकाशे तिष्ठन्नाकाशादन्तरो, यमाकाशो न वेद, यस्याकाशः शरीरं, य आकाशमन्तरो यमयत्येष त आत्मान्तर्य्याम्यमृतः। यस्तमसि तिष्ठंस्तमसोऽन्तरो, यं तमो न वेद, यस्य तमःशरीरं, यस्तमोऽन्तरो यमयत्येष त आत्मान्तर्य्याम्यमृतः। यस्तेजसि तिष्ठंस्तेजसोऽन्तरो, यं तेजो न वेद, यस्य तेजः शरीरं, यस्तेजोऽन्तरो यमयत्येष त आत्मान्तर्य्याम्यमृत इत्यधिदैवतम्। अथाधिभूतम् यः सर्व्वेषु भूतेषु तिष्ठन्सर्व्वेभ्यो भूतेभ्योऽन्तरो, यं सर्व्वाणि भूतानि न विदुर्यस्य सर्व्वाणि भूतानि शरीरं, यः सर्व्वाणि भूतान्यन्तरो यमयत्येष त आत्मान्तर्य्याम्यमृत इत्यधिभूतम्। अथाध्यात्मम् यः प्राणे तिष्ठन्प्राणादन्तरो, यं, प्राणो न वेद, यस्य प्राणः शरीरं, यः प्राणमन्तरो यमयत्येष त आत्मन्तर्य्याम्यमृतः। यो वाचि तिष्ठन्वाचोऽन्तरो, यं वाङ्न वेद, यस्य वाक् शरीरं, यो वाचमन्तरो यमयत्येष त आत्मान्तर्य्याम्यमृतः। यश्चक्षुषि तिष्ठंश्चक्षुषोऽन्तरो, यं चक्षुर्न वेद, यस्य चक्षुःशरीरं, यश्चक्षुरन्तरो यमयत्येष त आत्मान्तर्य्याम्यमृतः। यः श्रोत्रे तिष्ठञ्छोत्रादन्तरो, यं श्रोत्रं न वेद, यस्य श्रोत्रं शरीरं, यःश्रोत्रमन्तरो यमयत्येष त आत्मान्तर्य्याम्यमृतः। यो मनसि तिष्ठन्मनसोऽन्तरो, यं मनो न वेद, यस्य मनः शरीर यो मनोऽन्तरो यमयत्येष त आत्मान्तर्य्याम्यमृतः। यस्त्वचि तिष्ठंस्त्वचोऽन्तरो, यं त्वङ्न वेद, यस्य त्वक् शरीरं, यस्त्वचमन्तरो यमयत्येष त आत्मान्तर्य्याम्यमृतः। यो विज्ञाने तिष्ठन्विज्ञानादन्तरो, यं विज्ञानं न वेद, यस्य विज्ञानं शरीरं, यो विज्ञानमन्तरो यमयत्येष त आत्मान्तर्य्याम्यमृतः। यो रेतसि निष्ठन्रेतसोऽन्तरो, यं रेतो न वेद, यस्य रेतः शरीरं, यो रेतोऽन्तरो यमयत्येष त आत्मान्तर्य्याम्यमृतोऽदृष्टो द्रष्टा,ऽश्रुतः श्रोता,ऽमतो मन्ता,ऽविज्ञातो विज्ञाता, नान्योऽतोऽस्ति द्रष्टा, नान्यतोऽस्ति श्रोता, नान्यतोऽस्ति मन्ता, नान्यतोऽस्ति विज्ञातैष त आत्मान्तर्य्याम्यमृतोऽतोऽन्यदार्त्तम्” इति। तस्यैवांशंविशेषेणाविर्भूतानां दिगाद्यभिमानिदेवानामिन्द्रियाधिष्ठातृत्वं यथा “वैकारिकादहङ्काराद्देवा वैकारिका दश। दिग्वातार्कप्रचेतोऽश्विवह्नीन्द्रोपेन्द्रमित्रका” इति शार०। “शक्तिसामर्थ्याद्विकृतपरमेश्वरादुत्पन्नत्वेनाऽहङ्कारस्य तदु- त्पन्नदेवानाञ्च वैकारिकत्वमिति” राघवभट्टेन व्याख्यातम्। “वैकारिका दिगाद्याश्च चन्द्रेणैकादश स्मृताः। इन्द्रियाणामधिष्ठातृदेवास्ते परिकीर्त्तिता” इति तद्धृताभियुक्तोक्तिः। तथा च श्रोत्रस्य दिक्, त्वचो वातः, नेत्रस्य अर्कः, रसनायाः वरुणः, घ्राणस्य अश्विनौ, वागिन्द्रियस्य वह्निः, हस्तस्य इन्द्रः, पादस्य उपेन्द्रः, पायोः मित्रः, उपस्थस्य (कः) प्रजापतिः, मनसः चन्द्रः, इत्येते एकादशेन्द्रियाणामधिष्ठातृदेवाः। “ईश्वरं भास्करे विद्यादुमां विद्यान्निशाकरे। स्कन्दमङ्गारके विद्याद्बुधे नारायणं विदुः। गुरौ वेदनिघिं विद्यात् शुक्रे शक्रो विधीयते। शनैश्चरे यमं विद्याद्राहोः कालं तथैव च। चित्रगुप्तोऽधिपः केतोरित्येते ग्रहदेवताः” इति (मत्स्यपुरा०) उक्ता ग्रहाणमधिदेवाः। एतेषां पुनरधिष्ठातृदेवाश्च प्रत्यधिदेवतात्वेन व्यवह्रियन्ते ते च प्रत्यधिदेवताशब्दे दर्शयिष्यन्ते। अधिदेवताप्यत्रैव। “आदित्याभिमुखाः सर्वे साधिप्रत्यधिदेवता” इति मत्स्यपु०। “शशाङ्कमूर्त्तेरधिदेवताकृतिरिति” भट्टिः। चन्द्राधिदेवता उमा।
अधिदैवत = न० अधिष्ठातृ दैवतम् प्रा० स०। अधिदेवताशब्दार्थे “शिवाधिदैवतं ध्यायेत् वह्निप्रत्यधिदैवतमिति” “विचिन्त्यो माधिदैवत” मिति च विष्णुध० पु०। दैवते विभक्त्यर्थे अव्ययीभावः। दैवतमधिकृत्येत्यर्थे अव्य०। “अथाधिदैवतम् आदित्यो वा” इति छन्दो० उ० “इत्यधिदैवतमिति वृ० उ०”। अधिदैवमप्यत्र अव्य०। “अधिदैवं किमुच्यते इति” गीता।
अधिनाथ = पु० अधिको नाथः प्रा० स०। अधीश्वरे। “तत्राधिनाथमधिकृत्य दिवस्तथासाविति” नैष०।
अधिनाय = पु० अधिनीयते वायुना गन्धाधारसूक्ष्मांशनयनद्वारा तत्तत्स्थानं ह्रियतेऽसौ अघि + नी–घञ्। गन्धे।
अधिप = पु० अधिपाति अधि + पा–क। प्रभौ ईश्वरे। “अथ प्रजानामधिपः प्रभाते” इति रघुः। “श्रियः कुरूणामधिपस्येति” भार०।
अधिपति = पु० अधिकः पतिः, अधि + पा–डति वा। ईश्वरे स्वामिनि “स वा एष सर्वेषां भूतानामधिपतिरिति” श्रुतिः। “सर्व्वस्याधिपतिर्हि स” इति मनुः। “ततो भुजङ्गाधिपतेः फणाग्रैरिति” कुमा०। पत्यन्तत्वात् भावादौ यक् आधिपत्यम्। अत्यन्तैश्वर्य्ये न०। “शैलाथिपत्यं स्वयमन्वतिष्ठदिति” कुमा०। सपूर्ब्बपदकत्वात् स्त्रियां ङीष् नश्चान्तादेशः। “विष्टम्भिनीं दिशामधिप- त्नीमिति यजु० १४, ५, अधिपत्नीं स्वामिनीमिति” दीपः।
अधिपा = त्रि० अधिपाति अधि + पा क्विप् अधिपतौ, अधिपालके च “स्वर्यदश्मन्नधिपा उ अन्धोऽभि” ऋ० ७, ८८, २।
अधिपु(पू)रुष = पु० अधिकः उत्तमः पु(पू)रुषः प्रा० स०। परंमेश्वरे। पु(पू)रुषे विभ० अव्ययी०। पु(पू)रुषमधिकृत्येत्यर्थे अव्य०।
अधिप्रज = त्रि० अधिका प्रजा यस्य। बहुप्रजायुक्ते। प्रा० स०। बहुप्रजायां स्त्री।
अधिभू = पु० अभिभवति स्वामीभवति स्वाम्यर्थेऽत्राधिः अधि + भू–क्विप्। प्रभौ।
अधिभूत = अव्य० भूतेषु विभ० अव्ययी०। भूतान्यधिकृत्येत्यर्थे “अधिभूतं किमुच्यत” इत्यर्जुनप्रश्ने “अधिभूतं क्षरोभाव” इति भगवदुत्तरम् इति गीता। “भूतं प्राणिमात्रमधिकृत्य भवतीत्यधिभूतमुच्यते” इति श्रीधरः। अधिभूतं भवः अनुशतिका० द्विपदवृद्धिः आधिभौतिकम्। भूतान्यधिकृत्य जाते दुःखादौ त्रि०।
अधिभोजन = न० अधिकमत्यन्तं भोजनम् प्रा० स०। अत्यन्तभोजने। भोजनं निरुक्ते धननामसु पठितम् अधिकं धनं मूल्यं यस्य। अतिमूल्यलभ्ये वस्तुनि त्रि०। “दश वस्राधिभोजना इति ऋ० ६, ४७, २३ अधिभोजना अधिकं धनं मूल्यं येषां तादृशानि दश वस्त्राणीति भाष्यम्।
अधिमन्थ = पु० अधिकं मथ्यतेऽनेन अधि + मन्थ–करणे घञ्। “उत्पाट्यत इवात्यर्थं नेत्रं निर्मथ्यते तथा। शिरसोऽर्द्धं तु तं विद्यादधिमन्थं स्वलक्षणैः” इत्युक्ते अरणिकाष्ठमन्थनावयवभेदे।
अधिमांस = न० अधिकं मांसमत्र। “विस्तीर्णं मृदु बहुलं यकृत्प्रकारं श्यावं वा तदधिमांसजार्म विद्यादिति” वैद्यकोक्ते रोगभेदे।
अधिमांसक = पु० अधिको मांसो यत्र ब० कप्। “हनूस्थे पश्चिमे दन्ते महाशोथो महारुजः। कालास्नायी कफकृतो विज्ञेयः सोऽधिमांसक” इति वैद्यकोक्ते दन्तरोगविशेषे।
अधिमात्र = त्रि० अधिका मात्रा यस्य, अधिकं प्रमाणमस्य मात्रच् वा। अधिकप्रमाणे।
अधिमास = पु० अधिको रविमासादतिरिक्तः शुक्लप्रतिपदादिदर्शान्तश्चान्द्रो मासः प्रा० स०। मलमासे “असंक्रान्तमासोऽधिमासो निरुक्त” इतिस्मृत्युक्तो रविसंक्रान्तिवर्जितो मासोऽघिमासः। तथा हि “मीनादिस्थो रविर्य्येषामारम्भः प्रथमे क्षणे। ते चैत्राद्या” इत्युक्तदिशा मीनस्थे रवौ यस्य चान्द्रमासस्यारम्भः स चैत्रः एवं मेषस्थरवारब्धो वैशाख इव्येवं स्थिते यस्मिन् चान्द्रमासे रवेः राश्यन्तरसंक्रमो न जातः, तस्य तदुत्तरस्य च चान्द्रमासस्य उभयोर्मेषस्थे रवौ स्वारम्भात् उभयोरपि वैशाखता, तत्राद्योऽधिमासः संक्रान्तिहीनत्वात् द्वितीयः शुद्धः इति स्मृतौ प्रसिद्धम्। यथा मलमासतत्त्वे लघुहारीतः।। “इन्द्राग्नी यत्र हूयते” इत्युक्त्वा “तमतिक्रम्य तु रविर्यदा गच्छेत् कथञ्चन। आद्योमलिम्लुचोज्ञेयोद्वितीयः प्रकृतः स्मृतः। तस्मिंस्तु प्रकृते मासिकुर्य्यात् श्राद्धं यथाविधि। तथैवाभ्युदयं कार्य्यं नित्यमेकं तु मर्वदा”। “यदा तं दर्शान्तमासमतिक्रम्य तत्पूब्बमासान्त्यक्षणवृत्तिराशिस्थः सन् सूर्य्योऽतिवाह्य गच्छेत् मासान्तरे राश्यन्तरसंयोगं गच्छेत्तदाद्योऽतिक्रान्तोमासोमलिम्लुचोज्ञेयः”। ज्योतिषे। “अमावास्याद्वयं यत्र रविसंक्रान्तिवर्जितम् मलमासः स विंज्ञेयोविष्णुः स्वपिति कर्कटे”। “अमावास्याद्वयं अमावास्यान्त्यक्षणद्वयं रविसंक्रान्तिभ्यां क्रियोत्पत्तिरूपोत्तरसंयोगरूपाभ्यां यथाक्रमं वर्जितं तेन दर्शान्त्यक्षणद्वययोरेव क्रियोत्पत्त्युत्तरसंयोगाभ्यां यथाक्रमं संयोगेनाधिमासः। संक्रान्तेरेकक्षणे क्रियोत्पत्तिरपरक्षणे पूर्ब्बसंयोगनाशः उत्तरसंयोगोत्पत्तिश्चेति क्षणद्वयवृत्तित्वमिति मीमांसकसिद्धान्तात्”। गृह्यपरिशिष्टज्योतिःपराशरौ। “रविणा लङ्घितोमासश्चान्द्रः ख्यातोमलि{??}चः। तत्र यद्विहितं कर्म्म उत्तरे मासि कारयेत्” पराशरः। “पक्षद्वयेऽपि संक्रान्तिर्यदि न स्यात् सितासिते। तदा तन्मासविहितमुत्तरे मासि कारयेत्”। अत्र लङ्घनमसंक्रमणञ्च रवेस्तदा भवति यदा तन्मास तत्पूर्ब्बमासान्त्यक्षणयोरेकराश्यवस्थितस्य तन्मासानन्तरसंयोगः, न त्वेकराशिस्थितस्य मासव्यापनमात्रं तथात्वे चतुर्द्दश्यामेकराशौ संक्रान्तस्य प्रतिपत्प्रथमक्षणेऽपरराशौ, तत्परराशौ च द्वितीयायां प्रतिपदि वा रवेः संयोगेऽपरस्यापि मलमासता स्यात्”। अतएव ज्योतिषे “अमावास्यापरिच्छिन्नं रविसंक्रान्तिवर्ज्जितम्। मलमासं विजानीयाद्गर्हितं सर्वकर्म्मसु। तस्यार्कोदर्शकश्चैकराशौ दर्शद्वयातिगः”। “अत्रैकराशिस्थार्कस्य दर्शद्वयातिगत्वमुक्तम्। एतच्च पूर्ब्बोपदशितयोर्मासयोः पूर्ब्बस्यैव सम्मवति न परस्य”। मलमासकारणन्तु ज्योतिषे। “दिवसस्य हरत्यर्कः षष्टिभागमृतौ सदा। करोत्येकमहश्छेदं तथैवैकञ्च चन्द्रमाः। एवमर्द्धतृतीयानामब्दानामधिमासकम्। ग्रीष्मे जनयतः पूर्ब्बं पञ्चाब्दान्ते तु पश्चिमम”। “तेन दिवसस्य तिथेः षष्टिभागं दण्डमेकं रविर्हरति छेदयति उत्तरे छेदमित्यभिधानात्। ततश्च ऋतौ मासद्वये षष्टिनाडीच्छेदादह्नस्तिथेश्छेदमाकर्घणं करोति। एवं चन्द्रोऽपि। एवमित्युक्तक्रमेण वर्षे द्वादश तिथ्यात्मककालाकर्षादर्द्धतृतीयानामन्ते अर्द्धं तृतीयं येषां ते तथा। ग्रीष्मे माधवादिषु षट्केषु पूर्ब्बं माधवादित्रिकपतितं, पञ्चाब्दान्ते तु पश्चिमं श्रावणादित्रिकपतितं मलमासञ्चन्द्रार्कौ जनयतः”। मिहिरः। “माधवादिषु षट्केषु मासि दर्शद्वयं यदा। द्विराषाढः स विज्ञेयः शेते तु श्रावणेऽच्युतः। “मिथुनोपगतो भानुरमावास्याद्वयं स्पृशेत्। द्विराषाढः स विज्ञेयोविष्णुः स्वपिति कर्कटे”। “अमावास्याद्वयं तदन्त्यक्षणद्वयं स्पृशेत् संयुज्यात् न तन्मध्ये राश्यन्तरसंयोग इत्यर्थः”। “कन्यासिंहकुलीरेषु यदा दर्शद्वयं भवेत्। आगामिनि तदा वर्षे कुलीरे माधवः स्वपेत्”। यद्यपि “यां तिथिं समनुप्राप्य तुलां गच्छति भास्करः। तयैव सर्वसंक्रान्तिर्यावन्मेषं न गच्छति” इति “राजमार्त्तण्डवचनात्तुलादिषण्मासे तिथिवृद्ध्यभावाद्वर्षे द्वादशवृद्धिरनुपपन्ना तथापि “मध्ये विषुवतोर्भानुर्यान्यहानि तु वर्द्धयेत्। तैः सम्भूयाधिकोमासः पतत्येव त्रयोदशः” इति “गृह्यपरिशिष्टवाक्ये विषुवतोर्मेषतुलासंक्रान्त्योर्मध्ये मेषादिषण्मास एव तिथिवृद्धिरुक्ता अहर्गणने मेषादिषण्मासे मन्दभुक्त्या सप्तदिनवृद्धिस्तुलादौ शीघ्रभुक्त्या दिनद्वयह्रासः” इति तथा च ज्योतिःशास्त्रम् “मेषादीनामहर्वृन्दं षण्णां सप्ताष्टचन्द्रकम् (१८७)। तुलादीनामष्टसप्तचन्द्रकन्तु (१७८) लिखेत् पृथक्”। “चन्द्र एकः “अङ्कस्य वामा गतिः” इत्यङ्कविदां समयात् व्युत्क्रमेणाङ्का बोध्याः। तेन दिनवृद्धि ५ क्रमसञ्चयाभ्यां ६ मेषादिषट्के एव एकादशतिथिवृद्धिः”। एवञ्च “गतेऽब्दद्वितये सार्द्धे पञ्चपक्षे दिनद्वये। दिवसस्याष्टमे भागे पतत्येकोऽधिमासकः”। इति “राजमार्त्तण्डोक्तः सप्तदशदिनाधिकाष्टमासाधिकवर्षद्वयेऽधिमासः। स च सौरे मासि सप्तदशदिनोत्तरं चान्द्रमासलङ्घनासम्भवात् सावनमानेन ज्ञेयः इति”। सिद्धान्तशिरोमणौ तु ४३२००००००० कल्पप्रमाणवर्षेषु १५९३३००००० एतन्मिता अधिमासाभवन्तीत्युक्तम् यथा “लक्षाहता देवनवेषुचन्द्राः कल्पेऽधिमासाः कथिताः सुधीभिरिति”। “अत्रोपपत्तिः प्रकृतास्तावद्रविमासास्तेभ्यश्चान्द्रमासा यावद्भिरधिकास्तावन्तोऽधिमासा” इति। तदेवाह। “रवेः कोटिनिघ्नाः कृताऽष्टेन्दुवाणाः” ५१८४००००००० “सुराग्न्यब्धिरामेषवो लक्षनिघ्नाः ५३४३३३०००००। शाशाङ्कस्य मासाः पृथक् सूर्य्यमासैर्विहीनास्तु कल्पेऽथवा तेऽधिमासाः इति”।। इष्टवर्षेअधिमासानयनं तत्रैवोक्तं यथा “कथितकल्पगतार्कसमागणो रविगुणो गतमाससमन्वितः। खदहनै (३०) र्गुणितस्तिथिसंयुतः पृथगतोऽधिकमाससमाहतात् (१५९३३०००००)।। रविदिना (१५५५२००००००००) प्तगताधिकमासकैः कृतदिनैः सहितो द्युगणो विधोः” इति। अत्र वासना कल्पगताब्दा द्वादशगुणिता रविमासा जातास्ते चैत्रादिगतचान्द्रतुल्यैः सौरैरेव युतास्त्रिंशद्गुणा इष्टमासप्रतिपदादिगततिथितुल्यैः सौरैरेव दिनैर्युताः एवन्ते सौरा जातास्तेभ्यः पृथक् स्थितेभ्योऽधिमासानयनं त्रैराशिकेन, यदि कल्पसौरदिनैः कल्पाधिमासा लभ्यन्ते तदैभिः किमिति फलम् गताधिमासाः। तै र्दिनीकृतैः पृथक् स्थितः सौराहर्गणसहितश्चान्द्रो भवति यतः सौरचान्द्रान्तरमधिमासदिनान्येव” इति। सूर्य्यसिद्धान्तेऽप्युक्तम्। “भवन्ति शशिनो मासाः सूर्य्येन्दु भगणान्तरम्। रविमासोनितास्ते तु शेषाः स्युरधिमासकाः” इति।। सूर्य्यचन्द्रभगणयोरन्तरं चन्द्रस्य मासः भवन्ति ते चान्द्रमासा रविमासो निताः सन्तः शेषा अवशिष्टा ये चान्द्रमासास्तेऽधिकमासा एव भवन्ति नान्ये। अनेन चान्द्रत्वमघिमासानां स्पष्टीकृतम्। अत्रोपपत्तिः। त्रिंशत्तिथ्यात्मकस्य रवीन्दुयुतिकालरूपदर्शान्तावधेश्चाग्द्रस्य, द्वादशराशिमितेन सूर्य्येन्द्वन्तरेणैव सिद्धिः कथमन्यथा दर्शान्ते जातस्य मन्दशीघ्रयोः सूर्य्येन्द्वोर्योगस्य पुनर्दर्शान्ते सम्भवः। द्वादशराश्यन्तरं त्वेकं भगणान्तरमतो भगणान्तरेण चान्द्रो मासः सिद्धः। सौरमासापेक्षया यदन्तरेण चान्द्रमासानामधिकत्वं त एवाधिमासा इति।
अधियज्ञः = पु० अधिकृतोयज्ञो यस्मात् प्रा० ब०। परमेश्वरे। “अधियज्ञः कथं? कोऽत्रे” त्यर्जुन प्रश्ने। “अधियज्ञोऽहमे वात्र देहे देहभृतां वर!” इति भगवदुत्तरम् गीतायाम्। “अत्रास्मिन् देहेऽन्तर्यामित्वे न स्थितोऽहमधियज्ञः यज्ञादिकर्म्मप्रवर्त्तकस्तत्फलदाता चेति” श्रीधरः। यथा च तस्य सर्व्वान्तर्यामित्वं तथा अधिदेवताशब्देऽन्तर्यामिब्राह्मणे पुरस्ताद्दर्शितम्। यज्ञे विभ० अव्ययी०। यज्ञमधिकृत्येत्यर्थे अव्य०। अधियज्ञं ब्रह्म जपेदिति मनुः, यागे विभ० अव्ययी०। अधियागमप्युक्तार्थे अव्य०। अधिकः अधिकाङ्गयागः प्रा० स०। अधिकाङ्गे यागे पु०।
अधियोग = पु० अधिकोयोगः प्रा० स०। ज्योतिषप्रसिद्ध यात्रिकशुभयोगे। स च गमनसमयलग्ने–तस्माद्वा चतुर्थे, पञ्चमे, सप्तमे, नवमे, दशमे, वा अत्यतमस्याने बुधजीव- भार्गवाणां मध्ये द्वयोः स्थितौ सत्यां भवति। “योगे क्षेममथाधियोगमने क्षेमं विपूणां बध इति” मुहू०।
अधियोध = पु० आधिक्येन युध्यति अधि + युध–अच्। अतियोद्धरि। विभ० अव्ययी०। योधे इत्यर्थे अव्य०।
अधिरथ = अध्यारूढः रथं रथिनम् अत्या० स०। अतिरथे। कर्णपितरि पु०। “विवेशाधिरथोरङ्गं यष्टिप्राणो ह्वयन्निवेति” भा० आदि०। तस्यापत्यम् इञ्। आधिरथिः कर्णे पु०। कर्णपर्वणि भूरिप्रयोगोऽस्य।
अधिराज् = पु० अधिराजते अधि + राज–क्किप्। साम्राज्यवति, नृपे, सम्पन्ननृपे च “प्रायोपविष्टो गङ्गायामनादृत्याधिराट् श्रियमिति” भाग०। अधिकशोभान्विते त्रि०।
अधिराज = पु० अधिको राजा टच् समा०। अधीश्वरे साम्रा ज्यवति, नृपे च। “शैलाधिराजतनया न ययौ न तस्थाविति” “हिमालयोनाम नगाधिराज” इति च कुमा०।
अधिराज्य = न० अधिकं राज्यं प्रा० स०। साम्राज्ये। “अत्यन्यान् पृथिवीपालान् पृथिव्यामधिराज्यभागिति”।
अधिराष्ट्र = न० अधिकृतं राष्ट्रमत्र प्रा० ब०। राज्ये। विभ० अव्ययी०। राष्ट्रमधिकृत्येत्यर्थे अव्य०।
अधिरुक्म = त्रि० अधिगतं रुक्ममाभरणं येन प्रा० ब०। अधि गतसुवर्णाभरणे मानवे। अधिरुक्मा विनीयते” इति ऋ० ८, ४६, ३३, अधिरुक्मा अधिकरुक्माभरणेति” भाष्यम्।
अधिरूढ = त्रि० अधि + रुह–कर्त्तरि–क्त। उपरिभागे आरोहणकर्त्तरि, अतिवृद्धिमति च।
अधिरोपित = त्रि० अधि + रुह–णिच्–पुक् कर्मणि क्त। अतिशयेनारोपिते।
अधिरोहण = न० अधि + रुह भावे–ल्युट्। उपर्य्यारोहणे। घञ्। अधिरोहोऽप्यत्र पु०।
अधिरोहणी = स्त्री अधिरुह्यतेऽनया अधि + रुह–करणे ल्युट्। (मै) इति, (सिडि) इति च प्रसिद्धे काष्ठवंशादिनिर्मिते उच्चस्थानारोहणसाधने सोपानवृन्दे। अधिरोहः साधनत्वेनाख्यस्याः इनि। अधिरोहिणीत्यप्यत्र इति शब्दकल्पद्रुमः तन्मूलं मृग्यम्। रायमुकुटादिभिः ल्युटैवतत्पदसाधनान्नास्य इन्यन्त्यता।
अधिलोक = अव्य० लोके विभ० अव्ययी०। लोके इत्यर्थे।
अधिवक्तृ = त्रि० अधि + वच–तृच्। पक्षपातेन वक्तरि। “विश्वाहेन्द्रो अधिवक्ता” इति ऋ० १, १००, १०, अधिवक्ता पक्षपातेन वचनयुक्त इति भा०। स्त्रियां ङीप्।
अधिवचन = न० अधि + वच–ल्युट्। पक्षपातेन कथने। “अधिकवचनं पक्षपातेन वचन” मिति माधवाचार्य्यः।
अधिवस्त्र = त्रि० अध्यावृतं वस्त्रं येन प्रा० ब०। उपरिनिहित वस्त्रे। “यज्ञेभिरावृतोऽधिवस्त्रा बधूरिवेति” ऋ० ८, २ ६, १३, अधिवस्त्रा उपरिनिहितवस्त्रेति भा०।
अधिवाक = पु० अधि–वच–घञ्। पक्षपातेन वचने। “तमिन्धनेषु हितेष्वधिवाकाय हरति” इति ऋ० ८, १५, ५, “अधिवाकाय पक्षपातवचनायेति” भा०।
अधिवास = पु० अधि + वस निवासे–घञ्। निवासे “श्रीः कैटभारिहृदयैककृताधिवासेति” देवीमा०। अधि + वास सुरभीकरणे भावे घञ्। सौरभे “ककुद्मिकन्यावक्त्रान्तर्वासलब्धाधिवासयेति” माघः “अधिवासस्पृहयेव मारुत” इति रघुः। अधिवासयति देवता अनेन अधि + वस–णिच् करणे घञ्। यज्ञारम्भपूर्ब्बदिवसे देवतास्थापनादिकर्म्मणि। “अधिवासः परेऽहनीति” स्मृतिः “मध्यरात्रेऽधिवासयेदिति” स्मृत्युक्तेस्तस्य पूर्ब्बेद्युर्मध्यरात्रे कर्त्तव्यता। “आत्ययिकेषु कार्य्येषु सद्यएवाधिवासये” दित्युक्ते र्यागदिनेऽपि क्वचित् कर्त्तव्यता। गन्धमाल्याद्यैः संस्कारे च।
अधिवासन = न० अधिवासयति स्थापयति देवता अनेन अधि + वस–णिच् ल्युट्। यागपूर्बदिने देवताद्यावाहनपूर्बकपूजनादिकर्म्मभेदे। अधिवास्यते सुरभीक्रियते अधि + वास सुरभीकरणी भावे ल्युट्। गन्धमाल्यादिभिः सुरभीकरणरूपसंस्कारभेदे तद्द्रव्याणि च “मही गन्धः शिला धान्यं दूर्व्वा पुष्पं फलं दधि। घृतं स्वस्तिकसिन्दूरं शङ्खकज्जलरोचनाः। सिद्धार्थं काञ्चनं रोप्यं ताम्रचामरदर्पणम्। दीपः प्रशस्तिपात्रञ्च विज्ञेयमधिवासने” इति स्मृत्युक्तानि वेद्यानि। “सायं षष्ठ्यान्तु कर्त्तव्यं पार्वत्या अधिवासनमिति” पुरा०।
अधिवासित = त्रि० अधि + वास–सुरभीकरणे कर्म्मणि क्त। सुरभीकृते गन्धमाल्यादिभिः कृतसंस्कारे। अधि + वासनिवासे णिच् कर्म्मणि क्त। कृताधिवासने देवादौ।
अधिवाहन = न० अधि + वह–णिच्–ल्युट्। उपरि प्रापणे वाहने, च। विभ० अव्ययो०। वाहनं यानमधिकृत्येत्यर्थेअव्य०।
अधिविकर्त्तन = न० अधि + वि + कृत–छेदने ल्युट्। अत्यन्तच्छेदने “आशासनं विशासनमथो अधिविकर्त्तनमिति” ऋ० १०, ८५, ३५।
अधिविद्य = अव्य० विद्यायां विभक्त्य० अव्ययी०। विद्यामधिकृत्येत्यर्थे। “अधिविद्यं प्रकाशते इति” वाक्यपदीयम्।
अधिविन्ना = स्त्री अधि + विद–लाभे कर्म्मणि क्त। कृताधिवेदनायां यस्या उपरि विवाहान्तरं कृतं तस्यां स्त्रियाम् “अधिविन्ना तु या नारी निर्गच्छेद्रुषिता गृहादिति” मनुः। अधिविन्नस्त्रियै देयमाधिवेदिनकं सममिति” याज्ञ०।
अधिवेत्तृ = पु० अधि + विद–लाभे कर्तरि तृच्। विवाहोत्तरं विवाहान्तरकर्त्तरि।
अधिवेद = अव्य० वेदे–विभक्त्य० अव्ययी०। वेदमधिकृत्येत्यर्थे। अधि + विद–भावे घञ्। विवाहोत्तरं विवाहान्तरकरणे पु०
अधिवेदन = न० अधि + विद–लाभे भावे ल्युट्। विवाहोपरिविवाहान्तरकरणे। तत्र नियुक्तादि ठक्। आधिवेदनिकम् अधिवेदनविषयनियुक्ते तत्रलब्धे च धनादौ त्रि०। “अधिविन्नस्त्रियै देयमाधिवेदनिकं सममिति” याज्ञ०। “आधिवेदनिकाद्यं च स्त्रीधनं परिकीर्त्तितमिति” स्मृतिः। अधिवेदनकालनिमित्ते तु मत्कृतबहुविवाहवादे विस्तरत उक्ते ततएवावसेये।
अधिवेदनीय = स्त्री अधि + विद–लाभे कर्म्मणि–अनीयर्। यद्विवाहोपरि विवाहान्तरकरणयोग्यं तादृश्यां स्त्रियाम्। कर्मणि यत्। अधिवेद्याप्यत्र स्त्री। “बन्ध्याष्टमेऽधिवेद्याब्दे” इति मनुः।
अधिश्रपण = न० अधि + श्रा–पाके णिच्–पुक् ह्रस्वश्च भावे ल्युट्। पाचने।
अधिश्रय = पु० अधि + श्री–पाके भावे अच्। चूल्ल्यामुपरिस्थापनरूपे विक्लित्तिहेतुभूते व्यापारे, पाके।
अधिश्रयण = न० अधि उपरि श्रयणं पाकार्थं स्थापनं श्रीञ्भावे ल्युट्। चूल्ल्या उपरि स्थापने, तत्पूर्ब्बकपाके च। अधिश्रीयते पच्यतेऽत्र, आधारे ल्युट् ङीप्। चूल्ल्याम् (आका) इति, (चूला), इति च ख्यातायाम् स्त्री।
अधिश्रयणीय = त्रि० अधिश्रयणाय पाकाय हितम् छ। पाकसाधनपात्रे। अधिश्रयितुमर्हति अधि + श्री–पाके अर्हार्थे कर्म्मणि अनीयर्। पाकार्हे वस्तुनि त्रि०।
अधिश्रयितवै = अव्य० अधि + श्री–पाके वेदे कृत्यार्थे तवै। पचनीये “गौरेव दुग्धमधिश्रयितवै ब्रूयादिति” वेदः।
अधिश्री = त्रि० अधिका श्रीर्य्यस्य। अधिकशोभान्विते अधिकसम्पत्तिमति च “इयं महेन्द्रप्रभृतीनधिश्रिय” इति कुमा० “समादिदेशाधिकृतानधिश्रीरिति” रघुः।
अधिषवण = न० अधिषूयते सोमः यत्र अधि + षू अभिषवे आधारे ल्युट्। सोमाभिषवसाधनचर्म्मादिपात्रे। “अंशूनिव ग्रावाभिषवणे” इति वेदः। भावे ल्युट्। अभिषवे।
अधिषवण्या = त्रि० अधिषवणाय हितम् यत्। अभिषवसाषने फलके। “यत्र द्वाविव जघनाधिषवण्या कृता” इति ऋ० १, २८, २ अधिषवण्या उभे अधिषवणफलके इति भा०।
अधिष्ठातृ = त्रि० अधि + स्था–तृच् षत्वम्। अध्यक्षे, नियमितकार्य्यविशेषाकरणेन कृताकृतावेक्षके, नियन्तरि च। “आत्मेन्द्रियाद्यधिष्ठातेति” भाषा०। अधिदेवे च। “इन्द्रियाणामधिष्ठातृदेवास्ते परिकीर्त्तिता” इति पुरा०। ते च अधिदेवताशब्दे दर्शिताः सर्वाधिष्ठाता तु परमेश्वर एव तदपि तत्रैवान्तर्यामिब्राह्मणेन दर्शितम्। “तत्सान्निध्यादधिष्ठातृत्वं मणिवदिति” सांख्यसू०। यथायस्कान्तमणेः सान्निध्यमात्रेण शल्यनिष्कर्षकत्वं न सङ्कल्पादिना तथैवादिपुरुषस्य संयोगमात्रेण प्रकृतेर्महत्तत्त्वरूपेण परिणमनम्। इदमेव च सोपाधिस्रष्टृत्वमित्यर्थः। तथाचोक्तम्। “निरिच्छे संस्थिते रत्ने यथा लोहः प्रवर्त्तते। सत्तामात्रेण देवस्य तथा चेयं जगज्जनिः। अत आत्मनि कर्तृत्वमकर्तृत्वं च संस्थितम्। “निरिच्छत्वादकर्त्तासौ कर्त्ता सन्निधिमात्रतः” इति सां० भा०। स्त्रियां ङीप्।
अधिष्ठान = न० अधि + स्था–ल्युट्। नियमितकार्य्यविशेषाकरणेन सान्निध्यमात्रेण नियमनाय, स्थितौ, वेदान्तशास्त्रप्रसिद्धे आरोपाधिकरणे च। वेदान्तिनाञ्च अध्यासस्याङ्गमधिष्ठानं यथा तथाऽध्यासशब्दे वक्ष्यते। अधिकरणे ल्युटि। पुरे आधारमात्रे, आश्रये च। “तदधिष्ठानाश्रयदेहे तद्वाद इति” सां० सू०। “तस्य लिङ्गस्य यदधिष्ठानमाश्रयो वक्ष्यमाणभूतपञ्चकं तस्याश्रये षाट्कौशिके देहे इति भाष्यत्”। करणे ल्युटि। चक्रे, प्रभावे च चक्रेण, प्रभावेन च हि प्रवृत्तयुद्धकृत्यादिसम्भवः। अधिष्ठानञ्च नियन्तृत्वं यथोक्तं सांख्ये। “संहतपरार्थत्वात् त्रिगुणादिविपर्य्ययादधिष्ठानादिति” “इतश्च पुरुषोऽस्ति अधिष्ठानात् त्रिगुणात्मकानामधिष्ठीयमानत्वात् यद्यत् सुखदुःखमोहात्मकं तत् सर्व्वं परेणाधिष्ठीयमानं दृष्टं यथा रथादि यन्त्रादिभिः, सुखदुःखमोहात्मकञ्चेदंबुद्ध्यादि, तस्मादेतदपि परेणाधिष्ठातव्यम्। स च परस्त्रैगुण्यादन्य आत्मेति” सा० कौ०। भावे ल्युट्। सन्निधिमात्रे। “अत्राधिष्ठानं कुर्विति” आवाहनमन्त्रः। “भोक्तुरधिष्ठानाद्भोगायतननिर्म्माणमन्यथा पूतिभावप्रसङ्गात्” इति सांख्यसू० “भोक्तुः प्राणस्याधिष्ठानात् व्यापारादेव भोगायतनस्य शरीरस्य निर्म्माणं भवति। अन्यथा प्राणव्यापाराभावे शुक्रशोणितयोः पूतिभावप्रसङ्गात् मृतदेहवदित्यर्थः। तथाच रससञ्चारादिव्यापारविशेषैः प्राणो देहस्य निमित्तकारणं धारकत्वादिति भाव इति भा०। ननु प्राणिनः निर्व्यापारस्याधिष्ठाने प्रयोजनाभाव इति तत्राह। “भृत्यद्वारा स्वाम्याधिष्ठितिर्नैकान्त्यात्” इति सा० सू०। “देहनिर्म्माणे व्यापाररूपमधिष्ठानं स्वामिनश्चेतनस्यैकान्त्यात् अपेक्षा नास्ति किन्तु प्राणरूपभृत्यद्वारा यथा राज्ञः पुरनिर्म्माण इत्यर्थः। तथा च प्राणस्याधिष्ठातृत्वं साक्षात्, पुरुषस्याधिष्ठातृत्वं प्राणसंयोगमात्रेणेति सिद्धम्। कुलालादीनां घटादिनिर्म्माणेष्वप्येवम्। विशेषस्त्वयं तत्र चेतनस्य बुद्ध्यादेश्चाप्युपयोगोऽस्ति बुद्धिपूर्ब्बकं स्रष्टृत्वादिति। यद्यपि प्राणाधिष्ठानादेव देहनिर्माणं तथापि प्राणद्वारा प्राणिसंयोगोऽप्यपेक्ष्यते पुरुषार्थमेव प्राणेन देहनिर्माणादित्याशयेन भोक्तुरधिष्ठानादित्युक्तम् इति भा०। अधिष्ठीयते कर्म्मणि ल्युट्। अधिष्ठिते रुन्निधिमात्रेण नियन्त्रिते। “इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते” इति गीता।
अधिष्ठित = त्रि० अधि–स्था–कर्म्मणि क्त। अध्युषिते “विलोक्य वृद्धोक्षमधिष्ठितं त्वयेति” कुमा०। सन्निविमात्रेण नियोजिते “ईश्वराधिष्ठिताः सर्वे स्वं स्वं कार्य्यं हि कुर्वते इति पुरा०।
अधिहरि = अव्य० हरौ, विभ० अव्ययी०। हरिमधिकृत्येत्यर्थे
अधीकार = पु० अधि + कृ–घञ् उपसर्गस्य दीर्घत्वम्। अधिकारशब्दार्थे “सर्वाकरेष्वधीकारो महायन्त्रप्रवर्त्तनम्” इत्युपपातकगणनायां मनुः। “स्वागतं स्वानधीकारानिति” कुमा०।
अधीत = न० अधि + इङ–भावे क्त। अध्ययने, कर्म्मणि क्त। कृताध्ययने अभ्यस्ते च त्रि० “ईषदीषदनधीतविद्ययेति” कुसु०। “अधीतवेदवेदाङ्गत्वेनेति” वे० सा०।
अधीति = स्त्री अधि + इङ् अध्ययने क्तिन्। अध्ययने “अधीतिबोधाचरणप्रचारणैरिति” नैष०। अधि + इक–स्मरणे क्तिन्। स्मरणे “नू ते पूर्ब्बस्य वसो अधीतौ तृतीये” इति ऋ० २, ४, ८, “अधीतौ स्मरणे” इति भाप्यम्।
अधीतिन् = त्रि० अधीतमनेन अधीत + इनि। कृताध्ययने। “त्वगुत्तरासङ्गवतीमधीतिनीमिति” कुमा०। एतदिन्यन्तयोगे च कर्म्मणि सप्तमी वेदेऽधीतीत्यादि किन्तु कर्म्माविवक्षया प्रथमं भावे एव क्तः पश्चात् कर्म्मणा योगः कृतपूर्ब्बी कटमित्यत्रंव। यथोक्तं हरिणा। “अकर्म्मकत्वे सत्येव क्तान्ते भावाभिधायिनि। पश्चात् क्रियावता कर्त्त्रा योगो भवति कर्म्मणेति”। विस्तरः सत्कृतसरलायां द्रष्टव्यः।
अधीन = त्रि० अधिगतमिनं प्रभुम् अत्या० स०। आयत्ते। वित्ताधीन इत्यादौ तु वित्ते अवि–इति वाक्ये समासे अध्युत्तरपदात् ख। “क्व नु मां त्वदधीनजीवितामिति” कुमा०। “दाराधीनस्तथा स्वर्गः पितॄणामात्मनश्च ह” इति मनुः। “इक्ष्वाकूणां दुरापेऽर्थे त्वदधीना हि सिद्धयः” इति रघुः।
अधीर = त्रि० धीरः धैर्य्यान्वितः न० त०। चञ्चले, “कान्तस्या धरमणिम् अधीरमाचुचुम्बेति” दशकु०। कातरे, रोगादिनाकुलचित्ते च। विद्युति, नायिकाभेदे च स्त्री। तल्लक्षणं नायिकाशब्दे वक्ष्यते
अधीवास = अधि + वस आच्छादने करणे घञ्। सर्व्वत आवरके महाकञ्चुके वस्त्रभेदे। “अधीवासं परिमुच्योष्णीषं संवेष्ट्य निवीते” इति कात्या० १५, ५, १३, उपरि सर्वतः संछाद्यतेऽनेनेत्यधीवासः महाकञ्चुक इति तद्व्याख्या। “अधीवासेन प्रच्छादयतीति” कात्या० २०, ६, १५, “उपरिष्टादावरकं वासोऽधीवास” इति वेददीपः।
अधीश = त्रि० अधिक ईशः प्रा० स०। सार्वभौमे अधिपतौ च। “अङ्गाधीशः स्वगेहे बुधगुरुकविभिः संयुत” इति जात०।
अधीश्वर = त्रि० अधिक ईश्वरः प्रा० स०। स्त्रियां ङीष्। राजनि “अधिगत्य जगत्यधीश्वरादिति” नैष०। प्रभौ च।
अधीष्ट = न० अधि + दिवा० इष–भावे क्त। सत्कारपूर्व्वकनियोगे, “विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङिति” पा० “अधीष्टं सत्कारपूर्ब्बकव्यापार” इति सि० कौ०। कर्म्मणि क्त। सत्कारपूर्व्वकं नियोजिते त्रि०।
अधुना = अव्य० अस्मिन् काले इदम्शब्दस्य न०। संप्रतीत्यर्थे “प्रमदानामधुना” विडम्बनेति कुमा०। अधुना भवार्थे ठञ्। आधुनिकः इदानीन्तने त्रि०।
अधुनातन = त्रि० अधुना + भवार्थेड्युल् तुट्च। इदानीम्भवे स्त्रियां ङीप्।
अधुर = नास्ति धूः चिन्ता भारो वा यस्य अच्समा०। भारशून्ये चिन्ताशून्ये च, न० त०। अधूः–अभारे अचिन्ते च। अक्षे तु नाच्समा०। अधूरक्षः इति।
अधूमक = पु० नास्ति धूमो यत्र कप्। धूमशून्ये ज्वलदग्नौ।
अधृत = पु० न धृतः। सर्वेषां धारकत्वेन केनापि न धृते परमश्वरे, श्रुतौ “स भवगवः! कस्मिन्नु प्रतिष्ठितः?” इति प्रश्ने “स्वे महिम्नी” त्युत्तरम् तेनान्याधृतत्वात् स्वप्रतिष्ठत्वाच्च तस्य तथात्वम्। “अधृतः स्वधृतः स्वास्य इति विष्णु सहस्र०।
अधृति = स्त्री धृतिर्धारणं धैर्य्यं वा अभावार्थे न० त०। धारणाभावे, धैर्य्याभावे, च।
अधृष्ट = त्रि० धृष–निर्लज्जत्वे क्त न० त०। लज्जाशीले। धृष–अभिभवे क्त न० त०। अनभिभूते “यन्तं नोमित्रावरुणावधृष्टमिति ऋ० ६, ६७, २, अधृष्टमनभिभूतमिति भा०। अहिंसिते च। “दूतासोवसवोऽधृष्टा” इति ऋ० ६, ५०, ४, “अधृष्टा अहिंसिता” इति भा०।
अधृष्य = त्रि० न धृष्यः न० त०। अनभिभवनीये “अधृष्यश्चाभिगम्यश्च यादोरत्नैरिवार्णव” इति रथुः। धृष–निर्लज्जत्वे भावे क्यप् तन्नास्ति यस्य। अप्रगल्भे, लज्जाशीले च त्रि०।
अधेनु = स्त्री न० त०। दोहनशून्यायां गवि। “अधेनुं दस्रा स्तर्य्यमिति” ऋ० १, ११७, २०, “अधेनुम् अद्रोग्ध्रीमिति” भा०।
अधैर्य्य = न० अभावार्थे न० त०। घैर्य्याभावे। ब०। धैर्य्यशून्ये त्रि०।
अधोअक्ष = त्रि० अधः अक्षस्य, अधस्तात् अक्षति अश्नुते वा अक्ष–अच्, अश–स वा वेदे अतोलोपाभावः। अधरस्ताद् व्यापके। “अधोअक्षाः सिन्धवः स्रोत्याभिरिति” ऋ० ३ ६३, ९, “यदापः अक्षस्याधस्ताद्भवन्ति तदा रथादीनि नेतुं शक्यन्ते” इति भा०।
अधोऽंशुक = न० अधरमंशुकम् अधर + प्रथमार्थे असि अधरस्य अधादेशश्च। परिधानवस्त्रे।
अधोऽक्ष = न० अधरमक्षं यत्र मार्गे अधर + प्रथमार्थे असि ब०। हविर्धानाक्षाधोमार्गे। “दक्षिणस्याक्षं प्राञ्चो निष्क्रामतीति” का० १२, ४, १४, दक्षिणहविर्धानाक्षाधोगार्गेण प्राङ्मुखा निःसरन्तीति” वेददीपः।
अधोऽक्षज = पु० अक्षात् इन्द्रियात् जायते जन–ड ५ त०। अक्षजं प्रत्यक्षज्ञानम् अधरं ग्राहकत्वाभावाद्धीनं यस्य अधर–प्रथमार्थे असि अधादेशश्च। इन्द्रियायोग्ये, “अधो न क्षींयते जातु यस्मात्तस्मादधोऽक्षज” इत्युक्तलक्षणे, वा विष्णौ। “व्याप्ती वायुरघोऽक्षज” इति विष्णुसह०। “द्यौरक्षं पृथिवी चाधस्तयोर्यस्मादजायत। मध्ये वैराजरूपेण ततोऽधोक्षजैष्यते” इति भाष्ये तथा च अण्डकपालद्वयमध्ये विराड्रूपेण जातत्वादस्य तथात्वम्। अधोभूते स्वस्वविषयेभ्यो निवर्त्तनेन प्रत्यक्प्रवांहिते अक्षगणे जायते प्रकाशते इति अधोक्षज इति वा। तत्रैवार्थे।
अधोगति = स्त्री अधरस्मिन् अधस्तात् नरकादौ गतिः नरकादिगमने “साधकानां त्वधोगतिरिति” तन्त्र०। नरकस्य च पापफलत्वेन पुण्यादधरत्वात् अधरत्वम् “और्वे च सर्वे नरकाः सदैत्या” इति (सि० शिरो०) और्वस्थाने एव नरकस्थितिरुक्ता और्वस्थिति श्च। “स्वादूदकान्तर्बडवानलोऽसौ पाताललोकाः पृथिवीपुटानी” त्यनेन पातालसन्निकृष्टे तत्रैवोक्ता। अतो नरकानामधःस्थत्वम्, भूगोलशब्दे विवरणं दृश्यम्। “जघन्यगुणवृत्तास्तु अधोगच्छन्ति तामसा इत्युक्तेः तामसानामधोगतित्वम्। अधोगतित्वञ्च पापादेव। अधःप्रदेशमात्रे गमने च “मूला- नामधोगतिरिति” काद०। अधोऽधस्तात् गतिर्य्यस्य ब०। नरकगामिनि त्रि० “अनपेक्षितमर्य्यादं नास्तिकं विप्रलुप्तकम् अरक्षितारमत्तारं नृपं विद्यादधोगतिमिति” मनुः ८, ३९, ४१, अधोगतिं नरकगामिनमिति कुल्लूकभट्टः।
अधोगामिन् = त्रि० अधरस्मिन् अधः गच्छति गम–णिनि। नरकगामिनि, अधोभागे–गन्तरि च। स्त्रियां ङीप्।
अधोघण्टा = स्त्री अधरात् अधस्तादारभ्य घण्टेव तदाकारफलवत्त्वात्। अपामार्गे रत्नमाला।
अधोजानु = न० अधरं जानुनः प्रथमार्थे असि। जानुनोऽधरे ब्राह्मणादीनां प्रमाणविशेषमभिधाय “सर्वेषां वाधोजानु इति का० २१, ४, १८, “वा विल्पार्थे सर्वेषां जानुनोरधस्तात् अधोजान्विति” तद्व्याख्या।
अधोजिह्विका = स्त्री अल्पा जिह्वा जिह्विका अल्पार्थे कन् अधोऽधरा जिह्विका कर्म्म०। (आलजिभ) इति ख्यातायाम् तालुस्थजिह्विकायाम्।
अधोदारु = न० अधरं दारु अधर + प्रथमार्थे असि। काष्ठमयद्वारस्याधरकाष्ठे (गोवराट्)।
अधोदिश् = स्त्री अधरा दिश् अधर + प्रथमार्थे असि कर्म्म०। दक्षिणस्यां दिशि। अस्या अधरत्वञ्चोदक्शब्दे वक्ष्यते।
अधोदृष्टि = त्रि० अधरस्मिन् अधः दृष्टिरस्य। योगाभ्याससमये नासिकाग्रमात्रदर्शनयुक्ते, तत्प्रकारस्तु “किञ्चित् प्रकाशस्तिमितोग्रतारैर्भ्रूविक्रियायां विरतप्रसङ्गैः। नेत्रैरविस्पन्दितपक्ष्ममालैर्लक्ष्यीकृतघ्राणमधोमयूखैरिति” कुमारे “करणान्यवहिष्कृत्य स्थाणुवन्निश्चलात्मकः। आत्मानं हृदये ध्यायेन्नासाग्रन्यस्तलोचन” इति योगसारे “गीतायामपि “सम्पश्यन् नासिकाग्रं स्वमित्यादिना” दर्शितः। अधोदर्शनयुक्तमात्रे त्रि०। “अधोदृष्टिर्नैकृतिक” इति मनुः ४, १९६। कर्म्म०। अधस्थदृष्टौ स्त्री।
अधोऽधस् = अधस् + अधस्तात् सामीप्ये द्वित्वम्। समीपाधोदेशे “नवानधोधोवृहतः पयोधरानिति” माघः।
अधोपहास = पु० अधः अधोभागस्य स्मरमन्दिरस्य उपहासः सन्धिश्छान्दसः। स्त्रीणामधोभागस्योपहसने। “यएवं विद्वानधोपहासं चरत्यासां, स्त्रीणां सुकृतं वृङ्क्त” इति वृ० उप०। वृङ्क्ते आवर्ज्जयतीति भाष्यम्।
अधोभक्त = न० अधरं भक्तं यस्मात् अधर + प्रथमार्थे असि ५ त०। भक्तभोजनान्ते पीयमानजले।
अधोभाग = अधरोभागः अधर + प्रथमार्थे असि कर्म्म०। अधरभागे “पूर्ब्बभागो गुरुः पुंसामधोभागस्तु योषितामिति”।
अधोभुवन = न० अधरमधः भुवनम् लोकः। सप्तसु पातालेषु। तत्स्थानञ्च “भूमेरर्द्धं क्षारसिन्धोरुदक्स्थं जम्बुद्वीपं प्राहुराचार्य्यवर्य्याः अर्द्धेऽन्यस्मिन् द्वीपषट्कस्य याम्ये क्षारक्षीराद्यम्बुधीनां निवेशः।। लवणजलधिरादौ दुग्धसिन्धुश्व तस्मादमृतममृतरश्मिः श्रीश्व यस्माद्बमूव। महितचरणपद्मः पद्मजन्मादिदेवैर्वसति सकलवासो वासुदेवश्च यत्र।। दध्नो घृतस्येक्षुरसस्य तस्मान्मद्यस्य च स्वादुजलस्य चान्त्यः। स्वादूदकान्तर्बडवानलोऽसौ पाताललोकाः पृथिवीपुटानीति सि० शि०।। अधिकं भूगोलशब्दे वक्ष्यते।
अधोमुख = त्रि० अधो मुखं यस्य ब०। ज्योतिषशास्त्रे प्रसिद्धेषु नक्षत्रभेदेषु। यथा “मूलाश्लेषा कृत्तिका च विशाखा भरणी तथा। मघा पूर्ब्बात्रयं चैव अधोमुखगणः स्मृत” इति। गोजिह्वाख्यवृक्षे (अनन्तमूल) अवाङ्मुखे स्त्रियां वा ङीष्। “स्तब्धदृष्टिरधोमुख” इति “अधोमुखैरूर्द्धमुखैस्य पत्रिभिः” इति रघुः। मुद्राभेदे च तत्स्वरूपं मुद्राशब्दे वक्ष्यते।
अधोराम = पु० अधोभागे अधस्ताद्भागे रामः शुक्लः दृष्टितर्पकत्वात् तस्य रामत्वम्। अधोभागे शुक्लवर्णे “आश्विनावधोरामाविति” य० २४, १, “अधोरामौ अधोभागे शुक्लवर्णावजाविति” वेददीपः।
अधोलोक = पु० अधोऽधरो लोकः कर्म्म०। भूमेरधःस्थपाताले। अधोभुवनशब्दे विवरणम्।
अधोवर्चस् = त्रि० अधोगामि वर्च ज्योतिर्यस्य। अवाचीनज्योतिष्के “तत्ते विद्वान् वरुण! प्रब्रनीम्यधोवर्चस” इति वेदः।
अधोवायु = पु० अधोगामी वायुः शा० त०। अपानवायौ पर्द्दशब्दकारके वाते “अधोवायुसमुत्सर्गे प्रहासेऽनृतभाषणे” इत्युपक्रम्य “कर्म्म कुर्वन्नुपस्पृशे” दित्युक्तं स्मृतौ।
***