अदुष्ट = त्रि० न० त०। स्मृत्युक्तदुरदृष्टसाधनतारूपदोषरहिते। “अदुष्टा सन्तता धारा” इति स्मृतिः “दुष्टानि च दुष्टशब्दे वक्षयन्ते।

अदूर = न० न० त०। दूरत्वविरोधिसामीप्ये “अदूरे जगदम्बायाः शारदीयो महोत्सव” इति पुरा०। तद्वति त्रि०। “परस्पराक्षिसादृश्यमदूरोञ्झितवर्त्मस्विति” रघुः।

अदूषित = त्रि० न० त०। दूषितभिन्ने स्मृत्युक्ते दोषानर्हे द्रव्यभेदे च। दूषितञ्च अस्पृश्यस्पर्शवत्त्वेन, पर्य्युषितत्वेन, विरसत्वेन, दोषजनकादृष्टविशेषहेतुत्वेन च स्मृत्यादौ दुष्टत्वेन कीर्त्तितम् तस्यैव क्वचिद्विषये प्रतिप्रसवः स्मृतावुक्तस्तादृशपदार्थएवादूषितम्। दूषितविवरणं दुष्टशब्दे वक्ष्यते।

अदृश् = त्रि० नास्ति दृक् दृष्टिरस्य। अन्धे चक्षुरिन्द्रियशून्ये। न पश्यति दृश–कर्त्तरि क्विप् न० त०। अदर्शके त्रि०।

अदृश्य = त्रि० न० त०। दृश्यभिन्ने। न द्रष्टुमर्हति। दर्शनानर्हे, परमेश्वरे च। “यत्तददृश्यमविज्ञेयमग्राह्यमिति” श्रुतिः।

अदृष्ट = न० दृश–क्त न० त०। पुण्यापुण्यरूपे भाग्ये इन्द्रियायोग्यत्वात् तस्यादृष्टत्वम्। अदृष्टसत्त्वे प्रमाणञ्च। “सापेक्षत्वादनादित्वात् वैचित्र्यात् विश्ववृत्तितः। प्रत्यात्मनियमात् भुक्तेरस्ति हेतुरलौकिक” इति “चिरध्वस्तं फलायालं न कर्म्मातिशय विनेति” चेति कुसु०। अस्याभिप्रायः। इह हि जगति उच्चावच विचित्राः सुखदुःखानुभवरूपा भोगाः प्रत्यात्मवेदनीयाः, ते च न नित्या उत्पत्तिविनाशशालित्वात् अतएव न सदातनाः किन्तु कादाचित्का एव, सति च तेषां कादाचित्कत्वे हेतुसापेक्षत्वमेव तथा हि विमता भोगव्यक्तयः हेतुसापेक्षाः कादाचित्कत्वात् घटवत्। यद्यत् कादाचित्कं तत्तत् हेतुसापेक्षं यथा घटः भवन्ति च भोगव्यक्तयः कादाचित्काः तस्मात् हेतुसापेक्षा इति पञ्चावयवन्यायेन भोगानां हेतुसापेक्षत्वसिद्धिः स च हेतुः न लौकिकप्रत्यक्षादिविषयः कश्चित् सम्भवति तदन्वयव्यतिरेकाभावात् न च कालस्यैव तद्धेतुत्वेनार्थान्तरापातः। कालस्य साधारणकारणतया चिवित्रभोगं प्रत्यनियामकत्वात् अन्यथा कालस्यैकरूपतया सर्बदा सर्वभोगप्रसङ्गः। एतेन तत्तत्कालत्वेन कारणताकल्पनेऽपि न निस्तारः तत्तत्कालव्यक्तीनां पुरुषमात्रसाधारण्येन प्रत्यात्मविचित्रभोगोपपादकत्वानुपपत्तेः। अतो विचित्रभोगान्यथानुपपत्त्या तदाधायकमलौकिकं कारणं यत् कल्पनीयं, तदेवादृष्टम्। एवमनुमानेन आगमप्रामाण्यानभ्युपगन्तॄन् प्रति अलौकिकादृष्टसाधनम्। आगमेन तु तत्सिद्धिरेवमभियुक्तैरभ्युपेता “स्वर्गकामो यजेतेति” वाक्ये समभिव्याहृतस्वर्गसाधनत्वं यागे विधिप्रत्ययेन बोध्यते तच्च न सम्भवति, स्वर्गादेः कालान्तरभावितया आशुविनाशिनो यागादेस्तदानीमसत्त्वेन कारणत्वासम्भवात् अतो विधिबोधितं यागादेरिष्टसाधनत्व फलकालपर्य्यन्तस्थायिस्वजन्यव्यापारं विनानुपपन्नमित्यनुपपत्तिज्ञानेन द्वारीभूतमपूर्ब्बं कल्प्यते। तदमिप्रायेणैव चिरध्वस्तमित्याद्युक्तम्। अतएव “पौरुषं दैवसम्पत्त्या काले फलति पार्थिव!। त्रयमेतन्मनुष्यस्य पिण्डितं स्यात् फलावहमिति” शास्त्रान्तरे कार्य्यजननसामग्र्यां दैवपदाभिधेयापूर्ब्बस्य कीर्त्तनम्। तच्चादृष्टं द्विविधं पुण्यं पापञ्च विहितानुष्ठानजन्यं पुण्यं, निषिद्धानुष्ठानजन्य पापम्, तदुभयमपि त्रिविधं, प्रारब्धं फलदानोन्मुखं सञ्चित ञ्चेति। देहाद्यारम्भकमदृष्टं प्रारब्धं, बहूनामदृष्टानां चिरसञ्चितानां मध्ये फलविपाकाय उन्मुखं फलदानोन्मुखं, तद्भिन्नं सञ्चितम्। तत्र “ये समर्था जगत्यस्मिन् सृष्टिसंहारकारकाः। तेऽपि कालेन लीयन्ते इति” शास्त्रात् “कलनात् सर्वभूतानां काल इत्यभिधीयते” इत्युक्तेश्च कालस्य सर्वनाशकत्वेऽपि नादृष्टनाशकत्वम् “नाभुक्तं क्षीयते कर्म्म कल्पकोटिशतैरपीति” शास्त्रान्तरात् किन्तु भोगादेव क्षयः। तथा पुण्यस्य कर्म्मनाशाजलस्पर्शादितोऽपि नाशः, पापस्य प्रायश्चित्तादिना नाशः। प्रारब्धातिरिक्तपुण्यापुण्यकर्म्मणां तत्त्वज्ञानात् नाशः। “ज्ञानाग्निः सर्वकर्म्माणि भस्मसात् कुरुतेऽर्जुनेति” गीतादिशास्त्रात्। इदमदृष्टं वेदान्तिभिर्न्नानुमन्यते तैर्हि कर्म्मणः सूक्ष्मावस्थापन्नसंस्कारविशेष एवादृष्टस्थानीयतयाङ्गीक्रियते इति भेदः। तच्चानुशयशब्दे विस्तरतो वाच्यम्। तच्चादृष्टमात्मधर्म्म इति नैयायिका वैशेषिकादयश्चाभ्युपगच्छन्ति। वेदान्तिसाङ्ख्यपातञ्चलास्तु बुद्धिधर्म इति भेदः। तेषां मते हि कर्त्तृत्वस्य बुद्धिधर्म्मतया “शास्त्रदेशितं फलमनुष्ठातरोति” न्यायांत् तत्रैवादृष्टोत्पत्तेरुचितत्वम् अन्यकृतकर्म्मणा अन्यस्यादृष्टोत्पत्तौ अतिप्रसङ्गात् “कृतहानाकृताभ्यागमप्रसङ्गश्चेति” सूत्रेण च तथैव प्रतिपादितत्वादधिकमाकरे द्रष्टव्यम्। अस्य च अदृष्टशब्दवाच्यत्वे “प्रत्यक्षमनिमित्तं विद्यमानोपलम्भनत्वादिति” जैमिनिसृत्रं मानम्। तस्यायमभिप्रायः “नोदनालक्षणोऽर्थोधर्म्म” इति धर्म्मे वेदैकसमधिगम्यत्वमुपक्षिप्तं तस्य द्रढीकरणार्थमिदं सूत्रं प्रवृत्तम्। “अनुष्ठानादूर्द्ध्वमुत्पद्यमानस्य धर्म्मस्य पूर्ब्बमविद्यमानत्वात् न प्रत्यक्षयोग्यतास्ति उत्तरकालेऽपि रूपादिराहित्यान्नेन्द्रियैरवगम्यता। अतएवादृष्टमिति सर्वैरभिधीयते” इति ऋ० भाष्यम्। सूत्रार्थस्तु प्रत्यक्षं चक्षुरादि न तद्ग्रहणे निमित्तं तेषां विद्यमानोपलम्भहेतुत्वात् धर्म्मस्य च प्राक् अविद्यमानत्वात्। लिङ्गराहित्याच्च नानुमानविषयत्वमप्यस्ति। सुखदुःखयोस्तद्गमकत्वेन लिङ्गत्वसम्भवेऽपि तयोर्लिङ्गत्वज्ञानमपि वेदैकगम्यं, “कस्य कर्म्मणः? किं फल? मित्यध्यवसायस्य वेदैकसमधिगम्यत्वात् सुखदुःखाभ्यां सामान्येन धर्म्माधर्म्ममात्रानुमानेऽपि तद्विशेषप्रतिपत्तौ वेदस्यैव साधनत्वादिति प्रतिज्ञातं धर्म्मस्य नोदनामातप्रमाप्रकत्वं सुस्थितमिति। दृष्टभिन्ने त्रि० “सर्वमदृष्टं शुचीति” स्मृत्यन्तरम्। “अदृष्टमप्यर्थमदृष्टवैभवात् करोति सुप्तिर्जनदर्शनातिथिमिति” नैष०। अज्ञातमात्रे त्रि०। “अदृष्टविरहव्यथमिति”। हितो०। “अदृष्टमद्भिर्निर्णिक्तमिति” स्मृतिः “अदृष्टमुपघातशङ्काभिरज्ञातमिति” रघु०। अदृष्टहेतुके भयादौ च। दैविकाग्निभयादेरदृष्टसाध्यत्वाददृष्टत्वम्।

अदृष्टपूर्व्व = त्रि० न पूर्व्वं दृष्टः सह सुपेति स० परनि०। पूर्ब्बमदृष्टे। “अदृष्टपूर्व्वं हृषितोऽस्मि दृष्ट्वेति” गीता।

अदृष्टि = स्त्री विरुद्धा दृष्टिः विरोधार्थे अभावार्थे वा न० त०। क्रूरदृष्टौ, सरोषवक्रदृष्टौ, दर्शनाभावे च। ब०। दृष्टिशून्ये त्रि०।

अदेय = त्रि० न० त०। देयभिन्ने दानायोग्ये च। दानायोग्यञ्च पुत्त्रादि–“स्वं कुटुम्बाविरोघेन देयं दारसुतादृते नान्वये सति सर्वस्वं यच्चान्यस्मै प्रतिश्रुतमिति” याज्ञ० “अन्वाहितं याचितकमाधिः साधारणञ्च यत्। निक्षेपः पुत्रदाराश्च सर्वस्वञ्चान्वये सति। आपत्खपि च कष्टासु वर्त्तमानेन देहिना। अदेयान्याहुराचार्य्या यच्चान्यस्मै प्रतिश्रुतम्” इत्येवं स्मृतिनिषिद्धदाने वस्तुनि “योऽदत्तं प्रतिगृह्णाति यश्चादेयं प्रयच्छतीति” तदादानमपि स्मृतौ निषिद्धम्। “मद्यमदेयमपेयमग्राह्यमिति” स्मृतिः।

अदेवत्र = त्रि० न देवान् त्रायते प्रीणाति अनेन त्रै–करणे क। देवप्रीणनासाधने अन्नादौ “अदेवत्रादराधस” श्रुतिः।

अदेवमातृक = पु० न० त०। देवमातृकदेशभिन्ने नदीवृष्ट्यम्बु सम्पन्नव्रीहिपालितदेशे। “वितन्वति क्षेममदेवमातृका” इति भार०।

अदेवयु = त्रि० न देव याति प्राप्नोति या–कु। देवाप्रापके। “अयज्वानमदेवयुमिति” ऋ० ५, ९, ११।

अदेश = पु० न० त०। गर्हितदेशे अयोग्यदेशे च। “नादेशे तर्पणं कुर्य्यात् न सन्ध्यां नापि पूजनमिति” स्मृतिः। “स्त्रियं स्पृशेददेशेय” इति स्मृतिः। गर्हितदेशाश्च स्मृतौ दर्शिताः केचित् संगृह्यन्ते। “चातुर्वर्ण्यव्यवस्था तु यस्मिन् देशे न वर्त्तते। तं म्लेच्छदेशं जानीयादार्य्यावर्त्तं ततःपरम्” इति विष्णु०। “आनर्त्तकाङ्गमगधाः सुराष्ट्राः दक्षिणापथः। तपा च सिन्धुः सौवीरा एते सङ्कीर्णयोनय इति” “पद्भ्यां स कुरुते पापं यः कलिङ्गान् प्रपद्यते। ऋषयो निष्कृतिस्तस्य प्राहुर्वैश्वानरं हविरिति” बौधा०। “अङ्गवङ्गकलिङ्गांश्च तीर्थयात्रां विना व्रजन्। प्रायश्चित्तं प्रकुर्वीतेति” स्मृतिः। इष्टदेशेऽपि केचित् श्राद्धतर्पणादौ विशेषतोवर्ज्याः यथा “रूक्षं कृमियुतं क्लिन्नं सङ्कीर्णानिष्टगन्धिकम्। देशं त्वनिष्टशब्दञ्च वर्ज्जयेत् श्राद्धकर्म्मणीति”। “न म्लेच्छविषये श्राद्धं कुर्य्यान्म्लेच्छेत्तुतं तथा नेष्टकाचरिते पितॄन् तर्पयेदिति” शङ्खलिखितौ। “परकीयगृहे यस्तु पितॄन् संतर्पयेद्यदि। तद्भूमिस्वामिनस्तस्य हरन्ति षितरो बलादिति” एवमन्येऽपि गर्ह्यत्वयोजकाः स्मृत्याद्युक्ता वेदितव्याः। “अदेशकाले यद्दानं–तद्दानं तामसं विदु” रिति सीता।

अदैव = न० दैवं वैश्वदेविकश्राद्धं तन्नास्ति यत्र। वैश्वदेविकश्राद्धशून्ये नित्यश्राद्धे। तस्य पार्वणेतिकर्त्तव्यतया वैश्वदेव श्राद्धप्राप्तौ “अदैविकन्तु तत् कार्य्यमिति” स्मृतौ पर्य्युदासा न्नात्र वैश्वदैविकम् धिकं नित्यश्राद्धशब्दे वक्ष्यते। अदैविकमप्यत्र। दैवं भाग्यम्। तच्छून्ये, दुर्भाग्यवति च त्रि०।

अदोष = पु० दोषः स्मृत्युक्तदुरदृष्टसाधनत्वम् अभावार्थे न० त०। स्मृत्युक्तदुरदृष्तसाधनत्वदोषाभावे। न० ब०। दोषशून्ये त्रि०। अलङ्कारोक्तदोषशून्ययोः शब्दार्थयोः “तददोषौ शब्दार्थौ सगुणावनलंकृती पुनः क्वापीति” काव्यप्र०। “अदोषं गुणवत् काव्यमिति” सरस्वतीक०।

अद्ग = न० अद्यते देवैः अद–कर्म्मणि गन्। पुरोडाशे उज्ज्वलद०।

अद्ध्वा = अव्य० अत्यते अत् तं सन्ततं गमनं ज्ञानं वा दधाति क्विप्। याथार्थ्ये, साक्षात्कारे, स्फुटे, अवधारणे, अतिशये च। “अद्धा श्रियं पालितसङ्गारायेति” रघुः। “यस्य स्यादद्धा न विचिकित्स्यास्तीति श्रुतिः। अयं स्वरादिः, चादिश्च तेनोभयस्वरता। साक्षादादिषु पाठात् अद्धाकृत्येत्यादौ समासे ल्यप्।

अद्भुत = न० अततीत्यत् अव्ययमाकस्मिकार्थे तथा भाति भा–डु तच्। आकस्मिके उल्कापातादौ, आलङ्कारिकप्रसिद्धे नवरसान्तर्गतविस्मयस्थायिभावके रसभेदे यथोक्तम् “अद्भुतो विस्मयस्थायिभावो गन्धर्व्वदैवतः।। पीतवर्णो वस्तु लोकातिगमालम्बनं मतम्। गुणानां तस्य महिमा भवेदुद्दीपनं पुनः।। स्तम्मः स्वेदोऽथ रोमाञ्चगद्गदस्वरसम्भ्रमाः। तथा नेत्रविकासाद्या अनुभावाः प्रकीर्त्तिताः।। वितर्कावेगसम्भान्तिहर्षाद्या व्यभिचारिणः इति”। यथा “दोर्द्दण्डाञ्चितचन्द्रशेखरधनुर्द्दण्डावभङ्गोद्यतष्टङ्कारध्वनिरार्य्यबालचरितप्रस्तावनाडिण्डिमः। द्राक्पर्य्यस्तकपालसंपुटमिलद्ब्रह्माण्डभाण्डोदरम्राम्यत्पिण्डितचण्डिमा कथमहो? नाद्यापि विश्राम्यति” इति।। तद्वति त्रि०। “कम्पाद्यद्भुतसप्ताहे इति” ज्योति०। अद्भुतस्वरूपविभागादि “प्रकृतिविरुद्धमद्भुतवचनन् प्रकृतिविरुद्धमद्भुतमापदः प्राक् प्रबोधाय देवाः सृजन्तीति” ज्योतिषतत्त्वे आर्थवण वाक्ये। “आपज्ज्ञानाय भूम्यादीनां पूर्ब्बं स्वभावप्रच्यावः देवकर्त्तृकोऽद्भुत” इति रघु०। तेषां त्रैविध्यादि अग्न्युत्पात शब्दे उक्तम्। “उदयति स्म तदद्भुतमालिभिरिति” नैष०। “तममद्भुतं बालकमम्बुजेक्षणमिति” भाग०।

अद्भुतस्वन = पु० अद्भुतः स्वनो यस्य ब०। महादेवे। कर्म्म०। आश्चर्य्यशब्दे। ब०। तथा भूतशब्दवति त्रि०।

अद्मनि = पु० अत्ति सर्वान् अद–मनिन्। अग्नौ।

अद्मर = त्रि० अद–कर्त्तरि क्मरच्। भक्षणशीले।

अद्य = अव्य० अस्मिन्नहनि इदम्शब्दस्य निपातः सप्तम्यर्थे। अस्मिन् दिवसे। “कृष्ण! त्वदीयपदपङ्कजपिञ्जरान्ते अद्यैव मे विशतु मानसराजहंस इत्युद्भटः। अद्यत्वे इत्यादिभाष्यप्रयोगात् तद्वृत्तावपि अस्य बोधकता। तेनाधारार्थत्वेऽपि अस्य समासान्तरवटकता “अद्यदिन मारभ्य इति” “अद्यप्रभृत्यवनताङ्गोति” कुमारः। एवञ्च वर्त्तमाने काले वर्त्तमानकालवृत्तौ च वृत्तिः “अद्यावधि भवद्भ्यो भिन्नोऽहमिति” वेणी०।

अद्यतन = त्रि० अद्य भवः अद्य + ट्यु तुडागमश्च। अद्यभवे वस्तुमात्रे। स्त्रियामद्यतनी। अद्यतनश्च अतीतो भविष्यच्चेति द्विधा। तत्र अद्यतनभूते लुङ् अपाक्षीत्। अद्यतनभविष्यति ऌट्। पक्ष्यति। अनद्यतनभूते तु लङ्–अपचत् अनद्यतने भविष्यति लुट् पक्त्वा।

अद्यत्व = न० अद्य तद्वृत्तेर्भावः अद्य + त्व। एतद्दिन वसवृत्तित्वे वर्त्तमानत्वे।

अद्यश्वीना = स्त्री अद्य श्वः परदिने वा प्रसोष्यते अद्य–श्वस् + ख टिलोपः। आसन्नप्रसवायां प्रौढगव्र्भिण्याम्। “अद्यश्वीनावष्टब्धे” इति पा०।

अद्रव = पु० अभावार्थे न० त०। द्रवाभावे। न० ब०। द्रवशून्ये त्रि० “अद्रवं मूर्त्तिमत् स्वाङ्गं प्राणिस्थमविकारजमिति” महाभाष्य०।

अद्रव्य = न० अप्राशस्त्ये न० त०। अप्रशस्तद्रव्ये अयोग्यपदार्थे “नाद्रव्ये निहिता काचित् क्रिया फलवती भवेदिति”

अद्रि = पु० अद–क्रिन्। पर्व्वते, तदवयवे प्रस्तरे ग्रावणि। वृक्षे, सूर्य्ये, मेघे, परिमाणभेदे च तद्भेदश्च परिमाणशब्दे वक्ष्यते तत्र ग्रावणि, अद्रिषुतः, मेघे “अद्रिमाता, पर्वते, दुहितरमनुकम्प्यामद्रिरादाय दोर्भ्यामिति” कुमा०।

अद्रिकर्ण्णी = स्त्री अद्रिः अद्रिनामिका गिरिर्बालमूषिका तस्याः कर्णः कर्ण्णतुल्यं पुष्पान्तःस्थं पत्रं यस्याः गौरादित्वात् ङीष्। बालमूषिकाकर्ण्णतुल्यपुष्पाभ्यन्तरपत्रायां अपराजितायाम्।

अद्रिकीला = स्त्री अद्रयः कुलाचलाः पर्वताः कीलाः शङ्कव इव यस्याः ब०। पृथिव्याम्। अद्रेः सुमेरोः कोल इव वा। विष्कुम्भपर्व्वते पु०। तद्विवरणं अचलकीलाशब्दे दृश्यम्।

अद्रिज = न० अद्रौ जायते जन–ड ७ त०। (शिलाजतु) इति स्वनामप्रसिद्धे गन्धद्रव्ये। (गेरि) इति प्रसिद्धे उपधाता- विति केचित्। पार्व्वत्यां स्त्री। पर्व्वतभवमात्रे त्रि०। सैंहलीवृक्षे स्त्री राजनि०। अद्रिजातादयोऽप्युक्तार्थेषु पर्वतजाते दवानले, सूर्य्यजे हंसे, रूपे आत्मनि च पु०।

अद्रितनया = स्त्री ६ त०। पार्व्वत्यां तद्विवृतिः अचलकन्या शब्दे द्रष्टव्या अद्रिसुतादयोऽप्यत्र। “अद्रिसुतासमागमोत्क” इति कुमा०।

अद्रिद्विष् = पु० अद्रिभ्यः द्वेष्टि द्विष–क्विप्। इन्द्रे। तस्य तद्द्वेष्टृत्रं गोत्रभिच्छब्दे दृश्यम्।

अद्रिदुग्ध = पु० अद्रिभिर्ग्रावभिर्दुग्धः अभिषुतः ३ त०। ग्रावाभिषुते सोमे, “तिरो रोम पवते अद्रिदुग्ध” इति ऋ०। ९, ९७, ११, “अद्रिदुग्धः ग्रावाभिषुत” इति भा०।

अद्रिद्रोणि = स्त्री अद्रेर्द्रोणिरिव। पर्वतभवनद्याम् “अद्रिद्रोणीरनपसारमार्गा” इति दश०।

अद्रिपति = पु० ६ त०। हिमाचले तद्विवरणम् अचलराजशब्द।

अद्रिबर्हस् = त्रि० अद्रेर्बर्ह इव बर्होऽस्य। अद्रिसारे अतिकठिने “पीदूषं द्यौरदितिरद्रिवर्हा” इति ऋ० १०, ६३, ३।

अद्रिबुध्न = पु० उपमा० ब०। अतिकठिने। “अयं निधिः सरमे अद्रिबुध्न इति” ऋ० १०, १०८, ७,।

अद्रिभिद् = पु० अद्रिं भिनत्ति भिद–क्विप् ६ त०। इन्द्रे। गोत्रभिच्छब्दे तद्भेदेन विवरणम्।

अद्रिभू = स्त्री अद्रावपि भवति भू–क्किप् ७ त०। अपराजिता लतायाम् तस्याः पर्वतेऽप्यतिकठोरभूमिके जायमानत्वात्तथात्वम्। पार्वत्यां स्त्री। पर्वतजातमात्रे त्रि०।

अद्रिमातृ = पु० अद्रिर्मेघस्तज्जलं मिमीते मा–तृच्। मेघजलनिर्म्मातरि ‘स्वर्वित् कोशं दिवो अद्रिमातरमिति’ ऋ० ९, ८६, ३।

अद्रिराज = पु० अद्रीणां राजा टच्समा०। हिमाचले। अद्रिषु राजतेक्विप् अद्रिराडपि अत्रैव पु०। विवणमचलराजशब्दे।

अद्रिषुत = पु० अद्रिभिः ग्रावभिः सुतः अभिषुतः ३ त० षत्वम्। ग्रावाभिषुते सोमे। “नृधूतो अद्रिषुतोवर्हिषीति” ऋ० ९, ७२, ४ अद्रिषुतः ग्रावभिरभिषुत इति भाष्यम्।

अद्रिसहत = पु० अद्रिभिः संहतम् अभिषुतम्। ग्रावाभिषुते सोमे “स्वसारो अद्रिसंहताविति” ऋ० ९, ९८, ६, अद्रिरिव संहतः कठिनः। अतिकठिने त्रि०।

अद्रिसार = पु० अद्रेः सार इव। लौहे। अद्रेरिव सारोऽस्य अतिकठिने त्रि०।

अद्रिसारमय = त्रि० अद्रिसारात्मकः। अत्यन्तकठिने।

अद्रीश = पु० अद्रीणाम् अद्रेर्वा ईशः ६ त०। हिमाचले, शिवे च।

अद्रुह्वन् = त्रि० द्रुह–क्वनिप् न० त०। द्रोहाकर्त्तरि–“ता वां सम्यगद्रुह्वाणेषमिति” ऋ० ५, ७०, २, “हे अद्रुह्वाणा अद्रोग्धाराविति” भाष्यम्।

अद्रोघ = त्रि० द्रुह–घञ् वेदे घत्वम् न० ब०। द्रोहरहिते “त्वं देहि सहस्रिणं रयिं नोऽद्रोघेणेति” ऋ० ३, ३२, ६, “अद्रो षेण द्रोहरहितेनेति” भा०। न० त०। द्रोहाभावे पु०।

अद्रोघावित = त्रि० अद्रोघः अवितो येन। अद्रोहरक्षके। “कृणुत धूमं वृषण सखायोऽद्रोघाविता” इति वेदः।

अद्रोह = पु० अभावार्थे न० त०। द्रोहाभावे “अद्रोहोनाभिमानितेति” “अद्रोहः सर्वभूतानामिति” च पुरा०।

अद्वय = न० न द्वयम्। द्वित्वाभावे। नास्ति द्वयं द्वित्वं तज्ज्ञानं वा यस्य। सर्वात्मतया आत्मज्ञे ब्रह्मात्मैक्यज्ञे, अभेदे च। “अर्थतोऽप्यद्वयानन्दमतीतद्वैतभानत” इति वे० सा०। ब्रह्माद्वयं पश्यत इति अद्वयं विज्ञानाभेदः पदार्थानामस्त्यस्य वादकत्वेन अस्त्यर्थे अच्। बौद्धभेदे ते हि “सहोपालम्भनियमादभेदो नीलतद्धियोरित्यनेन” पदार्थानां संविदभिन्नत्वं वदन्ति विवरणं बौद्धशब्दे दृश्यम्।

अद्वयवादिन् = पु० अद्वयं वदति सर्व्वमेव वस्तु चित्खंरूपं नान्यदतो द्वितीयमस्तीति वदतीति वद–णिनि। अद्वैतवादिनि वैदान्तिके, वाह्यर्थाभावेन ज्ञानात्मकं सर्वं वस्तु स्वीकुर्वति बौद्धे च।

अद्वयस् = त्रि० नास्ति द्वयं द्वित्वमस्य ब० यीगविभागात् असिच् समा०। द्वित्वरहिते। “सखा सुशेवो अद्वया इति” ऋ० १, १८७, ३, “अद्वया द्वयरहित” इति भाष्यम्।

अद्वयानन्द = पु० नास्ति द्वयं द्वित्वं भेदः तज्ज्ञानं वा यस्य यत्र वा तादृश आनन्दः। ब्रह्मरूपानन्दे अद्वैतानन्दे। “अर्थतोऽप्यद्वयानन्दमतीतद्वैतभावत इति” वे० सा०।

अद्वयाविन् = त्रि० अद्वयमस्त्यर्थे विनि छन्दसि दीर्घः देवपितृयानरूपमार्गद्वयरहिते। “पुत्रस्य पाथः पदमद्वयाविन” इति ऋ० १, ४ १५९, ३, अद्वयाविनः मार्गद्वयरहितस्येति भाष्यम्।

अद्वयु = त्रि० द्वयं द्विप्रकारोऽस्त्यस्य बा० उ न० त०। द्विप्रकाररूपकापट्यशून्ये अन्तर्वाह्यैकरूपे “उप द्वयुञ्चाद्वयुञ्च वसव इति” ऋ० ८, १८, १५।

अद्वार = न० निन्दितं द्वारम्। प्रवेशानर्हे गुप्तद्वारे “अद्वारेण प्रवेशनमिति” “अद्वारेण न चातीयाद्ग्रामं वा वेश्म वा पुरमिति” च पुरा०। नास्ति द्वारमस्य ब०। प्रवेशायोग्ये दुष्प्रवेशे, अगम्ये अनुपाये च त्रि०।

अद्वितीय = त्रि० द्विधा इतं भेदं गतम् द्वीतम् तस्य भावः द्वैतं तन्नास्ति यस्य ब०। सजातीयादिभेदशून्ये केवले परमात्मनि। वस्त्वद्वितीयमिति मा० “एकमेवाद्वितीयं ब्रह्मेति” श्रुतिः। “अत्र एकम्, एव, अद्वितीयमिति” पदत्रयेण ब्रह्मणि भेदत्रयराहित्यमुक्तम्। तथाहि भेदस्तावत् त्रिधा स्वगतभेदः सजातीयभेदः विजातीयभेदश्चेति। वृक्षादीनां स्वावयवशाखादिभ्यो भेदः स्वगतभेदः, घटात् घटान्तरस्य भेदः सजातीयभेदः, घटस्य पटादितो भेदः विजातीयभेदः। ब्रह्मणश्च “तदनन्यत्वमारम्भणशब्दादिभ्य” इति सूत्रेण स्वकार्य्यात् घटादितोऽनन्यत्वात् न स्वगतभेदः। घटादेर्व्यवहारिकसत्त्ववत्त्वेन पारमार्थिकसत्त्ववतो ब्रह्मणः विजातीयत्वेऽपि ततोऽभेदएव तद्भिन्नस्याभावात् “सर्वं खल्विदं ब्रह्मेति” श्रुत्यन्तरात् तत्सजातीयवस्त्वन्तराभावादेव तद्भेदः सिद्धएवेत्यादिकमाकरे दृश्यम्। द्वितीयशून्ये, असहचरे त्रि०।

अद्विषेण्य = त्रि० द्वेष्टुं शीलमस्य, द्विष–एण्यन्–किच्च न० त०। प्रियरूपे, “मयोभुरद्विषेण्यः सखेति” ऋ० १, १८७, ३, अद्वेषिण्यः अद्वेष्यरसः प्रियरस इति भाष्यम्।

अद्वेष = पु० न द्वेषः अभावार्थे न० त०। द्वेषाभावे। ब०। द्वेषरहिते त्रि०। “अद्वेषो हस्तयोर्दधे” इति ऋ० १, २४, ४, “अद्वेषः द्वेषरहितः नास्ति द्वेषोऽस्येति” भाष्यम्। एतेन अद्वेषःशब्दे एतन्मन्त्रस्योदाहरणत्वेनोपन्यासः केषाञ्चित् भाष्यादर्शनमूलकः।

अद्वेषस् = त्रि० द्विष–असुन् न० त०। द्वेषानाश्रये द्वेषाकर्त्तरि “अद्वेषो मरुतो गातुमेतनेति” ऋ०, ५, ८७, ८, “अद्वेषः अद्वेषस” इति भाष्यम्।

अद्वैत = न० द्विधा इतम् द्वीतं तस्य भावः द्वैतं भेदः अभावार्थे न० त०। अभेदे, “अद्वैतं सुखदुःखयोरनुगुणं सर्व्वास्ववस्थासु यदिति” उत्तरचरितम्। नास्ति द्वैतं भेदो यत्र। भेदरहिते त्रि० ब्रह्मणि न०। “अद्वैततत्त्व इव सत्यतरेऽपि लोक” इति नैषधम्।

अद्वैतसिद्धि = पु० अद्वैतस्य जगतो ब्रह्माभेदस्य सिद्धिरत्र। स्वनामख्याते वेदान्तप्रकरणभेदे ६ त०। तत्सिद्धौ स्त्री।

अध = अव्य० अथ वेदे “सुपांसुलुगित्यादिना” वर्णव्यत्ययः। अथशब्दार्थे “अधा निबद्ध उत्तर” इति ऋ० ४, १८, ९, अधा “अथानन्तरमिति” भा०। अधापीषस्य पोषेणेति य० १२, ८, अधेति अव्ययम् अथार्थे “निपातस्य चेति” पा० दीर्ष इति वेददीपः।

अधःकाय = पु० अधः अधरं कायस्य एकदेशिस०। नाभेरधःप्रदेशे नेत्यनुवृत्तौ “केशान्नीविमधःकायं संस्पृशन् धरणीमपीति” स्मृतिः। “अधःकायं नीवेरधःप्रदेशमिति” रघु०।

अधःकार = पु० अधरमित्यर्थे अधः तस्य कारः। न्यूनीकरणे, तिरस्कारे, अधरीकरणे च।

अधःक्षिप्त = त्रि० अधोमुखेन क्षिप्तम् क्षिप–क्त शाक० त०। अधोमुखतया स्थापिते न्यञ्चिते न्युब्जीकृते,ऽधस्तान्निहिते च।

अधःपुष्पी = स्त्री अधोमुखं पुष्पं यस्याः (अनन्तमूल) गोजिह्वायाम् अवाक्पुष्प्याम् (भाटुइ) इति ख्याते वृक्षे इत्यन्ये।

अधः(धश्श)शय्या = स्त्री अधोवर्त्तिनी शय्या वा सत्वम्। खट्वावर्जनेन भूमिशय्यायाम् “अग्नीन्धनं ब्रह्मचर्य्यमधःशय्यां गुरोर्हितम्। आ समावर्त्तनात् कुर्य्यादिति” मनु०।

अधन = त्रि० नास्ति धनमस्य। धनहीने दरिद्रे स्वातन्त्र्यरहिते च। “अधनो हि धनं लब्ब्धा तृणवत् मन्यते जगदिति” नीति०। “भार्य्या पुत्रश्च दासश्च त्रय एवाधनाः स्मृताः। यत्ते समधिगच्छन्ति यस्यैते तस्य तद्धनमिति” मनुः। “स्वातन्त्र्यराहित्यपरमिति” दायभागः।

अधम = त्रि० अव–अम–धादेशः। कुत्सिते, हीने च। “सर्वत्र त्रिविधा भेदा उत्तमाधममध्यमा” इति। “अधमसमवरिष्ठा न्यर्ककेन्द्रादिसंस्थे शशिनि विनयवित्तज्ञानधीनैपुणानामिति” ज्योतिषोक्ते नॄणां वित्तज्ञानादिषु अधमत्वसूचके रविचन्द्रयोः स्थितिविशेषरूपे योगभेदे।

अधमभृतक = पु० कर्म्म०। “उत्तमस्त्वायुधीयोऽत्र मध्यमस्तु कृषीवलः। अधमो भारवाही स्यादित्येवं त्रिविधो भृत इति” स्मृत्युक्ते, पञ्चविधशुश्रूषकमध्ये भृतकर्भेदे।

अधमर्ण = त्रि० ऋणं अवश्यदेयम् तत् अधमं शोध्यं यस्य ब०। अवश्यदेयर्णशोधके (खातक) इति प्रसिद्धे ऋणग्रहीतरि।

अधमर्णिक = त्रि० अधममृणमवश्यदेयं दातृत्वेनास्त्यस्य ठन्। अधमर्णशब्दार्थे। “ग्रहीता च क्रमाद्दाप्यो धनिनामधमर्णिक” इति याज्ञ० “यैर्यैरुपायैरर्थं स्वं प्राप्नुयादुत्तमर्णिकः। तैस्तैरुपायैः संगृह्य दापयेदधमर्णिकमिति” मनुः। अस्त्यर्थे इनि। अधमर्णीत्यप्यत्रैव त्रि० स्त्रियां ङीप्।

अधमाङ्ग = न० अधमम् अङ्गम् कर्म्म०। चरणे। तस्य सर्व्वाङ्गापेक्षया अधरस्थत्वात् अधमत्वम्।

अधमार्द्ध = न० अधममर्द्धम्। नाभेरधोभागे। ततः भवादौ यत्। अधर्माद्ध्यम् तद्भवादौ, तत्सम्बन्धिनि च त्रि०।

अधर = पु० न ध्रियते धृङ–अच् न० त०। (ठोट) इति ख्याते ऊर्द्ध्व, नीचे वा ओष्ठे। “पिबसि रतिसर्वस्वमधरमिति” शकु०। “निर्मृष्टरागोऽधर” इति सा० दर्प०। “उमामुहे विम्बफलाधोरोष्ठे” इति कुमा०। “अधरं खलु विम्बनामकं फलमाभ्यामिति भव्यमन्वयम्। लभतेऽधरविम्बैत्यदः पदमस्या रदनच्छदे वददिति” नैष०। धरणं धरः ब०। तत्सम्बन्धरहिते हीने, ५ ब०। तले नीचे च स्मरमन्दिरे स्त्रीचिह्नभेदे पु० न०। हीनवादिनि त्रि०। अघं सर्वनामकार्य्यभाक्। तत्रायं विशेषः पूर्व्वपरावरदक्षिणोत्तरापराघराणि व्यवस्थायामसंज्ञायामिति (पा० ग०)। इत्युक्तेः व्यवस्थायामेवास्य सर्वनामताव्यवस्था च स्वाभिधेयापेक्षोऽवधिनियमः। अवधित्वञ्च दैशिकं कालिकञ्च तत्र “पूर्ब्बापरादिशब्द्सानां केषाञ्चित् प्रविभागतः। सामान्येनाभिवानेऽपि प्रवृत्तिर्देशकालयोरित्य” भियुक्तोक्तेः केषाञ्चिदेव उभयावधित्वनियमः न सर्वेषाम्, तथाहि पूर्ब्बापरावरपरोत्तरशब्दा मुख्यवृत्त्या दिक्कालयोर्वर्त्तन्ते तदवच्छिन्नदेशग्रामादौ च। तत्र पूर्ब्बस्यं दिशि वसति, पूर्ब्बस्यादिश आगतः पूर्बदिक्सम्बन्धात् पूर्ब्बा वापी। एवं पूर्ब्बस्मिन् मासे वसति पूर्व्वस्मात् मासान्निवृत्तः। तत्कालसम्बन्धात् पूर्ब्बो गुरुः पूर्ब्बस्मिन् गुरोरागतः पूर्ब्बस्मात् प्रासादादागत इत्यादि। एवम् अपरावरपरशब्दत्रयस्यापि “ते च विनापि दिक्कालसम्बन्धं देशवृत्तिमन्तः इति भेदः। अपरदेशसम्बन्धादपरो ग्रामः अवरो वा। अपरस्मिन् अवरस्मिन् वा पर्व्वते वसति। सन्निकर्षे विप्रकर्षे च सर्व्वासु दिक्षु तुल्योऽयं व्यपदेशः। न तु ते दिग्गतसम्बन्धेन तत्तदर्थ बोधकाः एकस्यामेव दिशि स्थितयोर्निकटानिकटयोः परावरादिव्यपदेशप्रवृत्तेः। एतच्छब्दापेक्षया मुख्यवृत्त्या वक्ष्यमाणकारिकायां देशग्रहणम् सार्थकं अन्यस्य तु स्वतो देशवृत्तित्वम्। सन्निकर्षासन्निकर्षयोर्देशवत् कालोऽप्याश्रयः। तेन परः अपरः अवरो वा कालः। अतएव परकालसम्बन्धात् परःपाणिनिः अपरकालसंबन्धादपरः कैयटादिरिति। दक्षिणाधरशब्दौ तु दिशि दिगवच्छिन्ने पर्वतादौ च वर्त्तेते न तु काले, नापि कालावच्छिन्ने इति भेदः। दक्षिणस्यां वसति, दक्षिणे पर्वते वा वसति, अवरस्यां दिशि वसति अधरदिक्सम्बन्धात् अधरप्रासादे वा वसति इति। तेन “स्वस्त्वज्ञातिधनेऽनाम्नि कालदिग्देशवृत्तयः। पूर्ब्बापरावरधरापराश्च दक्षिणोत्तरौ” इति गणरत्ने सर्वेषां कालादिवृत्तित्वोक्तावपि दक्षिणाधरयोस्तु न कालवृत्तित्वमिति तेनैव स्वकृतव्याख्यानरूपे गणरत्नमहोदधौ स्थिरीकृतम्। दक्षिणस्यां दिशि स्त्री० दक्षिणदिशश्च भूगोले यथाधरत्वं तथा उदक्शब्दे वक्ष्यते। सर्वनाम्नां वृत्तौ पुंवद्भावात् अधरस्यां भवः अधरतन इत्यादि अधरस्यां वर्त्तते अधरवृत्तिः अधरा अधरस्याः अधरस्यामित्यर्थे अधरत इत्यादि।

अधरतस् = अव्य० अधर–तसिल्। प्रथमापञ्चमीसप्तम्यर्थवृत्तौ अधोभागे इत्यर्थे।

अधरत्तात् = अव्य० अधर + अस्ताति पृ०। अधरत इत्यर्थे। “पुरस्तात् सवितोत्तरत्तादधरत्तादिति” ऋ० १०, ३६, १४,

अधरमधु = न० अधरस्य मध्विव आस्वादातिशयात्। अधररसे।

अधरस्तात् = अव्य० अधर + सप्तप्याद्यर्थे अस्ताति। अधरतैत्यर्थे

अधराच् = त्रि० अधरां दक्षिणां दिशमञ्चति क्विप्। दक्षिण दिग्गन्तरि। “प्राङ् वा उदङ् वाऽधराङ् वा प्रध्मायीताभिनद्धाक्ष इति छा० उ०। स्त्रियामधराचीति। सा च दक्षिणस्यां दिशि च।

अधराचीन = त्रि० अधराचि भवः अधराच् + ख। अधःप्रदेशभवे। “अधराचीनमकृणोदपामप” इति ऋ० २, १७, ५,

अधराच्य = त्रि० अधरच्यां भवः यत्। दक्षिणदिग्भवे अधोदिग्भवे च। “अरसं प्राच्यं विषमरसं यदुदीच्यम् अथैकमधराच्यमिति” वेदः।

अधरात् = अव्य० अधर + अस्त्यर्थे आति। अधरतैत्यस्यार्थे। “पश्चादोत्तरादधरादापुरस्तादिति” ऋ० ६, ९, ९, अधरात् दक्षिणत इत्यर्थः।

अधरीण = त्रि० अधरे भवः अधर + ख। अधरभवे।

अधरेण = अव्य० अधरस्मिन् देशे, दिशि वा अधर + एनप्। प्रथमासप्तमीवृत्तौ आसन्ने नीचे देशादौ, सन्निकृष्टदक्षिणदिशि च।

अधरेद्युस् = अव्य० अधरे दिने अधर + एद्युस्। कालवृत्तित्वमुपचारात्। अधरदिवसे।

अधरोत्तर = न० अधरञ्च उत्तरञ्च समा० द्व०। न्यूनाधिक्यवति निम्नोन्नते। “अद्यात् काकः पुरोडाशंश्वावलिह्याद्धविस्तथा स्वाम्यं च न स्यात् कस्मिंश्चित् प्रवर्त्तेतावरोत्तरमिति” मनुः।

अधर्म्म = पु० ध्रियतेऽनेन धृ–मनिन् विरोधे न० त०। धर्म्मविरोधिनि वेदादिनिषिद्धकर्म्मजन्ये पापे, तद्धेतुभूतप्राणिहिंसादौ च। “नोदनालक्षणोऽर्थोधर्म” इति सूत्रकारेण निषेधलक्षणोऽनर्थोऽधर्म इति तल्लक्षणं सूचितम् तत्र वेदप्रतिपाद्योऽर्थोघर्म्मः, तन्निषेधप्रतिपाद्योऽनर्थः अधर्मः। स च निषिद्धकर्म्माधीनः पापनामा अदृष्टभेदः। अनर्थश्च अनिष्टसाधनम्। तत्सत्त्वयुक्तिस्तु “विहितस्याननुष्ठाना- न्निन्दितस्य च सेवनात् अनिग्रहाच्चेन्द्रियाणाम् नरः पतनमृच्छतीति”। “शरीरजैः कर्मदोषैर्याति स्था चरतां नर” इत्यादिना शास्त्रेण कर्मणामाशुविनाशिनां कालान्तरभाविनरकादिजन्मविशेषान् प्रति हेतुत्वोक्तावपि तथात्वं मध्यस्थद्वारीभूतमदृष्टं विना न सम्भवतीति तत् कल्प्यते अतः “चिरध्वस्तं फलायालमित्यादिना” अदृष्टशब्दे दर्शितयुक्तेश्च पापसत्त्वसाधनम्। “अधर्मेणधते तावत् ततो भद्राणि पश्यति। ततः सपत्नान् जयति समूलस्तु विनश्यतीति” मनुः। “अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहमिति” गीता। अधर्म्मभेदात्गतिविशेषोक्तेश्चाधर्मसत्त्वम् यथा “कर्म्मभिर्नियतैर्बद्धो जन्तुर्दुःखान्युपाश्नुते। येन येन तु भावेन कर्म्मणा पुरुषो गतिम्। प्रयाति परुषां घोरां तत्ते वक्ष्याम्यतः परम्। अधीत्य चतुरो वेदान् द्विजो मोहसमन्वितः। पतितात् प्रतिगृह्याथ खरयोनौ प्रजायते। खरो जीवति वर्षाणि दश पञ्च च भारत!। खरो मृतो बलीवर्द्दः सप्त वर्षाणि जीवति। बलीवर्द्दो मृतश्चापि जायते ब्रह्मराक्षसः। ब्रह्मरक्षश्च मासांस्त्रींस्ततो जायेत ब्राह्मणः। पतितं याजयित्वा तु कृमियोनौ प्रजायते। तत्र जीवति वर्षाणि दश पञ्च च भारत!। कृमिभावाद्विमुक्तस्तु ततो जायेत गर्द्दभः। गर्द्दभः पञ्च वर्षाणि पञ्च वर्षाणि शूकरः। कुक्कुटः पञ्च वर्षाणि पञ्च वर्षाणि जम्बुकः। श्वा वर्षमेकं भवति ततो जायेत मानवः। उपाध्यायस्य यः पापं शिष्यः कुर्य्यादबुद्धिमान्। स जीव इह संसारांस्त्रीनाप्नोति न संशयः। प्राक् श्वा भवति राजेन्द्र! ततः क्रव्यात्ततः खरः। ततः प्रेतः परिक्लिष्टः पश्चाज्जायेत ब्राह्मणः। मनसाऽपि गुरोर्भार्य्यां यः शिष्यो याति पापकृत्। स उग्रान् प्रैति संसारानधर्म्मेणेह चेतसा। श्वयोनौ तु स सम्भूतस्त्रीणि वर्षाणि जीवति। तत्रापि निधनं प्राप्तः कृमियोनौ प्रजायते। कृमिभावमनुप्राप्तो वर्षमेकन्तु जीवति। ततस्तु निधनं प्राप्तो ब्रह्मयोनौ प्रजायते। यदि पुत्त्रसमं शिष्यं गुरुर्हन्यादकारणे। आत्मनः कामकारेण सोऽपि हिंस्रः प्रजायते। पितरं मातरञ्चैव यस्तु पुत्त्रोऽवमन्यते। सोऽपि राजन्! मृतो जन्तुः पूर्ब्बं जायेत गर्दभः। गर्द्दभत्वन्तु सम्प्राप्य दश वर्षाणि जीवति। संवत्सरन्तु कुम्मीरस्ततो जायेत मानवः। पुत्त्रस्य मातापितरौ यस्य रुष्टावुभावपि। गुर्व्वपध्यानतः सोऽपि मृतो जायेत गर्दभः। खरो जीवति मासांस्तु दश श्वा च चतुर्दश। विडालः सप्त मासांस्तु ततो जायेत मानवः। मातापितरावाक्रुश्य सारिकः सम्प्रजायते। ताडयित्वा तु तावेय जायते कच्छपो नृप!। कच्छपो दशवर्षाणि त्रीणि वर्वाणि शल्लकः। व्यालो भत्वा च षण्मासांस्ततो जायेत मानुषः। भर्तृपिण्डमुपाश्नन् यो राजद्विष्टानि सेवते। सोऽपि मोहसमापन्नो मृतो जायेत वानरः। वानरो दश वर्षाणि पञ्च वर्षाणि मूषिकः। श्वाऽथ भूत्वाऽथ षण्मासांस्ततो जायेत मानुषः। न्यासापहर्त्ता तु नरो यमस्य विषयं गतः। संसाराणां शतं गत्वा कृमियोनौ प्रजायते। तत्र जीवति वर्षाणि दश पञ्च च भारत!। दुष्कृतस्य क्षयं कृत्वा ततो जायेत मानुषः। असूयको नरश्चापि मृतो जायेत शार्ङ्गकः। विश्वासहर्त्ता च नरो मीनो जायेत दुर्म्मतिः। भूत्वा मीनोऽष्ट वर्षाणि मृगो जायेत भारत। मृगस्तु चतुरो मासांस्ततश्छागः प्रजायते। छागस्तु निधनं प्राप्य पूर्णे संवत्सरे ततः। कीटः प्रजायते जन्तुस्ततो जायेत मानुषः। धान्यान् यवांस्तिलान् माषान् कुलत्थान् सर्षपांश्चणान्। कलायानथ मुद्गांश्च गोधू मानतसीस्तथा। शस्यस्यान्यस्य हर्त्ता च मोहाज्जन्तुरचेतनः। स जायते महाराज! मूषिको निरपत्रपः। तत्र प्रेत्यमहाराज! मृगो जायेत शूकरः। शूकरो जातमात्रस्तु रोगेण म्रियते नृप!। श्वा ततो जायते मृढः कर्म्मणा तेन पार्थिव!। भूत्वा श्वा पञ्च वर्षाणि ततो जायेत मानवः। परदाराभिमर्षन्तु कृत्वा जायेत वै वृकः। श्वा शृगालस्ततो गृध्रो व्यालः कङ्को वकस्तथा। भ्रातुर्भार्य्यान्तु पापात्मा यो धर्षयति मोहितः। पुंस्कोकिलत्वमाप्नोति सोऽपि संवत्सरं नृप!। सखिभार्य्यां गुरोर्भार्य्यां राजभार्य्यान्तथैव च। धर्षयित्वा तु कामाय मृतो जायेत शूकरः। शूकरः पञ्च वर्षाणि दश वर्षाणि वे वृकः। विडालः पञ्च वर्षाणि दश वर्षाणि कुक्कुटः। पिपीलकस्तु मासांस्त्रीन् कीटः स्यान्मासमेव तु। एतानासाद्य ससारान् कृमियोनौ प्रजायते। तत्र जीवति मासांस्तु कृमियोनौ चतुर्द्दश। ततोऽधर्म्मक्षयं कृत्वा पुनर्ज्जा मानवः। उपस्थिते विवाहे तु यज्ञे दानेऽथवा विभो!। मोहात्करोति यो विघ्न स मृतो जायते कृमिः। कृमिर्ज्जीवति वर्षाणि दश पञ्च च भारत!। अधर्मस्य क्षयं कृत्वा ततो जायेत मानवः। पूर्ब्बं दत्त्वा तु यः कन्यां द्विनीये दातुमिच्छति। सोऽपि राजन। मृतो जन्तुः कृमियोनौ प्रजायते। तत्र जीवति वर्षाणि त्रयोदश युधिष्ठिर!। अधर्म्मसङ्खये मुक्तस्ततो जायेत मानुषः। देवकार्य्यमकृत्वा तु पितृकार्य्यमथापि वा। अनिर्व्वाप्य समश्नन् वै मृतो जायेत वायसः। वायसः शतवर्षाणि ततो जायेत कुक्कुटः। जायते व्यालकश्चापि मासं तस्मात्तु मानुषः। ज्येष्ठं पितृसमञ्चापि भ्रातरं योऽवमन्यते। सोऽपि मृत्युमुपागम्य क्रौञ्चयोनौ प्रजायते। क्रौञ्चो जीवति मासांस्तु दश द्बौ सप्त पञ्च च। ततो निधनमापन्नो मानुषत्वमुपाश्नुते। वृषलो ब्रह्मणीं गत्वा कृमियोनौ प्रजायते। ततः सम्प्राप्य निधनं जायते शूकरः पुनः। शूकरो जातमात्रस्तु रोगेण म्रियते णृप!। श्वा ततो जायते मूढः कर्म्मणा तेन पार्थिव!। श्वा भूत्वा कृतकर्म्माऽसौ जायते मानुषस्ततः। तत्रापत्यं समुत्पाद्य मृतो जायेत मूषिकः। कृतघ्नस्तु मृतो राजन्! यमस्य विषयं गतः। यमस्य पुरुषैः क्रुद्धैर्ब्बधं प्राप्नोति दारुणम्। दण्डं समुद्गरं शूलमग्निकुम्भञ्च दारुणम्। असिपत्रवनं घोरं बालुकां कूटशाल्मलीम्। एताश्चान्याश्च वह्वीः स यमस्य विषयं गतः। यातनाः प्राप्य तत्रोग्रास्ततो बध्यति भारत!। ततो हतः कृतघ्नः स तत्रोग्रैर्भरतर्षभ!। संसारचक्रमासाद्य कृमियोनौ प्रजायते। कृभिर्भवति वर्षाणि दश पञ्च च भारत!। ततो गर्भं समासाद्य अत्रैव म्रियते शिशुः। ततो गर्भशतै र्जन्तुर्ब्बहुभिः सम्प्रपद्यते। संसारांश्च बहून् गत्वा ततस्तिर्य्यक् प्रजायते। ततो दुःखमनुप्राप्य बहुवर्षगणानिह। अपुनर्भवसंयुक्तस्ततः कूर्म्मः प्रजायते। दधि हृत्वा वकश्चापि प्लवो मत्स्यानसंस्कृतान्। चोरयित्वा तु दुर्ब्बुद्धिर्मधुदंशः प्रजायते। फलं वा मूलकं हृत्वा अपूपं वा पिपीलिकाः। चोरयित्वा तु निष्पावं जायते हलगोलकः। पायसं चोरयित्वा तु तित्तिरित्वमवाप्यते। हृत्वा पिष्टमयं पूपं कुम्भोलूकः प्रजायते। अयो हृत्वा तु दुर्ब्बुद्धिर्वायसो जायते नरः। कांस्यं हृत्वा तु दुर्ब्बुद्धिर्हारीतो जायते नरः। राजतं भाजनं हृत्वा कपोतः संप्रजायते। हृत्वा तु काञ्चनं भाण्डं कृमियोनौ प्रजायते। पत्रोर्णं चोरयित्वा तु क्रकरत्वं स गच्छति। कौशिकन्तु ततो हृत्वा नरो जायेत वर्त्तकः। अंशुकं चोरयित्वा तु शुको जायेत मानवः। चोरयित्वा दुकूलन्तु मृतो हंसः प्रजायते। क्रौञ्चः कार्पासिकं हृत्वा मृतो जायेत मानवः। चोरयित्वा नरः पट्टं त्वाविकञ्चैव भारत!। क्षौमञ्च वस्त्रमादाय शशो जन्तुः प्रजायते सर्णान् हृत्वा तु पुरुषो मृतो जायेत वर्हिणः। हृत्वा रक्तानि वस्त्राणि जायते जीवजीवकः। वर्णकादींस्तथा गन्धांश्चोरयित्वेह मानवः। छुच्छुन्दरित्वमाप्नोति राजन्! लोभपरायणः। तत्र जीवति वर्षाणि ततो दश च पञ्च च। अधर्म्मस्य क्षयं कृत्वा ततो जायेत मानवः। चोरयित्वा पयश्चापि बलाका सम्प्रजायते। यस्तु चोरयते तैलं नरो मोहसमन्वितः। सोऽपि राजन्! मृतो जन्तुस्तैलपायी प्रजायते। अशस्त्रं पुरुषं हत्वा सशस्त्रः पुरुषाधमः। अर्थार्थी यदि वा वैरी स मृतो जायते खरः। खरो जीवति वर्षे द्वे ततः शस्त्रेण बध्यते। स मृतो मृगयोनौ तु नित्योद्विग्नोऽभिजाबत। मृगो बध्यति शस्त्रेण गते संवत्सरे तु सः। हतो मृगस्ततो मीनः सोऽपि जालेन बध्यते। मासे चतुर्थे सम्प्राप्ते श्वापदः सम्प्रजायते। श्वापदो दश वर्षाणि द्वीपी वर्षाणि पञ्च च। ततस्तु निधनं प्राप्य कालपर्य्यायनीदितः। अधर्म्मस्य क्षयं कृत्वा ततो जायेत मानुषः। स्त्रियं हत्वा तु दुर्बुद्धिर्य्यमस्य विषयं गतः। बहुक्लेशान् समासाद्य संसारांश्चैव विंशतिम्। ततः पश्चान्महाराज! कृमियीनौ प्रजायते। कृमिर्विंशतिवर्षाणि भूत्वा जायेत मानुषः। भोजनं चोरयित्वा तु मक्षिका जायते नरः। मक्षिकासङ्घवशगो बहून् मासान् भवत्युत। ततः पापक्षयं कृत्वा मानुषत्वमवाप्नुते। धान्यं हृत्वा तु पुरुषो लोमशः सम्प्रजायते। तथा पिण्याकसंमिश्रमशनं चोरयन्नरः। स जायते वस्तुसमो दारुणो मूषिको महान्। दशन् वै मानुषं नित्यं पापात्मा स प्रजायते। घृतं हृत्वा तु दुर्बुद्धिः काकमद्गुः प्रजायते। मत्स्यमांण्मथो हृत्वा काको जायेत दुर्म्मतिः। लवणं चोरयित्वा तु चौरिकाकः प्रजायते। विश्वासेन तु निक्षिप्तं यो वै निह्नौति मानवः। स गतायुर्नरस्तादृक् मत्स्ययोनौ प्रजायते। मत्स्ययोनिमनुप्राप्य मृतो जायेत मानवः। मानुषत्वमनुप्राप्य क्षीणायुरुपपद्यते। पापानि तु नरः कृत्वा तिर्य्यग् जायेत भारत!। न चात्मनः प्रमाणन्ते धर्म्मं जानन्ति किञ्चन। ये पापानि नराः कृत्वा निरस्यन्ति व्रतैः सदा। सुखदुःखसमायुक्ता व्याधितास्ते भवन्त्युत। असंवासाः प्रजायन्ते म्लेच्छा अपि न संशयः। नराः पापसमाचारा लोभमोहसमन्विताः। वर्ज्जयन्ति च पापानि जन्मप्रभृति ये नराः। अरोगा रूपवन्तश्च धनिनश्च भवन्त्युत। स्त्रियोऽप्येतेन कल्पेन कृत्वा पापमवाप्नुयुः। एतेषामेव जन्तूनां भार्य्यात्वमुपयान्ति ताः। परस्वहरणे दोषाः सर्व्व एव प्रकीर्त्तिताः। एतद्वै लेशमात्रेण कथित ते मयाऽनघ!। अपरान् मल्कथायोगे भूयः श्रोष्यसि भारत!। एतन्मया महाराज! ब्रह्मणो वदतः पुरा। सुरर्षीणां श्रुतं मध्येपृष्टश्चापि यथातथम्। मयाऽपि तच्च कात्र्स्न्येन यथावदनुवर्णितम्। एतच्छ्रुत्वा महाराज! धर्मे कुरु मनः सदा ह० वं०। “महापातकजान् घोरान्नरकान् प्राप्य दारुणान्। कर्म्मक्षयात् प्रजायन्ते महापातकिनस्त्विह। मृगश्वशूकरोष्ट्राणां ब्रह्महा योनिमृच्छति। खरपुक्कसवेणानां सुरापो नात्र संशयः। कृमिकीटपतङ्गत्वं स्वर्णहारी सस्प्नुयात्। तृणगुल्मलतात्वञ्च क्रमशोगुरुतल्पग” इति। “श्वशूकरखरोष्ट्राणां गोऽजाविमृगपक्षिणाम्। चण्डालपुक्कसानाञ्च ब्रह्महा योनिमृच्छति। कृमिकीटपतङ्गानां विड्भुजाञ्चैव पक्षिणाम्। हिंस्राणाञ्चैव सत्वानां सुरापी ब्राह्मणो व्रजेत्। लूताहिसरटानाञ्च तिरश्चां चाम्बु चारिणाम्। हिंस्राणाञ्च पिशाचानां स्तेनोविप्रःसहस्रशः। तृणगुल्मलतानां च क्रव्यादां दंष्ट्रिणामपि। क्रूरकर्म्मकृताञ्चैव शतशोगुरुतल्पग” इति। “ब्रह्महा क्षययोगी स्यात् सुरापः श्यावदन्तकः। हेमहारी च कुनखी दुश्चर्मा गुरुतल्पगः। यो येन संवसत्येषां स तल्लिङ्गोऽभिजायते। अन्नहर्त्तामयावो स्यान्मूकोवागपहारकः। धान्यमिश्रोऽतिरिक्ताङ्गः पिशुनः पूतिनासिकः। तैलहृत्तैलपायी स्यात् पूतिवक्त्रस्तु सूचकः। यद्वा तद्वा परद्रव्यमपहृत्य बलान्नरः। अवश्यं याति तिर्य्यक्त्वञ्जग्ध्वा चैवाहुतं हविरिति”। “परस्य योषितं हृत्वा ब्रह्मस्वमपहृत्य च। अरण्ये निर्जले देशे भवति ब्रह्मराक्षसः। हीनजातौ प्रजायेत पररत्नापहारकः। पत्रशाकं शिखी हृत्वा, गन्धान् छुच्छुन्दरिः शुभान्। मणिमुक्ताप्रबालानि हृत्वा लोभेन मानवः। विविधानि च रत्नानि जायते हेमकर्त्तृष्विति”। “मूषिको धान्यहारी, स्याद्यानमुष्ट्रः, कपिः फलम्। जलं प्लवः, पयः काको, गृहकारी ह्यपस्करम्। मधु दंशः, पलं गृध्रो, गा ङ्गोधा,ऽग्निंवकस्तथा। श्वित्री वस्त्रं, श्वा रसन्तु, चीरी लवणहारकः। प्रदर्शनार्थमेतत्तु मयोक्तं स्तेयकर्म्मणि। द्रव्यप्रकाराहि यथा तथैव प्राणिजातयः” इति। “द्रव्यस्यापह्रियमाणस्य यादृशाः प्रकारास्तादृशा एव प्राणिजातयः स्तेयकर्म्मण्यपहर्त्तारो भवन्ति यथा कांस्यहारी हंस इति। अथवा यत्फलसाधनन्द्रव्यमपहरति तत्साधनविकलो यथा पङ्गतामश्वहारक इति” मिता०। “ब्रह्महा कुष्ठी, तैजसापहारी मण्डली, देवब्राह्मणाक्रोशकः खलति, र्गरदाग्निदावुन्मत्तौ, गुरुप्रतिहन्तापस्मारी, गोध्नश्चान्धो, धर्म्मपत्नीं मुक्त्वान्यत्र प्रवृत्तः शब्दवेधी प्राणिविशेषः, कुण्डाशी भगभक्षो, देव–ब्राह्मण–स्वापहारी पाण्डुरोगी, न्यासापारो च काणः, स्त्रीपण्योपजीवी षण्ढः, कौमारदारत्यागी दुर्भगो, मिष्टैकाशी वातगुल्मी, अभक्ष्यभक्षकोगण्डमाली, ब्राह्मणीगामी निर्वीजी, क्रूरकर्म्मा वामनो, वस्त्रापहारी पतङ्गः, शय्यापहारी क्षपणकः, शङ्खशुक्त्यपहारी, कपाली दीपापहारी कौशिको, मित्रध्रुक् क्षयी, मातापित्रोराक्रोशकः खञ्जन” इति अनृतवागुल्वणो, मुहुर्मुहुःसंलग्नवाक् जलोदरी, दारत्यागौ कूटसाक्षीश्लीपदी, उच्छूनजङ्घाचरणो, विवाहविघ्नकर्त्ता छिन्नोष्ठः, अवगुरणः छिन्नहस्तो, मातृघ्नोऽन्धः, स्नुषागामी, वातवृषणः, चतुष्पथे विण्मूत्रविसर्जने मूत्रकृच्छ्री, कन्यादूषकः षण्ढः, ईर्ष्यालुर्मशकः, पित्रोर्विवदमानोऽपस्मारी, न्यासापहार्यनपत्यो, रत्नापहार्यत्यन्तदरिद्रोविद्याविक्रयी पुरुषमृगः, वेदविक्रयी द्वीपी, बहुयाजकोजलप्लवः, अयाज्ययाजकोवराहः, अनिमन्त्रितभोजी वायसः, मिष्टैकभोजी बानरः, यतस्ततोऽश्नन्मार्जारः, कक्षवनदहनात्स्खद्योतः, दारकाचार्य्योमुखविगन्धिः, पर्युषितभोजी कृभिः, अदत्तादायी बलीवर्दो, मत्सरी भ्रमरः, अग्न्युत्सादी मण्डलकुष्ठी, शूद्राचार्य्यःश्वपाकः, गोहर्ता सप्र्पः, स्नेहापहारी क्षयी, अन्नापहार्य्यजीर्णी, ज्ञानापहारी मूर्खः, चण्डालीपुक्वसीगमनेऽजगरः, प्रव्रजितागमने मरुपिशाचः, शूद्रागमने दीर्घकीटः, सवर्णाभिगामी दरिद्रः, जलहारी मत्स्यः, क्षीरहारी वलाका, वार्द्धुषिकोऽङ्गपीनः, अविक्रेयविक्रयी गृध्रः, राजमहिषीगामी नपुंसकः, राजाक्रोशकोगर्दभः, गोगामी मण्डूकः, अनध्यायाध्ययने शृगालः, परद्रव्यापहारी परप्रेष्यः, मत्स्यबधेगर्भवासी” इत्येवं नानास्मृति वचनैः गतिविशेषो मिताक्षरायां दर्शितस्तेन तत्कालपर्य्यन्तस्थायिताऽधर्म्मस्येति गम्यते। ब० अनिच्समा० अधर्म्मा। पुण्यरूपधम्मशून्ये त्रि०। नास्ति निवृत्तः धर्म्मो यस्य० अनिच्समा० अधर्म्मा। क्षीणपुण्ये त्रि०। “तारकावर्षमिवाधर्मविनाशपिशुनमिति” काद०। गुणाद्यपरपर्य्यायः अधर्मस्तदुहिते ब्रह्मणि न०।

अधर्म्मचारिन् = त्रि० न धर्मं चरति अनुतिष्ठति चर + णिनि ६ त० न० त०। धर्मकृत्याननुष्ठायिनि, पापानुष्ठायिनि च स्त्रियां ङीप्।

अधर्म्ममय = त्रि० अधर्मेण प्रचुरः प्राचुर्य्यार्थे मयट्। पापप्रचुरे। स्त्रियां ङीप्।

अधर्म्मात्मन् = त्रि० अधर्मप्रधानः आत्मा यस्य। प्राधान्येन पापाचारिणि।

अधर्म्मास्तिकाय = पु० आर्हतमतसिद्धेषु जीवादिपञ्चकास्तिकायेषु मध्ये स्थितिस्वभावके पदार्थभेदे विवरणमर्हच्छब्दे दृश्यम्।

अधर्म्मिन् = त्रि० अधर्मः पापमस्त्यस्य इनि। पापवति स्त्रियां ङीप्।

अधर्म्मिष्ठ = त्रि० अतिशयेन अधर्म्मी इष्ठन् भत्वाट्टिलोपः। भृशपापयुक्ते।

अधर्म्म्य = त्रि० न धर्म्माय हितं यत्। पापापादके, “पञ्चानां तु त्रयो धर्म्म्या द्वावाधर्म्म्यौ स्मृताविहेति” मनुः।

अधवा = स्त्री न विद्यमानो धवो भर्त्ता यस्याः। मृतभर्त्तृकायां विधवायाम् स्त्रियाम्।

अधश्चर = पु० अधःखनित्वा चरति अच्। चौरे, अधोभागगन्तरि त्रि०।

अधश्चौर = पु० अधोभागे खनित्वा चोरयति चुर–अच् स्वार्थे अण्। सन्धिं कृत्वा चौर्य्यकारके। (सिन्धियाल)।

अधश्शिरस् = न० अधोवर्त्ति शिरः सस्य शत्वम् वा। अवाङ्मस्तके।

अधस् = अव्य० अधर + असि अधरशब्दस्थाने अधादेशश्च। पाताले, अधस्थानमात्रे च। तत्रापि अर्थवशात् प्रथमापञ्चमीसप्तम्यर्था उन्नेयाः। तत्र प्रथमार्थे अधोरम्यं, पञ्चम्यर्थे अधोवृक्षात् पतति, सप्तम्यर्थे अधोगृहे शेते इत्यादि। “अधः कथञ्चिद्धृतभूमिभागमिति” कुमा०। “पतत्यधोधाम विसारि सर्व्वतः, इति माघः।

अधस्तन = त्रि० अधोभवः अधस् + ट्यु तुट् च। अधोभवे स्त्रियां ङीप्। “एवमागामियागीयमुख्यकालादधस्तनः खकालादुत्तरो गौणः कालः पूर्बस्य कर्मण इति” स्मृतिः। “अधस्तनः पूर्वतनः दृक्षवच्छास्त्रेषु व्यवहार” इति न्यायादिति” रघुनन्दनोक्तेः पूर्बतनेऽर्पि।

अधस्तरा(मा)म् = अव्य० अतिशयेन अधः, तर(म)प् आमु। अत्यन्ताधरे। द्रव्ये तु नामु। अधस्तरोदेशैत्यादि।

अधस्तात् = अव्य० अधर + अस्ताति अधादेशः। अधःशब्दार्थे। अयञ्च प्रथभापञ्चमीसप्त्यम्यर्थे एव “धर्मेण गमनमूर्द्धं गमनमधस्ताद् भवत्यधर्मेणेति” ४४ साङ्ख्यका०।

अधस्पदम् = न० अधोवृत्ति पदं वा सत्वम्। निम्नपदे।

अधामार्गव = पु० न धीयते अधाः तादृशं मार्गं वाति वा–क। अपामार्गे इति क्षीरस्वामी।

अधार्म्मिक = त्रि० धर्मं चरति आसेवते ठक् विरोधार्थे न० त०। अधर्म्मे–स्वारसिकप्रवृत्तिमति “अधर्म्माच्चेति वक्तव्यमिति” ठकि तु आधर्म्मिक इत्यप्यत्र त्रि०।

अधि = अव्य० न + धा–कि। अधिकारे, ऐश्वर्य्ये, स्वत्वे, अधिकृत्येत्यर्थे, उपरि, आधिक्ये, अतिशये च। अस्य ऐश्वर्य्ये, स्वत्वे च कर्म्मप्रवचनीयत्वेन तद्योगे सप्तमो, अधि रामे भूः, अधि भुवि राम इति। “अधिः अध्ययनैश्वर्य्यवशित्वस्मरणाधिकेषु” इति गणरत्ने उक्तम् तत्रोपाध्यायादधीते इत्यादावध्ययने, इङोऽध्ययनार्थकत्वस्य अधिर्द्योतकः। ऐश्वर्य्ये अधिपतिः, वशित्वे अधीनः, अधिगतमिनम् अत्या० स०। स्मरणे मातुरध्येति इकः स्मरणार्थत्वमधिर्दोतयति। अधिके, अधिकमिति अधि + कन्। “अधिपरी अनर्थकाविति” पा० उक्तेः आनर्थक्ये गतित्वाभावात् नोपसर्गत्वं तेन अध्यागच्छति इत्यादौ गतिसंज्ञाबाधात् “गतिर्गताविति” पा० निघातो न। अतएव अस्य धात्वर्थत्वमात्रद्योतकत्वेऽपि विशिष्टक्रियाद्योतकत्वाभावात् अनर्थकत्वव्यवहारः विशिष्टक्रियायोगाभावाच्च नोपसर्गत्वम् तेन “तस्मिन्नात्मवतुर्भागे प्राङ्नाकमधितस्थुषीति” रघौ न षत्वम् सति च क्रियाविशेषद्योतकत्वे अधितष्ठावित्यादाविव उपसर्गत्वेन षत्वमिति भेदः। मुग्धबोधे तु “नात्रार्च्चायां स्वतो नातिक्रमेऽतिः पर्य्यधी गताविति” गत्यर्थद्योतकत्वे नोपसर्गत्वमित्युक्तम् तेन नाकमधितस्थुषीत्यस्य गतवतीत्यर्थकतयोपसर्गत्वाभावान्न षत्वमिति विवेकः। तथा अधिके, “इतो वा सातिमीमहे दिवो वा पार्थिवादधि” इति ऋ० १, ६, १० “अधीमहे आधिक्येन याचामहे” इति भाष्यम्। उपरि “ये नाकस्याधि रोचने दिवीति” ऋ० १, १९, ६, “नाकस्य दुःखरहितस्य सूर्य्यस्य उपरीति” भाष्यम्, अधिकारे “यदत्र सामधिकरिष्यतीति” सि० कौ०। विभाषा कृञीति पा०। वा गतित्वमत्र विनियोक्तुरीश्वरत्वं गम्यते अधिकारी विनियोगः। आधिक्ये “अधिगत्य जगत्यधीश्वरादिति” नैष० अधिगत्येत्यादौ गमेर्विशिष्टज्ञानार्थत्वद्योतकत्वात् उपसर्गत्वम् “धात्वर्थं बाधते कश्चित् कश्चित्तमनुवर्त्तते, तमेव विशिनष्ट्यन्य उपसर्गगतिस्त्रिधे” त्युक्तेः विशिष्टज्ञानार्थता, तेन गतिसमासे ल्यप्। “अधिगतं विधिवद् यदपालयदित्यादौ” दायत्वेन लब्धमित्यर्थः। एवमन्यत्रापि विशेषार्थद्योतकता विज्ञेया। आधीयते दुःखमनेनेति आ + धा–कि वा पृ० ह्रस्वः। मनःपीडायाम् पु०।

अधिक = त्रि० अध्यारूढ एव स्वार्थे कन् उत्तरपदलोपश्च। प्रधाने अतिरिक्ते, “ऊनं न सत्वेष्वधिको बबाधे” इति रघुः। आधिक्यं च योग्यपरिमाणातिक्रमः अतिशयवृद्धिश्च। तत्रानुरूपातिक्रमे “अकालप्रसवा नार्य्य इत्युपक्रम्य “हीनाङ्गीमधिकाङ्गीञ्च जायन्ते यदि वा त्रय” इत्यरिष्टमुक्तमुदाहार्य्यम्। “हीनाङ्गमधिकाङ्गञ्च श्राद्धभोज्ये विवर्ज्जयेदिति” स्मृतिः। “इयमधिकमनोज्ञा वल्कलेनापि तन्वीति” शकु०। “अधिकं फलमश्नुते” इति पुरा०। असाधरणे च। “ब्राह्मणस्याधिकं लब्धं, क्षत्रियस्य विजितं, निर्विष्टं वैश्यशूद्रयोरिति” गौतमः “ब्राह्मणस्याधिकं लब्धमिति ब्राह्मणस्य प्रतिग्रहादिना यल्लब्धं तदधिकमसाधारणम्। क्षत्त्रियस्य विजितमित्यत्राधिकमित्यनुवर्त्तते क्षत्त्रियस्य विजयदण्डादिलब्धमसाधारणम्। “निर्विष्टं वैश्यशूद्रयोरिति”। अत्राप्यधिकमित्यनुवर्त्तते वैश्यस्य कृषिगोरक्षादिलब्धन्निर्विष्टन्तदसाधारणं, शूद्रस्य द्विजशुश्रूषादिना भृतिरूपेण यल्लब्धन्तदसाधारणम्। एवमनुलोमजानाअतिलोमजानाञ्च लोकप्रसिद्धेषु स्वत्वहेतुषु यद्यदसाधारणमुक्तं सूतानामश्वसारथ्यमित्यादि तत्तत् सर्वं निर्विष्टशब्देनोच्यते सर्वस्यापि भृतिरूपत्वात् “निर्वेशो भृतिभोगयोरिति” त्रिकाण्डीस्मरणात्। तत्तदसाधारणं वेदितव्यम्” इति मिताक्षरा। दर्पणोक्ते अर्थालङ्कारभेदे यथा दर्पणे “आश्रयाश्रयिणोरेकस्याधिक्येऽधिकमुच्यते”। “किमधिकमस्य व्रूमो महिमानं वारिधेर्हरिर्यत्र। अज्ञात एव शेते कुक्षौ निक्षिप्य भुवनानि” इत्यत्राश्रयस्य। “युगान्तकालप्रतिसंहृतात्मनो जगन्ति यस्यां सविकाशमासत। तनौ ममुस्तत्र न कैटभद्विषस्तपोधनाभ्यागमसम्भवा मुदः” इति माघे तु आश्रितस्वाधिक्यम्। भावार्थे ष्यञ्–आधिक्यम्। उचित प्रमाणातिरेके न०।

अधिकतर = त्रि० अधिक + तरप्। द्वयोर्मध्ये उत्कृष्टे एकस्मिन्, अत्यन्तोत्कृष्टे च।

अधिकतम = त्रि० अधिक + तमप्। बहूनां मध्ये एकस्मिन् उत्कृष्टे, अत्यन्तोकृष्टे च।

अधिकमास = पु० कर्म्म०। मलमासे तद्विरणमघिमासशब्दे।

अधिकरण = न० अधि + कृ–ल्युट्। आधारे, व्याकरणशास्त्रे “कर्तृकर्मव्यवहितामसाक्षाद्धारयत् क्रियाम्। उपकुर्वत् क्रियासिद्धौ शास्त्रेऽधिरणं स्मृतमिति” हरिपरिभाषिते अधिकरणसंज्ञके कर्तृकर्म्मद्वारा क्रियाश्रये कारके, यथा गेहेस्थाल्यामन्नं पचतीत्यादौ गृहस्य कर्तृद्वारा, स्थाल्याश्च कर्म्मद्वारा, परम्परया पाकक्रियाश्रयत्वात्, गृहादेः। “आधारोऽधिकरणमिति” “सप्तम्यधिकरणे इति” पा०। अधिकरणं च यस्य गुणादेया धर्म्मी स एव। यथा गुणकर्मजातीनां द्रव्यम्, द्रव्यस्य च संयोगादिसम्बन्धेन द्रव्यान्तरं, तत्राधिकस्यैवाधिकरणत्वं यथा कुण्डादेर्वदरादीनामधिकरणत्वम् गृहादेर्घटादीनां, न तु वैपरीत्ये। द्रव्यादिषु गुणादेरेव, समवायेन तादात्म्येन वा मतभेदेन अधिकरणत्वं नतु गुणादीनां द्रव्याधिकरणत्वमित्येव मन्तव्यम्। क्रियते निर्णयार्थं विचारोऽस्मिन्। पूर्ब्बोत्तरमीमांसाशास्त्रप्रसिद्धे एकार्थप्रतिपादके विषयसंशयपूर्ब्बपक्षसिद्धान्त निर्णयात्मकपञ्चाङ्गबोधकवाक्यसमुदाये न्याये। तथा हि “विषयोविशयश्चैव पूर्ब्बपक्षस्तथोत्तरं निर्णयश्चेति” सिद्धान्तः शास्त्रेऽधिकरणं स्मृतमिति” मीमांसा। तत्र विचारार्हं वाक्यं विषयः, तस्यार्थविषये विशयः इदमित्थं न वेति विकल्पः। तत्र सन्दिह्यमानयोः पक्षयोः असत्पक्षे युक्तिप्रदर्शनवाक्यं पूर्ब्बपक्षवाक्यं, पूर्बपक्षोक्तां युक्तिं खण्ड यित्वा सत्पक्षे युक्तिप्रदर्शनवाक्यम् सिद्धान्तः। ततश्चेत्याद्यभिलापेन सिद्धान्तसिद्धार्थोपसंहारकं वाक्यं निर्णायकवाक्यमिति यथा “स्वाध्यायोऽध्येतव्य” इत्यादिवाक्यं विचारार्थत्वेन विषयः। अत्राध्ययनमक्षरग्रहणमात्रम्? अर्थग्रहणपर्य्यन्ताध्ययनं? वेति संशयः। तत्र अक्षरग्रहणमात्रमध्ययनमिति पूर्ब्बपक्षः। अर्थज्ञानसहिताक्षरग्रहणमिति सिद्धान्तः। तेन विधिवाक्यस्य सार्थवेदाध्ययनमेव फलितोऽर्थ इति निर्णय इत्थं तत् प्रतिपादकावयवपञ्चात्मकीन्यायोऽत्रावसीयते। एवमन्यदप्युदाहार्य्यम्। उत्तरमीमांसायामपि एतानि यथायथं योज्यानि विशेषस्त्वयं वेदान्ते पञ्चावयवा अन्वविधा यथोक्तं माधवाचार्य्येण। “तत्रैकैकमधिकरणं पञ्चावयवं विषयः सन्देहः सङ्गतिः पूर्ब्बपक्षः सिद्धान्तश्चेति पञ्चावयवा इति” सङ्गतिश्च “शास्त्रेऽध्याये तथा पादे न्यायसङ्गतयस्त्रिधा। शस्त्रादिविषये ज्ञाते तत्तत्सङ्गतिरूह्यता” सित्यनेन सङ्गतित्रैविध्यं तेनैव दर्शितं तद्विवरणं सङतिशब्दे वक्ष्यते। तत्र वेदान्ताधिकरणं यथा “अथातो ब्रह्मजिज्ञासेति प्रथमाधिकरणम् “अविचार्य्यं विचार्य्यं वा ब्रह्माध्यासानिरूपणात्। असन्देहाफलत्वाभ्यां न विचारं तदर्हति। अध्यासोऽहंबुद्धिसिद्धोऽसङ्गं ब्रह्म श्रुतीरितम् सन्देहान्मुक्तभावाच्च विचार्य्यं ब्रह्म वेदत” इति माधवः। व्याख्यातञ्चैतत् स्वेनैव यथा “आत्मा वा अरे द्रष्टव्यः श्रोतव्य” इत्यत्र आत्मदर्शनं फलमुद्दिश्य तत्साधनत्वेन श्रवणं विधीयते। श्रवणं नाम वेदान्तवाक्यानां ब्रह्मणि तात्पर्य्यं निर्णेतुमनुकूलोन्यायविचारः तदेतद्विचारविधायकं वाक्य विषयः। न चाय विषयः श्लोकयोर्न संगृहीतः, सन्देहसंग्रहेणैवार्थात् तत् संग्रहप्रतीतेः ब्रह्मविचारात्मकन्यायनिर्णयात्मकशास्त्रमनारम्भणीयमारम्भणीयं वेति सन्देहः। पूर्बोत्तरपक्षयुक्तिद्वय सर्वत्र सन्देहवीजमुन्नेयम्। तत्रानारभ्यमिति तावत्प्राप्तं विषयप्रयोजनयोरभावात्। संदिग्धं हि विचारविषयोभवति ब्रह्मा त्वसन्दिग्धं तथा हि तत् किं ब्रह्माकारेण सन्दिह्येत? आत्माकारेण? वा, नाद्यः “सत्यं ज्ञानमनन्तंब्रह्मेति” वाक्येन ब्रह्माकारस्य निश्चयात्। न द्वितीयः अहंप्रत्ययेनात्माकारस्य निश्चयात्। अध्यासात्मविषयत्वेन म्रान्तोऽयं प्रत्यय इति चेत् न अध्यासानिरूप णात् तमःप्रकाशवद्विरुद्धस्वभावयोर्जडाजडयोर्देहात्मनोः शुक्तिरजतवदन्योन्यतादात्म्याध्यासोन निरूपयितुं शक्यते। तस्मादभ्रान्ताभ्यां श्रुत्यहंप्रत्ययाभ्यां निश्चितस्यासंदिग्धत्वान्न विचारस्य विषयोऽस्ति। नापि प्रयोजनं पश्यामः। उक्तप्रकारेण ब्रह्मात्मनिश्चयेऽपि मुक्त्यदर्शनात् तस्माद्ब्रह्म न विचारमर्हति अतः शास्त्रमनारम्भणीयमिति पूर्बपक्षः। अत्रोच्यते। शास्त्रमारम्भणीयं विषयप्रयोजनसद्भावात् श्रुत्यहंप्रत्यययोः सन्दिग्धं ब्रह्मात्मवस्तु। “अयमात्मा ब्रह्मेति” श्रुतिरसङ्गं ब्रह्मात्मत्वेनोपदिशति। अहंमनुष्यैत्याद्यह बुद्धिर्देहादितादात्म्याध्यासेनात्मानं गृह्णाति, अध्यासस्यदुर्निरूपत्वमलङ्काराय, तस्मात् संदिग्धं वस्तु विषयः तन्निश्चयेन मुक्तिलक्षणं प्रयोजनं श्रुत्या, विद्वदनुभवेन च सिद्धम्। तस्माद्वेदान्तवाक्यविचारमुखेन ब्रह्मणो विचारार्हत्वाच्छास्त्रमारम्भणीयमिति सिद्धम् इति”। अभेदान्वयिपदार्थबोधकतुल्यविभक्तिकशब्दे ध। “समानाधिकरणस्तत्पुरुषः कर्मधारय” इति पा०। समानाधिकरणः अभेदान्वयिपदार्थबोधकतुल्यविभक्तिकपदघटितस्तत्पुरुषः कर्मधारय इत्यर्थः “तादृशपदघटितत्वेनान्यपदार्थत्वे समानाधिकरणबहुव्रीहिः पीतमम्बरं यस्येति वाक्ये पीताम्बर इत्यादि। अभेदान्वयिपदार्थबोधकभिन्नपदघटितत्वे व्यधिकरणबहुव्रीहिरिति यथा पद्मं नाभौ यस्येति वाक्ये पद्मनाभः। सुश्रुतोक्तेषु द्वात्रिंशत्तन्त्रयुक्तिषु तत्त्रयुक्तिभेदे च तन्त्रयुक्तिशब्दे तद्विवरणम्।

अधिकरणविचाल = पु० अधिकरणस्य विचालः अन्यथाकरणं वि–चल घञ् ६ त०। द्रव्यस्य अवस्थान्तरकरणेन संख्यान्तरकरणे, विचालो नाम यदेकमनेकं क्रियते अनेकं वैकं क्रियते इति। एकस्य राशेः पञ्चधा विभागे, पञ्चा त्मकस्य वा एकधा विभागे च अधिकरणस्य संख्याया विचालः। “अधिकरणविचाले चेति” पा०।

अधिकरणिक = पु० अधिकरणम् धर्म्माधिकरणम् आश्रयतयाऽस्त्यस्य ठन्। विचारकरणाय धर्म्माधिकरणमण्डपे नियुक्ते प्राड्विवाकादौ। तत्र नियुक्तः ठक्। आधिकरणिकोऽप्यत्र पु०।

अधिकर्म्म(न्) = अव्य० कर्म्मणि विभक्त्यर्थेऽव्ययी० वा अच्समा०। कर्म्माधिकृत्येत्यर्थे। अधिकं कर्म्म प्रा० स०। अधिककर्म्मणि। न० ब०। अधिककर्म्मयुक्ते त्रि०।

अधिकर्म्मकर = त्रि० अधिकं कर्म्म तत्करोति कृ–आनुलोम्यादौ ट। शुश्रूषकभेदे दासभेदे। क्विप् अधिकर्मकृदप्यत्र त्रि०।

अधिकर्म्मकृत = त्रि० अधिकं कर्म अधिकर्म तत् कृतं येन निष्ठान्तस्य परनि०। “सर्वेष्वधिकृतो यः स्यात् कुटुम्बस्य तथोपरि। सोऽधिकर्मकृतो ज्ञेय” इति स्मृत्युक्ते शुश्रूषकभेदे।

अधिकर्म्मिक = पु० अधिकृत्य हट्टं कर्मणेऽलम् अधिकर्म–ठन्। हट्टाध्यक्षे, हट्टस्थबणिग्भ्यः शुल्कादानकर्म्मणि नियुक्त।

***