अच = अविस्पष्टकथने गतौ च उभय० भ्वादि० सक० सेट् क्त्वा वेट्। अचति ते। आचीत् आचिष्ट। क्त अक्तः क्त्वा अचित्वा–अक्त्वा “स्वाहायज्ञमित्यङ्गुली अचते” इति कात्या०। “अचतेसङ्कोचयति” इति वेददीपः।
अच(अन्चु) = गतौ पूजायाञ्च प० सक० सेट्। तत्र अच इदित् ञोदिच्च (अन्चु) अव्यक्तशब्दे च। अञ्चति आञ्चीत् अन्चु–गतौ अच्यात् पूजायामञ्च्यात्। क्त अक्तः पूजायामुभयोः अञ्चितः अचि–वर्त्तमाने क्त अञ्चितः। अन्चु–क्त्वा अञ्चित्वा–अक्त्वा अचि–अञ्चित्वा। “अयमञ्चति पञ्चशरानुचर” इति सा० टी०। प्र + प्रकर्षे पूर्ब्बदिक्कालवृत्तौ च प्राञ्चति प्राङ्(पूर्ब्बकालः) प्राची (पूर्ब्बा दिक्) परा + प्रतिगतौ, आभिमुख्याभावे, पश्चाद्भावे, वहिर्भावे च पराञ्चति (परागच्छति) पराङ् (वाह्यः)। अप + अपसरणे अपाञ्चति। सम् + सुन्दरगमने, यथोचितगमने च समञ्चति सम्यङ्। अनु + पश्चाद्गतौ। अन्वञ्चति अन्वङ्। उद् + ऊर्द्ध्वगमने, उत्तरदिग्वृत्तौ च उदञ्चति (उद्गच्छति) “उदञ्चद्रोमाञ्चमिति” उदङ् देशः उदीची (उत्तरा दिक्)। परि + समन्ताद्गतौ। पर्य्यञ्चति। प्रति + प्रतीपगतौ, पश्चाद्गतौ, पश्चाद्वर्त्तित्वे च प्रत्यञ्चति (प्रतीपं गच्छति)। प्रत्यङ्, प्रतीची (पश्चिमा दिक्)। आत्मनि व्याप्त्यर्थकप्रतिना योगात् प्रत्यक्शब्दः तस्य सर्वविषयव्यापकत्वात् प्रत्यक्त्वम्। नि + न्यूनीभावे न्यञ्चति न्यङ् न्यग्भावः न्यक्कारः। अव + अधोगतौ, दक्षिणदिग्वृत्तौ च। अवाञ्चति अवाङ् (अघोमुखः) अवाची (दक्षिणा दिक्) यथा च उत्तरदक्षिणयोः ऊर्द्धाघोभावस्तया अवाक्शब्दे वक्ष्यते।
अच = गतौ पूजायाम् इदित् उभ० सक० सेठ् क्त्वा वेट्। अञ्चति ते आञ्चीत् आञ्चिष्ट। क्त्वा अङ्क्त्वा–अञ्चित्वा। उपसर्गात् अन्चुवत्। “न्यञ्चते प्रत्यहं मोहो यस्मान्न्यञ्चन्ति चारय” इति कविर०।
अचक्षुस् = त्रि० न० ब०। मन्दनेत्रे, नेत्रहीने च। “सचक्षुरचक्षुरिव सकर्ण्णोऽकर्ण्ण इवेति” श्रुतिः। न० त०। चक्षुर्भिन्ने न०।
अचतुर = त्रि० न सन्ति चत्वारि यत्र नि० अच्समा०। चतुःसंख्याशून्ये। चतुरोनिपुणः न० त०। दक्षभिन्ने अपटौ त्रि०।
अचपल = त्रि० न चपलः। चापल्यविरोधिस्थैर्य्ययुक्ते।
अचर = त्रि० न चरति चलति–चर–अच् न० त०। चरत्वविरोधिस्थैर्य्यवति स्थावरे स्थितिशीले पृथिव्यादौ “चराणामन्नमचरमिति” मनुः। चलनशून्ये त्रि०। ज्योतिषोक्ते मेषकर्कटतुलामकरराशिरूपचरराशिभिन्नेषु स्थिरराशिषु वृषसिंहवृश्चिककुम्भराशिषु न०।
अचरम = त्रि० न० त०। अन्तिमत्वविरोधिमध्यत्वाद्यवस्थावति “वयस्यचरमे” इति पा०। अचरमं वयः कौमारादि।
अचल = पु० न चलः।। (गोंज) इति ख्याते शङ्कौ। पर्व्वते, “अचलाः सागराः ग्रामाः प्रासादधवला गृहाः धारितं च त्वयासर्वमिति” पृथिवीप्रार्थनामन्त्रः। “अचलएष भवानिव राजते” इति माघः। पृथिव्यां स्त्री। भूमेरचलत्वादिकमुक्तं सि० शि० गो० “भूमेः पिण्डः शशाङ्कज्ञकविरविकुजेज्यार्किनक्षत्रकक्षावृत्तैर्वृत्तो वृतः सन् मृद- निलसलिलव्योमतेजोमयोऽयम्। नान्याघारः स्वशक्त्यैव वियति नियतं तिष्ठतीहास्य पृष्ठे निष्ठं विश्वं च शश्वत्सदनुजमनुजादित्यदैत्यं समन्तात्। सर्वतः पर्वतारामग्रामचैत्यचयैश्चितः। कदम्बकुसुमग्रन्थिः केसरप्रकरैरिव। यथोष्णतार्कानलयोश्च, शीतता विधौ, द्रुतिः के, कठिनत्वमश्मनि। मरुच्चली भूरचला स्वभावतो यतो विचित्रा वत वस्तुशक्तयः। आकृष्टशक्तिश्च मही तया यत् खस्थं गुरु स्वाभिमुखं स्वशक्त्या। आकृष्यते तत्पततीव भाति समे समन्तात् क्व? पतत्वियं खे” इति। आर्य्यभट्टमते तु अस्याश्चलत्वेऽपि अचलाः पर्वताः सन्त्यत्र अस्त्यर्थेऽचि। अचलवत्त्वात् स्वकक्षातो वहिर्गमनाभावाद्वा अचलत्वम्। तेन च तस्याश्चलत्वं दृष्टान्तविधयोक्तं तच्च विस्तरतो भूगोलशब्दे वक्ष्यते। चलनशून्ये त्रि० “तस्मात्त्वमचलोभवेति” कलसस्थापनमन्त्रः। “तस्मान्मम गृहे नित्यं लक्ष्मि! त्वमचला भवेति” पुरा०। “समाधावचला बुद्धिरिति, गीता, अचला भक्तिरीश्वरे” इति पुरा०। न चलति स्वभावात्। शिवे पु० तस्य स्थाणुत्वात् तथात्वम्। ब्रह्मणि न०। “निष्कलं निष्क्रियं शान्तमिति” श्रुत्या अस्य सर्वक्रियाशून्यत्वोक्तेरचलत्वम्। आत्मनि पु० “नित्यः सर्वगतः स्थाणुरचलोऽयं सनातन” इति गीता।
अचलकन्या = स्त्री अचलस्य हिमाचलस्य कन्या। पार्वत्यां, सा हि हिमाचलेन मेनायामुत्पादिता। तत्कथा च “प्रसूतिरभवत्तस्य मेनायाः कन्यका सुतेति” शिवपुराणे प्रपञ्चेन दर्शिता। तन्मूलं कुमारे चोक्तम् “अथावमानेन पितुः प्रयुक्ता दक्षस्य कन्या भवपूर्ब्बपत्नी। सती सती योगविसृष्टदेहा तां जन्मने शैलबधूं प्रपेदे। सा भूधराणामधिपेन तस्यां समाधिमत्यामुदपादि भव्येति” इति अचलसुतादयोप्यत्र।
अचलकीला = स्त्री अचलाः कीला इव यस्याः। पृथिव्याम्। अचलस्य सुमेरोः कील इव, अचलः कीलैवावष्टम्भकत्वाद्वा। किष्कम्भपर्वतेषु मन्दरादिषु पु०। ते च सुमेरुमुपवर्ण्य, “विष्कम्भशैलाः खलु मन्दरोऽस्य सुगन्धशैलो विपुलः सुपार्श्व इति” सि० शि० गो० दर्शितास्तेषां स्वरूपादि तत्तच्छब्दे वक्ष्यते।
अचलजा = स्त्री अचलात् हिमालयात् जायते जन–ड ५ त०। पार्व्वत्यां, तत्कथा पूर्ब्बशब्दे उक्ता। पर्वतजातमात्रे त्रि० अचलजातादयोऽप्यत्र।
अचलत्विष् = पु० अचला बहुप्रक्षालनेनापि मालिन्यानपगमात् स्थिरा त्विट् कान्तिर्यस्य। कोकिले। स्थिरकान्तिमति त्रि०। कर्म्मधा०। स्थिरायां कान्तौ स्त्री।
अचलद्विष् = पु० अचलेभ्यः द्वेष्टि द्विष–क्विप् ४ त०। इन्द्रे तस्याचलपक्षच्छेदकत्वात्तथात्वं तत्कथा गोत्रभिच्छब्दे वक्ष्यते। अचलरिप्वादयोऽप्यत्र पु०। पर्व्वतजाते त्रि०।
अचलपति = पु० ६ त०। हिमाचले। यथा तस्य तत्पतित्वं तथाचलराजशब्दे वक्ष्यते।
अचलभ्रातृ = पु० बौद्धभेदे।
अचलराज = पु० अचलानां राजा अच् समा०। हिमाचले “शैलानां हिमवन्तं च नदीनाञ्चैव सागरम्। गन्धर्व्वाणामधिपतिं चक्रे चित्ररथं विधिरिति” ब्रह्मपुराणे तस्याचलराजत्वमुक्तम् अचलाधिपादयोप्यत्र।
अचापल = न० चपलस्य भावः अण् न० त०। चाञ्चल्यविरोघिस्थिरतायाम्। ब०। चाञ्चल्यशून्ये स्थिरे त्रि०।
अचापल्य = न० चपलस्य भावः ष्यञ् न० त०। चाञ्चल्य विरोधिस्थिरतायाम् व०। ब०। चाञ्चल्यशून्ये त्रि०।
अचिक्कण = त्रि० न चिक्कणः। चिक्कणताविरोधिरूक्षत्ववति।
अचित्त = त्रि० नास्ति चित्तं यस्य। चित्तशून्ये चेतना रहिते “अचित्तहस्तिधेनोष्ठगिति” अचित्ताददेशकाला ट्ठगिति” च पा०। स्थावरादीनान्तु न चित्तशून्यत्वं किन्तु विशिष्टचेतनाराहित्यमेवेति अचेतनशब्दे वक्ष्यते।
अचिन्तनीय = त्रि० चिन्तयितुं अनुमापकहेत्वभावेन तर्कयितुमशक्यः चिति–शक्यार्थे कर्म्मणि अनीयर् न० त०। अनुमापकहेत्वभावेन तर्कयितुमशक्ये। “अचिन्तनीय स्तु तव प्रभाव इति” रघु०। तदर्थे यत्। अचिन्त्योऽप्युक्तार्थे त्रि० “अचिन्त्याव्यक्तरूपाय निर्गुणाय गुणात्मने समस्तजगदाधारमूर्त्तये ब्रह्मणे नमः” इति सूर्य्य०।
अचिन्तित = त्रि० न चिन्तितः। पूर्ब्बरूपादिकारणानुसान्धानादिकमन्तरेण अतर्किते “विधेर्नियोगादेतन्मे अचिन्तितमुपस्थितमिति” पुरा०।
अचिर = न० न चिरम्। अल्पकाले, अल्पकालस्थायिनि वस्तुमात्रे त्रि०। “अचिरेणैव कालेन वंशनाशो भवेद्ध्रुवमिति पुरा०। अचिरांशुः अचिरप्रभा अचिरद्युतिः।
अचिरत्विष् = स्त्री अचिरा अल्पकालस्थायिनी त्विट् कान्तिरस्याः। विद्युति। अल्पकालकान्तियुक्ते त्रि०।
अचिरद्युतिः = स्त्री अचिरा अल्पकालस्थायिनी द्युतिर्यस्याः। विद्युति। अल्पकालस्थायिद्युतिमति त्रि०। कर्म्म०। अल्पकालस्यायिन्यां कान्तौ स्त्री।
अचिरप्रभा = स्त्री अचिरा अचिरस्थायिनी प्रभा यस्याः। विद्युति। “च्युता दिवः स्थास्नुरिवाचिरप्रभेति” भट्टिः। अल्पकालस्थायिप्रभावति त्रि०। कर्म्म०। अचिरायां दीप्तौ स्त्री।
अचिरभास् = स्त्री अचिरा अल्पकालस्थायिनी भाः यस्याः। विद्युति। अल्पकालस्थायिदीप्तिमति त्रि०।
अचिररोचिस् = स्त्री अचिरं रोचिर्यस्याः। विद्युति। अचिरकान्तिमति त्रि०। कर्म्म०। अचिरकान्तौ न०।
अचिरस्य = अव्य० चिरस्येत्यव्ययेन न० त०। स्वल्पकाले।
अचिरांशु = स्त्री अचिरा अंशवोऽस्याः। विद्युति। “अचिरांशुसमप्रभेति” पुरा०। अल्पकालस्थायिकिरणवति त्रि०। कर्म्म०। अचिरकिरणे पु०।
अचिरात् = अव्य० अचिरम् अततीति क्विप्। शीघ्रे, अविलम्बे च।
अचिराभा = स्त्री अचिरा आभा यस्याः। विद्युति।
अचिराय = अव्य० न चिराय। स्वल्पकाले शीघ्रे च।
अचिरेण = अव्य० चिरेणेत्यव्ययस्य न० त०। अल्पकाले शीघ्रे च।
अचिष्णु(ष्टु) = त्रि० अच–गतौ बा० इष्णु(ष्टु)च्। गमनशीले। “त्वष्टा दधच्छुयमिन्द्राय वृष्णेऽपाकोऽचिष्णु(ष्टु)रिति” यजु० अचि(ष्टु)ष्णुः सर्व्वगत इति वेददीपः।
अचेतन = त्रि० चेतना ज्ञानम् न० ब०। चेतनाशून्ये। चितल्यु न० त०। ज्ञानविशिष्टभिन्ने। ज्ञानञ्च द्विविधं विषयाकारमनोवृत्तिरूपं तत्फलितचैतन्यरूपञ्च तत्र वृत्तिरूपं ज्ञानं चित्तस्यैव धर्म्मः “कामः संकल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्ह्रीर्धीर्भीरित्येतत् सर्व्वं मन एवेति” श्रुतौ तस्य चित्तधर्म्मत्वावगमात्। द्वितीयं तदुज्ज्वलितचैतन्यमात्मधर्म्मः। प्रकाशरूपचैतन्यस्य सर्वदा स्थितावपि वृत्तिसहकारेणैव तद्गताज्ञाननिवारणे चैतन्यं समुज्ज्वलति नान्यथा अतएव “बुद्धिवृत्तिचिदाभासौ द्वावेतौ व्याप्नुतो घटम्। तत्राज्ञानं धिया नश्येदाभासात्तु घटः स्फुरेत्” इत्युक्तमिति वेदान्तिनः। सांख्यास्तु विषयोपरक्ता वृत्तिश्चितौ प्रतिविम्बति तेनैव विषयावभासः “तस्मिंश्चिद्दर्पणे स्फारे समस्ता वस्तुदृष्टयः। इमास्ताः प्रतिविम्बन्ति सरसीव तटद्रुमा” इति मन्यन्ते। नैयायिकास्तु सांख्यवेदान्तिमतसिद्धं यत् वृत्तिरूपं ज्ञानं तत्स्थानीयमात्मनश्चैतन्यमुररीचक्रुः। तादृशवृत्तौ तत्स्थानीयज्ञाने च आत्ममनःसंयोगादयः कारणानि। आभ्यन्तरसुखादिविषयग्रहणे मनःकरणम्, इन्द्रियाणि तु स्वस्वग्राह्यविपयग्रहणे करणानि, “इन्द्रि- यार्थसन्निकर्षोत्पन्न ज्ञान प्रत्यक्षमिति” गौतमसूत्रे “प्रतिविषयाध्यवसाय इति” सांख्यसूत्रे च तथैव स्वस्वविषयेष्विन्द्रियाणां ग्राहकता उक्ता। तच्च तत्तच्छब्दावसरे दर्शयिष्यते। एवञ्च आभ्यन्तरे सुखादौ मन इव, वाह्येषु शब्दादिषु श्रोत्रादीनि असाधारणकारणानि। मनस्तु वाह्येषु सर्वत्र साधारणकारणमिति भेदः। एवञ्च ज्ञानकारणेन्द्रियशून्ये एवाचेतनशब्दस्य प्रवृत्तिः। अतएवोक्तं “सेन्द्रियं चेतनं द्रव्यं निरिन्द्रियमचेतनमिति”। एवञ्च वृक्षादीनामपि अन्तःकरणादिमत्त्वमस्त्येव। अन्यथा सुखदुःखानुभवो न स्यात्। तेषां हि खकर्म्मानुसारिदुःखभोगार्थमेव पापेनैव स्थावरत्वप्राप्तिः। अतएव “महापातकजान् घोरान् नरकान् प्राप्य दारुणान्। कर्मक्षयात् प्रजायन्ते महापातकिनस्त्विह” इत्युपक्रम्य “तृणगुल्मलतात्वञ्च क्रमशो गुरुतल्पगः” इति याज्ञवल्क्येन चेतनस्यैव पापावशेषभोगार्थं तृणादिरूपेण जन्मोक्तम् “शरीरजैः कर्म्मदोषैर्यातिस्थावरतां नर” इति च सामान्यतः शारीरिकपापात् वृक्षादिरूपस्थावरजन्म तेनैवोक्तमतस्तेषां दुःखभोगर्थमेव वृक्षादिरूपत्वप्राप्तौ इन्द्रियाभावे कथङ्कारं ते दुःखमनुभवेयुरित्यवश्यं तेषु इन्द्रियादिमत्त्वमस्त्येव। अतएव पद्मं सरोऽन्तर गच्छति, शाखा च्छिन्नापि चेतनसंयोगात् पुनः प्ररोहतीत्युपलभ्यते। अतएव च श्रुतौ “अथ जीवो यां जहाति सा शुष्यती” त्युक्तम्। तेन तेषां जीवसंबन्धोऽस्त्येव किन्तु विशिष्टचेतनाशून्यत्वादेव तेषु अचेतनत्वव्यवहार इति भेदः। पदार्थादर्शे “देहश्चतुर्विधो ज्ञेयो जन्तोरुत्पत्तिभेदतः। उद्भिज्ज ऊष्मजोऽण्डोत्थश्चतुर्थस्तु जरायुज” इति स्थावराणां देहसम्बन्ध उक्तः। “चेतनाधिष्ठिते भोगायतननिर्म्माणमन्यथा पूतिभावप्रसङ्ग” इति सांङ्ख्ये च चेतनसम्बन्धे एव भोगायतनरूपदेहोत्पत्तिरुक्ता। तेषाञ्च भोगायतनदेहवत्त्वेऽपि सर्वेन्द्रियस्थानगोलकादेरभावात् न दर्शनादि किन्तु त्वाचप्रत्यक्ष घ्राणजप्रत्यक्ष च भवत्येव अतएव अग्न्यादिखरतरकिरणस्पर्शे तेषां शुष्कता, ओषधिविशेषजधूमादिसम्पर्के च तद्घ्राणात् पुष्पफलोत्पत्तिः। अत एव तेषां द्वीन्द्रियत्वेन व्यवहारः यथोक्तम् “पञ्चेन्द्रिया मनुष्याद्याः सर्पाद्याश्चतुरिन्द्रियाः। त्रीन्द्रियाः कृमिकीटाद्या द्वीन्द्रिया वृक्षजातय” इति। मनसो विद्यमानत्वेऽपि हृदयरूपविशिष्टस्थानाभावात् न स्पष्टमवबोधः। सुश्रुते हि हृदयस्थानमुपवर्ण्य “तद्धृदयं विशिष्टचेतनाश्रयमित्युक्तम्” तेन तेषां विशिष्टचेतनाश्रय- हृदयस्थानशून्यत्वात् विशिष्टचेतनावत्त्वं नास्ति सुखदुःखानुभवमात्रं तु तेषां जायते एवेति विशेषः तेनैव स्वस्वकर्म्मफलानुरूपदुःखानुभवात् स्वस्वकर्म्मफलभाक्त्वम् इति सुस्थितम्। चेतनाशून्ये पदार्थमात्रे त्रि०। “अचेतनं चेतनावदिव लिङ्गमिति” सा० का०। तत्तद्विशेषज्ञानशून्ये च। “तन्तु दुःखाभिसन्तप्तं विलपन्तमचेतनमिति पुरा०। अत्र दुःखानुतप्तत्वेन तदनुभवस्योक्तेः तथाभूतेऽपि चेतने अचेतनत्वोक्तिः विवेकज्ञानशून्यत्वपरत्वेनैव, एवमन्यत्रापि। “अहङ्कारलये सुप्तौ भवेद्देहोऽप्यचेतन” इत्युक्तिस्तु देहस्य चैतन्यप्रकाशावच्छेदकतया, जागरे स्वप्ने च चैतन्यमुपचर्य्य सुषुप्तौ अवच्छेद्याहङ्काररूपमनसो लयात् कथमवच्छेदकत्वं? स्यादित्यतीऽचेतनत्वमित्येवंपरा। अन्यथा “शरीरस्य न चैतन्यं मृतेषु व्यभिचारतः” इत्युक्तेः देहे सदा चैतन्याभावस्य सिद्धत्वात् सुषुप्तौ तथात्वकथननर्थकं स्यात्। सुषुप्तावपि इन्द्रियाणां मनसश्च विशिष्टव्यापारराहित्येन लयत्वोपचारः किन्तु आत्मनि तदापि चैतन्यमस्त्येव। “आनन्दभुक् चेतोमुखः प्राज्ञ” इति श्रुतेः सुखमहमस्वाप्सं न किञ्चिदवेदिषमिति” सुप्तोत्थितस्य परामर्शाच्च आनन्दानुभवस्य तत्रापि सत्त्वात् सुतरां देहस्य तदनुभवज्ञानावच्छेदकत्वमस्त्येवेति विशेषः। विस्तरस्तु सुषुप्तिशब्दे वक्ष्यते।
अचेतस् = त्रि० न चेतति चित–असुन् न० त०। चेतनाशून्ये अचेतने घटादौ, तत्तद्विषयज्ञानरहिते च। “गतसंज्ञमचेतसमिति” पुरा०। नास्ति चेतोऽस्य। चित्तरहिते त्रि०।
अचेतान = त्रि० चित–शानच् वेदे न मुक् न० त०। चैतन्यरहिते “अचेतानस्य मा पथो वि द्रुक्षः इति” वेदः।
अचेष्ट = त्रि० नास्ति चेष्टा यस्य। चेष्टारहिते। चेष्टा च “आत्मजन्या भवेदिच्छा–इच्छा जन्या भवेत् कृतिः। कृतिजन्या भवेच्चेष्टा चेष्टाजन्या भवेत्क्रिया” इत्युक्तेः यत्नसाध्या क्रियाजनकव्यापाररूपा। चेतनाधिष्ठितदेहेष्वेव कर्म्मविशेषः न तदनधिष्ठिते तथा च यस्मिन् देहे आत्मनो यत्नो भवति तद्देहावच्छेदेनैव चेष्टा जायते नान्यस्मिन् सा च उद्यमरूपैव। मनोवायुभिन्नद्रव्यस्य न स्वतःक्रिया सम्भवति किन्तु गुरुद्रव्याद्याघातनोदनादिनैव क्रिया भवति ना यथा। तथा च हस्तादिचालनदर्शनात् तत्कारणीभूतनोदनादिकमनुमीयते तच्च नीदनम् आत्मकर्तृकमेव अन्यस्यानुपलब्धेः। अधिकं चेष्टाशब्दे वक्ष्यते।
अचेष्टता = स्त्री अचेष्टस्य भावः। चेष्टाराहित्ये।
अचैतन्य = त्रि० नास्ति चैतन्यं चेतना यस्य। चैतन्यशून्ये। “अचैतन्यमिदं विश्वं दैवं चैतन्यमेव यदिति”। न० त०। चैतन्यभिन्ने न०।
अच्छ = अव्य० न च्छ्यति दृष्टिं सम्मुखत्वात् छो–क न० त०। आभिमुख्ये। “अच्छा नृचक्षा असरत् पवित्रे इति” वेदः। “अच्छ गत्यर्थवदेष्विति” सूत्रे “अच्छगत्य अच्छोद्य इत्युदाहृत्य अभिमुखं गत्वा अभिमुखमुक्त्वेति” व्याकृतम् सि० कौ०।
अच्छ = त्रि० न छ्यति दृष्टिम्, छो–क न० त०। स्वच्छे निर्म्मले। निर्मले हि वस्तुनि दृष्टिः प्रसरति न तु समले आभ्यन्तरपर्य्यन्तं धावतीति निर्मलस्यैव तदप्रतिबन्धकत्वात्तथात्वम्। “स्वच्छन्दोच्छलदच्छकच्छकुहरेति काव्यप्र०। स्फटिके पु०। न छाति भक्षयति नाशितसत्त्वं” छा–भक्षणे क न० त०। भल्लूके पु०। अच्छभल्लुकैत्येकं नामेत्यन्ये।
अच्छन्दस् = त्रि० नास्ति अध्येयत्वेन छन्दोवेदोऽस्य तुक्। वेदाध्ययनशून्ये अनुपनीते बालके, सर्व्वथा तच्छून्ये शूद्रादौ च। नास्ति छन्दो वृत्तानुसारी, परिमितमात्राक्षरादिसन्निवेशविशेषो यत्र ७ व० तुक्। छन्दःशून्ये गद्यात्मके, चूर्ण्णके वा शब्दसमूहे। नास्ति छन्दोभिप्रायो यस्य ब० तुक्। अभिप्रायशून्ये। वा कपि। अच्छन्दस्कोऽप्युक्तार्थेषु।
अच्छावाक = पु० अच्छं निर्म्मलम् अच्छ आभिमुख्येन वा वक्ति शंसति वच–कर्त्तरि संज्ञायां घञ् (निपातस्य चेति) दीर्घः। शंसनकर्त्तरि होतृसहकारिणि सोमयागसम्बन्धिनि ऋत्विग्भेदे। स च आश्वलायनेन दर्शितः। “प्रागपि सोमेनैके, इत्युपक्रम्य, “तस्यर्त्विजः, चत्वारस्त्रिपुरुषाः, तस्य तस्योत्तरे त्रयः, होता, मैत्रावरुणोऽच्छावाकोग्रावस्तुत्, अध्वर्युः, प्रतिप्रस्थिता नेष्टोन्नेता, ब्रह्मा, ब्राह्मणाच्छंस्याग्नीध्रः पोता, उद्गाना, प्रस्तोता प्रतिहर्त्ता सुब्रह्मण्य इति, एतेऽहीनैकाहैर्याजयन्ति, एत एवाहिताग्नय इष्टप्रथमयज्ञा गृहपतिसप्तदशा दीक्षित्वा समाप्याग्नींस्तन्मुखाः सत्राण्यासते” इति। “अस्यायमर्थः, दर्शपूर्णमासाभ्यामिष्ट्वा पश्चाद्वा तद्यजमानः पुरस्ताद्वा सोमेन यजेत तस्य सोमयागस्य होताध्वर्य्युर्ब्रह्मोद्गातेति चत्वारः ऋत्विजो मुख्याः ते च प्रत्येकं त्रिभिः त्रिभिः पुरुषैरुपेता अतस्तस्य तस्य एकैकस्योत्तरे त्रयः पुरुषा भवन्ति, त एते होत्रादिनामकाः षोडशर्त्विजो द्विरात्रादिभिरहीनसंज्ञकैरग्निष्टोमादिभिरेकाहसंज्ञकैर्याजयन्ति। एतएव होत्रादयः षोडशर्त्विजः स्वयमप्याहिताग्नयः प्रथमयज्ञेनाग्नोमे- नेष्ट्वा गृहपतिसंज्ञकेन सप्तदशसंख्यापूरकेण सहिता द्वादशाहादिसत्रार्थं दीक्षित्वा स्वस्वसम्बन्धिनोऽग्नीनेकत्र स्थापयित्वा तत्प्रधानाः सत्राण्युपतिष्ठेयुः इति” माष्यम्। “यदच्छावाकमनुसन्तिष्ठते इति” ता० ब्रा०। अच्छावाकशब्दोऽस्त्यत्र छ। अच्छावाकीयम् तच्चब्दयुक्ते सूक्तभेदे, तच्च सूक्तम्” अच्छावाक! वदस्वेत्युक्तोऽच्छा वो अग्निमवस इति तृचमन्वाहेत्यादिना” दर्शितम्। अच्छावाकस्येयम् यत्। अच्छावाक्या। अच्छावाकर्त्विक्–पाठ्यायामृचि। “एषा होत्रा यदच्छावाक्या” इति ता० ब्रा०। “अच्छावाक्या अच्छावाकसम्बन्धिनी होत्राशंसनरूपा क्रियेति” तद्भाष्यम्।
अच्छावाकसामन् = न० अच्छावाकेन गेयं साम। “य एक इद्विदयत इति तृचे गेये सामभेदे एतस्यैव नामान्तरमुद्वंशीय मिति” “त्रैककुभं चोद्वंशीयञ्चान्ततः प्रतिष्ठाप्ये इति” ताण्ड्य० ब्रा०। “त्रैककुभं ब्रह्मसाम भवति, उद्वंशीयमच्छावाकसामेति, “य एक इद्विदयते इति” तृचे गेयं साम उद्वंशीयमेते सामनी इति” तद्भाष्यम्।
अच्छावाकीय = न० अच्छावाकस्य ऋत्विग्भेदस्य कर्म्म भावो वा “होत्राभ्य” इति छ। शंसनरूपे अच्छावाककर्म्मणि, तद्भावे च।
अच्छिद्र = त्रि० न छिद्रं तत्तत्कार्य्येषु प्रमादादिना स्खलनं, रन्ध्रं वा यत्र। प्रमादादिना स्खलनरहिते। “अच्छिद्रेण विचेतव्या देशाः सगिरिकन्दरा” इति रा०। “यज्ञच्छिद्रं तपश्छिद्रं यच्छिद्रं पूजने मम अच्छिद्रमस्तु तत्सर्वमिति” “अच्छिद्रं तु भवत्वेतत् सर्वेषाञ्च शिवाय नः” इति च पुरा०। “तत्तथा क्रियतां राजन् यथाऽच्छिद्रः क्रतुर्भवेदिति” भार०। रन्ध्ररहिते च।
अच्छिन्न = त्रि० छिद–भावे क्त न० ब०। खण्डनरहिते, छेदन रहिते, सन्तते च “वसुधारां प्रकुर्वीत अच्छिन्न घृतधारयेति” पुरा०। कर्मणि क्त न० त०। छिन्नभिन्ने त्रि०।
अच्छिन्नपत्र = पु० अच्छिन्नं सन्ततं पत्रमस्य। शाखोटकवृक्षे सन्ततपत्रयुक्तवृक्षमात्रे च। अच्छिन्नपर्णादयोऽप्यत्र।
अच्छेदिक = त्रि० छेदनं नार्हति ठन्। छेदनानर्हे।
अच्छेद्य = त्रि० न छेत्तुमर्हति छिद–अर्हार्थे कर्म्मणि यत्। छेदनानर्हे। आत्मनि पु० “अच्छेद्योऽयनदाह्योऽयमक्लेद्योऽशोष्य एव चेति” गीता। आत्मनश्च अवयवाभावात् अवयवद्वैधीकरणरूपच्छेदनानर्हत्वात् तथात्वम्।
अच्छोद = न० अच्छं निर्म्मलमुदकं यस्य उदादेशः। हिमालय प्रदेशस्थे कादम्बरी प्रसिद्धे सरोवरभेदे। “आह्लादनं दृष्टेः, अच्छोदं नाम सरो दृष्टवानिति” काद०। नदीभेदे स्त्री। अग्निष्वात्तादीन् प्रक्रम्य, “एतेषां मानसी कन्या अच्छोदा नाम निम्नगा” इति पुरा०।
अच्युत = पु० खरूपसामर्थ्यान्न च्युतो न च्यवते न च्यविष्यते वा च्यु–कालसामान्ये कर्त्तरि क्त न० त०। परमेश्वरे “शास्वतं शिवमच्युतमिति” श्रुतिः। “यस्मान्न च्युतपूर्ब्बीऽहमच्युतस्तेन कर्म्मणेति” भगद्वाक्यम्। “तेन च्युत्यभाव रूपप्रवृत्तिमित्तेने” त्यानन्दगिरिः। तदवतारभेदे वासुदेवे “इयमच्युतलीलाढ्या सद्वृत्ता जातिशालिनीति” छन्दोमञ्जरी अच्युतस्य लीला अच्युता अभ्रष्टा लीला च। षड्भावविकाररहिते च “अच्युतः प्रथितः प्राण” इति सहस्र नामभाष्ये तथैव व्याख्यातम्। नारायणे च “गरुडमूर्त्तिरिवाच्युतस्थितिरमणीयेति” काद०। अच्युतस्य विष्णोः स्थितिः अच्युता अचञ्चला च स्थितिरिति तदर्थः। चलनरहिते अभ्रष्टे स्थिरे त्रि०। “अक्षितमसि अच्युतमसीति” वेदः। द्वादशसर्गयुक्ते काव्यभेदे पु० हेमचन्द्रः। न च्योतति क्षरति च्युत–क न० त०। क्षरणशून्ये त्रि०।
अच्युताग्रज = पु० अच्युतस्य वासुदेवस्य उपेन्द्रस्य वा अग्रजः ६ त०। बलदेवे। वसुदेवाज्जन्मकाले बलदेवस्य ततोऽग्रजननात् तथात्वम्। इन्द्रे। कश्यपाज्जन्मकाले च अदित्यामग्रोत्पन्नत्वात् तस्य तथात्वमिति भेदः। तयोश्च तदग्रजत्वं सङ्कर्षणशब्दे इन्द्रावरजशब्दे च वल्यते।
अच्युताङ्गज = पु० अच्युतस्य वासुदेवस्य अङ्गजः। कृष्णपुत्त्रे प्राधान्यात् कामदेवे।
अच्युतात्मज = पु० ६ त० कामदेवे। स हि रुक्मिण्यां कृष्णात् जात इति भा० १० स्कन्धे।
अच्युतावास = पु० अच्युतेन ओष्यतेऽत्र आ–वस–आधारे घञ् ६ त०। अश्वत्थवृक्षे। “अश्वत्थः सर्ववृक्षाणामि” त्युक्तेस्तस्य तत्रोपस्यत्वात्तदावासत्वम्।
अच्युति = स्त्री च्यु–क्तिन् न० त०। क्षरणाभावे। बहु०। च्युतिशून्ये त्रि०।
अज = षतौ क्षेपणे च भ्वादि० पर० सक० सेट्। अजति। अवैषीत्–आजीत्। तृच् अजिता–वेता। घञ्। आजः। “अजन्ति वह्निं सदनान्यच्छ” इति वेदः।
अज = दीप्तौ इदित् चुरादि० उभय० सेट् अक०। अञ्जयति ते। आञ्जिजत् त।
अज = पु० न जायते जन ड न० त०। ईश्वरे, “न जातो न जनिष्यते” इति श्रुतेः “न हि जाती न जायेऽह न जनिष्ये कदाचन। क्षेत्रज्ञः सवभूतानां तस्मादहसजःस्मृतः” इति भार०। जीवे च “अजोनित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे” इति गीता। “जहात्येनां भुक्तभोगामजोऽन्य इति” श्रुतिः। स हि स्वीपाधिभूत बुद्धिनिष्ठकर्म्मभिरारब्धदेहमधिष्ठाय बुद्धिनिष्ठकर्त्तृत्वादिकमात्मन्यभिमन्यमानः जीव इति व्यवह्रियते “न जायते म्रियते वा कथञ्चित् नायं भूत्वा भविता वा न भूय” इति गीतायां तस्य जन्मादिशून्यत्वमुक्तं तच्च “जायते अस्ति वर्द्धते विपरिणमते अपक्षीयते नश्यतीति” यास्कोक्तषड्भावविकाराणामुपलक्षणमाद्यन्तयोः जन्मनाशरूपविकारयो रभावकथनेन तदन्तःपातिनामपि सन्दंशपतितन्यायेन ग्रहणावश्यम्भावात्। स च ब्रह्माभिन्न एवेति वेदान्तिमतम् बुद्धिरूपोपाधीनां नानात्वात् न सर्वव्यवहारसाङ्कर्य्यम्। बहव इति साङ्ख्यादयः “जन्मादिव्यवस्थातः पुरुषबहुत्वमिति” पुरुषस्योपाधिभूतबुद्धिभेदेऽपि “उपाधिर्भिद्यते न तु तद्वानिति” सूत्रेण उपाधिभेदेऽपि उपहितस्यैकत्वेन न भेदः, विशिष्टस्यानतिरिक्ततया न जन्मादिव्यवस्थेति पुरुषबहुत्वमङ्गीचक्रुः कर्त्तृत्वादिकं बुद्धिगतमपि स्वोपाहितचैतन्ये एव प्रतिविम्बति तेन तदविविक्तचैतन्ये तदवभासात् पुरुषस्य भोगः, “चिदवसानोभोग इति” सूत्रे तथैव प्रतिपादनात् एवञ्च यावत्यः बुद्धिव्यक्तयस्तावन्त एव पुरुषाः स्वस्वोपाधिकृतं कर्म्मादिकं स्वकर्त्तृकतया अभिमन्यमानास्तत्प्रयुक्तं सुखदुःखादिकमात्मीयत्वेन अभिमन्यमानाः भोक्तारैति व्यवह्रियन्ते अतएवोक्तम् “बुद्धेर्भोग इवात्मनीति”। “कामः संकल्पो चिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्ह्रीर्धीर्भीरित्येतत् सर्वं मन एवेति” श्रुतेः ज्ञानादिवृत्तीनां मनोजन्यत्वात् मनोधर्म्मत्वम् सांख्यवेदान्तिनोस्तुल्यम् जीवस्य विभुत्वाङ्गीकारेऽपि स्वोपाधिबुद्ध्यधिष्ठानदेह एव विशेषसंयोगात् तत्रैव आत्मत्वाभिमानः नान्यदेहेषु, तेषां स्वभोगार्थं स्वोपाधिबुद्धिकृतकर्म्मारब्धत्वाभावात्। एवं सुखदुःखानुसन्धानमपि स्वोपाधिकृतकर्म्मविशेषादेवेति तत्तद्भेदव्यवस्थेति। ज्ञानकारणमनसाञ्च पुरुषभेदेन भिन्नत्वात् न परानुसन्धानेनापरस्यानुसन्धानप्रसङ्ग इति सांख्यभेदान्तयोस्तुल्यम्। विशिष्टस्यातिरिक्तत्वानतिरिक्त एव तयोर्विसंवादः। नैयायिकवैशेषिकादयस्तु ज्ञानादयो जीवधर्म्माः जीवाश्च वहवः नित्या विभवश्च कर्त्तृत्वं भोक्तृत्वञ्च जीवानामेव धर्म्मः, तेषां विभुत्वेऽपि स्वादृष्टारब्धदेहेष्वेव संयोगविशेषः सएव जन्म, तद्वियोगश्च सरणमित्येव विशेषः न तु स्वतो जन्मनाशाविति स्वीचक्रुः। तेन तन्मतेऽपि न अज- त्वव्याघातः। एवं सर्व्वदर्शनाङ्गीकृतसरणावजत्वम्। माध्वास्तु जीवस्याणुत्वमीश्वरादुत्थितत्वञ्च “एतस्यैव विस्फुलिङ्गाव्युच्चरन्तीति” श्रुतेस्तत्रैव तात्पर्य्यात् “बाला ग्रशतधारस्य शतधा कल्पितस्य च। भागो जीवः स विज्ञेय” इत्युक्तेश्च जीवस्याणुत्वम् अणुत्वेऽपि तेषां सर्व्वदेहगतसुखाद्यनुसन्धानं गुणद्वारैव, यथा गृहैकदेशस्थितं कस्तूरीप्रभृतिसुगन्धि द्रव्यं सौरभेण सर्वं गृहमामोदयति एवं हृदयस्थं विस्फुलिङ्गरूपं चैतन्यं सर्वदेहगतं प्रकाशं कुर्वत् शब्दादीन् विषयांश्चावभासयत् सर्वव्यापीत्युच्यते न तु स्वरूपतः “अणोरणीयान् महतो महीयानिति” श्रुतेः स्वरूपगुणाभ्यां अणुत्वमहत्त्वयोः सम्भवपरतायामेव तात्पर्य्यात्। अजत्वव्यपदेशस्तु भूतारब्धत्वाभावकृतं गौणमतोऽत्र अजशब्दो भाक्त एव इत्युररीचक्रुः। चार्वाकमते तु आत्मनो नाजत्वं देहाकारपरिणतभूतचतुष्टयस्यैव तेषां मते जीवत्वात् तद्विवरणं चेतनशब्दे वक्ष्यते। सौगतादिमते तु जीवानां संविदनतिरिक्ततया सर्वसंविदनुस्यूतत्वात् जन्मान्तरभाविनः अपवर्गरूपफलादेः स्वीकाराच्च नित्यत्व, नित्यत्वाच्च अजत्वमिति भेदः। “सत्वं रजस्तम इति प्रकृते र्गुणास्तैर्युक्तः परः पुरुष एक इहास्य धत्ते। स्थित्यादये हरिविरिञ्चिहरेति संज्ञा” मित्युक्तेश्च ईश्वरस्यैव खोपाधिमायागतसत्वरजआद्युपाधिभिः जन्मस्थितिनाशनरूपकार्य्यकरणार्थमायाविर्भावात् अजस्वरूपाननतिरेकात् तेषामजत्वं तेन ब्रह्मणि, विष्णौ, हरे च पु०। न जायते इत्यजा। सांख्यमतसिद्धप्रधानापरपर्य्याये साम्यावस्थापन्नसत्वरजस्तमोरूपगुणत्रयात्मके स्त्री। “अजामेकां लोहितशुक्लकृष्णवर्णाः सरूपाः बह्वीः प्रजाः सृजमानामिति” श्रुतिः। सत्वादिगुणानुसारेण श्वेतादिरूपयुक्तबहुकार्य्यस्रष्टृत्वाच्च तस्याः नानावर्ण्णत्वमिति सांख्याः। वेदान्तिनस्तु एतां श्रुतिं तेजोऽबन्नरूपपरतया व्याचक्रुः। तथा हि “हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति” तेजोऽबन्नाभिमानिनीस्तिस्रो देवता अनुप्रविश्येत्युक्तेः प्रक्रान्ततेजोऽबन्नानामेव भौतिकसृष्ट्युपादानत्वावगमात् तासामेव प्रकृतित्वेन अजत्वम्, तासाञ्च लोहितादिरूपाणि तत्प्रकरणशेषे उक्तानि “यल्लोहितं रूपं तत्तेजसो रूपं, यच्छुक्लं तदपां, तत् कृष्णं तदन्नस्येति”। एवञ्चोक्तश्रुत्युक्तलोहितादिरूपाणामेवेह श्रुतौ प्रप्त्वभिज्ञानात् अजाशब्देन तेजोऽबन्नरूपप्रकृतेर्ग्रहणमिति” तेन अजामित्यादिश्रुतौ अजा- शब्देन तादृशप्रकृतिरेव बोध्यते। तथा च तादृश्यां तेजोबन्नाभिमानिदेवतायां स्त्री। अजाशंब्दीक्ता नानागुणाः सन्त्यस्य अच्। छागे तस्य नानावर्ण्णत्वात्तथात्वम्। छाग्यां स्त्री जातित्वेऽपि अजादित्वात् टाप्। “अजागलस्तनच्छायेति” ज्योतिषम्। द्वादशधा विभक्तस्य राशिचक्रस्य मेषरूपे प्रथमे राशौ “जीवार्किभानुजेज्यनां क्षेत्राणि स्युरजादयैति” ज्योतिषम् तस्य मेषरूपत्वेऽपि मेषस्य अजतुल्याजाधिष्ठितरूपाभ्यां तत्त्वम्। मेषे च अजेन ब्रह्मणा दक्षयज्ञभङ्गसमये मेषरूपधारणेन पलायमानत्वात् अजाधिष्ठितरूपवत्त्वात् मेषस्य उपचारात् अजत्वम्। माक्षिकधातौ पु०। जननशून्ये गगनादौ त्रि०। आत् विष्णोर्जायते इति। चन्द्रे कामे, च पु०। “चन्द्रमा मनसो जात इति” श्रुतौ विष्णोर्मनीजन्यत्वाच्चन्द्रस्य अजत्वम्।। कामस्य वासुदेवात् रुक्मिण्यां जातत्वं भागवते प्रसिद्धम् दशरथपितरि रघुराजपुत्त्रे रामचन्द्रस्य पितामहे सूर्य्यवंश्ये नृपभेदे च। तस्याजत्वञ्च अजरूपब्रह्मणो मूहूर्त्तजातत्वात् यथोक्तं रघौ “ब्राह्म्ये मूहूर्त्ते किल तस्य देवी कुमारकल्पं सुषुवे कुमारम्। अतः पिता ब्रह्मण एव नाम्ना तमात्मजन्मानमजं चकारेति” तच्चरितञ्च तत्रैव पञ्चमाद्यष्टमसर्गान्ते द्रष्टव्यम्। छागतुल्याकारवत्त्वात् औषधिविशेषे स्त्री। तल्लक्षणं “अजास्तनाभकन्दा तु सक्षीरा क्षुपरूपिणी। अजा महौषधी ज्ञेया शङ्खकुन्देन्दुपाण्डरेति” वैद्यकम्। ऋषिभेदे पु०। गर्गा० यञ्। आज्यः तदपत्ये। बहुषु लुक्। अजाः। नडा० फक्। आजायनः तद्गोत्रापत्ये। उपमानतया पूर्व्वनिर्द्देशे तदन्तपादस्य नान्त्यलोपः। अजपादः स्त्रियान्तु कुम्भप० ङीप् अन्त्यलोपः पदादेशश्च। अजपदीति भेदः। एकादशरुद्रमध्ये प्रथमे रुद्रे पु०। तद्विवरणम् अजैकपादशब्दे दश्यम्।
अजकण = पु० अजस्य कर्ण इव पर्ण्णं यस्य! छागतुल्य लम्बायमानपत्रयुक्ते (साल) इति ख्याते वृक्षे मरिचवृक्षे च। ६ त० छागकर्णे।
अजकर्ण्णक = पु० अजकर्ण इव कायति पत्रद्वारा प्रकाशते कै–क। (साल) इति ख्याते वृक्षे।
अजकव = अस्त्री० अजी विष्णुः को ब्रह्मा तौ वाति त्रिपुरासुरबधद्वारानेन वा + करणे क ६ त०। शिवधनुषि। शिवो हि अनेनैव धनुषा त्रिपुरासुरस्य बधेन विष्णुं ब्रह्माणं च प्रीणितवान् इति तस्य धनुषोऽजकवत्वम् अजकौ अवतीति। अजकावमप्यत्र। “धनुष्यजगवं युग्यमजकावमजीकवमिति” शब्दार्णवः। अजकं छागं वाति प्रीणाति वा–क। (वावुइ इति) ख्याते वर्वरीवृक्षे पु०। तद्भक्षणे तस्य प्रीत्याधिक्यात्तथात्वम्।
अजका = स्त्री अजस्य विकारः अवयवः गलस्तनः पुरीषं वा कन्। अजागलस्थे स्तनाकारे मांसखण्डे, तत्पुरीषे च।
अजकाजात = पु० ५ त०। अजकेव जातः। “अजापुरीषप्रतिमो रुजावान् सलोहितो लोहितपिच्छिलास्रः। विदार्य्य कृष्णं प्रचयोऽभ्युपैति तं चाजकाजातमिति व्यवस्येदिति” वैद्यकोक्ते रोगभेदे।
अजकाव = न० अजका अजागलस्तनैव वाति प्रकाशते वा–क। अजागलस्तनाकारकाष्ठावयवयुक्ते मैत्रावरुणे यज्ञीयपात्रभेदे, “अजकावं दुर्दृशीकं तिरोदधे” इति वेदः। अजैव अजका तत्पुरीषं वा तद्वत् वाति प्रकाशते वा–क। अजकाजाताख्ये रोगभेदे पु०। शिवधनुषि न०।
अजक्षीर = न० अजायाः क्षीरं ६ त० पुंवद्भावः। छागीस्तन्यदुग्धे “अजक्षीरेण पाचयेदिति” वैद्यकम्।
अजग = न० अजं विष्णुं गच्छति शरत्वेन गम–त। शिवधनुषि। अजेन ब्रह्मणा गम्यते गीयते वा कर्म्मणि गम–ड–गै–क वा। विष्णौ पु०। अजेन गच्छति, अजं छागं यज्ञाङ्गत्वेन वा गच्छति गम–ड। वह्नौ पु०। प्रज्ञा० स्वार्थे अण् आजगमपि शिवधनुषि “स्थाणोर्धनुष्याजगमित्यमरमाला।
अजगन्धा = स्त्री अजस्य गन्ध इव गन्धोऽस्याः। (वनजोयान) इति ख्यातायां वनयामान्याम् अजमोदायाम्।
अजगन्धिका = स्त्री अजस्य गन्ध इव गन्धो यस्याः ब० कप्, कापि अत इत्त्वम्, अजस्य गन्ध इव गन्धः अस्त्यस्य ठन् वा। (वावुइ इति) प्रसिद्धे वर्वरीशाके।
अजगन्धिनी = स्त्री अजस्य मेषस्य गन्धी लेशः एकदेशः शृङ्गमिति यावत् सोऽस्याः फलाकारेणास्तीति अजगन्ध + इनि ङीप्। (गाडरशिङ्गा) इति प्रसिद्धे अजशृङ्गीवृक्षे।
अजगर = पु० अजं छागं गिरति गलति गॄ–अच्। वृहत्सर्पे। अजगरं अगस्त्यशापात् वृहत्सर्पभावापन्नं नहुषमधिकृत्य कृतो ग्रन्थः अण्। आजगरम अजगरकथायाम् न०। तच्च वनपर्व्वणि आजगरोपाख्यानरूपम्।
अजगव = पु० अजगो विष्णुः शरत्वेन त्रिपुरासुरबधकालेऽस्यास्ति अजग + अस्त्यर्थे व। शिवधनुषि “शिवोऽप्यजगवं चापं विधुन्वन् तरसा रणे” इति पुरा०।
अजगाव = पु० अजगं विष्णुमवति अव–अण् उप० स०। शिवधनुपि।
अजघन्य = त्रि० न जघन्यः अधमः न० त०। अधमभिन्ने श्रेष्ठे च। “त्वष्टा च द्वादशोविष्णुरजघन्योजघन्यज” इति भार०।
अजजीविक = त्रि० अजएव क्रयविक्रयादिभ्यां पालनादिना वा जीविका जीवनोपायोऽस्य। छागक्रयविक्रयादिना जीविकावति।
अजटा = स्त्री नास्ति जटा शिफा यस्याः। (भुंइआमला) इति प्रसिद्धे शिफारहिते वृक्षभेदे। पृ०। अजडाप्यत्र
अजडा = स्त्री अजडयति स्पर्शमात्रादङ्गमर्द्दनार्थं चालयति अजड + णिच्–ततः अच्। (आल्कुशीति) प्रसिद्धे वृक्षेजडभिन्ने जाड्यविरोधिचाञ्चल्यवति त्रि०।
अजथ्या = स्त्री अजानां समूहः अज + थ्यन् स्त्रीत्वात् टाप्। अजसमूहे। तद्वन्नानावर्णत्वात् स्वर्णयूथिकायाञ्च।
अजदण्डी = स्त्री अजस्य ब्रह्मणोदण्डोऽस्याः ५ ब० गौरा० ङीष्। ब्रह्मदण्डीवृक्षे ब्रह्मणो यज्ञार्थदण्डस्य तदीयकाष्ठेन करणात्तथात्वम्।
अजदेवता = पु० ६ त०। छागाधिदेवे वह्नौ “रौद्री धेनुर्विनिर्द्दिष्टा छाग आग्नेय उच्यते” इति शु० विष्णुध०।
अजननि = स्त्री न + जन–आक्रोशे अनि। आक्रुश्यमाने जन्माभावे। “तस्याजननिरेवास्तु जननीक्लेशकारिणीति” माघः। वा ङीप् अजननीत्यप्यत्र। अर्थाभावे अव्ययी०। जनन्याअभावे अव्य०।
अजन्मन् = पु० नास्ति जन्म यत्र। जन्मनिवृत्तौ मोक्षे “तस्मात् सयोगादधिगस्य योगमजन्मनेऽकल्पत जन्मनीरु” रिति रघुः। ६ त०। जन्मरहिते त्रि०।
अजन्य = स्त्री लौकिकहेतुभिर्न जन्यते जन–णिच्–यत् न० त०। शुभाशुभसूचकेदैवकृते भूकम्पादावुत्पाते। जन्यभिन्ने त्रि०।
अजप = पु० अस्पष्टं जपति निन्दार्थे नञ्, जप–अच्। कुपाठके अजं पाति रक्षति पा–क ६ त०। छागपालके त्रि०।
अजपति = पु० ६ त०। छागश्रेष्ठे, मेषराशिपतौ मङ्गले च।
अजपथ = पु० अजस्य तच्चरणयोग्यः पन्थाः अजेन ब्रह्मणा निर्मितः पन्था वा अप्समा०। छागचरणयोग्यपथे गगनस्थे पथाकारे सेतौ च (यमनाला) छायापथे।
अजपथ्य = त्रि० अजपथ इव देवपथा० इवार्थे यत्। सङ्कीर्णपथे नगनसेतुतुल्ये च।
अजपद = पु० अजस्येव पदं चरणोऽस्य। अजैकपान्नामके रुद्रभेदे।
अजपा = स्त्री प्रयत्नेन न जप्या अप्रयत्नोच्चारितत्वात् जपकर्म्मणि अच्। श्वासप्रश्वासयोः वहिर्गमनागमनाभ्याम् अक्षरनिष्पादनरूपेजपे, स च हंसः, सोहमित्याकारस्यैव, तदाकारमन्त्रे च। “उच्छ्वासैरेव निश्वासैर्हंस इत्यक्षरद्वयम् तस्मात् प्राणश्च हंसाख्य आत्माकारेण संस्थितः। नाभेरुच्छ्वस्य निश्वासात् हृदयाग्रे व्यवस्थितः। षष्टिश्वासै र्भवेत् प्राणः षट् प्राणानाडिका मता। षष्टिर्नाड्यस्त्वहोरात्रम् जपसंख्याक्रमोमतः। एकविंशतिसाहस्रं षट्शताधिकमीश्वरि!। जपति प्रत्यहं प्राणी सान्द्रानन्दमयीं पराम्। विना जपेन देवेशि! जपो भवति मन्त्रिणः। अजपेयं ततः प्रोक्ता भवपाशनिकृन्तनीति” तन्त्रम्।
अजपाद = पु० अजस्य पाद इव पादोऽस्य हस्त्या० न अन्त्याकारलोपः। रुद्रभेदे तद्देवताकत्वात् पूर्ब्बभाद्रपदनक्षत्रे च। पाच्छब्देन तु समासे अजपादपि उक्तार्थे पु०।
अजपाल = त्रि० अजान् छागान् पालयति पा + णिच्–अण् ६ त०। छागपालके।
अजबन्धु = पु० अजस्य बन्धुरिव मूर्खत्वात्। अजतुल्यमन्दबुद्धौ। “सिलाची नाम कानीना अजबन्धुः पिता तवेति”।
अजभक्ष = पु० अजैर्भक्ष्यतेऽसौ भक्ष–कर्म्मणि घञ् ६ त०। (वावुइ इति) प्रसिद्धे वर्वरीघृक्षे तत्पत्रं हि अजैरतिप्रीतितो भक्ष्यते।
अजमार = पु० अजं मारयति विक्रयार्थं मृ–णिच्–अण् उप०। (कषाइ) इति अजमांसविक्रयोपजीवे, तत्प्रधानदेशे च। भवादौ कुर्व्वा० ण्य। आजमार्य्यस्तद्भवादौ त्रि०।
अजमीढ = पु० अजोमीढः यज्ञे सिक्तः यत्र ब०। (आजमीर) प्रसिद्धे देशे। राजनि अण्। आजमीढः तद्देशाधिपे प्रसिद्धतया युधिष्ठिरे।
अजमुख = पु० अजस्य मेषस्य मुखमेव मुखत्वेन कल्पितमस्य। दक्षे प्रजापतौ, तस्य हि शिवद्वेषे मुखेन शिवनिन्दाकरणात् दक्षयज्ञे शिवाज्ञया वीरभद्रेण तस्योत्पाटने कृते पश्चात् शिवप्रसादने पुनरुत्पादनाय वीरभद्रे नियोजिते अजमुखेनैव तन्मुखं कल्पितं तच्च काशीखण्डे विवृतं यथा। “वीरभद्रोऽपि तत् सर्व्वं सर्व्वाज्ञां प्रतिपद्य च। विना दक्षस्य वदनं यथापूर्ब्बमकल्पपयत्। ईश्वरं ये हि निन्दन्ति ते मूकाः पशवो ध्रुवम् ततो मेषमुखं दक्षं वीरभद्रोऽव्यकल्प यदिति”।
अजमोदा = स्त्री अजस्य मोद इव मोदो गन्धो यस्याः अजं मोदयति आनन्दयति मोदि–अण् वा। अजगन्धवत्यां, वनयमान्याम् यमानीमात्रे च।
अजम्भ = पु० नास्ति जम्भो दन्तोऽस्य ब०। भेके सूर्य्ये च। दन्तशून्ये त्रि०। अजातदन्ते अवस्थाभेदे च।
अजय = पु० वीरभूमिनगरसन्निधाने (अजय) इति नामके नदविशेषे इति कल्पद्रुमः। तन्मूलं मृग्यं संस्कृतशास्त्रे तन्नदस्य कुत्राप्यनुल्लेखात्। अजेन छागेन याति या–क ३ त०। छागवाहने अग्नौ पु०। जि–अच् न० त०। जयाभावे “लाभालाभी जया जयाविति” गीता। ब०। जयशून्ये त्रि०। अव्ययी०। जयाभावे अव्य०। नास्ति जयो मादकत्वेनास्याम्। (सिद्धि, भाङ्ग) इति च प्रसिद्धनामिकायाम् विजयायाम् स्त्री।
अजय्य = त्रि० जि–शक्यार्थे यत् न० त०। जेतुमशक्ये दुर्जये शत्रौ पणे च। “दैवैरजय्यान् दितिजान् विजिग्ये” इति भार०। “तत्राजय्यं जिगाय तान्” इति मुग्ध०।
अजरा = त्रि० नास्ति जराऽस्याः। (घृतकुमारी) इति प्रसिद्धे वृक्षे तस्य जराभावात्तत्त्वम्। अव्ययीभावे अच् समा० अजरसम् जराभावे अव्य०। नास्ति जरा यस्य, देवे। तेषां षड्भावविकारमध्ये जायतेऽस्ति वर्द्धते इति तिसृणामेव दशानां सद्भावात् तदुत्तरवर्त्तिनीनां “विपरिणमते अपक्षीयते नश्यतीति” तिसृणामभावादजरत्वम्। जराशून्ये त्रि०। “अजरामरवत् प्राज्ञो विद्यामर्थांश्च चिन्तयेदिति” नीति०। ब्राह्मणजातौ स्त्री। “सा सत्या साऽजरामरेति पुरा०। न जीर्य्यति क्षीयते जॄ–अच् न० त०। परब्रह्मणि न०। वृद्धदारकनामवृक्षभेदे पु०। गृहगोधिकायाम् स्त्री।
अजर्य्य = न० न जीर्य्यति न + जॄ–कर्त्तरि यत्। सौहार्द्दे “तेन सङ्गतमर्य्येण रामाजर्य्यं कुरु द्रुतमिति” भट्टिः।
अजलम्बन = न० अज इव लम्ब्यते गृह्यते कृष्णवर्णत्वात् कर्म्मणि ल्युट्। स्रोतोऽञ्जने।
अजलोमन् = पु० अजस्य लोमेव लोम (मञ्जरी) यस्य ब०। (शूकशिम्बो) इति ख्याते अजलोमवन्मञ्जरीविशिष्टे वृक्षभेदे। वा डाप् वा ङीप् च। अजलोमा–अजलोमी चेत्यप्यत्र स्त्री।
अजवस् = पु० जु–असुन् न० त०। वेगशून्ये। “अजवसो जविनीभिर्विवृश्चन्” इति वेदः।
अजवस्ति = स्त्री अजस्य बस्तिरिव वस्तिरस्य। ऋषिभेदे। गृष्ट्या० अपत्यार्थे ढञ्। आजवस्तेयः तदपत्ये पु० स्त्री। स्त्रियाम् आजवस्तेयी। यस्कादिपाठात् बहुषु लुकि। अजवस्तयः तदपत्येषु।
अजवाह = पु० अजं वाहयति यत्र आधारे घञ् ६ त०। देशभेदे। कच्छादि० भवाद्यर्थे अण्। आजवाहः तद्देश जातादै त्रि०।
अजवीथी = स्त्री अजेन ब्रह्मणा निर्म्मिता वीथी पदं शा० त०। गगनसेतुरूपे (यमनाला) इति ख्याते छायापथे। यामारभ्य अगस्त्यस्थानपर्य्यन्तं पितृयानपथः। “पितृयानोऽजवीथ्याश्च यदगस्त्यस्य चान्तरमिति” पुरा०।
अजशृङ्गी = स्त्री अजस्य मेषस्य शृङ्गमिव फलमस्याः व०। (गाडलशिङ्गा) इति प्रसिद्धे मेषशृङ्गतुल्यफलवत्यां मेषशृङ्ग्याम्।
अजस्तुन्द = न० अजस्य तुन्दमिव तुन्दमस्मिन् तन्नगरवासिनामित्यर्थात् सुट्। नगरभेदे। “अजस्तुन्दं नाम नगरमिति” सि० कौ०।
अजस्र = न० न + जस र। सन्तते विच्छेदरहिते। तथाभूतकालस्थायिनि वस्तुमात्रे त्रि०। “अजस्रमाश्रावितवल्लकीगुणेति” माघः “अजस्रदीक्षाप्रयतस्य मद्गुरोरिति” रघुः।
अजहत्स्वार्था = स्त्री न जहत् स्वार्थोयाम् हा–शतृ न० ब०। स्वार्थापरित्यागेन परार्थावबोधिकायां लक्षणायाम्। यथा श्वेतो धावतीत्यादौ श्वेतगुणापरित्यागेन तद्वति लक्षणा। “जहत्स्वार्थाजहत्स्वार्थे द्वे वृत्तीं ते पुनस्त्रिधा” इति हरिः।
अजहल्लिङ्ग = पु० न जहत् लिङ्गं यम् हा–शतृ न० व०। नियतलिङ्गके विशेष्यस्यान्यलिङ्गकत्वेऽपि स्वलिङ्गात्यागेन स्वलिङ्गपरे विशेषणशब्दे। तथा चान्यत्र विशेषणस्य विशेष्यानुसारिलिङ्गत्वनियमेऽपि अस्य न तथा नियमः। यथा वेदः श्रुतिर्वा प्रमाणम्।
अजहा = स्त्री न जहाति शूकान्। हा–श न० त०। (आल्कुशीति) ख्याते वृक्षे।
अजागर = पु० जागरयति जागरः न जागरो यस्मात् ५ ब०। सेवनेन निद्राराहित्यकारके “यदपेक्षयाऽन्यस्मिन् जागरणकर्त्तृत्व नास्ति” तादृशे (भीमराज) इति ख्याते भृङ्गराजे। “भृङ्गराजः सुजागर” इति रभसवाक्यात् तस्यात्यन्तनिद्राराहित्यकारित्वम्।
अजाजि(जी) = स्त्री अजेन छागेन वीयते गन्धोत्कटत्वात् त्यज्यते अज–इन् वीभावाभावः ६ त०। सर्वभक्षेणापि छागेन गन्धोत्कटतया त्यज्यमाने, (जीरा) इति प्रसिद्धे जीरके वृक्षे। काकोदुम्बरिकावृक्षे च (पेयारा)।।
अजाजीव = पु० अजेन तद्रक्षणपोषणादिना तत्क्रयविक्रयादिना वा आजीवति आ + जीव–अच् ३ त०। छाग पालके तत्क्रयविक्रयाभ्यामाजीविनि च।
अजातककुद् = पु० न जातं ककुदमंसकूटं यस्य न–ब० ककुदशब्दस्यान्त्याकारलोपः। अपूर्णककुदि अल्पवयस्के गवादिवत्से।
अजातदन्त = त्रि० न जातो दन्तोऽस्य, यस्मिन् वयसि वा। दन्तजननशून्ये, अवस्थाभेदे च। “अजातदन्ता ये केचिद् ये च गर्भे प्रपीडिता” इति वायुपुरा०। “अजातदन्तमरणे पित्रोरेकाहमिष्यते” इति शु० कूर्म्मपुरा०। तत्कालश्च नृणां षण्मासाभ्यन्तरमिति शुद्धितत्त्वे सपञ्चं निरूपितम्। पश्वादीनान्तु प्रधानदन्तोत्पत्त्यभावे एवाजातदन्तत्वव्यवहारः (आदा~ता) इत्यादि लोके प्रसिद्धिः। स च प्रायेण द्विवर्षोत्तरकालपर्य्यन्त्तः।
अजातपक्ष = त्रि० न जातौ उड्डयनसामर्थ्ययुक्तौ पक्षावस्य। अनुद्भिन्नपक्षके पक्षिणि। “अजातपक्षाः शकुना इवाबभुरिदि भार०।
अजातशत्रु = पु० जातस्य जन्तुमात्रस्य न शत्रुः अश्राद्धभोजीत्यादिवत् नञो व्य वहितेन शत्रुशब्देनान्वयात् असमर्थसमासः, न जातः शत्रुरस्य वा। युधिष्ठिरे राजनि। “न द्वेष्टि यज्जनमतस्त्वमजातशत्रुः, इति” वेणी०। एवमजातारिरपि तत्रैव। “हन्त जातमजातारेः प्रथमेन त्वयारिणेति” माघः।
अजाति = स्त्री जन–क्तिन् न० त०। अनुत्पत्तौ। ब०। जातिशून्ये, न्यायोक्ते–जात्यादौ, नित्ये च त्रि०।
अजादनी = स्त्री अजैस्तृप्त्याद्यतेऽसौ अन्येन दुःखस्पर्शत्वेऽपि अजै–राद्यते इति अद–कर्म्मणि ल्युट् ६ त०। दुरालभा इति (विचिति) इति च प्रसिद्धे स्पर्शेन दुःखदायके वृक्षभेदे।
अजादि = पु० ६ त०। ङीब्बाधकटाब्निमित्ते पाणिन्युक्ते शब्दसमूहे स च गणः। एडका, कोकिला, चटका, अश्वा मूषिका, बाला, होडा, वत्सा, पाका, मन्दा विलाता, पूर्ब्बापहाणा, अपरापहाणा (सम्भस्त्राजिनशणपिण्डेभ्यः फलात्)। (सदच्काण्डप्रान्तशतैकेभ्यः पुष्पात्)। (मूलान्नञः) (शूद्रा चामहत्–पूर्व्वा जातिः) ज्येष्ठा कनिष्ठा मध्यमा (पुंयोगेऽपि) क्रुञ्चा उष्णिहा देवविशा दंष्ट्रा।
अजानि = पु० नास्ति जाया यस्य ब० जायाया निङादेशः जायारहिते।
अजानिक = त्रि० अजेन तद्विक्रयपालनादिना आनो जीवनम् अस्त्यस्य ठन्। अजाजीविनि। तस्य कर्म्म भावो वा पुरोहिता० यक्। आजानिक्यम् तत्कर्म्मणि तद्भावे च न०।
अजानेय = पु० अजेऽपि विक्षेपेऽपि आनेयो यथास्थानं प्रापणीय आरोही येन अज–विक्षेपे अप् वीभावाभावः आ + नी–कर्म्माण यत् ततः ३ ब०। बहुशस्त्रप्रहारप्रतिरोधेऽपि निर्भयेन यथास्थानमारोहिणः प्रापके अश्वे, उत्तमाश्वे च निर्भये त्रि०।
अजान्त्री = स्त्री अजस्यान्त्रमिव अन्त्रं तदाकारवती मञ्जरी अस्याःगौ० ङीष्। नीलवुह्नायाम् (नीलवोना)।
अजापक्क = न० “छागशकृद्रसमूत्रक्षीरैर्दध्ना च साधितं सर्पिः। सक्षारं यक्ष्महरं काशश्वासोपशान्तये परममिति” चक्रदत्तोक्ते घृतभेदे न०।
अजापालक = त्रि० अजान् आपालयति आ + पा–णिच् ण्वुल् उप०। अजपालके, तेनाजीवके च।
अजि = त्रि० अजति अज–इन् व्यभावः। गतिशीले। पदाजिः। भावे इन्। गतौ, क्षेपे च स्त्रियां वा ङीप्।
अजित = त्रि० न० त०। जितभिन्ने पराजितभिन्ने। जिधातोर्द्विकर्म्मकत्वात् अनिर्जितशत्रौ, अपराजितदेशादौ चास्य प्रवृत्तिः एकस्य कर्म्मणोऽविवक्षायामन्यस्य विवक्षायां तत्रैव कर्म्मणि क्तः। भूरिप्रयोगस्तु अनिर्ज्जितशत्रावेव तथा च “गौणे कर्म्मणि दुह्यादे” रित्युक्तेः गौणकर्म्मणएवाभिधाननियमात् तस्यैव जयकर्म्मतायां क्तेनाभिधातुं योग्यत्वम्। “न च तेऽस्त्यजितं किञ्चिदिति पुरा०, नास्त्येषामजितो देश” इत्यादौ गौणकर्म्मणोऽविवक्षयैव जयप्राप्त देशादौ जितशब्दप्रयोगात् ततोगञ्समास इति भेदः। रागादिभिर्जितत्वाभावात् शिवे, विष्णौ, बुद्धे, च पु०।
अजिन = न० अजति क्षिपति रजआदि, आवरणेन अज–इनच् न व्यादेशः। चर्म्मणि, चर्म्मावृतत्वादेव रजआदीनां न देहप्रवेश इत्यतश्चर्म्मणोरजोविक्षेपसाधनत्वात्तथात्वम्। “चेलाजिनकुशोत्तरमिति” स्मृतिः। “ऐणेनाजिनेन ब्राह्मणमिति” गृह्यम्। “गजाजिनं शोणितविन्दुवर्षि चेति” “अथाजिनाषाढधर इति” च कुमा०। अदूरभवादावर्थे कृशा० छण्। आजिनीयः तददूरभवादौ त्रि०।
अजिनपत्रा(त्री) = (त्रिका) स्त्री अजिनं चर्मेव सुश्लिष्टं पत्रं पक्षो यस्याः ब०। (चाम्चिका) इति प्रसिद्धे पक्षिभेदे गौ० ङीष् (त्री) तत्रार्थे। ततः स्यार्थे के ह्रस्वे यापिपत्रिकापि तत्रार्थे।
अजिनफला = स्त्री अजिनं चर्मविकारत्वात् भस्त्रा इव फलं यस्याः अजिनपूर्ब्बकत्वेन जातिलक्षणं ङीपं बाधित्वा अजा० टाप्। (टेपारी) इति प्रसिद्धे, भस्त्राकारफले वृक्षभेदे।
अजिर = न० अज–किरन् वीभावाभावः। (उटान) इति ख्याते चत्वरे। शीघ्रगन्तरि त्रि०। “श्येना अजिरा इति” ता० ब्रा० “अजिराः क्षिप्रगमनशीला इति” भाष्यम् अत एव क्षिप्रनाम्नि निरुक्ते अजिरमिति पठितम् शीघ्रवेगव- त्त्वात् नद्यां स्त्री। निरुक्ते च अजिरेति नदी नाम्निपठितम् ऋषिभेदे पु० तदपत्यम् शुभ्रा० ढक्। आजिरेयः तदपत्य पु० स्त्री। उत्करा० छ। अजिरीयः तत्सम्बन्धिनि त्रि०।
अजिरादि = ब० पाणिनिना संज्ञायां मतुपि दीर्घविघौ पर्य्युदस्ते शब्दसमूहे सच गणः अजिर, स्वदिर, पुलिन, हंस, कारण्डव, चक्रवाक इति। अजिरवती। तद्भिन्ने तु अमरावतीति।
अजिह्म = त्रि० हा–मन् द्वित्वालोपौ ततः न० त०। सरले “अजिह्मामशठां शुद्धां जीवेद्ब्राह्मणजीविकामिति” पुरा०।
अजिह्मग = पु० अजिह्मं सरलं गच्छति गभ–ड। वाणे। “वेगवद्भिरजिह्मगैरिति”। सरलगामिनि त्रि०। “व्रजेद्दिशमजिह्मग” इति।
अजिह्व = पु० जि–वन् हुक् च जिह्वा रसना सा नास्ति यस्य ब०। भेके। तेषां जिह्वाशून्यत्वमुक्तं भारते आनु०। “उवाच देवान् मण्डूको रसातलतलोत्थितः। रसातलतले देवा! वसत्यग्निरिति प्रभो!। सन्तापादिह सम्प्राप्तः पावक प्रभवादहम्। स संसुप्तो जले देवा! भगवान् हव्यवाहनः। अपः सं सृज्य तेजोभिस्तेन सन्तापिता वयम्। तस्य दर्शनमिष्टं वो यदि देवा! बिभावसोः। तत्रैनमधिगच्छध्वं कार्य्यं वो यदि वह्निना। गम्यतां साधयिष्यामो वयं ह्यग्निभयात् सुराः!। एतावदुक्त्वा मण्डूकस्त्वरितो जलमाविशत्। हुताशनस्तु बुबुधे मण्डूकस्य च पैशुनम्। शशाप स तमासाद्य न रसान् वेत्स्यसीति वै। तं वै संयुज्य शापेन मण्डूकं त्वरितो ययौ। अन्यत्र वासाय विभुर्न चात्मानमदर्शयत्। देवास्त्वनुग्रहञ्चक्रुर्मण्डूकानां भृगूत्तम!। यत्तच्छृणु महाबाहो! गदतो मम सर्वशः। अग्निशापादजिह्वापि रसज्ञानवहिष्कृताः। सरस्वतीं बहुविधां यूयञ्चीच्चारयिष्यथ। विलवासगतांश्चैव निराहारानचेतसः। गतासूनपि संशुष्कान् भूमिः सन्धारयिष्यति। तमोघनायामपि वै निशायां विचरिष्यथ इति”। जिह्वाशून्ये त्रि०।
अजीकव = अज्या शरक्षेपणेन कं ब्रह्माणं वाति प्रीणाति वा–क। शिवधनुषि।
अजीगर्त्त = अज्यै गमनाय गर्त्तमस्य। सर्पे। वाह्वा० इञ्। आजीगर्त्तस्तदपत्ये पुंस्त्री।
अजीर्ल = न० जॄ–भावे क्त न० त०। जठरानलमान्द्येन भुक्तान्नादेरपाके, न० ७ ब०। रोगभेदे। “भवेदजीर्णं प्रति यस्य शङ्का स्निग्धस्य जन्तोर्बलिनोऽन्नकाले। पूर्ब्बं सशुण्ठीमभयासशङ्कः संप्राश्य भुञ्जीत हितं हि पथ्यमिति” चक्र०। “अजीर्णे भेषजं वारि जीर्णे बारि बलप्रदमिति” वैद्यकम्। कर्त्तरि क्त जीर्णोवृद्धः। तद्भिन्ने त्रि०।
अजीव = त्रि० नास्ति जीवो जीवनं वा यस्य। जीवरहिते घटादौ, मृते, जन्तुमात्रे च।
अजीवनि = स्त्री न + जीव–अनि। आक्रुश्यमाने जीवनाभावे निन्दितजोवने च “अजीवनिस्तव भूयात्” इति मुग्ध०। “तस्य भूयादजीवनिरिति”।
अजुर = त्रि० अज–कुरच् व्यभावः। वेगशीले बलवति “अवक्रक्षिणं वृषभं यथाजुरमिति” वेदः।
अजेय = त्रि० जेतुमशक्ये जि–यत् न० त०। जयायोग्ये। अजेयाख्ये घृते न०। “पिवेद्घृतमजेयाख्यमिति” वैद्यकम्।
अजैकपाद(द्) = पु० अजस्य छागस्य एकः पाद इव पादो यस्य उपमा० ब० न पादस्यन्त्याकारलोपः। रुद्रविशेषे, तद्देवताके पूर्ब्बभाद्रपदनक्षत्रे च। पाच्छब्देन समासे अजैकपादपि तत्रार्थे। “वीरभद्रश्च १ शम्भुश्च २ गिरीशश्च ३ महायशाः। “अजैकपाद (४) हिर्बुध्नः ५ पिनाकी ७ चापराजितः ७। भुवनाधीश्वरश्चैव ८ कपाली च ९ विशाम्पते! स्थाणु १० र्भर्गश्च ११ भगवान् रुद्रास्त्वेकादश स्मृता” इत्युक्तेषु एकादशसु रुद्रेषु मध्ये चतुर्थे रुद्रे। अन्यत्र तु अजैकपादर्हिर्बुध्ना ३ विरूपाक्षश्च ४ रेवतः ५। हरश्च ६ बहुरूपश्च ७! त्र्यम्बकश्च ८ सुरेश्वरः ९। रुद्रा एकादश प्रोक्ता जयन्त १० श्चापराजितः ११ इत्येवं तद्भेदाः। एतेषामेव ध्यानानि वक्ष्यन्ते। तेन अज इति नामान्तरं एकपादिति च नामान्तरमिति द्रष्टव्यम्। “तेन अजनामा महारुद्रम्” इत्यादि अजस्य ध्यानम्। “एकपादाभिधो विप्रेत्यादि” एकपादस्य ध्यानमिति वक्ष्यते
अज्जूका = स्त्री अर्जयति या सा अर्ज्जि–ऊक, पृ० रकारस्य जत्वम्। वेश्यायाम्। नाट्य एवास्य प्रयोगः नान्यत्र।
अज्झटा = स्त्री अजति दोषं क्षिपति अज्–क्विप् झटति संहन्यते झट–अच् ततः कर्म्म० पृ० कुत्ववीभावाभावः। (भुंइ आमला) इति प्रसिद्धे वृक्षे।
अज्झल = न० अञ्चति क्विप् अक् हलति विलिखति हल–अच् कर्म्म० पृ० न कुत्वम्। चर्म्मादिमये प्रतियोधायुधप्रतिरोधके (ढाल) इति ख्याते फलके।
***