Sorry, your browser does not support JavaScript!
UpasanaYoga.org
छान्दोग्य उपनिषद्
Chāndogya Upaniṣad
with शङ्कर-भाष्यम्

English translation by Swami Nikhilananda


Adhyāya 1 Adhyāya 2 Adhyāya 3 Adhyāya 4 Adhyāya 5 Adhyāya 6 Adhyāya 7 Adhyāya 8

Format by A.K. Aruna, 2017 ver.4.0: UpasanaYoga. If downloaded, requires installed Devanāgarī Siddhanta1.ttf font, downloadable from UpasanaYoga.f run from UpasanaYoga website, it alternatively can use online Web Font. Any Devanāgarī in parentheses () is an alternate reading of text in Red. The Devanagari text source is the Sharada Peetham, Sringeri (advaitasharada.sringeri.net).
Chāndogya-Upaniṣad, from the Sāma Veda, consists of brāhmaṇa (prose text) with some ṛks and ślokas (verses) as well as sāmans (songs) interspersed. It is considered, like the Bṛhad-āraṇyaka Upaniṣad, to be a source of teachings which other Upaniṣads often summarize or expound on. It especially contains the teachings of sage Uddālaka to his son Śvetaketu.

by A.K. Aruna
First Update to HTML Jan 2018 with Creative Commons International License:
This work is licensed under the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. To view a copy of this license, visit http://creativecommons.org/licenses/by-nc-sa/4.0/, or click the following logo:
Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

🔗  ओम्, आप्यायन्तु ममाङ्गानि वाक् प्राणश् चक्षुः श्रोत्रम् अथो बलम् इन्द्रियाणि च॑ सर्वा॒णि। सर्वं ब्रह्मौ॑पनि॒षदं। माहं ब्रह्म नि॑राकु॒र्यां। मा मा ब्रह्म नि॑राक॒रोद्। अनिराकरणम् अस्त्व् अनिराकरणं मे॑ अ॒स्तु। तदात्मनि निरते य उपनिषत्सु धर्मास् ते म॑यि स॒न्तु। ते म॑यि स॒न्तु। ओं शान्तिः॒ शान्तिः॒ शान्तिः॑॥
Om; ā-√pyai, asmad, aṅga, vāc, prāṇa, cakṣus, śrotra, atha, u, bala, indriya, ca, sarva. Sarva, brahman, aupaniṣada. Mā, asmad, brahman, nir-ā-√kṛ. Mā, asmad, brahman, nir-ā-√kṛ. A-nirākaraṇa, √as, a-nirākaraṇa, asmad, √as. Tadā, ātman, nirata, yad, upaniṣad, dharma, tad, asmad, √as. Tad, asmad, √as. Om, śānti, śānti, śānti.

“ओम् इत्येतद् अक्षरम्” (ChanU.1.1.1) इत्याद्यष्टाध्यायी छान्दोग्योपनिषत्। तस्याः सङ्क्षेपतः अर्थजिज्ञासुभ्यः ऋजुविवरणमल्पग्रन्थमिदमारभ्यते। तत्र सम्बन्धः – समस्तं कर्माधिगतं प्राणादिदेवताविज्ञानसहितम् अर्चिरादिमार्गेण ब्रह्मप्रतिपत्तिकारणम्। केवलं च कर्म धूमादिमार्गेण चन्द्रलोकप्रतिपत्तिकारणम्। स्वभाववृत्तानां च मार्गद्वयपरिभ्रष्टानां कष्टा अधोगतिरुक्ता। न च उभयोर्मार्गयोरन्यतरस्मिन्नपि मार्गे आत्यन्तिकी पुरुषार्थसिद्धिः – इत्यतः कर्मनिरपेक्षम् अद्वैतात्मविज्ञानं संसारगतित्रयहेतूपमर्देन वक्तव्यमिति उपनिषदारभ्यते। न च अद्वैतात्मविज्ञानादन्यत्र आत्यन्तिकी निःश्रेयसप्राप्तिः। वक्ष्यति हि – “अथ येऽन्यथातो विदुरन्यराजानस्ते क्षय्यलोका भवन्ति” (ChanU.7.25.2)। विपर्यये च – “स स्वराड् भवति” (ChanU.7.25.2) – इति। तथा – द्वैतविषयानृताभिसन्धस्य बन्धनम्, तस्करस्येव तप्तपरशुग्रहणे बन्धदाहभावः, संसारदुःखप्राप्तिश्च इत्युक्त्वा – अद्वैतात्मसत्याभिसन्धस्य, अतस्करस्येव तप्तपरशुग्रहणे बन्धदाहाभावः, संसारदुःखनिवृत्तिर्मोक्षश्च – इति।
अत एव न कर्मसहभावि अद्वैतात्मदर्शनम्। क्रियाकारकफलभेदोपमर्देन “सत् … एकमेवाद्वितीयम्” (ChanU.6.2.1–2) “आत्मैवेदं सर्वम्” (ChanU.7.25.2) इत्येवमादिवाक्यजनितस्य बाधकप्रत्ययानुपपत्तेः। कर्मविधिप्रत्यय इति चेत्, न। कर्तृभोक्तृस्वभावविज्ञानवतः तज्जनितकर्मफलरागद्वेषादिदोषवतश्च कर्मविधानात्। अधिगतसकलवेदार्थस्य कर्मविधानात् अद्वैतज्ञानवतोऽपि कर्मेति चेत्, न। कर्माधिकृतविषयस्य कर्तृभोक्त्रादिज्ञानस्य स्वाभाविकस्य ‘सत … एकमेवाद्वितीयम्’ ‘आत्मैवेदं सर्वम्’ इत्यनेनोपमर्दितत्वात्। तस्मात् अविद्यादिदोषवत एव कर्माणि विधीयन्ते। न अद्वैतज्ञानवतः। अत एव हि वक्ष्यति – “सर्व एते पुण्यलोका भवन्ति, ब्रह्मसंस्थोऽमृतत्वमेति” (ChanU.2.23.1) इति।
अत एव न कर्मसहभावि अद्वैतात्मदर्शनम्। क्रियाकारकफलभेदोपमर्देन “सत् … एकमेवाद्वितीयम्” (ChanU.6.2.1–2) “आत्मैवेदं सर्वम्” (ChanU.7.25.2) इत्येवमादिवाक्यजनितस्य बाधकप्रत्ययानुपपत्तेः। कर्मविधिप्रत्यय इति चेत्, न। कर्तृभोक्तृस्वभावविज्ञानवतः तज्जनितकर्मफलरागद्वेषादिदोषवतश्च कर्मविधानात्। अधिगतसकलवेदार्थस्य कर्मविधानात् अद्वैतज्ञानवतोऽपि कर्मेति चेत्, न। कर्माधिकृतविषयस्य कर्तृभोक्त्रादिज्ञानस्य स्वाभाविकस्य ‘सत … एकमेवाद्वितीयम्’ ‘आत्मैवेदं सर्वम्’ इत्यनेनोपमर्दितत्वात्। तस्मात् अविद्यादिदोषवत एव कर्माणि विधीयन्ते। न अद्वैतज्ञानवतः। अत एव हि वक्ष्यति – “सर्व एते पुण्यलोका भवन्ति, ब्रह्मसंस्थोऽमृतत्वमेति” (ChanU.2.23.1) इति॥

Go to Top ('Home' key on many Windows browsers)

kh.1.01 kh.1.02 kh.1.03 kh.1.04 kh.1.05 kh.1.06 kh.1.07 kh.1.08 kh.1.09 kh.1.10 kh.1.11 kh.1.12 kh.1.13

Go to Top ('Home' key on many Windows browsers)

ChanU.1.01 Meditation (Upāsana) on Om

The syllable Om, called the Udgītha, should be meditated upon; for people sing the Udgītha, beginning with Om.
Now follows the detailed explanation of the syllable:

ओम् इत्येतद् अक्षरम् उद्गीथम् उपासीत –
ओम् इति एतद् अक्षरं परमात्मनोऽभिधानं नेदिष्ठम्। तस्मिन्हि प्रयुज्यमाने स प्रसीदति, प्रियनामग्रहण इव लोकः। तदिह इतिपरं प्रयुक्तम् अभिधायकत्वाद्व्यावर्तितं शब्दस्वरूपमात्रं प्रतीयते। तथा च अर्चादिवत् परस्यात्मनः प्रतीकं सम्पद्यते। एवं नामत्वेन प्रतीकत्वेन च परमात्मोपासनसाधनं श्रेष्ठमिति सर्ववेदान्तेष्ववगतम्। जपकर्मस्वाध्यायाद्यन्तेषु च बहुशः प्रयोगात् प्रसिद्धमस्य श्रैष्ठ्यम्। अतः तद् एतत्, अक्षरं वर्णात्मकम्, उद्गीथभक्त्यवयवत्वाद् उद्गीथ-शब्दवाच्यम्, उपासीत – कर्माङ्गावयवभूते ओङ्कारेपरमात्मप्रतीके दृढामैकाग्र्यलक्षणां मतिं सन्तनुयात्। स्वयमेव श्रुतिः ओङ्कारस्य उद्गीथशब्दवाच्यत्वे हेतुमाह – ओम् इति हि उद्गायति। ओमित्यारभ्य, हि यस्मात्, उद्गायति, अत उद्गीथ ओङ्कार इत्यर्थः॥
तस्य उपव्याख्यानम् – तस्य अक्षरस्य, उपव्याख्यानम् एवमुपासनमेवंविभूत्येवंफलमित्यादिकथनम् उपव्याख्यानम्, प्रवर्तत इति वाक्यशेषः –
एषां चराचराणां भूतानां पृथिवी रसः गतिः परायणमवष्टम्भः। पृथिव्या आपः रसः – अप्सु हि ओता च प्रोता च पृथिवी। अतः ताः रसः पृथिव्याः। अपाम् ओषधयः रसः, अप्परिणामत्वाद् ओषधीनाम्। तासां पुरुषो रसः, अन्नपरिणामत्वात् पुरुषस्य। तस्यापि पुरुषस्य वाक् रसः – पुरुषावयवानां हि वाक् सारिष्ठा, अतो वाक् पुरुषस्य रस उच्यते। तस्या अपि वाचः, ऋक् सरः सारतरा। ऋचः साम रसः सारतरम्। तस्यापि साम्नः उद्गीथः प्रकृतत्वादोंकारः सारतरः॥
एवम् – स एषः उद्गीथाख्य ओङ्कारः, भूतादीनाम् उत्तरोत्तर-रसानाम्, अतिशयेन रसः रसतमःपरमः, परमात्मप्रतीकत्वात्। पर-अर्ध्यः – अर्धं स्थानम्, परं च तदर्धं च परार्धम्, तदर्हतीति परार्ध्यः, – परमात्मस्थानार्हः, परमात्मवदुपास्यत्वादित्यभिप्रायः। अष्टमः – पृथिव्यादिरससङ्ख्यायाम्। यद् उद्गीथः य उद्गीथः॥
वाच ऋग्रसः … इत्युक्तम्। कतमा सा ऋक्? कतमत् तत् सामः? कतमो वा स उद्गीथः? कतमा कतमेति वीप्सा आदरार्था। ननु “वा बहूनां जातिपरिप्रश्ने डतमच्” (SataPBr.5.3.93) इति डतमच्प्रत्ययः इष्टः। न हि अत्र ऋग्जातिबहुत्वम्। कथं डतमच्प्रयोगः? नैष दोषः। जातौ परिप्रश्नो जातिपरिप्रश्नः – इत्येतस्मिन्विग्रहे जातावृग्व्यक्तीनां बहुत्वोपपत्तेः, न तु जातेः परिप्रश्न इति विगृह्यते। ननु जातेः परिप्रश्नः – इत्यस्मिन्विग्रहे ‘कतमः कठः’ इत्याद्युदाहरणमुपपन्नम्, जातौ परिप्रश्न इत्यत्र तु न युज्यते – तत्रापि कठादिजातावेव व्यक्तिबहुत्वाभिप्रायेण परिप्रश्न इत्यदोषः। यदि जातेः परिप्रश्नः स्यात्, ‘कतमा कतमर्क्’ इत्यादावुपसङ्ख्यानं कर्तव्यं स्यात्। विमृष्टं भवति विमर्शः कृतो भवति॥
विमर्शे हि कृते सति, प्रतिवचनोक्तिरुपपन्ना – वाग् एव ऋक् प्राणः साम ओम् इति एतद् अक्षरम् उद्गीथः इति। वागृचोरेकत्वेऽपि न अष्टमत्वव्याघातः, पूर्वस्मात् वाक्यान्तरत्वात्। आप्तिगुणसिद्धये हि ओम् इत्येतद् अक्षरम् उद्गीथः इति। वाक्प्राणौ ऋक्सामयोनी इति वागेव ऋक् प्राणः साम इत्युच्यते। यथा क्रमम् ऋक्सामयोन्योर्वाक्प्राणयोर्ग्रहणे हि सर्वासामृचां सर्वेषां च साम्नामवरोधः कृतः स्यात्। सर्वर्क्सामावरोधे च ऋक्सामसाध्यानां च सर्वकर्मणामवरोधः कृतः स्यात्। तदवरोधे च सर्वे कामा अवरुद्धाः स्युः। ओमित्येतदक्षरम् उद्गीथः इति भक्त्याशङ्का निवर्त्यते। तद् वा एतत् इति मिथुनं निर्दिश्यते। किं तन्मिथुनमिति, आह – यद् वाक् च प्राणः च सर्वर्क्सामकारणभूतौ मिथुनम्। ऋक् च साम च इति ऋक्सामकारणौ ऋक्सामशब्दोक्तावित्यर्थः। न तु स्वातन्त्र्येण ऋक्च साम च मिथुनम्। अन्यथा हि वाक्प्राणश्च इत्येकं मिथुनम्, ऋक्साम च अपरम्, इति द्वे मिथुने स्याताम्। तथा च तद्वा एतन्मिथुनम् इत्येकवचननिर्देशोऽनुपपन्नः स्यात्। तस्मात् ऋक्सामयोन्योर्वाक्प्राणयोरेव मिथुनत्वम्॥
तद् एतत् एवंलक्षणं मिथुनम् ओम् इति एतस्मिन् अक्षरे संसृज्यते। एवं सर्वकामाप्तिगुणविशिष्टं मिथुनम् ओङ्कारे संसृष्टं विद्यत इति ओङ्कारस्य सर्वकामाप्तिगुणवत्त्वं सिद्धम्। वाङ्मयत्वम् ओङ्कारस्य प्राणनिष्पाद्यत्वं च मिथुनेन संसृष्टत्वम्। मिथुनस्य कामापयितृत्वं प्रसिद्धमिति दृष्टान्त उच्यते – यथा लोके मिथुनौ मिथुनावयवौ स्त्रीपुंसौ यदा समागच्छतः ग्राम्यधर्मतया संयुज्येयातां तदा आपयतः प्रापयतः अन्योन्यस्य इतरेतरस्य तौ कामम्, तथा स्वात्मानुप्रविष्टेन मिथुनेन सर्वकामाप्तिगुणवत्त्वम् ओङ्कारस्य सिद्धमित्यभिप्रायः॥
तदुपासकोऽप्युद्गाता तद्धर्मा भवतीत्याह –
आपयिता ह वै कामानां यजमानस्य भवति, य एतत् अक्षरम् एवम् आप्तिगुणवत् उद्गीथम् उपास्ते, तस्य एतद्यथोक्तं फलमित्यर्थः, “तं यथा यथोपासते तदेव भवति” (SataPBr.10.5.2.20) इति श्रुतेः॥
समृद्धिगुणवांश्च ओङ्कारः। कथम्? तत् वै एतत् प्रकृतम्, अनुज्ञा-अक्षरम् अनुज्ञा च सा अक्षरं च तत्। अनुज्ञा च अनुमतिः, ओङ्कार इत्यर्थः। कथमनुज्ञेति, आह श्रुतिरेव – यद् हि किञ्च यत्किञ्च लोके ज्ञानं धनं वा अनुजानाति विद्वान् धनी वा, तत्रानुमतिं कुर्वन् ओम् इति एव तद् आह। तथा च वेदे “त्रयस्त्रिंशदित्योमिति होवाच” (BrhU.3.9.1) इत्यादि। तथा च लोकेऽपि तवेदं धनं गृह्णामि इत्युक्ते ओमित्येव आह। अत एषा उ एव एषैव हि समृद्धिः यद् अनुज्ञा या अनुज्ञा सा समृद्धिः, तन्मूलत्वादनुज्ञायाः। समृद्धो हि ओमित्यनुज्ञां ददाति। तस्यात् समृद्धिगुणवानोङ्कार इत्यर्थः। समृद्धिगुणोपासकत्वात् तद्धर्मा सन् समर्धयिता ह वै कामानां यजमानस्य भवतिय एतद् एवं विद्वान् अक्षरम् उद्गीथम् उपास्ते इत्यादि पूर्ववत्॥
अथ इदानीमक्षरं स्तौति, उपास्यत्वात्, प्ररोचनार्थम्। कथम्? तेन अक्षरेण प्रकृतेन इयम् ऋग्वेदादिलक्षणा त्रयी-विद्या, त्रयीविद्याविहितं कर्मेत्यर्थः – न हि त्रयीविद्यैव – आश्रावणादिभिः वर्तते। कर्म तु तथा प्रवर्तत इति प्रसिद्धम्। कथम्? ओम् इति आश्रावयति ओम् इति शंसति ओम् इति उद्गायति। लिङ्गाच्च सोमयाग इति गम्यते। तच्च कर्म एतस्य एव अक्षरस्य अपचित्यै पूजार्थम्। परमात्मप्रतीकं हि तत्। तदपचितिः परमात्मन एवस्यात्, “स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः” (BhG.18.46) इति स्मृतेः। किञ्च, एतस्यैवाक्षरस्य महिम्ना महत्त्वेन ऋत्विग्यजमानादिप्राणैरित्यर्थः। तथा एतस्यैवाक्षरस्य रसेन व्रीहियवादिरसनिर्वृत्तेन हविषेत्यर्थः। यागहोमादि अक्षरेण क्रियते। तच्च आदित्यमुपतिष्ठते। ततो वृष्ट्यादिक्रमेण प्राणोऽन्नं च जायते। प्राणैरन्नेन च यज्ञस्तायते। अत उच्यते – अक्षरस्य महिम्ना रसेन इति॥
तत्र अक्षरविज्ञानवतः कर्म कर्तव्यमिति स्थितमाक्षिपति –
तेन अक्षरेण उभौ कुरुतः, यः च एतत् अक्षरम् एवं यथाव्याख्यातं वेद, यः च कर्ममात्रवित् अक्षरयाथात्म्यं न वेद, तावुभौ कुरुतः कर्म। तेयोश्च कर्मसामर्थ्यादेव फलं स्यात्, किं तत्राक्षरयाथात्म्यविज्ञानेन इति। दृष्टं हि लोके हरीतकीं भक्षयतोः तद्रसाभिज्ञेतरयोः विरेचनम् – नैवम्। यस्मात् नाना तु विद्या च अविद्या च, भिन्ने हि विद्याविद्ये, तु-शब्दः पक्षव्यावृत्त्यर्थः। न ओङ्कारस्य कर्माङ्गत्वमात्रविज्ञानमेव रसतमाप्तिसमृद्धिगुणवद्विज्ञानम्। किं तर्हि? ततोऽभ्यधिकम्। तस्मात् तदङ्गाधिक्यात् तत्फलाधिक्यं युक्तमित्यभिप्रायः। दृष्टं हि लोके वणिक्शबरयोः पद्मरागादिमणिविक्रये वणिजो विज्ञानाधिक्यात् फलाधिक्यम्। तस्मात् यद् एव विद्यया विज्ञानेन युक्तः सन् करोति कर्म श्रद्धया श्रद्दधानश्च सन्, उपनिषदा योगेन युक्तश्चेत्यर्थः, तद् एव कर्म वीर्यवत्तरम् अविद्वत्कर्मणोऽधिकफलं भवति इति। विद्वत्कर्मणो वीर्यवत्तरत्ववचनादविदुषोऽपि कर्म वीर्यवदेव भवतीत्यभिप्रायः। न च अविदुषः कर्मण्यनधिकारः, औषस्त्ये काण्डे अविदुषामप्यार्त्विज्यदर्शनात्। रसतमाप्तिसमृद्धिगुणवदक्षरम् इत्येकमुपासनम्, मध्ये प्रयत्नान्तरादर्शनात्। अनेकैर्हि विशेषणैः अनेकधा उपास्यत्वात् खलु एतस्य एव प्रकृतस्य उद्गीथाख्यस्य अक्षरस्य उपव्याख्यानं भवति

Go to Top ('Home' key on many Windows browsers)

ChanU.1.02 Meditation on Om as the Prāṇa

देवासुराः देवाश्च असुराश्च। देवाः दीव्यतेर्द्योतनार्थस्य शास्त्रोद्भासिता इन्द्रियवृत्तयः। असुराः तद्विपरीताः स्वेष्वेवासुषु विष्वग्विषयासु प्राणनक्रियासु रमणात् स्वाभाविक्यः तमआत्मिका इन्द्रियवृत्तय एव। ह वै इति पूर्ववृत्तोद्भासकौ निपातौ। यत्र यस्मिन्निमित्ते इतरेतरविषयापहारलक्षणे संयेतिरे, संपूर्वस्य यततेः सङ्ग्रामार्थत्वमिति, सङ्ग्रामं कृतवन्त इत्यर्थः। शास्त्रीयप्रकाशवृत्त्यभिभवनाय प्रवृत्ताः स्वाभाविक्यस्तमोरूपा इन्द्रियवृत्तयः असुराः, तथा तद्विपरीताः शास्त्रार्थविषयविवेकज्योतिरात्मानः देवाः स्वाभाविकतमोरूपासुराभिभवनाय प्रवृत्ताः इति अन्योन्याभिभवोद्भवरूपः सङ्ग्राम इव, सर्वप्राणिषु प्रतिदेहं देवासुरसङ्ग्रामो अनादिकालप्रवृत्त इत्यभिप्रायः। स इह श्रुत्या आख्यायिकारूपेण धर्माधर्मोत्पत्तिविवेकविज्ञानाय कथ्यते प्राणविशुद्धिविज्ञानविधिपरतया। अतः उभयेऽपि देवासुराः, प्रजापतेरपत्यानीति प्राजापत्याः – प्रजापतिः कर्मज्ञानाधिकृतः पुरुषः, “पुरुष एवोक्थमयमेव महान्प्रजापतिः” (AitAr.2.1.2) इति श्रुत्यन्तरात्। तस्य हि शास्त्रीयाः स्वाभाविक्यश्च करणवृत्तयो विरुद्धाः अपत्यानीव, तदुद्भवत्वात्। तत् तत्र उत्कर्षापकर्षलक्षणनिमित्ते ह देवाः उद्गीथम् उद्गीथभक्त्युपलक्षितमौद्गात्रं कर्म आजह्रुः आहृतवन्तः। तस्यापि केवलस्य आहरणासम्भवात् ज्योतिष्टोमाद्याहृतवन्त इत्यभिप्रायः। तत्किमर्थमाजह्रुरिति, उच्यते – अनेन कर्मणा एनान् असुरान् अभिभविष्याम इति एवमभिप्रायाः सन्तः॥
यदा च तदुद्गीथं कर्म आजिहीर्षवः, तदा –
ते ह देवाः नासिक्यं नासिकायां भवं प्राणं चेतनावन्तं घ्राणम् उद्गीथकर्तारम् उद्गातारम् उद्गीथभक्त्या उपासाञ्-चक्रिरे उपासनं कृतवन्त इत्यर्थः। नासिक्यप्राणदृष्ट्या उद्गीथ-आख्यम् अक्षरमोङ्कारम् उपासाञ्चक्रिरे इत्यर्थः। एवं हि प्रकृतार्थपरित्यागः अप्रकृतार्थोपादानं च न कृतं स्यात् – ‘खल्वेतस्याक्षरस्य ’ इत्योङ्कारो हि उपास्यतया प्रकृतः। ननु उद्गीथोपलक्षितं कर्म आहृतवन्त इत्यवोचः। इदानीमेव कथं नासिक्यप्राणदृष्ट्या उद्गीथाख्यमक्षरमोङ्कारम् उपासाञ्चक्रिर इत्यात्थ? नैष दोषः। उद्गीथकर्मण्येव हि तत्कर्तृप्राणदेवतादृष्ट्या उद्गीथभक्त्यवयवश्च ओङ्कारः उपास्यत्वेन विवक्षितः, न स्वतन्त्रः। अतः तादर्थ्येन कर्म आहृतवन्त इति युक्तमेवोक्तम्। तम् एवं देवैर्वृतमुद्गातारं ह असुराः स्वाभाविकतमआत्मानः ज्योतीरूपं नासिक्यं प्राणं देवं स्वकीयेन पाप्मना अधर्मासङ्गरूपेण विविधुः विद्धवन्तः, संसर्गं कृतवन्त इत्यर्थः। स हि नासिक्यः प्राणः कल्याणगन्धग्रहणाभिमानासङ्गाभिभूतविवेकविज्ञानो बभूव। स तेन दोषेण पाप्मसंसर्गी बभूव। तदिदमुक्तमसुराः पाप्मना विविधुरिति। यस्मादासुरेण पाप्मना विद्धः, तस्मात् तेन पाप्मना प्रेरितः प्राणः दुर्गन्धग्राहकः प्राणिनाम्। अतः तेन उभयं जिघ्रति लोकः सुरभि च दुर्गन्धि च, पाप्मना हि एषः यस्मात् विद्धः। उभयग्रहणम् अविवक्षितम् – “यस्योभयं हविरार्तिमार्च्छति” (TaitBr.3.7.1) इति यद्वत्। “यदेवेदमप्रतिरूपं जिघ्रति” (BrhU.1.3.3) इति समानप्रकरणश्रुतेः॥
मुख्यप्राणस्य उपास्यत्वाय तद्विशुद्धत्वानुभवार्थः अयं विचारः श्रुत्या प्रवर्तितः। अतः चक्षुरादिदेवताः क्रमेण विचार्य आसुरेण पाप्मना विद्धा इत्यपोह्यन्ते। समानमन्यत् – अथ ह वाचं चक्षुः श्रोत्रं मन इत्यादि। अनुक्ता अप्यन्याः त्वग्रसनादिदेवताः द्रष्टव्याः, “एवमु खल्वेता देवताः पाप्मभिः” (BrhU.1.3.6) इति श्रुत्यन्तरात्॥
आसुरेण पाप्मना विद्धत्वात् प्राणादिदेवताः अपोह्य, अथ अनन्तरम्, , य एव अयं प्रसिद्धः, मुखे भवः मुख्यः प्राणः, तम् उद्गीथम् उपासाञ्चक्रिरे, तं ह असुराः पूर्ववत् ऋत्वा प्राप्य विदध्वंसुः विनष्टाः, अभिप्रायमात्रेण, अकृत्वा किञ्चिदपि प्राणस्य। कथं विनष्टा इति, अत्र दृष्टान्तमाह – यथा लोके अश्मानम् आखणम् – न शक्यते खनितुं कुद्दालादिभिरपि, टङ्कैश्च छेत्तुं न शक्यः अखनः, अखन एव आखणः, तम् – ऋत्वा सामर्थ्यात् लोष्टः पांसुपिण्डः, श्रुत्यन्तराच्च – अश्मनि क्षिप्तः अश्मभेदनाभिप्रायेण, तस्य अश्मनः किञ्चिदप्यकृत्वा स्वयं विध्वंसेत विदीर्येत – एवं विदध्वंसुरित्यर्थः। एवं विशुद्धः असुरैरधर्षितत्वात् प्राणः इति॥
एवंविदः प्राणात्मभूतस्य इदं फलमाह – यथा अश्मानम् इति। एष एव दृष्टान्तः। एवं ह एव स विध्वंसते विनश्यति। कोऽसाविति, आह – य एवंविदि यथोक्तप्राणविदि पापं तदनर्हं कर्तुं कामयते इच्छति यः च अपि एनम् अभिदासति हिनस्ति प्राणविदं प्रति आक्रोशताडनादि प्रयुङ्क्ते, सोऽप्येवमेव विध्वंसत इत्यर्थः। यस्मात् स एष प्राणवित् प्राणभूतत्वात् अश्माखण इव अश्माखणः अधर्षणीय इत्यर्थः। ननु नासिक्योऽपि प्राणः वाय्वात्मा, यथा मुख्यः। तत्र नासिक्यः प्राणः पाप्मना विद्धः – प्राण एव सन्, न मुख्यः – कथम्? नैष दोषः। नासिक्यस्तु स्थानकरणवैगुण्यात् असुरैः पाप्मना विद्धः, वाय्वात्मापि सन्। मुख्यस्तु तदसम्भवात् स्थानदेवताबलीयस्त्वात् न विद्ध इति श्लिष्टम् – यथा वास्यादयः शिक्षावत्पुरुषाश्रयाः कार्यविशेषं कुर्वन्ति, न अन्यहस्तगताः, तद्वत् दोषवद्ध्राणसचिवत्वाद्विद्धा घ्राणदेवता, न मुख्यः॥
यस्मान्न विद्धः असुरैः मुख्यः, तस्मात् न एव एतेन सुरभि न दुर्गन्धिविजानाति लोकः। घ्राणेनैव तदुभयं विजानाति। अतश्च पाप्मकार्यादर्शनात् अपहतपाप्मा अपहतः विनाशितः अपनीतः पाप्मा यस्मात् सोऽयमपहतपाप्मा हि एषः, विशुद्ध इत्यर्थः। यस्माच्च आत्मंभरयः कल्याणाद्यासङ्गवत्त्वात् घ्राणादयः – न तथा आत्मंभरिर्मुख्यः। किं तर्हि? सर्वार्थः। कथमिति, उच्यते – तेन मुख्येन यद् अश्नाति यत् पिबति लोकः तेन अशितेन पीतेन च इतरान् प्राणान् घ्राणादीन् अवति पालयति। तेन हि तेषां स्थितिर्भवतीत्यर्थः। अतः सर्वंभरिः प्राणः। अतो विशुद्धः। कथं पुनर्मुख्याशितपीताभ्यां स्थितिः इतरेषां गम्यत इति, उच्यते – एतम् उ एव मुख्यं प्राणं मुख्यप्राणस्य वृत्तिम्, अन्नपाने इत्यर्थः, अन्ततः अन्ते मरणकाले अवित्त्वा अलब्ध्वा उत्क्रामति, घ्राणादिप्राणसमुदाय इत्यर्थः। अप्राणो हि न शक्नोत्यशितुं पातुं वा। तदा उत्क्रान्तिः प्रसिद्धा घ्राणादिकलापस्य। दृश्यते हि उत्क्रान्तौ प्राणस्याशिशिषा, यतः व्याददाति एव, आस्यविदारणं करोतीत्यर्थः। तद्धि अन्नालाभे उत्क्रान्तस्य लिङ्गम्॥
तं ह अङ्गिराः – तं मुख्यं प्राणं ह अङ्गिरा इत्येवङ्गुणम् उद्गीथम् उपासाञ्चक्रे उपासनं कृतवान्, बको दाल्भ्य इति वक्ष्यमाणेन सम्बध्यते। तथा बृहस्पतिरिति, आयास्य इति च उपासाञ्चक्रे बकः इत्येवं सम्बन्धं कृतवन्तः केचित्, एतम् उ एव अङ्गिरसं बृहस्पतिमायास्यं प्राणं मन्यन्ते – इति वचनात्। भवत्येवं यथाश्रुतासम्भवे। सम्भवति तु यथाश्रुतम् ऋषिचोदनायामपि – श्रुत्यन्तरवत् – ‘तस्माच्छतर्चिन इत्याचक्षते एतमेव सन्तम्’ ऋषिमपि। तथा माध्यमा गृत्समदो विश्वामित्रो वामदेवोऽत्रिः इत्यादीन् ऋषीनेव प्राणमापादयति श्रुतिः। तथा तानपि ऋषीन् प्राणोपासकान् अङ्गिरोबृहस्पत्यायास्यान् प्राणं करोत्यभेदविज्ञानाय – “प्राणो ह पिता प्राणो माता” (ChanU.7.15.1) इत्यादिवच्च। तस्मात् ऋषिः अङ्गिरा नाम, प्राण एव सन्, आत्मानमङ्गिरसं प्राणमुद्गीथम् उपासाञ्चक्रे इत्येतत्। यत् यस्मात् सः अङ्गानां प्राणः सन् रसः, तेनासौ अङ्गिरसः॥
तथा वाचो बृहत्याः पतिः तेन असौ बृहस्पतिः
तथा यत् यस्मात् आस्यात् अयते निर्गच्छति तेन आयास्यः ऋषिः प्राण एव सन् इत्यर्थः। तथा अन्योऽप्युपासकः आत्मानमेव आङ्गिरसादिगुणं प्राणम् उद्गीथम् उपासीतेत्यर्थः॥
न केवलमङ्गिरःप्रभृतय उपासाञ्चक्रिरे। तं ह बको नाम दल्भस्यापत्यं दाल्भ्यः विदाञ्चकार यथादर्शितं प्राणं विज्ञातवान्। विदात्वा च स ह नैमिशीयानां सत्रिणाम् उद्गाता बभूव च प्राणविज्ञानसामर्थ्यात् एभ्यः नैमिशीयेभ्यः कामान् आगायति स्म ह आगीतवान्किलेत्यर्थः॥
तथा अन्योऽप्युद्गाता आगाता ह वै कामानां भवतिय एतत् एवं विद्वान् यथोक्तगुणं प्राणम् अक्षरम् उद्गीथम् उपास्ते, तस्य एतद्दृष्टं फलम् उक्तम्, प्राणात्मभावसत्वदृष्टम् – “देवो भूत्वा देवानप्येति” (BrhU.4.1.2–7) इति श्रुत्यन्तरात्सिद्धमेवेत्यभिप्रायः। इति अध्यात्मम् – एतत् आत्मविषयम् उद्गीथोपासनम् इति उक्तोपसंहारः, अधिदैवतोद्गीथोपासने वक्ष्यमाणे, बुद्धिसमाधानार्थः॥

Go to Top ('Home' key on many Windows browsers)

ChanU.1.03 Meditation on the Udgītha as the Sun and the Vyāna

अथ अनन्तरम् अधिदैवतं देवताविषयमुद्गीथोपासनं प्रस्तुतमित्यर्थः, अनेकधा उपास्यत्वादुद्गीथस्य। य एव असौ आदित्यः तपति, तम् उद्गीथम् उपासीत आदित्यदृष्ट्या उद्गीथमुपासीतेत्यर्थः। तमुद्गीथम् इति उद्गीथशब्दः अक्षरवाची सन् कथमादित्ये वर्तत इति, उच्यते – उद्यन् उद्गच्छन् वै एषः प्रजाभ्यः प्रजार्थम् उद्गायति प्रजानामन्नोत्पत्त्यर्थम्। न हि अनुद्यति तस्मिन्, व्रीह्यादेः निष्पत्तिः स्यात्। अतः उद्गायतीवोद्गायति – यथैवोद्गाता अन्नार्थम्। अतः उद्गीथः सवितेत्यर्थः। किञ्च उद्यन् नैशं तमः तज्जं च भयं प्राणिनाम् अपहन्ति। तमेवङ्गुणं सवितारं यः वेद, सः अपहन्ता नाशयिता ह वै भयस्य जन्ममरणादिलक्षणस्य आत्मनः तमसः च तत्कारणस्याज्ञानलक्षणस्य भवति
यद्यपि स्थानभेदात्प्राणादित्यौ भिन्नाविव लक्ष्येते, तथापि न स तत्त्वभेदस्तयोः। कथम् –
समान उ एव तुल्य एव प्राणः सवित्रा गुणतः, सविता च प्राणेन। यस्मात् उष्णोऽयं प्राणः उष्णः च असौ सविता। किञ्च स्वर इति इमं प्राणम् आचक्षते कथयन्ति, तथा स्वर इति प्रत्यास्वर इतिअमुं सवितारम्। यस्मात् प्राणः स्वरत्येव न पुनर्मृतः प्रत्यागच्छति, सविता तु अस्तमित्वा पुनरप्यहन्यहनि प्रत्यागच्छति, अतः प्रत्यास्वरः। अस्मात् गुणतो नामतश्च समानावितरेतरं प्राणादित्यौ। अतः तत्त्वाभेदात् एतं प्राणम् इमम् अमुं च आदित्यम् उद्गीथम् उपासीत
अथ खलु इति प्रकारान्तरेणोपासनमुद्गीथस्योच्यते। व्यानम् एव वक्ष्यमाणलक्षणं प्राणस्यैव वृत्तिविशेषम् उद्गीथम् उपासीत। अधुना तस्य तत्त्वं निरूप्यते – यद् वै पुरुषः प्राणिति मुखनासिकाभ्यां वायुं बहिर्निःसारयति, स प्राण-आख्यो वायोर्वृत्तिविशेषः। यद् अपानिति अपश्वसिति ताभ्यामेवान्तराकर्षति वायुम्, सः अपानः अपानाख्या वृत्तिः। ततः किमिति, उच्यते – अथ यः उक्तलक्षणयोः प्राण-अपानयोः सन्धिः तयोः अन्तरा वृत्तिविशेषः, सः व्यानः। यः साङ्ख्यादिशास्त्रप्रसिद्धः, श्रुत्या विशेषनिरूपणात् – नासौ व्यान इत्यभिप्रायः। कस्मात्पुनः प्राणापानौ हित्वा महता आयासेन व्यानस्यैवोपासनमुच्यते? वीर्यवत्कर्महेतुत्वात्। कथं वीर्यवत्कर्महेतुत्वमिति, आह – यः व्यानः सा वाक्, व्यानकार्यत्वाद्वाचः। यस्माद्व्याननिर्वर्त्या वाक्, तस्मात् अप्राणन् अनपानन् प्राणापानव्यापारावकुर्वन् वाचम् अभिव्याहरति उच्चारयति लोकः॥
तथा वाग्-विशेषाम् ऋचम्, ऋक्-संस्थं च साम, सामावयवं च उद्गीथम्, अप्राणन् अनपानन् व्यानेनैव निर्वर्तयतीत्यभिप्रायः॥
न केवलं वागाद्यभिव्याहरणमेव। अतः अस्मात् अन्यानि अपि यानि वीर्यवन्ति कर्माणि प्रयत्नाधिक्यनिर्वर्त्यानि – यथा अग्नेः मन्थनम्, आजेः मर्यादायाः सरणं धावनम्, दृढस्य धनुषः आयमनम् आकर्षणम् – अप्राणन् अनपानन् तानि करोति। अतो विशिष्टः व्यानः प्राणादिवृत्तिभ्यः। विशिष्टस्योपासनं ज्यायः, फलवत्त्वाद्राजोपासनवत्। एतस्य हेतोः एतस्मात्कारणात् व्यानम् एव उद्गीथम् उपासीत, नान्यद्वृत्त्यन्तरम्। कर्मवीर्यवत्तरत्वं फलम्॥
अथ अधुना खलु उद्गीथाक्षराणि उपासीत भक्त्यक्षराणि मा भूवन्नित्यतो विशिनष्टि – उद्गीथ इति। उद्गीथनामाक्षराणीत्यर्थः – नामाक्षरोपासनेऽपि नामवत एवोपासनं कृतं भवेत् अमुकमिश्रा इति यद्वत्। प्राण एव उत्, उदित्यस्मिन्नक्षरे प्राणदृष्टिः। कथं प्राणस्य उत्त्वमिति, आह – प्राणेन हि उत्तिष्ठति सर्वः, अप्राणस्यावसाददर्शनात्। अतोऽस्त्युदः प्राणस्य च सामान्यम्। वाक् गीः, वाचो ह गिर इति आचक्षते शिष्टाः। तथा अन्नं थम्, अन्ने हि इदं सर्वं स्थितम्। अतः अस्त्यन्नस्य थाक्षरस्य च सामान्यम्॥
त्रयाणां श्रुत्युक्तानि सामान्यानि। तानि तेनानुरूपेण शेषेष्वपि द्रष्टव्यानि –
द्यौः एव उत् उच्चैःस्थानात्, अन्तरिक्षं गीः गिरणाल्लोकानाम्, पृथिवी थं प्राणिस्थानात्। आदित्य एव उत् ऊर्ध्वत्वात्, वायुः गीः अग्न्यादीनां गिरणात्, अग्निः थं याज्ञीयकर्मावस्थानात्। साम-वेद एव उत् स्वर्गसंस्तुतत्वात्, यजुर्-वेदो गीः यजुषां प्रत्तस्य हविषो देवतानां गिरणात्, ऋग्-वेदः थम् ऋच्यध्यूढत्वात्साम्नः। उद्गीथाक्षरोपासनफलमधुनोच्यते – दुग्धे दोग्धि अस्मै साधकाय। का सा? वाक्। कम्? दोहम्। कोऽसौ दोह इति, आह – यो वाचो दोहः, ऋग्वेदादिशब्दसाध्यं फलमित्यभिप्रायः, तत् वाचो दोहः तं स्वयमेव वाक् दोग्धि आत्मानमेव दोग्धि। किञ्च अन्नवान् प्रभूत-अन्नः अदः च दीप्ताग्निः भवति, य एतानि यथोक्तानि एवं यथोक्तगुणानि उद्गीथाक्षराणि विद्वान् सन् उपास्ते उद्गीथ इति
अथ खलु इदानीम्, आशीः समृद्धिः आशिषः कामस्य समृद्धिः यथा भवेत् तदुच्यत इति वाक्यशेषः, उपसरणानि उपसर्तव्यान्युपगन्तव्यानि ध्येयानीत्यर्थः। कथम्? इत्युपासीत एवमुपासीत। तद्यथा – येन साम्ना येन सामविशेषेण स्तोष्यन् स्तुतिं करिष्यन् स्यात् भवेदुद्गाता तत् साम उपधावेत् उपसरेत् चिन्तयेदुत्पत्त्यादिभिः॥
यस्यामृचि तत्साम तांऋचम् उपधावेत् देवतादिभिः। यदार्षेयं साम तंऋषिम्यां देवताम् अभिष्टोष्यन् स्यात् तां देवताम् उपधावेत्
येन च्छन्दसा गायत्र्यादिना स्तोष्यन् स्यात् तच्छन्द उपधावेत्येन स्तोमेन स्तोष्यमाणः स्यात्, स्तोमाङ्गफलस्य कर्तृगामित्वाद् आत्मनेपदं स्तोष्यमाण इति, तं स्तोमम् उपधावेत्
यां दिशम् अभिष्टोष्यन् स्यात् तां दिशम् उपधावेत् अधिष्ठात्रादिभिः॥
आत्मानम् उद्गाता स्वं रूपं गोत्रनामादिभिः – सामादीन् क्रमेण स्वं च आत्मानम् – अन्ततः अन्ते उपसृत्य स्तुवीत, कामं ध्यायन् अप्रमत्तः स्वरोष्मव्यञ्जनादिभ्यः प्रमादमकुर्वन्। ततः अभ्याशः क्षिप्रमेव ह यत् यत्र अस्मै एवंविदे स कामः समृध्येत समृद्धिं गच्छेत्। कोऽसौ? यत्कामः यः कामः अस्य सोऽयं यत्कामः सन् स्तुवीतेति। द्विरुक्तिरादरार्था॥

Go to Top ('Home' key on many Windows browsers)

ChanU.1.04 Meditation on Om as Fearlessness and Immortality

ओमित्येतत् इत्यादि-प्रकृतस्याक्षरस्य पुनरुपादानम् उद्गीथाक्षराद्युपासनान्तरितत्वाद् अन्यत्र प्रसङ्गो मा भूद् इत्येवमर्थम्। प्रकृतस्यैवाक्षरस्यामृताभय-गुण-विशिष्टस्योपासनं विधातव्यम् इत्यारम्भः। ओमित्यादि व्याख्यातम्॥
देवा वै मृत्योः मारकात् बिभ्यतः किं कृतवन्त इति, उच्यते – त्रयीं विद्यां त्रयीविहितं कर्म प्राविशन् प्रविष्टवन्तः, वैदिकं कर्म प्रारब्धवन्त इत्यर्थः, तत् मृत्योस्त्राणं मन्यमानाः। किञ्च, ते कर्मण्यविनियुक्तैः छन्दोभिः मन्त्रैः जपहोमादि कुर्वन्तः आत्मानं कर्मान्तरेषु अच्छादयन् छादितवन्तः। यत् यस्मात् एभिः मन्त्रैः अच्छादयन्, तत् तस्मात् छन्दसां मन्त्राणां छादनात् छन्दस्त्वं प्रसिद्धम् एव॥
तान् तत्र देवान्कर्मपरान् मृत्युः यथा लोके मत्स्यघातको मत्स्यमुदके नातिगम्भीरे परिपश्येत् बडिशोदकस्रावोपायसाध्यं मन्यमानः, एवं पर्यपश्यत् दृष्टवान्। मृत्युः कर्मक्षयोपायेन साध्यान्देवान्मेने इत्यर्थः। क्वासौ देवान्ददर्शेति, उच्यते – ऋचि साम्नि यजुषि, ऋग्यजुःसामसम्बन्धिकर्मणीत्यर्थः। ते नु देवाः वैदिकेन कर्मणा संस्कृताः शुद्धात्मानः सन्तः मृत्योश्चिकीर्षितं विदितवन्तः। विदित्वा च ते ऊर्ध्वाः व्यावृत्ताः कर्मभ्यः ऋचः साम्नः यजुषः ऋग्यजुःसामसम्बद्धात्कर्मणः अभ्युत्थायेत्यर्थः। तेन कर्मणा मृत्युभयापगमं प्रति निराशाः तदपास्य अमृताभयगुणमक्षरं स्वरं स्वरशब्दितं प्राविशन् एव प्रविष्टवन्तः, ओङ्कारोपासनपराः संवृत्ताः। एव-शब्दः अवधारणार्थः सन् समुच्चयप्रतिषेधार्थः। तदुपासनपराः संवृत्ता इत्यर्थः॥
कथं पुनः स्वरशब्दवाच्यत्वमक्षरस्येति, उच्यते –
यदा वै ऋचम् आप्नोति ओमिति एवातिस्वरति एवं साम एवं यजुःएष उ स्वरः। कोऽसौ? यद् एतद् अक्षरम् एतद् अमृतम् अभयम्, तत् प्रविश्य यथागुणम् एव अमृता अभयाःअभवन् देवाः
स यः अन्योऽपि देववदेव एतद् अक्षरम् एवम् अमृताभयगुणं विद्वान् प्रणौति स्तौति। उपासनमेवात्र स्तुतिरभिप्रेता, स तथैव एतद् एवाक्षरं स्वरम् अमृतम् अभयं प्रविशतितत् प्रविश्य च – राजकुलं प्रविष्टानामिव राज्ञोऽन्तरङ्गबहिरङ्गतावत् न परस्य ब्रह्मणोऽन्तरङ्गबहिरङ्गताविशेषः – किं तर्हि? यद् अमृता देवाः येनामृतत्वेन यदमृता अभूवन्, तेनैवामृतत्वेन विशिष्टः तद् अमृतो भवति। न न्यूनता नाप्यधिकता अमृतत्वे इत्यर्थः॥

Go to Top ('Home' key on many Windows browsers)

ChanU.1.05 Meditation on Om as the Sun and the Prāṇa

प्राणादित्यदृष्टिविशिष्टस्योद्गीथस्योपासनमुक्तमेवानूद्य प्रणवोद्गीथयोरेकत्वं कृत्वा तस्मिन्प्राणरश्मिभेदगुणविशिष्टदृष्ट्या अक्षरस्योपासनमनेकपुत्रफलमिदानीं वक्तव्यमित्यारभ्यते –
अथ खलु य उद्गीथः स प्रणवः बह्वृचानाम्, यःप्रणवः तेषां एव च्छान्दोग्ये उद्गीथ-शब्द-वाच्यः। असौ वा आदित्य उद्गीथः एष प्रणवः। प्रणव-शब्द-वाच्योऽपि स एव बह्वृचानाम्, नान्यः। उद्गीथ आदित्यः कथम्? उद्गीथाख्यम् अक्षरम् ओमिति एतत् एषः हि यस्मात् स्वरन् उच्चारयन्, अनेकार्थत्वाद् धातूनाम्। अथवा स्वरन् गच्छन् एति। अतः असावुद्गीथः सविता॥
तम् एतम् उ एव अहम् अभ्यगासिषम् आभिमुख्येन गीतवानस्मि, आदित्य-रश्म्यभेदं कृत्वा ध्यानं कृतवानस्मीत्यर्थः। तेन तस्मात् कारणात् मम त्वम् एकोऽसि पुत्र इति ह कौषीतकिः कुषीतकस्यापत्यं कौषीतकिः पुत्रम् उवाच उक्तवान्। अतः रश्मीम् आदित्यं च भेदेन त्वं पर्यावर्तयात् पर्यावर्तयेत्यर्थः, त्वं-योगात्। एवं बहवो वै ते तव पुत्रा भविष्यन्ति इति अधिदैवतम्
अथ अनन्तरम् अध्यात्मम् उच्यते। य एवायं मुख्यः प्राणः तम् उद्गीथम् उपासीत इत्यादि पूर्ववत्। तथा ओमिति ह्येष प्राणोऽपि स्वरन्नेति ओमिति ह्यनुज्ञां कुर्वन्निव वागादि-प्रवृत्त्यर्थम् एति इत्यर्थः। न हि मरण-काले मुमूर्षोः समीपस्थाः प्राणस्योंकरणं शृण्वन्तीति। एतत् सामान्याद् आदित्येऽप्योङ्करणम् अनुज्ञामात्रं द्रष्टव्यम्॥
एतम् उ एवाहम् अभ्यगासिषम् इत्यादि पूर्ववद् एव। अतो वागादीन् मुख्यं च प्राणं भेद-गुण-विशिष्टम् उद्गीथं पश्यन् भूमानं मनसा अभिगायतात्, पूर्ववदावर्तयेत्यर्थः। बहवो वै मे मम पुत्रा भविष्यन्ति इति एवम् अभिप्रायः सन्नित्यर्थः। प्राणादित्यैकत्वोद्गीथ दृष्टेः एक-पुत्रत्व-फल-दोषेणापोदितत्वात् रश्मि-प्राण-भेद-दृष्टेः कर्तव्यता चोद्यते अस्मिन् खण्डे बहु-पुत्र-फलत्वार्थम्॥
अथ खलु य उद्गीथ इत्यादि प्रणवोद्गीथैकत्व-दर्शनम् उक्तम्, तस्यैतत् फलम् उच्यते – होतृ-षदनात् होता यत्रस्थः शंसति तत्स्थानं होतृ-षदनम्, हौत्रात् कर्मणः सम्यक्प्रयुक्ताद् इत्यर्थः। न हि देश-मात्रात् फलम् आहर्तुं शक्यम्। किं तत्? ह एवापि दुरुद्गीतं दुष्टम् उद्गीतम् उद्गानं कृतम् उद्गात्रा स्वकर्मणि क्षतं कृतम् इत्यर्थः। तद् अनुसमाहरति अनुसन्धत्त इत्यर्थः – चिकित्सयेव धातु-वैषम्य-समीकरणम् इति॥

Go to Top ('Home' key on many Windows browsers)

ChanU.1.06 The Luminous Person in the Solar Orb

अथेदानीं सर्वफलसम्पत्त्यर्थम् उद्गीथस्य उपासनान्तरं विधित्स्यते –
इयम् एव पृथिवी ऋक्। ऋचि पृथिवि-दृष्टिः कार्या। तथा अग्निः साम। साम्नि अग्नि-दृष्टिः। कथं पृथिव्यग्न्योः ऋक्सामत्वम् इति, उच्यते – तद् एतत् अग्न्याख्यं साम एतस्यां पृथिव्याम् ऋचि अध्यूढम् अधिगतम् उपरिभावेन स्थितम् इत्यर्थः। ऋचीव सामतस्मात् अत एव कारणात् ऋचि अध्यूढम् एव साम गीयते इदानीम् अपि सामगैः। यथा च ऋक्सामनी नात्यन्तं भिन्ने अन्योन्यम्, तथैतौ पृथिव्यग्नी। कथम्? इयम् एव पृथिवी सा साम-नामार्ध-शब्द-वाच्या। इतरार्ध-शब्द-वाच्यः अग्निः अमःतत् एतत् पृथिव्यग्नि-द्वयं सामैक-शब्दाभिधेयत्वम् आपन्नं साम। तस्मान्नान्योन्यं भिन्नं पृथिव्यग्नि-द्वयं नित्य-संश्लिष्टम् ऋक्सामनी इव। तस्माच्च पृथिव्यग्न्योर्‌ ऋक्सामत्वम् इत्यर्थः। सामाक्षरयोः पृथिव्यग्नि-दृष्टि-विधानार्थम् इयम् एव सा अग्निरम इति केचित्॥
अन्तरिक्षम् एव ऋक् वायुः साम इत्यादि पूर्ववत्॥
नक्षत्राणाम् अधिपतिश्चन्द्रमा अतः स साम
अथ यद् एतद् आदित्यस्य शुक्लं भाः शुक्ला दीप्तिः सा एव ऋक्अथ यद् आदित्ये नीलं परः कृष्णं परोऽतिशयेन कार्ष्ण्यं तत् साम। तद्ध्येकान्त-समाहित-दृष्टेर्दृश्यते॥
ते एवैते भासौ शुक्ल-कृष्णत्वे सा च अमश्च साम। अथ य एषः अन्तरादित्ये आदित्यस्यान्तः मध्ये हिरण्मयः हिरण्मय इव हिरण्मयः। न हि सुवर्ण-विकारत्वं देवस्य सम्भवति, ऋक्सामगेष्णत्वापहतपाप्मत्वासम्भवात्। न हि सौवर्णेऽचेतने पाप्मादि-प्राप्तिरस्ति, येन प्रतिषिध्येत, चाक्षुषे च अग्रहणात्। अतः लुप्तोपम एव हिरण्मय-शब्दः, ज्योतिर्मय इत्यर्थः। उत्तरेष्वपि समाना योजना। पुरुषः पुरि शयनात् पूरयति वा स्वेन आत्मना जगदिति। दृश्यते निवृत्त-चक्षुर्भिः समाहित-चेतोभिर्ब्रह्मचर्यादि-साधनापेक्षैः। तेजस्विनोऽपि श्मश्रु-केशादयः कृष्णाः स्युरित्यतो विशिनष्टि – हिरण्य-श्मश्रुर्हिरण्य-केश इति। ज्योतिर्मयान्येवस्य श्मश्रूणि केशाश्चेत्यर्थः। आप्रणखात् प्रणखः नखाग्रं नखाग्रेण सह सर्वः सुवर्ण इव भारूप इत्यर्थः॥
तस्य एवं सर्वतः सुवर्णवर्णस्याप्यक्ष्णोर्विशेषः। कथम्? तस्य यथा कपेः मर्कटस्य आसः कप्यासः। आसेरुपवेशनार्थस्य करणे घञ्। कपिपृष्ठान्तः येनोपविशति। कप्यास इव पुण्डरीकम् अत्यन्ततेजस्वि एवम् देवस्य अक्षिणी। उपमितोपमानत्वात् न हीनोपमा। तस्य एवङ्गुणविशिष्टस्य गौणमिदं नाम उदिति। कथं गौणत्वम्? स एषः देवः सर्वेभ्यः पाप्मभ्यः पाप्मना सह तत्कार्येभ्य इत्यर्थः, “य आत्मापहतपाप्मा” (ChanU.8.7.1) इत्यादि वक्ष्यति, उदितः उदेतः, उद्गत इत्यर्थः। अतः असौ उन्नामा। तम् एवं-गुणसम्पन्नमुन्नामानं यथोक्तेन प्रकारेण यो वेद सोऽप्येवमेव उदेति उद्गच्छति सर्वेभ्यः पाप्मभ्यःह वै इत्यवधारणार्थौ निपातौ – उदेत्येवेत्यर्थः॥
तस्योद्गीथत्वं देवस्य आदित्यादीनामिव विवक्षित्वा आह –
तस्य ऋक् च साम च गेष्णौ पृथिव्याद्युक्तलक्षणे पर्वणी। सर्वात्मा हि देवः। परापरलोककामेशितृत्वादुपपद्यते पृथिव्यग्न्याद्यृक्सामगेष्णत्वम्, सर्वयोनित्वाच्च। यत एवमुन्नामा च असौ ऋक्सामगेष्णश्च तस्मादृक्सामगेष्णत्वे प्राप्ते उद्गीथत्वमुच्यते परोक्षेण, परोक्षप्रियत्वाद्देवस्य, तस्माद् उद्गीथ इति। तस्मात् तु एव हेतोः उदं गायतीत्युग्दाता। यस्माद् हि एतस्य यथोक्तस्योन्नाम्नः गाता असौ अतो युक्ता उद्गीता इति नामप्रसिद्धिः उद्गातुः। स एषः देवः उन्नामा ये च अमुष्मात् आदित्यात् पराञ्चः परागञ्चनात् ऊर्ध्वा लोकाः तेषां लोकानां च ईष्टे न केवलमीशितृत्वमेव, च-शब्दाद्धारयति च, “स दाधार पृथिवीं द्यामुतेमाम्” (RgVeda.10.121.1) इत्यादिमन्त्रवर्णात्। किञ्च, देव-कामानाम् ईष्टे इति एतत् अधिदैवतं देवताविषयं देवस्योद्गीथस्य स्वरूपमुक्तम्॥

Go to Top ('Home' key on many Windows browsers)

ChanU.1.07 The Person in the Eye

अथ अधुना अध्यात्मम् उच्यते – वाग् एव ऋक् प्राणः साम, अधरोपरिस्थानत्वसामान्यात्। प्राणो घ्राणमुच्यते सह वायुना। वाद् एव सा प्राणोऽम इत्यादि पूर्ववत्॥
चक्षुरेव ऋक् आत्मा साम। आत्मेति च्छायात्मा, तत्स्थत्वात्साम॥
श्रोत्रम् एव ऋक् मनः साम, श्रोत्रस्याधिष्ठातृत्वान्मनसः सामत्वम्॥
अथ यद् एतद् अक्ष्णः शुक्लं भाः सा एव ऋक्अथ यन् नीलं परः कृष्णम् आदित्य इव दृक्शक्त्यधिष्ठानं तत्साम
अथ य एषोऽन्तरक्षिणि पुरुषो दृश्यते, पूर्ववत्। सा एव ऋक् अध्यात्मं वागाद्या, पृथिव्याद्या च अधिदैवतम्। प्रसिद्धा च ऋक् पादबद्धाक्षरात्मिका। तथा साम। उक्थसाहचर्याद्वा स्तोत्रं साम ऋक शस्त्रम् उक्थादन्यत् तथा यजुः स्वाहास्वधावषडादि सर्वमेव वाग्यजुः तत् स एव। सर्वात्मकत्वात्सर्वयोनित्वाच्चेति ह्यवोचाम। ऋगादिप्रकरणात् तद् ब्रह्म इति त्रयो वेदाः। तस्य एतस्य चाक्षुषस्य पुरुषस्य तद् एव रूपम् अतिदिश्यते। किं तत्? यद् अमुष्य आदित्यपुरुषस्य – हिरण्मय इत्यादि यदधिदैवतमुक्तम्, यौ अमुष्य गेष्णौ पर्वणी, तावेवास्यापि चाक्षुषस्य गेष्णौयत् च अमुष्य नाम उदित्युद्गीथ इति च तद् एवास्य नाम। स्थानभेदात् रूपगुणनामातिदेशात् ईशितृत्वविषयभेदव्यपदेशाच्च आदित्यचाक्षुषयोर्भेद इति चेत्, न। “अमुना…अनेनैव” (ChanU.1.7.7–8) इत्येकस्योभयात्मत्वप्राप्त्यनुपपत्तेः। द्विधाभावेनोपपद्यत इति चेत् – वक्ष्यति हि “स एकधा भवति त्रिधा भवति” (ChanU.7.26.2) इत्यादि, न। चेतनस्यैकस्य निरवयवत्वाद्द्विधाभावानुपपत्तेः। तस्मादध्यात्माधिदैवतयोरेकत्वमेव। यत्तु रूपाद्यतिदेशो भेदकारणमवोचः, न तद्भेदावगमाय। किं तर्हि, स्थानभेदाद्भेदाशङ्का मा भूदित्येवमर्थम्॥
स एषः चाक्षुषः पुरुषः ये च एतस्मात् आध्यात्मिकाद् आत्मनः अर्वाञ्चः अर्वाग्गताः लोकाः तेषां चेष्टे मनुष्य-सम्बन्धिनां च कामानाम्तत् तस्मात् ये इमे वीणायां गायन्ति गायकाः ते एतम् एव गायन्ति। यस्मादीश्वरं गायन्ति तस्मात् ते धनसनयः धन-लाभ-युक्ताः, धनवन्त इत्यर्थः॥
अथ ये एतद् एवं विद्वान् यथोक्तं देवमुद्गीथं विद्वान् साम गायति उभौ स गायति चाक्षुषमादित्यं च। तस्यैवंविदः फलमुच्यते – सोऽमुनैव आदित्येन स एष ये च अमुष्मात् पराञ्चः लोकाः तांश्च आप्नोति, आदित्यान्तर्गतदेवो भूत्वेत्यर्थः, देव-कामांश्च
अथ अनेनैव चाक्षुषेणैव ये च एतस्माद् अर्वाञ्चो लोकाः तांश्च आप्नोति, मनुष्य-कामांश्च – चाक्षुषो भूत्वेत्यर्थः। तस्माद् उ ह एवंवित् उद्गाता ब्रूयात् यजमानम् – कम् इष्टं ते तव काममागायानि? इतिएष हि यस्मादुद्गाता कामागानस्य उद्गानेन कामं संपादयितुम् ईष्टे समर्थः इत्यर्थः। कोऽसौ? य एवं विद्वान् साम गायति। द्विरुक्तिरुपासनसमाप्त्यर्था॥

Go to Top ('Home' key on many Windows browsers)

ChanU.1.08 The Story of the Pravāhaṇa (I)

अनेकधोपास्यत्वात् अक्षरस्य प्रकारान्तरेण परोवरीयस्त्व-गुण-फलम् उपासनान्तरम् आनिनाय। इतिहासस्तु सुखावबोधनार्थः –
त्रयः त्रि-सङ्ख्याकाः, इत्यैतिह्यार्थः, उद्गीथे उद्गीथ-ज्ञानं प्रति, कुशलाः निपुणा बभूवुः। कस्मिंश्चिद्देशेकाले च निमित्ते वा समेतानामित्यभिप्रायः। न हि सर्वस्मिञ्जगति त्रयाणामेव कौशलमुद्गीथादिविज्ञाने। श्रूयन्ते हि उषस्तिजानश्रुतिकैकेयप्रभृतयः सर्वज्ञकल्पाः। के ते त्रय इति, आह – शिलकः नामतः, शलावतोऽपत्यं शालावत्यः। चिकितायनस्यापत्यं चैकितायनः, दल्भ-गोत्रो दाल्भ्यः, द्व्यामुष्यायणो वा। प्रवाहणो नामतः, जीवलस्यापत्यं जैवलिः इति एते त्रयः – ते होचुः अन्योन्यम् – उद्गीथे वै कुशलाः निपुणा इति प्रसिद्धाः स्मः। अतो हन्त यद्यनुमतिर्भवताम् उद्गीथे उद्गीथज्ञाननिमित्तां कथां विचारणां पक्षप्रतिपक्षोपन्यासेन वदामः वादं कुर्म इत्यर्थः। तथा च तद्विद्यसंवादे विपरीतग्रहणनाशोऽपूर्वविज्ञानोपजनः संशयनिवृत्तिश्चेति। अतः तद्विद्यसंयोगः कर्तव्य इति च इतिहासप्रयोजनम्। दृश्यते हि शिलकादीनाम्॥
तथा इति उक्त्वा ते समुपविविशुः ह उपविष्टवन्तः किल। तत्र राज्ञः प्रागल्भ्योपपत्तेः स ह प्रवाहणो जैवलिरुवाच इतरौ – भगवन्तौ पूजावन्तौ अग्रे पूर्वं वदताम्ब्राह्मणयोः इति लिङ्गाद्राजा असौ। युवयोर्ब्राह्मणयोः वदतोः वाचं श्रोष्यामि। अर्थरहिताम् इत्यपरे, वाचमिति विशेषणात्॥
उक्तयोः स ह शिलकः शालावत्यः चैकितायनं दाल्भ्यम् उवाचहन्त यद्यनुमंस्यसे त्वा त्वां पृच्छानि इत्युक्तः इतरः पृच्छेति होवाच
लब्धानुमतिः आह –
का साम्नः – प्रकृतत्वादुद्गीथस्य। उद्गीथो हि अत्र उपास्यत्वेन प्रकृतः। ‘परोवरीयांसमुद गीथम्’ इति च वक्ष्यति – गतिः आश्रयः, परायणमित्येतत्। एवं पृष्टो दाल्भ्य उवाचस्वर इति, स्वरात्मकत्वात्साम्नः। यो यदात्मकः स तद्गतिस्तदाश्रयश्च भवतीति युक्तम्, मृदाश्रय इव घटादिः। स्वरस्य का गतिः इति, प्राण इति होवाच। प्राणनिष्पाद्यो हि स्वरः, तस्मात्स्वरस्य प्राणो गतिः। प्राणस्य का गतिः इति, अन्नम् इति होवाच। अन्नावष्टम्भो हि प्राणः, “शुष्यति वै प्राण ऋतेऽन्नात्” (BrhU.5.12.1) इति श्रुतेः, “अन्नं दाम” (BrhU.2.2.1) इति च। अन्नस्य का गतिः इति, आप इति होवाच, अप्संभवत्वादन्नस्य॥
अपां का गतिः इति, असौ लोक इति होवाच। अमुष्माद्धि लोकाद्वृष्टिः सम्भवति। अमुष्य लोकस्य का गतिः? इति पृष्टः दाल्भ्य उवाच – स्वर्गम् अमुं लोकम् अतीत्य आश्रयान्तरं साम न नयेत् कश्चित् इति होवाच आह। अतो वयम् अपि स्वर्गं लोकं साम अभिसंस्थापयामः। स्वर्गलोकप्रतिष्ठं साम जानीम इत्यर्थः। स्वर्ग-संस्तावं स्वर्गत्वेन संस्तवनं संस्तावो यस्य तत् साम स्वर्गसंस्तावम्, हि यस्मात् ‘स्वर्गो वै लोकः साम वेद’ इति श्रुतिः॥
तम् इतरः शिकलः शालावत्यः चैकितायनं दाल्भ्यम् उवाचअप्रतिष्ठितम् असंस्थितम्, परोवरीयस्त्वेनासमाप्तगति सामेत्यर्थः। वै इत्यागमं स्मारयति किल इति च, दाल्भ्य ते तव सामयस्तु असहिष्णुः सामवित् एतर्हि एतस्मिन्काले ब्रूयात् कश्चिद्विपरीतविज्ञानम् – अप्रतिष्ठितं साम प्रतिष्ठितमिति – एवंवादापराधिनो मूर्धा शिरः ते विपतिष्यति विस्पष्टं पतिष्यति इति। एवमुक्तस्यापराधिनः तथैव तद् विपतेत् न संशयः। न त्वहं ब्रवीमीत्यभिप्रायः। ननु मूर्धपातार्हं चेदपराधं कृतवान्, अतः परेणानुक्तस्यापि पतेन्मूर्धा, न चेदपराधी उक्तस्यापि नैव पतति। अन्यथा अकृताभ्यागमः कृतनाशश्च स्याताम्। नैष दोषः, कृतस्य कर्मणः शुभाशुभस्य फलप्राप्तेर्देशकालनिमित्तापेक्षत्वात्। तत्रैवं सति मूर्ध-पात-निमित्तस्याप्यज्ञानस्य पराभिव्याहार-निमित्तापेक्षत्वम् इति॥
एवमुक्तो दाल्भ्य आह –
हन्त अहम् एतद् भगवत्तः भगवतः वेदानि यत्प्रतिष्ठं साम इति उक्तः प्रत्युवाच शालावत्यः – विद्धीति होवाचअमुष्य लोकस्य का गतिः? इति पृष्टः दाल्भ्येन शालावत्यः अयं लोक इति होवाच। अयं हि लोको यागदानहोमादिभिरमुं लोकं पुष्यतीति। ‘अतः प्रदानं देवा उपजीवन्ति’ (?) इति हि श्रुतयः। प्रत्यक्षं हि सर्वभूतानां धरणी प्रतिष्ठेति। अतः साम्नोऽप्ययं लोकः प्रतिष्ठैवेति युक्तम्। अस्य लोकस्य का गतिः? इति उक्तः आह शालावत्यः – न प्रतिष्ठाम् इमं लोकम् अतीत्य नयेत् साम कश्चित्। अतो वयं प्रतिष्ठां लोकं साम अभिसंस्थापयामः। यस्मात् प्रतिष्ठासंस्तावं हि, प्रतिष्ठात्वेन संस्तुतं साम इत्यर्थः। “इयं वै रथंतरम्” (TaitSam.7.1.4.3) इति च श्रुतिः॥
तम् एवम् उक्तवन्तं ह प्रवाहणो जैवलिः उवाच अन्तवद्वै किल ते शालावत्य साम इत्यादि पूर्ववत्। ततः शालावत्य आह – हन्त अहम् एतद् भगवत्तो वेदानीतिविद्धीति होवाच इतरः॥

Go to Top ('Home' key on many Windows browsers)

ChanU.1.09 The Story of Pravāhaṇa (II)

अनुज्ञातः आह –
अस्य लोकस्य का गतिः इति, आकाश इति होवाच प्रवाहणः। आकाश इति च पर आत्मा, “आकाशो वै नाम” (ChanU.8.14.1) इति श्रुतेः। तस्य हि कर्म सर्वभूतोत्पादकत्वम्। तस्मिन्नेव हि भूतप्रलयः – “तत्तेजोऽसृजत” (ChanU.6.2.3) “तेजः परस्यां देवतायाम्” (ChanU.6.8.6) इति हि वक्ष्यति। सर्वाणि ह वै इमानि भूतानि स्थावरजङ्गमानि आकाशाद् एव समुत्पद्यन्ते तेजोबन्नादिक्रमेण, सामर्थ्यात्, आकाशं प्रत्यस्तं यन्ति प्रलयकाले तेनैव विपरीतक्रमेण। हि यस्माद् आकाश एव एभ्यः सर्वेभ्यो भूतेभ्यः ज्यायान् महत्तरः, अतः स सर्वेषां भूतानां परम् अयनं परायणं प्रतिष्ठा त्रिष्वपि कालेष्वित्यर्थः॥
यस्मात् परं परं वरीयः वरीयसोऽपि एष वरः परश्च वरीयांश्च परोवरीयान् उद्गीथः परमात्मा सम्पन्न इत्यर्थः, अत एव स एषः अनन्तः अविद्यमानान्तः। तमेतं परोवरीयांसं परमात्मभूतम् अनन्तम् एवं विद्वान् परोवरीयांसम् उद्गीथम् उपास्ते। तस्यैतत्फलम् आह – परोवरीयः परं परं वरीयो विशिष्टतरं जीवनं ह अस्य विदुषो भवति दृष्टं फलम्, अदृष्टं च परोवरीयसः उत्तरोत्तर-विशिष्टतरान् एव ब्रह्माकाशान्तान् लोकान् जयतिय एतद् एवं विद्वान् उद्गीथम् उपास्ते
किंच तम् एतम् उद्गीथं विद्वान् अतिधन्वा नामतः, शुनकस्यापत्यं शौनकः, उदर-शाण्डिल्याय शिष्याय एतम् उद्गीथ-दर्शनम् उक्त्वा उवाचयावत् ते तव प्रजायाम्, प्रजा-सन्ततौ इत्यर्थः, एनम् उद्गीथं त्वत्सन्ततिजा वेदिष्यन्ते ज्ञास्यन्ति, तावन् तं कालं परोवरीयो ह एभ्यः प्रसिद्धेभ्यो लौकिक-जीवनेभ्यः उत्तरोत्तर-विशिष्टतरं जीवनं तेभ्यो भविष्यति
तथा अदृष्टेऽपि पर-लोके अमुष्मिन् परोवरीयांल् लोको भविष्यति इति उक्तवान् शाण्डिल्याय अतिधन्वा शौनकः। स्याद् एतत् फलं पूर्वेषां महाभाग्यानाम्, नैदंयुगीनानाम् – इत्याशङ्कानिवृत्तये आह – स यः कश्चित् एतम् एवं विद्वान् उद्गीथम् एतर्हि उपास्ते, तस्याप्येवमेव परोवरीय एव ह अस्य अस्मिंल् लोके जीवनं भवति तथा अमुष्मिंल् लोके लोक इति

Go to Top ('Home' key on many Windows browsers)

ChanU.1.10 The Story of Uṣasti (I)

उद्गीथोपासन-प्रसङ्गेन प्रस्ताव-प्रतिहार-विषयम् अप्युपासनं वक्तव्यम् इति इदम् आरभ्यते। आख्यायिका तु सुखावबोधार्था –
मटची-हतेषु मटच्यः अशनयः ताभिर्हतेषु नाशितेषु कुरुषु कुरुसस्येष्वित्यर्थः। ततो दुर्भिक्षे जाते आटिक्या अनुपजात-पयोधरादि-स्त्री-व्यञ्जनया सह जायया उषस्तिर्ह नामतः, चक्रस्यापत्यं चाक्रायणः। इभो हस्ती तमर्हतीति इभ्यः ईश्वरः, हस्त्यारोहो वा, तस्य ग्रामः इभ्यग्रामः तस्मिन्। प्रद्राणकः अन्नालाभात्, ‘द्रा कुत्सायां गतौ’, कुत्सितां गतिं गतः, अन्त्यावस्थां प्राप्त इत्यर्थः। उवास उषितवान् कस्यचिद्गृहमाश्रित्य॥
सः अन्नार्थमटन् इभ्यं कुल्माषान् कुत्सितान् माषान् खादन्तं भक्षयन्तं यदृच्छयोपलभ्य बिभिक्षे याचितवान्। तम् उषस्तिं ह उवाच इभ्यः – न इतः, अस्मान् मया भक्ष्यमाणादुच्छिष्ट-राशेः कुल्माषा अन्येविद्यन्तेयच्च ये राशौ मे मम उपनिहिताः प्रक्षिप्ताः इमे भाजने। किं करोमि?
इत्युक्तः प्रत्युवाच उषस्तिः –
एतेषाम् एतानित्यर्थः, मे मह्यं देहीति ह उवाचतान् स इभ्यः अस्मै उषस्तये प्रददौ प्रदत्तवान्। पानाय समीपस्थम् उदकं च गृहीत्वा उवाच – हन्त गृहाण अनुपानम्इति उक्तः प्रत्युवाच – उच्छिष्टं वै मे मम इदम् उदकं पीतं स्यात्, यदि पास्यामि॥
इत्युक्तवन्तं प्रत्युवाच इतरः –
किं न स्विद् एते कुल्माषा अप्युच्छिष्टाः, इति उक्तः आह उषस्तिः – न वै अजीविष्यं नैव जीविष्यामि इमान् कुल्माषान् अखादन् अभक्षयन् इति होवाचकामः इच्छातः मे मम उद-पानं लभ्यत इत्यर्थः। अतश्चैताम् अवस्थां प्राप्तस्य विद्या-धर्म-यशोवतः स्वात्म-परोपकार-समर्थस्यैतद् अपि कर्म कुर्वतो न अघ-स्पर्श इत्यभिप्रायः। तस्यापि जीवितं प्रति उपायान्तरेऽजुगुप्सिते सति जुगुप्सितम् एतत् कर्म दोषाय। ज्ञानावलेपेन कुर्वतो नरक-पातः स्याद् एव इत्यभिप्रायः, प्रद्राणक-शब्द-श्रवणात्॥
तांश्च स खादित्वा अतिशेषान् अतिशिष्टान् जायायै कारुण्याद् आजहारसा आटिकी अग्रे एव कुल्माष-प्राप्तेः सुभिक्षा शोभन-भिक्षा, लब्धान्नेत्येतत्, बभूव संवृत्ता। तथापि स्त्री-स्वाभाव्यादनवज्ञाय तान् कुल्माषान् पत्युर्हस्तात् प्रतिगृह्य निदधौ निक्षिप्तवती॥
तस्याः कर्म जानन् प्रातः उषः-काले सञ्जिहानः शयनं निद्रां वा परित्यजन् उवाच पत्न्याः शृण्वन्त्याः – यत् यदि बत इति खिद्यमानः अन्नस्य स्तोकं लभेमहि, तद्भुक्त्वान्नं समर्थो गत्वा लभेमहि धन-मात्रां धनस्याल्पम्। ततः अस्माकं जीवनं भविष्यतीति। धन-लाभे च कारणम् आह – राजासौ नातिदूरे स्थाने यक्ष्यते। यजमानत्वात् तस्य आत्मनेपदम्। च राजा मा मां पात्रम् उपलभ्य सर्वैः आर्त्विज्यैः ऋत्विक्-कर्मभिः ऋत्विक्-कर्म-प्रयोजनायेत्यर्थः वृणीतेति
एवम् उक्तवन् तं जायोवाचहन्त गृहाण हे पते इमे एव ये मद्धस्ते विनिक्षिप्ताः त्वया कुल्माषा इतितान् खादित्वा अमुं यज्ञं राज्ञो विततं विस्तारितम् ऋत्विग्भिः एयाय
तत्र च गत्वा, उद्गातॄन् उद्गातृ-पुरुषान् आगत्य, आस्तुवन्ति अस्मिन्निति आस्तावः तस्मिन् आस्तावे स्तोष्यमाणान् उप उपविवेश समीपे उपविष्टस्तेषाम् इत्यर्थः। उपविश्य च स ह प्रस्तोतारम् उवाच
हे प्रस्तोतः इत्यामन्त्र्य अभिमुखीकरणाय, या देवता प्रस्तावं प्रस्तावभक्तिम् अनुगता अन्वायत्ता, तां चेत् देवतां प्रस्तावभक्तेः अविद्वान् सन् प्रस्तोष्यसि, विदुषो मम समीपे – तत्परोक्षेऽपि चेत् विपतेत्तस्य मूर्धा, कर्ममात्रविदामनधिकार एव कर्मणि स्यात्। तच्चानिष्टम्, अविदुषामपि कर्मदर्शनात्, दक्षिणमार्गश्रुतेश्च। अनधिकारे च अविदुषामुत्तर एवैको मार्गः श्रूयेत। न च स्मार्तकर्मनिमित्त एव दक्षिणः पन्थाः, “यज्ञेन दानेन” (BrhU.6.2.16) इत्यादिश्रुतेः। “तथोक्तस्य मया” (ChanU.1.11.5,7,9) इति च विशेषणाद्विद्वत्समक्षमेव कर्मण्यनधिकारः, न सर्वत्राग्निहोत्रस्मार्तकर्माध्ययनादिषु च। अनुज्ञायास्तत्र तत्र दर्शनात्, कर्ममात्रविदामप्यधिकारः सिद्धः कर्मणीति – मूर्धा ते विपतिष्यतीति
एवम् एव उद्गातारं … प्रतिहर्तारम् उवाच इत्यादि समानम् अन्यत्। ते प्रस्तोत्रादयः कर्मभ्यः समारताः उपरताः सन्तः मूर्धपात-भयात् तूष्णीम् आसाञ्चक्रिरे अन्यच् चाकुर्वन्तः, अर्थित्वात्॥

Go to Top ('Home' key on many Windows browsers)

ChanU.1.11 The Story of Uṣasti (II)

अथ अनन्तरं ह एनम् उषस्तिं यजमानः राजा उवाचभगवन्तं पूजावन्तम् वै अहं विविदिषाणि वेदितुम् इच्छामि। इत्युक्तः उषस्तिः अस्मि चाक्रायणः तवापि श्रोत्रपथमागतो यदि – इति ह उवाच उक्तवान्॥
स ह यजमानः उवाच – सत्यमेवम् अहं भगवन्तं बहु-गुणम् अश्रौषम्, सर्वैः च ऋत्विक्-कर्मभिः आर्त्विज्यैः पर्यैषिषं पर्येषणं कृतवानस्मि। अन्विष्य भगवतो वा अहम् अवित्त्या अलाभेन अन्यान् इमान् अवृषि वृतवानस्मि॥
अद्यापि भगवांस् तु एव मे मम सर्वैः आर्त्विज्यैः ऋत्विक्-कर्मार्थम् अस्तु, इति उक्तः तथा इति आह उषस्तिः। किंतु अथ एवं तर्हि एते एव त्वया पूर्वं वृताः मया समतिसृष्टाः मया संयक्प्रसन्नेनानुज्ञाताः सन्तः स्तुवताम्। त्वया त्वेतत्कार्यम् – यावत् तु एभ्यः प्रस्तोत्रादिभ्यः सर्वेभ्यो धनं दद्याः प्रयच्छसि, तावन् मम दद्याःइति उक्तः तथा इति ह यजमानः उवाच
अथ ह एनम् औषस्त्यं वचः श्रुत्वा प्रस्तोता उपससाद उषस्तिं विनयेनोपजगाम। प्रस्तोतर्या देवता इत्यादि मा मां भगवान् अवोचत् पूर्वम् – कतमा सा देवता? या प्रस्ताव-भक्तिम् अन्वायत्तेति॥
पृष्टः प्राण इति ह उवाच। युक्तं प्रस्तावस्य प्राणो देवतेति। कथम्? सर्वाणि स्थावर-जङ्गमानि भूतानि प्राणम् एव अभिसंविशन्ति प्रलय-काले, प्राणम् अभि लक्षयित्वा प्राणात्मनैव उज्जिहते प्राणादेवोद्गच्छन्तीत्यर्थः उत्पत्तिकाले। अतः सा एषा देवता प्रस्तावम् अन्वायत्तातां चेतविद्वान् त्वं प्रास्तोष्यः प्रस्तवनं प्रस्तावभक्तिं कृतवानसि यदि, मूर्धा शिरः ते व्यपतिष्यत् विपतितमभविष्यत् तथा उक्तस्य मया तत्काले मूर्धा ते विपतिष्यतीति। अतः त्वया साधु कृतम्। मया निषिद्धः कर्मणो यदुपरमाम् अकार्षिरित्यभिप्रायः॥
तथा उद्गाता पप्रच्छ कतमा सा उद्गीथ-भक्तिम् अनुगता अन्वायत्ता देवता इति
पृष्टः आदित्य इति होवाचसर्वाणि ह वा इमानि भूतानि आदित्यम् उच्चैः ऊर्ध्वं सन्तं गायन्ति शब्दयन्ति, स्तुवन्तीत्यभिप्रायः, उच्-छब्द-सामान्यात्, प्र-शब्द-सामान्याद् इव प्राणः। अतः सा एषा देवता इत्यादि पूर्ववत्॥
एवम् एव अथ ह एनं प्रतिहर्ता उपससाद कतमा सा देवता प्रतिहारम् अन्वायत्ता इति॥
पृष्टः अन्नम् इति होवाचसर्वाणि ह वा इमानि भूतानि अन्नम् एव आत्मानं प्रति सर्वतः प्रतिहरमाणानि जीवन्तिसा एषा देवता प्रति-शब्दसामान्यात् प्रतिहार-भक्तिम् अनुगता। समानम् अन्यत् तथोक्तस्य मयेति। प्रस्तावोद्गीथ-प्रतिहार-भक्तीः प्राणादित्यान्न-दृष्ट्योपासीतेति समुदायार्थः। प्राणाद्यापत्तिः कर्म-समृद्धिः वा फलम् इति॥

Go to Top ('Home' key on many Windows browsers)

ChanU.1.12 The Udgītha of the Dogs

अतीते खण्डेऽन्नाप्राप्ति-निमित्ता कष्टावस्थोक्ता उच्छिष्टोच्छिष्ट-पर्युषित-भक्षण-लक्षणा। सा मा भूद् इति अन्न-लाभाय –
अथ अनन्तरं शौवः श्वभिर्दृष्टः उद्गीथः उद्गानं साम अतः प्रस्तूयते। तत् तत्र किल बको नामतः, दल्भस्यापत्यं दाल्भ्यःग्लावो वा नामतः, मित्रायाश्चापत्यं मैत्रेयः। वा-शब्दश्चार्थे। द्व्यामुष्यायणो ह्यसौ। वस्तु-विषये क्रियास्विव विकल्पानुपपत्तेः। द्विनामा द्विगोत्र इत्यादि हि स्मृतिः। दृश्यते च उभयतः पिण्डभाक्त्वम्। उद्गीथे बद्धचित्तत्वात् ऋषावनादराद्वा। वा-शब्दः स्वाध्यायार्थः। स्वाध्यायं कर्तुं ग्रामाद्बहिः उद्वव्राज उद्गतवान् विविक्त-देशस्थोदकाभ्याशम्। ‘उद वव्राज’ “प्रतिपालयाञ्चकार” (ChanU.1.12.3) इति च एक-वचनाल् लिङ्गात् एकोऽसौ ऋषिः। श्वोद्गीथ-काल-प्रतिपालनात् ऋषेः स्वाध्याय-करणम् अन्नकामनयेति लक्ष्यत इत्यभिप्रायतः॥
स्वाध्यायेन तोषिता देवता ऋषिर्वा श्वरूपं गृहीत्वा श्वा श्वेतः सन् तस्मै ऋषये तदनुग्रहार्थं प्रादुर्बभूव प्रादुश्चकार। तमन्ये शुक्लं श्वानं क्षुल्लकाः श्वानः उपसमेत्य ऊचुः उक्तवन्तः – अन्नं नः अस्मभ्यं भगवान् आगायतु आगानेन निष्पादयतु इत्यर्थः। मुख्य-प्राण-वागादयो वा प्राणम् अनु अन्नभुजः स्वाध्याय-परितोषिताः सन्तः अनुगृह्णीयुरेनं श्वरूपमादायेति युक्तम् एवं प्रतिपत्तुम्। अशनायाम वै बुभुक्षिताः स्मो वै इति॥
एवम् उक्ते श्वा श्वेत उवाच तान् क्षुल्लकान् शुनः, इहैव अस्मिन्नेव देशे मा मां प्रातः प्रातःकाले उपसमीयातेति। दैर्घ्यं छान्दसम्, समीयातेति प्रमाद-पाठो वा। प्रातःकाल-करणं तत्काल एव कर्तव्यार्थम्, अन्नदस्य वा सवितुरपराह्णेऽनाभिमुख्यात्। तत् तत्रैव ह बको दाल्भ्यो ग्लावो वा मैत्रेय ऋषिः प्रतिपालयाञ्चकार प्रतीक्षणं कृतवान् इत्यर्थः॥
ते श्वानः तत्रैव आगत्य ऋषेः समक्षं यथा एव इह कर्मणि बहिष्पवमानेन स्तोत्रेण स्तोष्यमाणाः उद्गातृ-पुरुषाः संरब्धाः संलग्नाः अन्योन्यम् एव सर्पन्ति, एवं मुखेनान्योन्यस्य पुच्छं गृहीत्वा आससृपुः आसृप्तवन्तः, परिभ्रमणं कृतवन्त इत्यर्थः। ते एवं संसृप्य समुपविश्य उपविष्टाः सन्तः हिञ्-चक्रुः हिंकारं कृतवन्तः॥
ओम् अदाम् ओं पिबाम् ओं देवः, द्योतनात्। वरुणः वर्षणाज्जगतः। प्रजापतिः, पालनात्प्रजानाम्। सविता प्रसवितृत्वात्सर्वस्य आदित्य उच्यते। एतैः पर्यायैः स एवंभूतः आदित्यः अन्नम् अस्मभ्यम् इह आहरत् आहरत्विति। ते एवं हिं कृत्वा पुनरप्यूचुः – स त्वं हे अन्नपते। स हि सर्वस्यान्नस्य प्रसवितृत्वात् पतिः। न हि तत्पाकेन विना प्रसूतमन्नम् अणुमात्रम् अपि जायते प्राणिनाम्। अतोऽन्नपतिः। हे अन्नपते, अन्नम् अस्मभ्यम् इह आहराहर इति। अभ्यासः आदरार्थः। ओम् इति

Go to Top ('Home' key on many Windows browsers)

ChanU.1.13 The Mystical Meaning of the Stobha Syllables

भक्ति-विषयोपासनं सामावयव-सम्बद्धम् इति अतः सामावयवान्तर-स्तोभाक्षर-विषयाणि उपासनान्तराणि संहतानि उपदिश्यन्तेऽनन्तरम्, तेषां सामावयव-सम्बद्धत्वाविशेषात् –
अयं वाव अयम् एव लोकः हाउकारः स्तोभो रथंतरे साम्नि प्रसिद्धः – “इयं वै रथंतरम्” (TaitSam.7.1.4.3) इत्यस्मात् संबन्ध-सामान्यात् हाउकारः तोभोऽयं लोकः इत्येवम् उपासीत। वायुः हाइकारः। वाम-देव्ये सामनि हाइकारः प्रसिद्धः। वाय्वप्-संबन्धश्च वाम-देव्यस्य साम्नो योनिः इत्यस्मात् सामान्यात् हाइकारं वायु-दृष्ट्योपासीत। चन्द्रमा अथकारः। चन्द्र-दृष्ट्या अथकारम् उपासीत। अन्ने हीदं स्थितम्। अन्नात्मा चन्द्रः। थकाराकार-सामान्याच् च। आत्मा इहकारः। इह इति स्तोभः। प्रत्यक्षो ह्यात्मा इहेति व्यपदिश्यते। इह इति च स्तोभः, तत्सामान्यात् अग्निः ईकारः। ई-निधनानि च आग्नेयानि सर्वाणि सामानि इति अतः तत्सामान्यात्॥
आदित्यः ऊकारः। उच्चैः ऊर्ध्वं सन्तम् आदित्यं गायन्तीति ऊकारः च अयं स्तोभः। आदित्य-दैवत्ये साम्नि स्तोभ इति आदित्य ऊकारः। निहव इत्याह्वानम्। एकारः स्तोभः। एहीति च आह्वयन्तीति तत्सामान्यात्। विश्वेदेवा औहोयिकारः, वैश्व-देव्ये साम्नि स्तोभस्य दर्शनात्। प्रजापतिः हिंकारः, आनिरुक्त्यात्, हिंकारस्य च अव्यक्तत्वात्। प्राणः स्वरः। स्वर इति स्तोभः। प्राणस्य च स्वर-हेतुत्व-सामान्यात्। अन्नं या। या इति स्तोभः अन्नम्, अन्नेन हीदं याति इति अतः तत्सामान्यात्। वाग् इति स्तोभो विराट् अन्नं देवता-विशेषो वा, वैराजे साम्नि स्तोभ-दर्शनात्॥
अनिरुक्तः अव्यक्तत्वाद् इदं चेदं चेति निर्वक्तुं न शक्यत इत्यतः, सञ्चरः विकल्प्यमान-स्वरूप इत्यर्थः। कोऽसौ? इति आह – त्रयो-दशः स्तोभः हुंकारः। अव्यक्तो ह्ययम्। अतोऽनिरुक्त-विशेष एव उपास्य इत्यभिप्रायः॥
स्तोभाक्षरोपासना-फलम् आह –
दुग्धेऽस्मै वाग्दोहम् इत्याद्युक्तार्थम्। ये एताम् एवं यथोक्त-लक्षणां साम्नां सामावयव-स्तोभाक्षर-विषयाम् उपनिषदं दर्शनं वेद, तस्य एतद् यथोक्तं फलम् इत्यर्थः। द्विः अभ्यासः अध्याय-परिसमाप्त्यर्थः। सामावयव-विषयोपासना-विशेष-परिसमाप्त्यर्थः वेति॥

Go to Top ('Home' key on many Windows browsers)

kh.2.01 kh.2.02 kh.2.03 kh.2.04 kh.2.05 kh.2.06 kh.2.07 kh.2.08 kh.2.09 kh.2.10 kh.2.11 kh.2.12 kh.2.13 kh.2.14 kh.2.15 kh.2.16 kh.2.17 kh.2.18 kh.2.19 kh.2.20 kh.2.21 kh.2.22 kh.2.23 kh.2.24

“ओम् इत्येतद् अक्षरम्” (ChanU.1.1.1) इत्यादिना सामावयव-विषयम् उपासनम् अनेक-फलम् उपदिष्टम्। अनन्तरं च स्तोभाक्षर-विषयम् उपासनम् उक्तम् – सर्वथापि सामैक-देश-सम्बद्धम् एव तद् इति। अथेदानीं समस्ते साम्नि समस्त-साम-विषयाणि उपासनानि वक्ष्यामि इत्यारभते श्रुतिः। युक्तं हि एक-देशोपासनानन्तरम् एक-देशि-विषयम् उपासनम् उच्यत इति॥

Go to Top ('Home' key on many Windows browsers)

ChanU.2.01 Meditation on the Fivefold Sāman (I)

समस्तस्य सर्वावयव-विशिष्टस्य पाञ्च-भक्तिकस्य साप्त-भक्तिकस्य च इत्यर्थः। खलु इति वाक्यालङ्कारार्थः। साम्न उपासनं साधु। समस्ते साम्नि साधु-दृष्टि-विधि-परत्वान्न पुर्वोपासन-निन्दार्थत्वं साधु-शब्दस्य। ननु पूर्वत्राविद्यमानं साधुत्वं समस्ते साम्न्यभिधीयते। न, “साधु सामेत्युपास्ते” (ChanU.2.1.4) इत्युपसंहारात्। साधु-शब्दः शोभन-वाची। कथम् अवगंयत? इति, आह – यत् खलु लोके साधु शोभनमनवद्यं प्रसिद्धम्, तत् साम इति आचक्षते कुशलाः। यद् असाधु विपरीतम्, तद् असाम इति
तत् तत्रैव साध्वसाधु-विवेक-करणे उत अपि आहुःसाम्ना एनं राजानं सामन्तं च उपागात् उपगतवान्। कोऽसौ? यतः असाधुत्व-प्राप्त्याशङ्का स इत्यभिप्रायः। शोभनाभिप्रायेण साधुना एनम् उपागात् इत्येव तत् तत्र आहुः लौकिकाः बन्धनाद्यसाधु-कार्यम् अपश्यन्तः। यत्र पुनः विपर्ययेण बन्धनाद्यसाधु-कार्यं पश्यन्ति, तत्र असाम्ना एनम् उपागाद् इति असाधुना एनम् उपागाद् इति एव तद् आहुः
अथ उत अपि आहुः स्वसंवेद्यं साम नः अस्माकं बत इति अनुकम्पयन्तः संवृत्तम् इति आहुः। एतत् तैः उक्तं भवति, यत् साधु भवति साधु बत इति एव तद् आहुः। विपर्यये जाते असाम नो बत इतियद् असाधु भवति असाधु बत इति एव तदाहुः। तस्मात् साम-साधु-शब्दयोः एकार्थत्वं सिद्धम्॥
अतः स यः कश्चित् साधु साम इति साधु-गुणवत् साम इति उपास्ते समस्तं साम साधु-गुणवद् विद्वान्, तस्यैतत् फलम् अभ्याशो ह क्षिप्रं ह, यत् इति क्रिया-विशेषणार्थम्, एनम् उपासकं साधवः शोभनाः धर्माः श्रुति-स्मृत्यविरुद्धाः आ च गच्छेयुः आगच्छेयुः च। न केवलम् आगच्छेयुः, उप च नमेयुः उपनमेयुः च, भोग्यत्वेन उपतिष्ठेयुः इत्यर्थः॥

Go to Top ('Home' key on many Windows browsers)

ChanU.2.02 Meditation on the Fivefold Sāman (II)

कानि पुनः तानि साधु-दृष्टि-विशिष्टानि समस्तानि सामानि उपास्यानि इति, इमानि तानि उच्यन्ते – लोकेषु पञ्च-विधम् इत्यादीनि। ननु लोकादि-दृष्ट्या तानि उपास्यानि साधु-दृष्ट्या च इति विरुद्धम्। न, साध्वर्थस्य लोकादि-कार्येषु कारणस्यानुगतत्वात् – मृदादिवद् घटादि-विकारेषु। साधु-शब्द-वाच्योऽर्थो धर्मो ब्रह्म वा सर्वथापि लोकादि-कार्येषु अनुगतम्। अतः यथा यत्र घटादि-दृष्टिः मृदादि-दृष्ट्यनुगतैव सा, तथा साधु-दृष्ट्यनुगतैव लोकादि-दृष्टिः।
धर्मादि-कार्यत्वाल् लोकादीनाम्। यद्यपि कारणत्वम् अविशिष्टं ब्रह्म-धर्मयोः, तथापि धर्म एव साधु-शब्द-वाच्य इति युक्तम्, साधु-कारी साधुः भवति इति धर्म-विषये साधु-शब्द-प्रयोगात्। ननु लोकादि-कार्येषु कारणस्यानुगतत्वाद् अर्थ-प्राप्तैव तद्-दृष्टिः इति “साधु साम इति उपास्ते” (ChanU.2.1.4) इति न वक्तव्यम्। न, शास्त्र-गम्यत्वात् तद्-दृष्टेः। सर्वत्र हि शास्त्र-प्रापिता एव धर्मा उपास्याः, न विद्यमाना अपि अशास्त्रीयाः –

लोकेषु पृथिव्यादिषु पञ्च-विधं पञ्च-भक्ति-भेदेन पञ्च-प्रकारं साधु समस्तं सामोपासीत। कथम्? पृथिवी हिंकारः। लोकेषु इति या सप्तमी, तां प्रथमात्वेन विपरिणमय्य पृथिवी-दृष्ट्या हिंकारे पृथिवी हिंकार इत्युपासीत। व्यत्यस्य वा सप्तमी-श्रुतिं लोक-विषयां हिंकारादिषु पृथिव्यादि-दृष्टिं कृत्वा उपासीत। तत्र पृथिवी हिंकारः, प्राथम्यसामान्यात्। अग्निः प्रस्तावः। अग्नौ हि कर्माणि प्रस्तूयन्ते। प्रस्तावश्च भक्तिः। अन्तरिक्षम् उद्गीथः। अन्तरिक्षं हि गगनम्। गकार-विशिष्टः च उद्गीथः। आदित्यः प्रतिहारः, प्रतिप्राण्यभिमुखत्वान् मां प्रति मां प्रतीति। द्यौः निधनम्। दिवि निधीयन्ते हि इतो गता इति ऊर्ध्वेषु ऊर्ध्व-गतेषु लोक-दृष्ट्या सामोपासनम्॥
अथ आवृत्तेषु अवाङ्-मुखेषु पञ्च-विधम् उच्यते सामोपासनम्। गत्यागति-विशिष्टा हि लोकाः। यथा ते, तथा-दृष्ट्यैव सामोपासनं विधीयते यतः, अत आवृत्तेषु लोकेषु। द्यौः हिंकारः, प्राथम्यात्। आदित्यः प्रस्तावः, उदिते हि आदित्ये प्रस्तूयन्ते कर्माणि प्राणिनाम्। अन्तरिक्षम् उद्गीथः पूर्ववत्। अग्निः प्रतिहारः, प्राणिभिः प्रतिहरणाद् अग्नेः। पृथिवी निधनम्, तत आगतानाम् इह निधनात्॥
उपासन-फलं –
कल्पन्ते समर्था भवन्ति ह अस्मै लोका ऊर्ध्वाश्च आवृत्ताश्च, गत्यागति-विशिष्टा भोग्यत्वेन व्यवतिष्ठन्त इत्यर्थः। य एतद् एवं विद्वान् लोकेषु पञ्च-विधं समस्तं साधु साम इति उपास्ते इति सर्वत्र योजना पञ्च-विधे सप्त-विधे च॥

Go to Top ('Home' key on many Windows browsers)

ChanU.2.03 Meditation on the Fivefold Sāman as Rain

वृष्टौ पञ्च-विधं साम उपासीत। लोक-स्थितेः वृष्टि-निमित्तत्वाद् आनन्तर्यम्। पुरो-वातो हिंकारः। पुरोवाताद्युद्ग्रहणान्ता हि वृष्टिः, यथा साम हिंकारादि-निधनान्तम्। अतः पुरो-वातो हिंकारः, प्राथम्यात्। मेघो जायते स प्रस्तावः। प्रावृषि मेघ-जनने वृष्टेः प्रस्ताव इति हि प्रसिद्धिः। वर्षति स उद्गीथः, श्रैष्ठ्यात्। विद्योतते स्तनयति स प्रतिहारः, प्रतिहृतत्वात्॥
उद्गृह्णाति तत् निधनम्, समाप्ति-सामान्यात्। फलम् उपासनस्य – वर्षति ह अस्मै इच्छातः। तथा वर्षयति ह असत्याम् अपि वृष्टौ। य एतद् इत्यादि पूर्ववत्॥

Go to Top ('Home' key on many Windows browsers)

ChanU.2.04 Meditation on the Fivefold Sāman as Water

सर्वास्वप्सु पञ्च-विधं साम उपासीत। वृष्टि-पूर्वकत्वात् सर्वासाम् अपाम् आनन्तर्यम्। मेघो यत् संप्लवते एकी-भावेन इतरेतरं घनी-भवति मेघः यदा उन्नतः, तदा संप्लवते इत्युच्यते, तदा अपाम् आरभ्भः स हिंकारःयद् वर्षति स प्रस्तावः। आपः सर्वतो व्याप्तुं प्रस्तुताः। याः प्राच्यः स्यन्दन्ते स उद्गीथः, श्रौष्ठ्यात्। याः प्रतीच्यः स प्रतिहारः, प्रति-शब्द-सामान्यात्। समुद्रो निधनम्, तन्निधनत्वाद् अपाम्॥
न ह अप्सु प्रैति, नेच्छति चेत्। अप्सुमान् अस्मान् भवति फलम्॥

Go to Top ('Home' key on many Windows browsers)

ChanU.2.05 Meditation on the Fivefold Sāman as the Seasons

ऋतुषु पञ्च-विधं साम उपासीत। ऋतु-व्यवस्थाया यथोक्तांबु-निमित्तत्वाद् आनन्तर्यम्। वसन्तो हिंकारः, प्राथम्यात्। ग्रीष्मः प्रस्तावः। यवादि-सङ्ग्रहः प्रस्तूयते हि प्रावृडर्थम्। वर्षा उद्गीथः, प्राधान्यात्। शरत् प्रतिहारः, रोगिणां मृतानां च प्रतिहरणात्। हेमन्तो निधनम्, निवाते निधनात् प्राणिनाम्॥
फलम् –
कल्पन्ते ह ऋतु-व्यवस्थानुरूपं भोग्यत्वेन अस्मै उपासकाय ऋतवःऋतुमान् आर्तवैः भोगैश्च सम्पन्नो भवति इत्यर्थः॥

Go to Top ('Home' key on many Windows browsers)

ChanU.2.06 Meditation on the Fivefold Sāman in Animals

पशुषु पञ्च-विधं साम उपासीत। संयग्वृत्तेषु ऋतुषु पशव्यः काल इत्यानन्तर्यम्। अजा हिंकारः, प्राधान्यात्, प्राथम्याद् वा – ‘अजः पशूनां प्रथमः’ इति श्रुतेः। अवयः प्रस्तावः, साहचर्य-दर्शनाद् अजावीनाम्। गाव उद्गीथः, श्रैष्ठ्यात्। अश्वाः प्रतिहारः, प्रतिहारणात् पुरुषाणाम्। पुरुषो निधनम्, पुरुषाश्रयत्वात् पशूनाम्॥
फलम् –
भवन्ति ह अस्य पशवःपशुमान् भवति, पशु-फलैश्च भोग-त्यागादिभिः युज्यते इत्यर्थः॥

Go to Top ('Home' key on many Windows browsers)

ChanU.2.07 Meditation on the Fivefold Sāman as the Senses

प्राणेषु पञ्च-विधं परो-वरीयः साम उपासीत, परं परं वरीयस्त्व-गुणवत् प्राण-दृष्टि-विशिष्टं सामोपासीतेत्यर्थः। प्राणो घ्राणं हिंकारः, उत्तरोत्तर-वरीयसां प्राथम्यात्। वाक् प्रस्तावः, वाचा हि प्रस्तूयते सर्वम्, वाग्वरीयसी प्राणात् – अप्राप्तम् अपि उच्यते वाचा, प्राप्तस्यैव तु गन्धस्य ग्राहकः प्राणः। चक्षुः उद्गीथः, वाचो बहुतर-विषयं प्रकाशयति चक्षुः, अतो वरीयो वाचः उद्गीथः, श्रैष्ठ्यात्। श्रोत्रं प्रतिहारः, प्रतिहृतत्वात्। वरीयः चक्षुषः, सर्वतः श्रवणात्। मनो निधनम्, मनसि हि निधीयन्ते पुरुषस्य भोग्यत्वेन सर्वेन्द्रियाहृता विषयाः। वरीयस्त्वं च श्रोत्रान् मनसः, सर्वेन्द्रिय-विषय-व्यापकत्वात्। अतीन्द्रिय-विषयोऽपि मनसो गोचर एवेति। यथोक्त-हेतुभ्यः परो-वरीयांसि प्राणादीनि वै एतानि
एतद्दृष्ट्या विशिष्टं यः परो-वरीयः साम उपास्ते, परो-वरीयो ह अस्य जीवनं भवति इत्युक्तार्थम्। इति तु पञ्च-विधस्य साम्न उपासनम् उक्तम् इति सप्त-विधे वक्ष्यमाण-विषये बुद्धि-समाधानार्थम्। निरपेक्षो हि पञ्च-विधे, वक्ष्यमाणे बुद्धिं समाधित्सति॥

Go to Top ('Home' key on many Windows browsers)

ChanU.2.08 Meditation on the Sevenfold Sāman in Speech

अथ अनन्तरं सप्त-विधस्य समस्तस्य साम्न उपासनं साधु इदम् आरभ्यते। वाचि इति सप्तमी पूर्ववत्, वाग्दृष्टि-विशिष्टं सप्त-विधं सामोपासीत इत्यर्थः। यत्किञ्च वाचः शब्दस्य हुम् इति यो विशेषः स हिंकारः, हकार-सामान्यात्। यत् प्रेति शब्द-रूपं स प्रस्तावः, प्र-सामान्यात्। यद् आ इति स आदिः, आकार-सामान्यात्। आदिः इति ओङ्कारः, सर्वादित्वात्॥
यद् उद् इति स उद्गीथः, उत्-पूर्वत्वाद् उद्गीथस्य। यत् प्रति इति स प्रतिहारः, प्रति-सामान्यात्। यद् उप इति स उपद्रवः, उपोपक्रमत्वाद् उपद्रवस्य। यद् नि इति तद् निधनम्, नि-शब्द-सामान्यात्॥
दुग्धेऽस्मै इत्याद्युक्तार्थम्॥

Go to Top ('Home' key on many Windows browsers)

ChanU.2.09 Meditation on the Sevenfold Sāman as the Sun

अवयव-मात्रे साम्न्यादित्य-दृष्टिः पञ्च-विधेषु उक्ता प्रथमे च अध्याये। अथ इदानीं खलु अमुम् आदित्यं समस्ते साम्न्यवयव-विभागशोऽध्यस्य सप्त-विधं सामोपासीत। कथं पुनः सामत्वम् आदित्यस्य इति? उच्यते – उद्गीथत्वे हेतुवदादित्यस्य सामत्वे हेतुः। कोऽसौ? सर्वदा समः वृद्धि-क्षयाभावात्। तेन हेतुना साम आदित्यः। मां प्रति मां प्रति इति तुल्यां बुद्धिम् उत्पादयति। अतः सर्वेण समः। अतः साम, समत्वाद् इत्यर्थः। उद्गीथ-भक्ति-सामान्य-वचनाद् एव लोकादिषु उक्त-सामान्यात् हिंकारादित्वं गम्यते इति हिंकारादित्वे कारणं न उक्तम्। सामत्वे पुनः सवितुः अनुक्तं कारणं न सुबोधम् इति समत्वम् उक्तम्॥
तस्मिन् आदित्ये अवयव-विभागशः इमानि वक्ष्यमाणानि सर्वाणि भूतानि अन्वायत्तानि अनुगतानि आदित्यम् उपजीव्यत्वेन इति विद्यात्। कथम्? तस्य आदित्यस्य यत् पुरोदयात् धर्म-रूपम्, स हिंकारः भक्तिः। तत्रेदं सामान्यम्, यत् तस्य हिंकार-भक्ति-रूपम्। तद् अस्य आदित्यस्य साम्नः पशवः गवादयः अन्वायत्ताः अनुगताः तद्भक्ति-रूपम् उपजीवन्ति इत्यर्थः। यस्माद् एवम्, तस्मात् ते हिं कुर्वन्ति पशवः प्रागुदयात्। तस्माद् हिङ्कार-भाजिनो हि एतस्य आदित्याख्यस्य साम्नः, तद्भक्ति-भजन-शीलत्वाद् हि त एवं वर्तन्ते॥
अथ यत् प्रथमोदिते सवितृ-रूपम्, तद् अस्य आदित्याख्यस्य साम्नः स प्रस्तावःतद् अस्य मनुष्या अन्वायत्ताः पूर्ववत्। तस्मात् ते प्रस्तुतिं प्रशंसां कामयन्ते, यस्मात् प्रस्ताव-भाजिनो हि एतस्य साम्नः
अथ यत् सङ्गव-वेलायां गवां रश्मीनां सङ्गमनं सङ्गवो यस्यां वेलायाम्, गवां वा वत्सैः सहः, सा सङ्गव-वेला तस्मिन् काले यत् सावित्रं रूपम्, स आदिः भक्ति-विशेषः ओङ्कारः।
तद् अस्य वयांसि पक्षिणः अन्वायत्तानि। यत एवम्, तस्मात् तानि वयांसि अन्तरिक्षे अनारम्बणानि अनालम्बनानि, आत्मानम् आदाय आत्मानम् एव आलम्बनत्वेन गृहीत्वा, परिपतन्ति गच्छन्ति। अतः आकार-सामान्याद् आदि-भक्ति-भाजीनि हि एतस्य साम्नः
अथ यत् संप्रति-मध्यन्दिने ऋजु-मध्यन्दिने इत्यर्थः, स उद्गीथ-भक्तिः, तद् अस्य देवा अन्वायत्ताः, द्योतनातिशयात् तत्काले। तस्मात् ते सत्तमाः विशिष्टतमाः प्राजापत्यानां प्रजापत्यपत्यानाम्, उद्गीथ-भाजिनो हि एतस्य साम्नः
अथ यद् ऊर्ध्वं मध्यन्दिनात् प्राग् अपराह्णात् यद् रूपं सवितुः, स प्रतिहारःतद् अस्य गर्भा अन्वायत्ताः। अतः ते सवितुः प्रतिहार-भक्ति-रूपेण ऊर्ध्वं प्रतिहृताः सन्तः न अवपद्यन्ते न अधः पतन्ति, तद्द्वारे सति अपि इत्यर्थः। यतः प्रतिहार-भाजिनो हि एतस्य साम्नो गर्भाः॥
अथ यद् ऊर्ध्वम् अपराह्णात् प्राग् अस्तमयात् स उपद्रवः, तद् अस्य आरण्याः पशवः अन्वायत्ताःतस्मात् ते पुरुषं दृष्ट्वा भीताः कक्षम् अरण्यं श्वभ्रं भय-शून्यम् इति उपद्रवन्ति उपगच्छन्ति। दृष्ट्वा उपद्रवणात् उपद्रव-भाजिनो हि एतस्य साम्नः
अथ यत् प्रथमास्तमिते अदर्शनं जिगमिषति सवितरि, तद् निधनम्, तद् अस्य पितरः अन्वायत्ताःतस्मात् तान् निदधति – पितृ-पितामह-प्रपितामह-रूपेण दर्भेषु निक्षिपन्ति तान्। तदर्थं पिण्डान्वा स्थापयन्ति। निधन-सम्बन्धाद् निधन-भाजिनो हि एतस्य साम्नः पितरः। एवम् अवयवशः सप्तधा विभक्तं खलु अमुम् आदित्यं सप्त-विधं सामोपास्ते यः, तस्य तद् आपत्तिः फलम् इति वाक्य-शेषः॥

Go to Top ('Home' key on many Windows browsers)

ChanU.2.10 Meditation on the Sevenfold Sāman through the Number of Syllables

मृत्युः आदित्यः, अहोरात्रादि-कालेन जगतः प्रमापयितृत्वात्। तस्य अतितरणाय इदं सामोपासनम् उपदिश्यते –
अथ खलु अनन्तरम्, आदित्य-मृत्यु-विषय-सामोपासनस्य। आत्म-संमितं स्वावयव-तुल्यतया मितम्, परमात्म-तुल्यतया वा संमितम्, अतिमृत्यु, मृत्यु-जय-हेतुत्वात्। यथा प्रथमेऽध्याये उद्गीथ-भक्ति-नामाक्षराणि उद्गीथ इति उपास्यत्वेन उक्तानि, तथा इह साम्नः सप्त-विध-भक्ति-नामाक्षराणि समाहृत्य त्रिभिः त्रिभिः समतया सामत्वं परिकल्प्य उपास्यत्वेन उच्यन्ते। तदुपासनं मृत्यु-गोचराक्षर-सङ्ख्या-सामान्येन मृत्युं प्राप्य, तद् अतिरिक्ताक्षरेण तस्य आदित्यस्य मृत्योः अतिक्रमणाय एव सङ्क्रमणं कल्पयति। अतिमृत्यु सप्त-विधं साम उपासीत, मृत्युम् अतिक्रान्तम् अतिरिक्ताक्षर-सङ्ख्यया इति अतिमृत्यु साम। तस्य प्रथम-भक्ति-नामाक्षराणि हिंकार इति। एतत् त्र्यक्षरं भक्तिनाम। प्रस्ताव इति च भक्तेः त्र्यक्षरम् एव नाम। तत् पूर्वेण समम्
आदिः इति द्व्यक्षरम्। सप्त-विधस्य साम्नः सङ्ख्या-पूरणे ओङ्कारः आदिः इत्युच्यते। प्रतिहार इति चतुरक्षरम्ततः इह एकम् अक्षरम् अवच्छिद्य आद्यक्षरयोः प्रक्षिप्यते। तेन तत् समम् एव भवति॥
उद्गीथ इति त्र्यक्षरम्उपद्रव इति चतुरक्षरम्त्रिभिः त्रिभिः समं भवतिअक्षरम् अतिशिष्यते अतिरिच्यते। तेन वैषम्ये प्राप्ते, साम्नः समत्व-करणाय आह – तद् एकम् अपि सदक्षरम् इति त्र्यक्षरम् एव भवति। अतः तत् समम्
निधनम् इति त्र्यक्षरम्तत् समम् एव भवति। एवं त्र्यक्षर-समतया सामत्वं संपाद्य यथा-प्राप्तानि एव अक्षराणि सङ्ख्यायन्ते – तानि ह वा एतानि सप्त-भक्ति-नाम-अक्षराणि द्वा-विंशतिः
तत्र एक-विंशति-अक्षर-सङ्ख्यया आदित्यम् आप्नोति मृत्युम्। यस्माद् एक-विंशः इतः अस्माल् लोकात् असौ आदित्यः सङ्ख्यया। “द्वा-दश मासाः, पञ्चर्त्तवः, त्रय इमे लोकाः, असौ आदित्य, एक-विंशः” (TaitSam.5.4.12.2) इति श्रुतेः। अतिशिष्टेन द्वा-विंशेन अक्षरेण परं मृत्योः आदित्यात् जयति आप्नोति इत्यर्थः। यच् च तद् आदित्यात् परम्। किं तत्? नाकम्, कम् इति सुखं तस्य प्रतिषेधोऽकं तन् न भवति इति नाकम्, कम् एव इत्यर्थः, अमृत्यु-विषयत्वात्। विशोकंतत् विगत-शोकं मानस-दुःख-रहितम् इत्यर्थः – तद् आप्नोति इति॥
उक्तस्यैव पिण्डितार्थम् आह –
एक-विंशति-सङ्ख्यया आदित्यस्य जयम् आप्नोति, परो ह अस्य एवंविदः आदित्य-जयात् मृत्यु-गोचरात् परो जयो भवति, द्वा-विंशत्यक्षर-सङ्ख्यया इत्यर्थः। यः एतद् एवं विद्वान् इत्यादि उक्तार्थम्, तस्य एतद् यथोक्तं फलम् इति। द्विः अभ्यासः साप्तविध्य-समाप्त्यर्थः॥

Go to Top ('Home' key on many Windows browsers)

ChanU.2.11 Meditation on the Gāyatra Sāman

विना नाम-ग्रहणं पञ्च-विधस्य सप्त-विधस्य च साम्न उपासनम् उक्तम्। अथेदानीं गायत्रादि-नाम-ग्रहण-पूर्वकं विशिष्ट-फलानि सामोपासनान्तराणि उच्यन्ते। यथा-क्रमं गायत्रादीनां कर्मणि प्रयोगः। तथैव –
मनो हिंकारः, मनसः सर्व-करण-वृत्तीनां प्राथम्यात्। तदानन्तर्यात् वाक् प्रस्तावःचक्षुः उद्गीथः, श्रैष्ठ्यात्। श्रोत्रं प्रतिहारः, प्रतिहृतत्वात्। प्राणो निधनम्, यथोक्तानां प्राणे निधनात् स्वाप-काले। एतद् गायत्रं साम प्राणेषु प्रोतम्, गायत्र्याः प्राण-संस्तुतत्वात्॥
सः, य एवम् एतद् गायत्रं प्राणेषु प्रोतं वेद, प्राणी भवति। अविकल-करणो भवति इत्येतत्। सर्वम् आयुः एति, ‘शतं वर्षाणि सर्वम् आयुः पुरुषस्य’ इति श्रुतेः। ज्योक् उज्ज्वलः सन् जीवतिमहान् भवति प्रजा-आदिभिः। महान्कीर्त्या। गायत्रोपासकस्य एतत् व्रतं भवति, यत् महा-मनाः अक्षुद्र-चित्तः स्याद् इत्यर्थः॥

Go to Top ('Home' key on many Windows browsers)

ChanU.2.12 Meditation on the Rāthāntara Sāman

अभिमन्थति स हिंकारः, प्राथंयात्। अग्नेः धूमो जायते स प्रस्तावः, आनन्तर्यात्। ज्वलति स उद्गीथः, हविः-सम्बन्धाच् छ्रैष्ठ्यं ज्वलनस्य। अङ्गारा भवन्ति स प्रतिहारः, अङ्गाराणां प्रतिहृतत्वात्। उपशमः, सावशेषत्वाद् अग्नेः, संशमः निःशेषोपशमः। समाप्ति-सामान्याद् निधनम्एतद् रथन्तरम् अग्नौ प्रोतम्। मन्थने हि अग्निः गीयते॥
स य इत्यादि पूर्ववत्। ब्रह्म-वर्चसी वृत्त-स्वाध्याय-निमित्तं तेजो ब्रह्म-वर्चसम्। तेजः तु केवलं त्विड्-भावः। अन्नादो दीप्ताग्निः। न प्रत्यक्, अग्नेः अभिमुखो न आचामेत् न भक्षयेत् किञ्चित्। न निष्ठीवेत् श्लेष्म-निरसनं च न कुर्यात्। तद् व्रतम्

Go to Top ('Home' key on many Windows browsers)

ChanU.2.13 Meditation on the Vāma-devya Sāman

उपमन्त्रयते सङ्केतं करोति, प्राथम्यात् स हिंकारःज्ञपयते तोषयति, स प्रस्तावःसह-शयनम् एक-पर्यङ्क-गमनम्, स उद्गीथः, श्रैष्ठ्यात्। प्रति स्त्रीं शयनं स्त्रिया अभिमुखी-भावः, स प्रतिहारःकालं गच्छति मैथुनेन, पारं समाप्तिं गच्छति तन् निधनम्एतद् वाम-देव्यं मिथुने प्रोतम्, वाय्वम्बु-मिथुन-सम्बन्धात्॥
स य इत्यादि पूर्ववत्। मिथुनी-भवति अविधुरो भवति इत्यर्थः। मिथुनाद् मिथुनात् प्रजायते इति अमोघ-रेतस्त्वम् उच्यते। न काञ्चन, काञ्चिद् अपि स्त्रियं स्वात्म-तल्प-प्राप्तां न परिहरेत् समागमार्थिनीम्, वाम-देव्य-सामोपासनाङ्गत्वेन विधानात्। एतस्माद् अन्यत्र प्रतिषेध-स्मृतयः। वचन-प्रामाण्याच् च धर्मावगतेः न प्रतिषेध-शास्त्रेण अस्य विरोधः॥

Go to Top ('Home' key on many Windows browsers)

ChanU.2.14 Meditation on the Bṛhat Sāman

उद्यन् सविता स हिंकारः, प्राथंयाद् दर्शनस्य। उदितः प्रस्तावः, प्रस्तवन-हेतुत्वात् कर्मणाम्। मध्यन्दिन उद्गीथः, श्रैष्ठ्यात्। अपराह्णः प्रतिहारः, पश्वादीनां गृहान्प्रति हरणात्। यद् अस्तं यन् तद् निधनम्, रात्रौ गृहे निधानात् प्राणिनाम्। एतद् बृहत् आदित्ये प्रोतम्, बृहतः आदित्य-दैवत्यत्वात्॥
स य इत्यादि पूर्ववत्। तपन्तं न निन्देत्तद् व्रतम्

Go to Top ('Home' key on many Windows browsers)

ChanU.2.15 Meditation on the Vairūpa Sāman

अभ्राणि अब्भरणात्। मेघः उदक-सेक्तृत्वात्। उक्तार्थम् अन्यत्। एतद् वैरूपं नाम साम पर्जन्ये प्रोतम्। अनेक-रूपत्वात् अभ्रादिभिः पर्जन्यस्य, वैरूप्यम्॥
विरूपांश्च सुरूपांश्च अजावि-प्रभृतीन् पशून् अवरुन्धे प्राप्नोतीत्यर्थः। वर्षन्तं न निन्देत्तद् व्रतम्

Go to Top ('Home' key on many Windows browsers)

ChanU.2.16 Meditation on the Vairāja Sāman

वसन्तो हिंकारः, प्राथम्यात्। ग्रीष्मः प्रस्तावः इत्यादि पूर्ववत्॥
एतद् वैराजम् ऋतुषु प्रोतं वेद, विराजति ऋतुवत् – यथा ऋतवः आर्तवैः धर्मैः विराजन्ते, एवं प्रजा-आदिभिः विद्वान् इति। उक्तम् अन्यम्। ऋतून् न निन्देत्, तद् व्रतम्

Go to Top ('Home' key on many Windows browsers)

ChanU.2.17 Meditation on the Śakvarī Sāman

पृथिवी हिंकार इत्यादि पूर्ववत्। शक्वर्य इति नित्यं बहु-वचनं रेवत्य इव। लोकेषु प्रोताः
लोकी भवति लोक-फलेन युज्यत इत्यर्थः। लोकान् न निन्देत्, तद् व्रतम्

Go to Top ('Home' key on many Windows browsers)

ChanU.2.18 Meditation on the Revatī Sāman

अजा हिंकार इत्यादि पूर्ववत्। पशुषु प्रोताः
पशून् न निन्देत्, तद् व्रतम्

Go to Top ('Home' key on many Windows browsers)

ChanU.2.19 Meditation on the Yajñāya-jñīya Sāman

लोम हिंकारः, देहावयवानां प्राथम्यात्। त्वक् प्रस्तावः, आनन्तर्यात्। मांसम् उद्गीथः, श्रैष्ठ्यात्। अस्थि प्रतिहारः, प्रतिहृतत्वात्। मज्जा निधनम्, आन्त्यात्। एतद् यज्ञायज्ञीयं नाम साम देहावयवेषु प्रोतम्
अङ्गी भवति समग्राङ्गो भवति इत्यर्थः। नाङ्गेन हस्त-पादादिना विहूर्छति न कुटिली-भवति, पङ्गुः कुणी वा इत्यर्थः। संवत्सरं संवत्सरमात्रं मज्ज्ञो मांसानि नाश्नीयात् न भक्षयेत्। बहु-वचनं मत्स्योपलक्षणार्थम्। मज्ज्ञो नाश्नीयात् सर्व-दैव नाश्नीयाद् इति वा, तद् व्रतम्

Go to Top ('Home' key on many Windows browsers)

ChanU.2.20 Meditation on the Rājana Sāman

अग्निः हिंकारः, प्रथम-स्थानत्वात्। वायुः प्रस्तावः, आनन्तर्य-सामान्यात्। आदित्यः उद्गीथः, श्रैष्ठ्यात्। नक्षत्राणि प्रतिहारः, प्रतिहृतत्वात्। चन्द्रमा निधनम्, कर्मिणां तन्निधनात्। एतद् राजनं देवतासु प्रोतम्, देवतानां दीप्तिमत्त्वात्॥
विद्वत्-फलम् –
एतासाम् एव अग्न्यादीनां देवतानां सलोकतां समान-लोकतां सार्ष्टितां समानर्द्धित्वं सायुज्यं सयुग्भावम् एक-देह-देहित्वम् इत्येतत्, वा-शब्दोऽत्र लुप्तो द्रष्टव्यः। सलोकतां वा इत्यादि। भावना-विशेषतः फल-विशेषोपपत्तेः। गच्छति प्राप्नोति। समुच्चयान् उपपत्तेश्च। ब्राह्मणान् न निन्देत्, तद् व्रतम्। ‘एते वै देवाः प्रत्यक्षं यद् ब्राह्मणाः’ इति श्रुतेः ब्राह्मण-निन्दा देवता-निन्दा एव इति॥

Go to Top ('Home' key on many Windows browsers)

ChanU.2.21 Meditation on the Sāman as Interwoven in Everything

त्रयी विद्या हिंकारः। अग्न्यादिसाम्न आनन्तर्यं त्रयीविद्याया अग्न्यादिकार्यत्वश्रुतेः। हिंकारः प्राथंयात् सर्व-कर्तव्यानाम्। त्रय इमे लोकाः तत्कार्यत्वाद् अनन्तरा इति प्रस्तावःअग्नि-आदीनाम् उद्गीथत्वं श्रैष्ठ्यात्। नक्षत्र-आदीनां प्रतिहृतत्वात् प्रतिहारत्वम्। सर्प-आदीनां धकार-सामान्याद् निधनत्वम्। एतत् साम नाम-विशेषाभावात् साम-समुदायः साम-शब्दः सर्वस्मिन् प्रोतम्। त्रयी-विद्यादि हि सर्वम्। त्रयी-विद्यादि-दृष्ट्या हिंकारादि-साम-भक्तय उपास्याः। अतीतेषु अपि सामोपासनेषु येषु येषु प्रोतं यद् यत् साम, तद्-दृष्ट्या तद् उपास्यम् इति। कर्माङ्गानां दृष्टि-विशेषेण इव आज्यस्य संस्कार्यत्वात्॥
सर्व-विषय-सामविदः फलम् –
सर्वं ह भवति सर्वेश्वरो भवति इत्यर्थः। निरुपचरित-सर्व-भावे हि दिक्-स्थेभ्यो बलि-प्राप्त्यनुपपत्तिः॥
तत् एतस्मिन् अर्थे एषः श्लोकः मन्त्रोऽप्यस्ति। यानि पञ्चधा पञ्च-प्रकारेण हिंकारादि-विभागैः प्रोक्तानि, त्रीणि त्रीणि त्रयी-विद्यादीनि, तेभ्यः पञ्च-त्रिकेभ्यः ज्यायः महत्तरं परं च व्यतिरिक्तम् अन्यत् वस्त्वन्तरं न अस्ति न विद्यत इत्यर्थः। तत्रैव हि सर्वस्य अन्तर्भावः॥
यः तत् यथोक्तं सर्वात्मकं साम वेद, स वेद सर्वम्, स सर्वज्ञो भवति इत्यर्थः। सर्वा दिशः सर्व-दिक्-स्था अस्मै एवंविदे बलिं भोगं हरन्ति प्रापयन्ति इत्यर्थः। सर्वम् अस्मि भवामि इति एवम् एतत्साम उपासीत, तस्य एतद् एव व्रतम्। द्विः उक्तिः सामोपासन-समाप्त्यर्था॥

Go to Top ('Home' key on many Windows browsers)

ChanU.2.22 The different notes employed in the Chanting of the Sāman

सामोपासन-प्रसङ्गेन गान-विशेषादि-सम्पत् उद्गातुः उपदिश्यते, फल-विशेष-सम्बन्धात् –
विनर्दि विशिष्टो नर्दः स्वर-विशेषः ऋषभ-कूजित-समोऽस्य अस्ति इति विनर्दि गानम् इति वाक्य-शेषः। तच् च साम्नः सम्बन्धि पशुभ्यो हितं पशव्यम् अग्नेः अग्नि-देवत्यं च उद्गीथः उद्गानम्। तद् अहम् एवं-विशिष्टं वृणे प्रार्थये इति कश्चिद् यजमानः उद्गाता वा मन्यते। अनिरुक्तः अमुक-समः इति अविशेषितः प्रजापतेः प्रजा-पति-देवत्यः स गान-विशेषः, आनिरुक्त्यात् प्रजा-पतेः। निरुक्तः स्पष्टः। सोमस्य सोम-देवत्यः स उद्गीथ इत्यर्थः। मृदु श्लक्ष्णं च गानं वायोः वायु-दैवत्यं तत्। श्लक्ष्णं बलवत् च प्रयत्नाधिक्योपेतं च इन्द्रस्य ऐन्द्रं तद् गानम्। क्रौञ्चं क्रौञ्च-पक्षि-निनाद-समं बृहस्-पतेः बार्हस्-पत्यं तत्। अपध्वान्तं भिन्न-कांस्य-स्वर-समं वरुणस्य एतद् गानम्। तान् सर्वान् एव उपसेवेत प्रयुञ्जीत वारुणं तु एव एकं वर्जयेत्
अमृतत्वं देवेभ्य आगायानि साधयानि। स्वधां पितृभ्यः आगायानि। आशां मनुष्येभ्यः, आशां प्रार्थनां प्रार्थितम् इत्येतत्। तृणोदकं पशुभ्यःस्वर्गं लोकं यजमानायअन्नम् आत्मने मह्यम् आगायानिइति एतानि मनसा चिन्तयन् ध्यायन् अप्रमत्तः स्वरोष्म-व्यञ्जनादिभ्यः स्तुवीत
सर्वे स्वराः अकारादय इन्द्रस्य बल-कर्मणः प्राणस्य आत्मानः देहावयव-स्थानीयाः। सर्वे ऊष्माणः श-ष-स-हादयः प्रजा-पतेः विराजः कश्यपस्य वा आत्मानःसर्वे स्पर्शाः कादयो व्यञ्जनानि मृत्योः आत्मानःतम् एवंविदम् उद्गातारं यदि कश्चित् स्वरेषु उपालभेत – ‘स्वरस्त्वया दुष्टः प्रयुक्तः’ इति, एवम् उपालब्धः ‘इन्द्रं प्राणम् ईश्वरं शरणम् आश्रयं प्रपन्नोऽभूवं स्वरान् प्रयुञ्जानोऽहम्, इन्द्रः यत्तव वक्तव्यं त्वा त्वां प्रति वक्ष्यति स एव देव उत्तरं दास्यति’ इति एनं ब्रूयात्॥
अथ यदि एनम् ऊष्मसु तथा एव उपालभेत, प्रजा-पतिं शरणं प्रपन्नोऽभूवम्, स त्वा प्रति पेक्ष्यति सञ्चूर्णयिष्यति इति एनं ब्रूयात्अथ यदि एनं स्पर्शेषु उपालभेत, मृत्युं शरणं प्रपन्नोऽभूवम्, स त्वा प्रति धक्ष्यति भस्मी-करिष्यति इति एनं ब्रूयात्
यतः इन्द्राद्यात्मानः स्वरादयः, अतः –
सर्वे स्वराः घोषवन्तः बलवन्तो वक्तव्याः। तथा अहम् इन्द्रे बलं ददानि बलम् आदधानि इति। तथा सर्वे ऊष्माणः अग्रस्ताः अन्तरप्रवेशिताः अनिरस्ताः बहिरप्रक्षिप्ताः विवृताः विवृत-प्रयत्नोपेताः। प्रजा-पतेः आत्मानं परिददानि प्रयच्छानि इतिसर्वे स्पर्शाः लेशेन शनकैः अनभिनिहिताः अनभिनिक्षिप्ता वक्तव्याःमृत्योः आत्मानं बालान् इव शनकैः परिहरन् मृत्योः आत्मानं परिहराणि इति

Go to Top ('Home' key on many Windows browsers)

ChanU.2.23 Praise of Om Unassociated with any Ritual

ओङ्कारस्य उपासन-विध्यर्थं त्रयो धर्म-स्कन्धा इत्यादि आरभ्यते। न एवं मन्तव्यं सामावयव-भूतस्य एव उद्गीथादि-लक्षणस्य ओंकारस्य उपासनात् फलं प्राप्यत इति। किं तर्हि, यत् सर्वैः अपि सामोपासनैः कर्मभिः च अप्राप्यं तत् फलम् अमृतत्वं केवलाद् ओङ्कारोपासनात् प्राप्यत इति। तत्स्तुत्यर्थं साम-प्रकरणे तदुपन्यासः –
त्रयः त्रि-सङ्ख्याकाः धर्मस्य स्कन्धाः धर्म-स्कन्धाः धर्म-प्रविभागाः इत्यर्थः। के ते इति, आह – यज्ञः अग्नि-होत्रादिः, अध्ययनं सनियमस्य ऋगादेः अभ्यासः, दानं बहिर्वेदि यथाशक्ति द्रव्य-संविभागो भिक्षमाणेभ्यः, इति एषः प्रथमः धर्म-स्कन्धः गृहस्थ-समवेतत्वात् तन्निर्वर्तकेन गृहस्थेन निर्दिश्यते। प्रथमः एक इत्यर्थः, द्वितीय-तृतीय-श्रवणात् न आद्यार्थः। तप एव द्वितीयः। तप इति कृच्छ्र-चान्द्रायणादि तद्वान् तापसः परिव्राड् वा, न ब्रह्म-संस्थः आश्रम-धर्म-मात्र-संस्थः, ब्रह्म-संस्थस्य तु अमृतत्व-श्रवणात्। द्वितीयः धर्म-स्कन्धः। ब्रह्म-चारी आचार्य-कुले वस्तुं शीलम् अस्य इति आचार्य-कुल-वासीअत्यन्तं यावज्जीवम् आत्मानं नियमैः आचार्य-कुले अवसादयन् क्षपयन् देहं तृतीयः धर्म-स्कन्धः। अत्यन्तम् इत्यादि-विशेषणान्नैष्ठिक इति गम्यते। उपकुर्वाणस्य स्वाध्याय-ग्रहणार्थत्वात् न पुण्य-लोकत्वं ब्रह्म-चर्येण। सर्व एते त्रयोऽपि आश्रमिणः यथोक्तैः धर्मैः पुण्य-लोका भवन्ति। पुण्यो लोको येषां त इमे पुण्य-लोका आश्रमिणो भवन्ति। अवशिष्टः तु अनुक्तः परिव्राट् तुरीयः ब्रह्म-संस्थाः ब्रह्मणि सम्यक्स्थितः, सः अमृतत्वं पुण्य-लोक-विलक्षणम् अमरण-भावम् आत्यन्तिकम् एति, न आपेक्षिकम्, देवाद्यमृतत्ववत्, पुण्य-लोकात् पृथक् अमृतत्वस्य विभाग-करणात्।
यदि च पुण्य-लोकातिशयमात्रम् अमृतत्वम् अभविष्यत्, ततः पुण्य-लोकत्वाद् विभक्तं न अवक्ष्यत्। विभक्तोपदेशाच् च आत्यन्तिकम् अमृतत्वम् इति गम्यते। अत्र च आश्रम-धर्म-फलोपन्यासः प्रणव-सेवा-स्तुत्यर्थः, न तत्फल-विध्यर्थः, स्तुतये च प्रणव-सेवायाः, आश्रम-धर्म-फल-विधये च, इति हि भिद्येत वाक्यम्। तस्मात् स्मृति-प्रसिद्धाश्रम-फलानुवादेन प्रणव-सेवा-फलम् अमृतत्वं ब्रुवन् प्रणव-सेवां स्तौति। यथा पूर्ण-वर्मणः सेवा भक्त-परिधानमात्र-फला, राज-वर्मणः तु सेवा राज्य०तुल्य-फला इति – तद्वत्। प्रणवश्च तत्सत्यं परं ब्रह्म तत्प्रतीकत्वात्। “एतद् हि एव अक्षरं ब्रह्म एतद् हि एव अक्षरं परम्” (KathU.1.2.16) इत्याद्याम्नानात् काठके, युक्तं तत्सेवातोऽमृतत्वम्।
अत्र आहुः केचित् – चतुर्णामाश्रमिणामविशेषेण स्वधर्मानुष्ठानात्पुण्यलोकता इहोक्ता ज्ञानवर्जितानाम् ‘सर्व एते पुण्यलोका भवन्ति’ इति। नात्र परिव्राडवशेषितः। परिव्राजकस्यापि ज्ञानं यमा नियमाश्च तप एवेति। तप एव द्वितीय इत्यत्र तपः-शब्देन परिव्राट्तापसौ गृहीतौ। अतस्तेषामेव चतुर्णां यो ब्रह्मसंस्थः प्रणवसेवकः सोऽमृतत्वमेतीति चतुर्णामधिकृतत्वाविशेषात्, ब्रह्मसंस्थत्वेऽप्रतिषेधाच्च, स्वकर्मच्छिद्रे च ब्रह्मसंस्थतायां सामर्थ्योपपत्तेः। न च यववराहादिशब्दवत् ब्रह्मसंस्थशब्दः परिव्राजके रूढः, ब्रह्मणि संस्थितिनिमित्तमुपादाय प्रवृत्तत्वात्। न हि रूढिशब्दा निमित्तमुपाददते। सर्वेषां च ब्रह्मणि स्थितिरुपपद्यते। यत्र यत्र निमित्तमस्ति ब्रह्मणि संस्थितिः, तस्य तस्य निमित्तवतो वाचकं सन्तं ब्रह्मसंस्थशब्दं परिव्राडेकविषये सङ्कोचे कारणाभावात् निरोद्धुमयुक्तम्। न च पारिव्राज्याश्रमधर्ममात्रेणामृतत्वम्, ज्ञानानर्थक्यप्रसङ्गात्। पारिव्राज्यधर्मयुक्तमेव ज्ञानममृतत्वसाधनमिति चेत्, न, आश्रमधर्मत्वाविशेषात्। धर्मो वा ज्ञानविशिष्टोऽमृतत्वसाधनमित्येतदपि सर्वाश्रमधर्माणामविशिष्टम्। न च वचनमस्ति परिव्राजकस्यैव ब्रह्मसंस्थस्य मोक्षः, नान्येषाम् इति। ज्ञानान्मोक्ष इति च सर्वोपनिषदां सिद्धान्तः। तस्माद्य एव ब्रह्मसंस्थः स्वाश्रमविहितधर्मवताम्, सोऽमृतत्वमेतीति।
अत्र आहुः केचित् – चतुर्णामाश्रमिणामविशेषेण स्वधर्मानुष्ठानात्पुण्यलोकता इहोक्ता ज्ञानवर्जितानाम् ‘सर्व एते पुण्यलोका भवन्ति’ इति। नात्र परिव्राडवशेषितः। परिव्राजकस्यापि ज्ञानं यमा नियमाश्च तप एवेति। तप एव द्वितीय इत्यत्र तपः-शब्देन परिव्राट्तापसौ गृहीतौ। अतस्तेषामेव चतुर्णां यो ब्रह्मसंस्थः प्रणवसेवकः सोऽमृतत्वमेतीति चतुर्णामधिकृतत्वाविशेषात्, ब्रह्मसंस्थत्वेऽप्रतिषेधाच्च, स्वकर्मच्छिद्रे च ब्रह्मसंस्थतायां सामर्थ्योपपत्तेः। न च यववराहादिशब्दवत् ब्रह्मसंस्थशब्दः परिव्राजके रूढः, ब्रह्मणि संस्थितिनिमित्तमुपादाय प्रवृत्तत्वात्। न हि रूढिशब्दा निमित्तमुपाददते। सर्वेषां च ब्रह्मणि स्थितिरुपपद्यते। यत्र यत्र निमित्तमस्ति ब्रह्मणि संस्थितिः, तस्य तस्य निमित्तवतो वाचकं सन्तं ब्रह्मसंस्थशब्दं परिव्राडेकविषये सङ्कोचे कारणाभावात् निरोद्धुमयुक्तम्। न च पारिव्राज्याश्रमधर्ममात्रेणामृतत्वम्, ज्ञानानर्थक्यप्रसङ्गात्। पारिव्राज्यधर्मयुक्तमेव ज्ञानममृतत्वसाधनमिति चेत्, न, आश्रमधर्मत्वाविशेषात्। धर्मो वा ज्ञानविशिष्टोऽमृतत्वसाधनमित्येतदपि सर्वाश्रमधर्माणामविशिष्टम्। न च वचनमस्ति परिव्राजकस्यैव ब्रह्मसंस्थस्य मोक्षः, नान्येषाम् इति। ज्ञानान्मोक्ष इति च सर्वोपनिषदां सिद्धान्तः। तस्माद्य एव ब्रह्मसंस्थः स्वाश्रमविहितधर्मवताम्, सोऽमृतत्वमेतीति।
न, कर्मनिमित्तविद्याप्रत्यययोर्विरोधात्। कर्त्रादिकारकक्रियाफलभेदप्रत्ययवत्त्वं हि निमित्तमुपादाय इदं कुरु इदं मा कार्षीः इति कर्मविधयः प्रवृत्ताः। तच्च निमित्तं न शास्त्रकृतम्, सर्वप्राणिषु दर्शनात्। “सत् …एकमेवाद्वितीयम्” (ChanU.6.2.1) “आत्मैवेदं सर्वम्” (ChanU.7.26.2) ‘ब्रह्मैवेदं सर्वम्’ (?) इति शास्त्रजन्यः प्रत्ययो विद्यारूपः स्वाभाविकं क्रियाकारकफलभेदप्रत्ययं कर्मविधिनिमित्तमनुपमृद्य न जायते, भेदाभेदप्रत्यययोर्विरोधात्। न हि तैमिरिकद्विचन्द्रादिभेदप्रत्ययमनुपमृद्य तिमिरापगमे चन्द्राद्येकत्वप्रत्यय उपजायते, विद्याविद्याप्रत्यययोर्विरोधात्। तत्रैवं सति यं भेदप्रत्ययमुपादाय कर्मविधयः प्रवृत्ताः, स यस्योपमर्दितः “सत् … एकमेवाद्वितीयम्” (ChanU.6.2.1) “तत्सत्यम्” (ChanU.6.8.7) “विकारभेदोऽनृतम्” (ChanU.6.1.4) इत्येतद्वाक्यप्रमाणजनितेनैकत्वप्रत्ययेन, स सर्वकर्मभ्यो निवृत्तः, निमित्तनिवृत्तेः। स च निवृत्तकर्मा ब्रह्मसंस्थ उच्यते। स च परिव्राडेव, अन्यस्यासम्भवात्, अन्यो हि अनिवृत्तभेदप्रत्ययः सोऽन्यत्पश्यञ्शृण्वन्मन्वानो विजानन्निदं कृत्वेदं प्राप्नुयामिति हि मन्यते। तस्यैवं कुर्वतो न ब्रह्मसंस्थता, वाचारंभणमात्रविकारानृताभिसन्धिप्रत्ययवत्त्वात्। न च असत्यमित्युपमर्दिते भेदप्रत्यये सत्यमिदमनेन कर्तव्यं मयेति प्रमाणप्रमेयबुद्धिरुपपद्यते – आकाश इव तलमलबुद्धिर्विवेकिनः। उपमर्दितेऽपि भेदप्रत्यये कर्मभ्यो न निवर्तते चेत्, प्रागिव भेदप्रत्ययानुपमर्दनादेकत्वप्रत्ययविधायकं वाक्यमप्रमाणीकृतं स्यात्। अभक्ष्यभक्षणादिप्रतिषेधवाक्यानां प्रामाण्यवत् युक्तमेकत्ववाक्यस्यापि प्रामाण्यम्, सर्वोपनिषदां तत्परत्वात्। कर्मविधीनामप्रामाण्यप्रसङ्ग इति चेत्, न, अनुपमर्दितभेदप्रत्ययवत्पुरुषविषये प्रामाण्योपपत्तेः स्वप्नादिप्रत्यय इव प्राक्प्रबोधात्। विवेकिनामकरणात् कर्मविधिप्रामाण्योच्छेद इति चेत्, न, कांयविध्यनुच्छेददर्शनात्। न हि, कामात्मता न प्रशस्तेत्येवं विज्ञानवद्भिः कांयानि कर्माणि नानुष्ठीयन्त इति, कांयकर्मविधय उच्छिद्यन्ते, अनुष्ठीयन्त एव कामिभिरिति। तथा ब्रह्मसंस्थैर्ब्रह्मविद्भिर्नानुष्ठीयन्ते कर्माणीति न तद्विधय उच्छिद्यन्ते, अब्रह्मविद्भिरनुष्ठीयन्त एवेति। परिव्राजकानां भिक्षाचरणादिवत् उत्पन्नैकत्वप्रत्ययानामपि गृहस्थादीनामग्रिहोत्रादिकर्मानिवृत्तिरिति चेत्, न, प्रामाण्यचिन्तायां पुरुषप्रवृत्तेरदृष्टान्तत्वात् – न हि, नाभिचरेदिति प्रतिषिद्धमप्यभिचरणं कश्चित्कुर्वन्दृष्ट इति, शत्रौ द्वेषरहितेनापि विवेकिना अभिचरणं क्रियते। न च कर्मविधिप्रवृत्तिनिमित्ते भेदप्रत्यये बाधिते अग्निहोत्रादौ प्रवर्तकं निमित्तमस्ति, परिव्राजकस्येव भिक्षाचरणादौ बुभुक्षादि प्रवर्तकम्। इहाप्यकरणे प्रत्यवायभयं प्रवर्तकमिति चेत्, न, भेदप्रत्ययवतोऽधिकृतत्वात्। भेदप्रत्ययवान् अनुपमर्दितभेदबुद्धिर्विद्यया यः, स कर्मण्यधिकृत इत्यवोचाम। यो हि अधिकृतः कर्मणि, तस्य तदकरणे प्रत्यवायः। न निवृत्ताधिकारस्य, गृहस्थस्येव, ब्रह्मचारिणो विशेषधर्माननुष्ठाने। एवं तर्हि सर्वः स्वाश्रमस्थः उत्पन्नैकत्वप्रत्ययः परिव्राडिति चेत्, न, स्वस्वामित्वभेदबुद्ध्यनिवृत्तेः, कर्मार्थत्वाच्च इतराश्रमाणाम् – “अथ कर्म कुर्वीय” (BrhU.1.4.17) इति श्रुतेः। तस्मात् स्वस्वामित्वाभावात् भिक्षुरेक एव परिव्राट्, न गृहस्थादिः। एकत्वप्रत्ययविधिजनितेन प्रत्ययेन विधिनिमित्तभेदप्रत्ययस्योपमर्दितत्वात् यमनियमाद्यनुपपत्तिः परिव्राजकस्येति चेत्, न, बुभुक्षादिना एकत्वप्रत्ययात्प्रच्यावितस्योपपत्तेः, निवृत्त्यर्थत्वात्। न च प्रतिषिद्धसेवाप्राप्तिः, एकत्वप्रत्ययोत्पत्तेः प्रागेव प्रतिषिद्धत्वात्। न हि रात्रौ कूपे कण्टके वा पतितः उदितेऽपि सवितरि पतति तस्मिन्नेव। तस्मात् सिद्धं निवृत्तकर्मा भिक्षुक एव ब्रह्मसंस्थ इति। यत्पुनरुक्तं सर्वेषां ज्ञानवर्जितानां पुण्यलोकतेति – सत्यमेतत्। यच्चोक्तं तपःशब्देन परिव्राडप्युक्त इति – एतदसत्। कस्मात्? परिव्राजकस्यैव निवृत्तभेदप्रत्ययस्य ब्रह्मसंस्थतासम्भवात्। स एव हि अवशेषित इत्यवोचाम। एकत्वविज्ञानवतोऽग्निहोत्रादिवत्तपोनिवृत्तेश्च। भेदबुद्धिमत एव हि तपःकर्तव्यता स्यात्। एतेन कर्मच्छिद्रे ब्रह्मसंस्थतासामर्थ्यम्, अप्रतिषेधश्च प्रत्युक्तः। तथा ज्ञानवानेव निवृत्तकर्मा परिव्राडिति ज्ञानवैयर्थ्यं प्रत्युक्तम्। यत्पुनरुक्तं यववराहादिशब्दवत्परिव्राजके न रूढो ब्रह्मसंस्थशब्द इति, तत्परिहृतम्। तस्यैव ब्रह्मसंस्थतासम्भवान्नान्यस्येति। यत्पुनरुक्तं रूढशब्दाः निमित्तं नोपाददत इति, तन्न, गृहस्थतक्षपरिव्राजकादिशब्ददर्शनात्। गृहस्थितिपारिव्राज्यतक्षणादिनिमित्तोपादाना अपि, गृहस्थपरिव्राजकावाश्रमिविशेषे, विशिष्टजातिमति च तक्षेति, रूढा दृश्यन्ते शब्दाः। न यत्र यत्र निमित्तानि तत्र तत्र वर्तन्ते, प्रसिद्ध्यभावात्। तथा इहापि ब्रह्मसंस्थशब्दो निवृत्तसर्वकर्मतत्साधनपरिव्राडेकविषयेऽत्याश्रमिणि परमहंसाख्ये वृत्त इह भवितुमर्हति, मुख्यामृतत्वफलश्रवणात्। अतश्चेदमेवैकं वेदोक्तं पारिव्राज्यम्, न यज्ञोपवीतत्रिदण्डकमण्डल्वादिपरिग्रह इति। “मुण्डोऽपरिग्रहोऽसङ्गः” (JabUp.5) इति च। श्रुतिः “अत्याश्रमिभ्यः परमं पवित्रम्” (SvetU.6.21) इत्यादि च श्वेताश्वतरीये। “निस्तुतिर्निर्नमस्कारः” (Mo.Dha.242.9 or Mā.Kā.2.37 ?) इत्यादिस्मृतिभ्यश्च। “तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः।” (Mo.Dha.241.7 ?) “तस्मादलिङ्गो धर्मज्ञोऽव्यक्तलिङ्गः” (Aśva.46.52 or Va.10.12 ?) इत्यादिस्मृतिभ्यश्च।
यत्तु सांख्यैः कर्मत्यागोऽभ्युपगम्यते, क्रियाकारकफलभेदबुद्धेः सत्यत्वाभ्युपगमात्, तन्मृषा। यच्च बौद्धैः शून्यताभ्युपगमात् अकर्तृत्वमभ्युपगम्यते, तदप्यसत्, तदभ्युपगन्तुः सत्त्वाभ्युपगमात्। यच्च अज्ञैरलसतया अकर्तृत्वाभ्युपगमः, सोऽप्यसत्, कारकबुद्धेरनिवर्तितत्वात्प्रमाणेन। तस्मात् वेदान्तप्रमाणजनितैकत्वप्रत्ययवत एव कर्मनिवृत्तिलक्षणं पारिव्राज्यं ब्रह्मसंस्थत्वं चेति सिद्धम्। एतेन गृहस्थस्यैकत्वविज्ञाने सति पारिव्राज्यमर्थसिद्धम्।
ननु अग्न्युत्सादनदोषभाक्स्यात् परिव्रजन् – “वीरहा वा एष देवानां योऽग्रिमुद्वासयते” (TaitSam.1.5.2.2) इति श्रुतेः, न, दैवोत्सादितत्वात्, उत्सन्न एव हि स एकत्वदर्शने जाते – “अपागादग्नेरग्नित्वम्” (ChanU.6.4.1) इति श्रुतेः। अतो न दोषभाक् गृहस्थः परिव्रजन्निति॥
यत्संस्थः अमृतत्वम् एति, तन्निरूपणार्थम् आह –
प्रजा-पतिः विराट् कश्यपो वा, लोकान् उद्दिश्य तेषु सार-जिघृक्षया अभ्यतपत् अभितापं कृतवान्, ध्यानं तपः कृतवान् इत्यर्थः। तेभ्यः अभितप्तेभ्यः सार-भूता त्रयी विद्या संप्रास्रवत् प्रजा-पतेः मनसि प्रत्यभादित्यर्थः। ताम् अभ्यतपत् – पूर्ववत्। तस्या अभितप्तायाः एतानि अक्षराणि संप्रास्रवन्त भूः भुवः स्वर् इति व्याहृतयः॥
तानि अक्षराणि अभ्यतपत्, तेभ्यः अभितप्तेभ्यः ओङ्कारः संप्रास्रवत्तत् ब्रह्म की-दृशम्? इति, आह – तद् यथा शङ्कुना पर्ण-नालेन सर्वाणि पर्णानि पत्रावयव-जातानि सन्तृण्णानि निविद्धानि व्याप्तानि इत्यर्थः। एवम् ओङ्कारेण ब्रह्मणा परमात्मनः प्रतीक-भूतेन सर्वा वाक् शब्द-जातं सन्तृण्णा – “अकारो वै सर्वा वाक्” (AitAr.2.3.7) इत्यादि-श्रुतेः। परमात्म-विकारश्च नामधेयमात्रम् इति अतः ओङ्कार एव इदं सर्वम् इति। द्विः अभ्यासः आदरार्थः। लोकादि-निष्पादन-कथनम् ओङ्कार-स्तुत्यर्थम् इति॥

Go to Top ('Home' key on many Windows browsers)

ChanU.2.24 The Different Planes attained by the Sacrificer

सामोपासन-प्रसङ्गेन कर्म-गुण-भूतत्वाद्, निचर्त्त्य ओङ्कारं, परमात्म-प्रतीकत्वाद् अमृतत्व-हेतुत्वेन महीकृत्य प्रकृतस्य एव अङ्ग-भूतानि साम-होम-मन्त्रोत्थानानि उपदिदिक्षन् आह –
ब्रह्म-वादिनो वदन्ति, यत् प्रातः-सवनं प्रसिद्धं तद् वसूनाम्। तैः च प्रातः-सवन-सम्बद्धोऽयं लोको वशी-कृतः प्रातः-सवनेशानैः। तथा रुद्रैः माध्यन्दिन-सवन-ईशानैः अन्तरिक्ष-लोकः। आदित्यैः च विश्वैः देवैः च तृतीय-सवन-ईशानैः तृतीयो लोको वशी-कृतः। इति यजमानस्य लोकोऽन्यः परिशिष्टो न विद्यते॥
अतः क्व तर्हि यजमानस्य लोकः, यदर्थं यजते। न क्वचिल् लोकोऽस्ति इत्यभिप्रायः – ‘लोकाय वै यजते यो यजते’ इति श्रुतेः। लोकाभावे च स यो यजमानः तं लोक-स्वीकरणोपायं साम-होम-मन्त्रोत्थान-लक्षणं न विद्यात् न विजानीयात्, सोऽज्ञः कथं कुर्यात् यज्ञम्, न कथञ्चन तस्य कर्तृत्वम् उपपद्यत इत्यर्थः। सामादि-विज्ञान-स्तुति-परत्वात् न अविदुषः कर्तृत्वं कर्ममात्रविदः प्रतिषिध्यते – स्तुतये च सामादि-विज्ञानस्य, अविद्वत् कर्तृत्व-प्रतिषेधाय च इति हि भिद्येत वाक्यम्। आद्ये च औषस्त्ये काण्डे अविदुषोऽपि कर्म अस्ति इति हेतुम् अवोचाम। अथ एतद् वक्ष्यमाणं सामादि-उपायं विद्वान् कुर्यात्
किं तद् वेद्यम्? इति, आह –
पुरा पूर्वं प्रातर्-अनुवाकस्य शस्त्रस्य प्रारंभात् जघनेन गार्ह-पत्यस्य पश्चात् उदङ्-मुखः सन् उपविश्य सः वासवं वसु-दैवत्यं साम अभिगायति
लोक-द्वारम् अस्य पृथिवी-लोकस्य प्राप्तये द्वारम् अपावृणु हे अग्ने तेन द्वारेण पश्येम त्वा त्वां राज्याय इति
अथ अनन्तरं जुहोति अनेन मन्त्रेण – नमोऽग्नये प्रह्वी-भूताः तुभ्यं वयं पृथिवी-क्षिते पृथिवी-निवासाय लोक-क्षिते लोक-निवासाय, पृथिवी-लोक-निवासाय इत्यर्थः। लोकं मे मह्यं यजमानाय विन्द लभस्व। एष वै मम यजमानस्य लोकः एता गन्ता अस्मि
अत्र अस्मिंल् लोके यजमानः अहम् आयुषः परस्तात् ऊर्ध्वं मृतः सन् इत्यर्थः। स्वाहा इति जुहोति। अपजहि अपनय परिघं लोक-द्वारार्गलम् – इति एतं मन्त्रम् उक्त्वा उत्तिष्ठति। एवम् एतैः वसुभ्यः प्रातः-सवन-सम्बद्धो लोको निष्क्रीतः स्यात्। ततः ते प्रातः-सवनं वसवो यजमानाय संप्रयच्छन्ति
तथा आग्नि-इध्रीयस्य दक्षिणाग्नेः जघनेन उदङ्-मुख उपविश्य सः रौद्रं साम अभिगायति यजमानः रुद्र-दैवत्यं वैराज्याय॥
अन्तरिक्ष-क्षिते इत्यादि समानम्॥
तथा आहवनीयस्य उदङ्-मुख उपविश्य सः आदित्य-दैवत्यम् आदित्यं वैश्व-देवंसाम अभिगायति क्रमेण स्वाराज्याय साम्राज्याय॥
दिवि-क्षिद्भ्यः इत्येवमादि समानम् अन्यत्। विन्दत अपहत इति बहु-वचनमात्रं विशेषः। याजमानं तु एतत्, एतास्म्यत्र यजमान इत्यादि-लिङ्गात्॥
एष ह वै यजमानः एवंवित् यथोक्तस्य सामादेः विद्वान् यज्ञस्य मात्रां यज्ञ-याथात्म्यं वेद यथोक्तम्। य एवं वेद य एवं वेद इति द्विः उक्तिः अध्याय-परिसमाप्त्यर्था॥

Go to Top ('Home' key on many Windows browsers)

kh.3.01 kh.3.02 kh.3.03 kh.3.04 kh.3.05 kh.3.06 kh.3.07 kh.3.08 kh.3.09 kh.3.10 kh.3.11 kh.3.12 kh.3.13 kh.3.14 kh.3.15 kh.3.16 kh.3.17 kh.3.18 kh.3.19

‘असौ वा आदित्यः’ इत्यादि अध्यायारम्भे सम्बन्धः। अतीतानन्तराध्यायान्ते उक्तम् ‘यज्ञस्य मात्रां वेद’ इति। यज्ञ-विषयाणि च साम-होम-मन्त्रोत्थानानि विशिष्ट-फल-प्राप्तये यज्ञाङ्गभूतानि उपदिष्टानि। सर्व-यज्ञानां च कार्य-निर्वृत्ति-रूपः सविता महत्या श्रिया दीप्यते। स एष सर्व-प्राणि-कर्म-फल-भूतः प्रत्यक्षं सर्वैः उपजीव्यते। अतो यज्ञ-व्यपदेशानन्तरं तत्कार्य-भूत-सवितृ-विषयम् उपासनं सर्व-पुरुषार्थेभ्यः श्रेष्ठतम-फलं विधास्यामीति एवम् आरभते श्रुतिः –

Go to Top ('Home' key on many Windows browsers)

ChanU.3.01 The Honey-Doctrine (Ṛg-Veda)

असौ वा आदित्यो देव-मधु इत्यादि, देवानां मोदनात् मधु इव मधु असौ आदित्यः। वस्वादीनां च मोदन-हेतुत्वं वक्ष्यति सर्व-यज्ञ-फल-रूपत्वाद् आदित्यस्य। कथं मधुत्वम् इति, आह – तस्य मधुनः द्यौः एव भ्रामरस्य इव मधुनः तिरश्चीन-वंशः तिरश्चीनः च असौ वंशः च इति तिरश्चीन-वंशः। तिर्यग्गता इव हि द्यौः लक्ष्यते। अन्तरिक्षं च मधु-अपूपः द्यु-वंशे लग्नः सन् लंबत इव, अतो मध्वपूप-सामान्यात् अन्तरिक्षं मधु-अपूपः, मधुनः सवितुराश्रयत्वाच् च। मरीचयः रश्मयः रश्मिस्था आपो भौमाः सवित्राकृष्टाः। ‘एता वा आपः स्वराजो यन् मरीचयः’ इति हि विज्ञायन्ते। ता अन्तरिक्ष-मध्वपूपस्थ-रश्म्यन्तर्गतत्वात् भ्रमर-बीज-भूताः पुत्रा इव हिता लक्ष्यन्त इति पुत्रा इव पुत्राः, मध्वपूप-नाड्यन्तर्गता हि भ्रमर-पुत्राः॥
तस्य सवितुः मध्वाश्रयस्य मधुनो ये प्राञ्चः प्राच्यां दिशि गताः रश्मयः, ता एव अस्य प्राच्यः प्रागञ्चनात् मधुनो नाड्यः मधु-नाड्यः इव मध्वाधार-च्छिद्राणि इत्यर्थः। तत्र ऋच एव मधु-कृतः लोहित-रूपं सवित्राश्रयं मधु कुर्वन्ति इति मधु-कृतः भ्रमरा इव। यतो रसानादाय मधु कुर्वन्ति, तत्पुष्पम् इव पुष्पम् ऋग्-वेदः एव। तत्र ऋग्-ब्राह्मण-समुदायस्य ऋग्-वेदाख्यत्वात् शब्दमात्राच् च भोग्य-रूप-रस-निस्रावासम्भवात् ऋग्-वेद-शब्देन अत्र ऋग्-वेद-विहितं कर्म, ततो हि कर्म-फल-भूत-मधुर-सनिस्राव-सम्भवात्। मधु-करैः इव पुष्प-स्थानीयाद् ऋग्-वेद-विहितात् कर्मणः अप आदाय ऋग्भिः मधु निर्वर्त्यते। काः ताः आप? इति आह – ताः कर्मणि प्रयुक्ताः सोमाज्य-पयो-रूपाः अग्नौ प्रक्षिप्ताः तत्पाकाभिनिर्वृत्ता अमृताः अमृतार्थत्वादत्यन्त-रसवत्यः आपो भवन्ति। तद्रसानादाय ताः वा एताः ऋचः पुष्पेभ्यो रसमाददाना इव भ्रमरा ऋचः॥
एतम् ऋग्-वेदम् ऋग्-वेद-विहितं कर्म पुष्प-स्थानीयम् अभ्यतपन् अभितापं कृतवत्य इव एता ऋचः कर्मणि प्रयुक्ताः। ऋग्भिः हि मन्त्रैः शस्त्राद्यङ्ग-भावम् उपगतैः क्रियमाणं कर्म मधु-निर्वर्तकं रसं मुञ्चति इति उपपद्यते, पुष्पाणि इव भ्रमरैः आचूष्यमाणानि। तद् एतद् आह – तस्य ऋग्-वेदस्य अभितप्तस्य। कोऽसौ रसः, यः ऋङ्-मधुकराभिताप-निःसृत इत्युच्यते? यशः विश्रुतत्वं तेजः देह-गता दीप्तिः इन्द्रियं सामर्थ्योपेतैः इन्द्रियैः अवैकल्यं वीर्यं सामर्थ्यं बलम् इत्यर्थः, अन्न-आद्यम् अन्नं च तद् आद्यं च येन उपयुज्यमानेन अहनि अहनि देवानां स्थितिः स्यात् तद् अन्नाद्यम् एष रसः अजायत यागादि-लक्षणात् कर्मणः॥
यश-आद्यन्नाद्य-पर्यन्तं तत् व्यक्षरत् विशेषेण अक्षरत् अगमत्। गत्वा च तद् आदित्यम् अभितः पार्श्वतः पूर्व-भागं सवितुः अश्रयत् आश्रितवद् इत्यर्थः। अमुष्मिन् आदित्ये सञ्चितं कर्म-फलाख्यं मधु भोक्ष्यामह इत्येवं हि यशआदि-लक्षण-फल-प्राप्तये कर्माणि क्रियन्ते मनुष्यैः – केदार-निष्पादनम् इव कर्षकैः। तत्प्रत्यक्षं प्रदर्श्यते श्रद्धा-हेतोः। तद् वा एतत्। किं तत्? यद् एतत् आदित्यस्य उद्यतो दृश्यते रोहितं रूपम्

Go to Top ('Home' key on many Windows browsers)

ChanU.3.02 The Honey-Doctrine (Yajur-Veda)

अथ ये अस्य दक्षिणा रश्मयः इत्यादि समानम्। यजूंषि एव मधु-कृतः यजुर्-वेद-विहिते कर्मणि प्रयुक्तानि, पूर्ववन् मधु-कृत इव। यजुर्-वेद-विहितं कर्म पुष्प-स्थानीयं पुष्पम् इति उच्यते। ताः एव सोमाद्या अमृताः आपः
तानि वा एतानि यजूंषि एतं यजुर्-वेदम् अभ्यतपन् इत्येवमादि सर्वं समानम्। मधु एतद् आदित्यस्य दृश्यते शुक्लं रूपम्

Go to Top ('Home' key on many Windows browsers)

ChanU.3.03 The Honey-Doctrine (Sāma-Veda)

अथ येऽस्य प्रत्यञ्चो रश्मयः इत्यादि समानम्। तथा साम्नां मधु, एतद् आदित्यस्य कृष्णं रूपम्

Go to Top ('Home' key on many Windows browsers)

ChanU.3.04 The Honey-Doctrine (Atharva-Veda)

अथ येऽस्य उदञ्चो रश्मयः इत्यादि समानम्। अथर्वाङ्गिरसः अथर्वणा अङ्गिरसा च दृष्टा मन्त्रा अथर्वाङ्गिरसः, कर्मणि प्रयुक्ता मधु-कृतःइतिहास-पुराणं पुष्पम्। तयोः च इतिहास-पुराणयोः अश्व-मेधे पारिप्ल-वासु रात्रिषु कर्माङ्गत्वेन विनियोगः सिद्धः। मधु एतद् आदित्यस्य परं कृष्णं रूपम् अतिशयेन कृष्णम् इत्यर्थः॥

Go to Top ('Home' key on many Windows browsers)

ChanU.3.05 The Honey-Doctrine (Continued)

अथ येऽस्य ऊर्ध्वा रश्मयः इत्यादि पूर्ववत्। गुह्याः गोप्या रहस्या एव आदेशाः लोक-द्वारीयादि-विधय उपासनानि च कर्माङ्ग-विषयाणि मधु-कृतः, ब्रह्म एव शब्दाधिकारात् प्रणवाख्यं पुष्पम्। समानमन्यत्। मधु एतत् आदित्यस्य मध्ये क्षोभत इव समाहित-दृष्टेः दृश्यते सञ्चलति इव॥
ते वा एते यथोक्ता रोहितादि-रूप-विशेषाः रसानां रसाः। केषां रसानाम्? इति आह – वेदाः हि यस्माल् लोक-निष्यन्दत्वात् साराः इति रसाः, तेषां रसानां कर्म-भावम् आपन्नानाम् अपि एते रोहितादि-विशेषाः रसाः अत्यन्त-सार-भूता इत्यर्थः। तथा अमृतानाम् अमृतानि वेदाः हि अमृताः, नित्यत्वात्, तेषाम् एतानि रोहितादीनि रूपाणि अमृतानि। रसानां रसाः इत्यादि कर्म-स्तुतिः एषा – यस्य एवं-विशिष्टानि अमृतानि फलम् इति॥

Go to Top ('Home' key on many Windows browsers)

ChanU.3.06 Meditation on the Vasus

तत् तत्र यत् प्रथमम् अमृतं रोहित-रूप-लक्षणं तद् वसवः प्रातः-सवन-ईशानाः उपजीवन्ति अग्निना मुखेन अग्निना प्रधान-भूतेन, अग्नि-प्रधानाः सन्त उपजीवन्ति इत्यर्थः। “अन्न-आद्यं रसोऽजायत” (ChanU.3.1.3, 3.2.2, 3.3.2, 3.4.2, 3.5.2) इति वचनात् कवल-ग्राहम् अश्नन्ति इति प्राप्तम्, तत् प्रतिषिध्यते – न वै देवाः अश्नन्ति न पिबन्ति इति। कथं तर्हि उपजीवन्ति? इति उच्यते – एतद् एव हि यथोक्तम् अमृतं रोहितं रूपं दृष्ट्वा उपलभ्य सर्व-करणैः अनुभूय तृप्यन्ति, दृशेः सर्व-करण-द्वारोपलब्ध्यर्थत्वात्। ननु रोहितं रूपं दृष्ट्वा इति उक्तम्। कथम् अन्येन्द्रिय-विषयत्वं रूपस्य इति। न, यश-आदीनां श्रोत्रादि-गंयत्वात्। श्रोत्र-ग्राह्यं यशः। तेजो-रूपं चाक्षुषम्। इन्द्रियं विषय-ग्रहण-कार्यानुमेयं करण-सामर्थ्यम्। वीर्यं बलं देह-गत उत्साहः प्राणवत्ता। अन्नाद्यं प्रत्यहम् उपजीव्यमानं शरीर-स्थिति-करं यद् भवति। रसो हि एवम् आत्मकः सर्वः। यं दृष्ट्वा तृप्यन्ति सर्वे। देवा दृष्ट्वा तृप्यन्ति इति एतत् सर्वं स्वकरणैः अनुभूय तृप्यन्ति इत्यर्थः। आदित्य-संश्रयाः सन्तो वैगन्ध्यादि-देह-करण-दोष-रहिताश्च॥
किं ते निरुद्यमाः अमृतम् उपजीवन्ति? न। कथं तर्हि?
एतद् एव रूपम् अभिलक्ष्य अधुना भोगावसरो न अस्माकम् इति बुद्ध्वा अभिसंविशन्ति उदासते। यदा वै तस्य अमृतस्य भोगावसरो भवेत्, तद् एतस्माद् अमृताद् अमृत-भोग-निमित्तम् इत्यर्थः। एतस्माद् रूपात् उद्यन्ति उत्साहवन्तो भवन्ति इत्यर्थः। न हि अनुत्साहवताम् अननुतिष्ठताम् अलसानां भोग-प्राप्तिः लोके दृष्टा॥
स यः कश्चित् एतद् एवं यथोदितम् ऋङ्-मधुकर-ताप-रस-सङ्क्षरणम् ऋग्-वेद-विहित-कर्म-पुष्पात् तस्य च आदित्य-संश्रयणं रोहित-रूपत्वं च अमृतस्य प्राची-दिग्-गत-रश्मि-नाडी-संस्थतां वसु-देव-भोग्यतां तद्विदः च वसुभिः सहैकतां गत्वा अग्निना मुखेन उपजीवनं दर्शनमात्रेण तृप्तिं च स्वभोगावसरे उद्यमनं तत्कालापाये च संवेशनं वेद, सोऽपि वसुवत् सर्वं तथा एव अनुभवति॥
कियन्तं कालं विद्वान् तद् अमृतम् उपजीवति इति? उच्यते –
विद्वान् यावद् आदित्यः पुरस्तात् प्राच्यां दिशि उदेता पश्चात् प्रतीच्याम् अस्तमेता, तावद् वसूनां भोग-कालः तावन् तम् एव कालं वसूनाम् आधिपत्यं स्वाराज्यं पर्येता परितो गन्ता भवति इत्यर्थः। न यथा चन्द्र-मण्डलस्थः केवल-कर्मी पर-तन्त्रो देवानाम् अन्न-भूतः। किं तर्हि? अयम् आधिपत्यं स्वाराज्यं स्वराड्-भावं च अधिगच्छति॥

Go to Top ('Home' key on many Windows browsers)

ChanU.3.07 Meditation on the Rudras

अथ यद् द्वितीयम् अमृतं तद् रुद्रा उपजीवन्ति इत्यादि समानम्॥
स यावद् आदित्यः पुरस्ताद् उदेता पश्चाद् अस्तमेता द्विः तावत् ततो द्वि-गुणं कालं दक्षिणत उदेता उत्तरतोऽस्तमेता रुद्राणां तावद् भोग-कालः॥

Go to Top ('Home' key on many Windows browsers)

ChanU.3.08 Meditation on the Ādityas

तथा पश्चात् उत्तरतः ऊर्ध्वम् उदेता विपर्ययेण अस्तमेता। पूर्वस्मात् पूर्वस्माद् द्वि-गुणोत्तरोत्तरेण कालेन इति अपौराणं दर्शनम्। सवितुः चतुर्-दिशम् इन्द्र-यम-वरुण-सोम-पुरीषु उदयास्तमय-कालस्य तुल्यत्वं हि पौराणिकैः उक्तम्, मानसोत्तरस्य मूर्धनि मेरोः प्रदक्षिणावृत्तेः तुल्यत्वाद् इति।
अत्रोक्तः परिहारः आचार्यैः। अमरावत्यादीनां पुरीणां द्वि-गुणोत्तरोत्तरेण कालेनोद्वासः स्यात्। उदयश्च नाम सवितुः तन्निवासिनां प्राणिनां चक्षुर्गोचरापत्तिः, तदत्ययश्च अस्तमनम्। न परमार्थत उदयास्तमने स्तः। तन्निवासिनां च प्राणिनाम् अभावे तान् प्रति तेनैव मार्गेण गच्छन्नपि नैवोदेता नास्तमेतेति, चक्षुर्गोचरापत्तेः तदत्ययस्य च अभावात्। तथा अमरावत्याः सकाशाद्द्विगुणं कालं संयमनी पुरी वसति, अतस्तन्निवासिनः प्राणिनः प्रति दक्षिणत इव उदेति उत्तरतोऽस्तमेति इत्युच्यतेऽस्मद्बुद्धिं च अपेक्ष्य। तथोत्तरास्वपि पुरीषु योजना सर्वेषां च मेरुरुत्तरतो भवति।
यदा अमरावत्यां मध्याह्न-गतः सविता, तदा संयमन्यामुद्यन्दृश्यते। तत्र मध्याह्न-गतो वारुण्यामुद्यन्दृश्यते। तथोत्तरस्याम्, प्रदक्षिणावृत्तेः तुल्यत्वात्। इलावृत-वासिनां सर्वतः पर्वत-प्राकार-निवारितादित्य-रश्मीनां सविता ऊर्ध्व इव उदेता अर्वागस्तमेता दृश्यते, पर्वतोर्ध्व-च्छिद्र-प्रवेशात्सवितृ-प्रकाशस्य। तथा ऋगाद्यमृतोपजीविनाम् अमृतानां च द्विगुणोत्तरोत्तर-वीर्यवत्त्वम् अनुमीयते भोग-काल-द्वैगुण्य-लिङ्गेन। उद्यमन-संवेशनादि देवानां रुद्रादीनां विदुषश्च समानम्॥

Go to Top ('Home' key on many Windows browsers)

ChanU.3.09 Meditation on the Maruts

कृत्वा एवम् उदयास्तमनेन प्राणिनां स्व-कर्म-फल-भोग-निमित्तम् अनुग्रहम्, तत्कर्म-फल-भोग-क्षये तानि प्राणि-जातानि आत्मनि संहृत्य –
अथ ततः तस्माद् अनन्तरं प्राण्यनुग्रह-कालाद् ऊर्ध्वः सन् आत्मनि उदेत्य उद्गंय यान् प्रत्युदेति तेषां प्राणिनाम् अभावात् स्वात्मस्थः न एव उदेता न अस्तमेता एकलः अद्वितीयः अनवयवः मध्ये स्वात्मनि एव स्थाता। तत्र कश्चिद् विद्वान् वस्वादि-समान-चरणः रोहिताद्यमृत-भोग-भागी यथोक्त-क्रमेण स्वात्मानं सवितारमात्मत्वेनोपेत्य समाहितः सन् एतं मन्त्रं दृष्ट्वा उत्थितः अन्यस्मै पृष्टवते जगाद यतस्त्वमागतो ब्रह्म-लोकात् किं तत्राप्यहोरात्राभ्यां परिवर्तमानः सविता प्राणिनाम् आयुः क्षपयति यथा इह अस्माकम्। इति एवं पृष्टः प्रत्याह – तत् तत्र यथा पृष्टे यथोक्ते च अर्थे एष श्लोको भवति तेन उक्तो योगिनेति श्रुतेः वचनम् इदम्॥
न वै तत्र यतोऽहं ब्रह्म-लोकाद् आगतः तस्मिन् न वै तत्र एतदस्ति यत् पृच्छसि। हि तत्र निंलोचः अस्तमगमत्सविता। उदियाय उद्गतः कुतश्चित् कदाचन कस्मिंश्चिद् अपि काले इति। उदयास्तमय-वर्जितः ब्रह्म-लोकः इति अनुपपन्नम् इत्युक्तः शपथम् इव प्रतिपेदे हे देवाः साक्षिणो यूयं शृणुत, यथा मया उक्तं सत्यं वचः तेन सत्येन अहं ब्रह्मणा ब्रह्म-स्वरूपेण मा विराधिषि मा विरुध्येयम्, अप्राप्तिः ब्रह्मणो मम मा भूद् इत्यर्थः॥
सत्यं तेनोक्तमित्याह श्रुतिः –
न ह वा अस्मै यथोक्त-ब्रह्मविदे न उदेतिनिंलोचति न अस्तम् एति, किं तु ब्रह्मविदे अस्मै सकृद्-दिवा ह एव सदा एव अहः भवति, स्वयञ्-ज्योतिष्ट्वात्। य एतां यथोक्तां ब्रह्मोपनिषदं वेद-गुह्यं वेद, एवं तन्त्रेण वंशादित्रयं प्रत्यमृत-सम्बन्धं च यच् च अन्यद् अवोचाम एवं जानाति इत्यर्थः। विद्वान् उदयास्तमय-कालापरिच्छेद्यं नित्यम् अजं ब्रह्म भवति इत्यर्थः॥
तद् ह एतत् मधु-ज्ञानं ब्रह्मा हिरण्य-गर्भः विराजे प्रजा-पतये उवाच। सोऽपि मनवेमनुः इक्ष्वाक्वाद्याभ्यः प्रजाभ्यः प्रोवाच इति विद्यां स्तौति – ब्रह्मादि-विशिष्ट-क्रमागतेति। किञ्च, तद् ह एतत् मधु-ज्ञानम् उद्दालकाय आरुणये पिता ब्रह्म-विज्ञानं ज्येष्ठाय पुत्राय प्रोवाच
इदं वाव तद् यथोक्तम् अन्योऽपि ज्येष्ठाय पुत्राय सर्व-प्रियार्हाय ब्रह्म प्रब्रूयात्प्रणाय्याय वा योग्याय अन्ते-वासिने शिष्याय॥
न अन्यस्मै कस्मैचन प्रब्रूयात्। तीर्थ-द्वयम् अनुज्ञातम् अनेकेषां प्राप्तानां तीर्थानाम् आचार्यादीनाम्। कस्मात् पुनः तीर्थ-सङ्कोचनं विद्यायाः कृतम् इति, आह – यद्यपि अस्मै आचार्याय इमां कश्चित् पृथिवीम् अद्भिः परिगृहीतां समुद्र-परिवेष्टितां समस्ताम् अपि दद्यात्, अस्या विद्याया निष्क्रयार्थम्, आचार्याय धनस्य पूर्णां सम्पन्नां भोगोपकरणैः। नासावस्य निष्क्रयः, यस्मात् ततोऽपि दानात् एतद् एव यन् मधु-विद्यादानं भूयः बहुतर-फलम् इत्यर्थः। द्विः अभ्यासः आदरार्थः॥

Go to Top ('Home' key on many Windows browsers)

ChanU.3.12 Meditation on the Gāyatrī

यत एवम् अतिशय-फला एषा ब्रह्म-विद्या, अतः सा प्रकारान्तरेण अपि वक्तव्या इति ‘गायत्री वा’ इत्याद्यारभ्यते। गायत्री-द्वारेण च उच्यते ब्रह्म, सर्व-विशेष-रहितस्य “नेति नेति” (BrhU.2.3.6) इत्यादि-विशेष-प्रतिषेध-गंयस्य दुर्बोधत्वात्। सत्सु अनेकेषु च्छन्दः-सुगायत्र्या एव ब्रह्म-ज्ञान-द्वारतयोपादानं प्राधान्यात्। सोमाहरणात् इतरच्छन्दो-क्षराहरणेन इतर-च्छन्दो-व्याप्त्या च सर्व-सवन-व्यापकत्वाच् च यज्ञे प्राधान्यं गायत्र्याः। गायत्री-सारत्वाच् च ब्राह्मणस्य मातरम् इव, हित्वा गुरुतरां गायत्रीं ततोऽन्यद्-गुरुतरं न प्रतिपद्यते यथोक्तं ब्रह्म अपि इति, तस्याम् अत्यन्त-गौरवस्य प्रसिद्धत्वात्। अतो गायत्री-मुखेन एव ब्रह्म उच्यते –
गायत्री वै इति अवधारणार्थो वै-शब्दः। इदं सर्वं भूतं प्राणि-जातं यत् किञ्च स्थावरं जङ्गमं वा तत् सर्वं गायत्री एव। तस्याः छन्दो-मात्रायाः सर्व-भूतत्वम् अनुपपन्नम् इति गायत्री-कारणं वाचं शब्द-रूपाम् आपादयति गायत्रीं वाग् वै गायत्री इति। वाग् वै इदं सर्वं भूतम्। यस्मात् वाक् शब्दरूपा सती सर्वं भूतं गायति शब्दयति – ‘असौ गौः’ ‘असौ अश्व’ इति , त्रायते च रक्षति – ‘अमुष्मान् मा भैषीः’ ‘किं ते भयम् उत्थितम्’ इत्यादिना सर्वतो भयान् निवर्त्यमानः वाचा त्रातः स्यात्। यत् वाक् भूतं गायति च त्रायते च, गायत्री एव तत् गायति च त्रायते च, वाचः अनन्यत्वाद् गायत्र्याः। गानात् त्राणाच् च गायत्र्या गायत्रीत्वम्॥
या वै सा एवं-लक्षणा सर्व-भूत-रूपा गायत्री, इयं वाव सा या इयं पृथिवी। कथं पुनः इयं पृथिवी गायत्री इति, उच्यते – सर्व-भूत-सम्बन्धात्। कथं सर्व-भूत-सम्बन्धः? अस्यां पृथिव्यां हि यस्मात् सर्वं स्थावरं जङ्गमं च भूतं प्रतिष्ठितम्, एताम् एव पृथिवीं न अतिशीयते न अतिवर्तते इत्येतत्। यथा गान-त्राणाभ्यां भूत-सम्बन्धो गायत्र्याः, एवं भूत-प्रतिष्ठानाद् भूत-सम्बद्धा पृथिवी। अतो गायत्री पृथिवी॥
या वै सा पृथिवी गायत्री इयं वाव सा इदम् एव। तत् किम्? यद् इदम् अस्मिन् पुरुषे कार्य-करण-सङ्घाते जीवति शरीरम्, पार्थिवत्वाच् छरीरस्य। कथं शरीरस्य गायत्रीत्वम् इति, उच्यते – अस्मिन् हि इमे प्राणाः भूत-शब्द-वाच्याः प्रतिष्ठिताः, अतः पृथिवीवद् भूत-शब्द-वाच्य-प्राण-प्रतिष्ठानात् शरीरं गायत्री, एतद् एव यस्माच् छरीरं न अतिशीयन्ते प्राणाः॥
यद् वै तत् पुरुषे शरीरं गायत्री इदं वाव तत्यद् इदम् अस्मिन् अन्तः मध्ये पुरुषे हृदयं पुण्डरीकाख्यम् एतद् गायत्री। कथम् इति, आह – अस्मिन् हि इमे प्राणाः प्रतिष्ठिताः, अतः शरीरवत् गायत्री हृदयम्। एतद् एवन अतिशीयन्ते प्राणाः। “प्राणो ह पिता। प्राणो माता” (ChanU.7.15.1) “अहिंसन् सर्व-भूतानि” (ChanU.8.15.1) इति श्रुतेः भूत-शब्द-वाच्याः प्राणाः॥
सा एषा चतुष्-पदा षड्-अक्षर-पदा छन्दो-रूपा सती भवति गायत्री षड्‌-विधा – वाग्-भूत-पृथिवी-शरीर-हृदय-प्राण-रूपा सती षड्‌-विधा भवति। वाक्-प्राणयोः अन्यार्थ-निर्दिष्टयोः अपि गायत्री-प्रकारत्वम्, अन्यथा षड्‌-विध-सङ्ख्या-पूरणानुपपत्तेः। तत् एतस्मिन् अर्थे एतत् गायत्र्याख्यं ब्रह्म गायत्री-अनुगतं गायत्री-मुखेन उक्तम् ऋचा अपि मन्त्रेण अभ्यनूक्तं प्रकाशितम्॥
तावान् अस्य गायत्र्याख्यस्य ब्रह्मणः समस्तस्य महिमा विभूति-विस्तारः, यावान् चतुष्-पात्-षड्‌-विधः च ब्रह्मणो विकारः पादो गायत्री इति व्याख्यातः। अतः तस्माद् विकार-लक्षणाद् गायत्र्याख्याद् वाचारंभणमात्रात् ततो ज्यायन् महत्तरः परमार्थ-सत्य-रूपोऽविकारः पूरुषः पुरुषः सर्व-पूरणात् पुरि शयनाच् च। तस्य अस्य पादः सर्वाः सर्वाणि भूतानि तेजोबन्नादीनि (तेजोऽन्नादीनि?) स्थावर-जङ्गमानि, त्रि-पात् त्रयः पादा अस्य सोऽयं त्रि-पात्। त्रि-पाद् अमृतं पुरुषाख्यं समस्तस्य गायत्र्यात्मनो दिवि द्योतनवति स्वात्मनि अवस्थितम् इत्यर्थ इति
यद् वै तत् त्रि-पाद् अमृतं गायत्री-मुखेन उक्तं ब्रह्म इति, इदं वाव तत् इदम् एव तत्। योऽयं प्रसिद्धः बहिर्धा बहिः पुरुषाद् आकाशः भौतिको यो वै, स बहिर्धा पुरुषाद् आकाशः उक्तः॥
अयं वाव सः, योऽयम् अन्तः पुरुषे शरीरे आकाशःयो वै सोऽन्तः पुरुष आकाशः
अयं वाव सः, योऽयम् अन्तर्हृदये हृदय-पुण्डरीके आकाशः। कथम् एकस्य सत आकाशस्य त्रिधा भेद इति, उच्यते – बाह्येन्द्रिय-विषये जागरित-स्थाने नभसि दुःख-बाहुल्यं दृश्यते। ततोऽन्तःशरीरे स्वप्न-स्थान-भूते मन्दतरं दुःखं भवति। स्वप्नान् पश्यतो हृदयस्थे पुनः नभसि “न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति” (ManU.5)। अतः सर्व-दुःख-निवृत्ति-रूपम् आकाशं सुषुप्त-स्थानम्। अतो युक्तम् एकस्य अपि त्रिधा भेदान्वाख्यानम्। बहिर्धा पुरुषाद् आरभ्य आकाशस्य हृदये सङ्कोच-करणं चेतः-समाधान-स्थान-स्तुतये – यथा ‘त्रयाणाम् अपि लोकानां कुरु-क्षेत्रं विशिष्यते। अर्धतः तु कुरु-क्षेत्रम् अर्धतः तु पृथूदकम्’ इति, तद्वत्। त एतद् हार्दाकाशाख्यं ब्रह्म पूर्णं सर्व-गतम्, न हृदयमात्र-परिच्छिन्नम् इति मन्तव्यम्, यद्यपि हृदयाकाशे चेतः समाधीयते। अप्रवर्ति न कुतश्चित् क्वचित् प्रवर्तितुं शीलम् अस्य इति अप्रवर्ति, तद् अनुच्छित्ति-धर्मकम्। यथा अन्यानि भूतानि परिच्छिन्नानि उच्छित्ति-धर्मकाणि, न तथा हार्दं नभः। पूर्णाम् अप्रवर्तिनीम् अनुच्छेदात्मिकां श्रियं विभूतिं गुण-फलं लभते दृष्टम्। य एवं यथोक्तं पूर्णाप्रवर्ति-गुणं ब्रह्म वेद जानाति इह एव जीवन् तद् भावं प्रतिपद्यत इत्यर्थः॥

Go to Top ('Home' key on many Windows browsers)

ChanU.3.13 Meditation on the Door-Keepers

तस्य ह वै इत्यादिना गायत्र्याख्यस्य ब्रह्मणः उपासनाङ्गत्वेन द्वार-पालादि-गुण-विधानार्थम् आरभ्यते। यथा लोके द्वार-पालाः राज्ञ उपासनेन वशी-कृता राज-प्राप्त्यर्था भवन्ति, तथा इह अपि इति। तस्य इति प्रकृतस्य हृदयस्य इत्यर्थः। एतस्य अनन्तर-निर्दिष्टस्य पञ्च पञ्च-सङ्ख्याकाः देवानां सुषयः देव-सुषयः स्वर्ग-लोक-प्राप्ति-द्वार-च्छिद्राणि, देवैः प्राणादित्यादिभिः रक्ष्यमाणानि इति अतो देव-सुषयः। तस्य स्वर्ग-लोक-भवनस्य हृदयस्य अस्य यः प्राङ्सुषिः पूर्वाभिमुखस्य प्राग्-गतं यच्छिद्रं द्वारं स प्राणः। तत्स्थः तेन द्वारेण यः सञ्चरति वायु-विशेषः स प्रागनितीति प्राणः। तेन एव सम्बद्धम् अव्यतिरिक्तं तच् चक्षुः। तथैव स आदित्यः “आदित्यो ह वै ब्राह्म-प्राणः” (PrasU.3.7) इति श्रुतेः चक्षु-रूप-प्रतिष्ठा-क्रमेण हृदि स्थितः। “स आदित्यः कस्मिन् प्रतिष्ठित इति चक्षुषि” (BrhU.3.9.20) इत्यादि हि वाज-सनेयके। प्राण-वायु-देवता एव हि एका चक्षुरादित्यः च सहाश्रयेण। वक्ष्यति च – प्राणाय स्वाहा इति हुतं हविः सर्वम् एतत् तर्पयति इति। तद् एतत् प्राणाख्यं स्वर्ग-लोक-द्वार-पालत्वात् ब्रह्म। स्वर्ग-लोकं प्रतिपित्सुः तेजस्वी एतत् चक्षुरादित्य-स्वरूपेण अन्नाद्यत्वाच् च सवितुः तेजः अन्नाद्यम् इति आभ्यां गुणाभ्याम् उपासीत। ततः तेजस्व्यन्नादः च आमयावित्व-रहितो भवतिय एवं वेद तस्य एतद् गुण-फलम्। उपासनेन वशी-कृतो द्वारपः स्वर्ग-लोक-प्राप्ति-हेतुः भवति इति मुख्यं च फलम्॥
अथ योऽस्य दक्षिणः सुषिः तत्स्थो वायु-विशेषः वीर्यवत् कर्म कुर्वन् विगृह्य वा प्राणापानौ नाना वा अनितीति व्यानः। तत् संबद्धम् एव च तच् छ्रोत्रम् इन्द्रियम्। तथा स चन्द्रमाः – श्रोत्रेण सृष्टा दिशः च चन्द्रमाः च इति श्रुतेः। सहाश्रयौ पूर्ववत्। तद् एतत् श्रीः च विभूतिः श्रोत्र-चन्द्रमसोः ज्ञानान्नहेतुत्वम्। अतः ताभ्यां श्रीत्वम्। ज्ञानान्नवतः च यशः ख्यातिः भवति इति यशो-हेतुत्वात् यशस्त्वम्। अतः ताभ्यां गुणाभ्याम् उपासीत इत्यादि समानम्॥
अथ योऽस्य प्रत्यङ्-सुषिः पश्चिमः तत्स्थो वायु-विशेषः सः मूत्र-पुरीषाद्यपनयन् अधोऽनितीति अपानःसा तथा वाक्, तत्संबन्धात्। तथा अग्निःतद् एतद् ब्रह्म-वर्चसं वृत्त-स्वाध्याय-निमित्तं तेजः ब्रह्म-वर्चसम्, अग्नि-सम्बन्धाद् वृत्त-स्वाध्यायस्य। अन्न-ग्रसन-हेतुत्वात् अपानस्य अन्नाद्यत्वम्। समानम् अन्यत्॥
अथ योऽस्य उदङ्-सुषिः उदग्-गतः सुषिः तत्स्थो वायु-विशेषः सोऽशितपीते समं नयति इति समानःतत् संबद्धं मनोऽन्तःकरणम्, सः पर्जन्यो वृष्ट्यात्मको देवः पर्जन्य-निमित्ताः च आप इति, “मनसा सृष्टा आपश्च वरुणश्च” (AitAr.2.1) इति श्रुतेः। तद् एतत् कीर्तिः च, मनसो ज्ञानस्य कीर्ति-हेतुत्वात्। आत्म-परोक्षं विश्रुतत्वं कीर्तिः यशः। स्व-करण-संवेद्यं विश्रुतत्वं व्युष्टिः कान्तिः देह-गतं लावण्यम्। ततः च कीर्ति-सम्भवात् कीर्तिः च इति। समानम् अन्यत्॥
अथ योऽस्य ऊर्ध्वः सुषिः स उदानः आ पाद-तलादारभ्योर्ध्वम् उत्क्रमणात् उत्कर्षार्थं च कर्म कुर्वन् अनितीति उदानःस वायुः तदाधारः च आकाशःतद् एतत् वाय्वाकाशयोः ओजो-हेतुत्वाद् ओजः बलं महत्वाच् च मह इति। समानम् अन्यत्॥
ते वा एते यथोक्ताः पञ्च-सुषि-सम्बन्धात् पञ्च ब्रह्मणो हार्दस्य पुरुषाः राज-पुरुषा इव द्वारस्थाः स्वर्गस्य हार्दस्य लोकस्य द्वारपाः द्वार-पालाः। एतैः हि चक्षुः-श्रोत्र-वाङ्-मनः-प्राणैः बहिर्-मुख-प्रवृत्तैः ब्रह्मणो हार्दस्य प्राप्ति-द्वाराणि निरुद्धानि। प्रत्यक्षं हि एतद् अजित-करणतया बाह्य-विषयासङ्गानृत-प्ररूढत्वात् न हार्दे ब्रह्मणि मनः तिष्ठति। तस्मात् सत्यम् उक्तम् एते पञ्च ब्रह्म-पुरुषाः स्वर्गस्य लोकस्य द्वारपा इति। अतः स य एतान् एवं यथोक्त-गुण-विशिष्टान् स्वर्गस्य लोकस्य द्वारपान् वेद उपास्ते उपासनया वशी-करोति, स राज-द्वार-पालानिवोपासनेन वशी-कृत्य तैः अनिवारितः प्रतिपद्यते स्वर्गं लोकं राजानम् इव हार्दं ब्रह्म। किं च अस्य विदुषः कुले वीरः पुत्रो जायते वीर-पुरुष-सेवनात्। तस्य च ऋणापाकरणेन ब्रह्मोपासन-प्रवृत्ति-हेतुत्वम्। ततश्च स्वर्ग-लोक-प्रतिपत्तये पारम्पर्येण भवति इति स्वर्ग-लोक-प्रतिपत्तिः एव एकं फलम्॥
अथ यत् असौ विद्वान् स्वर्गं लोकं वीर-पुरुष-सेवनात् प्रतिपद्यते, यच् च उक्तं त्रि-पादस्य अमृतं दिवि इति, तद् इदं लिङ्गेन चक्षुः-श्रोत्रेन्द्रिय-गोचरम् आपादयितव्यम्, यथा अग्न्यादि धूमादि-लिङ्गेन। तथा हि एवम् एव इदम् इति यथोक्ते अर्थे दृढा प्रतीतिः स्यात् – अनन्यत्वेन च निश्चय इति। अत आह –
यद् अतः अमुष्मात् दिवः द्यु-लोकात्, परः परम् इति लिङ्ग-व्यत्ययेन, ज्योतिः दीप्यते, स्वयं-प्रभं सदाप्रकाशत्वाद् दीप्यत इव दीप्यत इति उच्यते, अग्न्यादिवज् ज्वलन-लक्षणाया दीप्तेः असम्भवात्। विश्वतः पृष्ठेषु इति एतस्य व्याख्यानं सर्वतः पृष्ठेषु इति, संसाराद् उपरि इत्यर्थः। संसार एव हि सर्वः, असंसारिणः एकत्वान् निर्भेदत्वाच् च। अनुत्तमेषु, तत्पुरुष-समासाशङ्का-निवृत्तये आह उत्तमेषु लोकेषु इति। सत्य-लोकादिषु हिरण्य-गर्भादि-कार्य-रूपस्य परस्य ईश्वरस्य आसन्नत्वाद् उच्यते उत्तमेषु लोकेषु इति। इदं वाव इदम् एव तत् यद् इदम् अस्मिन् पुरुषे अन्तः मध्ये ज्योतिः चक्षुः-श्रोत्र-ग्राह्येण लिङ्गेन उष्णिम्ना शब्देन च अवगम्यते। यत् त्वचा स्पर्श-रूपेण गृह्यते तच् चक्षुषा एव, दृढ-प्रतीति-करत्वात् त्वचः, अविनाभूतत्वाच् च रूप-स्पर्शयोः॥
कथं पुनः तस्य ज्योतिषः लिङ्गं त्वग्-दृष्टि-गोचरत्वम् आपद्यते? इति आह –
यत्र यस्मिन् काले, एतद् इति क्रिया-विशेषणम्, अस्मिञ् शरीरे हस्तेन आलभ्य संस्पर्शेन उष्णिमानं रूप-सह-भाविनम् उष्ण-स्पर्श-भावं विजानाति, स हि उष्णिमा नाम-रूप-व्याकरणाय देहम् अनुप्रविष्टस्य चैतन्यात्म-ज्योतिषः लिङ्गम्, अव्यभिचारात्। न हि जीवन्तम् आत्मानम् उष्णिमा व्यभिचरति। उष्ण एव जीविष्यन् शीतो मरिष्यन् इति हि विज्ञायते। मरण-काले च तेजः परस्यां देवतायाम् इति परेण अविभागत्वोपगमात्। अतः असाधारणं लिङ्गम् औष्ण्यम् अग्नेः इव धूमः। अतः तस्य परस्य एषा दृष्टिः साक्षाद् इव दर्शनं दर्शनोपाय इत्यर्थः। तथा तस्य ज्योतिषः एषा श्रुतिः श्रवणं श्रवणोपायोऽपि उच्यमानः। यत्र यदा पुरुषः ज्योतिषो लिङ्गं शुश्रूषति श्रोतुम् इच्छति, तदा एतत् कर्णावपिगृह्य, एतच्छब्दः क्रिया-विशेषणम्, अपिगृह्य अपिधाय इत्यर्थः, अङ्गुलिभ्यां प्रोर्णुत्य निनदम् इव रथस्य इव घोषो निनदः तम् इव शृणोति, नदथुः इव ऋषभ-कूजितम् इव शब्दः, यथा च अग्नेः बहिर्-ज्वलतः एवं शब्दम् अन्तः-शरीरे उपशृणोति, तद् एतत् ज्योतिः दृष्ट-श्रुत-लिङ्गत्वात् दृष्टं च श्रुतं च इति उपासीत। तथा उपासनात् चक्षुष्यः दर्शनीयः श्रुतः विश्रुतः च। यत् स्पर्श-गुणोपासन-निमित्तं फलं तत् रूपे संपादयति चक्षुष्य इति, रूप-स्पर्शयोः सह-भावित्वात्, इष्टत्वाच् च दर्शनीयतायाः। एवं च विद्यायाः फलम् उपपन्नं स्यात्, न तु मृदुत्वादि-स्पर्शवत्त्वे। य एवं यथोक्तौ गुणौ वेद। स्वर्ग-लोक-प्रतिपत्तिः तु उक्तम् अदृष्टं फलम्। द्विः अभ्यासः आदरार्थः॥

Go to Top ('Home' key on many Windows browsers)

ChanU.3.14 The Śāṇḍilya Doctrine

पुनस्तस्यैव त्रिपादमृतस्य ब्रह्मणोऽनन्तगुणवतोऽनन्तशक्तेरनेकभेदोपास्यस्य विशिष्टगुणशक्तिमत्त्वेनोपासनं विधित्सन् आह –
सर्वं समस्तम्, खलु इति वाक्यालङ्कारार्थो निपातः। इदं जगत् नाम-रूप-विकृतं प्रत्यक्षादि-विषयं ब्रह्म कारणम्। वृद्धतमत्वात् ब्रह्म। कथं सर्वस्य ब्रह्मत्वम् इति अतः आह – तज्-ज-ल-अन्-इति। तस्माद् ब्रह्मणो जातं तेजोबन्नादि-क्रमेण सर्वम्। अतः तज्-जम्। तथा तेन एव जनन-क्रमेण प्रतिलोमतया तस्मिन् एव ब्रह्मणि लीयते तदात्मतया श्लिष्यते इति तल्-लम्। तथा तस्मिन् एव स्थिति-काले, अनिति प्राणिति चेष्टते इति। एवं ब्रह्मात्मतया त्रिषु कालेषु अविशिष्टम्, तद्-व्यतिरेकेण अग्रहणात्। अतः तद् एव इदं जगत्। यथा च इदं तद् एव एकम् अद्वितीयं तथा षष्ठे विस्तरेण वक्ष्यामः। यस्माच् च सर्वम् इदं ब्रह्म, अतः शान्तः राग-द्वेषादि-दोष-रहितः संयतः सन्, यत् तत् सर्वं ब्रह्म तत् वक्ष्यमाणैः गुणैः उपासीत। कथम् उपासीत? क्रतुं कुर्वीत – क्रतुः निश्चयोऽध्यवसायः ‘एवम् एव न अन्यथा’ इति अविचलः प्रत्ययः, तं क्रतुं कुर्वीत उपासीत इति अनेन व्यवहितेन सम्बन्धः। किं पुनः क्रतु-करणेन कर्तव्यं प्रयोजनम्? कथं वा क्रतुः कर्तव्यः? क्रतु-करणं च अभिप्रेतार्थ-सिद्धि-साधनं कथम्? इति अस्य अर्थस्य प्रतिपादनार्थम् अथ इत्यादि-ग्रन्थः। अथ खलु इति हेत्वर्थः। यस्मात् क्रतुमयः क्रतु-प्रायोऽध्यवसायात्मकः पुरुषः जीवः। यथा-क्रतुः यादृशः क्रतुः अस्य सोऽयं यथा-क्रतुः यथाध्यवसायः यादृङ्-निश्चयः अस्मिंल् लोके जीवन् इह पुरुषो भवति, तथा इतः अस्माद् देहात् प्रेत्य मृत्वा भवति। क्रत्वनुरूप-फलात्मको भवति इत्यर्थः। एवं हि एतच् छास्त्रतो दृष्टम् – “यं यं वा अपि स्मरन् भावं त्यजति अन्ते कलेवरम्” (BhG.8.6) इत्यादि। यत एवं व्यवस्था शास्त्र-दृष्टा, अतः सः एवं जानन् क्रतुं कुर्वीत। यादृशं क्रतुं वक्ष्यामः तम्। यत एवं शास्त्र-प्रामाण्याद् उपपद्यते क्रतु-अनुरूपं फलम्, अतः स कर्तव्यः क्रतुः॥
कथम्?
मनोमयः मनः-प्रायः। मनुतेऽनेनेति मनः तत् स्व-वृत्त्या विषयेषु प्रवृत्तं भवति, तेन मनसा तन्मयः। तथा प्रवृत्त इव तत्प्रायो निवृत्त इव च। अत एव प्राण-शरीरः प्राणो लिङ्गात्मा विज्ञान-क्रिया-शक्ति-द्वय-संमूर्छितः, “यो वै प्राणः सा प्रज्ञा या वा प्रज्ञा स प्राणः” (KausUp.3.3) इति श्रुतेः। सः शरीरं यस्य, स प्राण-शरीरः, “मनोमयः प्राण-शरीर-नेता” (MunU.2.2.7) इति च श्रुत्यन्तरात्। भा-रूपः भा दीप्तिः चैतन्य-लक्षणं रूपं यस्य सः भारूपः। सत्य-सङ्कल्पः सत्या अवितथाः सङ्कल्पाः यस्य, सोऽयं सत्य-सङ्कल्पः। न यथा संसारिण इव अनैकान्तिक-फलः सङ्कल्प ईश्वरस्य इत्यर्थः। संसारिणः अनृतेन मिथ्या-फलत्व-हेतुना प्रत्यूढत्वात् सङ्कल्पस्य मिथ्या-फलत्वं वक्ष्यति – “अनृतेन हि प्रत्यूढाः” (ChanU.8.3.2) इति। आकाशात्मा आकाश इव आत्मा स्व-रूपं यस्य सः आकाशात्मा। सर्व-गतत्वं सूक्ष्मत्वं रूपादि-हीनत्वं च आकाश-तुल्यता ईश्वरस्य। सर्व-कर्मा सर्वं विश्वं तेन ईश्वरेण क्रियत इति जगत् सर्वं कर्म यस्य स सर्व-कर्मा, “स हि सर्वस्य कर्ता” (BrhU.4.4.13) इति श्रुतेः। सर्व-कामः सर्वे कामा दोष-रहिता अस्य इति सर्व-कामः, “धर्मावि-रुद्धो भूतेषु कामोऽस्मि” (BhG.7.11) इति स्मृतेः।
ननु कामोऽस्मीति वचनात् इह बहुव्रीहिः न सम्भवति सर्व-काम इति। न, कामस्य कर्तव्यत्वात् शब्दादिवत् पारार्थ्य-प्रसङ्गाच् च देवस्य। तस्मात् यथा इह सर्व-काम इति बहुव्रीहिः, तथा कामोऽस्मि इति स्मृत्यर्थो वाच्यः।
सर्व-गन्धः सर्वे गन्धाः सुख-करा अस्य सोऽयं सर्व-गन्धः, “पुण्यो गन्धः पृथिव्याम्” (BhG.7.9) इति स्मृतेः। तथा रसाः अपि विज्ञेयाः। अपुण्य-गन्ध-रस-ग्रहणस्य पाप्म-सम्बन्ध-निमित्तत्व-श्रवणात्, “तस्मात् तेन उभयं जिघ्रति सुरभि च दुर्गन्धि च। पाप्मना हि एष विद्धः” (ChanU.1.2.2) इति श्रुतेः। न च पाप्म-संसर्ग ईश्वरस्य, अविद्यादि-दोषस्य अनुपपत्तेः। सर्वम् इदं जगत् अभ्यात्तः अभिव्याप्तः। अततेर्व्याप्त्यर्थस्य कर्तरि निष्ठा। तथा अवाकी – उच्यते अनयेति वाक् वाग् एव वाकः, यद् वा वचेर्घञन्तस्य करणे वाकः, स यस्य विद्यते स वाकी, न वाकी अवाकी। वाक्-प्रतिषेधः च अत्र उपलक्षणार्थः। गन्ध-रसादि-श्रवणात् ईश्वरस्य प्राप्तानि घ्राणादीनि करणानि गन्धादि-ग्रहणाय। अतः वाक्-प्रतिषेधेन प्रतिषिध्यन्ते तानि। “अपाणि-पादो जवनो ग्रहीता पश्यति अचक्षुः स शृणोति अकर्णः” (SvetU.3.19) इत्यादि-मन्त्र-वर्णात्। अनादरः असंभ्रमः। अप्राप्त-प्राप्तौ हि संभ्रमः स्याद् अनाप्त-कामस्य। न तु आप्त-कामत्वात् नित्य-तृप्तस्य ईश्वरस्य संभ्रमोऽस्ति क्वचित्॥
एषः यथोक्त-गुणः मे मम आत्मा अन्तर्हृदये हृदय-पुण्डरीकस्य अन्तः मध्ये अणीयान् अणुतरः, व्रीहेः वा यवाद् वा इत्यादि अत्यन्त-सूक्ष्मत्व-प्रदर्शनार्थम्। श्यामाकाद् वा श्यामाक-तण्डुलाद् वा इति परिच्छिन्न-परिमाणात् अणीयानित्युक्तेऽणु-परिमाणत्वं प्राप्तम् आशङ्क्य, अतः तत्प्रतिषेधायारभते – एष म आत्मान्तर्हृदये ज्यायान् पृथिव्याः इत्यादिना। ज्यायः-परिमाणाच् च ज्यायस्त्वं दर्शयन् अनन्त-परिमाणत्वं दर्शयति – मनोमय इत्यादिना ज्यायानेभ्यो लोकेभ्यः इति अन्तेन॥
यथोक्त-गुण-लक्षणः ईश्वरः ध्येयः, न तु तद्गुण-विशिष्ट एव – यथा राज-पुरुषम् आनय चित्र-गुं वा इत्युक्ते न विशेषणस्य अपि आनयने व्याप्रियते, तद्वद् इह अपि प्राप्तम्। अतः तन्निवृत्त्यर्थं सर्व-कर्मेत्यादि पुनर्वचनम्। तस्मात् मनोमयत्वादि-गुण-विशिष्ट एव ईश्वरो ध्येयः। अत एव षष्ठ-सप्तमयोः इव “तत् त्वम् असि” (ChanU.6.8.7) “आत्मैवेदं सर्वम्” (ChanU.7.25.2) इति नेह स्वाराज्येऽभिषिञ्चति, एष म आत्मा एतद् ब्रह्म एतम् इतः प्रेत्याभिसम्भवितास्मि इति लिङ्गात्। न तु आत्म-शब्देन प्रत्यगात्मैव उच्यते, मम इति षष्ठ्याः सम्बन्धार्थ-प्रत्यायकत्वात्, एतम् अभिसम्भवितास्मि इति च कर्म-कर्तृत्व-निर्देशात्।
ननु षष्ठेऽपि “अथ सम्पत्स्ये” (ChanU.6.14.2) इति सत्संपत्तेः कालान्तरितत्वं दर्शयति। न, आरब्ध-संस्कार-शेष-स्थित्यर्थ-परत्वात्। न कालान्तरितार्थता, अन्यथा तत्त्वम् असि इति एतस्य अर्थस्य बाध-प्रसङ्गात्।
यद्यपि आत्म-शब्दस्य प्रत्यग्-अर्थत्वं सर्वं खल्विदं ब्रह्म इति च प्रकृतम् एष म आत्मान्तर्हृदय एतद् ब्रह्म इत्युच्यते, तथापि अन्तर्धानम् ईषद् अपरित्यज्य एव एतम् आत्मानं इतः अस्माच् छरीरात् प्रेत्य अभिसम्भवितास्मि इति उक्तम्। यथा-क्रतु-रूपस्य आत्मनः प्रतिपत्तास्मि इति यस्य एवंविदः स्यात् भवेत् अद्धा सत्यम् एवं स्याम् अहं प्रेत्य, एवं न स्याम् इति विचिकित्सा अस्ति इति एतस्मिन् अर्थे क्रतु-फल-सम्बन्धे, स तथा एव ईश्वर-भावं प्रतिपद्यते विद्वान्, इति एदद् आह स्म उक्तवान् किल शाण्डिल्यो नाम ऋषिः। द्विः अभ्यासः आदरार्थः॥

Go to Top ('Home' key on many Windows browsers)

ChanU.3.15 Meditation on the Universe as a Chest

‘अस्य कुले वीरो जायते’ इत्युक्तम्। न वीर-जन्ममात्रं पितुः त्राणाय, “तस्मात् पुत्रम् अनुशिष्टं लोक्यम् आहुः” (BrhU.1.5.17) इति श्रुत्यन्तरात्। अतः तद् दीर्घायुष्ट्वं कथं स्याद् इति एवम् अर्थं कोश-विज्ञानारम्भः। अभ्यर्हित-विज्ञान-व्यासङ्गाद् अनन्तरम् एव न उक्तं तद् अदानीम् एव आरभ्यते –
अन्तरिक्षम् उदरम् अन्तः-सुषिरं यस्य सोऽयम् अन्तरिक्षोदरः, कोशः कोश इव अनेक-धर्म-सादृश्यात् कोशः। स च भूमि-बुध्नः भूमिः बुध्नो मूलं यस्य स भूमि-बुध्नः, न जीर्यति न विनश्यति, त्रै-लोक्यात्मकत्वात्। सहस्र-युग-कालावस्थायी हि सः। दिशो हि अस्य सर्वाः स्रक्तयः कोणाः। द्यौः अस्य कोशस्य उत्तरम् ऊर्ध्वं बिलम्स एषः यथोक्त-गुणः कोशः वसु-धानः वसु धीयतेऽस्मिन् प्राणिनां कर्म-फलाख्यम्, अतो वसु-धानः। तस्मिन् अन्तः विश्वं समस्तं प्राणि-कर्म-फलं सह तत्साधनैः इदं यद् गृह्यते प्रत्यक्षादि-प्रमाणैः श्रितम् आश्रितं स्थितम् इत्यर्थः॥
तस्य अस्य प्राची दिक् प्राग्गतो भागः जुहूः नाम जुह्वत्यस्यां दिशि कर्मिणः प्राङ्मुखाः सन्त इति जुहूः नाम। सहमाना नाम सहन्तेऽस्यां पाप-कर्म-फलानि यम-पुर्यां प्राणिन इति सहमाना नाम दक्षिणा दिक्। तथा राज्ञी नाम प्रतीची पश्चिमा दिक्, राज्ञी राज्ञा वरुणेन अधिष्ठिता, सन्ध्याराग-योगाद् वा। सुभूता नाम भूतिमद्भिः ईश्वर-कुबेरादिभिः अधिष्ठितत्वात् सुभूता नाम उदीचीतासां दिशां वायुः वत्सः, दिग्जत्वाद् वायोः, पुरो-वात इत्यादि दर्शनात्। स यः कश्चित् पुत्र-दीर्घ-जीवितार्थी एवं यथोक्त-गुणं वायुं दिशां वत्सम् अमृतं वेद, स न पुत्र-रोदं पुत्र-निमित्तं रोदनं न रोदिति, पुत्रो न म्रियत इत्यर्थः। यत एवं विशिष्टं कोश-दिग्वत्स-विषयं विज्ञानम्, अतः सोऽहं पुत्र-जीवितार्थी एवम् एतं वायुं दिशां वत्सं वेद जाने। अतः पुत्र-रोदं मा रुदं पुत्र-मरण-निमित्तं पुत्र-रोदो मम मा भूद् इत्यर्थः॥
अरिष्टम् अविनाशिनं कोशं यथोक्तं प्रपद्ये प्रपन्नोऽस्मि पुत्रायुषे। अमुना-अमुना-अमुना इति त्रिः नाम गृह्णाति पुत्रस्य। तथा प्राणं प्रपद्येऽमुनामुनामुना, भूः प्रपद्येऽमुनामुनामुना, भुवः प्रपद्येऽमुनामुनामुना, स्वः प्रपद्येऽमुनामुनामुना, सर्वत्र प्रपद्ये इति त्रिः नाम गृह्णाति पुनः पुनः॥
स यद् अवोचं प्राणं प्रपद्य इति व्याख्यानार्थम् उपन्यासः। प्राणो वै इदं सर्वं भूतं यद् इदं जगत्। “यथा वा अरा नाभौ” (ChanU.7.13.1) इति वक्ष्यति। अतः तम् एव सर्वं तत् तेन प्राण-प्रतिपादनेन प्रापत्सि प्रपन्नोऽभूवम्॥
तथा भूः प्रपद्ये इति त्रींल् लोकान् भूरादीन् प्रपद्ये इति तद् अवोचम्
अथ यद् अवोचं भुवः प्रपद्ये इति, अग्न्यादीन् प्रपद्ये इति तद् अवोचम्
अथ यद् अवोचं स्वः प्रपद्ये इति, ऋग्-वेदादीन् प्रपद्ये इति एव तद् अवोचम् इति। उपरिष्टान् मन्त्रान् जपेत् ततः पूर्वोक्तम् अजरं कोशं सदिग्वत्सं यथावद् ध्यात्वा। द्विः वचनम् आदरार्थम्॥

Go to Top ('Home' key on many Windows browsers)

ChanU.3.16 Man as a Sacrifice (I)

पुत्रायुष उपासनम् उक्तं जपः च। अथ इदानीम् आत्मनः दीर्घ-जीवनाय इदम् उपासनं जपं च विदधदाह। जीवन् हि स्वयं पुत्रादि-फलेन युज्यते, न अन्यथा। इति अतः आत्मानं यज्ञं संपादयति पुरुषः –
पुरुषः जीवन-विशिष्टः कार्य-करण-सङ्घातः यथा-प्रसिद्ध एव। वाव-शब्दोऽवधारणार्थः। पुरुष एव यज्ञः इत्यर्थः। तथा हि सामान्यैः संपादयति यज्ञत्वम्। कथम्? तस्य पुरुषस्य यानि चतुर्विंशति-वर्षाणि आयुषः, तत् प्रातः-सवनं पुरुषाख्यस्य यज्ञस्य। केन सामान्येन? इति आह – चतुर्विंशति-अक्षरा गायत्री छन्दः, गायत्रं गायत्री-छन्दस्कं हि विधि-यज्ञस्य प्रातः-सवनम्। अतः प्रातः-सवन-सम्पन्नेन चतुर्विंशति-वर्षायुषा युक्तः पुरुषः अतो विधि-यज्ञ-सादृश्यात् यज्ञः। तथोत्तरयोः अपि आयुषोः सवन-द्वय-सम्पत्तिः त्रिष्टुब्-जगति-अक्षर-सङ्ख्या-सामान्यतो वाच्या। किञ्च, तद् अस्य पुरुष-यज्ञस्य प्रातः-सवनं विधि-यज्ञस्य एव वसवः देवा अन्वायत्ताः अनुगताः। सवन-देवतात्वेन स्वामिनः इत्यर्थः। पुरुष-यज्ञेऽपि विधि-यज्ञ इव अग्न्यादयो वसवः देवाः प्राप्ता इत्यतो विशिनष्टि – प्राणा वाव वसवः वागादयो वायवः च। एते हि यस्मात् इदं पुरुषादि-प्राणि-जातम् एते वासयन्ति। प्राणेषु हि देहे वसत्सु सर्वम् इदं वसति, न अन्यथा। इति अतो वसनाद् वासनाच् च वसवः॥
तं चेत् यज्ञ-संपादिनम् एतस्मिन् प्रातः-सवन-सम्पन्ने वयसि किञ्चित् व्याध्यादि मरण-शङ्का-कारणम् उपतपेत् दुःखम् उत्पादयेत्, सः तदा यज्ञ-संपादी पुरुषः आत्मानं यज्ञं मन्यमानः ब्रूयात् जपेद् इत्यर्थः इमं मन्त्रम् – हे प्राणाः वसवः, इदं मे प्रातः-सवनं मम यज्ञस्य वर्तते, तत् माध्यन्दिनं सवनम् अनुसन्तनुत इति। माध्यन्दिनेन सवनेन आयुषा सहितं एकी-भूतं सन्ततं कुरुत इत्यर्थः। मा अहं यज्ञः युष्माकं प्राणानां वसूनां प्रातः-सवनेशानां मध्ये विलोप्सीय विलुप्येय विच्छिद्येय इत्यर्थः। इति-शब्दो मन्त्र-परिसमाप्त्यर्थः। स तेन जपेन ध्यानेन च ततः तस्माद् उपतापात् उत् एति उद्गच्छति। उद्गंय विमुक्तः सन् अगदो ह अनुपतापो भवति एव
अथ यानि चतुश्चत्वारिंशद्-वर्षाणि इत्यादि समानम्। रुदन्ति रोदयन्ति इति प्राणा रुद्राः। क्रूरा हि ते मध्यमे वयसि, अतो रुद्राः॥
तथा आदित्याः प्राणाः। ते हि इदं शब्दादि-जातम् आददते, अत आदित्याः। तृतीय-सवनम् आयुः षोडशोत्तर-वर्ष-शतं समापयत अनुसन्तनुत यज्ञं समापयत इत्यर्थः। समानम् अन्यत्॥
निश्चिता हि विद्या फलाय इति एतद् दर्शयन् उदाहरति –
एतत् यज्ञ-दर्शनं ह स्म वै किल तद् विद्वान् आह महि-दासो नामतः। इतराया अपत्यम् ऐतरेयः। ‘किं कस्मात् मे मम एतत् उपतपनम् उपतपसि सः त्वं हे रोग। योऽहं यज्ञः अनेन त्वत् कृतेन उपतापेन न प्रेष्यामि न मरिष्यामि। अतो वृथा तव श्रम इत्यर्थः’। इत्येवम् आह स्म – इति पूर्वेण सम्बन्धः। सः एवं-निश्चयः सन् षोडशं वर्ष-शतम् अजीवत्। अन्योऽपि एवं-निश्चयः षोडशं वर्ष-शतं प्रजीवति, य एवं यथोक्तं यज्ञ-संपादनं वेद जानाति, स इत्यर्थः॥

Go to Top ('Home' key on many Windows browsers)

ChanU.3.17 Man as a Sacrifice (II)

सः यद् अशिशिषत इत्यादि-यज्ञ-सामान्य-निर्देशः पुरुषस्य पूर्वेण एव सम्बध्यते। यद् अशिशिषति अशितुम् इच्छति। तथा पिपासति पातुम् इच्छति। यन् न रमते इष्टाद्यप्राप्ति-निमित्तम्। यद् एवं जातीयकं दुःखम् अनुभवति, ता अस्य दीक्षाः। दुःख-सामान्याद् विधि-यज्ञस्य इव॥
अथ यद् अश्नाति यत् पिबति यद् रमते रतिं च अनुभवति इष्टादि-संयोगात्, तत् उपसदैः समानताम् एति। उपसदां च पयो-व्रतत्व-निमित्तं सुखम् अस्ति। अल्प-भोजनीयानि च अहानि आसन्नानि इति प्रश्वासः। अतोऽशनादीनाम् उपसदां च सामान्यम्॥
अथ यद् हसति यज् जक्षति भक्षयति यन् मैथुनं चरति, स्तुत-शस्त्रैः एव तत् समानताम् एति। शब्दवत्त्व-सामान्यात्॥
अथ यत् तपो दानम् आर्जवम् अहिंसा सत्य-वचनम् इति, ता अस्य दक्षिणाः, धर्म-पुष्टि-करत्व-सामान्यात्॥
यस्माच् च यज्ञः पुरुषः, तस्मात् तं जनयिष्यति माता यदा, तदा आहुः अन्ये सोष्यति इति तस्य मातरम्। यदा च प्रसूता भवति, तदा असोष्ट पूर्णिका इति। विधि-यज्ञे इव सोष्यति सोमं देव-दत्तः, असोष्ट सोमं यज्ञ-दत्त इति। अतः शब्द-सामान्याद् वा पुरुषो यज्ञः। पुनः उत्पादनम् एव अस्य तत् पुरुषाख्यस्य यज्ञस्य, यत् सोष्यति असोष्ट इति शब्द-सम्बन्धित्वं विधि-यज्ञस्य इव। किञ्च तन् मरणम् एव अस्य पुरुष-यज्ञस्य अवभृथः, समाप्ति-सामान्यात्॥
तद् ह एतत् यज्ञ-दर्शनं घोरः नामतः, आङ्गिरसः गोत्रतः, कृष्णाय देवकी-पुत्राय शिष्याय उक्त्वा, उवाच तद् एतत् त्रयम् इत्यादि-व्यवहितेन सम्बन्धः। सः च एतद् दर्शनं श्रुत्वा अपिपासः एव अन्याभ्यो विद्याभ्यो बभूव। इत्थं च विशिष्टा इयम्, यत् कृष्णस्य देवकी-पुत्रस्य अन्यां विद्यां प्रति तृड्‌-विच्छेद-करी इति पुरुष-यज्ञ-विद्यां स्तौति। घोर आङ्गिरसः कृष्णाय उक्त्वा इमां विद्यां किम् उवाच इति, तद् आह – सः एवं यथोक्त-यज्ञवित् अन्त-वेलायां मरण-काले एतत् मन्त्र-त्रयं प्रतिपद्येत जपेद् इत्यर्थः। किं तत्? अक्षितम् अक्षीणम् अक्षतं वा असि इति एकं यजुः। सामर्थ्याद् आदित्यस्थं प्राणं च एकी-कृत्य आह। तथा तम् एव आह, अच्युतं स्व-रूपाद् अप्रच्युतम् असि इति द्वितीयं यजुः। प्राण-संशितं प्राणः च स संशितं संयक्-तनू-कृतं च सूक्ष्मं तत् त्वम् असि इति तृतीयं यजुः। तत्र एतस्मिन् अर्थे विद्या-स्तुति-परे द्वे ऋचौ मन्त्रौ भवतः, न जपार्थे, त्रयं प्रतिपद्येत इति त्रित्व-सङ्ख्या-बाधनात्। पञ्च-सङ्ख्या हि तदा स्यात्॥
आदित् इति अत्र आ-कारस्य अनुबन्धः त-कारः अनर्थक इच्-छब्दः च। प्रत्नस्य चिरन्तनस्य पुराणस्य इत्यर्थः। रेतसः कारणस्य बीज-भूतस्य जगतः, सदाख्यस्य ज्योतिः प्रकाशं पश्यन्ति। आ-शब्द उत्सृष्टानुबन्धः पश्यन्ति इति अनेन सम्बध्यते। किं तज् ज्योतिः पश्यन्ति? वासरम् अहः अहः इव तत् सर्वतो व्याप्तं ब्रह्मणो ज्योतिः। निवृत्त-चक्षुषो ब्रह्मविदः ब्रह्म-चर्यादि-निवृत्ति-साधनैः शुद्धान्तःकरणाः समन्ततः ज्योतिः पश्यन्ति इत्यर्थः। परः परम् इति लिङ्ग-व्यत्ययेन, ज्योतिष्-परत्वात्, यत् इध्यते दीप्यते दिवि द्योतनवति परस्मिन् ब्रह्मणि वर्तमानम् येन ज्योतिषेद्धः सविता तपति चन्द्रमा भाति विद्युद्-विद्योतते ग्रह-तारा-गणा विभासन्ते। किं च, अन्यो मन्त्र-दृग् आह यथोक्तं ज्योतिः पश्यन् – उद्वयं तमसः अज्ञान-लक्षणात् परि परस्ताद् इति शेषः। तमसो वा अपनेतृ यज् ज्योतिः उत्तरम् – आदित्यस्थं परिपश्यन्तः वयम् उत् अगन्म इति व्यवहितेन सम्बन्धः। तज् ज्योतिः स्वः स्वम् आत्मीयम् अस्मद् हृदि स्थितम्, आदित्यस्थं च तद् एकं ज्योतिः। यत् उत्तरम् उत्कृष्टतरम् ऊर्ध्वतरं वा अपरं ज्योतिः अपेक्ष्य, पश्यन्तः उद्-अगन्म वयम्। कम् उदगन्म? इति आह। देवं द्योतनवन्तं देवत्रा देवेषु सर्वेषु, सूर्यं रसानां रश्मीनां प्राणानां च जगतः ईरणात् सूर्यः तम् उद्-अगन्म गतवन्तः, ज्योतिः उत्तमं सर्व-ज्योतिर्भ्य उत्कृष्टतमम् अहो प्राप्ता वयम् इत्यर्थः। इदं तज् ज्योतिः, यत् ऋग्भ्यां स्तुतं यद् यजुस्-त्रयेण प्रकाशितम्। द्विः अभ्यासो यज्ञ-कल्पना-परिसमाप्त्यर्थः॥

Go to Top ('Home' key on many Windows browsers)

ChanU.3.18 The Mind and the Ākāśa as Symbols of Brahman

मनोमय ईश्वर उक्तः आकाशात्म इति च ब्रह्मणो गुणैक-देशत्वेन। अथ इदानीं मन-आकाशयोः समस्त-ब्रह्म-दृष्टि-विधानार्थ आरम्भः मनो ब्रह्म इत्यादि –
मनः मनुतेऽनेन इति अन्तःकरणं तद् ब्रह्म परम् इति उपासीत इति एतद् आत्म-विषयं दर्शनम् अधि-आत्मम्अथ अधि-दैवतं देवता-विषयम् इदं वक्ष्यामः। आकाशो ब्रह्म इति उपासीत। एवम् उभयम् अध्यात्मम् अधि-दैवतं च उभयं ब्रह्म-दृष्टि-विषयम् आदिष्टम् उपदिष्टं भवति। आकाश-मनसोः सूक्ष्मत्वात् मनसोपलभ्यत्वाच् च ब्रह्मणः, योग्यं मनो ब्रह्म-दृष्टेः, आकाशः च, सर्व-गतत्वात् सूक्ष्मत्वाद् उपाधि-हीनत्वाच् च॥
तद् एतत् मन-आख्यं चतुष्-पाद् ब्रह्म, चत्वारः पादा अस्य इति। कथं चतुष्-पात्त्वं मनसो ब्रह्मण इति, आह – वाक् प्राणः चक्षुः श्रोत्रम् इति एते पादाः इति अध्यात्मम्अथ आधि-दैवतम् आकाशस्य ब्रह्मणोऽग्निः वायुः आदित्यो दिशः इति एते। एवम् उभयम् एव चतुष्-पाद् ब्रह्म आदिष्टं भवति अध्यात्मं च एव आधि-दैवतं च
तत्र वाग् एव मनसो ब्रह्मणः चतुर्थः पाद इतर-पाद-त्रयापेक्षया – वाचा हि पादेन इव गवादि वक्तव्य-विषयं प्रति तिष्ठति। अतो मनसः पाद इव वाक्। तथा प्राणो घ्राणः पादः। तेन अपि गन्ध-विषयं प्रति च क्रामति। तथा चक्षुः पादः श्रोत्रं पाद इति एवम् अध्यात्मं चतुष्-पात्त्वं मनसो ब्रह्मणः। अथ आधि-दैवतम् अग्नि-वाय्वादित्य-दिशः आकाशस्य ब्रह्मण उदर इव गोः पादा इव लग्ना उपलभ्यन्ते। तेन तस्य आकाशस्य अग्न्यादयः पादा उच्यन्ते। एवम् उभयम् अध्यात्मं च एव आधि-दैवतं च चतुष्-पाद् आदिष्टं भवति –
तत्र वाग् एव मनसो ब्रह्मणः चतुर्थः पादःसोऽग्निना अधि-दैवतेन ज्योतिषा भाति च दीप्यते तपति च सन्तापं च औष्ण्यं करोति। अथवा तैल-घृताद्याग्नेयाशनेन इद्धा वाग्-भाति च तपति च वदनाय उत्साहवती स्याद् इत्यर्थः। विद्वत्-फलम्, भाति च तपति च कीर्त्या यशसा ब्रह्म-वर्चसेन, य एवं यथोक्तं वेद
तथा प्राण एव ब्रह्मणः चतुर्थः पादःस वायुना गन्धाय भाति च तपति च। तथा चक्षुः आदित्येन रूप-ग्रहणाय, श्रोत्रं दिग्भिः शब्द-ग्रहणाय। विद्या-फलं समानं सर्वत्र ब्रह्म-सम्पत्तिः अदृष्टं फलं यः एवं वेद। द्विः उक्तिः दर्शन-समाप्त्यर्था॥

Go to Top ('Home' key on many Windows browsers)

ChanU.3.19 Meditation on the Sun as Brahman

आदित्यो ब्रह्मणः पाद उक्त इति तस्मिन् सकल-ब्रह्म-दृष्ट्यर्थम् इदम् आरभ्यते –
आदित्यो ब्रह्म इति आदेशः उपदेशः। तस्य उपव्याख्यानं क्रियते स्तुत्यर्थम्। असत् अव्याकृत-नाम-रूपम् इदं जगत् अशेषम् अग्रे प्राग् अवस्थायाम् उत्पत्तेः आसीत्, न तु असद् एव।
“कथम् असतः सज् जायेत” (ChanU.6.2.2) इति असत्-कार्यत्वस्य प्रतिषेधात्। ननु इह असद् एव इति विधानाद् विकल्पः स्यात्। न, क्रियासु इव वस्तुनि विकल्पानुपपत्तेः। कथं तर्हि इदम् असद् एव इति? ननु अवोचाम अव्याकृत-नाम-रूपत्वाद् असद् इव असद् इति। ननु एव-शब्दोऽवधारणार्थः। सत्यम् एवम्, न तु सत्त्वाभावम् अवधारयति। किं तर्हि, व्याकृत-नाम-रूपाभावम् अवधारयति। नाम-रूप-व्याकृत-विषये सच्-छब्द-प्रयोगो दृष्टः। तच् च नाम-रूप-व्याकरणम् आदित्यायत्तं प्रायशो जगतः। तद्-अभावे हि अन्धं तम इव इदं न प्रज्ञायेत किञ्चन इति अतः तत्-स्तुति-परे वाक्ये सद् अपि इदं प्राग् उत्पत्तेः जगद् असद् एव इति आदित्यं स्तौति ब्रह्म-दृष्ट्यर्हत्वाय। आदित्य-निमित्तो हि लोके सद् इति व्यवहारः – यथा असद् एव इदं राज्ञः कुलं सर्व-गुण-सम्पन्ने पूर्ण-वर्मणि राजनि असति इति तद्वत्। न च सत्त्वम् असत्त्वं वा इह जगतः प्रतिपिपादयिषितम्, आदित्यो ब्रह्म इति आदेश-परत्वात्। उपसंहरिष्यत्यन्ते आदित्यं ब्रह्म इति उपास्त इति।
तत् सद् आसीत् तत् असच्-छब्द-वाच्यं प्राग्-उत्पत्तेः स्तिमितम् अनिस्पन्दम् असद् इव सत्-कार्याभिमुखम् ईषद् उपजात-प्रवृत्ति सद् आसीत्। ततो लब्ध-परिस्पन्दं तत् समभवत् अल्पतर-नाम-रूप-व्याकरणेन अङ्कुरी-भूतम् इव बीजम्। ततोऽपि क्रमेण स्थूली-भवत् अद्भ्यः आण्डं सम्-अवर्तत संवृत्तम्। आण्डम् इति दैर्घ्यं छान्दसम्। तद् अण्डं संवत्सरस्य कालस्य प्रसिद्धस्य मात्रां परिमाणम्। अभिन्न-स्वरूपम् एव अशयत स्थितं बभूव। तत् ततः संवत्सर-परिमाणात् कालाद् ऊर्ध्वं निरभिद्यत निर्भिन्नम् – वयसाम् इव अण्डम्। तस्य निर्भिन्नस्य अण्डस्य कपाले द्वे रजतं च सुवर्णं च अभवतां संवृत्ते॥
तत् तयोः कपालयोः यद् रजतं कपालम् आसीत्, सा इयं पृथिवी पृथिव्युपलक्षितम् अधोऽण्ड-कपालम् इत्यर्थः। यत् सुवर्णं कपालं सा द्यौः द्यु-लोकोपलक्षितम् ऊर्ध्वं कपालम् इत्यर्थः। यज् जरायु गर्भ-परिवेष्टनं स्थूलम् अण्डस्य द्वि-शकली-भाव-काले आसीत्, ते पर्वताः बभूवुः। यद् उल्बं सूक्ष्मं गर्भ-परिवेष्टनम्, तत् सह मेघैः समेघः नीहारोऽवश्यायः बभूव इत्यर्थः। याः गर्भस्य जातस्य देहे धमनयः शिराः, ताः नद्यो बभूवुः। यत् तस्य वस्तौ भवं वास्तेयम् उदकम्, सः समुद्रः
अथ यत् तद् अजायत गर्भ-रूपं तस्मिन् अण्डे, सोऽसौ आदित्यःतम् आदित्यं जायमानं घोषाः शब्दाः उलूलवः उरूरवो विस्तीर्ण-रवाः उदतिष्ठन् उत्थिवन्तः ईश्वरस्य इव इह प्रथम-पुत्र-जन्मनि सर्वाणि च स्थावर-जङ्गमानि भूतानि सर्वे च तेषां भूतानां कामाः कांयन्त इति विषयाः स्त्री-वस्त्र-अन्नादयः। यस्माद् आदित्य-जन्म-निमित्ता भूत-कामोत्पत्तिः, तस्माद् अद्यत्वेऽपि तस्य आदित्यस्य उदयं प्रति प्रत्यायनं प्रति अस्त-गमनं च प्रति, अथवा पुनः पुनः प्रत्यागमनं प्रत्यायनं तत् प्रति तन्निमित्ती-कृति इत्यर्थः। सर्वाणि च भूतानि सर्वे च कामाः घोषाः उलूलवःअनूत्तिष्ठन्ति। प्रसिद्धं हि एतद् उदयादौ सवितुः॥
स यः कश्चित् एतम् एवं यथोक्त-महिमानं विद्वान् सन् आदित्यं ब्रह्म इति उपास्ते, स तद्-भावं प्रतिपद्यत इत्यर्थः। किञ्च दृष्टं फलम् अभ्याशः क्षिप्रं तद्विदः, यद् इति क्रिया-विशेषणम्, एनम् एवं-विदं साधवः शोभना घोषाः, साधुत्वं घोषादीनां यद् उपभोगे पापानुबन्धाभावः, आ च गच्छेयुः आगच्छेयुः च, उप च निम्रेडेरन् उपनिम्रेडेरन् च – न केवलम् आगमनमात्रं घोषाणाम् उपसुखयेयुः च उपसुखं च कुर्युः इत्यर्थः। द्विः अभ्यासः अध्याय-परिसमाप्त्यर्थः आदरार्थः च॥

Go to Top ('Home' key on many Windows browsers)

kh.4.01 kh.4.02 kh.4.03 kh.4.04 kh.4.05 kh.4.06 kh.4.07 kh.4.08 kh.4.09 kh.4.10 kh.4.11 kh.4.12 kh.4.13 kh.4.14 kh.4.15 kh.4.16 kh.4.17

वायु-प्राणयोः ब्रह्मणः पाद-दृष्ट्यध्यासः पुरस्ताद् वर्णितः। अथ इदानीं तयोः साक्षाद्-ब्रह्मत्वेन उपास्यत्वाय उत्तरम् आरभ्यते। सुखावबोधार्था आख्यायिका, विद्या-दान-ग्रहण-विधि-प्रदर्शनार्था च। श्रद्धा-अन्न-दान-अनुद्धतत्वादीनां च विद्या-प्राप्ति-साधनत्वं प्रदर्श्यते आख्यायिकया –

Go to Top ('Home' key on many Windows browsers)

ChanU.4.01 The Story of Jāna-śruti and Raikva

जानश्रुतिः जन-श्रुतस्य अपत्यम्। ऐतिह्य-अर्थः। पुत्रस्य पौत्रः पौत्रायणः स एव श्रद्धा-देयः श्रद्धा-पुरःसरम् एव ब्राह्मणादिभ्यो यमस्य इति श्रद्धा-देयः। बहु-दायी प्रभूतं दातुं शीलम् अस्य इति बहु-दायी। बहु-पाक्यः बहु पक्तव्यम् अहन्यहनि गृहे यस्य असौ बहु-पाक्यः। भोजनार्थिभ्यो बह्वस्य गृहेऽन्नं पच्यत इत्यर्थः। एवं-गुण-संपन्नोऽसौ जान-श्रुतिः पौत्रायणो विशिष्टे देशे काले च कस्मिंश्चित् आस बभूव। स ह सर्वतः सर्वासु दिक्षु ग्रामेषु नगरेषु आवसथान् एत्य वसन्ति येषु इति आवसथाः तान् मापयांचक्रे कारितवान् इत्यर्थः। सर्वतः एव मे मम अन्नं तेषु आवसथेषु वसन्तः अत्स्यन्ति भोक्ष्यन्त इति एवम् अभिप्रायः॥
तत्र एवं सति राजनि तस्मिन् घर्म-काले हर्म्य-तलस्थे –
अथ ह हंसा निशायां रात्रौ अतिपेतुः। ऋषयो देवता वा राज्ञोऽन्न-दान-गुणैः तोषिताः सन्तः हंस-रूपा भूत्वा राज्ञो दर्शन-गोचरे अतिपेतुः पतितवन्तः। तत् तस्मिन् काले तेषां पततां हंसानाम् एकः पृष्ठतः पतन् अग्रतः पतन्तं हंसम् अभ्युवाद अभ्युक्तवान् – हो होऽयि इति भो भो इति सम्बोध्य भल्लाक्ष भल्लाक्ष इति आदरं दर्शयन् यथा पश्य पश्य आश्चर्यम् इति तद्वत्। भल्लाक्ष इति मन्द-दृष्टित्वं सूचयन्नाह। अथवा सम्यग्ब्रह्म-दर्शनाभिमानवत्त्वात् तस्य असकृदुपालब्धः तेन पीड्यमानोऽमर्षितया तत् सूचयति भल्लाक्ष इति। जान-श्रुतेः पौत्रायणस्य समं तुल्यं दिवा द्यु-लोकेन ज्योतिः प्रभास्वरम् अन्न-दानादि-जनित-प्रभावजम् आततं व्याप्तं द्यु-लोक-स्पृग् इत्यर्थः। दिवा अह्ना वा समं ज्योतिः इत्येतत्। तन्मा प्रसाङ्क्षीः सञ्जनं सक्तिं तेन ज्योतिषा सम्बन्धं मा कार्षिः इत्यर्थः। तत्प्रसञ्जनेन तत् ज्योतिः त्वा त्वां मा प्रधाक्षीः मा दहतु इत्यर्थः। पुरुष-व्यत्ययेन मा प्रधाक्षीद् इति॥
तम् एवम् उक्तवन्तं परः इतरोऽग्र-गामी प्रत्युवाचअरे निकृष्टोऽयं राजा वराकः, तं कम् उ एनं सन्तं केन माहात्म्येन युक्तं सन्तम् इति कुत्सयति एनम् एवं स-बहुमानम् एतद् वचनम् आत्थ रैक्वम् इव स-युग्वानम्, सह युग्वना गन्त्र्या वर्तत इति सयुग्वा रैक्वः, तम् इव आत्थ एनम्। अननुरूपम् अस्मिन् अयुक्तम् ईदृशं वक्तुं रैक्व इव इत्यभिप्रायः। इतरः च आह – यः नु कथं त्वया उच्यते सयुग्वा रैक्वःइति उक्तवन्तं भल्लाक्षः आह – शृणु यथा स रैक्वः॥
यथा लोके कृतायः कृतो नामायः द्यूत-समये प्रसिद्धः चतुरङ्कः, सः यदा जयति द्यूते प्रवृत्तानाम्, तस्मै विजिताय तदर्थम् इतरे त्रि-द्व्येकाङ्काः अधरेयाः त्रेता-द्वापर-कलि-नामानः संयन्ति संगच्छन्तेऽन्तर्भवन्ति। चतुरङ्के कृताये त्रि-द्व्येकाङ्कानां विद्यमानत्वात् तद् अन्तर्भवन्ति इत्यर्थः। यथा अयं दृष्टान्तः, एवम् एनं रैक्वं कृताय-स्थानीयं त्रेता-द्यय-स्थानीयं सर्वं तद् अभिसमेति अन्तर्भवति रैक्वे। किं तत्? यत्किंच लोके सर्वाः प्रजाः साधु शोभनं धर्म-जातं कुर्वन्ति, तत् सर्वं रैक्वस्य धर्मेऽन्तर्भवति, तस्य च फले सर्व-प्राणि-धर्म-फलम् अन्तर्भवति इत्यर्थः। तथा अन्योऽपि कश्चित् यः तत् वेद्यं वेद। किं तत्? यत् वेद्यं सः रैक्वः वेद। तद्वेद्यमन्योऽपि यो वेद, तम् अपि सर्व-प्राणि-धर्म-जातं तत्फलं च रैक्वम् इव अभिसमेति इति अनुवर्तते। सः एवं-भूतः अ-रैक्वोऽपि मया विद्वान् एतद् उक्तः एवम् उक्तः, रैक्ववत् सः एव कृताय-स्थानीयो भवति इत्यभिप्रायः॥
तद् उ ह तद् एतद् ईदृशं हंस-वाक्यम् आत्मनः कुत्सा-रूपम् अन्यस्य विदुषः रैक्वादेः प्रशंसा-रूपम् उपशुश्राव श्रुतवान् हर्म्य-तलस्थो राजा जान-श्रुतिः पौत्रायणः। तच् च हंसवाक्यं स्मरन् एव पौनः-पुन्येन रात्रि-शेषम् अतिवाहयामास। ततः सः वन्दिभी राजा स्तुति-युक्ताभिर्वाग्भिः प्रतिबोध्यमानः उवाच क्षत्तारं संजिहानः एव शयनं निद्रां वा परित्यजन् एव, हे अङ्ग वत्स अरे ह सयुग्वानम् इव रैक्वम् आत्थ किं माम्? सः एव स्तुत्यर्हः न अहम् इत्यभिप्रायः। अथवा सयुग्वानं रैक्वम् आत्थ गत्वा मम तद्दिदृक्षाम्। तदा इव-शब्दः अवधारणार्थः अनर्थकः वा वाच्यः। सः च क्षत्ता प्रत्युवाच रैक्वानयन-कामो राज्ञः अभिप्रायज्ञः – यः नु कथं सयुग्वा रैक्व इति, राज्ञा एवं च् उक्तः आनेतुं तच्चिह्नं ज्ञातुम् इच्छन् यः नु कथं सयुग्वा रैक्व इति अवोचत्। सः च भल्लाक्ष-वचनम् एव अवोचत्॥
तस्य स्मरन् –
सः ह क्षत्ता नगरं ग्रामं वा गत्वा अन्विष्य रैक्वं न अविदं न व्यज्ञासिषम् इति प्रत्येयाय प्रत्यागतवान्। तं ह उवाच क्षत्तारम् – अरे यत्र ब्राह्मणस्य ब्रह्मविद एकान्ते अरण्ये नदी-पुलिनादौ विविक्ते देशे अन्वेषणा अनुमार्गणं भवति, तत् तत्र एनं रैक्वम् अर्च्छ ऋच्छ गच्छ, तत्र मार्गणं कुरु इत्यर्थः॥
इत्युक्तः –
क्षत्ता अन्विष्य तं विजने देशे अधस्तात् शकटस्य गन्त्र्याः पामानं खर्जूं कषमाणं कण्डूयमानं दृष्ट्वा, अयं नूनं सयुग्वा रैक्व इति उप समीपे उपविवेश विनयेनोपविष्टवान्। तं च रैक्वं ह अभ्युवाद उक्तवान्। त्वम् असि हे भगवः भगवन् सयुग्वा रैक्व इति। एवं पृष्टः अहम् अस्मि हि अरा३ अरे इति ह अनादर एव प्रतिजज्ञे अभ्युपगतवान् – सः तं विज्ञाय अविदं विज्ञातवान् अस्मि इति प्रत्येयाय प्रत्यागत इत्यर्थः॥

Go to Top ('Home' key on many Windows browsers)

ChanU.4.02 Dialog of Raikva and Jāna-śruti (I)

तत् तत्र ऋषेः गार्हस्थ्यं प्रति अभिप्रायं बुद्ध्वा धनार्थितां च उ ह एव जानश्रुतिः पौत्रायणः षट्शतानि गवां निष्कं कण्ठहारम् अश्वतरीरथम् अश्वतरीभ्यां युक्तं रथं तदादाय धनं गृहीत्वा प्रतिचक्रमे रैक्वं प्रति गतवान्। तं च गत्वा अभ्युवाद ह अभ्युक्तवान्॥
हे रैक्व गवां षट् शतानि इमानि तुभ्यं मया आनीतानि, अयं निष्कः अश्वतरीरथःअयम् एतद् धनम् आदत्स्व। भगवो अनुशाधिमे माम् एताम्, यां च देवतां त्वम् उपास्से तद् देवता उपदेशेन माम् अनुशाधि इत्यर्थः॥
तम् एवमुक्तवन्तं राजानं प्रत्युवाच परो रैक्वः। अह इति अयं निपातो विनिग्रहार्थीयोऽन्यत्र, इह त्वनर्थकः, एवशब्दस्य पृथक्प्रयोगात्। हारेत्वा हारेण युक्ता इत्वा गन्त्री सेयं हारेत्वा गोभिः सह तव एव अस्तु तवैव तिष्ठतु न मम अपर्याप्तेन कर्मार्थमनेन प्रयोजनमित्यभिप्रायः। हे शूद्र इति
ननु राजासौ क्षत्तृसम्बन्धात्, स ह क्षत्तारमुवाचेत्युक्तम्। विद्याग्रहणाय च ब्राह्मणसमीपोपगमात् शूद्रस्य च अनधिकारात् कथमिदमननुरूपं रैक्वेणोच्यते हे शूद्रेति।
तत्राहुराचार्याः – हंसवचनश्रवणात् शुगेनमाविवेश। तेनासौ शुचा श्रुत्वा रैक्वस्य महिमानं वा आद्रवतीति ऋषिः आत्मनः परोक्षज्ञतां दर्शयन् शूद्रेत्याहेति। शूद्रवद्वा धनेनैव एवं विद्याग्रहणायोपजागम न च शुश्रूषया। न तु जात्यैव शूद्र इति। अपरे पुनराहुः अल्पं धनमाहृतमिति रुषैव एवमुक्तवान् शूद्रेति। लिङ्गं च बह्वाहरणे उपादानं धनस्येति। तदु ह ऋषेर्मतं ज्ञात्वा पुनः एव जानश्रुतिः पौत्रायणो गवां सहस्रम् अधिकं जायां च ऋषेरभिमतां दुहितरम् आत्मनः तद् आदाय प्रतिचक्रमे क्रान्तवान्॥
रैक्व इदं गवां सहस्रम् अयं निष्कः अयम् अश्वतरीरथः इयं जाया जायार्थं मम दुहिता आनीता अयंग्रामः यस्मिन्नास्से तिष्ठसि स च त्वदर्थे मया कल्पितः। तद् एतत् सर्वम् आदाय अनुशाधि एव मा मां हे भगवः, इत्युक्तः तस्याः जायार्थम् आनीताया राज्ञो दुहितुः एव मुखं द्वारं विद्याया दाने तीर्थम् उपोद्गृह्णन् जानन्नित्यर्थः। ‘ब्रह्मचारी धनदायी मेधावी श्रोत्रियः प्रियः। विद्यया वा विद्यां प्राह तीर्थानि षण्मम’ (?) इति विद्याया वचनं विज्ञायते हि। एवं जानन् उपोद्गृह्णन् उवाच उक्तवान्। आजहार आहृतवान् भवान् इमाः गाः यच् च अन्यद् धनं तत् साध्विति वाक्यशेषः। शूद्र इति पूर्वोक्तानुकृतिमात्रं न तु कारणान्तरापेक्षया पूर्ववत्। अनेन एव मुखेन विद्याग्रहणतीर्थेन आलापयिष्यथाः आलापयसीति मां भाणयसीत्यर्थः। ते ह एते ग्रामा रैक्वपर्णा नाम विख्याता महावृषेषु देशेषु यत्र येषु ग्रामेषु उवास उषितवान् रैक्वः, तानसौ ग्रामानदाद् अस्मै रैक्वाय राजा। तस्मै राज्ञे धनं दत्तवते किल उवाच विद्यां सः रैक्वः॥

Go to Top ('Home' key on many Windows browsers)

ChanU.4.03 Dialog of Raikva and Jāna-śruti (II)

वायुः वाव संवर्गः वायुर्बाह्यः, वावेत्यवधारणार्थः, संवर्जनात्संग्रहणात्संग्रसनाद्वा संवर्गः। वक्ष्यमाणा अग्न्याद्या देवता आत्मभावमापादयतीत्यतः संवर्गः संवर्जनाख्यो गुणो ध्येयो वायोः, कृतायान्तर्भावदृष्टान्तात्। कथं संवर्गत्वं वायोरिति, आह – यदा यस्मिन्काले वै अग्निः उद्वायति उद्वासनं प्राप्नोति उपशाम्यति, तदा असौ अग्निः वायुम् एव अपि एति वायुस्वाभाव्यमपिगच्छति। तथा यदा सूर्यो अस्तम् एति, वायुम् एव अपि एतियदा चन्द्रोऽस्तम् एति वायुम् एव अपि एति
ननु कथं सूर्याचन्द्रमसोः स्वरूपावस्थितयोः वायौ अपिगमनम्?
नैष दोषः, अस्तमने अदर्शनप्राप्तेः वायुनिमित्तत्वात्। वायुना हि अस्तं नीयते सूर्यः, चलनस्य वायुकार्यत्वात्। अथवा प्रलये सूर्याचन्द्रमसोः स्वरूपभ्रंशे तेजोरूपयोर्वायावेव अपिगमनं स्यात्॥
तथा –
यदा आपः उच्छुष्यन्ति उच्छोषम् आप्नुवन्ति, तदा वायुम् एव अपियन्तिवायुः हि यस्माद् एव एतान् अग्न्याद्यान् महाबलान् संवृङ्क्ते, अतो वायुः संवर्ग-गुण उपास्य इत्यर्थः। इति अधिदैवतं देवतासु संवर्ग-दर्शन उक्तम्॥
अथ अनन्तरम् अध्यात्मम् आत्मनि संवर्ग-दर्शनम् इदम् उच्यते। प्राणः मुख्यः वाव संवर्गःसः पुरुषः यदा यस्मिन् काले स्वपिति, तदा प्राणम् एव वाग् अपि एति – वायुम् इव अग्निः। प्राणं चक्षुः प्राणं श्रोत्रं प्राणं मनः प्राणो हि यस्माद् एव एतान् वागादीन् सर्वान् संवृङ्क्ते इति
तौ वै एतौ द्वौ संवर्गौ संवर्जनगुणौ – वायुः एव देवेषु संवर्गः प्राणः प्राणेषु वागादिषु मुख्यः॥
अथ एतयोः स्तुत्यर्थम् इयमाख्यायिका आरभ्यते – इति ऐतिह्यार्थः। शौनकं च शुनकस्यापत्यं शौनकं कापेयं कपिगोत्रम्। अभिप्रतारिणं च नामतः कक्षसेनस्यापत्यं काक्षसेनिम्। भोजनायोपविष्टौ परिविष्यमाणौ सूपकारैः ब्रह्मचारी ब्रह्मविच्छौण्डो बिभिक्षे भिक्षितवान्। ब्रह्मचारिणो ब्रह्मविन्मानितां बुद्ध्वा तं जिज्ञासमानौ तस्मै उ भिक्षां न ददतुः न दत्तवन्तौ ह किम् अयं वक्ष्यति इति॥
स ह उवाच ब्रह्मचारी महात्मनः चतुरः इति द्वितीयाबहुवचनम्। देवः एकः अग्न्यादीन्वायुर्वागादीन्प्राणः। कः सः प्रजापतिः जगार ग्रसितवान्। कः स जागरेति प्रश्नमेके। भुवनस्य भवन्त्यस्मिन्भूतानीति भुवनं भूरादिः सर्वो लोकः तस्य गोपाः गोपायिता रक्षिता गोप्तेत्यर्थः। तं कं प्रजापतिं हे कापेय न अभिपश्यन्ति न जानन्ति मर्त्याः मरणधर्माणोऽविवेकिनो वा हे अभिप्रतारिन् बहुधा अध्यात्माधिदैवताधिभूतप्रकारैः वसन्तम्यस्मै वै एतत् अहन्यहनि अन्नम् अदनायाह्रियते संस्क्रियते च, तस्मै प्रजापतये एतद् अन्नं न दत्तम् इति
तद् उ ह ब्रह्मचारिणो वचनं शौनकः कापेयः प्रतिमन्वानः मनसा आलोचयन् ब्रह्मचारिणं प्रति एयाय आजगाम। गत्वा च आह यं त्वम् अवोचः न अभिपश्यन्ति मर्त्या इति, तं वयं पश्यामः। कथम्? आत्मा सर्वस्य स्थावर-जङ्गमस्य। किञ्च देवानाम् अग्न्यादीनाम् आत्मनि संहृत्य ग्रसित्वा पुनर्जनयिता उत्पादयिता वायु-रूपेण अधिदैवतम् अग्न्यादीनाम्। अध्यात्मं च प्राणरूपेण वागादीनां प्रजानांजनिता। अथवा आत्मा देवानाम् अग्नि-वागादीनां जनिता प्रजानां स्थावर-जंगमानाम्। हिरण्य-दंष्ट्रः अमृत-दंष्ट्रः अभग्नदंष्ट्र इति यावत्। बभसः भक्षणशीलः। अनसूरिः सूरिः मेधावी न सूरिः असूरिः तत्प्रतिषेधोऽनसूरिः सूरिरेवेत्यर्थः। महान्तम् अतिप्रमाणम् अप्रमेयम् अस्य प्रजापतेः महिमानं विभूतिम् आहुः ब्रह्मविदः। यस्मात् स्वयम् अन्यैः अनद्यमानः अभक्ष्यमाणः यद् अन्नम् अग्निवागादि-देवता-रूपम् अत्ति भक्षयति इतिवै इति निरर्थकः। वयं हे ब्रह्मचारिन्, आ इदम् एवं यथोक्त-लक्षणं ब्रह्म वयमा उपास्महे। वयमिति व्यवहितेन सम्बन्धः। अन्ये न वयम् इदम् उपास्महे, किं तर्हि? परमेव ब्रह्म उपास्महे इति वर्णयन्ति। दत्तास्मै भिक्षाम् इति अवोचद् भृत्यान्॥
तस्मा उ ह ददुः ते हि भिक्षाम्। ते वै ये ग्रस्यन्ते अग्न्यादयः यश्च तेषां ग्रसिता वायुः पञ्चअन्ये वागादिभ्यः, तथा अन्ये तेभ्यः पञ्च अध्यात्मं वागादयः प्राणश्च, ते सर्वे दश भवन्ति संख्यया, दश सन्तःतत् कृतं’ भवति ते, चतुरङ्क एकायः एवं चत्वारः, त्र्यङ्कायः एवं त्रयः, अपरे द्व्यङ्कायः एवं द्वौ अन्यौ, एकाङ्कायः एवम् एकोऽन्यः इति। एवं दश सन्तः ‘तत् कृतं’ भवति। यत एवम्, तस्मात् सर्वासु दिक्षु दशसु अपि अग्न्याद्या वागाद्याः च दश-सङ्ख्या-सामान्याद् अन्नम् एव, ‘दशाक्षरा विराट्’ ‘विराड् अन्नम्’ इति हि श्रुतिः। अतोऽन्नमेव, दश-संख्यत्वात्। ततः एव दश कृतं कृतेऽन्तर्भावात् चतुरङ्कायत्वेन इति अवोचाम। सा एषा विराट् दश-सङ्ख्या सती अन्नं च अन्नादी अन्नादिनी च कृतत्वेन। कृते हि दश-सङ्ख्या अन्तर्भूता, अतोऽन्नम् अन्नादिनी च सा। तथा विद्वान् दश-देवतात्म-भूतः सन् विराट्त्वेन दश-संख्यया अन्नं कृत-संख्यया अन्नादी च। तया अन्नान्नादिन्या इदं सर्वं जगत् दश-दिक्-संस्थं दृष्टं कृत-सङ्ख्या-भूतया उपलब्धम्। एवंविदः अस्य सर्वं कृत-सङ्ख्या-भूतस्य दश-दिक्-संबद्धं दृष्टम् उपलब्धं भवति। किञ्च अन्नादःभवति, यः एवं वेद यथोक्त-दर्शी। द्विः अभ्यासः उपासन-समाप्त्यर्थः॥

Go to Top ('Home' key on many Windows browsers)

ChanU.4.04 The Story of Satya-kāma

सर्वं वागादि अग्न्यादि च अन्नान्नादत्व-संस्तुतं जगद्-एकीकृत्य षोडशधा प्रविभज्य तस्मिन् ब्रह्म-दृष्टिः विधातव्येत्यारभ्यते। श्रद्धा-तपसोः ब्रह्मोपासनाङ्गत्व-प्रदर्शनाय आख्यायिका –
सत्यकामः ह नामतः, ह–शब्द ऐतिह्यार्थः, जबालाया अपत्यं जाबालः जबालां स्वां मातरम् आमन्त्रयांचक्रे आमन्त्रितवान्। ब्रह्मचर्यं स्वाध्याय-ग्रहणाय हे भवति विवत्स्यामि आचार्य-कुले, किं-गोत्रः अहं किम् अस्य मम गोत्रं सोऽहं किं-गोत्रो नु अहम् अस्मि इति
एवं पृष्टा जबाला –
सा ह एनं पुत्रम् उवाचन अहम् एतत् तव गोत्रं वेद, हे तात यद्-गोत्रः त्वम् असि। कस्मात् न वेत्सि? इत्युक्ता आह – बहु भर्तृ-गृहे परिचर्याजातमतिथ्यभ्यागतादि चरन्ती अहं परिचारिणी परिचरन्तीति परिचरण-शीला एव अहम्, परिचरण-चित्ततया गोत्रादि-स्मरणे मम मनः न अभूत्। यौवने च तत्काले त्वाम् अलभे लब्धवत्यस्मि। तदा एव ते पितोपरतः। अतोऽनाथा अहम्, सा अहम् एतद् न वेद यद्-गोत्रः त्वम् असिजबाला तु नाम अहम् अस्मि, सत्यकामः नाम त्वम् असि, सः त्वं सत्यकाम एव अहं जाबालः अस्मि इति आचार्याय ब्रवीथाः। यदि आचार्येण पृष्टः इत्यभिप्रायः॥
स ह सत्यकामः हारिद्रुमतं हरिद्रुमतोऽपत्यं हारिद्रुमतं गौतमं गोत्रतः एत्य गत्वा उवाचब्रह्मचर्यं भगवति पूजावति त्वयि वत्स्यामि अतः उपेयाम् उपगच्छेयं शिष्यतया भगवन्तम् इति। उक्तवन्तं तं ह उवाच गौतमः – किं-गोत्रः नु सोम्य असि? इति, विज्ञात-कुल-गोत्रः शिष्य उपनेतव्यः। इति पृष्टः प्रत्याह सत्यकामः। स ह उवाचन अहम् एतद् वेद भोः, यद्-गोत्रोऽहम् अस्मि। किं तु अपृच्छं पृष्टवान् अस्मि मातरम्सा मया पृष्टा मां प्रत्यब्रवीत् माता – बहु अहं चरन्ती-इत्यादि पूर्ववत्। तस्या अहं वचः स्मरामि। सोऽहं सत्यकामः जाबालः अस्मि भोः इति
तं ह उवाच गौतमः – न एतद् वचः अब्राह्मणः विशेषेण वक्तुम् अर्हति आर्जवार्थ-संयुक्तम्। ऋजावो हि ब्राह्मणा न इतरे स्वभावतः। यस्माद् न सत्यात् ब्राह्मण-जाति-धर्मात् अगाः न अपेतवानसि, अतः ब्राह्मणं त्वाम् उपनेष्ये। अतः संस्कारार्थं होमाय समिधं सोम्य आहर, इत्युक्त्वा तम् उपनीय कृशानामबलानां गोयूथाद् निराकृत्य अपकृष्य चतुःशता चत्वारि-शतानि गवाम् उवाचइमाः गाः सोम्य अनुसंव्रज अनुगच्छ। इत्युक्तः ताः अरण्यं प्रति अभिप्रस्थापयन् उवाचन असहस्रेण अपूर्णेन सहस्रेण न आवर्तेय न प्रत्यागच्छेयम्। सः एवम् उक्त्वा गाः अरण्यं तृणोदक-बहुलं द्वन्द्व-रहितं प्रवेश्य स ह वर्षगणं दीर्घं प्रोवास प्रोषितवान्। ताः सम्यग् गावः रक्षिताः यदा यस्मिन् काले सहस्रं संपेदुः संपन्ना बभूवुः॥

Go to Top ('Home' key on many Windows browsers)

ChanU.4.05 Instruction by the Bull

तम् एतं श्रद्धा-तपोभ्यां सिद्धं वायु-देवता दिक्-संबन्धिनी तुष्टा सती ऋषभम् अनुप्रविश्य ऋषभ-भावमापन्ना अनुग्रहाय –
अथ ह एनम् ऋषभः अभ्युवाद अभ्युक्तवान् सत्यकाम३ इति सम्बोध्य। तम् असौ सत्यकामो भगव इति ह प्रतिशुश्राव प्रतिवचनं ददौ। प्राप्ताः सोम्य सहस्रं स्मः, पूर्णा तव प्रतिज्ञा, अतः प्रापय नः अस्मान् आचार्यकुलम्
किञ्च –
अहं ब्रह्मणः परस्य ते तुभ्यं पादं ब्रवाणि कथयानि। इत्युक्तः प्रत्युवाच – ब्रवीतु कथयतु मे मह्यं भगवान्इति उक्तः ऋषभः तस्मै सत्यकामाय ह उवाचप्राची दिक्-कला ब्रह्मणः पादस्य चतुर्थो भागः। तथा प्रतीची दिक्-कला दक्षिणा दिक्-कला उदीची दिक्-कला, एष वै सोम्य ब्रह्मणः पादः चतुष्-कलः चतस्रः कला अवयवा यस्य सोऽयं चतुष्कलः पादो ब्रह्मणः प्रकाशवान् नाम प्रकाशवान् इत्येव नाम अभिधानं यस्य। तथोत्तरेऽपि पादाः त्रयः चतुष्कला ब्रह्मणः॥
सः यः कश्चित् एवं यथोक्तम् एतं ब्रह्मणः चतुष्कलं पादं विद्वान् प्रकाशवान् इति अनेन गुणेन विशिष्टम् उपास्ते, तस्येदं फलम् – प्रकाशवान् अस्मिन् लोके भवति प्रख्यातो भवतीत्यर्थः। तथा अदृष्टं फलम् – प्रकाशवतः ह लोकान् देवादि-सम्बन्धिनः मृतः सन् जयति प्राप्नोति। यः एतम् एवं विद्वान् चतुष्-कलं पादं ब्रह्मणः प्रकाशवान् इति उपास्ते

Go to Top ('Home' key on many Windows browsers)

ChanU.4.06 Instruction by Fire

सः अग्निः ते पादं वक्ता इति उपरराम ऋषभः। सः सत्यकामः ह श्वोभूते परेद्युः नैत्यकं नित्यं कर्म कृत्वा गाः अभिप्रस्थापयांचकार आचार्यकुलं प्रति। ताः शनैश्चरन्त्यः आचार्यकुलाभिमुख्यः प्रस्थिताः यत्र यस्मिन् काले देशे अभि सायं निशाया अभिसंबभूवुः एकत्राभिमुख्यः संभूताः, तत्र अग्निम् उपसमाधाय गाः उपरुध्य समिधम् आधाय पश्चाद् अग्नेः प्राङ्-मुखः उपविवेश ऋषभ-वचो ध्यायन्॥
तम् अग्निः अभ्युवाद सत्यकाम३ इति सम्बोध्य। तम् असौ सत्यकामो भगव इति ह प्रतिशुश्राव प्रतिवचनं ददौ॥
ब्रह्मणः सोम्य ते पादं ब्रवाणीतिब्रवीतु मे भगवान् इति। तस्मै ह उवाच, पृथिवी कला अन्तरिक्षं कला द्यौः कला समुद्रः कला इत्यात्म-गोचरम् एव दर्शनम् अग्निः अब्रवीत्। एष वै सोम्य चतुष्-कलः पादः ब्रह्मणः अनन्तवान् नाम॥
सः यः कश्चित् यथोक्तं पादम् अनन्तवत्त्वेन गुणेन उपास्ते, स तथैव तद्गुणो भवति अस्मिन् लोके, मृतश्च अनन्तवतो ह लोकान् सः जयतियः एतम् एवम् इत्यादि पूर्ववत्॥

Go to Top ('Home' key on many Windows browsers)

ChanU.4.07 Instruction by the Swan

सोऽग्निः हंसः ते पादं वक्ता इति उक्त्वा उपरराम। हंस आदित्यः, शौक्ल्यात् पतन-सामान्यात् च। सः ह श्वोभूते इत्यादि समानम्॥
अग्निः कला सूर्यः कला चन्द्रः कला विद्युत् कला एषः वै सोम्य इति ज्योतिः विषयम् एव च दर्शनं प्रोवाच। अतो हंसस्य आदित्यत्वं प्रतीयते। विद्वत्फलम् – ज्योतिष्मान् दीप्ति-युक्तः अस्मिन् लोके भवति। चन्द्रादित्यादीनां ज्योतिष्मतः एव च मृत्वा लोकान् जयति। समानम् उत्तरम्॥

Go to Top ('Home' key on many Windows browsers)

ChanU.4.08 Instruction by the Diver-Bird

हंसोऽपि मद्गुः ते पादं वक्ता इति उपरराम। मद्गुः उदकचरः पक्षी, सः च अप्संबन्धात् प्राणः। सः ह श्वोभूते इत्यादि पूर्ववत्॥
स च मद्गुः प्राणः स्वविषयम् एव च दर्शनम् उवाच। प्राणः कला इत्यादि। आयतनवान् इत्येवं नाम। आयतनं नाम मनः सर्व-करणोपहृतानां भोगानां तद् यस्मिन् पादे विद्यते इति आयतनवान् नाम पादः॥
तं पादं तथैव उपास्ते यः स आयतनवान् आश्रयवान् अस्मिन् लोके भवतिआयतनवतः एव सावकाशान् लोकान् मृतो जयतियः एतम् एवम् इत्यादि पूर्ववत्॥

Go to Top ('Home' key on many Windows browsers)

ChanU.4.09 Instruction by the Teacher

सः एवं ब्रह्मवित् सन् –
प्राप ह प्राप्तवान् आचार्य-कुलम्तम् आचार्यः अभ्युवाद सत्यकाम३ इतिभगव इति ह प्रतिशुश्राव
ब्रह्मविद् इव वै सोम्य भासि। प्रसन्नेन्द्रियः प्रहसित-वदनः च निश्चिन्तः कृतार्थो ब्रह्मविद् भवति। अतः आह आचार्यो ब्रह्मविद् इव भासि इति। कः नु इति वितर्कयन् उवाच – कः त्वाम् अनुशशास इति। सः च आह सत्यकामः अन्ये मनुष्येभ्यः। देवता माम् अनुशिष्टवत्यः। कोऽन्यो भगवत् शिष्यं मां मनुष्यः सन् अनुशासितुम् उत्सहेतेत्यभिप्रायः। अतोऽन्ये मनुष्येभ्यः इति ह प्रतिजज्ञे प्रतिज्ञातवान्। भगवान् तु एव मे कामे मम इच्छायां ब्रूयात् किम् अन्यैः उक्तेन, न अहं तद् गणयामि इत्यभिप्रायः॥
किञ्च –
श्रुतं हि यस्मात् मम विद्यते एव अस्मिन् अर्थे भगवद्-दृशेभ्यः भगवत्-समेभ्यः ऋषिभ्यः। आचार्याद् ह एव विद्या विदिता साधिष्ठं साधुतमत्वं प्रापति प्राप्नोति। अतः भगवान् एव ब्रूयाद् इत्युक्तः आचार्यः अब्रवीत् तस्मै ताम् एव दैवतैः उक्तां विद्याम्। अत्र ह न किञ्चन षोडश-कल-विद्यायाः किञ्चिद् एक-देशमात्रम् अपि न वीयाय न विगतम् इत्यर्थः। द्विः अभ्यासो विद्या-परिसमाप्त्यर्थः॥

Go to Top ('Home' key on many Windows browsers)

ChanU.4.10 The Story of Upakosala

पुनः ब्रह्म-विद्यां प्रकारान्तरेण वक्ष्यामि इत्यारभते गतिं च तद्-विदः अग्नि-विद्यां च। आख्यायायिका पूर्ववत् श्रद्ध-तपसोः ब्रह्म-विद्या-साधनत्व-प्रदर्शनार्था –
उपकोसलः ह वै नामतः कमलस्य अपत्यं कामलायनः सत्यकामे जाबाले ब्रह्मचर्यम् उवासतस्य ह ऐतिह्यार्थः। तस्य आचार्यस्य द्वादश वर्षाणि अग्नीन् परिचचार अग्नीनां परिचरणं कृतवान्। सः ह स्म आचार्यः अन्यान् ब्रह्मचारिणः स्वाध्यायं ग्राहयित्वा समावर्तयन् तम् एव उपकोसलम् एकं न समावर्तयति स्म ह
तम् आचार्यं जाया उवाचतप्तो ब्रह्मचारी कुशलं सम्यक् अग्नीन् परिचचारीत् परिचरितवान्। भगवांश्च अग्निषु भक्तं न समावर्तयति। अतः ‘अस्मद्भक्तं न समावर्तयति’ इति ज्ञात्वा त्वाम् अग्नयः मा परिप्रवोचन् गर्हां तव मा कुर्युः। अतः प्रब्रूहि अस्मै विद्याम् इष्टाम् उपकोसलाय इतितस्मै एवं जायया उक्तोऽपि ह अप्रोच्य एव अनुक्त्वा एव किञ्चित् प्रवासाञ्चक्रे प्रवसितवान्॥
स ह उपकोसलः व्याधिना मानसेन दुःखेन अनशितुम् अनशनं कर्तुं दध्रे धृतवान्मनः। तं तूष्णीम् अग्न्यागारेऽवस्थितम् आचार्य-जाया उवाच – हे ब्रह्मचारिन् अशान भुङ्क्ष्व, किं नु कस्माद् नु कारणाद् न अश्नासि? इतिस ह उवाचबहवः अनेके अस्मिन् पुरुषे अकृतार्थे प्राकृते कामाः इच्छाः कर्तव्यं प्रति, नाना अत्ययः अतिगमनं येषां व्याधीनां कर्तव्य-चिन्तानां ते नानात्ययाः व्याधयः कर्तव्यता-प्राप्ति-निमित्तानि चित्त-दुःखानि इत्यर्थः। तैः प्रतिपूर्णः अस्मि। अतः न अशिष्यामि इति
उक्त्वा तूष्णींभूते ब्रह्मचारिणि –
अथ ह अग्नयः शुश्रूषया-वर्जिताः कारुण्याविष्टाः सन्तः त्रयोऽपि समूदिरे संभूयोक्तवन्तः – हन्त इदानीम् अस्मै ब्रह्मचारिणे अस्मद्भक्ताय दुःखिताय तपस्विने श्रद्दधानाय सर्वेऽनुशास्मः अनुप्रब्रवाम ब्रह्म-विद्याम्, इति एवं सम्प्रधार्य, तस्मै ह ऊचुः उक्तवन्तः – प्राणः ब्रह्म कं ब्रह्म खं ब्रह्म इति
स ह उवाच ब्रह्मचारी – विजानामि अहं यद् भवद्भिरुक्तं प्रसिद्ध-पदार्थकत्वात् प्राणः ब्रह्म इति, सः यस्मिन् सति जीवनं यदपगमे च न भवति, तस्मिन् वायु-विशेषे लोके रूढः। अतः युक्तं ब्रह्मत्वं तस्य। तेन प्रसिद्ध-पदार्थकत्वाद् विजानामि अहं यत् प्राणः ब्रह्म इति। कं च तु खं च न विजानामि इति
ननु कंखंशब्दयोरपि सुखाकाशविषयत्वेन प्रसिद्धपदार्थकत्वमेव, कस्माद्ब्रह्मचारिणोऽज्ञानम्?
नूनम्, सुखस्य कंशब्दवाच्यस्य क्षणप्रध्वंसित्वात् खंशब्दवाच्यस्य च आकाशस्याचेतनस्य कथं ब्रह्मत्वमिति, मन्यते। कथं च भगवतां वाक्यमप्रमाणं स्यादिति। अतो न विजानामीत्याह।
तम् एवमुक्तवन्तं ब्रह्मचारिणं ते ह अग्नय ऊचुःयद् वाव यदेव वयं कम् अवोचाम, तद् एव खम् आकाशम्, इत्येवं खेन विशेष्यमाणं कं विषयेन्द्रियसंयोगजात्सुखान्निवर्तितं स्यात् – नीलेनेव विशेष्यमाणमुत्पलं रक्तादिभ्यः। यद् एव खम् इत्याकाशमवोचाम, तद् एवकं सुखम् इति जानीहि। एवं च सुखेन विशेष्यमाणं खं भौतिकादचेतनात्खान्निवर्तितं स्यात् – नीलोत्पलवदेव। सुखमाकाशस्थं नेतरल्लौकिकम्, आकाशं च सुखाश्रयं नेतरद्भौतिकमित्यर्थः।
नन्वाकाशं चेत् सुखेन विशेषयितुमिष्टम्, अस्त्वन्यतरदेव विशेषणम् – यद्वाव कं तदेव खम् इति, अतिरिक्तमितरत्। यदेव खं तदेव कमिति पूर्वविशेषणं वा।
ननु सुखाकाशयोरुभयोरपि लौकिकसुखाकाशाभ्यां व्यावृत्तिरिष्टेत्यवोचाम।
सुखेन आकाशे विशेषिते व्यावृत्तिरुभयोरर्थप्राप्तैवेति चेत्,
सत्यमेवम्। किंतु सुखेन विशेषितस्यैव आकाशस्य ध्येयत्वं विहितम्। न त्वाकाशगुणस्य विशेषणस्य शुखस्य ध्येयत्वं विहितं स्यात्, विशेषणोपादानस्य विशेष्यनियन्तृत्वेनैवोपक्षयात्। अतः खेन सुखमपि विशेष्यते ध्येयत्वाय।
कुतश्चैतन्निश्चीयते?
कंशब्दस्यापि ब्रह्मशब्दसम्बन्धात् कं ब्रह्मेति। यदि हि सुखगुणविशिष्टस्य खस्य ध्येयत्वं विवक्षितं स्यात्, कं खं ब्रह्मेति ब्रूयुः अग्नयः प्रथमम्। न चैवमुक्तवन्तः। किं तर्हि? कं ब्रह्म खं ब्रह्मेति। अतः ब्रह्मचारिणो मोहापनयनाय कंखंशब्दयोरितरेतरविशेषणविशेष्यत्वनिर्देशो युक्त एव यद्वाव कमित्यादिः।
तदेतदग्निभिरुक्तं वाक्यार्थमस्मद्बोधाय श्रुतिराह – प्राणं च ह अस्मै ब्रह्माचरिणे, तस्य आकाशः तदाकाशः, प्राणस्य सम्बन्धी आश्रयत्वेन हार्द आकाश इत्यर्थः, सुखगुणवत्त्वनिर्देशात्। तंआकाशं सुखगुणविशिष्टं ब्रह्म तत्स्थं च प्राणं ब्रह्मसंपर्कादेव ब्रह्मेत्युभयं प्राणं च आकाशं समुच्चित्य ब्रह्मणी ऊचुः अग्नय इति॥

Go to Top ('Home' key on many Windows browsers)

ChanU.4.11 Instruction by the Household Fire

संभूयाग्नयः ब्रह्मचारिणे ब्रह्म उक्तवन्तः –
अथ अनन्तरं प्रत्येकं स्वस्व-विषयां विद्यां वक्तुम् आरेभिरे। तत्र आदौ एनं ब्रह्मचारिणं गार्हपत्यः अग्निः अनुशशासपृथिवी अग्निः अन्नम् आदित्यः इति मम एताः चतस्रः तनवः। तत्र यः आदित्ये एषः पुरुषः दृश्यते, सः अहम् अस्मि गार्हपत्योऽग्निः, यश्च गार्हपत्योऽग्निः सः एव अहम् आदित्ये पुरुषः अस्मि इति पुनः परावृत्त्या सः एव अहम् अस्मि इति वचनम्। पृथिव्यन्नयोः इव भोज्यत्व-लक्षणयोः सम्बन्धः न गार्हपत्यादित्ययोः। अत्तृत्व-पक्तृत्व-प्रकाशन-धर्मा अविशिष्टा इत्यतः एकत्वम् एव अनयोः अत्यन्तम्। पृथिव्यन्नयोः तु भोज्यत्वेन आभ्यां सम्बन्धः॥
सः यः कश्चित् एवं यथोक्तं गार्हपत्यम् अग्निम् अन्नान्नादत्वेन चतुर्धा प्रविभक्तम् उपास्ते, स: अपहते विनाशयति पाप-कृत्यां पापं कर्म। लोकी लोकवान् च अस्मदीयेन लोकेन आग्नेयेन तद्वान् भवति यथा वयम्। इह च लोके सर्वं वर्ष-शतम् आयुः एति प्राप्नोति। ज्योक् उज्ज्वलं जीवति नाप्रख्यात इत्येतत्। अस्य अवराः च ते पुरुषाः च अस्य विदुषः सन्तति-जाः इत्यर्थः, न क्षीयन्ते सन्तत्युच्छेदः न भवति इत्यर्थः। किंच तं वयम् उपभुञ्जामः पालयामः अस्मिन् च लोके जीवन्तम् अमुष्मिन् च पर-लोके। यः एतम् एवं विद्वान् उपास्ते, यथोक्तं तस्य एतत् फलम् इत्यर्थः॥

Go to Top ('Home' key on many Windows browsers)

ChanU.4.12 Instruction by the Southern Fire

अथ ह एनम् अन्वाहार्य-पचनः अनुशशास दक्षिणाग्निः – आपः दिशः नक्षत्राणि चन्द्रमा इति एताः मम चतस्रः तनवः चतुर्धा अहम् अन्वाहार्य-पचने आत्मानं प्रविभज्यावस्थितः। तत्र यः एषः चन्द्रमसि पुरुषः दृश्यते, सोऽहमस्मि, सः एव अहम् अस्ति इति पूर्ववत्। अन्न-सम्बन्धात् ज्योतिष्ट्व-सामान्यात् च अन्वाहार्यपचन-चन्द्रमसोः एकत्वं दक्षिण-दिक्-सम्बन्धात् च। अपां नक्षत्राणां च पूर्ववद् अन्नत्वेन एव सम्बन्धः, नक्षत्राणां चन्द्रमसः भोग्यत्व-प्रसिद्धेः। अपाम् अन्नोत्पादकत्वाद् अन्नत्वं दक्षिणाग्नेः – पृथिवीवद् गार्हपत्यस्य। समानम् अन्यत्॥

Go to Top ('Home' key on many Windows browsers)

ChanU.4.13 Instruction by the Āhavanīya Fire

अथ ह एनम् आहवनीयः अनुशशासप्राणः आकाशः द्यौः विद्युद् इति मम अपि एताः चतस्रः तनवः। यः एषः विद्युति पुरुषः दृश्यते, सोऽहम् अस्ति इत्यादि पूर्ववत् सामान्यात्। द्य्वाकाशयोः स्वाश्रयत्वात् विद्युदाहवनीययोः भोग्यत्वेन एव सम्बन्धः। समानम् अन्यत्॥

Go to Top ('Home' key on many Windows browsers)

ChanU.4.14 Dialog between the Teacher and the Pupil

ते पुनः संभूय ऊचुः हउपकोसल एषा सोम्य ते तव अस्मद् विद्या अग्नि-विद्या इत्यर्थः। आत्म-विद्या पूर्वोक्ता प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म इति आचार्यः तु ते गतिं वक्ता विद्या-फल-प्राप्तये इत्युक्त्वा उपरेमुरग्नयः। आजगाम ह अस्य आचार्यः कालेन। तं च शिष्यम् आचार्यः अभ्युवाद उपकोसल३ इति
भगव इति ह प्रतिशुश्रावब्रह्मविदः इव सोम्य ते मुखं प्रसन्नं भातिकोः नु त्वा अनुशशास इति उक्तः प्रत्याह – कः नु मा अनुशिष्यात् अनुशासनं कुर्यात् भोः भगवन् त्वयि प्रोषिते, इति इह अप इव निह्नुते अपनिह्नुते इव इति व्यवहितेन सम्बन्धः, न च अपनिह्नुते, न च यथावदग्निभिः उक्तं ब्रवीति इत्यभिप्रायः। कथम्? इमे अग्नयः मया परिचरिताः उक्तवन्तः नूनम्, यतः त्वां दृष्ट्वा वेपमाना इव ईदृशा दृश्यन्ते पूर्वम् अन्या-दृशाः सन्तः, इति इह अग्नीन् अभ्यूदे अभ्युक्तवान् काक्वा अग्नीन् दर्शयन्। किं नु सोम्य किल ते तुभ्यम् अवोचन् अग्नयः? इति, पृष्टः इत्येवम् इदम् उक्तवन्तः इति एवं ह प्रतिजज्ञे प्रतिज्ञातवान् प्रतीकमात्रं किञ्चित्, न सर्वं यथोक्तम् अग्निभिः उक्तम् अवोचत्।
यतः आह आचार्यः – लोकान् वाव पृथिव्यादीन् हे सोम्य किल ते अवोचन्, न ब्रह्म साकल्येन। अहं तु ते तुभ्यं तद् ब्रह्म यद् इच्छसि त्वं श्रोतुं वक्ष्यामि, शृणु तस्य मया उच्यमानस्य ब्रह्मणः ज्ञान-माहात्म्यम् – यथा पुष्कर-पलाशे पद्म-पत्रे आपः न श्लिष्यन्ते, एवं यथा वक्ष्यामि ब्रह्म, एवं-विदि पापं कर्म न श्लिष्यते न सम्बध्यते इति। एवम् उक्तवति आचार्ये आह उपकोसलः – ब्रवीतु मे भगवान् इतितस्मै ह उवाच आचार्यः॥

Go to Top ('Home' key on many Windows browsers)

ChanU.4.15 Instruction by the Teacher

यः एषोऽक्षिणि पुरुषः दृश्यते निवृत्त-चक्षुर्भिः ब्रह्मचर्यादि-साधन-संपन्नैः शान्तैः विवेकिभिः दृष्टेः द्रष्टा, “चक्षुषः चक्षुः” (KenU.1.2) इत्यादि-श्रुत्यन्तरात्।
ननु अग्निभिः उक्तं वितथम्, यतः आचार्यः तु ते गतिं वक्ता इति गतिमात्रस्य वक्ता इति अवोचन्, भविष्यद्विषयापरिज्ञानं च अग्नीनाम्।
नैष दोषः, सुखाकाशस्य एव अक्षिणि दृश्यते इति द्रष्टुः अनुवादात्।
एषः आत्मा प्राणिनाम् इति ह उवाच एवमुक्तवान्। एतत् यद् एव आत्म-तत्त्वम् अवोचाम, एतद् अमृतम् अमरण-धर्मि अविनाशि। अतः एव अभयम्, यस्य हि विनाशाशङ्का तस्य भयोपपत्तिः तदभावाद् अभयम्। अतः एव एतद् ब्रह्म बृहद् अनन्तम् इति। किञ्च, अस्य ब्रह्मणः अक्षि-पुरुषस्य माहात्म्यम् – तत् तत्र पुरुषस्य स्थाने अक्षिणि यद्यपि अस्मिन् सर्पिः वा उदकं वा सिञ्चति, वर्त्मनी एव गच्छति पक्ष्मावेव गच्छति। न चक्षुषा सम्बध्यते – पद्म-पत्रेण इव उदकम्। स्थानस्य अपि एतद् माहात्म्यम्, किं पुनः स्थानिनोऽक्षि-पुरुषस्य निरञ्जनत्वं वक्तव्यम् इत्यभिप्रायः॥
एतं यथोक्तं पुरुषं संयद्वाम इति आचक्षते। कस्मात्? यस्माद् एतं सर्वाणि वामानि वननीयानि सम्भजनीयानि शोभनानि अभिसंयन्ति अभिसंगच्छन्ति इति अतः संयद्वामः। तथा एवं-विदम् एनं सर्वाणि वामानि अभिसंयन्ति यः एवं वेद
एषः उ एव वामनीः, यस्मादेष हि सर्वाणि वामानि पुण्य-कर्म-फलानि पुण्यानुरूपं प्राणिभ्यो नयति प्रापयति वहति च आत्म-धर्मत्वेन। विदुषः फलम् – सर्वाणि वामानि नयति य एवं वेद
एषः उ एव भामनीः, एषः हि यस्मात् सर्वेषु लोकेषु आदित्य-चन्द्राग्न्यादि-रूपैः भाति दीप्यते, “तस्य भासा सर्वम् इदं विभाति” (MunU.2.2.10) इति श्रुतेः। अतः भामानि नयतीति भामनीः। यः एवं वेद, असौ अपि सर्वेषु लोकेषु भाति
अथ इदानीं यथोक्त-ब्रह्मविदः गतिरुच्यते। यत् यदि उ च एव अस्मिन् एवं-विदि शव्यं शव-कर्म मृते कुर्वन्ति, यदि च न कुर्वन्ति ऋत्विजः, सर्वथाप्येवंवित् तेन शव-कर्मणा अकृतेनापि प्रतिबद्धो न ब्रह्म न प्राप्नोति। न च कृतेन शव-कर्मणा अस्य कश्चनाभ्यधिको लोकः, “न कर्मणा वर्धते नो कनीयान्” (BrhU.4.4.23) इति श्रुत्यन्तरात्। शव-कर्मण्यनादरं दर्शयन् विद्यां स्तौति, न पुनः शव-कर्म एवंविदः न कर्तव्यमिति। अक्रियमाणे हि शव-कर्मणि कर्मणां फलारम्भे प्रतिबन्धः कश्चिदनुमीयतेऽन्यत्र। यत इह विद्या-फलारंभकाले शव-कर्म स्याद्वा न वेति विद्यावतः अप्रतिबन्धेन फलारम्भं दर्शयति।
ये सुखाकाशमक्षिस्थं संयद्वामो वामनीर्भामनीरित्येवंगुणमुपासते प्राणसहितामग्निविद्यां च, तेषामन्यत्कर्म भवतु मा वा भूत् सर्वथा अपि ते अर्चिषम् एव अभिसम्भवन्ति अर्चिः अभिमानिनीं देवताम् अभिसम्भवन्ति प्रतिपद्यन्ते इत्यर्थः। अर्चिषः अर्चिर्देवताया अहः अहः अभिमानिनीं देवताम्, अह्नः आपूर्यमाण-पक्षं शुक्ल-पक्ष-देवताम्, आपूर्यमाण-पक्षात् यान् षाण्-मासान् उदङ् उत्तरां दिशम् एति सविता तान् मासान् उत्तरायण-देवताम्, तेभ्यो मासेभ्यः संवत्सरं संवत्सर-देवताम्, ततः संवत्सराद् आदित्यम्, आदित्यात् चन्द्रमसम्, चन्द्रमसः विद्युतम्तत् तत्र-स्थान् तान् पुरुषः कश्चिद् ब्रह्मलोकादेत्य अमानवः मानव्यां सृष्टौ भवः मानवः न मानवः अमानवः सः पुरुषः एनान् ब्रह्म सत्य-लोकस्थं गमयति गन्तृ-गन्तव्य-गमयितृत्व-व्यपदेशेभ्यः, सन्मात्र-ब्रह्म-प्राप्तौ तदनुपपत्तेः। “ब्रह्म एव सन् ब्रह्म अपि एति” (BrhU.4.4.6) इति हि तत्र वक्तुं न्याय्यम्। सर्व-भेद-निरासेन सन्मात्र-प्रतिपत्तिं वक्ष्यति। न च अदृष्टो मार्गोऽगमनायोपतिष्ठते, “स एनम् अविदितो न भुनक्ति” (BrhU.1.4.15) इति श्रुत्यन्तरात्। एष देव-पथः देवैः अर्चिरादिभिः गमयितृत्वेन अधिकृतैः उपलक्षितः पन्था देव-पथ उच्यते। ब्रह्म गन्तव्यं तेन च उपलक्षिते इति ब्रह्म-पथःएतेन प्रतिपद्यमानाः गच्छन्तो ब्रह्म इमं मानवं मनु-सम्बन्धिनं मनोः सृष्टि-लक्षणम् आवर्तं न आवर्तन्ते। आवर्तन्तेऽस्मिन् जनन-मरण-प्रबन्ध-चक्रारूढा घटीयन्त्रवत् पुनः पुनः इति आवर्तः तं न प्रतिपद्यन्ते। न आवर्तन्ते इति द्विः उक्तिः सफलाया विद्यायाः परिसमाप्ति-प्रदर्शनार्था॥

Go to Top ('Home' key on many Windows browsers)

ChanU.4.16 The Silence of the Brahman Priest

रहस्य-प्रकरणे प्रसङ्गात् आरण्यकत्व-सामान्यात् च यज्ञे क्षत उत्पन्ने व्याहृतयः प्रायश्चित्तार्था विधातव्याः, तदभिज्ञस्य च ऋत्विजो ब्रह्मणो मौनम् इति अतः इदम् आरभ्यते –
एषः ह वै एषः वायुः यः अयं पवते अयं यज्ञः। ह वै इति प्रसिद्धार्थावद्योतकौ निपातौ। वायु-प्रतिष्ठो हि यज्ञः प्रसिद्धः श्रुतिषु, “स्वाहरा वातेधाः” (YajVeda.2.21, 8.21) “अयं वै यज्ञो योऽयं पवते” (AitBr.25.8) इत्यादि-श्रुतिभ्यः। वातः एव हि चलनात्मकत्वात् क्रिया-समवायी, ‘वातः एव यज्ञस्य आरंभकः वातः प्रतिष्ठा’ इति च श्रवणात्। एषः ह यन् गच्छन् चलन् इदं सर्वं जगत् पुनाति पावयति शोधयति। न हि अचलतः शुद्धिः अस्ति। दोष-निरसनं चलतो हि दृष्टं न स्थिरस्य। यत् यस्मात् च यन् एषः इदं सर्वं पुनाति, तस्माद् एषः एव यज्ञः यत् पुनाति इति।
तस्य अस्य एवं विशिष्टस्य यज्ञस्य वाक् च मन्त्रोच्चारणे व्यापृता, मनः च यथा-भूतार्थ-ज्ञाने व्यापृतम्, ते एते वाङ्-मनसे वर्तनी मार्गौ, याभ्यां यज्ञस्तायमानः प्रवर्तते ते वर्तनी। “प्राणापान-परिचलनवत्या हि वाचः चित्तस्य च उत्तरोत्तर-क्रमो यद् यज्ञः” (AitAr.2.3) इति हि श्रुत्यन्तरम्। अतो वाङ्-मनसाभ्यां यज्ञो वर्तते इति वाङ्-मनसे वर्तनी उच्येते यज्ञस्य॥
तयोः वर्तन्योः अन्यतरां वर्तनीं मनसा विवेक-ज्ञानवता संस्करोति ब्रह्मा ऋत्विक्, वाचा वर्तन्या होता अध्वर्युः उद्गाता इति एते त्रयोऽपि ऋत्विजः अन्यतरां वाग्-लक्षणां वर्तनीं वाचा एव संस्कुर्वन्ति। तत्र एवं सति वाङ्-मनसे वर्तनी संस्कार्ये यज्ञे।
अथ सः ब्रह्मा यत्र यस्मिन् काले उपाकृते प्रारब्धे प्रातर्-अनुवाके शस्त्रे, पुरा पूर्वं परिधानीयायाः ऋचः ब्रह्मा एतस्मिन् अन्तरे काले व्यववदति मौनं परित्यजति यदि, तदा अन्यतराम् एव वाग् वर्तनीं संस्करोति। ब्रह्मणा संस्क्रियमाणा मनोवर्तनी हीयते विनश्यति छिद्रीभवति अन्यतरा। सः यज्ञः वाग्वर्तनी एव अन्यतरया वर्तितुम् अशक्नुवन् रिष्यति। कथम् इव? इति आह – सः यथा एकपात् पुरुषः व्रजन् गच्छन् अध्वानं रिष्यति, रथः वा एकेन चक्रेण वर्तमानः गच्छन् रिष्यति, एवम् अस्य यजमानस्य कु-ब्रह्मणा यज्ञः रिष्यति विनश्यति। यज्ञं रिष्यन्तं यजमानः अनुरिष्यति। यज्ञ-प्राणः हि यजमानः। अतः युक्तः यज्ञः एषे रेषः तस्य। सः तं यज्ञम् इष्ट्वा तादृशं पापीयान् पापतरः भवति
अथ पुनः यत्र ब्रह्मा विद्वान् मौनं परिगृह्य वाग्विसर्गम् अकुर्वन् वर्तते यावत् परिधानीयायाः न व्यववदति, तथा एव सर्वर्त्विजः, उभे एव वर्तनी संस्कुर्वन्ति न हीयते अन्यतरा अपि। किम् इव? इति आह पूर्वोक्त-विपरीतौ दृष्टान्तौ। एवम् अस्य यजमानस्य यज्ञः स्व-वर्तनीभ्यां वर्तमानः प्रतितिष्ठति स्वेन आत्मना अविनश्यन् वर्तते इत्यर्थः। यज्ञं प्रतितिष्ठन्तं यजमानः अनुप्रतितिष्ठतिसः यजमानः एवं मौन-विज्ञानवद्-ब्रह्मोपेतं यज्ञम् इष्ट्वा श्रेयान् भवति श्रेष्ठः भवति इत्यर्थः॥

Go to Top ('Home' key on many Windows browsers)

ChanU.4.17 Penances for Mistakes in the Sacrifice

अत्र ब्रह्मणो मौनं विहितम्, तद्-रेषे ब्रह्मत्व-कर्मणि च अथ अन्यस्मिन् च हौत्रादि-कर्म-रेषे व्याहृति-होमः प्रायश्चित्तम् इति तदर्थं व्याहृतयः विधातव्याः इत्याह –
प्रजापतिः लोकान् अभ्यतपत् लोकान् उद्दिश्य तत्र सार-जिघृक्षया ध्यान-लक्षणं तपश्चचार। तेषां तप्यमानानां लोकानां रसान् सार-रूपान् प्रावृहत् उद्धृतवान् जग्राहेत्यर्थः। कान्? अग्निं रसं पृथिव्याः, वायुम् अन्तरिक्षात्, आदित्यं दिवः
पुनः अपि एवम् एव अग्न्याद्याः सः एताः तिस्रः देवताः उद्दिश्य अभ्यतपत्। ततः अपि सारं रसं त्रयी-विद्यां जग्राह॥
सः एतां पुनः अभ्यतपत् त्रयीं विद्याम्तस्याः तप्यमानायाः रसं भूर् इति व्याहृतिम् ऋग्भ्यः जग्राह। भुवर् इति व्याहृतिं यजुर्भ्यःस्वर् इति व्याहृतिं सामभ्यः। अतः एव लोक-देव-वेद-रसा महा-व्याहृतयः। अतः तत् तत्र यज्ञे यदि ऋक्तः ऋक्संबन्धादृङ्निमित्तं रिष्येत् यज्ञः क्षतं प्राप्नुयात्, भूः स्वाहा इति गार्हपत्ये जुहुयात्। सा तत्र प्रायश्चित्तिः। कथम्? ऋचाम् एव, तद् इति क्रिया-विशेषणम्, रसेन ऋचां वीर्येण ओजसा ऋचां यज्ञस्य ऋक्-संबन्धिनो यज्ञस्य विरिष्टं विच्छिन्नं क्षत-रूपम् उत्पन्नं संदधाति प्रतिसंधत्ते॥
अथ यदि यजुष्टः यजुर्-निमित्तं रिष्येत्, भुवः स्वाहा इति दक्षिणाग्नौ जुहुयात्। तथा साम-निमित्ते रेषे स्वः स्वाहा इति आहवनीये जुहुयात्। तथा पूर्ववद् यज्ञं संदधाति। ब्रह्म-निमित्ते तु रेषे त्रिषु अग्निषु तिसृभिः व्याहृतिभिः जुहुयात्। त्रय्या हि विद्यायाः सः रेषः, ‘अथ केन ब्रह्मत्वम् इति अनया एव त्रय्या विद्यया’ इति श्रुतेः। न्यायान्तरं वा मृग्यं ब्रह्मत्व-निमित्ते रेषे॥
तद् यथा लवणेन सुवर्णं संदध्यात्। क्षारेण टङ्कणादिना खरे मृदुत्व-करं हि तत्। सुवर्णेन रजतम् अशक्य-संधानं संदध्यात्। रजतेन तथा त्रपु, त्रपुणा सीसम्, सीसेन लोहम्, लोहेन दारु, दारु चर्मणा चर्म-बन्धनेन। एवम् एषां लोकानाम् आसां देवतानाम् अस्याः त्रय्याः विद्यायाः वीर्येण रसाख्येन ओजसा यज्ञस्य विरिष्टं संदधातिभेषज-कृतो ह वा एषः यज्ञः – रोगार्त इव पुमान् चिकित्सकेन सुशिक्षितेन एषः यज्ञः भवति। कोऽसौ? यत्र यस्मिन् यज्ञे एवंवित् यथोक्त-व्याहृति-होम-प्रायश्चित्तवित् ब्रह्मा ऋत्विग् भवति सः यज्ञः इत्यर्थः॥
किंच –
एषः ह वै उदक्प्रवणः उदङ्-निम्नः दक्षिणोच्छ्रायः यज्ञः भवति। उत्तर-मार्ग-प्रतिपत्ति-हेतुः इत्यर्थः। यत्र एवंविद् ब्रह्मा भवतिएवंविदं ह वै ब्रह्माणम् ऋत्विजं प्रति एषा अनुगाथा ब्रह्मणः स्तुति-परा – यतः यतः आवर्तते कर्म प्रदेशात् ऋत्विजां यज्ञः क्षतीभवन्, तत् तद् यज्ञस्य क्षत-रूपं प्रतिसंदधत् प्रायश्चित्तेन गच्छति परिपालयति इत्येतत्॥
मानवः ब्रह्मा मौनाचरणाद् मननाद् वा ज्ञानवत्त्वात्। ततः ब्रह्म एव एकः ऋत्विक् कुरून् कर्तॄन् – योद्धॄन् आरूढान् अश्वाः बडवाः यथा अभिरक्षति, एवंवित् ह वै ब्रह्मा यज्ञं यजमानं सर्वान् च ऋत्विजः अभिरक्षति, तत्-कृत-दोषापनयनात्। यतः एवं विशिष्टो ब्रह्मा विद्वान्, तस्माद् एवंविदम् एव यथोक्त-व्याहृत्यादि-विदं ब्रह्माणं कुर्वीत, नाना एवंविदं कदाचन इति। द्विः अभ्यासः अध्याय-परिसमाप्त्यर्थः॥

Go to Top ('Home' key on many Windows browsers)

kh.5.01 kh.5.02 kh.5.03 kh.5.04 kh.5.05 kh.5.06 kh.5.07 kh.5.08 kh.5.09 kh.5.10 kh.5.11 kh.5.12 kh.5.13 kh.5.14 kh.5.15 kh.5.16 kh.5.17 kh.5.18 kh.5.19 kh.5.20 kh.5.21 kh.5.22 kh.5.23 kh.5.24

सगुण-ब्रह्म-विद्याया उत्तरा गतिः उक्ता। अथ इदानीं पञ्चमेऽध्याये पञ्चाग्नि-विदो गृहस्थस्य ऊर्ध्व-रेतसां च श्रद्धालूनां विद्यान्तर-शीलिनां ताम् एव गतिमनूद्य अन्या दक्षिण-दिक्-संबन्धिनी केवल-कर्मिणां धूमादि-लक्षणा, पुनरावृत्ति-रूपा तृतीया च ततः कष्टतरा संसार-गतिः, वैराग्य-हेतोः वक्तव्येत्यारभ्यते। प्राणः श्रेष्ठः वागादिभ्यः प्राणः वाव संवर्ग इत्यादि च बहुशः अतीते ग्रन्थे प्राण-ग्रहणं कृतम्, स कथं श्रेष्ठः वागादिषु सर्वैः संहत्य-कारित्वाविशेषे, कथं च तस्य उपासनम् इति तस्य श्रेष्ठत्वादि-गुण-विधित्सया इदम् अनन्तरम् आरभ्यते –

Go to Top ('Home' key on many Windows browsers)

ChanU.5.01 The Supremacy of the Prāṇa

यः ह वै कश्चित् ज्येष्ठं च प्रथमं वयसा श्रेष्ठं च गुणैः अभ्यधिकं वेद, सः ज्येष्ठः च ह वै श्रेष्ठः च भवति। फलेन पुरुषं प्रलोभ्याभिमुखीकृत्य आह – प्राणः वाव ज्येष्ठः च वयसा वागादिभ्यः। गर्भस्थे हि पुरुषे प्राणस्य वृत्तिः वागादिभ्यः पूर्वं लब्धात्मिका भवति, यया गर्भः विवर्धते। चक्षुरादि-स्थानावयव-निष्पत्तौ सत्यां पश्चाद् वागादीनां वृत्ति-लाभ इति प्राणः ज्येष्ठः वयसा भवति। श्रेष्ठत्वं तु प्रतिपादयिष्यति – ‘सुहय’ इत्यादि-निदर्शनेन। अतः प्राण एव ज्येष्ठः च श्रेष्ठः च अस्मिन् कार्य-करण-संघाते॥
यः ह वै वसिष्ठं वसितृतमम् आच्छादयितृतमं वसुमत्तमं वा यः वेद, सः तथा एव वसिष्ठः ह भवति स्वानां ज्ञातीनाम्। कः तर्हि वसिष्ठः इति, आह – वाग् वाव वसिष्ठः, वाग्मिनः हि पुरुषा वसन्ति अभिभवन्ति अन्यान् वसुमत्तमाः च, अतः वाग् वसिष्ठः॥
यः ह वै प्रतिष्ठां वेद, सः अस्मिन् लोके अमुष्मिन् च परे प्रतितिष्ठति ह। का तर्हि प्रतिष्ठेति, आह – चक्षुः वाव प्रतिष्ठा। चक्षुषा हि पश्यन् समे च दुर्गे च प्रतितिष्ठति यस्मात्, अतः प्रतिष्ठा चक्षुः॥
यः ह वै संपदं वेद, तस्मै अस्मै दैवाः च मानुषाः च कामाः संपद्यन्ते ह। का तर्हि संपदिति? आह – श्रोत्रं वाव संपत्। यस्मात् श्रोत्रेण वेदाः गृह्यन्ते तद्-अर्थ-विज्ञानं च, ततः कर्माणि क्रियन्ते ततः काम-संपदित्येवम्, काम-संपद्धेतुत्वात् श्रोत्रं वाव संपत्॥
यः ह वै आयतनं वेद, आयतनं ह स्वानां भवति इत्यर्थः। किं तद् आयतनम्? इति आह – मनः ह वै आयतनम्। इन्द्रियोपहृतानां विषयाणां भोक्त्रर्थानां प्रत्यय-रूपाणां मनः आयतनम् आश्रयः। अतः मनः ह वै आयतनम् इत्युक्तम्॥
अथ ह प्राणाः एवं यथोक्त-गुणाः सन्तः अहं श्रेयसि अहं श्रेयान् अस्मि अहं श्रेयान् अस्मि इति एतस्मिन् प्रयोजने व्यूदिरे नाना विरुद्धं च ऊदिरे उक्तवन्तः॥
ते ह ते ह एवं विवदमानाः आत्मनः श्रेष्ठत्व-विज्ञानाय प्रजापतिं पितरं जनयितारं कंचिद् एत्य ऊचुः उक्तवन्तः – हे भगवन् कः नः अस्माकं मध्ये श्रेष्ठः अभ्यधिकः गुणैः? इति एवं पृष्टवन्तः। तान् पिता उवाच हयस्मिन् वः युष्माकं मध्ये उत्क्रान्ते शरीरम् इदं पापिष्ठ इव अतिशयेन जीवतः अपि समुत्क्रान्त-प्राणं ततः अपि पापिष्ठतरम् इव अतिशयेन दृश्येत कुणपम् अस्पृश्यम् अशुचिं दृश्येत, सः वः युष्माकं श्रेष्ठः इति अवोचत् काक्वा तद् दुःखं परिजिहीर्षुः॥
तथा उक्तेषु पित्रा प्राणेषु –
सा ह वाक् उच्चक्राम उत्क्रान्तवती। सा च उत्क्रम्य संवत्सर-मात्रं प्रोष्य स्व-व्यापारान् निवृत्ता सती पुनः पर्येत्य इतरान् प्राणान् उवाचकथं केन प्रकारेण अशकत शक्तवन्तः यूयं मदृते मां विना जीवितुं धारयितुम् आत्मानम् इति। ते ह ऊचुः – यथा कलाः इत्यादि, कलाः मूकाः यथा लोके अवदन्तः वाचा जीवन्ति। कथम्? प्राणन्तः प्राणेन पश्यन्तः चक्षुषा शृण्वन्तः श्रोत्रेण ध्यायन्तः मनसा, एवं सर्व-करण-चेष्टां कुर्वन्ते इत्यर्थः। एवं वयम् अजीविष्म इत्यर्थः। आत्मनः अश्रेष्ठतां प्राणेषु बुद्ध्वा प्रविवेश ह वाक् पुनः स्व-व्यापारे प्रवृत्ता बभूव इत्यर्थः।
समानम् अन्यत् चक्षुः ह उच्च-क्राम श्रोत्रं ह उच्च-क्राम मनः ह उच्च-क्राम इत्यादि। यथा बाला अमनसः अप्ररूढ-मनसः इत्यर्थः॥
एवं परीक्षितेषु वागादिषु –
अथ अनन्तरं ह सः मुख्यः प्राणः उच्चि-क्रमिषन् उत्क्रमितुम् इच्छन् किम् करोत्? इति उच्यते – यथा लोके सुहयः शोभनोऽश्वः पड्-वीश-शङ्कून् पाद-बन्धन-कीलान् परीक्षणाय आरूढेन कशया हतः सन् संखिदेत् समुत्खनेत् समुत्पाटयेत्, एवम् इतरान् वागादीन् प्राणान् समखिदत् समुद्धृतवान्। ते प्राणाः संचालिताः सन्तः स्वस्थाने स्थातुम् अनुत्सहमानाः अभिसमेत्य मुख्यं प्राणं तम् ऊचुः – हे भगवन् एधि भव नः स्वामी, यस्मात् त्वं नः अस्माकं श्रेष्ठः असिमा च अस्माद् देहाद् उत्क्रमीः इति
अथ ह एनं वाग्-आदयः प्राणस्य श्रेष्ठत्वं कार्येण आपादयन्तः आहुः – बलिम् इव हरन्तः राज्ञे विशः। कथम्? वाक् तावद् उवाच – यद् अहं वसिष्ठः अस्मि, यद् इति क्रिया-विशेषणम्, यद् वसिष्ठत्व-गुणास्मि इत्यर्थः। त्वं तद्-वसिष्ठः तेन वसिष्ठत्व-गुणेन त्वं तद् वसिष्ठः असि तद्-गुणः त्वम् इत्यर्थः। अथवा तद्-शब्दः अपि क्रियाविशेषणम् एव। त्वत्-कृतः त्वदीयः असौ वसिष्ठत्व-गुणः अज्ञानात् मम इति मया अभिमतः इत्येतत्। तथा उत्तरेषु योज्यं चक्षुः-श्रोत्र-मनःसु॥
श्रुतेः इदं वचः – युक्तम् इदं वागादिभिः मुख्यं प्राणं प्रत्यभिहितम्। यस्मात् –
न वै लोके वाचः न चक्षूंषि न श्रोत्राणि न मनांसि इति वागादीनि करणानि आचक्षते लौकिकाः आगमज्ञाः वा। किं तर्हि? प्राणाः इति एव आचक्षते कथयन्ति। यस्मात् प्राणः हि एव एतानि सर्वाणि वागादीनि करण-जातानि भवति। अतः मुख्यं प्राणं प्रत्यनुरूपम् एव वागादिभिः उक्तम् इति प्रकरणार्थ उपसंजिहीर्षति।
ननु कथमिदं युक्तं चेतनावन्त इव पुरुषा अहंश्रेष्ठतायै विवदन्तः अन्योन्यं स्पर्धेरन्निति। न हि चक्षुरादीनां वाचं प्रत्याख्याय प्रत्येकं वदनं सम्भवति। तथा अपगमो देहात् पुनः प्रवेशो ब्रह्मगमनं प्राणस्तुतिर्वोपपद्यते।
तत्र अग्न्यादिचेतनावद्देवताधिष्ठितत्वात् वागादीनां चेतनावत्त्वं तावत् सिद्धमागमतः।
तार्किकसमयविरोध इति चेत् देहे एकस्मिन्ननेकचेतनावत्त्वे।
न, ईश्वरस्य निमित्तकारणत्वाभ्युपगमात्। ये तावदीश्वरमभ्युपगच्छन्ति तार्किकाः, ते मनआदिकार्यकरणानामाध्यात्मिकानां बाह्यानां च पृथिव्यादीनामीश्वराधिष्ठितानामेव नियमेन प्रवृत्तिमिच्छन्ति – रथादिवत्। न च अस्माभिः अग्न्याद्याश्चेतनावत्योऽपि देवता अध्यात्मं भोक्त्र्यः अभ्युपगम्यन्ते। किं तर्हि, कार्यकरणवतीनां हि तासां प्राणैकदेवता-भेदानाम् अध्यात्माधिभूताधिदैव-भेद-कोटि-विकल्पानाम् अध्यक्षतामात्रेण नियन्ता ईश्वरोऽभ्युपगम्यते। स ह्यकरणः, “अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः” (SvetU.3.19) इत्यादिमन्त्रवर्णात्। “हिरण्यगर्भं पश्यत जायमानम्” (SvetU.4.12) “हिरण्यगर्भं जनयामास पूर्वम्” (SvetU.3.4) इत्यादि च श्वेताश्वतरीयाः पठन्ति। भोक्ता कर्मफलसम्बन्धी देहे तद्विलक्षणो जीव इति वक्ष्यामः। वागादीनां च इह संवादः कल्पितः विदुषोऽन्वयव्यतिरेकाभ्यां प्राणश्रेष्ठतानिर्धारणार्थम्– यथा लोके पुरुषा अन्योन्यमात्मनः श्रेष्ठतायै विवदमानाः कंचिद्गुणविशेषाभिज्ञं पृच्छन्ति को नः श्रेष्ठो गुणैरिति। तेनोक्ता ऐकैकश्येन अदः कार्यं साधयितुमुद्यच्छत, येनादः कार्यं साध्यते, स वः श्रेष्ठः – इत्युक्ताः तथैवोद्यच्छन्तः आत्मनोऽन्यस्य वा श्रेष्ठतां निर्धारयन्ति – तथेमं संव्यवहारं वागादिषु कल्पितवती श्रुतिः – कथं नाम विद्वान् वागादीनामेकैकस्याभावेऽपि जीवनं दृष्टं न तु प्राणस्येति प्राणश्रेष्ठतां प्रतिपद्येतेति। तथा च श्रुतिः कौषीतकिनाम् – “जीवति वागपेतो मूकान्हि पश्यामो जीवति चक्षुरपेतोऽन्धान्हि पश्यामो जीवति श्रोत्रापेतो बधिरान्हि पश्यामो जीवति मनोपेतो बालान्हि पश्यामो जीवति बाहुच्छिन्नो जीवत्यूरुच्छिन्नः” (KausUp.3.3) इत्याद्या॥

Go to Top ('Home' key on many Windows browsers)

ChanU.5.02 The Mantha Rite

सः ह उवाच मुख्यः प्राणः – किं मे अन्नं भविष्यति इति। मुख्यं प्राणं प्रष्टारम् इव कल्पयित्वा वागादीन् प्रतिवक्तॄन् इव कल्पयन्ती श्रुतिः आह – यद् इदं लोके अन्न-जातं प्रसिद्धम् आ श्वभ्यः श्वभिः सह आ शकुनिभ्यः सह शकुनिभिः सर्व-प्राणिनां यद् अन्नम्, तत् तव अन्नम् इति ह ऊचुः वागादयः इति। प्राणस्य सर्वम् अन्नं प्राणः अत्ता सर्वस्य अन्नस्य इत्येवं प्रतिपत्तये कल्पिताख्यायिका-रूपाद् व्यावृत्य स्वेन श्रुति-रूपेण आह – तद् वै एतत् यत्किंचित् लोके प्राणिभिः अन्नम् अद्यते, अनस्य प्राणस्य तद् अन्नं प्राणेन एव तद् अद्यत इत्यर्थः। सर्व-प्रकार-चेष्टा-व्याप्ति-गुण-प्रदर्शनार्थम् अनः इति प्राणस्य प्रत्यक्षं नाम। प्राद्युपसर्ग-पूर्वत्वे हि विशेष-गतिः एव स्यात्। तथा च सर्वान्नानाम् अत्तुः नाम-ग्रहणम् इति इदं प्रत्यक्षं नाम अनः इति सर्वान्नानाम् अत्तुः साक्षाद् अभिधानम्। न ह वै एवं-विदि यथोक्त-प्राणविदि प्राणः अहम् अस्मि सर्व-भूतस्थः सर्वान्नानाम् अत्ता इति, तस्मिन् एवं-विदि ह वै किञ्चन किञ्चिद् अपि प्राणिभिः अद्यं सर्वैः अनन्नम् अनद्यं न भवति, सर्वम् एवं-विदि अन्नं भवति इत्यर्थः, प्राण-भूतत्वाद् विदुषः,‘प्राणाद् वा एष उदेति प्राणे अस्तम् एति’ इति उपक्रम्य ‘एवं-विदः ह वै उदेति सूर्यः एवं-विदि अस्तम् एति’ इति श्रुत्यन्तरात्॥
सः ह उवाच पुनः प्राणः – पूर्ववद् एव कल्पना। किं मे वासः भविष्यति इतिआपः इति ह ऊचुः वागादयः। यस्मात् प्राणस्य वासः आपः, तस्माद् वा एतद् अशिष्यन्तः भोक्ष्यमाणाः भुक्तवन्तः च ब्राह्मणाः विद्वांसः एतत् कुर्वन्ति। किम्? अद्भिः वास-स्थानीयाभिः पुरस्तात् भोजनात् पूर्वम् उपरिष्टात् च भोजनाद् ऊर्ध्वं च परिदधति परिधानं कुर्वन्ति मुख्यस्य प्राणस्य। लम्भुकः लंभन-शीलः वासः ह भवति। वाससः लब्धैव भवति इत्यर्थः। अनग्नः ह भवति। वाससः लम्भुकत्वेन अर्थ-सिद्धैव अनग्नता इति अनग्नः ह भवति इति उत्तरीयवान् भवति इत्येतत्।
भोक्ष्यमाणस्य भुक्तवतश्च यद् आचमनं शुद्ध्यर्थं विज्ञातम्, तस्मिन् प्राणस्य वास इति दर्शनमात्रम् इह विधीयते – अद्भिः परिदधति इति। न आचमनान्तरम् – यथा लौकिकैः प्राणिभिरद्यमानमन्नं प्राणस्य इति दर्शनमात्रम्, तद्वत्। किं मेऽन्नम्? किं मे वासः? इत्यादि-प्रश्न-प्रतिवचनयोः तुल्यत्वात्। यदि आचमनम् अपूर्वं तादर्थ्येन क्रियेत, तदा कृम्याद्यन्नम् अपि प्राणस्य भक्ष्यत्वेन विहितं स्यात्। तुल्ययोः विज्ञानार्थयोः प्रश्न-प्रतिवचनयोः प्रकरणस्य विज्ञानार्थत्वाद् अर्ध-जरतीयः न्यायः न युक्तः कल्पयितुम्।
यत् तु प्रसिद्धम् आचमनं प्रायत्यार्थं प्राणस्य अनग्नतार्थं च न भवति इत्युच्यते, न तथा वय आचमनम् उभयार्थं ब्रूमः। किं तर्हि, प्रायत्यार्थाचमन-साधन-भूता आपः प्राणस्य वासः इति दर्शनं चोद्यत इति ब्रूमः। तत्र आचमनस्य उभयार्थत्व-प्रसङ्ग-दोष-चोदना अनुपपन्ना। वासः अर्थ एव आचमने तद्दर्शनं स्याद् इति चेत्?
न, वासोज्ञानार्थवाक्ये वासोर्थापूर्वाचमन-विधाने तत्र अनग्नतार्थत्व-दृष्टि-विधाने च वाक्य-भेदः। आचमनस्य तदर्थत्वम् अन्यार्थत्वं च इति प्रमाणाभावात्॥
तद् एतत् प्राण-दर्शनं स्तूयते। कथम्? –
तद् ह एतत् प्राण-दर्शनं सत्यकामः जाबालः गोश्रुतये नाम्ना वैयाघ्र-पद्याय व्याघ्र-पदः अपत्यं वैयाघ्र-पद्यः तस्मै गोश्रुत्याख्याय उक्त्वा उवाच अन्यद् अपि वक्ष्यमाणं वचः। किं तद् उवाच इति, आह – यद्यपि शुष्काय स्थाणवे एतद् दर्शनं ब्रूयात् प्राणवित्, जायेरन् उत्पद्येरन् एव अस्मिन् स्थाणौ शाखाः प्ररोहेयुःपलाशानि पत्राणि, किमु जीवते पुरुषाय ब्रूयाद् इति
यथोक्त-प्राण-दर्शन-विदः इदं मन्थाख्यं कर्म आरभ्यते –
अथ अनन्तरं यदि महत् महत्त्वं जिगमिषेत् गन्तुम् इच्छेत्, महत्त्वं प्राप्तुं यदि कामयेत इत्यर्थः, तस्य इदं कर्म विधीयते। महत्त्वे हि सति श्रीः उपनमते। श्रीमतः हि अर्थ-प्राप्तं धनम्, ततः कर्मानुष्ठानम्, ततश्च देव-यानं पितृयाणं वा पन्थानं प्रतिपत्स्यत इति एतत् प्रयोजनम् उररीकृत्य महत्त्व-प्रेप्सोः इदं कर्म, न विषयोपभोग-कामस्य। तस्य अयं कालादि-विधिः उच्यते – अमा-वास्यायां दीक्षित्वा दीक्षित इव भूमि-शयनादि-नियमं कृत्वा तपो-रूपं सत्य-वचनं ब्रह्मचर्यम् इत्यादि-धर्मवान् भूत्वा इत्यर्थः। न पुनः दैक्षम् एव कर्म-जातं सर्वम् उपादत्ते, अतद्-विकारत्वात् मन्थाख्यस्य कर्मणः। “उपसद्व्रती” (BrhU.6.3.1) इति श्रुत्यन्तरात् पयोमात्र-भक्षणं च शुद्धि-कारणं तपः उपादत्ते। पौर्ण-मास्यां रात्रौ कर्म आरभते – सर्वौषधस्य ग्राम्यारण्यानाम् ओषधीनां यावत् शक्त्यल्पम् अल्पम् उपादाय तद्वितुषीकृत्य आमम् एव पिष्टं दधि-मधुनोः औदुम्बरे कंसाकारे चमसाकारे वा पात्रे श्रुत्यन्तरात् प्रक्षिप्य उपमथ्य अग्रतः स्थापयित्वा ‘ज्येष्ठाय श्रेष्ठाय स्वाहाइति अग्नौ आवसथ्ये आज्यस्य आवापस्थाने हुत्वा स्रुवसंलग्नं मन्थे सम्पातम् अवनयेत् संस्रवमधः पातयेत्॥
समानम् अन्यत्, वसिष्ठाय प्रतिष्ठायै संपदे आयतनाय स्वाहा इति, प्रत्येकं तथ एव सम्पातम् अवनयेत् हुत्वा
अथ प्रतिसृप्य अग्नेः ईषद् अपसृत्य अञ्जलौ मन्थम् आधाय जपति इमं मन्त्रम् – अमः नामासि अमा हि ते। अमः इति प्राणस्य नाम। अन्नेन हि प्राणः प्राणिति देहे इति अतः मन्थ-द्रव्यं प्राणस्य अन्नत्वात् प्राणत्वेन स्तूयते अमः नामासि इति। कुतः? यतः अमा सह हि यस्मात् ते तव प्राण-भूतस्य सर्वं समस्तं जगद् इदम्, अतः। सः हि प्राण-भूतः मन्थः ज्येष्ठः श्रेष्ठः च। अतः एव च राजा दीप्तिमान् अधिपतिः च अधिष्ठाय पालयिता सर्वस्य। सः मा माम् अपि मन्थः प्राणः ज्यैष्ठ्य-आदि-गुण-पूगम् आत्मनः गमयतु, अहम् एव इदं सर्वं जगद् असानि भवानि प्राणवत्। इति-शब्दः मन्त्र-परिसमाप्त्यर्थः॥
अथ अनन्तरं खलु एतया वक्ष्यमाणया ऋचा पच्छः पादशः आचामति भक्षयति, मन्त्रस्य एकैकेन पादेन एकैकं ग्रासं भक्षयति। तत् भोजनं सवितुः सर्वस्य प्रसवितुः, प्राणम् आदित्यं च एकीकृत्य उच्यते, आदित्यस्य वृणीमहे प्रार्थयेमहि मन्थ-रूपम्। येन अन्नेन सावित्रेण भोजनेन उपभुक्तेन वयं सवितृ-स्वरूपापन्ना भवेम इत्यभिप्रायः। देवस्य सवितुः इति पूर्वेण सम्बन्धः। श्रेष्ठं प्रशस्यतमं सर्वान्नेभ्यः सर्वधातमं सर्वस्य जगतः धारयितृतमम् अतिशयेन विधातृतमम् इति वा। सर्वथा भोजन-विशेषणम्। तुरं त्वरं तूर्णं शीघ्रम् इति एतत्, भगस्य देवस्य सवितुः स्वरूपम् इति शेषः। धीमहि चिन्तयेमहि विशिष्ट-भोजनेन संस्कृताः शुद्धात्मानः सन्तः इत्यभिप्रायः। अथवा भगस्य श्रियः कारणं महत्त्वं प्राप्तुं कर्म कृतवन्तः वयं तद् धीमहि चिन्तयेमहि इतिसर्वं च मन्थ-लेपं पिबतिनिर्णिज्य प्रक्षाल्य कंसं कंसाकारं चमसं चमसाकारं वा औदुम्बरं पात्रम्। पीत्वा आचम्य पश्चाद् अग्नेः प्राक्-शिराः संविशति चर्मणि वा अजिने स्थण्डिले केवलायां वा भूमौ, वाचं-यमः वाग्-यतः सन् इत्यर्थः, अप्रसाहः न प्रसह्यते न अभिभूयते स्त्र्याद्यनिष्ट-स्वप्न-दर्शनेन यथा, तथा संयत-चित्तः सन इत्यर्थः। सः एवं-भूतः यदि स्त्रियं पश्येत् स्वप्नेषु, तदा विद्यात् समृद्धं मम इदं कर्म इति
तद् एतस्मिन् अर्थे एषः श्लोकः मन्त्रः अपि भवति – यदा कर्मसु काम्येषु कामार्थेषु स्त्रियं स्वप्नेषु स्वप्न-दर्शनेषु स्वप्न-कालेषु वा पश्यति, समृद्धिं तत्र जानीयात्, कर्मणां फल-निष्पत्तिः भविष्यति इति जानीयाद् इत्यर्थः। तस्मिन् त्र्यादि-प्रशस्त-स्वप्न-दर्शने सति इत्यभिप्रायः। द्विः उक्तिः कर्म-समाप्त्यर्था॥

Go to Top ('Home' key on many Windows browsers)

ChanU.5.03 The Story of Śveta-ketu and Pravāhaṇa

ब्रह्मादिस्तम्बपर्यन्ताः संसारगतयो वक्तव्याः वैराग्यहेतोर्मुमुक्षूणाम् इत्यत आख्यायिका आरभ्यते –
श्वेतकेतुः नामतः इति ऐतिह्यार्थः, अरुणस्य अपत्यम् आरुणिः तस्य अपत्यम् आरुणेयः पञ्चालानां जन-पदानां समितिं सभाम् एयाय आजगाम। तम् आगतवन्तं ह प्रवाहणः नामतः जीवलस्य अपत्यं जैवलिः उवाच उक्तवान् – हे कुमार अनु त्वा त्वाम् अशिषत् अन्वशिषत् पिता? किम् अनुशिष्टः त्वं पित्रा इत्यर्थः। इति उक्तः सः आह – अनु हि अनुशिष्टः अस्मि भगवः इति सूचयन् आह॥
तं ह उवाच – यदि अनुशिष्टः असि –
वेत्थ यद् इतः अस्माद् लोकाद् अधि ऊर्ध्वं यत् प्रजाः प्रयन्ति यद् गच्छन्ति, तत् किं जानीषे? इत्यर्थः। न भगवः इति आह इतरः, न जाने अहं तत् यत् पृच्छसि। एवं तर्हि, वेत्थ जानीषे यथा येन प्रकारेण पुनः आवर्तन्त इतिन भगवः इति प्रत्याह। वेत्थ पथोः मार्गयोः सह-प्रयाणयोः देव-यानस्य पितृ-याणस्य च व्यावर्तना व्यावर्तनम् इतरेतर-वियोग-स्थानं सह गच्छताम्? इत्यर्थः। न भावः इति
वेत्थ यथा असौ लोकः पितृ-सम्बन्धी – यं प्राप्य पुनरावर्तन्ते, बहुभिः प्रयद्भिः अपि येन कारणेन न संपूर्यते इति? न भगवः इति प्रत्याह। वेत्थ यथा येन क्रमेण पञ्चम्यां पञ्च-संख्याकायाम् आहुतौ हुतायाम् आहुति-निर्वृत्ता आहुति-साधनाः च आपः पुरुष-वचसः पुरुषः इति एवं वचः अभिधानं यासां हूयमानानां क्रमेण षष्ठाहुति-भूतानां ताः पुरुष-वचसः पुरुष-शब्द-वाच्याः भवन्ति? पुरुषाख्यां लभन्ते? इत्यर्थः। इति उक्तः न एव भगवः इति आह। न एव अहम् अत्र किंचन जानामि इत्यर्थः॥
अथ एवम्-अज्ञः सन् किम् अनु कस्मात् त्वम् अनुशिष्टः अस्मि इति – अवोचथाः उक्तवान् असि। यः हि इमानि मया पृष्टानि अर्थ-जातानि न विद्यात् न विजानीयात्, कथं सः विद्वत्सु अनुशिष्टः अस्मि इति ब्रुवीत? इति एवं सः श्वेतकेतुः राज्ञा आयस्तः आयासितः सन् पितुः अर्धं स्थानम् एयाय आगतवान्। तं च पितरम् उवाचअननुशिष्य अनुशासनम् अकृत्वा एव मा मां किल भगवान् समावर्तन-काले अब्रवीत् उक्तवान् अनु त्वा अशिषम् अन्वशिषं त्वाम् इति
यतः –
पञ्च पञ्च-संख्याकान् प्रश्नान् राजन्य-बन्धुः राजन्या बन्धवः अस्य इति राजन्य-बन्धुः स्वयं दुर्वृत्त इत्यर्थः। अप्राक्षीत् पृष्टवान्। तेषां प्रश्नानां न एकं-चन एकम् अपि न अशकं न शक्तवान् अहं विवक्तुं विशेषेण अर्थतः निर्णेतुम् इत्यर्थः। सः ह उवाच पिता – यथा मा मां वत्स त्वं तदा आगतमात्र एव एतान् प्रश्नान् अवदः उक्तवान् असि – तेषां न एकंचन अशकं विवक्तुम् इति – तथा मां जानीहि, त्वदीयाज्ञानेन लिङ्गेन मम तद्विषयम् अज्ञानं जानीहि इत्यर्थः। कथम्? यथा अहम् एषां प्रश्नानाम् एकंचन एकम् अपि न वेद न जाने इति। यथा त्वम् एव अङ्ग एतान् प्रश्नान् न जानीषे, तथा अहम् अपि एतान् न जाने इत्यर्थः। अतः मयि अन्यथा-भावः न कर्तव्यः। कुत एत एवम्? यतः न जाने। यदि अहम् इमान् प्रश्नान् अवेदिष्यं विदितवान् अस्मि, कथं ते तुभ्यं प्रियाय पुत्राय समावर्तन-काले पुरा न अवक्ष्यं न उक्तवान् अस्मि।
इत्युक्त्वा – सः ह गौतमः गोत्रतः राज्ञः जैवलेः अर्धं स्थानम् एयाय गतवान्। तस्मै ह गौतमाय प्राप्ताय अर्हाम् अर्हणां चकार कृतवान्। सः च गौतमः कृतातिथ्यः उषित्वा परेद्युः प्रातः-काले सभागे सभां गते राज्ञि उदेयाय। भजनं भागः पूजा सेवा, सह भागेन वर्तमानः वा सभागः, पूज्यमानः अन्यैः स्वयं गोतमः उदेयाय राजानम् उद्गतवान्। तं ह उवाच गौतमं राजा – मानुषस्य भगवन् गौतम मनुष्य-सम्बन्धिनः वित्तस्य ग्रामादेः वरं वरणीयं कामं वृणीथाः प्रार्थयेथाः। सः ह उवाच गौतमः – तव एव तिष्ठतु राजन् मानुषं वित्तम्याम् एव कुमारस्य मम पुत्रस्य अन्ते समीपे वाचं पञ्च-प्रश्न-लक्षणाम् अभाषथाः उक्तवान् असि, ताम् एव वाचं मे मह्यं ब्रूहि कथय – इति उक्तो गौतमेन राजा सः ह कृच्छ्री दुःखी बभूव – कथं तु इदम् इति॥
सः ह कृच्छ्रीभूतः अप्रत्याख्येयं ब्राह्मणं मन्वानः न्यायेन विद्या वक्तव्या इति मत्वा –
तं ह गौतमं चिरं दीर्घ-कालं वस इति एवम् आज्ञापयांचकार आज्ञप्तवान्। यत् पूर्वं प्रख्यातवान् राजा विद्याम्, यद् च पश्चाद् चिरं वसेत्याज्ञप्तवान्, तन्निमित्तं ब्राह्मणं क्षमापयति हेतु-वचनोक्त्या। तं ह उवाच राजा – सर्व-विद्यः ब्राह्मणः अपि सन् यथा येन प्रकारेण मा मां हे गौतम अवदः त्वम् – ताम् एव विद्या-लक्षणां वाचं मे ब्रूहि – इति अज्ञानात्, तेन त्वं जानीहि। तत्र अस्ति वक्तव्यम् – यथा येन प्रकारेण इयं विद्या प्राक् त्वत्तः ब्राह्मणान् न गच्छति न गतवती। न च ब्राह्मणाः अनया विद्यया अनुशासितवन्तः। तथा एतत् प्रसिद्धं लोके यतः, तस्माद् उ पुरा पूर्वं सर्वेषु लोकेषु क्षत्त्रस्य एव क्षत्त्र-जातेः एव अनया विद्यया प्रशासनं प्रशास्तृत्वं शिष्याणाम् अभूत् बभूव। क्षत्त्रिय-परम्परया एव इयं विद्या एतावन्तं कालम् आगता। तथा अपि अहम् एतां तुभ्यं वक्ष्यामि। त्वत्संप्रदानाद् ऊर्ध्वं ब्राह्मणान् गमिष्यति। अतः मया यद् उक्तम्, तत्क्षन्तुम् अर्हसि इत्युक्त्वा तस्मै ह उवाच विद्यां राजा॥

Go to Top ('Home' key on many Windows browsers)

ChanU.5.04 The Five Fires (I)

‘पञ्चम्याम् आहुतौ आपः’ इत्ययं प्रश्नः प्राथम्येन अपाक्रियते, तद्-अपाकरणम् अनु इतरेषा अपाकरणम् अनुकूलं भवेद् इति। अग्नि-होत्राहुत्योः कार्यारम्भः यः, स उक्तः वाजसनेयके – तं प्रति प्रश्नाः। उत्क्रान्तिः आहुत्योः गतिः प्रतिष्ठा तृप्तिः पुनरावृत्तिः लोकं प्रत्युत्थायी इति। तेषां च अपाकरणम् उक्तं तत्र एव – “ते वै एते आहुती हुते उत्क्रामतः ते अन्तरिक्षम् आविशतः ते अन्तरिक्षम् एव आहवनीयं कुर्वाते वायुं समिधं मरीचीः एव शुक्लाम् आहुतिं ते अन्तरिक्षं तर्पयतः ते ततः उत्क्रामतः” (SataPBr.11.6.2.6) इत्यादि। एवम् एव पूर्ववद् दिवं तर्पयतः ते ततः आवर्तेते। इमाम् आविश्य तर्पयित्वा पुरुषम् आविशतः। ततः स्त्रियम् आविश्य लोकं प्रत्युत्थायी भवति इति। तत्र अग्नि-होत्राहुत्योः कार्यारम्भमात्रम् एवं-प्रकारं भवति इत्युक्तम्, इह तु तं कार्यारम्भम् अग्नि-होत्रापूर्व-विपरिणाम-लक्षणं पञ्चधा प्रविभज्य अग्नित्वेन उपासनम् उत्तर-मार्ग-प्रतिपत्ति-साधनं विधित्सन् आह – ‘असौ वाव लोकः गौतम अग्निः’ इत्यादि।
इह सायं-प्रातरग्नि-होत्राहुती हुते पय-आदि-साधने श्रद्धा-पुरः-सरे आहवनीयाग्नि-समिद्-धूमार्चिरङ्गार-विस्फुलिङ्ग-भाविते कर्त्रादि-कारक-भाविते च अन्तरिक्ष-क्रमेण उत्क्रम्य द्यु-लोकं प्रविशन्त्यौ सूक्ष्म-भूते अप्-समवायित्वाद् अप्-शब्द-वाच्ये श्रद्धा-हेतुत्वात् च श्रद्धा-शब्द-वाच्ये। तयोः अधिकरणः अग्निः अन्यत् च तत्संबन्धं समिदादि इत्युच्यते। या च असौ अग्न्यादि-भावना आहुत्योः, सा अपि तथा एव निर्दिश्यते –

असौ वाव लोकः अग्निः हे गौतम – यथा अग्नि-होत्राधिकरणम् आहवनीयः इह। तस्य अग्नेः द्यु-लोकाख्यस्य आदित्यः एव समित्, तेन हि इद्धः असौ लोकः दीप्यते, अतः समिन्धनात् समिदादित्यः रश्मयः धूमः, तद्-उत्थानात्। समिधः हि धूमः उत्तिष्ठति। अहर् अर्चिः प्रकाश-सामान्यात्, आदित्य-कार्यत्वात् च। चन्द्रमा अङ्गाराः, अह्नः प्रशमे अभिव्यक्तेः। अर्चिषः हि प्रशमे अङ्गाराः अभिव्यज्यन्ते। नक्षत्राणि विस्फुल्-इङ्गाः, चन्द्रमसः अवयवाः इव विप्रकीर्णत्व-सामान्यात्॥
तस्मिद् एतस्मिन् यथोक्त-लक्षणे अग्नौ देवाः यजमान-प्राणाः अग्न्यादि-रूपाः अधिदैवतम्। श्रद्धाम् अग्नि-होत्राहुति-परिणामावस्था-रूपाः सूक्ष्माः आपः श्रद्धा-भाविताः श्रद्धा उच्यन्ते, “पञ्चम्याम् आहुतौ आपः पुरुष-वचसः भवन्ति” (ChanU.5.3.3) इति आपां होम्यतया प्रश्ने श्रुतत्वात्। “श्रद्धा वै आपः श्रद्धाम् एव आरभ्य प्रणीय प्रचरन्ति” (TaitBr.3.2.4.28) इति च विज्ञायते। तां श्रद्धाम् अब्रूपां जुह्वतितस्याः आहुतेः सोमः राजा अपां श्रद्धा-शब्द-वाच्यानां द्यु-लोकाग्रौ हुतानां परिणामः सोमः राजा सम्भवति – यथा ऋग्-वेदादि-पुष्परसा ऋग्-आदि-मधुकरोपनीताः ते आदित्ये यश-आदि-कार्यं रोहितादि-रूप-लक्षणम् आरभन्ते इत्युक्तम् – तथा इमाः अग्नि-होत्राहुति-समवायिन्यः सूक्ष्माः श्रद्धा-शब्द-वाच्याः आपः द्यु-लोकम् अनुप्रविश्य चान्द्रं कार्यम् आरभन्ते फल-रूपम् अग्नि-होत्राहुत्योः। यजमानाः च तत्-कर्तारः आहुतिमयाः आहुति-भावनाः भाविताः आहुति-रूपेण कर्मणाः आकृष्टाः श्रद्धाप्-समवायिनः द्यु-लोकम् अनुप्रविशय सोम-भूताः भवन्ति। तद्-अर्थं हि तैः अग्नि-होत्रं हुतम्। अत्र तु आहुति-परिणामः एव पञ्चाग्नि-सम्बन्ध-क्रमेण प्राधान्येन विवक्षितः उपासनार्थं, न यजमानानां गतिः। तां तु अविदुषां धूमादि-क्रमेणो उत्तरत्र वक्ष्यति, विदुषां च उत्तरां विद्या-कृताम्॥

Go to Top ('Home' key on many Windows browsers)

ChanU.5.05 The Five Fires (II)

द्वितीय-होम-पर्यायार्थम् आह –
पर्जन्यः वाव पर्जन्यः एव गौतम अग्निः पर्जन्यः नाम वृष्ट्युपकरणाभिमानी देवता-विशेषः। तस्य वायुः एव समित्, वायुना हि पर्जन्यः अग्निः समिध्यते। पुरो-वातादि-प्राबल्ये वृष्टि-दर्शनात्। अभ्रं धूमः, धूम-कार्यत्वाद् धूमवत् च लक्ष्यमाणत्वात्। विद्युद् अर्चिः, प्रकाश-सामान्यात्। अशनिः अङ्गाराः, काठिन्याद् विद्युत्-संबन्धाद् वा। ह्रादनयः विस्फुलिङ्गाः ह्रादनयः गर्जित-शब्दाः मेघानाम्, विप्रकीर्णत्व-सामान्यात्॥
तस्मिन् एतस्मिन् अग्नौ देवाः पूर्ववत् सोमं राजानं जुह्वति तस्याः आहुतेः वर्षं सम्भवति। श्रद्धाख्या आपः सोमाकार-परिणता द्वितीये पर्याये पर्जन्याग्निं प्राप्य वृष्टित्वेन परिणमन्ते॥

Go to Top ('Home' key on many Windows browsers)

ChanU.5.06 The Five Fires (III)

पृथिवी वाव गौतम अग्निः इत्यादि पूर्ववत्। तस्याः पृथिव्याख्यस्य अग्नेः संवत्सरः एव समित्, संवत्सरेण हि कालेन समिद्धा पृथिवी व्रीह्यादि-निष्पत्तये भवति। आकाशः धूमः, पृथिव्या इव उत्थित आकाशः दृश्यते – यथा अग्नेः धूमः। रात्रिः अर्चिः, पृथिव्या हि अप्रकाशात्मिकाया अनुरूपा रात्रिः, तमो-रूपत्वात् – अग्नेः इव अनुरूपम् अर्चिः। दिशः अङ्गाराः, उपशान्तत्व-सामान्यात्। अवान्तर-दिशः विस्फुलिङ्गाः, क्षुद्रत्व-सामान्यात्॥
तस्मिन् इत्यादि समानम्। तस्याः आहुतेः अन्नं व्रीहि-यवादि सम्भवति

Go to Top ('Home' key on many Windows browsers)

ChanU.5.07 The Five Fires (IV)

पुरुषः वाव गौतम अग्निःतस्य वाग् एव समित्, वाचा हि मुखेन समिध्यते पुरुषः न मूकः। प्राणः धूमः, धूमः इव मुखात् निर्गमनात्। जिह्वा अर्चिः, लोहितत्वात्। चक्षुः अङ्गाराः, भासः आश्रयत्वात्। श्रोत्रं विस्फुलिङ्गाः, विप्रकीर्णत्व-साम्यात्॥
समानमन्यत्। अन्नं जुह्वति व्रीह्यादि-संस्कृतम्। तस्याः आहुते रेतः सम्भवति

Go to Top ('Home' key on many Windows browsers)

ChanU.5.08 The Five Fires (V)

योषा वाव गौतम अग्निःतस्याः उपस्थः एव समित्, तेन हि सा पुत्राद्युत्पादनाय समिध्यते। यद् उपमन्त्रयते सः धूमः, स्त्री-सम्भवाद् उपमन्त्रणस्य। योनिः अर्चिः, लोहितत्वात्। यद् अन्तः करोति ते अङ्गाराः, अग्नि-सम्बन्धात्। अभिनन्दाः सुख-लवाः विस्फुलिङ्गाः, क्षुद्रत्वात्॥
तस्मिन् एतस्मि अग्नौ देवाः रेतः जुह्वतितस्याः आहुतेः गर्भः सम्भवति इति। एवं श्रद्धा-सोम-वर्षान्न-रेतो-हवन-पर्याय-क्रमेण आपः एव गर्भीभूताः ताः। तत्र अपाम् आहुति-समवायित्वात् प्राधान्य-विवक्षा – आपः पञ्चम्याम् आहुतौ पुरुष-वचसः भवन्ति इति। न तु आपः एव केवलाः सोमादि-कार्यम् आरभन्ते। न च आपः अत्रिवृत्-कृताः सन्ति इति। त्रिवृत्-कृतत्वे अपि विशेष-संज्ञा-लाभः दृष्टः – पृथिवीयम्, इमाः आपः, अयम् अग्निः, इति अन्यतम-बाहुल्य-निमित्तः। तस्मात् समुदितानि एव भूतानि अब्-बाहुल्यात् कर्म-समवायीनि सोमादि-कार्यारम्भ-कारण्यापः इत्युच्यन्ते। दृश्यते च द्रव-बाहुल्यं सोम-वृष्ट्यन्न-रेतो-देहेषु। बहु-द्रवं च शरीरं यद्यपि पार्थिवम्। तत्र पञ्चम्याम् आहुतौ हुतायां रेतो-रूपाः आपः गर्भीभूताः॥

Go to Top ('Home' key on many Windows browsers)

ChanU.5.09 Birth and Death

इति तु एवं तु पञ्चम्याम् आहुतौ आपः पुरुष-वचसः भवन्ति इति व्याख्यातः एकः प्रश्नः। यत् तु द्यु-लोकाद् इमां प्रत्यावृत्तयोः आहुत्योः पृथिवीं पुरुषं स्त्रियं क्रमेण आविश्य लोकं प्रत्युत्थायी भवति इति वाजसनेयके उक्तम्, तत् प्रासङ्गिकम् इह उच्यते। इह च प्रथमे प्रश्ने उक्तम् – वेत्थ यद् इतः अधि प्रजाः प्रयन्ति इति। तस्य च अयम् उपक्रमः – सः गर्भः अपां पञ्चमः परिणाम-विशेषः आहुति-कर्म-समवायिनीनां श्रद्धा-शब्द-वाच्यानाम् उल्बावृतः उल्बेन जरायुणा आवृतः वेष्टितः दश वा नव वा मासान् अन्तः मातुः कुक्षौ शयित्वा यावद् वा यावता कालेन न्यूनेन अतिरिक्तेन वा अथ अनन्तरं जायते
उल्बावृतः इत्यादि वैराग्य-हेतोः इदम् उच्यते। कष्टं हि मातुः कुक्षौ मूत्र-पूरीष-वात-पित्त-श्लेष्मादि-पूर्णे तदनुलिप्तस्य गर्भस्य उल्बाशुचि-पटावृतस्य लोहित-सरेतो-शुचि-बीजस्य मातुः अशित-पीत-रसानुप्रवेशेन विवर्धमानस्य निरुद्ध-शक्ति-बल-वीर्य-तेजः-प्रज्ञा-चेष्टस्य शयनम्। ततः योनि-द्वारेण पीड्यमानस्य कष्टतरा निःसृतिः जन्म इति वैराग्यं ग्राहयति, मुहूर्तम् अपि असह्यं दश वा नव वा मासानति-दीर्घ-कालम् अन्तः शयित्वा इति च॥
सः एवं जातः यावद् आयुषं पुनः पुनः घटी-यन्त्रवद् गमनागमनाय कर्म कुर्वन् कुलाल-चक्रवद् वा तिर्यग्-भ्रमणाय यावत् कर्मणा उपात्तम् आयुः तावज् जीवतितम् एनं क्षीणायुषं प्रेतं मृतं दिष्टं कर्मणा निर्दिष्टं पर-लोकं प्रति – यदि चेद् जीवन् वैदिके कर्मणि ज्ञाने वा अधिकृतः – तम् एनं मृतम् इतः अस्माद् ग्रामात् अग्नये अग्न्यर्थम् ऋत्विजः हरन्ति पुत्राः वा अन्त्य-कर्मणे। यतः एव इतः आगतः अग्नेः सकाशात् श्रद्धाद्याहुति-क्रमेण, यतः च पञ्चभ्यः अग्निभ्यः संभूतः उत्पन्नः भवति, तस्मै एव अग्नये हरन्ति स्वाम् एव योनिम् अग्निम् आपादयन्ति इत्यर्थः॥

Go to Top ('Home' key on many Windows browsers)

ChanU.5.10 The Various Paths followed after Death

“वेत्थ यद् इतः अधि प्रजाः प्रयन्ति” (ChanU.5.3.2) इति अयं प्रश्नः प्रत्युपस्थितः अपाकर्तव्यतया –
तत् तत्र लोकं प्रति उत्थितानाम् अधिकृतानां गृहमेधिनां ये इत्थम् एवं यथोक्तं पञ्चाग्नि-दर्शनम् – द्यु-लोकाद्यग्निभ्यः वयं क्रमेण जाताः अग्नि-स्वरूपाः पञ्चाग्न्यात्मानः – इत्येवं विदुः जानीयुः।
कथम् अवगम्यते इत्थं विदुः इति गृहस्थाः एव उच्यन्ते न अन्यः इति?
गृहस्थानां ये तु अवनित्थं-विदः केवलेष्टापूर्त-दत्त-पराः ते धूमादिना चन्द्रं गच्छन्ति इति वक्ष्यति। ये च अरण्योपलक्षिताः वैखानसाः परिव्राजकाः च श्रद्धा तपः इति उपासते, तेषां च इत्थं-विद्भिः सह अर्चिरादिना गमनं वक्ष्यति, पारिशेष्याद् अग्नि-होत्राहुति-सम्बन्धात् च गृहस्थाः एव गृह्यन्ते – इत्थं विदुः इति।
ननु ब्रह्मचारिणोऽप्यगृहीता ग्रामश्रुत्या अरण्यश्रुत्या च अनुपलक्षिता विद्यन्ते, कथं पारिशेष्यसिद्धिः?
नैष दोषः। पुराणस्मृतिप्रामाण्यात् ऊर्ध्वरेतसां नैष्ठिकब्रह्मचारिणाम् उत्तरेणार्यम्णः पन्थाः प्रसिद्धः, अतः तेऽप्यरण्यवासिभिः सह गमिष्यन्ति। उपकुर्वाणकास्तु स्वाध्यायग्रहणार्था इति न विशेषनिर्देशार्हाः।
ननु ऊर्ध्वरेतस्त्वं चेत् उत्तरमार्गप्रतिपत्तिकारणं पुराणस्मृतिप्रामाण्यादिष्यते, इत्थंवित्त्वमनर्थकं प्राप्तम्।
न, गृहस्थान् प्रत्यर्थवत्त्वात्। ये गृहस्थाः अनित्थं-विदः, तेषां स्वभावतः दक्षिणः धूमादिः पन्थाः प्रसिद्धः। तेषां ये इत्थं विदुः सगुणं वा अन्यद् ब्रह्म विदुः, “अथ यद् उ च एवास्मिन् शव्यं कुर्वन्ति यदि च न अर्चिषम् एव” (ChanU.4.15.5) इति लिङ्गात् उत्तरेण ते गच्छन्ति।
ननु ऊर्ध्वरेतसां गृहस्थानां च समाने आश्रमित्वे ऊर्ध्वरेतसामेव उत्तरेण पथा गमनं न गृहस्थानामिति न युक्तम् अग्निहोत्रादिवैदिककर्मबाहुल्ये च सति।
नैष दोषः, अपूता हि ते – शत्रुमित्रसंयोगनिमित्तौ हि तेषां रागद्वेषौ, तथा धर्माधर्मौ हिंसानुग्रहनिमित्तौ, हिंसानृतमायाब्रह्मचर्यादि च बह्वशुद्धिकारणमपरिहार्यं तेषाम्, अतोऽपूताः। अपूतत्वात् न उत्तरेण पथा गमनम्। हिंसानृतमायाब्रह्मचर्यादिपरिहाराच्च शुद्धात्मानो हि इतरे, शत्रुमित्ररागद्वेषादिपरिहाराच्च विरजसः। तेषां युक्त उत्तरः पन्थाः। तथा च पौराणिकाः – ‘ये प्रजामीषिरेऽधीरास्ते श्मशानानि भेजिरे। ये प्रजां नेषिरे धीरास्तेऽमृतत्वं हि भेजिरे’ इत्याहुः।
इत्थंविदां गृहस्थानामरण्यवासिनां च समानमार्गत्वेऽमृतत्वफले च सति, अरण्यवासिनां विद्यानर्थक्यं प्राप्तम्। तथा च श्रुतिविरोधः – “न तत्र दक्षिणा यन्ति नाविद्वांसस्तपस्विनः” (SataPBr.10.5.4.16) इति, “स एनमविदितो न भुनक्ति” (BrhU.1.4.15) इति च विरुद्धम्।
न, आभूतसम्प्लवस्थानस्यामृतत्वेन विवक्षितत्वात्। तत्रैवोक्तं पौराणिकैः – “आभूतसम्प्लवं स्थानममृतत्वं हि भाष्यते” (VisPu.2.8.97) इति। यच्च आत्यन्तिकममृतत्वम्, तदपेक्षया ‘न तत्र दक्षिणा यन्ति’ ‘स एनमविदितो न भुनक्ति’ इत्याद्याः श्रुतयः – इत्यतो न विरोधः।
“न च पुनरावर्तन्ते” (ChanU.8.15.1) इति “इमं मानवमावर्तं नावर्तन्ते” (ChanU.4.15.5) इत्यादि श्रुतिविरोध इति चेत्,
न, ‘इमं मानवम्’ इति विशेषणात् “तेषामिह न पुनरावृत्तिरस्ति” (Bṛ.Mā.6.1.1 ?) इति च। यदि हि एकान्तेनैव नावर्तेरन्, इमं मानवम् इह इति च विशेषणमनर्थकं स्यात्।
इममिह इत्याकृतिमात्रमुच्यत इति चेत्।
न, अनावृत्तिशब्देनैव नित्यानावृत्त्यर्थस्य प्रतीतत्वात् आकृतिकल्पना अनर्थिका। अतः इममिह इति च विशेषणार्थवत्त्वाय अन्यत्र आवृत्तिः कल्पनीया।
न च सदेकमेवाद्वितीयमित्येवं प्रत्ययवतां मूर्धन्यनाड्या अर्चिरादिमार्गेण गमनम्, “ब्रह्मैव सन्ब्रह्माप्येति” (BrhU.4.4.6) “तस्मात्तत्सर्वमभवत्” (BrhU.1.4.9) “न तस्य प्राणा उत्क्रामन्ति।” (BrhU.4.4.6) “अत्रैव समवलीयन्ते” (BrhU.3.2.11) इत्यादिश्रुतिशतेभ्यः।
ननु तस्माज्जीवादुच्चिक्रमिषोः प्राणा नोत्क्रामन्ति सहैव गच्छन्तीत्ययमर्थः कल्प्यत इति चेत्।
न, ‘अत्रैव समवलीयन्ते’ इति विशेषणानर्थक्यात्, “सर्वे प्राणा अनूत्क्रामन्ति” (BrhU.4.4.2) इति च प्राणैर्गमनस्य प्राप्तत्वात्। तस्मादुत्क्रामन्तीत्यनाशङ्कैवैषा।
यदापि मोक्षस्य संसारगतिवैलक्षण्यात्प्राणानां जीवेन सह आगमनमाशङ्क्य तस्मान्नोत्क्रामन्तीत्युच्यते, तदापि ‘अत्रैव समवलीयन्ते’ इति विशेषणमनर्थकं स्यात्। न च प्राणैर्वियुक्तस्य गतिरुपपद्यते जीवत्वं वा, सर्वगतत्वात्सदात्मनो निरवयवत्वात् प्राणसम्बन्धमात्रमेव हि अग्निविस्फुलिङ्गवज्जीवत्वभेदकारणमित्यतः तद्वियोगे जीवत्वं गतिर्वा न शक्या परिकल्पयितुम्, श्रुतयश्चेत्प्रमाणम्। न च सतोऽणुरवयवः स्फुटितो जीवाख्यः सद्रूपं छिद्रीकुर्वन् गच्छतीति शक्यं कल्पयितुम्। तस्मात् “तयोर्ध्वमायन्नमृतत्वमेति” (ChanU.8.6.6) इति सगुणब्रह्मोपासकस्य प्राणैः सह नाड्या गमनम्, सापेक्षमेव च अमृतत्वम्, न साक्षान्मोक्ष इति गम्यते, “तदपराजिता पूस्तदैरं मदीयं सरः” (ChanU.8.5.3) इत्याद्युक्त्वा “तेषामेवैष ब्रह्मलोकः” (ChanU.8.5.4) इति विशेषणात्।
अतः पञ्चाग्नि-विदः गृहस्थाः, ये च इमे अरण्ये वान-प्रस्थाः परिव्राजकाः च सह नैष्ठिक-ब्रह्म-चारिभिः श्रद्धा तपः इत्येवमादि उपासते श्रद्धधानाः तपस्विनः च इत्यर्थः। उपासन-शब्दः तात्पर्यार्थः। “इष्टा-पूर्ते दत्तम् इति उपासते” (ChanU.5.10.3) इति यद्वत्। श्रुत्यन्तरात् ये च सत्यं ब्रह्म हिरण्य-गर्भाख्यम् उपासते, ते सर्वे अर्चिषम् अर्चिः अभिमानिनीं देवताम् अभिसम्भवन्ति प्रतिपद्यन्ते। समानम् अन्यत् चतुर्थ-गति-व्याख्यानेन। एषः देवयानः पन्थाः व्याख्यातः सत्य-लोकावसानः, न अण्डाद्बहिः, “यद् अन्तरा पितरं मातरं च” (RgVeda.10.88.15) इति मन्त्र-वर्णात्॥
अथ इत्यर्थान्तर-प्रस्तावनार्थः, ये इमे गृहस्थाः ग्रामे, ग्राम इति गृहस्थानाम् असाधारणं विशेषणम् अरण्य-वासिभ्यः व्यावृत्त्यर्थम् – यथा वान-प्रस्थ-परिव्राजकानाम् अरण्यं विशेषणं गृहस्थेभ्यः व्यावृत्त्यर्थम्, तद्वत्। इष्टा-पूर्ते इष्टम् अग्नि-होत्रादि वैदिकं कर्म, पूर्तं वापी-कूप-तडागारामादि-करणम्, दत्तं बहिर्वेदि यथा-शक्त्यर्हेभ्यः द्रव्य-संविभागः दत्तम्। इति एवं-विधं परिचरण-परित्राणादि उपासते, इति-शब्दस्य प्रकार-दर्शनार्थत्वात्। ते दर्शन-वर्जितत्वाद् धूमं धूमाभिमानिनीं देवताम् अभिसम्भवन्ति प्रतिपद्यन्ते।
तया अतिवाहिता धूमाद्रात्रिं रात्रि-देवतां रात्रेः अपर-पक्ष-देवताम् एवम् एव कृष्ण-पक्षाभिमानिनीम् अपर-पक्षात् यान् षड् मासान् दक्षिणा दक्षिणां दिशम् एति सविता, तान् मासान् दक्षिणायन-षण्-मासाभिमानिनीः देवताः प्रतिपद्यन्ते इत्यर्थः। संघ-चारिण्यः हि षण्-मास-देवताः इति मासान् इति बहु-वचन-प्रयोगः तासु। न एते कर्मिणः प्रकृताः संवत्सरं संवत्सराभिमानिनीं देवताम् अभिप्राप्नुवन्ति
कुतः पुनः संवत्सर-प्राप्ति-प्रसङ्गः, यतः प्रतिषिध्यते?
अस्ति हि प्रसङ्गः – संवत्सरस्य हि एकस्य अवयव-भूते दक्षिणोत्तरायणे, तत्र अर्चिरादि-मार्ग-प्रवृत्तानाम् उदगयन-मासेभ्यः अवयविनः संवत्सरस्य प्राप्तिः उक्ता। अतः इह अपि तद्-अवयव-भूतानां दक्षिणायन-मासानां प्राप्तिं श्रुत्वा तद्-अवयविनः संवत्सरस्य अपि पूर्ववत् प्राप्तिः आपन्ना इति। अतः तत्-प्राप्तिः प्रतिविध्यते – न एते संवत्सरम् अभिप्राप्नुवन्ति इति॥
मासेभ्यः पितृ-लोकं पितृ-लोकाद् आकाशम् आकाशात् चन्द्रमसम्। कः असौ, यः तैः प्राप्यते चन्द्रमाः? यः एषः दृश्यते अन्तरिक्षे सोमः राजा ब्राह्मणानाम्, तद् अन्नं देवानाम्, तं चन्द्रमसम् अन्नं देवाः इन्द्रादयः भक्षयन्ति। अतः ते धूमादिना गत्वा चन्द्र-भूताः कर्मिणः देवैः भक्ष्यन्ते।
ननु अनर्थाय इष्टादिकरणम्, यद्यन्नभूता देवैर्भक्ष्येरन्।
नैष दोषः, अन्नमित्युपकरणमात्रस्य विवक्षितत्वात् – न हि ते कबलोत्क्षेपेण देवैर्भक्ष्यन्ते कं तर्हि, उपकरणमात्रं देवानां भवन्ति ते, स्त्रीपशुभृत्यादिवत्, दृष्टश्चान्नशब्द उपकरणेषु – स्त्रियोऽन्नं पशवोऽन्नं विशोऽन्नं राज्ञामित्यादि। न च तेषां स्त्र्यादीनां पुरुषोपभोग्यत्वेऽप्युपभोगो नास्ति। तस्मात्कर्मिणो देवानामुपभोग्या अपि सन्तः सुखिनो देवैः क्रीडन्ति। शरीरं च तेषां सुखोपभोगयोग्यं चन्द्रमण्डले आप्यमारभ्यते। तदुक्तं पुरस्तात् – श्रद्धाशब्दा आपो द्युलोकाग्नौ हुताः सोमो राजा सम्भवतीति। ता आपः कर्मसमवायिन्यः इतरैश्च भूतैरनुगता द्युलोकं प्राप्य चन्द्रत्वमापन्नाः शरीराद्यारम्भिका इष्टाद्युपासकानां भवन्ति। अन्त्यायां च शरीराहुतावग्नौ हुतायामग्निना दह्यमाने शरीरे तदुत्था आपो धूमेन सह ऊर्ध्वं यजमानमावेष्ट्य चन्द्रमण्डलं प्राप्य कुशमृत्तिकास्थानीया बाह्यशरीरारम्भिका भवन्ति। तदारब्धेन च शरीरेण इष्टादिफलमुपभुञ्जाना आसते॥
यावत् तद्-उपभोग-निमित्तस्य कर्मणः क्षयः, संपतन्ति येन इति सम्पातः कर्मणः क्षयः यावत् सम्पातं यावत् कर्मणः क्षयः इत्यर्थः, तावत् तस्मिन् चन्द्र-मण्डले उषित्वा अथ अनन्तरम् एतम् एव वक्ष्यमाणम् अध्वानं मार्गं पुनः निवर्तन्ते। पुनः निवर्तन्ते इति प्रयोगात् पूर्वम् अपि असकृत् चन्द्र-मण्डलं गताः निवृत्ताः च आसन् इति गम्यते। तस्माद् इह लोके इष्टादि-कर्मोपचित्य चन्द्रं गच्छन्ति। तत्-क्षये च आवर्तन्ते। क्षणमात्रम् अपि तत्र स्थातुं न लभ्यते, स्थिति-निमित्त-कर्म-क्षयात् – स्नेह-क्षयाद् इव प्रदीपस्य।
तत्र किं येन कर्मणा चन्द्रमण्डलमारूढास्तस्य सर्वस्य क्षये तस्मादवरोहणम्, किं वा सावशेष इति।
किं ततः?
यदि सर्वस्यैव क्षयः कर्मणः, चन्द्रमण्डलस्थस्यैव मोक्षः प्राप्नोति। तिष्ठतु तावत्तत्रैव, मोक्षः स्यात्, न वेति। तत आगतस्य इह शरीरोपभोगादि न सम्भवति। “ततः शेषेण” (GautSmr.2.2.29) इत्यादिस्मृतिविरोधश्च स्यात्।
नन्विष्टापूर्तदत्तव्यतिरेकेणापि मनुष्यलोके शरीरोपभोगनिमित्तानि कर्माण्यनेकानि सम्भवन्ति, न च तेषां चन्द्रमण्डले उपभोगः, अतोऽक्षीणानि तानि। यन्निमित्तं चन्द्रमण्डलमारूढः, तान्येव क्षीणानीत्यविरोधः। शेषशब्दश्च सर्वेषां कर्मत्वसामान्यादविरुद्धः। अत एव च तत्रैव मोक्षः स्यादिति दोषाभावः। विरुद्धानेकयोन्युपभोगफलानां च कर्मणाम् एकैकस्य जन्तोरारम्भकत्वसम्भवात्। न च एकस्मिञ्जन्मनि सर्वकर्मणां क्षय उपपद्यते, ब्रह्महत्यादेश्च एकैकस्य कर्मण अनेकजन्मारम्भकत्वस्मरणात्, स्थावरादिप्राप्तानां च अत्यन्तमूढानामुत्कर्षहेतोः कर्मण आरम्भकत्वासम्भवात्। गर्भभूतानां च स्रंसमानानां कर्मासम्भवे संसारानुपपत्तिः। तस्मात् न एकस्मिञ्जन्मनि सर्वेषां कर्मणामुपभोगः।
यत्तु कैश्चिदुच्यते – सर्वकर्माश्रयोपमर्देन प्रायेण कर्मणां जन्मारम्भकत्वम्। तत्र कानिचित्कर्माण्यनारम्भकत्वेनैव तिष्ठन्ति कानिचिज्जन्म आरभन्त इति नोपपद्यते, मरणस्य सर्वकर्माभिव्यञ्जकत्वात्, स्वगोचराभिव्यञ्जकप्रदीपवदिति।
तदसत्, सर्वस्य सर्वात्मकत्वाभ्युपगमात् – न हि सर्वस्य सर्वात्मकत्वे देशकालनिमित्तावरुद्धत्वात्सर्वात्मनोपमर्दः कस्यचित्क्वचिदभिव्यक्तिर्वा सर्वात्मनोपपद्यते, तथा कर्मणामपि साश्रयाणां भवेत् – यथा च पूर्वानुभूतमनुष्यमयूरमर्कटादिजन्माभिसंस्कृताः विरुद्धानेकवासनाः मर्कटत्वप्रापकेन कर्मणा मर्कटजन्म आरभमाणेन नोपमृद्यन्ते – तथा कर्मण्यप्यन्यजन्मप्राप्तिनिमित्तानि नोपमृद्यन्त इति युक्तम्। यदि हि सर्वाः पूर्वजन्मानुभववासनाः उपमृद्येरन्, मर्कटजन्मनिमित्तेन कर्मणा मर्कटजन्मन्यारब्धे मर्कटस्य जातमात्रस्य मातुः शाखायाः शाखान्तरगमने मातुरुदरसंलग्नत्वादिकौशलं न प्राप्नोति, इह जन्मन्यनभ्यस्तत्वात्। न च अतीतानन्तरजन्मनि मर्कटत्वमेव आसीत्तस्येति शक्यं वक्तुम्, “तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च” (BrhU.4.4.2) इति श्रुतेः। तस्माद्वासनावन्नाशेषकर्मोपमर्द इति शेषकर्मसम्भवः। यत एवम्, तस्माच्छेषेणोपभुक्तात्कर्मणः संसार उपपद्यत इति न कश्चिद्विरोधः।
कोऽसावध्वा यं प्रति निवर्तन्त इति, उच्यते – यथेतं यथागतं निवर्तन्ते।
ननु मासेभ्यः पितृलोकं पितृलोकादाकाशमाकाशाच्चन्द्रमसमिति गमनक्रम उक्तः, न तथा निवृत्तिः। किं तर्हि, आकाशाद्वायुमित्यादि। कथं यथेतमित्युच्यते।
न एषः दोषः, आकाश-प्राप्तेः तुल्यत्वात् पृथिवी-प्राप्तेः च। न च अत्र यथेतम् एव इति नियमः, अनेवं-विधम् अपि निवर्तन्ते। पुनः निवर्तन्ते इति तु नियमः। अतः उपलक्षणार्थम् एतत् – यदि अथ एतम् इति। अतः भौतिकम् आकाशं तावत् प्रतिपद्यन्ते – याः तेषां चन्द्र-मण्डले शरीरारम्भिकाः आप आसन्, ताः तेषां तत्र उपभोग-निमित्तानां कर्मणां क्षये विलीयन्ते – घृत-संस्थानम् इव अग्नि-संयोगे, ताः विलीना अन्तरिक्षस्थाः आकाश-भूताः इति सूक्ष्माः भवन्ति। ताः अन्तरिक्षाद् वायुः भवन्ति, वायु-प्रतिष्टाः वायु-भूताः इतः च अमुतः च ऊह्यमानाः ताभिः सह क्षीण-कर्मा वायु-भूतः भवति। वायुः भूत्वा ताभिः सहैव धूमः भवतिधूमः भूत्वा अभ्रम् अब्-भरणमात्र-रूपः भवति
अभ्रं भूत्वा ततः सेचन-समर्थः मेघः भवतिमेघः भूत्वा उन्नतेषु प्रदेशेषु अथ प्रवर्षति। वर्ष-धारा-रूपेण शेष-कर्मा पतति इत्यर्थः। ते इह व्रीहि-यवाः ओषधि-वनस्पतयः तिल-माषाः इति एवं-प्रकाराः जायन्ते। क्षीण-कर्मणाम् अनेकत्वात् बहु-वचन-निर्देशः। मेघादिषु पूर्वेषु एक-रूपत्वात् एक-वचन-निर्देशः।
यस्माद् गिरि-तट-दुर्ग-नदी-समुद्रारण्य-मरु-देशादि-संनिवेश-सहस्राणि वर्ष-धाराभिः पतितानाम्, अतः तस्माद् हेतोः वै खलु दुर्निष्प्रपतरं दुर्निष्क्रमणं दुर्निःसरणम् – यतः गिरि-तटादुदक-स्रोत-सोह्यमानाः नदीः प्राप्नुवन्ति, ततः समुद्रम्, ततः मकरादिभिः भक्ष्यन्ते। ते अपि अन्येन। तत्र एव च सह मकरेण समुद्रे विलीनाः समुद्राम्भोभिः जल-धरैः आकृष्टाः पुनः वर्ष-धारांभिः मरु-देशे शिला-तटे वा अगम्ये पतिताः तिष्ठन्ति, कदाचिद् व्यालमृगादिपीताः भक्षिताः च अन्यैः ते अपि अन्यैः इति एवं-प्रकाराः परिवर्तेरन्। कदाचिद् अभक्ष्येषु स्थावरेषु जाताः तत्र एव शुष्येरन्। भक्ष्येषु अपि स्थावरेषु जातानां रेतः-सिग्-देह-सम्बन्धः दुर्लभः एव, बहुत्वात् स्थावराणाम् – इति अतः दुर्निष्क्रमणत्वम्।
अथवा अतः अस्माद्व्रीहियवादिभावात् दुर्निष्प्रपतरं दुर्निर्गमतरम्। दुर्निष्प्रपरमिति (दुर्निष्प्रपततरमिति) तकार एको लुप्तो द्रष्टव्यः। व्रीहियवादिभावो दुर्निष्प्रपतः, तस्मादपि दुर्निष्प्रपताद्रेतःसिग्देहसम्बन्धो दुर्निष्प्रपततर इत्यर्थः। यस्मादूर्ध्वरेतोभिर्बालैः पुंस्त्वरहितैः स्थविरैर्वा भक्षिता अन्तराले शीर्यन्ते, अनेकत्वादन्नादानाम्। कदाचित्काकतालीयवृत्त्या रेतःसिग्भिर्भक्ष्यन्ते यदा, तदा रेतःसिग्भावं गतानां कर्मणो वृत्तिलाभः।
कथम्? यः यः हि अन्नम् अत्ति अनुशयिभिः संश्लिष्टं रेतः-सिक्, यःरेतः सिञ्चति ऋतु-काले योषिति, तद्-भूयः एव तदाकृतिः एव भवति। तद्-अवयवाकृति-भूयस्त्वं भूयः इत्युच्यते रेतो-रूपेण योषितः गर्भाशये अन्तः प्रविष्टः अनुशयी, रेतसः रेतः-सिगाकृति-भावितत्वात्, “सर्वेभ्यः अङ्गेभ्यः तेजः संभूतम्” (AitU.2.1.1) इति हि श्रुत्यन्तरात्। अतः रेतः-सिगाकृतिः एव भवति इत्यर्थः। तथा हि पुरुषात् पुरुषः जायते गोः गवाकृतिः एव न जात्यन्तराकृतिः। तस्माद् युक्तं तद्-भूयः एव भवति इति।
ये त्वन्ये अनुशयिभ्यश्चन्द्रमण्डलमनारुह्य इहैव पापकर्मभिर्घोरैर्व्रीहियवादिभावं प्रतिपद्यन्ते, पुनर्मनुष्यादिभावम्, तेषां नानुशयिनामिव दुर्निष्प्रपतरम्। कस्मात्? कर्मणा हि तैर्व्रीहियवादिदेह उपात्त इति तदुपभोगनिमित्तक्षये व्रीह्यादिस्तम्बदेहविनाशे यथाकर्मार्जितं देहान्तरं नवं नवं जलूकावत्संक्रमन्ते सविज्ञाना एव “सविज्ञानो भवति सविज्ञानमेवान्ववक्रामति” (BrhU.4.4.2) इति श्रुत्यन्तरात्। यद्यप्युपसंहृतकरणाः सन्तो देहान्तरं गच्छन्ति, तथापि स्वप्नवत् देहान्तरप्राप्तिनिमित्तकर्मोद्भावितवासनाज्ञानेन सविज्ञाना एव देहान्तरं गच्छन्ति, श्रुतिप्रामाण्यात्। तथा अर्चिरादिना धूमादिना च गमनं स्वप्नं इवोद्भूतविज्ञानेन, लब्धवृत्तिकर्मनिमित्तत्वाद्गमनस्य। न तथा अनुशयिनां व्रीह्यादिभावेन जातानां सविज्ञानमेव रेतःसिग्योषिद्देहसम्बन्ध उपपद्यते, न हि व्रीह्यादिलवनकण्डनपेषणादौ च सविज्ञानानां स्थितिरस्ति।
ननु चन्द्रमण्डलादप्यवरोहतां देहान्तरगमनस्य तुल्यत्वात् जलूकावत्सविज्ञानतैव युक्ता, तथा सति घोरो नरकानुभव इष्टापूर्तादिकारिणां चन्द्रमण्डलादारभ्य प्राप्तो यावद्ब्राह्मणादिजन्म। तथा च सति, अनर्थायैव इष्टापूर्ताद्युपासनं विहितं स्यात्। श्रुतेश्च अप्रामाण्यं प्राप्तम्, वैदिकानां कर्मणाम् अनर्थानुबन्धित्वात्।
न, वृक्षारोहणपतनवद्विशेषसम्भवात् – देहाद्देहान्तरं प्रतिपित्सोः कर्मणो लब्धवृत्तित्वात् कर्मणोद्भावितेन विज्ञानेन सविज्ञानत्वं युक्तम् – वृक्षाग्रमारोहत इव फलं जिघृक्षोः। तथा अर्चिरादिना गच्छतां सविज्ञानत्वं भवेत्। धूमादिना च चन्द्रमण्डलमारुरुक्षताम्। न तथा चन्द्रमण्डलादवरुरुक्षतां वृक्षाग्रादिव पततां सचेतनत्वम् – यथा च मुद्गराद्यभिहतानां तदभिघातवेदनानिमित्तसंमूर्छितप्रतिबद्धकरणानां स्वदेहेनैव देशाद्देशान्तरं नीयमानानां विज्ञानशून्यता दृष्टा, तथा चन्द्रमण्डलात् मानुषादिदेहान्तरं प्रति अवरुरुक्षतां स्वर्गभोगनिमित्तकर्मक्षयात् मृदिताब्देहानां प्रतिबद्धकरणानाम्। अतः ते अपरित्यक्तदेहबीजभूताभिरद्भिः मूर्छिता इव आकाशादिक्रमेण इमामवरुह्य कर्मनिमित्तजातिस्थावरदेहैः संश्लिष्यन्ते प्रतिबद्धकरणतया अनुद्भूतविज्ञाना एव।
तथा लवनकण्डनपेषणसंस्कारभक्षणरसादिपरिणामरेतःसेककालेषु मूर्छितवदेव, देहान्तरारम्भकस्य कर्मणोऽलब्धवृत्तित्वात्। देहबीजभूताप्संबन्धापरित्यागेनैव सर्वास्ववस्थासु वर्तन्त इति जलूकावत् चेतनावत्त्वं न विरुध्यते। अन्तराले त्वविज्ञानं मूर्छितवदेवेत्यदोषः। न च वैदिकानां कर्मणां हिंसायुक्तत्वेनोभयहेतुत्वं शक्यमनुमातुम्, हिंसायाः शास्त्रचोदितत्वात्। “अहिंसन्सर्वभूतान्यन्यत्र तीर्थेभ्यः” (ChanU.8.15.1) इति श्रुतेः शास्त्रचोदिताया हिंसाया न अधर्महेतुत्वमभ्युपगम्यते। अभ्युपगतेऽप्यधर्महेतुत्वे मन्त्रैर्विषादिवत् तदपनयोपपत्तेः न दुःखकार्यारम्भणोपपत्तिः वैदिकानां कर्मणाम् – मन्त्रेणेव विषभक्षणस्येति॥
तत् तत्र तेषु अनुशयिनां ये इह लोके रमणीयं शोभनं चरणं शीलं येषां ते रमणीय-चरणेन उपलक्षितः शोभनः अनुशयः पुण्यं कर्म येषां ते – रमणीय-चरणाः उच्यन्ते। क्रौर्यानृत-माया-वर्जितानां हि शक्यः उपलक्षयितुं शुभानुशय-सद्भावः। तेन अनुशयेन पुण्येन कर्मणा चन्द्र-मण्डले भुक्त-शेषेण अभ्याशः ह क्षिप्रम् एव, यद् इति क्रिया-विशेषणम्, ते रमणीयां क्रौर्यादि-वर्जितां योनिम् आपद्येरन् प्राप्नुयुः ब्राह्मण-योनिं वा क्षत्रिय-योनिं वा वैश्य-योनिं वा स्व-कर्मानुरूपेण। अथ पुनः ये तद्-विपरीताः कपूयचरण-उपलक्षित-कर्माणः अशुभानुशयाः अभ्याशः ह यत् ते कपूयां यथा-कर्म योनिम् आपद्येरन् कपूयाम् एव धर्म-सम्बन्ध-वर्जितां जुगुप्सितां योनिम् आपद्येरन् श्व-योनिं वा सूकर-योनिं वा चण्डाल-योनिं वा स्व-कर्मानुरूपेण एव। ये तु रमणीय-चरणाः द्वि-जातयः, ते स्व-कर्म-स्थाः चेद् इष्टादि-कारिणः, ते धूमादि-गत्या गच्छन्ति आगच्छन्ति च पुनः पुनः, घटी-यन्त्रवत्। विद्यां चेत् प्राप्नुयुः, तदा अर्चिरादिना गच्छन्ति॥
यदा तु न विद्या-सेविनः न अपि इष्टादि-कर्म सेवन्ते, तदा –
अथ एतयोः पथोः यथोक्तयोः अर्चिर्-धूमादि-लक्षणयोः न कतरेण अन्यतरेण च-न अपि यन्ति। तानि इमानि भूतानि क्षुद्राणि दंश-मशक-कीटादीनि असकृद् आवर्तीनि भवन्ति। अतः उभय-मार्ग-परिभ्रष्टाः हि असकृद् जायन्ते म्रियन्ते च इत्यर्थः। तेषां जनन-मरण-संततेः अनुकरणम् इदम् उच्यते। जायस्व म्रियस्व इति ईश्वर-निमित्त-चेष्टाः उच्यते। जनन-मरण-लक्षणेन एव काल-यापना भवति, न तु क्रियासु शोभनेषु भोगेषु वा कालः अस्ति इत्यर्थः। एतत् क्षुद्र-जन्तु-लक्षणं तृतीयं पूर्वोक्तौ पन्थानौ अपेक्ष्य स्थानं संसरताम्, येन एवं दक्षिण-मार्गगाः अपि पुनरागच्छन्ति, अनधिकृतानां ज्ञान-कर्मणोः अगमनम् एव दक्षिणेन पथेति, तेन असौ लोकः न संपूर्यते
पञ्चमः तु प्रश्नः पञ्चाग्नि-विद्यया व्याख्यातः। प्रथमः दक्षिणोत्तर-मार्गाभ्याम् अपाकृतः। दक्षिणोत्तरयोः पथोः व्यावर्तनापि – मृतानाम् अग्नौ प्रक्षेपः समानः, ततः व्यावर्त्य अन्ये अर्चिरादिना यन्ति, अन्ये धूमादिना, पुनः उत्तर-दक्षिणायने षण्-मासान् प्राप्नुवन्तः संयुज्य पुनः व्यावर्तन्ते, अन्ये संवत्सरम् अन्ये मासेभ्यः पितृ-लोकम् इति व्याख्याता। पुनरावृत्तिः अपि क्षीणानुशयानां चन्द्र-मण्डलाद् आकाशादि-क्रमेण उक्ता। अमुष्य लोकस्य अपूरणं स्व-शब्देन एव उक्तम् तेन असौ लोकः न संपूर्यते इति।
यस्माद् एवं कष्टा संसार-गतिः, तस्माद् जुगुप्सेत। यस्मात् च जन्म-मरण-जनित-वेदनानुभव-कृत-क्षणाः क्षुद्र-जन्तवः ध्वान्ते च घोरे दुस्तरे प्रवेशिताः – सागरे इव अगाधे अप्लवे निराशाः च उत्तरणं प्रति, तस्मात् च एवं-विधां संसार-गतिः जुगुप्सेत बीभत्सेत घृणी भवेत् – मा भूद् एवं-विधे संसार-महोदधौ घोरे पात इति। तद् एतस्मिन् अर्थे एषः श्लोकः पञ्चाग्नि-विद्या-स्तुतये॥
स्तेनः हिरण्यस्य ब्राह्मण-सुवर्णस्य हर्ता, सुरां पिबन् ब्राह्मणः सन्, गुरोः च तल्पं दारान् आवसन्, ब्रह्म-हा ब्राह्मणस्य हन्ता इति एते पतन्ति चत्वारःपञ्चमः च तैः सह आचरन् इति
अथ ह पुनः यः यथोक्तान् पञ्चाग्नीन् वेद, सः तैः अपि आचरन् महा-पातकिभिः सह न पाप्मना लिप्यते, शुद्धः एव। तेन पञ्चाग्नि-दर्शनेन पावितः यस्मात् पूतः, पुण्यः लोकः प्राजापत्यादिः यस्य सः अयं पुण्य-लोकः भवति यः एवं वेद यथोक्तं समस्तं पञ्चभिः प्रश्नैः पृष्टम् अर्थ-जातं वेद। द्विः उक्तिः समस्त-प्रश्न-निर्णय-प्रदर्शनार्था॥

Go to Top ('Home' key on many Windows browsers)

ChanU.5.11 Concerning the Universal Self

दक्षिणेन पथा गच्छताम् अन्न-भावः उक्तः – “तद् देवानाम् अन्नम् तं देवाः भक्षयन्ति” (ChanU.5.10.4) इति। क्षुद्र-जन्तु-लक्षणा च कष्टा संसार-गतिः उक्ता। तदुभय-दोष-परिजिहीर्षया वैश्वानरात्तृ-भाव-प्रतिपत्त्यर्थम् उत्तरः ग्रन्थः आरभ्यते, “अत्सि अन्नं पश्यसि प्रियम्” (ChanU.5.12.2) इत्यादि-लिङ्गात्। आख्यायिका तु सुखावबोधार्था विद्या-संप्रदान-न्यायप्रदर्शनार्था च –
प्राचीनशालः इति नामतः, उपमन्योः अपत्यम् औपमन्यवःसत्य-यज्ञः नामतः, पुलुषस्य अपत्यं पौलुषिः। तथा इन्द्र-द्युम्नः नामतः, भल्लवेः अपत्यं भाल्लविः तस्य अपत्यं भाल्लवेयःजनः इति नामतः, शर्कराक्षस्य अपत्यं शार्कराक्ष्यःबुडिलः नामतः, अश्वतराश्वस्य अपत्यम् आश्वतराश्विः। पञ्च अपि ते ह एते महा-शालाः महा-गृहस्थाः विस्तीर्णाभिः शालाभिः युक्ताः सम्पन्नाः इत्यर्थः, महा-श्रोत्रियाः श्रुताध्ययन-वृत्त-सम्पन्नाः इत्यर्थः, ते एवं-भूताः सन्तः समेत्य सम्भूय क्वचित् मीमांसां विचारणां चक्रुः कृतवन्तः इत्यर्थः। कथम्? कः नः अस्माकम् आत्मा? किं ब्रह्म? इति। आत्म-ब्रह्म-शब्दयोः इतरेतर-विशेषण-विशेष्यत्वम्। ब्रह्म इति अध्यात्म-परिच्छिन्नम् आत्मानं निवर्तयति, आत्मा इति च आत्म-व्यतिरिक्तस्य आदित्यादि-ब्रह्मणः उपास्यत्वं निवर्तयति। अभेदेन आत्मा एव ब्रह्म, ब्रह्म एव आत्मा इति एवं सर्वात्मा वैश्वा-नरः ब्रह्म सः आत्मा इति एतत् सिद्धं भवति, ‘मूर्धा ते व्यपतिष्यत्’ ‘अन्धः अभविष्यः’ इत्यादि-लिङ्गात्॥
ते ह मीमांसन्तः अपि निश्चयम् अलभमानाः सम्पादयाञ्चक्रुः सम्पादितवन्तः आत्मनः उपदेष्टारम्। उद्दालकः वै प्रसिद्धः नामतः, भगवन्तः पूजावन्तः, अयम् आरुणिः अरुणस्य अपत्यं सम्प्रति सम्यग् इमम् आत्मानं वैश्वा-नरम् अस्मदभिप्रेतम् अध्येति स्मरति। तं हन्त इदानीम् अभ्यागच्छाम इति एवं निश्चित्य तं ह अभ्याजग्मुः गतवन्तः तम् आरुणिम्॥
सः ह तान् दृष्ट्वा एव तेषाम् आगमन-प्रयोजनं बुद्ध्वा सम्पादयाञ्चकार। कथम्? प्रक्ष्यन्ति मां वैश्वा-नरम् इमे महा-शालाः महा-श्रोत्रियाः, तेभ्यः अहं न सर्वम् इव पृष्टं प्रतिपत्स्ये वक्तुं न उत्सहे। अतः हन्त अहम् इदानीम् अन्यम् एषाम् अभ्यनुशासानि वक्ष्यामि उपदेष्टारम् इति
एवं सम्पाद्य –
तान् ह उवाचअश्व-पतिः वै नामतः भगवन्तः अयं केकयस्य अपत्यं कैकेयः संप्रति सम्यग् इमम् आत्मानं वैश्वा-नरम् अध्येति इत्यादि समानम्॥
तेभ्यः ह राजा प्राप्तेभ्यः पृथक् पृथग् अर्हाणि अर्हणानि पुरोहितैः भृत्यैः च कारयांचकार कारितवान्। सः ह अन्येद्युः राजा प्रातः संजिहानः उवाच विनयेन उपगम्य – एतद् धनं मत्तः उपादध्वम् इति। तैः प्रत्याख्यातोः मयि दोषं पश्यन्ति नूनम्, यतः न प्रतिगृह्णन्ति मत्तः धनम् इति मन्वानः आत्मनः सद्वृत्ततां प्रतिपिपादयिषन् आह – न मे मम जन-पदे स्तेनः परसु अहर्ता विद्यते। न कदर्यः अदाता सति विभवे। न मद्य-पः द्वि-जोत्तमः सन्। न अनाहिताग्निः शत-गुः। न अविद्वान् अधिकारानुरूपम्। न स्वैरी पर-दारेषु गन्ताः। अतः एव स्वैरिणी कुतः, दुष्ट-चारिणी न सम्भवति इत्यर्थः। तैः च ‘न वयं धनेन अर्थिनः इत्युक्तः’ आह – अल्पं मत्वा एते धनं न गृह्णन्तीति, यक्ष्यमाणः वै कतिभिः अहोभिः अहं हे भगवन्तः अस्मि। तदर्थं क्लृप्तं धनं मया यावद् एकैकस्मै यथोक्तम् ऋत्विजे धनं दास्यामि, तावत् प्रत्येकं भगवद्भ्यः अपि दास्यामिवसन्तु भगवन्तः, पश्यन्तु च मम यागम्॥
इति उक्ताः –
ते ह ऊचुःयेन ह एव अर्थेन प्रयोजनेन यं प्रति चरेत् गच्छेत् पुरुषः, तं ह एव अर्थं वदेत्। इदम् एव प्रयोजनम् आगमनस्य इति अयं न्यायः सताम्। वयं च वैश्वा-नर-ज्ञानार्थिनः। आत्मानम् एव इमं वैश्वा-नरं संप्रत्यध्येषि सम्यग् जानासि। अतः तम् एव नः अस्मभ्यं ब्रूहि
इति उक्तः –
तान् ह उवाचप्रातः वः युष्मभ्यं प्रतिवक्ता अस्मि प्रति-वाक्यं दाता अस्मि इति उक्ताः ते ह राज्ञः अभिप्रायज्ञाः समित्-पाणयः समिद्-भार-हस्ताः अपरेद्युः पूर्वाह्णे राजानं प्रतिचक्रमिरे गतवन्तः। यतः एवं महा-शालाः महा-श्रोत्रियाः ब्राह्मणाः सन्तः महा-शालत्वाद्यभिमानं हित्वा समिद्-भार-हस्ताः जातितः हीनं राजानं विद्यार्थिनः विनयेन उपजग्मुः। तथा अन्यैः विद्योपादित्सुभिः भवितव्यम्। तेभ्यः च अदाद्विद्याम् अनुपनीय एव उपनयनम् अकृत्वा एव। तान् यथा योग्येभ्यः विद्याम् अदात्, तथा अन्येन अपि विद्या दातव्या इति आख्यायिकार्थः। एतद् वैश्वानर-विज्ञानम् उवाच इति वक्ष्यमाणेन सम्बन्धः॥

Go to Top ('Home' key on many Windows browsers)

ChanU.5.12 The Head of the Vaiśvā-nara Self

सः कथम् उवाच इति, आह –
औपमन्यव हे, कम् आत्मानं वैश्वा-नरं त्वम् उपास्से इति पप्रच्छ। ननु अयम् अन्यायः – आचार्यः सन् शिष्यं पृच्छति इति। न एषः दोषः, “यद् वेत्थ तेन मा उपसीद ततः ते ऊर्ध्वं वक्ष्यामि” (ChanU.7.1.1) इति न्याय-दर्शनात्। अन्यत्र अपि आचार्यस्य अप्रतिभावनवति शिष्ये प्रतिभोत्पादनार्थः प्रश्नः दृष्टः अजात-शत्रोः, “क्व एषः तदाभूत् कुतः एतद् आगात्” (BrhU.2.1.16) इति। दिवम् एव द्यु-लोकम् एव वैश्वा-नरम् उपासे भगवः राजन् इति ह उवाचएषः वै सुतेजाः शोभनं तेजः यस्य सः अयं सुतेजाः इति प्रसिद्धः वैश्वा-नरः आत्मा, आत्मनः अवयव-भूतत्वात्। यं त्वम् आत्मानम् आत्मैक-देशम् उपास्से, तस्मात् सुतेजसः वैश्वा-नरस्य उपासनात् तव सुतम् अभिषुतं सोम-रूपं कर्मणि प्रसुतं प्रकर्षेण च सुतम् आसुतं च अहर्-गणादिषु तव कुले दृश्यते। अतीव कर्मिणः त्वत्-कुलीनाः इत्यर्थः॥
अत्सि अन्नं दीप्ताग्निः सन् पश्यसि च पुत्रपौत्रादि प्रियम् इष्टम्। अन्यः अपि अत्ति अन्नं पश्यतिप्रियं भवतिअस्य सुतं प्रसुतम् आसुतम् इत्यादि कर्मित्वं ब्रह्म-वर्चसं कुले, यः कश्चित् एतं यथोक्तम् एवं वैश्वा-नरम् उपास्तेमूर्धा तु आत्मनः वैश्वा-नरस्य एषः, न समस्तः वैश्वानरः। अतः समस्त-बुद्ध्या वैश्वा-नरस्य उपासनात् मूर्धा शिरः ते विपरीत-ग्राहिणः व्यपतिष्यत् विपतितम् अभविष्यत् यत् यदि मां न आगतः अभविष्यः। साधु अकार्षीः यद् माम् आगतः असि इत्यभिप्रायः॥

Go to Top ('Home' key on many Windows browsers)

ChanU.5.13 The Eye of the Vaiśvā-nara Self

अथ ह उवाच सत्य-यज्ञं पौलुषिम् – हे प्राचीन-योग्य कं त्वम् आत्मानम् उपास्से इतिआदित्यम् एव भगवः राजन् इति ह उवाच। शुक्ल-नीलादि-रूपत्वाद् विश्व-रूपत्वम् आदित्यस्य, सर्व-रूपत्वाद् वा, सर्वाणि रूपाणि हि त्वाष्ट्राणी यतः, अतः वा विश्व-रूपः आदित्यः। तद्-उपासनात् तव बहु विश्व-रूपम् इहामुत्रार्थम् उपकरणं दृश्यते कुले
किंच त्वाम् अनु –
प्रवृत्तः अश्वतरीभ्यां युक्तः रथः अश्वतरी-रथः दासी-निष्कः दासीभिः युक्तः निष्कः हारः दाशी-निष्कः। अत्सि अन्नम् इत्यादि समानम्। चक्षुः वैश्वा-नरस्य तु सविता। तस्य समस्त-बुद्ध्योपासनात् अन्धः अभविष्यः चक्षुर्हीनः अभविष्यः यद् मां न आगमिष्यः इति पूर्ववत्॥

Go to Top ('Home' key on many Windows browsers)

ChanU.5.14 The Prāṇa of the Vaiśvā-nara Self

अथ ह उवाच इन्द्र-द्युम्नं भाल्लवेयम्वैयाघ्र-पद्य कं त्वम् आत्मानम् उपास्से इत्यादि समानम्। पृथग्-वर्त्मा नाना वर्त्मानियस्य वायोः आवहोद्वहादिभिः भेदैः वर्तमानस्य सः अयं पृथग्-वर्त्मा वायुः। तस्मात् पृथग्-वर्त्मात्मनः वैश्वा-नरस्य उपासनात् पृथक् नाना-दिक्काः त्वां बलयः वस्त्रान्नादि-लक्षणाः बलयः आयन्ति आगच्छन्ति। पृथग्-रथ-श्रेणयः रथ-पङ्क्तयः अपि त्वाम् अनुयन्ति